प्रेम्णो विजय:
(१)
नवयौवनारम्भ एव युरोपाद्भारतवर्षमुपागतो मिस्टरहोममहोदय: सम्प्रति समग्रस्य एटावाप्रान्तस्य शासक:। लघु-मन्द-मध्यम-श्रेणीयेषु पदेषु यथाक्रमं शासनानुभवं सञ्चितवतोऽस्य साम्प्रतमुपगतं वार्द्धकम्, किन्तु विजितजातीयै: सह घृणाव्यवहारस्य नासीदस्मिन् लेशोऽपि। प्रत्युत भारतीयानां सरलतां स्वाभाविकशिष्टतां च हृदयेनाऽयमभिरोचयति स्म। समग्रं जीवनकालं भारतवर्षीयैरेव यापितवतोऽस्य प्ररूढस्तेषु प्रणय इति तत्परचिता: प्राहु:। हरिपुरग्रामनायको रायवेणीप्रसादमहोदयोऽस्य अभिन्नमित्रमासीत्।
मिस्टरहोममहोदयस्य पत्नी पूर्वमेव दिवमगात्। केवलं पञ्चवार्षिक: पुत्रो जेम्सनामक एवास्य प्रणयावलम्बनमासीत्। यदा हि होमस्य अन्तसमय: समुपास्थित तदा वेणीप्रसादमाहूय निजपुत्रस्य करं तद्धस्ते निहितवान्, सस्मितमभिहितवांश्च- 'डियर वेणी! साम्प्रतमहं रामस्य समीपे गच्छामि। मत्समीपे केवलं सार्द्धत्रयलक्षमुद्रा: सन्ति ता इमा गृहाण। अयं पुत्रस्तवैवाऽस्ति। यथेच्छमिमं पाठय। आई. सी. एस् परीक्षा अवश्यमनेन दापयितव्या, इत्येव मे हृदयरूढो विचार:। अस्तु, अन्तसमये इदमेव मे दानपत्रम्। अयमेव च मे तुभ्यमनुरोध:।
(२)
वेणीप्रसादस्य गृहं ग्रामेऽभूत। विंशतिसहस्रमुद्रा: प्रतिवार्षिको भूसम्पत्तेराय:। ग्रामनायकस्य गृहमागत्य सुशीलबालको जेम्स: शनै: शनैर्दम्पत्योरासीत्प्रणयभाजनम्। दैवयोगादासीद्वेणीप्रसादस्य गृहं सन्तानशून्यम्। सम्प्रति जेम्समिममुपलभ्य ग्रामनायकपत्नी प्रणयनि:श्वासममुचत्। जेम्सस्य भारतीयं नामाऽभूत् 'ललिताप्रसाद’ इति। गृहमागत्य त्रयोऽध्यापकास्तमिमपाठयन्। संस्कृत-हिन्दी-अंग्रेजीनां शिक्षा नियमत: पर्यचलत्। ललित: कदाचिच्चोलकं धौतवस्त्रं चाधारयत्, कदाचित्तु 'कमीज’ 'पैण्टं’ च पर्यधत्त। यथा स ललितनाम्ना सम्बोधित: प्रत्यवदत्तथा जेम्सेत्याहूतोऽपि प्रत्यभाषत। निचितमभूत्तस्य नामद्वयम्।
जेस्सोपनामकोऽयं ललितो वेणीप्रसादं पितेति, तत्पत्नी च अम्बेत्याह्वयत। यदा ह्ययं प्रावेशिक (ऐंट्रेन्स) परीक्षामुदतरत्तदैव दैवयोगाद् ग्रामनायकस्यान्तसमय: समुपातिष्ठत्। स हि निजपत्नीं सधैर्यमवादीत्- 'एषोऽहं गच्छामि गोविन्दचरणारविन्दे। न भवत्या विक्लवया भाव्यम्। ललितोऽयम् आई. सी. एस. परीक्षापर्यन्तमवश्यं पाठनीय:। एष हि प्रेषणीयो युरोपान्प्रति। अयं तत्र बी. ए. परीक्षां दत्त्वा आई. सी. एस. परीक्षा प्रवेक्ष्यति। किं प्रोक्तेन, चिरमित्रस्य होममहोदयस्येच्छाऽवश्यं पूरणीयैव, कामं मे भूसम्पत्ति: सर्वाऽपि गच्छेत् तिष्ठेद् वा ।अयमौरस:
पुत्र इव द्रष्टव्य इति तु न वक्तव्यं स्वभावत: प्रणयवत्यै भवत्यै, किन्तु जेम्सनाम्रा या: सार्द्धत्रयलक्ष्यमुद्रा: कोषे निहितास्ता: सङ्कटेऽपि न स्प्रष्टव्या:।
(३)
जेम्सो युरोपमगात्। तत्र पञ्च वर्षाण्यपठदयम्। प्रथमम् आक्सफोर्डविश्वविद्यालयस्य बी. ए. परीक्षामुदतरत् तदनन्तरं आई. सी. एस. परीक्षायां प्रथमोऽभूत्। एतस्य माता परस्सहस्रमुद्रा: पठनव्ययार्थं प्राहिणोदस्मै। एषा हि औरसपुत्रादप्यधिकमस्मिन्नस्निह्यत्। यदि जेम्स: पञ्चशतमुद्रा अभ्यलषत्तर्हि तस्य धर्ममाता सप्तशतमुद्रास्तस्मै प्रैषयत्। मम पुत्र: 'परदेशे’ न क्लेशमवाप्नुयादित्येव प्रतिक्षणमचिन्तयन्माता।
इतोऽस्वामिकां भूसम्पत्तिमवाप्य कर्मचारिभिर्ग्रामोत्त्थो लाभ: स्वकीय एव परिगणित:। कश्चिदंश: स्वामिन्यै दत्तस्तर्हि भूयान्भागो ग्रामप्रबन्धकार्ये लुप्त:। य: कश्चिदवशेष: स हि कृषीवलेभ्य: सङ्ग्राह्यतया ऋ णशेष: परिकल्पित:।
ग्रामेऽस्मिन् त्रयोऽन्येऽपि भूस्वामिनोभूवन्। स्वर्णावसरेऽस्मिन् ऋणं दत्त्वा दत्त्वा सर्वापि भूसम्पत्तिस्तैर्बन्धकीकृता। अर्थलोलुपैर्भृत्यैश्चौर्यस्य मिषेण वेणीप्रसादस्य सर्वापि गृहसम्पत्तिर्द्वित्रिवारेषु निजगृहमनीयत। अवाशिष्यत केवलं गृहं गृहस्वामिनी च सा वृद्धा।
तस्मिन् समय एव जेम्समहोदय एटावाप्रान्तस्य शासको भूत्वा भारतं पराववृत्ते। एष ह्यष्टदिवसानेव प्रधानकार्यालये स्थित्वा स्वप्रान्ते भ्रमण-निरीक्षणस्याज्ञां प्राचारयत्। सर्वत: प्रथमं हरिपुरग्रामं प्रापत, यत्र ह्यसौ ललितो भूत्वा शैशवस्य ललितक्रीडाश्चक्रे। ग्रामाद्बहिर्महत्येकस्मिन्नारामे प्रान्तीयशासकस्याऽस्योपनिवेश: पर्यकल्प्यत।
प्रातर्धौतवस्त्रं चोलकं च परिधाय, हस्ते वेत्रयष्टिमादाय, मण्डलीयशासकीयं मातुर्दर्शनाय प्रातिष्ठत। शैशवपरिचिते गृहेऽस्मिन्प्रविश्य सस्नेहसंरम्भमाह्वयत्- 'अम्ब!’
