पराम्बाशतकम्
(भगवती रुद्राणी को समर्पित अभिनव मौलिक स्तोत्रकाव्य)
रचनाकाल (रात्रिवेला)
१८ जून ८१ : १-१६ तक।
१९ जून ८१ : १७-४५ तक।
२० जून ८१ : ४६-६८ तक।
२१ जून ८१ : ६९-८९ तक।
२३ जून ८१ : ९०-१०३ तक।
भवानि स्तोतुं त्वा प्रभवति चतुर्भिर्न वदनः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि।
न षड्भिस्सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः
(आनन्दलहरी)
मृषा बन्धनैर्नाशिता जीविताशा
मुधाधावनैः कण्डितः सन्धिबन्धः।
न शक्नोमि गन्तुं न वा स्थातुमेव
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१।।
न दृष्टो मया तातपादस्तु बाल्ये
न संरक्षण-प्रेम तस्यानुभूतम्।
न वात्सल्यसौख्यं विजानामि मात-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२।।
अकिञ्चित्करं दीनदीनं विहीनं
विपद्भिर्युतं भूरि चञ्चत्प्रपञ्चम्।
विसोढं मया शैशवं भिक्षुकल्पं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३।।
जनन्याऽभिराज्या मम प्राणदात्र्या
विपच्चक्रवालेऽपि तैस्तैरुपायैः।
कथञ्चिच्छिवे! वर्धितो योऽहमस्मि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४।।
निशीथे यदा क्वापि चिन्तावितानै-
र्मया संस्मृतं पादपद्मं त्वदीयम्।
तदा सद्य आलोकितं सुप्रभातं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५।।
असृग्बिन्दुजाते त्वदीयं कृपाम्बु
प्लवीभूय मातर्यदेकीबभूव।
शपाम्यम्ब! तेनैव जीवामि नित्यं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६।।
विरुद्धा अभूवन् सुहृन्मित्रवर्गाः
पितृव्योऽपि मेऽसाधुदर्शी मदर्थम्।
यदा भग्नमासीद्धि जीवातुसूत्रं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७।।
न केनाऽपि मद्दुःखदैन्यं विभक्तं
न वा तोषितं मर्षितं लालितं वा।
त्वयैवाम्ब! निश्शब्दमङ्गीकृतोऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८।।
कृतो भूरि यत्नः कृतो भूर्युपायः
समाराधिताश्छुद्रजीवाः पृथिव्याम्।
तथाऽप्यस्मि कस्यापि नो प्रीतिपात्रं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९।।
जगज्जीर्णदुःखैर्नु तातप्यमान-
श्शरण्यां यतस्त्वामहं सङ्गतोऽस्मि।
तदारभ्य पादाम्बुजस्रावपूत-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१०।।
विवादार्दितो वाथ कौलीनलीनः
प्रमाणं विचिन्वन् गतस्तेऽङ्घ्रिमूलम्।
शमाप्तं न किं रोदरीभूय पद्मे
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।११।।
हिमाधारकन्ये शिवे विष्णुमाये
जगद्व्यापिनि प्रीतिरूपे सुरुपे।
स्मराम्यद्य कं कं गुणं तावकीनं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१२।।
न गाङ्गं जलं तादृशं शोधकारि
प्रसादामृतं तत्त्वदीयन्तु यादृक्।
मया यद् वृतं प्रोच्यते तद्विशङ्कं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१३।।
न तारापथेऽसौ प्रविस्तारभावो
मयाऽऽलोकितो यो भवद्वत्सलत्वे।
न दिग्भिर्वृतश्चित्रितस्तारकैर्वा
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१४।।
न पुष्पासवे तद्धि माधुर्यमस्ति
