पञ्चकुल्या
मूलंश्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।
यं देवी सुषुवे कवित्वशिखरं दुर्गाप्रसादान्निजे
क्रोडेशुक्तिनिभे विमौक्तिकतनुं वन्द्याऽभिराजी सुतम्।
श्रीदेवेन्द्रसुरेन्द्रमध्यममणि राजेन्द्रमिश्रोऽनघः
हृत्तुष्ट्यै तनुते ललामकवितां श्रीशारदार्चोपमाम्।।
विमानयात्राशतकम्
बहिर्भागेऽथ देहल्याः पालमाख्ये मनोहरे।
विमानं तन्मया दृष्टं चारुवर्णं प्रभोज्ज्वलम्।।१
उत्पत्तिष्णु स्फुरत्पक्षं हूङ्कुर्वाणं शनैः शनैः।
पर्याकुलम् च बालानां चालकानां गतागतैः।।२
अधोभागस्थितैर्भृत्यैः पूर्यमाणं मुहुर्मुहुः।
यथापेक्षितसामग्र्या यथेच्छमिन्धनादिभिः।।३
अथारोहणकालोऽपि सम्प्राप्तश्चिरकांक्षितः।
‘ऐंह्रीं क्लीमों’ समुच्चार्य विमाने कृतमास्पदम्।।४
दर्शं दर्शं च विच्छित्तिं वैमानीमान्तरङ्गिकीम्।
परमं विस्मयं भेजे मानसं चित्रमेदुरम्।।५
क्वचिच्चित्रलसद्भित्तौ पानगोष्ठीमहोत्सवः।
क्वचिदङ्कस्थवामोरुचुम्बनादिविधानकम्।।६
क्वचिदारण्यवृत्तान्तः क्वचिन्नागरवीथिका।
क्वचित्तरूविहङ्गानां तौर्यत्रिकविनोदनम्।।७
गवाक्षैर्वर्तुलाकारैर्बहुसंख्यैरकल्मषैः।
साक्षादिव सहस्राक्षो विमानं तददृश्यत।।८
एवमादि च साश्चर्यं चिन्त्यत्येव मय्यथ।
वारिवाह इवोद्भ्रान्तो वायुयानं चचाल तत्।।९
पश्चादादौ तयस्तिर्यक् सम्मुखं चाप्यनन्तरम्।
शनैः शनैस्ततस्तूर्णं मध्ये तूर्णंतरं पुनः।।१०
अथोवाचा गिरा मृद्व्या चालकान्यतमो युवा।
प्रमादो नैव कर्तव्यो यानमुद्याति साम्प्रतम्।।११
बन्ध आसन्दिकालग्नो नियन्तव्यः प्रयत्नतः।
वातायानं पिधातव्यं लोकनीयं न वा बहिः।।१२
मध्येयानं कृतस्थाने घोषयत्येव चालके।
युगान्तघर्घंरारावोऽकस्मादेव समुत्थितः।।१३
ततस्तूर्णतमैर्वेगैर्धावमानं महाजवम्।
विमानं वसुधां हित्वा नभोमण्डलमाययौ।।१४
ऊर्ध्वस्कन्धं स्फुरद्गत्या निमेषैः कैश्चिदेव हि।
चन्द्रतारकमध्यस्थं विमानं तद्बभौ ततः।।१५
प्राणरक्षापरीधानधारणस्य प्रदर्शनम्।
सविलासं सविब्बोकं सुमुखीभ्यां समाहितम्।।१६
एवमादिषु पूर्णेषु विमानं तन्निराकुलम्।
निश्चलं ननु निष्कम्पं जातं शमितघर्घरम्।।१७
अभून्मनसि सोत्कण्ठे यथा स्वाध्यायकक्षके।
तिष्ठन्निर्मक्षिकं काञ्चित् पत्रिकां प्रपठाम्यहम्।।१८
अथ क्रमः समारब्धः सपीतेः स्नेहमेदुरः।
अनन्नासरसो जातु नारङ्गकरसोऽथवा।।१९
कदाचिदुष्णपेयं वा चायकाफीसमाह्वयम्।
लेह्यं चोष्यं क्वचिन्मध्ये विविधः फलसञ्चयः।।२०
नोऽधिकं सर्वमानीतं मदिराक्ष्या कराम्बुजैः।
वैशम्पायनकस्यास्य निर्भरं ह्यमृतैयितम्।।२१
चलचित्रं ततश्चाङ्ग्ल्यां चारूवृत्तं प्रदर्शितम्।
नयनासेचनं जातं पर्थिवं गगनेऽप्यहो।।२२
यथा वा जननीक्रोडे श्रृण्वन् बालो लयेरिकाम् ।
सुखं स्वपिति निर्द्वन्द्वो यात्रिवर्गस्तथागतिः।।२३
हिन्दोलितहृषीकाणां यात्रिणां सुखनिद्रया।
सान्ध्यकोकनदच्छायं नेत्रजातमलक्ष्यत।२४
किञ्चित्कालान्तरे तावत् वीतनिद्रे प्रबोधिते।
अशेषे यात्रिसन्दोहे विस्मयः परिलक्षितः।।२५
आकाशाच्चाऽप्यधोऽभागे प्राचीमूले विभावसुः।
तप्तजाम्बूनदच्छायः समुदेति शनैः शनैः।।२६
व्यलीकां कालिदासोक्तिं मेने दृष्टवा तदद्भुतम्।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्।।२७
चतुर्वादनवेलेयं घटीयन्त्रप्रमाणत।
भारते नैशकालोऽयं जायते नात्र संशयः।।२८
सूर्योदयपथे किन्तु वर्धमाने विमानके।
होराद्वयक्षयो जातः कालमाने सुनिश्चितम्।।२९
निमेषैंरेव पश्यामः कुवालालम्पुरं वयम्।
जुघोषेति लसद्वाचा वायुयानप्रबन्धकः।।३०
आर्द्रवस्त्राणि दत्तानि मुखप्रोञ्छनहेतवे।
प्रातराशश्च सुस्वादुरुपहारीकृस्ततः।।३१
प्रभातं प्रथमं व्योम्नि जीवने परिलक्षितम्।
स्मृत्वा सर्वं महच्चित्रं रोमहर्षो नु जायते।।३२
दीप्ते भवति बालार्के प्रस्फुटे खगगायने।
मलेशियालसद्भूमिं विमानं समवातरत्।३३
अत्रत्या यात्रिणः सर्वे विमानात् समवातरन्।
अन्ये याने स्थिरा जाताः सिंगापुरयियासवः।।३४
अर्धहोरान्तरं यानंपुनरुड्डीय लम्पुरात्।
सिंगापुरमगात्तूर्णं भूमिस्पर्शं चकार च।।३५
तत्रावरूह्य विश्रामो यावद्धोरात्रयं मया।
कृतः शरीरसौख्याय पुनर्यात्राप्रतीक्षया।।३६
चारं चारं मया दृष्टं विमानस्थलमण्डपम्।
प्रत्यक्षसिद्धमासीद्वै येन विज्ञानवैभवम्।।३७
नावरोहणदुर्भीतिर्नारोहणपरिश्रमः।
नवा पर्यटनापेक्षा सर्वं यन्त्रं व्यवस्थितम्।।३८
आरोहयति सोपानं मनुजं यंत्रचालितम्।
तिष्ठन्तं फलके यत्नात् यथाकांक्षितभूमिकाम्।३९
पृष्ठोपरि च संवाह्य दूरं नयति यात्रिणम्।
संस्थापयति वा तूर्णं यथेप्सितमधस्तलम्।।४०
तत्र दृष्टवा तु विक्रेयं वस्तुजातं मनस्यभूत्।
यथा माघवनी नूनं समृद्धिः संहता भवेत्।।४१
दृष्टिबन्धक्षमं वस्त्रं विविधाकारवर्णकम्।
दूरदर्शनयन्त्राणि छुल्लकानि बृहन्ति च।।४२
छायाचित्राङ्कने दक्षं यन्त्रं त्रिपदसंस्थितम्।
दृष्टं लघु लघीयो वा लघिष्ठं च पुनः पुनः।।४३
राजराजोऽपि तत्रस्थान् पदार्थान् क्रेतुमक्षमः।
सम्पदा स्वीयया सर्वान् मनसा चिन्तितम्मया।।४४
तत्रैवाऽमेरिकादेशे नियुक्तः कोऽपि सज्जनः।
संयोगादान्ध्रदेशीयः जातो मम सुहृद्वरः।।४५
दीर्घे वार्ताक्रमे रम्ये तेन सार्धं प्रवर्तिते।
कदा कालो व्यतीयायेत्यवगन्तुं न पारितम्।।४६
विसृष्टोऽसौ मया प्रीत्या तेन चाहं समार्दवम्।
उभावपि प्रतिस्थाते नव्ययात्राभिकांक्षया।।४७
पुनरत्रापि सञ्जातं पाथेयपिटकेक्षणम्।
यन्त्रैर्ममापि सम्भूतं रक्षादृष्ट्या परीक्षणम्।।४८
सिंगापुरविमानेन यात्रेदानीं प्रवर्तिता।
अपराह्णे स्फुटालोकै वातायनविलोकिता।।४९
नीलाम्भोधिरधोभागे नीलाकाशश्च शीर्षके।
ज्ञातुं नाशाकि यत्नैर्भोः कियद्व्योम कियज्जलम्।।५०
उच्चैर्नीचैश्च सर्वत्र नीलाम्बरमभासत।
एकरूपं जलं व्योम हन्त सर्वं विलक्षणम्।५१
विमानाधस्तले कीर्णा असंख्या श्वेतवारिदाः
दूर्वास्थल्यामभासन्त चरन्तो मेषशावकः।।५२
कदाचित्कीर्णंमेघालीं संविदार्य सरत्पुनः।
यानं बभौ शरत्काले काशकान्तारपारगम्।।५३
विमाने संमुखीने वै मेघखण्डाः पलायिताः।
यथा जाङ्गलिकं दृष्ट्वा पलायन्ते भियाऽर्भकाः।।५४
उपरिष्टादधस्ताद्वा वामदक्षिणपार्श्वतः।
अक्षता जर्जरा मेघा यानमाहत्य विद्रुताः।।५५
वारिदानामियं क्रीडाऽप्याजकार्तं प्रवर्तिता।
अचिन्त्या पृथिवीस्थानामदृश्या चापि यत्नतः।।५६
क्वचित्पुनर्घनीभूतमेघसन्दोहमध्यगम्।
नालुलोके यदा यानं मुक्ततारापथं चिरम्।।५७
तदा हिन्दोलनभ्रान्त्या विमानं चालयन् कृती।
मेघपाशविमुक्त्यर्थं प्रयासान् कृतवान् स्वयम्।।५८
एवमाचरते तस्मै स्वस्तिवादं प्रयच्छतः।
मानसे शङ्क्याऽकीर्णे जातं भयमथोल्बणम्।।५९
क्वचित्पुनः पयोदानामखण्डा पर्वंसन्ततिः।
दृश्यते स्म विमानस्य निम्नभागे सुविस्तृता।।६०
तूलराशौ यथा काचित्तित्तली प्लवते सुखम्।
तादृशी सुषमा नूनं वायुयानस्य संबभौ।।६१
हिमराशौ यथोड्डीनं भवताद् देवपुष्पकम्।
तादृशी ननु विच्छित्तिर्वायुयानस्य संबभौ।।६२
यता वा शुभ्रकैलाशे वल्गते शम्भुवाहनः।
तादृशं ननु सौन्दर्यं वायुयानस्य संबभौ।।६३
मनसा चिन्तयत्येवं यानं मयि महाजवम्।
जयकर्तेति विख्यातं नगरान्तिकमाययौ।।६४
विमानेऽवनतीभूते स्फुटं जातं महीतलम्।
चित्रकृत्तूलिकाकृष्टालेख्यसाधनिकोपमम्।।६५
यथालेख्ये क्वचिद्गाढैर्वर्णंयोगैर्महीधरम्।
वर्णविस्तारणैर्वीथीं मालभूमिञ्च गह्वरम्।।६६
रेखया सरितं वक्रां विहगं हर्म्यमन्दिरम्।
चित्रकारो विनिर्माति वस्तुना कल्पनेन च।।६७
विमानादेवमाभाति नीचैः स्थितमहीतलम्।
वैधातृकं महच्चित्रं न भूतं भावी नोऽथवा।।६८
अथाहमतिथीभूतश्चतुस्तारकहोटले।
भारतराजदूतस्य सारीपेसिफिकाभिधे।।६९
जकार्तानगरे रम्ये केन्द्रस्थाने निवेशितः।
चतुर्दशतमायां वै भूमिकायां निशामुखे।।७०
तस्य नैशविहारस्य विलोक्य संविधानकम्।
लघुता प्रस्फुटा जाता विधिसृष्टेरपि ध्रुवम्।।७१