सम्प्रति सर्वतो नि:सहाया निर्धना गृहस्वामिनी वृद्धा ललितम् (जैम्सम्) एव स्वावलम्बनं मेने। रात्रिन्दिवं तत्प्रतीक्षायामगमयत्कालम्। अकस्मात्पुत्रस्य परिचितं स्वरं श्रुत्वा- 'ललित त्वं समागत:’ इति ससम्भ्रमं जल्पन्ती बहिरागमत्। माता पुत्रं वक्षसाऽऽलिलिङ्ग। प्रेमाश्रुणो वर्षा प्रारेभे। इतो माता, तत: पुत्रो द्वावपि नि:सङ्कोचमरुदताम्। पञ्चवर्षानन्तरमयं मातापुत्रयोरभूत्समागम:।
(४)
माता- पुत्र! त्वया आई. सी. एस्. परीक्षा उत्तीर्णा?
जैम्स:- आम्, अम्ब भवत्कृपया।
माता- दिष्ट्या, अद्याहमनृणा संवृत्ता। तव पिता म्रियमाणो मामवदत् 'ललितोऽयं विलायत-परीक्षां दापयितव्य:। एतत्कृते ग्रामसम्पत्तिस्तिष्ठेद् गच्छेद्वा।’
माता भूमावतिष्ठत्। जेम्सस्तदुत्सङ्गे शिरो निधाय भूमावेव समविशत्। तन्मस्तकं हस्तेनाऽऽमृशन्ती माता सप्रणयमवोचत् त्वया पत्रे लिखितमासीत्- 'मया निजविवाहोऽपि सम्पादित:’ इति तत्क्वेदानीं मे स्नुषा?
ललित:- सा द्वितीये भवने वर्तते। सा हि भवतीं सविनयमाहूतवती। अद्यप्रभृति भवत्या अपि निवासस्तत्रैव भवेत्। ततो निकट एव मथुरा। तत्र हि यमुनास्नानं द्वारकाधीशदर्शनं च सहजं सम्भवेत्।
माता-वत्स! वधूरिदं तु न कथयेत् यन्मम परितरङ्गरेज:, तन्माता हिन्दु:कथं स्यादिति।
''मैवमम्ब! मया सर्वमपि वृत्तं तस्यै सूचितम्। सा भवतीं शुश्रूषितुमिच्छति”
माता-तव त्वयं भोजनस्य समय:। मन्ये क्षुधित: स्यास्त्वम्।
ललित:- सत्यमम्ब। प्रबला सम्प्रति क्षुधा। भवत्या हस्तपाचितमन्नं भुक्तवतो मे पञ्च वत्सरा व्यत्ययु:। यदा यदा ह्यहं भोजनायोपाविशं तदा तदैव भवतीमस्मरम्।
माता- तेमनमोदनं च ते प्रियम्। अपि तदेव पचामि?
ललित:- आम आम्, तदेव भोज्यम् तदेव भोज्यम्।
वृद्धा मृद्भाण्डमेकमादाय तक्रमानेतुं प्रतिवेशिगृहेऽगच्छत्। हन्त! असूर्यम्पश्याया यस्या द्वारदेशे परिचारका अप्यपरेभ्यस्तक्रं व्यतरन् सैवाऽद्य तक्रबिन्दो: कृते गृहाद्गृहमटति। अस्तु, अवसरमिममधिगत्य जेम्स: समुत्थाय सर्वमपि गृहं सम्यङ् निरैक्षत। नासीद् गृहे किञ्चिदपि। स्वार्थिन: सर्वमप्यर्थजातं निजगृहमनयन्। शास्त्रागारे शस्त्राणि, अमूल्या आसन्द्य:, महार्घवस्राणि, शय्या: किञ्चिदपि नाऽवाशिष्यत। राजभवनं भिक्षुगृहादपि दयनीयं दृष्ट्वा जेम्सस्य सुमहदभूद्दु:खम्।
(५)
'पञ्चवर्षानन्तरमद्य मे तृप्तिरभूत्’ इति वदता जेम्सेन परिसमाप्यत भोजनम्। पुनरेवमभूद् द्वयोरालाप:-
जेम्स:- भूसम्पत्तिस्तु सुस्थिरा वर्तते?
माता- न सेदानीम्। ॠणाग्नौ सर्वापि हुता।
जेम्स:- ऋ णं किमित्यक्रियत?
माता- यदि तन्नाऽकरिष्यं तर्हि तुभ्यं किं प्रैषयिष्यम्?
जेम्स:- तर्हि वार्षिको ग्रामाणामाय:?
माता-कर्मचारिभिरुक्तम्- देशे दुर्भिक्षमभूत् अतएव कर्षकेभ्यो न तत्सङ्ग्रहीतुमशक्यत।
जेम्स:- 'आई. सी.’ (आ: ज्ञातम्), अस्तु, गृहस्थं सर्वमुपकरणजातं किमभूत्?
माता- वारत्रयं गेहे चौर्यमभूत्पुत्र!