त्वदीयेऽम्ब! यत्स्तन्यपूरेऽअनुभूतम्।
गतो देवभावं निपीयैकवारं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१५।।
न रत्नाकरे तद्धि गाम्भीर्यमस्ति
त्वदीयेऽम्ब यद्वाग्भरे कर्णितम्मे।
अभूद्राजराजः श्रुतं येन पुण्यै-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१६।।
वसन्ते कुतो रूपसौन्दर्यराशि-
र्मृडानि¡ त्वदीयाननेन्दौ य आस्ते।
लसस्त्नेहपीयूषधारासहस्रे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१७।।
तुषाराद्रिसानौ कुतस्तुङ्गताऽसौ
महेशानि! याऽऽशीःप्रभावे त्वदीये।
ययोत्थापितोऽहं नमोवाकमीडे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१८।।
जगद्धात्रि! मातस्त्वदीये कुटुम्बे
निपीता मया लोचनाभ्यां नितान्तम्।
समृद्धिः क्व काश्मीरजेशेऽनघा सा
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।१९।।
न मे संस्तुतौ शक्तिरास्ते पुराणी
न वाणी मदीयाऽप्यलं शब्दशुद्धा।
स्नवद्बिन्दुभिः पूरये क्षीरसिन्धुं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२०
भवत्या सदा पालितोऽहं प्रयत्नैः
कुलाधारहीनो भवाचारलीनः।
महत्सङ्कटे रक्षितश्चन्द्रघण्टे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२१।।
गृहे वा वने वाऽध्वनि प्रोषिते वा
सुखस्वापवृत्ते बृहज्जागरे वा।
द्वितीयस्त्वयाऽऽसं न किं छिन्नमस्ते
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२२।।
न दक्षोऽस्मि मातश्छले वञ्चने वा
प्रवृत्तिर्न पापे न वाऽऽसक्तिराजौ।
कराले कलौ तर्जितो भर्त्सितोऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२३।।
यदासीन्मनोवृत्तिषूच्चावचम्मे
तदेवाम्ब! वाणीषु कार्येषु चालम्।
अनेनागसा धर्षितोऽहं समाजे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२४।।
मया शास्त्रवाक्यं सदाऽमानि मात-
र्न लोकस्समाराधितोऽपेक्षितो वा।
अतो मार्गमारुह्य दुर्गं प्रवृत्त-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२५।।
पठित्वाऽऽर्षवाचं समाधाय सत्यं
सयत्नं मया पालितं स्वैश्चरित्रैः।
ततोऽभूवमाश्चर्यकर्मा जगत्यां
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२६।।
विपद्दाहदग्धोऽपि दुःखं स्वकीयं
समक्षं न कस्याप्यरोदं कदाचित्।
शिवे! त्वां विहायान्यथा कः शृणोति
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२७।।
अनिच्छन्निबद्धोऽस्मि संसारपाशे
कथं नात्मपादाब्जसेवी क्रियेऽहम्।
रुचिर्नैव मीनाक्षि! भृत्येषु मन्ये
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२८।।
कदा त्वद्गृहद्वारकोणेषु मातः
प्रभाते सुखं मार्जयामि प्ररोहान्।
इदं चिन्तयन्नैव शक्नोमि शेतुं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।२९।।
कदा वाहनं त्वन्मृगेन्द्रं सगन्धं
कलं लालयन् सारणैरह्गुलीनाम्।
प्रहृष्टं करोमीति चित्ते दुनोमि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३०।।
कदा त्वद्धवं सर्वदेवाभिवन्द्यं
शिवं शूलिनं गीतिभिर्बोधयामि।
त्वदाज्ञावशीभूत आदित्यधाम्नि
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३१।।