विभिन्नविश्वराष्ट्राणां प्रवेशद्वारपट्टके।
आसीद्यन्त्राङ्कितं तत्र कालमानं पृथक् पृथक्।।७२
अत्रासीत् शोभना संध्या निशीथः क्वापि गत्वरः।
क्वचित्प्रभातं पूर्वाह्णोऽपराह्णश्चाथवा क्वचित्।७३
सर्वं निभाल्य सामोदं महिम्ना यन्त्रशास्त्रिणाम्।
हस्तामलकवज्जाता वसुधा भूरिविस्तरा।७४
स्वयमुद्घाटितः प्राप्ते गते च स्वयमावृतः।
अक्षिलक्ष्यीकृतस्तत्र कपाटश्चात्मयन्त्रितः।।७५
जकार्तानगरी रम्या चलद्वाहनचञ्चला।
स्फुरन्ति विद्युतां दीपैः कोलाहलविवर्जिता।।७६
निचिता लोकसम्मर्दैः गीतध्वनिविनोदिनी।
वलभीगोपुरद्वारसौधशृङ्गशतावृता।।७७
जीवताऽपि मया सम्यक् स्वर्गस्थेनेव लोकिता।
अन्तरिक्षावलम्बाऽसौ पुरुहूताऽमरावती।७८
शयितव्यं निकामं नो रात्रावासीत् तथापि मे।
जातशङ्कस्य बालस्य यथाऽसंस्तुततल्पके।।७९
प्रातरुत्थाय सोत्साहं सम्पादितमितक्रियः।
श्रीमद्विनोदखन्नाख्यं राजदूतमुपाश्रितः।।८०
कौंसलर्पदवीरूढं सुहृदं भाटियाभिधम्।
अपश्यं स्नेहसम्मुग्धान् दूतावासकुटुम्बिनः।।८१
द्वितीयः सचिवः स्निग्धः श्रीकरारिमहोदयः।
स्निह्यन मयि सवात्सल्यं जातो ननु ममाग्रजः।।८२
तेन सार्धं मया दृष्टो राष्ट्रियः संग्रहालयः।
इण्डोनेशियराष्ट्रस्य ऐतिह्यपरिचायकः।।८३
बालीजावासुमात्राणां कालीमन्तानकस्य च।
लोम्बोकमदुरादीनामीरियञ्जयवासिनाम्।।८४
विविधान्यस्त्रशस्त्राणि कलाशिल्पसम्मुच्चयः।
प्रयत्नरक्षितान्यासन् नृकपालादि तत्र वै।।८५
लक्षसंख्यः कथं ह्येको राष्ट्रवासी प्रतीयते।
गत्वान्याऽन्येषु राष्ट्रेषु ज्ञातुमेतद्धि शक्यते।।८६
अथ त्रिवादने जाते सर्वं त्यक्त्वा समागतः।
सुकर्णहट्टानामानं विमानस्थलमण्डपम्।।८७
गरूडं ह्यधिरूठेन मध्येमार्गं मयोहितम्।
जीवो ब्रह्मैव यत्सत्यं विष्णुरूपमहं गतः।।८८
विष्णोरंशं समाधाय गरूडो मां वहत्ययम्।
स्वयं विमानीभूयापि मे प्रतिष्ठां प्रयच्छति।।८९
इत्येवं चिन्तयत्येव मयि यानं समुपच्छ्रितम्।
आससादासितव्योम दधानं मेघगर्जनम्।।९०
उद्यितासु समुत्प्रेक्ष्य विमानं भूरिविक्रमम्।
सुधार्थी गरुडः साक्षात् युयुत्सुः परिकल्पितः।।९१
गरुडो यानरूपोऽसौ विनतानन्ददायकः।
प्राच्यां ससार वेगेन घनमालां विदारयन्।।९२
नीचैः रत्नाकरोऽपारः क्षितिजे व्योमसङ्गतः।
समालोकि पयोहीनशुभ्रवारिदकर्वुरः।।९३
ग्रामग्रामटिकाक्षेत्रनदीपर्वतमन्दिरम्।
प्रत्यलक्ष्यत तत्सर्वं सुस्पष्टं लघुरूपकम्।।९४
होरामात्रे गते काले न्गुराहरायसंज्ञके।
वालिद्वीपस्य वायव्ये रुचिरे यानमण्डपे।।९५
घूर्णन् गर्जन् श्वसंश्चण्डं पूत्कुर्वाणश्च मेदुरम्।
गरुडोऽवततारासौ सान्त्वितश्चालकैस्ततः।।९६
तत्र प्रत्युद्गतश्चाहं प्रीत्या शिक्षाधिकारिणा।
श्रीमत्सुपर्वताख्येन नीतश्चावासमन्दिरम्।।९७
पथिगच्छन्नुदैनाख्यं विश्वविद्यालयं शुभम्।
अपस्यं स्वप्नसन्दृष्टं नियुक्तिर्यत्र मे मता।।९८
धर्मप्रसारनाम्नीयं राजधानी सुविश्रुता।
वाटिकेव समाभाति वालीद्वीपस्य गर्भगा।।९९
नारीकेलवनीच्छन्ना कदलीमण्डपावृता।
रसालैः पनसैश्चापि क्वचिद् द्वारि विमण्डिता।।१००
पर्यायेण प्रकृतिसुलभाः प्रत्यहं वारिवाहाः
पीयूषाम्बुप्रचुरलहरीमुद्गिरन्तो निकामम्।
सन्तप्ताङ्गान् सरणिमभितश्शाखिनो भावयन्तः
सेवावृत्तिं परमगहनामत्रसम्पादयन्ति।।१०१
नित्यस्मेरा वसनकृपणाः प्रोन्नतोरोजवत्यः
नातिप्रौढाश्चटलनयनाः स्वर्णचाम्पेयवर्णाः।
संसेवन्ते समुदितदया रागिणां प्रोषितानां
अत्र स्वीयैर्विनतवचनैर्मानसं चन्द्रमुख्यः।।१०२
विख्यातेयं शिवगुरुपुरी डेन्पसारेतिनाम्नी
उत्कल्लोलैश्चपलजलधेः क्षालिताङ्घ्रर्नितान्तम्।
कौवेरीयां श्रियमनुपमामापणेष्वादधाना
कुर्यात्केषां परिचयवतां विस्मयं नात्मरूपैः।।१०३
इति प्रोषितपथिकेन मिश्रोपाह्वेनाभिराजराजेन्द्रेण
विरचितं विमानयात्राशतकाख्यं काव्यं
परिसमाप्तम्।
बालीप्रत्यभिज्ञानशतकम्
सर्वसौख्यप्रदातारं योगक्षेमानुचिन्तकम्।
वन्दे बालीश्वरं नित्यम् अचिन्त्यं परमेश्वरम्।।१
महामेरुकृतावासं सोमं सामर्त्यमण्डलम्।
नौमि भक्त्या महेशानं गुनुंगागुंगराजितम् ।।२
एक एव त्रिधाऽऽत्मानं संविभज्य विराजते।
नमस्तस्मै महेशाय शूलिने जगदात्मने।।३
नौमि ब्रह्मशिवं शम्भुं राजसं धातृविग्रहम्।
विष्णुरूपधरं नौमि सात्त्विकं च सदाशिवम्।।४
शिवरूपधरं वन्दे तामसं परमं शिवम्।
वन्दे त्रिदेवतायोनिं शङ्करं परमेश्वरम्।।५
विकृतं तं पुनर्वन्दे भटारकालसंज्ञितम्।
मृत्युपर्यायभूतं तं शम्भुसूनुं भयङ्करम्।।६
उमां शम्भुप्रियां नौमि सर्वसौभाग्यदायिनीम्।
विकृतौ या भवेद् दुर्गा संहारणविहारिणी।।७
वन्दे भटारसंज्ञांस्तान् त्रिदशान् शम्भुविस्तरान्।
वरुणेन्द्रकुबेराग्निगुरुस्कन्दगणान्मुदा।।८
ततश्च शाम्भवं रूपं प्रपन्नान् प्रणमाम्यहम्।
पितृंश्च संघयांगाख्यान् कवितानान् मृदूदरान्।।९
एकमादौ त्रिधा पश्चात् ततश्चापि बहुप्रभम्।
महाशम्भुमहं वन्दे देवं त्रिभुवनात्मकम्।।१०
मेखलीकृतपाथोधिं चतुर्दिक्षु ततः परम्।
धरारत्नमहं वन्दे बालीद्वीपं हिरण्मयम्।।११
विषमासमपृथ्वीकं द्रुमशैलवनान्वितम्।
सान्द्रवेणुमहारण्यं नारिकेलजयध्वजम्।।१२
फलभाराधिकाऽऽनर्मैर्मोचाविटपिभिर्युतम्।
सल्लकोद्यानविस्तीर्णं शालिक्षेत्रोपभूषितम्।।१३
सुजलं सुफलं रम्यं शान्तवायुमहर्निशम्।
द्वीपोत्तमं समीडेऽहं हिन्दुधर्मसमाश्रितम्।।१४
आदिमे ननु ख्रिस्ताब्दे पारेसागरमागता।
भारती संस्कृतिर्यत्र स्थापिताऽभूद्यशस्विनी।।१५
वेदमन्त्रमयी दिव्या पौराणिककथाश्रिता।
विश्ववारा वभौ याऽत्र दधद्रामयुधिष्ठिरा।।१६
वेदशीर्षाभिघे रम्ये पत्तने सुमहालये।
शशास यत्र शत्रुघ्नो दानवेन्द्रो मयाभिधः।।१७
तं जघान शिवाऽज्ञप्तो विबुधेन्द्रोऽथ वासवः।
बाटुराद्रिमहासानौ धृतदम्भोलिसम्बलः।।१८
मयरक्तप्रवाहौघात् समूदभूता ततो नदी।
दृश्यतेऽद्यापि गम्भीरा पितानू तत्र वेगिनी।।१९
यज्जलं मयरक्ताभं मन्यमाना महाऽशुचि।
कृषाणा बालीदेशस्य न प्रयुञ्जति सेचने।२०
नाम्ना तीर्थामृतं ख्यातं सुरसिन्धुप्लवामलम्।
तीर्थोत्तमं ततो वन्दे तम्पाक्सिरिङ्नीवृति।।२१
मयोत्पादितमापीय विषाक्तं यत्र जीवनम्।
जीवनं किल देवानां संशयापन्नमाबभौ।।२२
देवसेनां मृतां दष्ट्वा शत्रुयुक्तिं विचिन्तयन्।
ततो वज्र प्रहारेण गंगामिन्द्रस्समानयत्।।२३
स्रोतस्तदेव पीयूषप्राणकल्पं पुरातनम्।
तीर्त-एम्पुलनाम्नैव महावाप्यां विराजते।।२४
तज्जलं बहिरागत्य धर्धरारावसंयुतम्।
महावेगं महादीर्घं दृश्यते ननु भैरवम्।।२५
नदीभूय सरत्यग्रे तदेव सलिलं पुनः।
तटस्तीर्थसंसक्तं सान्द्रकुञ्जपथान्वितम्।।२६
सिद्धसिन्धुस्वरूपा सा पकेरिसानसंज्ञका।
पूततोया नदी रम्या बालीद्वीपं पुनाति वै।।२७
एतदेव जलं गाङ्गं धर्मसंकारपर्वणि।
पमंकुभिः पडण्डैश्च मन्दिरेषु प्रयुज्यते।।२८
पितानू-पकरीसाननद्योर्मघ्येऽप्यवस्थितम्।
क्षेत्रं बालीपुराणेषु ख्यातं नाम्नाऽमरावती।।२९
साम्प्रतं द्वीपभूमीनां प्रत्यभिज्ञानमुच्यते।
विदुषां सुखबोधाय भारते दूरवर्तिनाम्।।३०
उत्तरस्यां बुलेलेङ्गं बादुङ्गं दक्षिणाञ्चले।
वारुण्यां जेम्बरानं च तबानानं ततः परम्।।३१
ग्यान्यारं चापि पूर्वस्यां करंगासममण्डलम्।
आग्नेय्यां क्लुंगकुंगञ्च बांगली घूर्जटेदिशि।।३२
कमिश्नरीतिख्याताभिरेवमष्टाभिरञ्चितम्।
द्वीपं रुद्राष्टमूर्तित्वं साधु पुष्णाति साम्प्रतम्।।३३
मण्डले बांगलीनाम्नि उत्तरे तीर्त-एम्पुलात्।
स्थितं चिन्तामणिं वन्दे पुण्यसम्भारभाजनम्।।३४
यत्र नीलजलं रम्यं द्वितीयमिव मानसम्।
सरोवरं प्रविस्तीर्णं लक्ष्यते महदद्भुतम्।।३५
ज्वालामुखाद्रिसंसक्तं बाटुराङ्घ्रिसमन्वितम्।
नगानां श्रृंखलाभिश्च सर्वतोऽपि दृढीकृतम्।।३६
दक्षिणे खलु यत्तीरे ग्रामष्ट्रन्याननामकः।
शवा यत्र न दाह्यन्ते निखन्यन्तेऽथवा भुवि।।३७