जेम्स:- ज्ञातम्! सर्वसम्पन्नापि मदर्थे विपन्नाभूद्भवती। नरपतेरासनाऽऽसीनापि मत्कृते भिक्षुरिदानीं भवती। हन्त धिङ् मामधन्यम्।
माता-मैवं पुत्र! मया मम प्राणपतेरभिलाष:, तव पितुरभिलाष:, तव चाभिलाष: सर्वथा पूरित:, किमयं न्यूनो लाभ:? भवन्तमद्य सफलं विलोक्य सर्वथा निर्वृतं मे चेत:। सम्पत्ते: किमहमकरिष्यम्? सर्वामपि सम्पत्तिं विक्रीय त्वं मया क्रीत:। त्वमेवाद्य मे सम्पत्ति:। किमिदानीं मे अपेक्षितम्? द्वे मुष्टी तण्डुलानाम्! तत्तु भवान् दद्यादेव। यदि न दद्यास्तर्हि यत: कुतश्चिदन्नसत्राद्भोजनमहं लभेय।
जेम्स:- राम राम! किमिदममङ्गलमुच्यते मात:!
(६)
धर्ममातरं सहादाय जेम्सो निजं प्रधानस्थानमगच्छत्। तत्र हि निजोपनिवेशे पृथगेकं गृहं सर्वोपयुक्तसामग्रीभि: सज्जं मातु: कृते पर्यकल्प्यत। दासी, भृत्यश्चैकस्तत्परिचर्यार्थमभूतां नियतौ। जेम्सोऽपि प्रत्यहं मातु: पाकशालायां भोजनमकरोत्। जेम्सपत्न्या: प्रात्यहिकं भोज्यमपाक्षीत्सूद:। स्नुषा सेयमतीव सम्मानेन सौशील्येन च मातरमसेवत। तदेवं मिथ: स्नेहसंविभागेन सर्वेऽप्यानन्दमविन्दन्।
एतदनन्तरं ४२० तमधारानुसारमनुचितरूपेण परस्वलुण्टाकानामुपरि पर्यचाल्यताऽभियोग:। प्रान्तस्य तस्य त्रयोऽपि ते भूस्वामिन:, गृहोपकरणलुण्ठका: पञ्चापि परस्वापहर्तार:, सर्वेऽपि च गृहकर्मचारिणोऽभियुक्ता: समभवन्। एकमासं यावन्नि:शब्दमिमे निगडिता अक्रियन्त येन प्रान्तीयशासकस्य धर्ममातुर्वञ्चनस्य प्रतिफलमिमे लभेरन्।
सर्वविधक्लेशानां कदाप्यपरिचितायोऽपि भूस्वामिन: प्रान्तीयशासकसविधे सन्देशं प्राहिण्वन् यदि श्रीमतामभिमतं तर्हि मूलमात्रमस्माकमृणं दीयताम्, अपगच्छतु तद्वृद्धि:। यदि मूलमपि प्रतिकूलं तर्हि तदप्यप्रदाय वेणीप्रसादभूसम्पतिरधिक्रियताम् चेदुचितं तर्कयन्ति श्रीमन्त:। किन्तु निरवधि निगडनान्मुच्यामहे वयम्।
गृहलुण्ठका: खलास्ते प्रार्थयन्त-श्रीमतां भवनात्सर्वमुपकरणं रक्षार्थं स्थानान्तरे निहितं यद् भवत: प्रत्यागमने प्रत्यर्पयितुं शक्येत दीयतां निदेश:, सर्वापि सज्जा गृहे तथैव सन्निवेश्येत। वयं ग्रामनायकस्य भवत: पितु: पारम्परिका: शुभचिन्तका:। अत एव सुरक्षानिमित्तमेव तथा प्रख्याप्य सर्वा सामग्री स्थानान्तरमनीयत। अनुगतेषु प्रसीदन्तु श्रीमन्त:।
कर्मचारिणो न्यवेदयन्-गतेषु वर्षेषु दुर्भिक्षोपद्रवादवश्यं ग्रामाणामायो नाभूत्, किन्त्वैषम: सर्वथा सुभिक्षम्। सर्वतोऽभिनन्दनीया कृषि: सुदृढमाशास्यते कृषीवलेभ्य: पूर्वावशिष्ट: करो नि:शेषमुपादीयेत। दीयतामस्मभ्यमेकवत्सरस्यावकाश:, येन वयं सर्वमप्याऽपव्ययजातं नि:शेषं शोधयेम्।
सिद्धिं विभाव्य सर्वेऽपि मुक्तास्ते जेम्समहोदयेन। न्यायमनुल्लङ्घयता च तेन प्रतिशतमेकमुद्रावृद्धिं प्रदाय सर्वेऽप्युत्तमर्णा: शोधिता:।
सर्वापि भूसम्पत्ति: सङ्कटात्समुद्धृत्य धर्ममातुश्चरणे समर्पिता। लुण्टाकै: सर्वापि गृहसज्जा स्वत: प्रत्याप्र्यत। गृहकर्मचारिभिश्छलादपहृतं द्रव्यं सविनयमुपहृतं सम्प्रति कुतो न स्यात्। सदाचरणशालिनो चरणयोर्लोठति लक्ष्मी: प्रसीदति भूतभावनो भगवान्।
तदेवं जातीयताया उपरि प्रेम्णो विजय:।१
निराशप्रणय:
(१)
नमितकन्धरेण प्रोक्तं भिषजा-''गुर्वी पीडा, परं न साम्प्रतं चिकित्सातो बहिर्भूता। तथाप्यवश्यं कियान् समयोऽपेक्ष्यते चिकित्सायै। किन्तु, एतेन सह रीत्यनुसारं शुश्रूषाप्यावश्यकी।”
कम्पितकण्ठं प्रोक्तवान् हरिमोहन:-''समस्तोऽपि भारो भवदायत्त:। मम तावदियमेका कन्या। येन शीघ्रमेव भवेन्नैरोग्यं तदर्थं भवतामादेशानुसारमेव भवेदुपचारादिकम्।”
भिषक्-एवंविधेषु रोगेषु शुश्रूषार्थमेका प्रौढा धात्री अपेक्षिता। अहं वसुकुमारीं प्रेषयामि। सा हि सर्वदा स्थास्यति प्रसूताया निकटे। एषु कार्येषु विशेषनैपुणं तस्या:। सम्भवत: नास्मिन् कार्ये साऽऽपत्तिं करिष्यति। अयाचितापि सा बहुधा पीडितानुपचरति।
अवसानोन्मुखी साम्प्रतं रजनी। उषसस्तरुणालोकच्छटा वातायनपथेन प्रविशति गृहाभ्यन्तरम्। कुसुमपुरस्य राजमार्गे प्रारब्धं खलु द्वित्रैर्लोकैर्यातायातम्।
हरिमोहन:-मम जामाता साम्प्रतं कलिकातानगरे निवसति। किमु तदाह्वानार्थं तडित्समाचारप्रेषणमावश्यकं विवेचयन्ति भवन्त:?