कदा त्वत्सुतौ कार्त्तिकेयाखुयानौ
त्वदीयैर्निदेशैरहं प्रातराशे।
समाहूय मातः कृतार्थीभवामि
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३२।।
कदा सुन्दरि! त्वत्पदाम्भोजरागे
क्षमं भूरि लाक्षारसं काननेषु।
विचिन्वन् प्रियन्ते करोमीति मोदे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३३।।
कदा वेणिकाबन्धयोज्यं प्रसूनं
भृशं मार्गयन् वाटिकासु प्रभाते।
निदेशं प्रियं तावकं निर्वहामि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३४।।
कदा पञ्जरे रत्नमाणिक्ययुक्ते
शुकीभूय गायामि ते युद्धशौर्यम्।
कदा दाडिमं त्वत्करेणाद्यि मात-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३५।।
पुरारातिगेहिन्यये लोकवन्द्ये
सुरेशादिपूज्ये महाशक्तिरुपे।
न के रक्षिताः सृष्टितल्पे शयाना-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३६।।
न यस्यास्ति माता त्वमेवासि तस्य
प्रभुर्नापि यस्य त्वमेवासि तस्य।
त्वमेवासि सम्बन्धभागजन्मभाजां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३७।।
तपोऽपेक्षितं साधना चाऽप्यभीष्टा
समाराधने देवशक्त्यन्तराणाम्।
त्वदुद्बोधनेऽलं परन्त्वश्रुपात-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३८।।
परित्राणमेवादिमो धर्मबन्धः
स्वपादाम्बुजस्थायिनामार्तिभाजाम्।
न तत्सङ्कटे देवि धत्से विलम्बं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।३९।।
हरिः पात्रतां पश्यति क्लेशभाजां
प्रवृत्तिं स्वकीयां शिवोऽसौ दयालुः।
त्वमम्बैकमात्रं शृणोस्यार्तनादं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४०।।
विरक्तं हरिः शङ्करश्चापि भक्तं
ध्रुवं वाञ्छतः किन्तु चित्रास्ति दृक्ते।
व्यथाक्रन्दितं भावयस्यम्ब! दीनं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४१।।
अये राजराजेश्वरि! स्थाणुभार्ये
कथं सद्गुणांस्तेऽखिलान् संस्मरामि।
क्व मे नादबिन्दुः क्व ते कीर्तिसिन्धु-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४२।।
वसन्तश्रियं श्रावयिष्यत्यनूनां
कथं भृङ्गडिम्भो निरुद्धात्मशक्तिः।
न खद्योतमाला क्षमा चन्द्रिकायां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४३।।
निपीता मया त्वत्कृपामञ्जुमाध्वी
जये! नैकवारं न तोषस्तथाऽपि।
तृषा वर्धते हन्त! पानेन सार्धं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४४।।
लसल्लोचने भैरवि! भ्रामरि त्वां
भजेऽनन्यसम्पोषणस्थानकोऽहम्।
न याचे किमप्याशुग भोतिकं स्वं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४५।।
प्रसीदेश्वरि! प्राणदे देहि मह्यं
वरं दुर्लभं न द्वितीयन्तु याचे।
तवाङ्घ्रिद्वये पूतभक्तिर्भवेन्मे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४६।।
यदा जन्म योनौ नृणां सम्भवेन्मे
तदा प्रत्यहं स्याद्विपन्मेघवृष्टिः।
विपत्तिं विना कः स्मरेदम्ब गोप्त्रीं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४७।।
विघातैर्विना प्रत्ययः क्वास्ति काले
विना प्रत्ययं क्वास्ति शं कालरात्रे!