श्मशानवृक्षमाहात्म्यान्निर्गन्धा निरुपद्रवाः।
शनैः शनैः प्रलीयन्ते प्रकृत्यैव परासवः।।३८
तरुन्मन्यानसंज्ञोऽसावक्षिलक्ष्यीकृतो मया।
द्रुमः प्रेतवने यस्माद् ग्रामसंज्ञा प्रवर्तिता।।३९
विचित्रां तां प्रथां द्रष्टुं प्रत्यहं कुतुकान्विताः।
यात्रिणस्तत्र गच्छन्ति विदेशेभ्यस्समागताः।।४०
यन्त्रचालितनौकाभिश्चिन्तामणिसरोवरम्।
अतिक्रम्य प्रवर्तन्ते यात्रिणस्ते प्रतिक्षणम्।।४१
बिरिङ्गिनतरुर्ग्रामे कूर्चहीनोऽवलोक्यते।
परम्पुआनसंज्ञोऽसौ नारीरूपेण संस्थितः।।४२
ज्वालामुखो बाटुराद्रिः साम्प्रतं मौनमास्थितः।
बालीनिवासिभिर्नित्यं देवरूपेण पूज्यते।।४३
पूर्वं ज्वालामुखोद्गारिभ्रष्टश्रृङ्गस्सुदारुणः।
अद्यापि शक्यते द्रष्टुं दूरादेवातिभैरवः।।४४
पुराणां पञ्चसाहस्रीं जनानाञ्च सहस्रकम्।
षड्विंशतितमे ख्रैस्ते बभञ्ज भूधरो न्वयम्।।४५
पुरं पनलुसानाख्यं यद्वा शुकवनाभिधम्।
नातिदूरे स्थितं तत्र बाटुराद्रिशिरःस्थले।।४६
राजते यत्र देवानां समेषां विग्रहावली।
योनिलिङ्गान्यपीक्ष्यन्ते यत्नसंरक्षितानि वै।।४७
एकादशतमे ख्रैस्ते देवोदयनविग्रहः ।
राराज्यते शिलोत्कीर्णों मन्दिरेऽस्मिन्पुरातने।।४८
लक्ष्मीर्विष्णुर्गजेन्द्रास्यश्चतुर्वक्त्रोऽथवा विधिः।
प्रकीर्णास्तत्र दृश्यन्ते यक्षगन्धर्वराक्षसाः।।४९
महामेरुं ततो वन्दे प्राच्यां दिशि विराजितम्।
अगुंगाख्यं महाशैलं करंगासममण्डले।।५०
वाल्मीकिरपि यंशैलं ववन्दे शिशिराभिधम्।
दिवं स्पृशन्तं श्रृंगेण देवदानवसेवितम्।।५१
समुच्छवसितचाम्पेयामोदभारविभङ्गुरम्।
नारिकेलवनीरम्यं कदलीषण्डमण्डितम्।।५२
रसालजम्बुजम्बीरपूगीसलकशोभितम्।
सहस्रलक्षसंख्याकैर्वृतञ्च व्रततीचयैः।।५३
मेरुभिर्मन्दिराणां च मण्डितं नु शताधिकैः।
ज्वालोद्वमनशीर्णोच्चश्रृङ्गकं भूधरं भजे।।५४
परिदौ सप्तक्रोशानां पुराणां पञ्चविंशतिः।
व्योमनद्धध्वजाग्राऽसौ महामेरौ विराजते।।५५
सकृच्छततमे वर्षे रुद्रैकादशपूजनम्।
पूर्यते दशमे चापि पूजापञ्चबलिक्रमः।।५६
षट्सप्ततिमिते ख्रैस्ते पूरिताऽऽद्या समर्चना।
द्वितीया चापि मद्भाग्यैः साम्प्रतं प्रविधीयते।।५७
न्येपीदिनात्समारब्धा मासं यावत्प्रवर्त्यते।
महाकुम्भनिभा सेयं शिवार्चा लोकपावनी।।५८
तत्रैकादशरुद्राणां त्रिदेवानाञ्च मन्दिरम्।
अभिख्या मञ्जुमाधत्ते गगनारूढमेरूभिः।।५९
सर्वाधिकं पुराचीनं मार्कण्डेयस्य मन्दिरम्।
अभिव्यनक्ति नाम्नैव पौराणमार्षगोरवम्।।६०
तपः स्थलीयं नैकेषां योगिनां च तपस्विनाम्।
ऋषीणां धर्मधुर्याणां तीर्थानां तीर्थमुत्तमम्।।६१
करंगासमके सौम्ये स्थले शान्ते मनोरमे।
तीर्थगंगाभिधं केन्द्र क्लुंगकुंगमहीभुजाम्।।६२
जलक्रीडाभिषेकाणां स्थानमेतन्मनोहरम्।
भूभुजश्चक्रिरे तुष्ट्यै जनशून्येऽत्र नीवृति।।६३
निपानैर्बहुभिर्युक्ता धारायंत्रादिसम्मिता।
गोपुरद्वारवेदीभिस्तीर्थगंगा महीयते।।६४
किञ्चिदेवाग्रतो गत्वा क्षीणा बालीवसुन्धरा।
साम्प्रतं लक्ष्यते प्राच्यां केवलं नीलतोयधिः।।६५
अत्रस्थोऽपि जनः सम्यग् व्योम्नि निर्मेघतां गते।
द्रष्टुं शक्नोति लोम्बोकं निषधाख्यञ्च पर्वतम्।।६६
द्वीपं नूसापनीडाख्यं दक्षिणस्यां विलोक्यते।
पञ्चविंशतिसाहस्री जनता यत्र जीवति।।६७
ततो गोवालवाहाख्यं कन्दराद्वारमद्भुतम्।
सिन्धूपकण्ठगं रम्यं राजमार्गे महीयते।।६८
वासुकेः कन्दरा सेयं भीषणा वर्तुलानना।
लाङ्गूलेन महामेरुं स्पृशत्यब्धिं मुखेन च।।६९
पतन्तश्चोत्पतन्तश्च शयाना रतिसंरताः।
युध्यमानाश्च दृश्यन्ते खगा नैशाः सहस्रशः।।७०
क्वचिद्गोधः स्फुरज्जिह्वः क्वचित्काकोदरोऽथवा।
गुहाद्वारेऽथ दृश्येते निशापक्षिग्रहाकुलौ ।।७१
सत्याऽसत्यपरीक्षायाः स्थलीयं लोकविश्रुता।
प्रविश्येमां स्वसाधुत्वं प्रतेनू राजदण्डिताः।।७२
प्रविष्टा भक्षिता नागैरपराद्धा गृहान्तरे।
सत्यनिष्ठाः परन्त्वेके निर्भयं बहिरागताः।।७३
क्लुंगकुंगाधिपानां तत् दैवतं निर्णयासनम्।
मानवीं स्मृतिमाधत्ते बिषाग्न्यम्बुपरीक्षणे।।७४
क्लुंगकुंगसमीपस्था गेल्गलाख्या पुरातनी।
दृश्यते नगरी रम्या नृधानी बालिभूभुजाम्।।७५
यथाऽयोध्या विना रामं विना कृष्णञ्च गोकुलम्।
विपन्नाऽभूत्तथैवेयं क्लुंगकुंगप्रभावतः।।७६
तथापि राजप्रसादा गोपुराणि पुरातनीम्।
भाग्यगाथां वदन्तीव दर्शंदर्श सचेतसः।।७७
सारोंगवस्त्रनिर्माणे भव्यकौशेयमण्डिते।
प्रवीणाश्चात्र विद्यन्ते चित्रकर्मविशारदाः।।७८
गृहे-गृहे कुविन्दत्वं दृष्टिप्रसारबन्धनम्।
रंगकर्मयुतालेख्यं ककवीनकथाश्रितम्।।७९
शिशवश्छुल्लकाश्चापि दृष्टपञ्चवसन्तकाः।
वर्तुलोर्ध्वमधस्तिर्यग् रचयन्त्येव किञ्चन।८०
ततश्चतुष्पथे रम्ये राजसौधाजिराङ्गणे।
कृतघोषाभिधं राज्ञां दृश्यते न्यायमन्दिरम्।।८१
सौधच्छद्यन्तरे भागे पीनदारुविटङ्कके।
कृष्णायनककवीनं प्रयत्नैर्यत्र चित्रितम्।।८२
अथाऽपरेऽपि प्रासादे नारकी यातनाऽखिला।
चित्रिता दृश्यते भूम्ना पापिनां भयकारिणी।।८३
मध्येचतुष्पथं प्रांशुर्विष्णुर्गरुडवाहनः।
ग्यान्यारनगरे रम्ये सुदूरादेव लक्ष्यते।।८४
ग्रामे ततः कुतर्याख्ये महिषासुरमर्दिनी।
महादुर्गा पराम्बाऽसौ राजते चारुश्रृङ्गके।।८५
राज्ञी महेन्द्रदत्ताख्या धर्मोदयनवल्लभा।
स्थापिताऽऽम्बास्वरूपेण बाल्यामिति जनश्रुतिः।।८६
पयाङ्गनाभिधो ग्रामः पार्श्व एव विराजते।
प्राक्तनी राजधानी सा साम्प्रतं प्रकृतिङ्गता।।८७
चतुर्दशशते ख्रैस्ते महामात्यो गजह्मदः।
अत्र संस्थापयामास बालीद्वीपे द्विजेश्वरान्।।८८
कुर्त्या दक्षिणे भागे ग्रामो बल्ह्बाटुहाभिधः।
यत्र केबो इबो जातो महाशक्तो महापतिः।।८९
विद्यया वपुषा बुद्धया शौर्यविक्रमसम्पदा।
रत्नभूमिं प्रभुं स्वीयं यस्सिषेवे प्रजानुगः।।९०
प्रलोभ्य तं महावीरं यवान्नीत्वा गजह्मदः।
घातयामास निर्वैरं वैरी षड्यंत्रपारगः।।९१
पुरा गाडुहिति ख्याते प्राक्तने ग्राममन्दिरे।
बालीमहापतेस्तस्य चैत्यमद्यापि राजते।।९२
दारुवक्त्राकृतिः प्रत्ना रक्षिता मन्दिरान्तरे।
ग्रामे गजह्मदस्यापि महाशक्तिमयी किल।।९३
इदानीमपि यां द्रष्टुं राजतंत्रविशारदाः।
जकार्तानगराद् बालीं समायान्ति हितार्थिनः।।९४
डेन्पसारपुरात्प्राच्ये सानुराख्योऽम्बुधेस्तटः।
नूसादुधाभिधो याम्ये वारुणे च कुटाभिधः।।९५
अत्र सागरकल्लोलमेदुरे सैकते तटे।
कामिनो ननु सेवन्ते चारुकन्दर्पकाहलीम्।।९६
सानुरे सूर्यसम्पातं सूर्यास्तं च कुटाम्बुधौ।
प्रत्यहं द्रष्टुमायान्ति पौराश्चापि सहस्रशः।।९७
चापाकृतिं कुटासिन्धुर्लभते वीचिसायकः।
घनकान्तारवीथीभिः संश्लिष्टोऽनुतटांकितः।।९८
दक्षिणस्यां धनुष्कोटौ सुधापाषाणपृष्ठके।
मन्दिरम् उलुवाट्वाख्यं राजते वनराजिषु।।९९
महापण्डितनीरार्थैः स्थापितं ख्रिस्तषोड्शे।
ब्रुवन्त्येकेऽपरे किन्तु मेङ्गवीस्थनृपैरिति।।१००
प्रतिक्षणं तटान्तेषु वेलाः प्रतिहता मुहुः।
शुभ्रडिण्डीरसन्दोहैर्दुग्धदोहाकृतिं गताः।।१०१
नातः परं धरा क्वापि दक्षिणस्थाद् ध्रुवादृते।
दृश्यते यावदालोकं प्रशान्तोदधिविस्तरम्।१०२
उत्तरस्यां धनुष्कोटौ तनाहलाटसंज्ञितः।
शिवालयोऽस्ति नीरार्थस्थापितो यशसोच्छ्रितः।।१०३
क्रुद्धपाथोधिवीचीभिः प्रतियामं प्रतिक्षणम्।
मूलभूमेः परिच्छन्नं द्वीपमद्यापि रक्ष्यते।।१०४
पुनर्निर्माणकर्माणि प्रवर्त्यन्तेऽथशासनैः।
शिवायतनरक्षायै यथा तन्नो क्षयं भजेत्।।१०५
इतः प्रस्थाय कौबेर्यां मेङ्गवीराज्यनिर्मितम्।
दृश्यते ननु विख्यातं तमनायूनमन्दिरम्।।१०६
प्राकारपरिखायुक्तं धारायंत्रादिभूषितम्।
गोपुरत्रयसंश्लिष्टं मण्डपैर्बहुभिर्वृतम्।।१०७
मेरूणां भिन्नसंख्यानां राजते यत्र सन्ततिः।
नयनाकर्षिणी नूनं कलालङ्करणान्विता।।१०८
सर्वेऽपि हिन्दुसंस्काराः पार्श्वस्थे संग्रहालये।
दृश्यन्ते सम्मता बाल्यां दारुपट्टेषु चित्रिताः।।१०९
शवयात्राप्रयोज्योऽसौ राजवंशमहारथः।
वषभेणान्वितस्तत्र मण्डपे दृश्यते स्थितः।।११०