''इदानीमेव तदाह्वानसय नास्ति तथावश्यकता। ईश्वरो न कुर्यात्- परं यदि तेषामाकारणं नितरामावश्यकं भविष्यति, तर्हि पूर्वमेव सूचयिष्यामि भवत:।”
वैद्यराज औषध: पथ्यस्य च व्यवस्थां कृत्वा गृहमगमत्।
(२)
सुदीर्घा दिवसा: कथं वा व्यतीता भवन्ति, एवं रात्रेरनन्तरं प्रभातम्, प्रभातानन्तरं च रात्रि: कदा वा व्यतीता भवतीति मृणालिन्या नासीद्बोद्धुं शक्ति:।
कस्मिन् कस्मिञ्श्चिद्रोगे समये समये समस्तान्यपीन्द्रिपाणि स्वप्रगतानीव, इन्द्रजालाच्छन्नानीव सम्भवन्ति। वर्तमानविषयेष्वेका ईदृशी जवनिका निपतति, यद्रोगिणो दुर्बला इच्छाशक्ति: केनापि प्रकारेण तस्मात्स्वप्रनालादात्मानं मोचयितुं न भवति समर्था।
मृणालिनी पश्यति नानाविधान् स्वप्रान्। स्वप्रादनन्तरं स्वप्र:। विच्छिन्न:, असंलग्र:, अर्थहीन: स्वप्र:?! स्वप्रेषु पश्यति स्म सा- एका स्नेहमयी देवीमूर्तिर्निरन्तरं तच्छय्यापार्श्वे स्थिता करोति शुश्रूषाम्। तस्या: सुन्दरे मुखे सेवापरायणाया मातृमूर्तेरपूर्वा श्रीर्विराजते। सुधास्निग्धे स्वरे प्रवहति करुणास्रोत:।
स्वप्रादनन्तरं गाढनिद्रा। तदुत्तरं च, अहो कीदृक् शान्तिपूर्णं जागरणम्! मृणालिन्या नयने उन्मील्य दृष्टं यत्सा स्वीये एव शयनकक्षे शयाना।
गृहमध्ये चतुष्पादिकोपरि प्रज्वलति स्म प्रदीप:। प्रज्वलितस्यास्य दीपाधारस्य सम्मुखे स्वप्रे दृष्टा सैव रमणीमृर्तिरुपविष्टा। मृणालिनी दुर्बलकृशाभ्यां कराभ्यां मार्जयामास निजे चक्षुषी। इदानीमपि किं तस्या दृष्टेरुपरि स्वप्रच्छाया परिभ्रमति?
करकङ्कणनिक्वणं श्रुत्वा अध्ययनरता रमणी रुग्णां प्रति दृष्टिं निचिक्षेप। शय्याप्रान्ते घोपविश्य धात्री वसुकुमारी प्रोवाच-'अपि साम्प्रतं प्रतीयते किञ्चित्स्वस्थता?’
मृणालिनी कृशतरौ निजकरौ पश्यन्ती क्षीणकण्ठं प्रोवाच ''मम किं समधिकं रोगावेग: समभूत्? कियत्कालमहं विचेतना आसम्?”
धात्री किञ्चिद्विहस्य प्रत्युक्तवती- ''अद्य पञ्चदशदिवसेभ्य: पश्चात्, भवत्याश्चैतन्य-मभवत्। हस्तं ददातु भवती पश्यामि।”
वसुकुमारी नाड्या गतिं सम्यक् परीक्षितुमारभत।
पञ्चदशदिवसा:! एतावन्ति दिनानि यावन्नाभूत्तस्या ज्ञानम्! भ्रामं भ्रामं मृणालिन्या दृष्टिर्विस्तृते तस्या: शय्यापार्श्वे मल्लिकापुष्पस्तबकस्येव कोमलस्य शयानस्य क्षुद्राशिशोरुपरि न्यपतत्। तस्मिन्क्षण एव चैका सुमधुरा वेदना, अपूर्वा रागिणी तस्या हृदयमुच्छ्वसितमकरोत्। अनिमेषनयनयो: स्निग्धा उत्फुल्ला च दृष्टिशक्तिर्बालकस्य प्रत्येकाङ्गानामालिङ्गनमिवाकरोत्। मुहूर्तमध्ये तस्या: समस्ता: कथा: स्मरणपथमारुरुहु:। यदेकस्मिन्दिने गभीरनिशीथे एकया तीव्रया वेदनया तस्या: समस्तानीन्द्रियाण्यभिभूतान्यभवन्। प्रदीपस्यालोकश्चक्षुषोस्तिरोधत्ते स्म। एतत्समस्तमपि वृत्तं तस्या मनसि सम्यक् प्रतिभातमभवत्।
मृणालिनी सविस्मयमवदत्- ''एषु पञ्चदशदिवसेषु तदा भवती मत्सविधे दिवानिशमतिष्ठत्? अहं स्वप्रे एकां देवीमूर्तिमद्राक्षम्। तत्सर्वं मन्ये नास्ति मिथ्या।”
एकस्मिन्पात्रे औषधिमादाय वसुकुमारी प्रावोचत्- ''इदमौषधं निपीय पुनर्निद्रातुं चेष्टतां भवती। अद्य नेतोऽधिकं सम्भाषणं विधेयम्। जानामि, अद्य न भविष्यति ज्वर:।”
मृणालिनी शनै: शनैर्बालकाभिमुखं पाश्र्वपरिवर्तनं कृत्वा निद्राया मधुमयक्रोडे व्यश्राम्यत्।
(३)
दिने दिने मृणालिनी आरोग्यलाभं कर्तुमारभत्। तस्या रक्तहीनयो: पाण्डुरकपोलयो: स्वास्थ्यस्य कोमलाऽऽभा पुन: प्रत्यायातुं प्रारभत। किन्त्विदानीमपि सा शय्यां विहाय नाधिकदूरं प्रयातुं समर्था। वसुकुमारी प्रतिदिनं मध्याह्ने तस्या: समीपे समायाति स्म। कथावार्ताभिर्हास्यगानै: सा मृणालिन्या अवसन्नायां हृदयतन्त्र्यामेकामानन्दलहरीं प्रवाहयामास।
नवपरिचिताया: स्निग्धमूर्त्या एतस्या युवत्या: स्निधहास्ये, अपरिमिते स्नेहे, सङ्गतस्य श्रुतिमधुरस्य कथोपकथनस्य विचित्रे मोहे, स्वल्पैरेव दिनैर्मृणालिनी एतावदाकृष्टा समभवत्, यत्कस्मिञ्श्चिद्दिने तस्या आगमने सम्भवेद्विलम्बस्तदा मृणालिनी उन्मना भूत्वा वातायनद्वारे तदागमनपथं निरीक्षमाणा तिष्ठति स्म। तस्मिन् समये सा हि नान्यस्मिन्कार्ये, नान्यस्मिन् कथोपकथने, मनो निवेशयितुं प्राभवत्।