न कार्तार्थ्यमस्ति ज्वलज्जीवितस्य
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४८।।
यदीहा समग्राध्रुवं पूरिता स्याद्
भवेन्मानवो रावणो वा बलिर्वा।
करोत्यास्तिकं तं सदिच्छाविघात-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।४९।।
सुहृज्ज्ञातयो नाम मुञ्चन्तु दिष्ट्या
मदाशालताऽद्यैव दावानने स्यात्।
त्वमेका न मां मुञ्च मा मुंच मा मा
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५०।।
विना भोजनैर्जीवितुं किन्न शक्तो
निपीयासकृज्जीवनं जीवमानी।
तथा जीवति त्वन्मयो योऽभिराज-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५१।।
ममत्वाचिते पुण्यकारुण्यधारे
सृतिस्ते कृपाया न शब्दाभिधेया।
प्रमाणंभवेन्मूर्तकृत्यं यदेकं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५२।।
कलङ्कान्धकूपे तमस्तोमरुद्धे
गतं दैवगत्यैव दन्द्रम्यमाणम्।
प्रसार्याग्रहस्तं करोस्युद्धृतं मां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५३।।
कथं भूतलाम्बोपकारांस्त्वदीया-
नहं विस्मरामि त्वदेकः कृतज्ञः।
यदासं यदस्मि ध्रुवं तत्त्वयैव
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५४।।
विशालाक्षि दुर्गे जये चित्तरूपे
अपर्णे शिवे पाटले दक्षकन्ये।
भवानि त्रिनेत्रे! विरौम्यूर्द्ध्वबाहु-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५५।।
अये गौरि नारायणि स्थाणुजाये
शुभे सर्वतोलक्ष्मि सर्वस्वरूपे।
सकृत्पश्य वाराहि! मां दीनदीनं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५६।।
कथं त्र्यम्बके नाम्बकभ्रूविलासै-
स्सहेलं सुतं भावयस्येकवारम्।
कथन्नैव भीतं परित्रायसे मां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५७।।
त्वमैन्दीश्वरी वैष्णवी विष्णुमाया
त्वमेवासि सन्मङ्गलं मङ्गलानाम्।
जयन्ती क्षमोमा रमा कालिका त्वं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५८।।
कियन्त्येव नामानि सद्भाञ्जि मात-
र्जनोद्धारशक्तानि भूमौ प्रथन्ते।
व्यथार्तैस्तु पाथेयरीत्याऽऽहृतानि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।५९।।
महालक्ष्मि! दैत्यद्रुतैर्देववृन्दैः
स्तुता तत्क्षणं तान् विभीकान्करोषि।
क्षणं मेऽपि कण्ठस्वरं भावयार्द्रं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६०।।
दृशोरस्रजातानि शुष्कानि मात-
र्निरुद्धो रवः क्रन्दनोत्थोऽपि कण्ठे।
उपैत्यम्ब! शैथिल्यमाशालता मे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६१।।
स्तवैर्गीतिभिः स्तोमीशा बभूव-
र्न दुर्धर्षशक्तिप्रपन्नाः सुरा यत्।
कथङ्कारमीशो भवेयं विमूढ-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६२
सदुच्चारणैरम्ब! नाम्नां भवत्या
भवत्येव पूताऽऽविला वाग्जनानाम्।
न ते कोऽपि लाभो विशेषोऽत्र दृष्ट-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६३।।
क्वचित्पर्वतस्योच्चसानौ स्थितासि
क्वचिद्भूमिकुण्डे विलीनासि मातः।
क्वचित्कन्दरायां ध्रुवं दुर्लभासि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६४।।
क्वचिद्धिङ्गुलाजे ज्वलज्ज्योतिरुग्रं
क्वचित्कामरूपे वृता योनिधाम्ना।
क्वचिन्नेत्ररूपा क्वचिदबाहुरूपा
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६५।।
बहून्येव रूपाणि ते विग्रहस्य
क्षमायामये चण्डिके! सम्भवन्ति।
तथाऽप्येकलेनैव मुक्तिर्जनानां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६६।।
यदा मौनमास्थाय वृत्तिं वहामि
तदाऽप्यन्तरे त्वच्छविंतेऽभिधानम्।