इतोऽप्यग्रेऽचिरं गत्वा सिंहराजपथान्तिके।
अद्भुतं दृश्यते रम्यं बेडुगुल्नामपुष्करः।।१११
प्राच्यां याम्यां शिलारुद्धो वारुण्यां घट्टसंकुलः।
शान्तनौकाविहाराणामालयो जलचारिणाम्।।११२
पार्श्ववर्तिनि कान्तारे श्मश्रुकूर्चभयङ्कराः।
यत्र तिष्ठन्ति निर्दोषा वालिसुग्रीववंशजाः।।११३
राजमार्गमुखे रम्यं सिंहराजपुरं स्थितम्।
यदासीड्डचसाम्राज्ये राजधान्या प्रतिष्ठितम्।।११४
दृश्यतेऽत्र महाकारो बाल्यौदीच्यमहोदधिः।
यात्राव्यापारपोतानां सन्दोहैश्च समाकुलः।।११५
प्रस्थाय सिंहराजाच्च सिन्धुवायुसुखं दधत्।
सरीरितमतिक्रम्य घनारण्यपथस्थितः।।११६
क्वचित्सिन्धुतटस्थानि तिन्तिडीविपिनान्यपि।
पश्यन् विहारकेन्द्राणि गिलिमानुकमाश्रयेत्।।११७
मध्यवर्तिवनालीषु व्याध्रचित्रकरङ्कवः।
रक्षितास्तत्र तिष्ठन्ति निर्भयारण्यनीवृति।११८
दृश्यते नु यवद्वीपं नेदिष्ठं सिन्धुपारगम्।
गिलिमानुकसंस्थानात् यात्रापोतैर्निरन्तरम्।।११९
द्वीपावुभौ प्रतीयेते केलिरोषपराङ्गमुखौ।
सोदराविव सुप्रीतौ गाढरागौ च युग्मजौ।।१२०
गिलिमानुकसामीप्ये विद्रुमाणां शिलोच्चयः।
अन्तर्निगूढ आधत्ते रक्तसिन्धुजलश्रियम्।।१२१
प्राचेतसोऽथ वाल्मीकिस्तमेव लोहितोदधिम्।
रामायणे ब्रवीत्येवं स्फुटमीक्ष्य मयोह्यते।।१२२
दक्षिणोदधितीरेऽसौ राजमार्गः सुविस्तृतः।
डेन्पसारपुरं यावत् निर्मितो गिलिमानुकात्।।१२३
गिलिमानुकपूर्वस्थं क्रोशानां त्रिंशता पुनः।
दूरे लसत्पुरं रम्यं नगराख्यं विराजते।।१२४
जेम्बरानकमिश्नर्या मुख्यंकेन्द्रमिदं शुभम्।
वाटिकोंद्यानचैत्यादिमण्डितं मञ्जुतोरणैः।।१२५
जिम्ब राणि वनान्यत्र जेम्बरानमिदं ततः।
बालीभाषाबलादेव शब्दतात्पर्यमुच्यते।।१२६
नगरादग्निकोणस्थे पराञ्चाग्रामसीमनि।
राजते मन्दिरं रम्यं प्राक्तनं तटिनीतटे।।१२७
पुरापराञ्चेत्याख्याऽस्य स्थापितं व्राहडेन यत्।
महातान्त्रिकवर्येण राङ्गडाप्राणहारिणा।।१२८
राङ्गडाव्राहडद्वन्द्वं तंत्रशक्तिश्रितं मया।
रोचकं सदपि प्रत्नं विस्तरैर्न समुच्यते।।१२९
पुराराम्बुत् शिविर्नाम ततोऽन्यच्छिवमन्दिरम्।
सिन्धुकूलस्थितं रम्यं राजमार्गान्नु दृश्यते।।१३०
षोडशे शतको रव्रैस्ते बाटुरेङ्गाङ्गनामनि।
नॄपे शासति जावातो महातंत्रविशारदः।।१३१
धर्माचार्यस्स नीरार्थो वउराहुरितिश्रुतः।
पा सुमेरुरिति ख्यातो डंगह्यंगोऽथवा पुनः।।१३२
आमंत्रितोऽथ बालीशैराजगामात्र नौकया।
हिन्दुधर्मव्यवस्थार्थं बालीद्वीपे मनुर्नवः।।१३३
बाल्यां संस्थापितं येन निराकारशिवार्चनम्।
तुरुष्का येन हिन्दूनां न कुर्युर्मूर्तिभञ्जनम्।।१३४
पुराराम्बुच्छिविप्रख्ये केशास्तस्यैव रक्षिताः।
मन्दिरं तेन सार्थाख्यं यतो राम्बुत्कचार्थकः।।१३५
अग्र एव तबानानं राम्बुच्छिविशिवालयात्।
एवमापूर्यते सम्यग् बालीद्वीपे परिक्रमा।।१३६
मध्येसमुद्रमेकाकि डेन्पसारपुरान्तिके।
मुख्यभूमिपृथग्भूतं द्वीपमेकं समीक्ष्यते।।१३७
ग्रामोऽसौ साकिनानाख्यो यत्र शाक्यानमन्दिरम्।
प्रख्यातं धूर्जटेः पीठं हिन्दुभिः परिपूजितम्।।१३८
समागतेथ विख्याते गलुङ्गानमहोत्सवे।
द्विपान्तरागतैश्चापि हिन्दुभिः क्रियतेऽर्चनम्।।
कियद्वा कथियिष्यामि ततोऽलं वर्ण्यविस्तरैः।
चलुकैः पञ्चषैः पातुं जाह्नवी नैव शक्यते।।१४०
विदुषां सुहृदां तृप्त्यै प्रत्यभिज्ञानवर्णनम्।
बालीद्वीपानुरक्तानां मया संक्षिप्य दीयते।।१४१
भारते भारती माता त्रिवर्णध्वजवन्दिता।
राजते कोटिपुत्राऽसौ बाली तस्याश्च बालिका।।१४२
मातुः पुत्र्याः शरीरे द्वे एक आत्मा परं तयोः।
एक एवोभयोर्धर्मो नभिन्ना हिन्दुसंस्कृतिः।।१४३
मिश्रोऽभिराजराजेन्द्रो बाल्यामध्युष्य युक्समाः ।
कृतार्थं जीवनं स्वीयं मन्यतेऽचिन्त्य सेवया।।१४४
स्वस्त्यस्त्वितीव वाक्येन स्वागतं शान्तिवाचया।
विसर्जनं विधीयेते यत्र तस्यै भुवे नमः।।१४५
यदन्नजलवातैश्च पोषितोऽस्मि निरन्तरम्।
स्वर्गपर्यायभूतायै तल्यै बाल्यै नमो नमः।।१४६
विरिंगनतरुं वन्दे तपोधनसमिश्रियम्।
यं दृष्ट्वैव हि जागर्ति श्रद्धा श्रद्धानुमानसे।।१४७
वन्दे वेणुवनं सान्द्रं बालीवैशिष्ट्यसूचकम्।
नारिकेलवनं वन्दे द्वीपोत्तमयशोध्वजम्।।१४८
धर्मभीरुन् वचोभिश्च सुधामाधुर्यधायकान्।
शीलार्जवधरान् वन्दे सुहृदो बालीवासिनः।।१४९
प्रत्यभिज्ञानकाव्येन तदर्वाचीनसंस्कृतम्।
विश्राम्यति बुभूषुर्वै कविस्सम्प्रति सादरम्।।१५०
शरयुगगगनदृगाख्ये विक्रमवर्षे शनौ च मध्याह्ने।
वदि चैत्रेऽहि न तृतीये बाल्यां काव्यमिदं प्रपूर्णम्।।१५१
।।इति श्रीमदभिराजराजेन्द्रेण बालीद्वीपस्थोदयनविश्वविद्यालयेऽतिथि
प्राचार्यपदमधिरूढेन दुर्गाप्रसादाभिराजीसूनुना
विरचितं बालीप्रत्यभिज्ञानशतकं
परिपूर्णम्।।
यवद्वीपसाहित्यशतकम्
यवद्वीपयशोगाथावल्लकीं मधुरस्वराम्
कविभाषामहं वन्दे देववाणीसहोदरीम्।।१
सुहृदां सुखबोधाय नवानां ज्ञापनाय च।
यवद्वीपीय साहित्यं नाममात्रेण लिख्यते।।२
द्वितीयशतकारम्भे ख्रिस्तीये चाधिचम्पकम्।
स्थापितं हिन्दुसाम्राज्यं येन सद्धर्मसेविना।।३
श्रीमाराय नमस्तस्मै राजराजेश्वराय च।
वोचनाख्ये शिलालेखे यस्य कीर्तिर्महीयते।।४
कौण्डिन्यं तमहं वन्दे भासुरं भूसुरोत्तमम्।
कम्बुजे स्थापिता येन भारती दिव्यसंस्कृतिः।।५
सोमामनिन्द्यतन्वङ्गी कम्बुजेश्वरनन्दिनीम्।
वृत्वा राजपदं लेभे माननीयो मनस्विनाम्।।६
जयन्ति ननु शैलेन्द्राः कटाहद्वीपशासकाः।
राजेन्द्रमपि ये चक्रुर्विनिद्रं चोलभूभुजम्।।७
श्रीविजयाधीशान् वन्दे रघूणां पथयायिनः।
येषामन्यतमः कोऽपि समरोत्तुङ्ग ऊर्जितः।।८
अश्वमेधलसत्कीर्तिं स्थापितवप्रकेश्वरम्।
रत्नकाञ्चनवस्त्रान्नदानदीप्तं शिवानुगम्।।९
तुञ्जुङ्गपुरभूपालं मूलवर्माणमञ्चितम्
वन्देऽहं यद्यशोऽद्यापि बोर्नियोभवि राजते।।१०
सञ्जयञ्च ततो वन्दे नृपं सन्नाहनन्दनम्।
यदीयचक्रवर्तित्वे निबद्धोऽखिलसागरः।।११
निर्माय बुकिरश्रृङ्गे पूतिकेश्वरमन्दिरम्।
रम्ये मध्ययवद्वीपे योऽभूत्पाशुपताग्रणीः।।१२
ख्रिस्ताब्दे सप्तमान्ते च मतरामाख्यपत्तने।
राजधानीं विनिर्माय यश्शशास यवावनीम्।।१३
ततश्चारभ्य ख्रिस्तीयं यावदब्दं तु षोडशम्।
प्रबभूव यवद्वीपे हिन्दुसाम्राज्यमक्षतम्।।१४
मतरामाधिपाः पूर्वं कडिरीशासकास्ततः।
सिंहसारिकुलोत्पन्नास्तिक्तबिल्वनृपास्ततः।।१५
तुरीयान्वयसञ्जाता भूपा एवं यशस्विनः।
सुवर्णद्वीपविस्तारं बुभुजुर्बलदर्पिताः।।१६
एषामेव यवेन्द्राणां भुजच्छायामहालये।
देवी सरस्वती नित्यं विरराजविकस्वरा।।१७
बभौसंस्कृतसम्मिश्रा यवभाषा महीयसी।
कवितामाध्यमत्वात्सा कविभाषेति कीर्तिता।।१८
प्राक्तनी यवभाषेयं तस्माड्डचसमीक्षकैः।
प्रत्नजावीतिनाम्नाऽपि संस्तुताऽभूदनेहसि।।१९
त्रयीत्रय्यङ्गशास्त्राणि पुराणानि सविस्तरम्।
आर्षकाव्येऽथ काव्यानि कालिदासादिवाग्मिनाम्।।२०
समग्रं खलु प्राचीनं भारतीयं नु वाङ्मयम्।
लिखितं कविभाषायामथवाऽनूदितं बुधैः।।२१
समृद्धं पुष्कलं तस्माज्ज्ञानविज्ञानमण्डितम्।
वाङ्गमयं यवभाषाया देववाणीसमप्रभम्।।२२
वाङ्गमयं तदिदं जाव्याः पद्यगद्यमयं द्विधा।
पद्यं ककवीनं ख्यातं गद्यञ्च पवँसंज्ञितम्।।२३
निरमायि कदा केन किमाख्यो ग्रंथ आदिमः।
इति प्रमाणराहित्ये सुखं वक्तुं न शक्यते।।२४
किन्तु कालक्रमोपात्तं योगीश्वरविजृम्भितम्।
कविभाषाऽऽदिमं काव्यं रामायणमिति ध्रुवम्।।२५
मतरामपुरे रम्ये बलितुङ्गे प्रशासति।
ख्रिस्तीये नवमाब्दान्ते ककवीनमिदं कृतम्।।२६
षड्विंशतिमितैस्सर्गेरष्टसप्ततिसंख्यकैः।
श्लोकैस्सप्तशतैर्युक्तं सहस्रद्वयसंख्यकैः।।२७
प्रकरणवक्रताढ्यं छन्दोविचितिचित्रितम्।।
उदात्तकल्पानारम्यं भावगाम्भीर्यगर्भितम्।।२८
यवद्वीपप्रकृत्या च रञ्जितं लोकवार्तया।
अद्भुतं तदिदं काव्यं भट्टिवाल्मीकिभावितम्।।२९
एकादशशताब्दे चाप्येरलंगे प्रशासति।