तस्या हास्यम्, तस्या: संलाप:, तस्या: सङ्गीतम्, तस्या: पुस्तकपाठस्य भङ्गी, सर्वमेव मृणालिन्याश्चित्ते विचित्रं भावमङ्कुरयामास। एवं सौष्ठमेव नान्य: कश्चन हसितुं शक्रोति। एवं मधुरभाषायां नान्य: कश्चित् संलपितुं जानाति। किञ्च तस्या: सङ्गीतम्! एवंविधं गानं नेत: पूर्वं सा कदाप्यशृणोत्। हारमोनियमवाद्यस्य स्वरेण सह यदा हि वसुकुमारी गातुं प्रारभत्, तदा मृणालिन्या इदमेव प्रतीतमभवत् यत्पुन: सा स्वप्रकल्पिते एकस्मिन्नभिनवराज्ये प्राप्तास्ति। तस्मिन् सङ्गीते प्रेम्णो मानाभिमानस्य परस्परमादानप्रदानस्य च काचित्कथा, निराशप्रणयस्य करुणक्रन्दनम्, अतृप्ताकांक्षाया दीर्घोच्छ्वासो वा नासीत्। एतस्य हि सङ्गीतस्य स्वरे स्वरे महावैराग्यस्यैक औदास्यभावो झाङ्कारमुत्पादयति स्म।
व्यर्थं जीवनं कर्मप्रवाहे प्रवाह्य, अनन्तस्यापरिज्ञेयस्य, चिररहस्यमयस्य, परमेश्वराय चरणतले शान्तिलाभस्य साग्रहं प्रार्थनं रागिण्या: स्तरे स्तरे खेलति स्म। अहो तत्सङ्गीतं कीदृक प्राणस्पर्शि! कीदृक् अमृतमयम्!
गानसमये गायिकाया नयने ईशन्निमीलिते अभूताम्। दीप्तं मुखमण्डलं करुणया च महिम्रा च सौन्दर्येण च प्रेम्णा चोद्भासितप्रभवत्।
सङ्गीतस्य शेषालापे शेषझङ्कारे विलीयमाने सति मोहाविष्टे इव द्वे अपि इमे क्षणकालं नीरवमतिष्ठताम्। तदनन्तरं जिज्ञासते स्म कदाचिन्मृणालिनी- ''भवती कुतो वां न करोति विवाहम्? नाधिकं जातं भवत्या वय:। किमु चिरकालमनेनैव भावेन यास्यति वय:?”
वसुकुमारी सहास्यं प्रसङ्गान्तरमुत्थापयति स्म। कदाचिन्नवप्रकाशितस्य कस्यचिन्मासिकपत्रस्य काञ्चिदाख्यायिकां श्रावयति स्म। कदाचिच्च मृणालिन्या: शिशुं क्रोडे कृत्वा लालयामास। शिशुं वक्षसा परिष्वज्य कथयति स्म सा- ''संसारबन्धने यदि किञ्चित्सुखं स्यात्तदा तदस्मिन्नेव। हृदयज्वाला यथानेन परिशाम्यति, नैवमन्येन वस्तुना सा शीतलीभवति।”
(४)
कम्पमानपदो नृत्यत्येको बालक:। नृत्यन् नृत्यन् कदाचित्पतति भूमितले। पुनरुत्थायस्नेहस्निग्धात्कण्ठान्निस्सृतस्य मधुरस्वरस्य ताले ताले नृत्यति।
शिशोर्जननी वातायनान्तिकेऽवस्थिता चैत्रमासस्य वर्णवैचित्र्यबहुलं सान्ध्याकाशं निरीक्षते स्म। तस्या: शरीरं सम्प्रति सर्वत: स्वस्थम्।
उल्लङ्घितसाद्र्धैकसंवत्सर: शिशुर्हास्यलहरीं प्रवाहयन् कदाचिन्निपतति वसुकुमार्या: स्नेहाकुले वक्षसि। कदाचिच्च दूरमागत्य उदारेण शान्तेन च नयनद्वयेन सकौतुकविस्मयं पश्यति ताम्। वसुकुमारी मुग्धस्य मुखस्य सौन्दर्यम्, नवनवनीतकोमलस्य वपुष: कमनीयताम्, उच्छ्वसितं च कलहास्यम्, अतृप्तनयनमनुभवति स्म।
शिशुरिव नास्त्यन्य: संसारे कोऽपि हृदयाकर्षक:। बन्धनहीनं विद्रोहि हृदयमपि शिशो: सरलहास्यं पुन: कर्मबन्धने सहजमेव शक्रोति विनिपातयितुम्। शोकार्तस्य सन्तप्तप्राणस्य ज्वालां निर्वापयति स्निग्धेन मोहस्पर्शेन।
मृणालिनी किमपि सक्तुकामैवासीदेतस्मिन्नेव समये द्वादशवर्षीयो बालको मोहितचन्द्र: सरभसं प्राविशद् गृहमध्यम्। अवदच्च-अत्तिके? आह्वयति त्वां जननी। शीघ्रमेहि! नरेन्द्रमहाशय: समायात:। मृणालिन्या मुखमण्डलं लज्जारुणमभवत्। स्निग्धहास्यमधरयो: सङ्गोप्य किञ्चिदवरुद्धकण्ठमवदत् ''भगिनि? आस्यतां किञ्चित्। आकर्णयामि किन्विति।”
वसुकुमारीं बालकमपृच्छत् ''किमुक्तं मोहितचन्द्र? क: समायात:?”
बालक:- नरेन्द्रमहाशय:। मन्ये न तं परिचिनोति भवती। स खल्वस्माकं जामाता। अत्तिकाया वर:। दृश्यताम्। एतत्खलु चित्रं तस्य।
मोहितचन्द्र: सहर्षं हस्तमुन्नमय्य स्फुटचित्रं तस्या: सम्मुखमकरोत्।
बालक:-नरेन्द्रमहाशय: कलिकातातश्चित्राण्येतान्यानीतवान्। अहमेकमिदमपहृतवानस्मि।
कम्पितहस्तं प्रतिददौ चित्रमिवं वसुकुमारी। बालक: सोत्साहमुच्चैरभाषत ''कथं कीदृगुत्तमं चित्रम्? गत्वा दर्शयामि जनन्यै अपि?”