विभाव्याम्ब! मोदं विशेषं वृणेऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६७।।
प्रयाणे स्थितौ जागरे वाऽथ सुप्तौ
चितावाचितौ त्वन्मयीभूय मातः।
दिनान्यायुषो वृद्धमानी नयेऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६८।।
जगद्व्याधिभिः शोकमोहाभिघातै-
र्व्यलीकानुबन्धैर्मृषा मुद्विलासैः।
अलं पिडितस्ताडितोन्यक्कृतोऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।६९।।
न शान्तिगृहे तुष्टिरास्ते न भोगे
न वा मुक्तिशं नामरूपप्रपञ्चे।
समाधाय सर्वं पदं देवि! सेवे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७०।।
महेशानि! का मे गतिस्त्वां विहाय
प्लुतोऽहं पृथिव्यां प्रमादाद्धि जातः।
सुतं मादृशं प्राप्स्यसि क्वापि नान्यं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७१।।
न मे जीवनाडम्बरो नातिमाया
पणः कोऽपि नो नास्ति कांक्षा विशाला।
तव द्वारभूमौ यदि स्थापितोऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७२।।
व्यथावैदनैर्दुःखभाजां सुराणां
गृहाभ्यन्तरोदन्तविज्ञापनैर्वा।
यदि ज्ञातवृत्तां विधास्ये भवानीं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७३।।
जगद्धात्रि! लावण्यपूरप्रवाहै-
र्दृशान्तेऽभिभूतो भुजैस्सारितश्च।
सुधां वा तृषां वा न किं विस्मरामि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७४।।
यदा रत्नसौधेतुषाराद्रिबाले
लसद्घर्मबिन्दुश्रितं ते मुखाब्जम्।
प्रपश्यामि तोषो भवेन्मेऽतिमात्रं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७५।।
विनाश्यार्तिमुत्क्रन्दतां भक्तिभाजां
यदा रौद्ररूपे! निवृत्यागताऽसि।
तदाऽऽलोकये कोटिसूर्यंप्रभां त्वां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७६।।
यदा पुत्रयोर्धूलिकल्पो विवादो
भवन्निर्णयैः शाम्यति प्रीतिवाक्यैः।
तदाऽऽलोकये स्मेरकौटिल्यलोलां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७७।।
यदाऽऽगच्छति प्रौढवर्द्दोऽन्तिके ते
मृगेन्द्राभिभूतो व्यथावेदनाय
तदालोकये धूर्जटिक्रोशशुक्लां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७८।।
यदा चञ्चुकोट्युच्छलद्घट्टनाभि-
र्विपन्मूषिकस्त्वां शरण्यामुपैति।
गुहक्रौञ्चनिन्द्राश्रवैः प्रीणितासि
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।७९।।
यदा मोहिनीरूपसंस्मारणैः स्वं
प्रियं शङ्करं सत्रपं त्वङ्करोषि।
तदाऽऽलोकये त्वां लसद्भूरिभाग्यां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८०।।
यदा भौमदैत्यानुधावप्रसङ्गैः
प्रियं शूलिनं नर्मपात्रीकरोषि।
तदाऽऽलोकयेऽधीनकान्तैकसौख्यां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८१।।
यदा स्वव्रतान्तोत्थशम्भोरुदन्तं
व्युदाहृत्य पादानतिञ्चापि वक्षि।
तदाऽऽलोकये रूपगर्मोन्नतां त्वा
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८२।।
यदा सारयन्तं स्वकीयं कपर्दं
प्रियं प्रेक्ष्य गङ्गेर्ष्यया शङ्कितासि।
तदाऽऽलोकये खण्डितां त्वां व्यलीकं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८३।।
यदा शाक्तशैवोच्च तादिप्रसङ्गे
कलिर्जायते ते वृषाङ्केण सार्धम्।
तदाऽऽलोकये त्वां क्षणोद्भिन्नरोषां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८४।।
यदा दर्शनायागतं चन्द्रमौले-
र्हरिं वेधसं वज्रिणं सत्करोषि।
तदालोकये त्वामुमामन्नपूर्णां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८५।।
वसेयं तवाभ्यर्णचारी हि भूत्वा
प्रपश्यामि किन्नो सहस्रं स्वरूपम्?