अर्जुनविवाहं काव्यं म्पूकण्वश्च प्रणीतवान्।।३०
किरातार्जुनसद्वृत्तं निबद्धं न्वत्र दृश्यते।
यत्रार्जुनो जयी संख्ये लभते देवसुन्दरीः।।३१
काव्यं भारतयुद्धाख्यं महाभारतसंचितम
म्पूसेडाहनामाऽसौ कविश्चक्रे मनोरमम्।।३२
द्वादशे ख्रिस्तशतके श्रीजयाभयशासने।
प्रारभ्य सुकविः काव्य सहसैव दिवङ्गतः।।३३
पश्चात्पनुलुहः पूर्ण चक्रे काव्यं विखण्डितम्।
कादम्बरी यथा पूर्णां विदधे बाणनन्दनः।।३४
जयवर्षे दिग्जयाख्ये कडिर्यां वे प्रशासति।
कृष्णायनककवीनं म्पूत्रिगुणः प्रणीतवान्।।३५
रुक्मिणीद्वारकाधीशप्रणयोद्वाहमण्डितम।
समुत्कीर्णमिदं काव्यं पलहाख्ये शिवालये।।३६
कविर्मोणगुणश्चक्रे काव्यं सुमनसान्तकम्।
रघुवंशं पुरस्कृत्य कालिदासकृतं कृति।।३७
हारसंग्रथितं कम्रं सुमनोऽत्र यतोऽन्तकम्।
सुमनसान्तककं तस्मात् काव्यसंज्ञा महीयते।।३८
म्पूधर्मजः कविश्रेष्ठः कामेश्वरसमर्चितः।
कृतवान् स्मरदहनं कुमारसम्भवाश्रितम्।।३९
पार्वतीशिवसंयोगाद् गणेशो जायते सुतः।
यो निहन्ति रणे दैत्यं सुरारिं नीलरुद्रकम्।।४०
एवं हि मूलकाव्यस्य वृत्तमन्यत्प्रकल्पितम्।
धर्मजेन यताकामं कविना क्रान्तदर्शिना।।४१
भौमकाव्यं कृतं केन कदा नेदं विचीयते।
किन्तु ख्यातेः परां कोटिं रूढेयं काव्यसर्जना।।४२
कृष्णनन्दनसाम्बोऽसौ स्वप्ने यज्ञवतीं प्रियाम्।
पश्यति प्रेयसीं स्वीयां पूर्वजन्मनि संगताम्।।४३
तदन्वेषणसन्नद्धो द्वारकातः प्रतिष्ठते।
दानवेन्द्रस्य भौमस्य किन्तु सा दुहिताऽनघा।।४४
पार्थद्वितीयः कृष्णोऽन्ते भौमं नरकसंज्ञम्।
हत्वा यज्ञवतीं दत्ते स्वसुतायेति सा कथा।।४५
उषानिरुद्धसम्बन्द्धं महभागवताश्रितम्।
मन्ये प्रकल्पितं वृत्तं यवद्वीपभुवाऽन्यथा।।४६
ततः पनुलुहाख्योऽसौ धर्मेश्वरसभाकविः।
हरिवंशं लिलेखान्यत् काव्यं घटोत्कचाश्रयम्।।४७
श्रीकृष्णरुक्मिणीवृत्तं हरिवंशेऽनुवर्णितम्।
घटोत्कचाश्रये किन्तु चित्रमेव कथानकम्।।४८
अभिमन्युर्विवाहेच्छुः कृष्णपुत्र्या हलिक्लमात्।
घटोत्कचाश्रयं याति वृणोति शितिसुन्दरीम्।।४९
काव्यत्रयं ततश्चक्रे तनकुंगा महाकविः।
स चक्रवाकदूताख्यं प्रथितं वृत्तसञ्चयम्।।५०
उद्दालकापरसंज्ञं काव्यं पतिव्रताभिधम्।
लुव्धकाख्यं तृतीयञ्च रुद्रभक्तिसर्मान्वतम्।।५१
सिंहसारिकुलोद्धर्तुः राजसस्य सभाकविः।
त्रयोदशशताब्दीयस्तनकुंगः प्रथाङ्गतः।।५२
काव्यद्वयं तन्तुलरः प्रणिनाय जिनानुगः।
हयम्बरूकसाम्राज्ये चतुर्दशतमे शते।।५३
अर्जुनविजयं काव्यं सुतसोमं च जातकम्।
कार्तवीर्य कथा काव्ये प्रथमे वर्णिता खलु।।५४
प्रपञ्चश्चापि तत्रत्यः काव्यं पृथुकलेवरम्।
प्रणिनाय परं रम्यं तन्नागरकृतागमम्।।५५
बहुनी सन्ति काव्यानि ललितानि श्रुतानि च।
अज्ञाताः किन्तु कर्तारः कालश्चापि न निश्चितः।।५६
काव्यं ब्रह्माण्डपुराणं कुञ्जरकर्णसंज्ञितम्।
अर्जुनसह्स्रबाहुनाम्ना ख्यातं तृतीयकम्।।५७
पार्थयज्ञं ततस्तुर्यं किरातार्जुनवृत्तकम्।
कालयवनान्तकाख्ये रम्याभगवतीकथा।५८
काव्ये हरिश्रये वृत्तं सुमाल्यादिकरक्षसाम्।
देवासुराणां संग्रामो हरिविजये वर्णितः।।५९
कृष्णान्तकं ककवीनं कृष्णलीलासमापनम्।
विघ्नोत्सवं व्रतसत्यं बौद्धधर्मावलम्बिते।।६०
काव्ये रत्नविजयाख्ये सुन्दोपसुन्दवृत्तकम्।
तिलोत्तमा ययोर्मध्ये जाता पञ्चत्वकारणम्।।६१
सिंहलांगलके काव्ये बौद्धधर्मावलम्बिनि।
चरितं कामरूपिण्या वर्णितं नवकल्पनैः।।६२
सुभद्राविवाहनाम्नि ककवीने मनोरमे।
सुभद्रार्जुनसन्दर्भः कविना साधु वर्णितः।।६३
अभिमन्युविवाहाख्यं ततश्चतुर्दशतमम्।
षोड्शे शतके मन्ये काव्यमेतत् प्रकल्पितम्।।६४
एवावन्ति हि काव्यानि कविभाषामयानि वै।
नवमात् षोड्शं यावत् निबद्धानि कवीश्वरैः।।६५
साम्प्रतं गद्यसाहित्यं यावच्छक्यं निरूप्यते।
पर्वसंज्ञं नु विख्यातं यत्सुवर्णधरान्तरे।।६६
अनुवादो यतो गद्ये महाभारतपर्वणाम्।
सर्वप्रथमं विहितस्ततः पर्वेदमुच्यते।।६७
कथावाचनशैलीतः जावीगद्यं समुत्थितम्।
इत्यत्र संशयो नास्ति विदुषां तत्र सम्मतिः।।६८
दशमे ख्रिस्तशतके धर्मवंशे प्रशासति।
गद्यशैल्याऽनुवादोऽयं जातो भारतपर्वणाम्।।६९
विराटोद्योगभीष्मस्त्रीमुसलाश्रमवासिकम्।
महाप्रास्थानिकं स्वर्गारोहणं चादिनामकम्।।७०
एतानि नवपर्वाणि साम्प्रतं गद्यवन्ति च।
प्राप्यन्ते यवभाषायां कर्तारः किन्तु न श्रुताः।।७१
इतश्चाप्युत्तरं काण्डं गद्यरूपान्तरायितम्।
कृतं केन कदा नेदं न मनागपि बुध्यते।।७२
काव्येऽप्यगस्त्यपर्वाख्ये प्राप्यतेऽगस्त्यचित्रणम्।
जामदग्न्यचरित्रञ्च ख्याते विबुधपर्वके।।७३
इदं ग्रन्थद्वयं प्रायो मौलिकं हि प्रतीयते।
रामायणकथावृत्तं वर्णित ह्युभयत्र वै।।७४
ततश्चादिपुराणाख्यं कौरवाश्रमसंज्ञकम्।
काव्यं गद्यमयं किन्तु मौलिकं न वचोऽन्तरम्।।७५
सिंघलाङ्गलपर्वाख्या कथा सौगतशिल्पका।
शतके पञ्चदशके ख्रिस्तीये व्यलेखि सा।।७६
कुञ्जरकर्णपर्वाख्या द्वितीयोऽपि कथाकृतिः।
लिखिता किन्तु नो ज्ञातस्तस्य़ा लेखनावधिः।।७७
साम्प्रतं खलु नामानि कृतीनां प्रतिशास्त्रकम्।
परिज्ञानाय दीयन्ते कालकर्तृगुणं विना।।७८
देवशास्त्र परं गद्यं प्रथमं तत्र चर्च्यते ।
तन्तुपह्गिलरान् राजपुराणं काण्डदेवकम्।।७९
प्रशस्तिभुवनं काण्डचतुर्भूमि रथापरम्।
उसनाबाल्युसनाजावासंज्ञकं रचनद्वयम्।।८०
तत्त्वशास्त्रपरा ग्रन्था यवभाषाप्रकल्पिताः।
निर्मलज्ञानस्वच्छन्दमरणार्धस्मरादयः।।८१
भीमस्वर्गपूर्वभूमिमूलधर्माष्टलिङ्गकम्।
शशाङ्कशरणं सप्तप्रणयो जीवकस्मरन्।।८२
ततश्चोपासनाग्रन्था रोगसंगरभूमिकम्।
पूजापरिक्रमा होमाध्यात्मिकं सूर्यमण्डलम्।।८३
शिवबुद्धार्ध्यपात्रे च यमतत्त्वास्थिवेदने।
अनुष्ठानव्रतं सौरं ममुकुर् सूर्यसेवनम्।।८४
शिवतत्त्वपुराणं च पूजा पञ्चबलिक्रमा।
सहस्रविष्णुनामाख्यं चण्डीधर्माभिधं ततः।।८५
योगशास्त्रेऽपि विख्यातं प्रचुरं गद्यवाङ्गमयम्।
भोगसन्धियगनिद्रासमाधिलक्षणादिकम्।।८६
शरीरतत्त्वाख्यं जन्मरहस्यं योगदेवतम्।
तत्त्वसमाधिसंज्ञञ्च योगशास्त्रविवेचनम्।।८७
नीतिशास्त्रपरे गद्ये तन्त्रीकामन्दकाभिधम्।
श्लोकान्तरं रणयज्ञं ततस्सारसमुच्चयः।।८८
विधिशास्त्रं ततश्छन्दपिङ्गलं बहुविस्तरम्।
राजशास्त्रमये गद्ये इन्द्रलोको महीयते।।८९
जगत्कारणाख्यं च धर्मशिष्यं ततोऽपरम्।
मंत्रिशासनसंज्ञञ्च चतुः पक्षोपदेशनम्।।९०
ग्रंथा भैषज्यशास्त्रीयाः ख्याताः कलिमहौषधाः।
पमेदस्मरकुष्ठाद्याधर्मौषधविषादयः।।९१
कामशास्त्रेऽनङ्गशास्त्रं स्मरक्रीडोपलक्षणम्।
इन्द्राणि रुक्मिणिग्रन्थो स्मरतन्त्रं सुविस्तरम्।।९२
रहस्यसंगमाख्यं चाप्यंगुलिप्रवेशाभिधम्।
अनंगोपदेशसंज्ञं कुपुतुसानमद्भुतम्।।९३
शास्त्राणां भूयसि संख्या पशुपक्षिकुलाश्रया।
अनन्ताग्रन्थसंख्याऽपि नात्र सर्वं प्रदीयते।।९४
भूकम्पविषयो ग्रन्थः भगवान् गर्गनामकः।
परिवेशो महामारीदुर्लक्षणनिवेदकः।।९५
मुहूर्तलक्षणे योगाः सन्दिसूत्रे च लेखनम्।
अमरस्त्रिदशः प्रोक्त इत्यस्मिन् शब्दसञ्चयः।।९६
क्रीडाक्षरे लेखविधिः रोगाश्चन्द्रप्रमाणके।
किर्तबासे च विज्ञानंभाषायाः सन्निरूपितम्।।९७
कविता काव्यजानक्यां पञ्चकाण्डे च ज्यौतिषम्।
तथा वसुन्धरातत्त्वे सुन्दरीतेरूसेऽपि च।।९८
यवग्रन्थानुक्रमणी साम्प्रतं ह्यवसीयते।
प्रेक्षावतां विनोदाय यत्नतः संहृता मया।।९९
सर्वाणि ग्रंथनामानि यवभाषामयानि च।
सुप्तिङ्न्तं पदं यत्र नियमो नैव दृश्यते।।१००
शीर्षकाणामतः शुद्धिं शिथिलामपि सूरयः।
मर्षयन्तु परं विज्ञाः साग्रहं विनिवेद्यते।।१०१
शरयुगगगनदृगाख्ये ह्याश्विनमासे सिते द्वितीयायाम्।
बाल्यां विक्रमवर्षेबुधेऽह्नि पूर्णो निबन्धोऽयम्।।१०२
।।इति श्रीमद्दुप्रसादाभिराजीसूनुना त्रिवेणीकविनाऽभिराजराजेन्द्रेण
बालीद्वीपेऽभ्यागताचार्येण कृता यवनग्रन्थानुक्रमणी परिसमाप्ता।।
देववाणीहुङ्कारशतकम्
मदङ्कलालिता मूढाः कदर्या देशवासिनः।