बालक: सरभसमधावत्।
वसुकुमारी हस्तद्वयेन वेपमानं हृदयमवष्टभ्य वातायनसम्मुखमपासरत्। गवाक्षद्वारस्य लोहशलाकामवलम्ब्य, अनिमेषनयनं तिमिरमग्रस्याकाशस्याभिमुखमन्यमना: समवलोकयन्ती तस्थौ।
एकाकी बालक: सचीत्कारमरोदीत्।
शिशो: क्रन्दनमाकण्र्य मृणालिनी सत्वरं प्रत्यायाति स्म। तनयमुत्थाप्याह्वयत्सा- ''भगिनि”
वसुकुमारी वदनं परावृत्याऽपश्यत्। मृणालिनी चकिताऽभवत्। वसुकुमार्या वदनमेतावद् विवर्णम्!
मृणालिनी-'किमु भवत्या: किञ्चिदसुखं जातम्! आह्वयामि जननीम्।’ दक्षिणहस्तमूर्द्धमुत्तोल्य क्लिष्टस्वरमवदद्वसुकुमारी ''मैवम्, तिष्ठतु भवती। मध्ये मध्ये जायते मम वक्षसि सेयं वेदना, साम्प्रतं दूरीभूता सा।”
मृणालिनी व्यजनेन वसुकुमारीं वीजयामास। किन्तूत्त्थाय समवदद्धात्री- ''आस्ताम्। इदानीं सुस्थामि सम्पन्ना। किन्तु करोत्विदं भवती। एका अश्वशकटिराहूयताम्। पुनरिदानीं रमेशगृहे गमनमावश्यकं मे।”
मृणालिनी समवोचत्- ''द्रक्ष्यामि परस्मिन् दिवसे भवतीम्?”
वसुकुमारी शुष्कं विहस्य प्रत्यवोचत्- ''कथयितुमिदं व्यस्मार्षं भवत्यै। आगामिनि दिवसे गयां प्रयातुं विचार:। यदि भवेत्प्रयाणं तर्हि मन्ये पक्षपर्यन्तं न स्याद्भवत्या सह साक्षात्कार:।”
(५)
दम्पत्यो: सम्भवति साम्प्रतं संलाप:। व्यजनं कुर्वती प्रोवाच मृणालिनी- ''इदानीं यत्किमपि वदतु भवान्। परमेतच्चिरकालं स्थास्यति मन्मनसि। ममैतावदसुखमाकर्णयन्नपि निश्चिन्तमतिष्ठद्भवान्। मदपेक्षया वेतनमेव प्रियं भवत:। एतावति रोगे मम मरणमेवाऽभविष्यत्तर्हि?
अभिमानेन मृणालिन्या रक्ताभमोष्ठद्वयमाकुञ्चितमभवत्। प्राय: प्रत्यहम्, एवमेव सा स्वामिन: कर्तव्यशैथिल्यस्य कथां स्मारयन्ती तृप्तिमलभत।
आसीदेतस्या: कथाया उत्तरम्। परं नरेन्द्रनाथ: प्रेयस्या हृदयोच्छ्वासे बाधाप्रदानं नोचितममन्यत। किञ्च सेवाकार्यम्क्षुण्णं पालयतानेन पत्नीं प्रति य: खल्वविचार: कृतोऽभूत्, सोऽप्यस्य हृदये मुहुर्मुहुराघातमकरोत्। नरेन्द्र: प्रतिदिनमिवाद्यापि, अभियोगस्य अभियोगस्य तीक्ष्णं शराघातं नि:शब्दं सहमानो धूमपाने वनोनिवेशमकरोत्।
परं मृणालिनी नैतावतापि पर्यमुञ्चदेनम् अवदत्सा- ''सेवावृत्ति: सेयं परित्याज्यैव भवता। का वा त्रुटिर्भवत:? श्वशुरमहाशयो यद्धि धनं परित्यज्य लोकान्तरमयात्, तेन हि भवानेव एवंविधान्, द्वित्रान् कर्मचारिण: शक्रोति नियोक्तुम्। अकिञ्चित्करस्य द्रव्यस्य निमित्तं न चिरकालं भवान् विदेशे शक्रुयादिदानीं परिभ्रान्तुम्।”
अन्ययमनस्क: प्रत्यब्रवीन्नरेद्र:-''अहमप्येतदेव विचारयामि। निवेदयिष्याम्येकवारं कार्याध्यक्षाय। यदि भवेन्ममास्मिन्नेव देशे कार्यपरिवर्तनं तर्हि सम्यक्। अन्यथा पालयिष्याम्येव भवदनुरोधम्।”
मृणालिनी-साम्प्रतं न केवलमावामेव। शिशुर्वर्धते क्रमेण। एतस्यापि सुखं विचारणीयं भवेत्।
पञ्जरावस्थित: शुको मध्याह्नस्य नीरवतां भनक्ति स्म मध्ये मध्ये। नरेद्रो निमीलितनयनं परिचिन्तयति स्म किञ्चित्। पत्नी स्वामिनश्चिन्तागम्भीरं मुखं पश्यन्ती नीरवं व्यजनमचालयत्।
सत्वरमागता निवेदयामास दासी- 'आह्वयति भवतीं जननी’।
मृणालिनी प्रायात्।
पुन: शीघ्रमेव परावृत्य, स्वामिनो हस्तमाकर्षन्ती प्रोवाच मृणालिनी- ''नेदानीं भवत: शयनं सम्भवति। वसुकुमार्या: प्रयामो गृहम्। भवानप्यद्य सह गमिष्यति।”
नरेन्द्र: सकौतूहलं सस्मितं चावदत् ''केयं पुनर्वसुकुमारी? कस्माच्च स्थानादाकृष्टा सैषा?”