अतो नार्हसि प्रार्थनां मेऽवरोध्दुं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८६।।
अये विश्वरूपे ममालोकयाधिं
ममेतिञ्च भीतिञ्च दुःखानुबन्धम्।
क्षणं धेहि मय्यम्ब! कारुण्यदृष्टिं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८७।।
गतं भैक्ष्यवृत्त्याऽमतं शैशवम्मे
कटुत्वाविलं यौवनोर्ध्वं मुधैव।
त्वमेवैकला साक्षिणी मत्कृतानां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८८।।
हृदः पूततां रम्यतां मद्गुणानां
चरित्रस्य निष्ठां गतिं मत्पदानाम्।
विजानासि मातः करस्थाम्रकल्पां
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।८९।।
विचित्रोऽथवा संसृतेर्मानदण्डः
समाभाति मे कज्जलस्य प्रकोष्ठः।
कलङ्काङ्कितो यत्र दक्षोऽपि दृष्ट-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९०।।
पुरो धावमानं जनं धर्मंभीरुं
समाजोऽयमम्बानुधावत्यजस्नम्।
स्वयं रावणानुद्रुतः किन्तु रौति
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९१।।
व्यलीकानुशंसी व्यलीकानुभाषी
व्यलीकक्रियोऽयं व्यलीकोपचारः।
समाजो मयोपेक्षितो दुःखभाजा
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९२।।
समाजोऽथ मां निन्दति प्रत्यहं किं
समाराधते शंसति प्रत्यहं किम्?
समाजो मृतो जीवितस्तेन मे किं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९३।।
ऋतं वाऽनृतं भाषितं जीवने यत्
प्रमाणं त्वमेवासि मातः किमन्यैः।
जगद्दानवं तत्तृणायैव मन्ये
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९४।।
शरीरे च्युते ते भवेदाभिमुख्यं
तदा दृश्यते क्वान्धदृष्टिस्समाजः!
भवत्यावयोरन्तरे सत्यमेकं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९५।।
जपंस्तेऽभिधानं स्फुद्भ्यां नितान्तं
कपाटद्वयाभ्यां मुखस्याम्ब! सोत्कः।
मुमूर्षः कदा द्वास्तवाऽऽलोकयेऽहं
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९६।।
समासाद्य मातः प्रतीहारभूमिं
निवेद्यागमं स्वं गलन्नेत्रनीरः।
कदा दीनदीनः प्रतीक्षे विलेल-
स्त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९७।।
भवत्यानुपृष्टः कदाऽऽत्मानुभूतिं
जगद्व्यालदष्टां निकारैकतत्त्वाम्।
क्षणं वेदयन् जन्ममुक्तिं प्रयाचे
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९८।।
कदा त्वद्वचोजाततोषस्य मात-
र्भविष्यत्यहोऽखण्डसौख्यं मदीयम्।
इति प्रार्थयन् मूकतामेमि सम्यक्
त्वमेव त्वमेव त्वमेवाम्ब! पाहि।।९९।।
इति सदयवचोभिः स्तूयमाना पराम्बा
निखिलविभवदात्री मेऽभिराजस्य गोप्त्री।
विशदयतु कवित्वं भावशिल्पप्रधानं
शमयतु शिशुदोषान् जन्मजन्मानुबिद्धान्।।१००।।
यदि सुरगुरुबुद्धिः शक्तिनप्तुः कवित्वं
प्रणतिरतिगभीरा शङ्कराचार्यभक्तिः।
त्रितयमपि मिलित्वा भावयेन्मेऽन्तरालं
तदपि जननि! नाहं स्तोतुमीशः कथञ्चित्।।१०१।।
पारम्परीणविरुदोचितशब्दजालै-
र्नाहं स्मरामि भवतीं स्वकवित्वदर्पैः।
शब्दानवेहि मम वाङ्मयनेत्रनीरं
नो मृग्यतेऽम्ब शिशुवाचि पदार्थशुद्धिः।।१०२।।
आत्मनः परितोषार्थं भुक्तिमुक्तिविधायिनीम्।
जननीं स्तोति साह्लादं राजेन्द्रः शतपद्यकैः।।१०३।।
वसुरामखनेत्राङ्के विक्रमवत्सरे घनागममासे।
षष्ठ्यां वदि कुजंवारे गिरीशगृहिण्यै स्तुतिर्दत्ता।।१०४।।
इति गौतमगोत्रीयभभयाख्यमिश्रवंशोपजातेन श्रीमद्दुर्गा-
प्रसादाभिराजीदेवीसूनुना त्रिवेणिकविनाऽभिराज-
राजेन्द्रेण स्वान्तःसुखाय विरचिताऽनिशं
गीता च पराम्बास्तुतिः समाप्ता।