हुङ्कृतिं देववाण्या मे श्रृणुध्वं व्योमगामिनीम्।१
गर्ज गर्ज क्षणं मूढ! मधु यावत्पिबाहम्यहम्।
पुरेति चण्डिका संख्ये महिषं व्याहरद्यथा।२
तथैवाहं प्रवच्म्यद्य प्रमूढं भ्रष्टशासनम्।
तवावसानकालोऽपि नेदिष्ठः परिलक्ष्यते।।३
समाजाभिमतं पूतं यो जनः समुपेक्षते।
विनाशस्तस्य दुर्वारो विधात्राऽपि न वार्यते।।४
समाजश्चापि यो राष्ट्रभावनामवमन्यते।
निश्चप्रचं प्रयात्येव शनकैर्नामशेषताम्।।५
नाद्रियते विश्वमतं राष्ट्रं यद्धि निरङ्कुशम्।
तदप्येति क्षयं तूर्णं नेव नैवात्र संशयः।।६
ज्येष्ठा गरिष्ठा वरिष्ठा मनवन्तरसुसाक्षिणी।
एतत्सर्वं मया स्वैरं प्रत्यक्षं परिलक्षितम्।।७
यूयं मुष्टिमिता मूढा वितथादूरदर्शिनः।
यद्राष्ट्राभिमतं पूतमुपेक्षध्वे न तद् वरम्।।८
समस्याः किन्नु राष्ट्रस्य समाधानमुपागताः।
देववाण्या विरोधे यद् बद्धा कटिरिहोद्भटैः??९
मेषा इव निहन्यते नक्तन्दिवमनागसः।
राज्ये नु पञ्चनद्याख्ये क्लैव्यं तत्र समाश्रितम्।।१०
बंगभूमिस्समाक्रान्ता गोरखोत्पातपीडिता।
तत्र बुद्धिः कथं क्षीणा राजनीतिबलोद्धुरा??११
यत् कार्यं तत्र नो शक्तिर्यच्चिन्त्यं तत्र नो मतिः।
यद्ध्येयं तत्र नो निष्ठा यत्प्राप्यं तत्र नो गतिः।।१२
भाषां पुरातनीं स्वीयां ज्ञानविज्ञानधारिणीम्।
मातरं देववाणीम्मां गर्हमाणा न लज्जथ!!१३
शूरा विचित्रकर्माणो लोके शास्त्रे श्रुता मया।
हन्त मातरि शूरास्तु पुनरद्यैव वीक्षिताः।।१४
वत्सका राजनेतारः क्षेत्रपूरूषविक्रमाः।
अलं शिल्लोच्चये फेनकम्रशीर्षविधूननैः।।१५
या गता न तुरुष्काणां साम्राज्ये शतपञ्चके।
देववाणि न सा भद्र ! त्वत्प्रयासैर्मरिष्यति।।१६
आंग्लभाषा प्रभुत्वेऽपि या गता विजिगीषुताम्।
देववाणि न स ! त्वत्प्रयासैर्नशिष्यति।।१७
अधमा सन्ततिः किन्तु कृतघ्ना दुर्यशस्विनी।
क्षयं याति प्रसूशापात्सा गतिस्तेऽपि निश्चिता।।१८
इतः परं न वक्तव्यं मया भारतवाचया ।
मिश्रोऽभिराजराजेन्द्रो यद्यस्ति तद् वदिष्यति।।१९
हुह्कारश्चापि शापश्च मयोभौ सुप्रकाशितौ।
विभीता यात कल्याणं शप्ता वाथ विनाशनम्।।२०
ऊर्ध्वबाहुर्विरौम्येष जननीस्नेहगर्वितः।
मिश्रौऽभिराजराजेन्द्रो देववाणिसमर्चकः।।२१
अलं मौढ्येन नेतारः संस्कृतज्ञानभिक्षुकाः।
अलं समग्रराष्ट्रस्य भूरिसौभाग्यखण्डनैः।।२२
देववाणि न भाषेयं प्राकृता शब्दसञ्चया।
इयं सञ्जीवनी शक्तिर्भारतस्यामृतात्मनः।।२३
दिव्या गीर्वाणवाणीयं दिव्यगाथा महीयसी।
स्वर्धुनीव पुनानाऽसौ भूतलं भुवि राजते।।२४
ऐरावतो न मातङ्ग कामधेनुर्यथा न गौः।
उच्चैःश्रवा यथा नाश्वो वृषो नन्दी न वा यथा।।२५
कल्पद्रुमो यथा शाखी नैव पेयं यथाऽमृतम्।
बह्मद्रवमयी दिव्या जाह्नवी न यथा सरित्।।२६
तद्वादेव न सामान्या मानवी वागीयं मता।
प्रत्यभिज्ञायते लोके देववाणिपदेन या।।२७
सृष्टिकल्याणरक्षार्थं यथा चन्द्रदिवाकरौ।
यथाऽग्निश्च यथा वायुर्यथा वा जीवनं जलम्।।२८
ईश्वरेण प्रदत्तानि जीवलोकाभिशंसिना।
तथैव वाणी कल्याणी संस्कृताख्येयमादिमा।२९
यस्यां वेदामृतं पूतं पुराणं भूरिविस्तरम्।
यस्य़ां शास्त्राणि काव्यानि पार्थिवामृतवन्ति च।।३०
यस्यां गीता परब्रह्मसायुज्यामोदसोदरी।
या स्वयं पद्मनाभस्य मुखपद्माद् विनिःसृता।।३१
असौ किं प्राकृता भाषा भावमात्रैकवेदिनी।
पृच्छाकुशलवाग्द्वारैर्वार्तामात्रप्रयोजना??३२
कस्मिन् भाषान्तरे दृष्टं चरितं दिव्यसौरभम्।
केन कुत्र कदा कीदृक् यादृशं ह्यधिसंस्कृतम्।।३३
प्रथमा विश्ववारा या संस्कृतिर्भुवि भारते।
मधुवादा मधुस्वादा सृष्ट्यादौ हि समुद्ययौ।।३४
देववाण्यां ऋते का तां विश्वमार्यं प्रकुर्वती।
व्याततानोदयाद्रेश्च यावन्नु पश्चिमाचलम्??३५
विश्बन्धुत्वसन्देशः कुत्रादौ परिलक्ष्यते।
आचारमहिमा कुत्र कुत्र धर्मो दशाङ्गकः??३६
कुत्र साहित्यसङ्गीतकलासंवलनं स्मृतम्।
अध्यात्मदर्शनं कुत्र रथरूपकमञ्जुलम्??३७
स्वाध्यायदेशना कुत्र कुत्र विद्या विमुक्तये।
कुत्र वा शंसितं ज्ञानं पवित्रं सर्वतोऽतिगम्!!३८
संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः।
इतीव दण्डिना कस्यै मधुपर्कं समर्पितम्!!३९
साक्षात् सरस्वती सैव शब्दार्थविग्रहैर्जिता।
देववाणी त्रयीवाणी संस्कृताख्या महीयसी।।४०
क्वाद्य हर्षयशोधर्मभोजबल्लाल सन्निभाः।
नाममात्रेण राजानः कोविदाः परमार्थतः।।४१
चिरायुषो न ते भूपास्तथा शौर्यसमृद्धिभिः।
यथा विद्या कला भक्त्या देववाणीसमर्चया।।४२
किं भविष्यति हा हन्त लोकतन्त्रे नु साम्प्रतम्।
प्रतिशाखं विराजन्ते पूजिता दारुकौशिकाः।।४३
अजानन्तोऽपि भूगोलं संस्कृतिं गणितादिकम्।
तेषु-तेषु विभागेषु स्थाप्यन्ते येऽद्य मन्त्रिणः।।४४
तेषां कृते वृथा वेदो वृथा शास्त्रं वृथा कला।
वृथा सद्धर्मसंस्कारौ वृथा जीवनदर्शनम्।।४५
संस्कृतं खलु नामास्ति कस्य दृष्टस्य पक्षिणः।
इत्यहो ते न जानन्ति जरठाः क्रीतबुद्धयः।।४६
भिन्नभाषं भिन्नवेषं भिन्नजातिपरम्परम्।
भिन्नभक्ष्यं भिन्नपेयं भिन्नधर्मार्थचिन्तनम्।।४७
वैभिन्यमहितं राष्ट्रं को नु बध्नात्यनारतम्।
शासनं राजनीतिर्वा? केवलं दिव्यसंस्कृतम्।।४८
एकसूत्रेण बध्नाति भारतं वेदसंहिता।
आर्षकाव्यद्वयं यद्वा पुराणचरितामृतम्।।४९
एकसूत्रेण बध्नन्ति भारतं सर्वतोमुखम्।
कालिदासादयो धुर्या राष्ट्रसत्कीर्तिगायनाः।।५०
यावद्धि शङ्कराचार्य उत्तराशां विगाहते।
महाप्रभुश्च गौराङ्गो यावद् वृन्दावनोत्सुकः।५१
यावद्रामेश्वरं तीर्थं गाङ्गमम्बु च नीयते।
यावद्वदरिकाधाम्नि दाक्षिणात्यस्समर्चकः।।५२
अयोध्यातो धनुष्कोटिं यावद्व्याप्ता यशस्विनी।
पावनी जैत्रयात्रासौ यावद्रामस्य विश्रुता।।५३
नित्यस्नाने समर्चायां मङ्गले च महोत्सवे।
यावत्सप्तपुरीभूपनदीशैलानु कीर्तनम्।।५४
तावद्धि भारतं राष्ट्रं देववाणिसमन्वितम्।
स्थास्यत्यखण्डितं नूनं नात्र कार्या विचारणा।।५५
उत्तरोत्तरमुच्छिन्ना वर्धन्ते हि कुशा यथा।
वृद्धिमेष्यति कल्याणी देववाणि तथैव नः।।५६
कृपणा राजनेतारः स्वार्थकुण्ठितमानसाः।
देववाणीतिरस्कृत्या किन्न राष्ट्रं तिरस्कतम्??५७
संस्कृताध्ययने नष्टे सर्वं नष्टं भविष्यति।
निर्मूलो हि यथा शाखी निर्हिमाद्रिर्यथाऽपगा।।५८
शब्दार्थसञ्चयज्ञानभावशैलीकथादृशा।
सर्वा भाषा नु गृह्णन्ति संस्कृतस्याधमर्णताम्।।५९
स्वीयं रिक्थं स्वकन्याभ्यो यौतकत्वेन दापितम्।
वृन्दारकगवी हन्त प्रतिगृह्णातु चेत्पुनः।।६०
सर्वा दारिद्रयमेष्यन्ति भिक्षुक्यो निर्वराटिकाः।
देववाण्येव तासां हि यतस्त्रैकालिकी स्थितिः।।६१
एतद्रहस्यं दुर्दर्शं कथं ज्ञास्यथ सांसदाः।
चित्ते कुलालचक्राभे क्वान्यन्निर्वातचनादृते??६२
दुर्दरा इव जल्पन्ति केचिन्मूर्खा अनर्गलम्।
बाषेयं ब्रह्मणानां वा हिन्दूनामुत्तरस्य़ वा।।६३
ऐतरेयो महीदासो जाबालश्चान्त्यजो वरः।
यत् त्रयीमंत्रद्रष्टारौ द्विजभाषैव सा पुनः??६४
विश्वामित्रश्च राजान्यः कवीवान् वैश्यवंशजः।
यत्र ख्यातावनूचानौ द्विजभाषैव सा पुनः??६५
हेमचन्द्रो वणिक्सूनुः कायस्थः वाग्भट्टः कृती।
यत्र दुर्धर्षविद्वांसौ द्विजभाषैव सा पुनः??६६
काव्यशास्त्रेषु निष्णाताः किं सर्वे कविपण्डिताः।
केवलं ब्राह्मणा नान्ये? स्वयं पश्यन्तु सूरयः।।६७
एकदेशनदीसंघो यदि सिन्धुर्भवेदिह।
गन्धवातोऽपि केषाञ्चित् प्रसूनानां समन्वयः।।६८
देववाण्यपि तत्साधु स्वीक्रियते विकस्वरा।
भाषा राज्यस्य कस्यापि जातेर्वर्गस्य केवलम्।।६९
विरामखानसूनुर्हि खानखानेति विश्रुतः।
यस्यां लिलेख सश्रद्धं गङ्गाष्टकमतन्द्रितः।।७०
मज्मउल् बहरीने च यदुपनिषच्चिन्तनम्।
विद्वान दाराशिकोहोऽपि जग्रन्थ विनयान्वितः।।७१
तुरुष्काणां न सा वाणी कथं तच्चरिताश्रया।
जहाँगीराऽसफौ यत्र काव्यसद्विषयीकृतौ??७२
दक्षिणे भारवीः प्राच्यां विश्वनाथो धुरन्धरः।