प्रत्युवाच मृणालिनी- ''न मया प्रोक्तं भवते। रुग्णावस्थायामेका धात्री दिवानिशं मां शुश्रूयते स्म। सा यदि नैवं मामुपाचरिष्यत्तर्हि न भवान्मां द्रष्टुमपारयिष्यत्। एवंविधा रमणी न मे दृष्टिपथमायाता। श्रूयते महदसुखं तस्या:। सा ह्यकवारं मामीक्षितुं कामयते।”
सत्वरमुत्थाय प्रोक्तवान् नरेन्द्र:- ''पूर्वमेवेदं वक्तुमुचिमासीत्। अस्तु, भवत्या इदानीं गमनं परमावश्यकम्।”
मृणालिनी - मासीन्मम विदितमिदम्-यत्सा प्रयाता गयाम्। किन्तु नैतत्, इत: प्रयाताया एव समभूदसुखं तस्या:। सेयं षोडशानां सप्तदशानां वा दिनानां कथा।
स्वामिना प्रोक्तम्- ''तर्हि न पुनर्युज्यते विलम्ब:। करोम्यहं शकटिसज्जीकरणस्य प्रबन्धम्।”
(६)
दास्या: क्रोडे बालकं समर्प्य मृणालिनी उपरितलमारुहत्। भृत्यो नरेन्द्रनाथाय वसुकुमार्या निवासकक्षं निरदिशत्।
सूर्यास्तमने आसीत्कियानपि विलम्ब:। पश्चिमाभिमुखेन वातायनेन सन्ध्यारुणस्य भगवतो भास्करस्य शेषा रश्मयो गृहमध्यं प्रविश्य खेलन्ति स्म गृहसज्जोपकरणेषु। एकस्या: सुदृश्याया: त्रिवले: उपरि सयत्नरक्षितानि कतिपयपुस्तकानि, लेखनोपकरणम्, काचाच्छादितमेकं स्फुटचित्रं चासीत्।
नरेन्द्रो वेत्रासनमध्यास्य, धूमवर्तिकामोष्ठाभ्यां निष्पीडयन् मुक्तवातायनपथे सञ्चारयामास विधुरां दृष्टिम्। बहि: राजपथम्, तत्पार्श्वे वसति बाह्यं प्रान्तरम्। दूरस्थां वृक्षश्रेणिं घननीलमाकाशं च मुहूर्तमध्येऽभिवीक्ष्य पुनर्गृहमध्ये परावर्तत दृष्टि:।
अन्यमना नरेन्द्र: काचाच्छादितमिदं चित्रमुत्थाप्य समपश्यत्। समयप्रभावेण चित्रमेतत् समभूत्किञ्चित् म्लानम्। न तथा स्पष्टमवभासते स्म। उत्तरीयेणावमृज्योपनेत्रं नरेन्द्रनाथस्तीक्ष्णया दृष्ट्या सम्यगालोकयामास।
सहसा स्वभावगम्भीरस्य तन्मुखस्योपरि मेघावरणमिव समभवत्। शनै: शनैश्चित्रमेतत्परित्यज्य वातायनाभिमुखमागच्छत्। वातायनागत: सान्ध्यसमीरण: स्वेदाप्लुतमेतस्य तप्तं ललाटं मन्दमन्दमस्पृशत्। बहुकालावस्थितस्यास्य यदा खिन्नमभवच्चेतस्तदा नरेन्द्र: शनै: शनैर्वेत्रासने एकस्मिन्नुपाविशत्। पुस्तकमेकमुद्घाट्य विषण्ण मनो विनोदयितुं चेष्टामकरोत्।
पुस्तकस्य प्रथमपृष्ठे लिखितमासीदेकं नाम। अक्षराणां मसी कालक्रमेण समजायत विवर्णा। पुस्तकमिदं त्रिवलेरुपरि सोद्वेगं प्रक्षिप्य शरविद्ध: कुरङ्ग इव स हि ससम्भ्रममुदप्लवत्। स खल्वद्य कुत्रागत:? प्रदीपालोकेऽपि मानुष: किं स्वप्रमवलोकयति?
एतस्मिन्नेव समये प्रकोष्ठकस्यास्य द्वारमुद्घाटितमभवत्। मृणालिनी रुद्धनि:श्वासमवढदत्- ''हंहो! शीघ्रमुपरि आगम्यताम्! भगिनी न जाने कीदृशी सञ्जाता।”
द्वारपालं चिकित्सकमानेतुमादिश्य नरेन्द्रनाथस्तत्क्षणात्पत्न्या सह उपरिखण्डे जगाम। गृहस्य सकलान्यपि वातायनान्यासन्नवरुद्धानि। त्रिवलेरुपरि प्रज्वलति स्मैक: प्रदीप:। मृणालिनी वसुकुमार्या निकटे गत्वा भयनिरुद्धकण्ठमवदत्- ''अये! एतत्किम्! नि:श्वासप्रश्वासा आरब्धा:! शीघ्रमेहि निकटे।”
नरेन्द्र: कियत्कालावधि चिकित्साशास्त्रस्याप्यालोचनमकरोत्। दृष्ट्वैव बोद्धुमपारयत् यद्-रोगिण: सञ्जाता मूच्र्छा। पत्नीमाश्वासस्य प्रावदत्-''नास्ति भयम्? त्वं किञ्चिद् दुग्धमुष्णीकृत्यानय। पश्याम्यतीव दौर्बल्यं जातम्।”
मृणालिनी द्रुतपदमगच्छत्।
रोगिणीं सम्यक् परीक्षितुमालोकशिखां किञ्चिदुत्तेजयामास नरेन्द्र:। तदनन्तरं च शनै: शनै: शय्याप्रान्ते आगत्यातिष्ठत्।
उज्ज्वला आलोकरश्मयो रोगिण: सर्वस्मिन्नपि देहे पतिता आसन्। विलुलितस्तस्या: केशपाश: अयत्नविक्षिप्त:। शोभनं वदनं च रोगस्य पाण्डुरच्छायया आसीन्मलिनम्। यौवनसहचरस्य निस्तुल्यसौन्दर्यस्योपरि पीडाया: सर्वग्रासि एवंविधमाक्रमणमालोक्य निमेषमध्ये नरेन्द्रस्य चक्षुषी निर्निमेषे अभूताम्। तस्य मुखं सहसैव विवर्णमभवत्। एकेन प्रबलेनाघातेन तस्य समस्तान्यन्तरिन्द्रियाणि आलोडितान्यभूवन् नरेन्द्रो द्वाभ्यामपि हस्ताभ्यामाच्छादयामास चक्षुषी। एकस्तं आर्तन:दस्तस्य वक्षसि भयङ्करगर्जनमकरोत्सहसा।
नवेन आलोकस्पर्शेन स्वभाववशेनैव या रोगिणश्चेतना शक्ति: पुन: प्रत्यावर्तते स्म। वसुकुमारी चक्षुरुन्मीलयामास।