उत्तरे व्यासवाल्मीकौ प्रतीच्यां माघपण्डितः।।७३
परिवेषे विराजेते कालिदासोऽथ शङ्करः।
ईदृशी देववाणी सा कस्यां दिशि नियंत्रिता??७४
अहो यैः क्वापि कर्णाभ्यां पूर्वं नामापि न श्रुतम्।
विविधास्तेऽपि पाश्चात्त्या देववाणीसमर्चकाः।।७५
एकतस्ते महाप्राज्ञा विद्यामृतपिपासवः।
कृतघ्ना अन्यतश्चेमे कृपणा अल्पमेधसः।।७६
आचकांक्ष पुनर्जन्म भारते योऽमितादरः।
संस्कृतार्पितसर्वस्वो जयतान्मोक्षमूलरः।।७७
भारतं ज्ञातुकामैस्तु पूर्वं ज्ञेयोऽथ पाणिनिः ।
इतिवादी जयोन्नित्यं ह्विटनी शब्दशास्त्रवित्।।७८
भविष्यन्त्युपनिषदो परलोकेऽपि शान्तिदः।
एवम्मानी जयेत्प्राज्ञो विद्वान शोपेनहॉवरः।।७९
कस्य कस्याथवोल्लेखऋ संज्ञयाऽत्र क्रियते च।
पाश्चात्त्यबुधसाहस्री राजते संस्कृतानुगा।।८०
पाश्चात्त्येषु च देशेषु सम्प्रत्यपि समादरः।
भारतस्य यदि स्फीतः संस्कृतं तत्र कारणम्।।८१
न धनैर्न च विज्ञानैर्नापि सैन्यबलेः पुनः।
भूतले संस्कृतेनैव भारतं भारतं मतम्।।८२
उत्कन्धरोऽपि पाश्चात्त्यः संस्कृतज्ञसमक्षगः।
श्रद्धया विनतो दृष्ट आदरेण दरेण वा।।८३
कम्प्यूटरोपयोगेऽपि सर्वाधिकमनोरमा।
इत्यम्बरीष देशीयैस्तत्रज्ञैस्साधु घोषितम्।।८४
सरला सुगमा मृद्वी कान्तसौशब्द्यमण्डिता।
असीमशब्दसामर्थ्यां देववाणी विलक्षणा।।८५
काव्यापगा च शास्त्राब्धिर्वेदविद्यात्रिविष्टपा।
नाट्योपवनिका रम्या सुरवाक् भारतीधरा।।८६
साक्षाद् वाचस्पतिर्वक्त्राऽध्येता चापिशतक्रतुः।
नान्तं जगाम विद्यायाः पारं यस्यास्तथाप्यहो।।८७
सैव विद्या सुदासध्रीचीना कालविपर्ययैः।
वतंत्रे भरतेऽप्यद्य पङ्के गोरिव सीदति??८८
यस्याः प्रचारः कर्त्तव्यो ग्रामे-ग्रामे गृहे-गृहे।
हन्त सैवाद्य सूचितोऽप्यर्धचन्द्रैर्वहिष्कृता??८९
संस्कृतज्ञा विशादं मा यान्तु भद्रा अनेन वै।
कस्यापि भाविवृत्तस्य पूर्वमेतद् विधानकम्।।९०
स्थिरा भाषा स्थिरो लोकः स्थिरा ज्ञानपरम्परा।
शासनं न चिरस्थायी फेनबुद्बुदसन्निभम्।।९१
नो मृता म्रियते नोऽद्य नो भविष्ये मरिष्यति।
आकल्पं देववाणीयं भारते प्रभविष्यति।।९२
त्रिभाषायोजनायां वा नव्यभाषाविधानके।
देववाण्याः कृते कामं मा भवेद्रूचिरास्पदम्।।९३
कण्ठशय्या बुधानां तु लक्षकोटिमिताः परम्।
सुखस्वापाय सन्नद्धाः सन्ति देवगिरोऽनघाः।।९४
हिमाचलदरीरन्ध्रा आश्रमामन्दिराणि च।
पूततीर्थमहोद्देशाः पर्वतोपत्यकाः पुनः।।९५
गंगाकलिन्दजारेवाकावेरीतीरभूमयः।
देववाणीविहारार्थं सावकाशा निरन्तरम्।।९६
नावरोधवधू दिव्या देववाणी सनातनी।
कान्तारवासिनी सेयं कान्तारेष्वेव मोदते।।९७
अद्यापि निखिले राष्ट्रेऽमन्दवात्सल्यमेदुराः।
सहस्रशो विराजन्ते तल्लीलाशुकसारिकाः।।९८
गीतैः काव्यैः प्रबन्धैश्च नाट्ये शास्त्रैर्निरन्तरम्।
संस्कृतं सेवमानास्ते यान्ति नित्यं कृतार्थताम्।।९९
येषामन्यतमस्सोऽयं वाणीपादाब्जसेवकः।
मिश्रोऽभिराजराजेन्द्रो मातृहुङ्कृतिघोषकः।।१००
श्रुत्वा राष्ट्रेऽवमानं विबुधबुधगिरश्शास्तृवर्गैर्विमूढैः
क्षुभ्यत्पाथोधिकल्पो हृदयमधुवनोद्दामदावाग्निदग्धः।
प्रायागीयोऽभिराजः प्रणयति कवितां भावशाबल्यसिद्धां
बालीद्वीपे वसानः स्ववसतिसुहृदां भावसम्भावनार्थम्।।१०१
नागनागरसेन्द्वङ्के ख्रिस्ताब्दे जूनमासके।
शुक्रेऽपराह्णे श्लोकानां शतीयं पूर्णतामगात्।।१०२
।।इति श्रीदुर्गाप्रासादाभिराजीसूनुना त्रिवेणीकविनाऽभिराजराजेन्द्रेण
बालीद्वीपस्थोदयनविश्वविद्यालयाभ्यागताचार्येण
प्रणीतं देववाणीहुङ्कारशतकाख्यं काव्यं
परिस्माप्तम्।।
संस्कृतशतकम्
असंस्कृतं भवेद्राष्ट्रं भरतानां न वै यथा।
तस्मात्संस्कृतमध्येयमहोरात्रं प्रतिक्षणम्।।१
मातुः स्तन्यं विना वालो यथा नो पुष्टिमर्हति।
समाजो भारतीयोऽयमपूष्टः संस्कृतं विना।।२
शरीरं विधिना सृष्टं पञ्चतत्त्वसमुच्चयैः।
तथापि क्व नु संस्कारस्तदीयः संस्कृतं विना??३
विना गङ्गा विना गोदां विना विन्ध्य हिमाचलम्।
क्व तिष्ठेद् भारतास्तित्वं विना गीर्वांणभारतीम्।।४
भारते चापि सम्भूय पठितं यैर्न संस्कृतम्।
दर्शनायैव ते जाता हन्त बिम्बफलोपमाः।।५
वरमेको गुणि पुत्रो देववाणीविशारदः।
न चाङ्गलभाषाविज्ञाः पञ्चषा हीनवृत्तयः।।६
अद्वितीयमपि प्रेष्ठं सुतं संस्कृतपारगम्।
प्रसूयजननी धन्या मातृसौभाग्यगर्विता।।७
संस्कृतं ये न जानन्ति संज्ञयाऽपीह भारते।
अश्रुतपितृसंज्ञास्तान् जारजानेव मन्महे।।८
सम्भवेन्नु कथं राष्ट्रे संस्कृताध्ययनं विना।
आर्षाचरणपद्धत्याः प्रतिष्ठाऽत्र महीयसी??९
नाभिकस्तूरिकाकल्पा संस्कृता वागीयं मता।
भ्रान्ता भ्रमन्त्यरण्यानां मूढा गन्धमृगा इव।।१०
न स्यात्सौधसुखं कामं वरं विटपिसंश्रयः।
संस्कृताभिरूचिष्चैका स्यान्मे जन्मनि जन्मनि।।११
यथा क्षेत्रं विना शस्यं यथा वापि विना जलम्।
तथैव भारतं राष्ट्रं विना संस्कृतभारतीम्।।१२
अनिवार्यं यथा भक्ष्यं पेयञ्च जीवितुं सुखम्।
तथैव संस्कृतं ग्राह्यं ज्ञानसंस्कारहेतवे।।१३
वेदवेदाङ्गसम्मिश्रं पौराणं शास्त्रसञ्चितम्।
यत्र संरक्षितं यत्नैरध्येयं तन्नु संस्कृतम्।।१४
संस्कृतं क्व नु दिव्याबं ज्ञानविज्ञानसम्मतम्।
क्व च भाषान्तरं सर्वं दोषदारिद्रयसंकुलम्।।१५
वी-यू-टी बटेत्याहु राङ्ग्ल्या यदि विशारदाः।
पी-यू-टू पुटेतीव कथमुच्चार्यते भृशम्??१६
एम्. वाईति कृते शब्दे ऽप्यकारायोजनं विना।
कथमुच्चार्यते माईत्यवगन्तुं नशक्यते??१७
निग्टेत्युच्चारणं साधु भाति वर्णप्रयोगतः।
नाइटेति कथं तर्हि जी. एच. वर्णौ क्व विद्रुतौ??१८
सर्व पर्याकुलं भाति विपर्यस्तं स्खलद्गति।
आंग्लशब्देषु यत्किञ्चिल्लिख्यते तन्न पठ्यते।।१९
शब्दे शब्दे ततो यत्नः कार्यस्तत्रास्ति पाठकैः।
त्रुटयः सम्भवन्त्येवान्यथा प्रतिपदक्रमम्।।२०
प्रातिवेशिकसन्दर्भे निषेधार्थे च यद्यपि।
नेवरेति पदं न्वेकं वर्णयोगस्तु भिद्यते।।२१
अतः नु साम्यमाश्रित्य लेखने पठनेऽथवा।
किञ्चित्कर्तुं सविश्वासं निर्विशङ्कं न विद्यते।।२२
देववाणी पुनश्चैषा सर्वदोषविवर्जिता।
अत्र यल्लिख्यते वर्णैः केवलं तन्नु पठ्यते।।२३
भवेद्गोचारको ग्राम्यो नागरो वा महामतिः।
उभावेव पदं सर्वं त्वभिधत्तः यथायथम्।।२४
ह्रस्वदीर्घप्लुतानाञ्च स्वराणां सुव्यवस्थया।
स्वरोच्चारणसन्दर्भेन शङ्का जातु जायते।।२५
निखिले भारते राष्ट्रे किञ्च पूर्णे महीतले।
देवभाषापदानान्तु रूपमेकं विलोक्यते।।२६
नियमैः शब्दशास्त्रीयैः पाणिनीयैः स्थिरीकृता।
च्युतिं नाणीयसी याति संस्कृता वागियं मता।।२७
तस्माद् वैज्ञानिकी प्रोक्ता भारतीयं सनातनी।
अनन्तशब्दनिर्माणाऽप्यनन्तार्थप्रकाशिका।।२८
त्रिविधैः पुरुषैरेव प्रथमोत्तममध्यमैः।
क्रियानिष्पादकैरत्र त्रिभिर्हि वचनैस्तथा।।२९
कालखण्डविशेषे हि क्रिया न्वेकैव भेदतः।
नवदा जायते नूनं कर्तृगुणानुसारीणीम्।।३०
यतो हि कालखण्डास्ते वर्तमानादिभेदतः।
दशधाऽतश्च क्रियाऽसौ दृष्टा नवतिरूपिणी।।३१
कालखण्डा इमे सर्वे त्रैकालिकव्यवस्थया।
लकारैर्दशभिः ख्याता वर्तमानादिबोधकाः।।३२
यदि क्रिया पुनस्सैव विविधार्थेषु योज्यते।
आकांक्षाप्रेरणाऽऽभीक्ष्ण्यनामधात्वादिकांक्षया।।३३
रूपाणि सम्भवन्त्यस्यास्तावन्त्येव पुनः खलु।
णिजन्तानि यङन्तानि सन्नन्तादीनि यत्नतः।।३४
अनया तु दृशैकस्याः क्रियाया अधिसंस्कृतम्।
सन्ति रूपाण्यनन्तानि व्यापारबोधवन्ति नु।।३५
क्रिया सैवेयमेका चेत्प्रत्ययैः कृदिभरिष्यते।
कृताख्य़ैः प्रत्ययैर्वापि वक्त्राकांक्षाप्रपूरकैः।।३६
तदा सम्भाव्यरूपाणां सहस्रलक्षसंयुताम्।
गमनां विधिवत्कर्तुं समर्थः को न भूतले??३७
आत्मार्थं च परार्थं च प्रयुक्तेयं क्रिया ततः।
प्राक्तनाचार्यपद्धत्या भवत्यष्टादशक्रमा।।३८
यथा चैवं क्रिया दृष्टा न्वष्टादशप्रकारका।
तथा संज्ञापदञ्चापि सम्भवत्येकविंशतिः।।३९
क्रियया सह सम्बन्धाः सम्भवाः सप्तधा यतः.
यथेष्टे वाक्यनिर्माणे कर्तृकर्मादिसंज्ञया।।४०
वचनानां त्रयाणाञ्च स्थिरया सुव्यवस्थया।
एकविंशतिरूपाणि सुबन्तानि ततः खलु।।४१
रामः रामौ च रामाश्च कर्त्तरीति व्यवस्थितम्।
रामं रामौ च रामांश्च व्यवस्था कर्मणि त्रिधा।।४२
सन्ति रामेण रामाभ्यां रामैः करणकारके।
रामाय ननु रामाभ्यां रामेभ्यः सम्प्रदानके।।४३
अपाये रामाद्रामाभ्यां रामेभ्यश्चेति दृश्यते।
रामस्य रामयोः रामाणाञ्च सम्बन्धमात्रके।।४४
कारकेऽन्त्ये अधिकरणे रामे च रामयोरथ।
रामेष्वेति च रूपाणि सन्ति शास्त्रव्यवस्थया।।४५
कर्तारो यदि योज्येरन् प्रथमोत्तममध्यमाः।
स्वानुकूलक्रियारूपैर्वचनैश्चापि सङ्गतैः।।४६
तदा संस्कृतवाक्यानि शुद्धशुद्धानि पाठकैः।
निर्मातुं ननु शक्यानि प्रयत्नैरल्पमात्रकैः।।४७
न शङ्का न च सन्देहो न चापि संभ्रमः क्वचित्।
संस्कृते वाक्यनिर्माणे धारणा यदि निर्मला।।४८
समासादिव्यवस्थाभिः सूत्ररूपमुपागता।
भाषेयं संस्कृता रम्या ध्रुवं भाति गरीयसी।।४९
संस्कृता कठिना भाषा जटिला चापि दुर्गमा।
एवं विवदमानानां रक्षित्री शारदा स्वयम्।।५०
तर्तु यो न विजानाति तदर्थं दुस्तरा नदी।
स्वाभाविकोऽयं वृत्तान्तो नात्र कार्या विचारणा।।५१
शिक्षणीयं सन्तरणं प्रथमं सन्तितीर्षुणा।
एवं कृते समुद्रोऽपि भयं नोपजनिष्यति।।५२
देववाणी रसास्वादं स्वदमानो हि केवलम्।
निर्भरन्नु विजानाति न पुनर्मत्सरी जनः।।५३
कापि भाषा न दुर्बोधा भूतले जटिला न वा।
कातराणां कदर्याणांकृते सर्वं भयास्पदम्।।५४
भारती चीनदेशीया स्वराघातव्यवस्थिता।
चित्रात्मिका च दुर्बोधाविविधार्थाऽपि काकुभिः।।५५
एवं सत्यापि भाषायाः प्रयोक्तारश्च भाषिणः।
किन्न सर्वाधिका सन्ति तस्याश्चीननिवासिनः??५६
संस्कृतं चीनभाषातोऽप्यधिकं किं दुरासदम्?
स्वतः प्रामाण्यमाश्रित्य विदाङ्ककुर्वन्तु सूरयः।।५७
त्यक्त्वाऽकारणविद्वेषं सहजां हीनभावनाम्।
भ्रान्तिं मोहं भयञ्चापि भाषान्तरवृथारतिम्।।५८
अमृतद्रोहिणोऽल्पज्ञा अये मैरेयशंसिनः।
भ्रमत्तारकनेत्राणि सकृदुन्मीलय पश्यत।।५९
एषा नु वाङ्गमयी माता संस्कृताख्या महीयसी।
विश्वभाषाप्रसवित्री वत्सला वः समीक्षते।।६०
एनां श्रुत्वा पठित्वा च भाषित्वाऽपि यथायथम्।
परमां निर्वृतिं कीर्तिं यशो मानमवाप्स्यथ।।६१
संस्कृतज्ञो नु विश्वस्मिन् भूतले कुत्र नार्च्यते?
यदि स्यादनहङ्कारो विनीतोऽथ च कोविदः।।६२
सत्साहित्यपरिज्ञाननिमित्तं हन्त केवलम्।
संस्कृतं नखल्वघ्येयं सन्त्यन्येऽपि च हेतवः।।६३
ज्यौतिषं कर्मकाण्डञ्च मन्त्रतन्त्रादिविस्तरः।
संस्कृतेऽस्ति यतस्सर्वं ततोऽध्येयन्नु संस्कृतम्।।६४
किमर्थं जायते प्राणी किमर्थं म्रियतेऽथवा।
चेद्यदीतीव जिज्ञासा ततोऽध्येयन्नु संस्कृतम्।।६५
मृत्योरन्तरं जीवः कुत्र गच्छत्यलक्षितः।
किं भुक्तीतिः जिज्ञास्यं ततोऽध्येयन्नु संस्कृतम्।।६६
कथं संचितकर्माणि यान्ति भाग्यस्वरूपताम्।
यदीदं वेत्तुमाकांक्षा ततोऽध्येयन्नु संस्कृतम्।।६७
क्रियमाणानि कर्माणि शुभान्यप्यशुभं फलम्।
अशुभान्यपि कर्माणि कथमैश्वर्यवन्ति च।।६८
सर्वेऽप्येवंविधाः प्रश्ना अनास्थाक्षोभकारकाः।
यदि युक्त्या समाधेयास्ततोऽध्येयन्नु संस्कृतम्।।६९
अव्यक्ताद्व्यक्तसंसारः कथमुद्याति सक्रमः?
कथञ्च लीयते तस्मिन् सहसा सप्रतिक्रमः।।७०
पञ्चभूतात्मको देहः आत्मनोऽस्ति कथं पृथक्?
किंस्वरूपोऽयमात्मा च गूढगूढोऽप्यगोचरः।।७१
श्रेयः प्रेयोविवेकाभ्यां छिद्यते मोहबन्धनम्।
कथमेतद्यदि ज्ञेयं ततोऽध्येयन्नुसंस्कृतम्।।७२
अवेद्यवेदने शक्ता दिव्या संस्कृतभारती।
अदृश्यदर्शने दक्षाऽप्यभेद्यभेदनोद्धुरा।७३
विश्वभाषाः समग्रास्तु यज्ज्ञाने क्षीणशक्तयः।
ऋषीणां वागीयं तत्र समर्था क्रान्तदर्शिनी।।७४
पारलौकिकसत्यानां ज्ञाने स्याद्यदि साहसम्।
मुमुक्षुभिः प्रशान्तैश्च ततोऽध्येयन्नु संस्कृतम्।।७५
पशुवज्जीवनं क्षुद्रं शोकमोहमलीमसम्।
विधेयं यदि दिव्याभं ततोऽध्येयन्नु संस्कृतम्।।७६
मोहलोभमदेर्ष्यादिषड्ऋपुक्लिष्टवन्धनम्।
सविवेकं यदि त्याज्यं ततोऽध्येयन्नु संस्कृतम्।।७७
नलिनीपत्रवत्तोये वसनीयमनेहसि।
यद्यध्यात्मदृशा नूनं ततोऽध्येयन्नु संस्कृतम्।।७८
काममर्थंकरी भूयात्सा विद्या या विमुक्तये।
यदीदं सत्यमास्वाद्यं ततोऽध्येयन्नु संस्कृतम्।।७९
विश्वभाषान्तरज्ञाने यदि स्याद्रुचिरात्मिकी।
निर्विशङ्कं निरातङ्कं ततोऽध्येयन्नु संस्कृतम्।।८०
संस्कृतं विश्वभाषाणां मूलमत्र न संशयः।
भाषासमीक्षयाप्येतत् सिद्धमेव विना श्रयम्।।८१
क्वचित् सिक्स्टी क्वचित् षष्टिः क्वचित्त्रि थ्री क्वचित् पुनः।
क्वचित्केमल् क्रमेलश्च क्वचित्किं दृष्टमन्तरम्??८२
अधीती संस्कृतस्यैकः समग्रेऽपि महीतले।
सुखं दिग्विजयं कर्तुं क्षमते नात्र संशयः।।८३
संस्कृतश्लोकमाधुर्यं विनाऽप्यर्थप्रकाशनम्।
सामान्यजनसम्मर्दं मदयत्येव साग्रहम्।।८४
प्रतिकाण्डं यथा गाढाद् रसो गाढतरो भवेत्।
ईक्षुदण्डे तत्रैवात्र श्लोके संस्कृतवाङ्गमये।।८५
संगीतमयता हृद्या भावश्चापि सुधामयः।
छान्दसी माधुरी रम्या संस्कृतस्यास्ति दुर्लभा।।८६
संस्कृताऽमृतगर्भा वाग् देवचारित्र्यशंसिनी।
यां पठित्वाऽनभिज्ञोऽपि कलां देवीं समश्नुते।।८७
काव्य-शास्त्र-पुरावृत्तवेदवेदाङ्गमण्डिता।
कामधेनुश्चतुष्पादा संस्कृता वागीयं मता।।८८
सर्वकामदुहा दिव्या प्रवरा नन्दनाश्रिता।
संस्कृता कल्पवल्लीयं नित्यपुष्पा महीयसी।।८९
सुवर्ण पुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
संस्कृताधीतिनो गेहे पौत्रः पुत्रः पितामहः।।९०
जातो न जातको यस्मिन् संस्कृतज्ञो गृहाङ्गणे।
वृथैव तस्य निर्माणे प्रतीता वास्तुसारणी।।९१
संस्कृतज्ञविहीनं तद् गृहमैश्वर्यमण्डितम्।
नक्षत्रमण्डितं व्योम चन्द्रहीन प्रतीयते।।९२
संस्कृतेनैव संस्काराः संस्कारेरैव संस्कृतिः।
संस्कृत्यैव भुवि ख्यातं राष्ट्रमार्यं नु भारतम्।।९३
सत्स्वपि द्रुमपुञ्जेषु यथा चन्दनशाखिना।
मालयोद्रिर्भुवि ख्यातस्तथा संस्कृतभारतम्।९४
संस्कृतेन समायुक्तो दुरारोहोऽपि मानवः।
मणिना भूषितो भोगी महार्घः सम्प्रतीयते।।९५
यद्यवश्यमधिग्राह्या भारती काऽपि जीवने।
कथं न संस्कृता वाणी दिव्यपेयमिवामृतम्।।९६
अल्पप्रयत्नमात्रेण शिक्षिका शुकसारिकाः।
संस्कृतं यदि भाषन्ते मानवाः कथमक्षमाः??९७
नवप्रभातमायातं भद्र! जागृहि जागृहि।
उदेति दिशि पूर्वस्या पश्य संस्कृतभास्करः।।९८
संस्कृतेन प्रभातं स्यान्मध्यन्दिनमथो तथा।
संस्कृतेन भवेत्सन्ध्या संस्कृतेनैव यामिनी।।९९
जननं संस्कृतेनैव संस्कृतेनैव जीवनम्।
मरणं संस्कृतनैव लोकान्तरगतिस्तथा।।१००
मिश्रऽभिराजराजेन्द्रो देववाणीसमर्चकः।
विश्वविद्यालये दिव्ये शिमलाख्ये मनोरमे।।१०१
नियुक्तस्संस्कृताचार्यस्त्रिवेणीकवीसंज्ञितः।
समुत्तरयति प्रश्नं कुतोऽध्येयन्नु संस्कृतम्।।१०२
यूमग्रहग्रहेन्द्वब्दे ख्रैस्ते मासे सिताम्बरे।
त्रयोविंशदिने पूर्णं काव्यमेतद् बुधे मया।।१०३
।। इति दुर्गाप्रसादाभिराजीसूनुना त्रिवेणीकविनाऽ
भिराजराजेन्द्रेण प्रणीतं संस्कृतप्रशस्तिकाव्यं
प्रपूर्णम्।।