एकमपरिचितं युवकं एवंविधायामवस्थायामात्मन: शय्याप्रान्तेऽवस्थितमालोक्य प्रथमं सा चकिताऽभवत्। परस्मिन् क्षण एव सहसा प्रोवाच सा- ''ओ:? 'त्वमसि, 'त्वमसि।’
समस्तं हृदयमवमथ्य वेदनानिरुद्ध: स हि स्वर: कम्पते स्मेव, क्रन्दति स्मेव।
द्वे अति जानुनी अवनम्य नरेन्द्रो रोगिण: कृशतमं शीतलं च वामहस्तमतितप्तयोरात्मन: करयोर्निष्पीड्य, उन्मत्त इवावदत्- ''नलिनि? नलिनि।” नास्ति ममापराधस्य मार्जनम्। त्वया सह यमहं नृशंसव्यवहारमकरवम्, समस्तसंसारस्य कापि शास्तिर्न तदुपयुक्ता।” एतद्वदतो नरेन्द्रस्योच्छ्वसितेनावेगेन कण्ठरोधोऽभवत्। क्षीणकण्ठमवदद्वसुकुमारी- 'भवान् खल्वपराधी, एतां कथां कदाचिदप्यहं मनसि नाकरवम्।” शनै: शनैर्वसुकुमारी नरेन्द्रस्य हस्तादात्मनो हस्तमपसारयामास।
एतस्मिन् समये मृणालिनी दुग्धपात्रमादाय शनै: शनैर्गहमध्ये प्राविशत्।
नरेन्द्र उदतिष्ठत्। उत्तेजितस्वरे पत्नीं सम्बोध्य प्रावोचत् ''एहि! मम जीवने मसीलिप्त यं खलु निगूढमंश त्वत्तो गोपापितवानस्मि, तमद्य मुस्पष्टमवलोकय। शृणु मृणालिनि! एषा भवत्या: सपत्नी!! मन्ये श्रुतं स्यात् त्वया यदध्ययनदशायां मम ब्रह्मसमाजे किञ्चिदभिनिवेशोऽभवत्। तस्मिन्नेव समये पितृचरणानामविदितमेतां परिणीतवानस्मि। परम्, अतुलसम्पत्तेर्लोभेन बन्धूनां परामर्शेन च दुर्बलं मम मनो विचलितमभवत्। सम्पत्तेर्हारणभयात् पितृचरणानामभिप्रायानुमारम्, एकस्याधर्मपत्न्या विनिमये पुनरन्यां धर्मपत्नीमुदवहम्। किन्तु मनस: शान्तिमाजीवनमहापरितवानस्मि। अत एव कक्षच्युताउ उल्केव विदेशे विदेशे परिभ्रमामि। न मेऽधुना क्षमापयितुं साहसं भवति। त्वमेतस्याश्चरणाववधृत्य, कुरुष्वाशीर्वादभिक्षाम्।”
तीव्रेण वेदनाभरेण मृणालिन्या हृदयं विदीर्यते स्म। किन्तु साध्वी समस्तमपि हृदयस्य बलमेकत्र कृत्वा, आघातमेतं सोढुं कथञ्चिदशकत्। अकम्पितपदं शय्याप्रान्ते नतजानुतिष्ठन्ती रुग्णायाश्चरणसुगं शिरसि कृत्वा प्रोवाच मृणालिनी- ''भगिनि! त्वमेकवारं माम् मृत्युमुखाद्रक्षितवत्यसि। इदानीमवलम्बस्व माम्, क्षमस्व, कुरुष्वाशीर्वादम्।”
धात्र्या: स्तिमितयोर्नयनयो: प्रान्ते अश्रुबिन्दव: प्रादुरभूवन्। वाष्परुद्धकण्ठमवदद्वसुकुमारी- ''अवश्यं क्षंस्यति स:। प्रतिदिनमहं तस्य निकटे एतामेव प्रार्थनामकार्षम्। यूयं सुखिनो भवत्! भगिनि! देह्येकवारं बालकं ममोत्सङ्गे।”
मृणालिनी मुक्तकण्ठमक्रन्दत्।
कुसुमपुरस्य गङ्गातरङ्गमुखरे शान्ते उपवनप्रान्ते मर्मरप्रस्तरमय: सन्दृश्यते एक: समाधिस्तम्भ:। स हि घनीभूता ज्योत्स्नेव शुभ्रश्च सुन्दरश्च। एतस्य शीर्षदेशे स्वर्णोज्ज्वल ओंकारो मुकुटमिव शोभते। समाधिलिपे: शिखरदेशे शरविद्धहृदयस्यैकस्य कपोतस्य चित्रम्। तन्निम्रभागे च कमलकुमुदमाल्याना वेष्टनमध्ये लिखितमस्त्येतत्-
अधिजीवनकाललालिता इह गूढास्ति 'वियोगिनी’ लता।
पथिका:! क्षणमात्रमास्थिता:! स्मृतिजन्याश्रुजलैर्निषिच्यताम्।।’
वसन्तस्य पूर्णिमारजनौ ज्योत्स्नावभासेन् यदा समस्तमपि दिङ्मण्डलं जायतेऽवभासितम्, कुसुमसौरभेण परितृप्त इव यदा वहति समीरण:, एवमुदारानवद्यया मङ्गलमधुरया महिमश्रिया सकलमपि चराचरं परिपूर्णं भवति, तस्मिन् समये प्रतिवत्सरं त्रयस्तीर्थयात्रिण: समाधिस्तम्भस्यास्य पादमूले सम्भवन्ति भक्तिभरेणावनता:। अश्रुशिशिरसिक्तेन पुष्पभारेण पद्ममुकुटेन च सज्जित: समधिस्तम्भश्च शशधरस्य किरणै: प्रकाममुद्भासतेऽद्यापि।
एते के वा त्रयो पात्रिण इति यैर्नाद्यापि बुद्धं तेभ्य उपन्यासपाठकेभ्यो: प्रणामान्निवेदयन्त: प्रार्थयामहे गमनानुमतिम्।
प्रेम्ण: प्रतिदानम्
(१)
प्राकृतशोभानिरीक्षणार्थं देशाटनाय निर्गतस्य चारुचन्द्रस्य व्यत्यगु: कतिपयसप्ताहा:। अद्य गोदावर्यास्तटे, श्व: शालवने, परश्व: पर्वतोपत्यकायामिति सोत्साहं भ्रमतोऽस्य व्यत्येति रसमय: समय:। नैतेन सह भूयान् परिकर:। केवलमर्द्धाङ्गिनी रुचिरा रुचिरामणीयकं वहन्ती साहचर्यमस्याऽऽदधाति।
सञ्जातविवाहयोरनयोर्व्यतीतानि पञ्च वर्षाणि। समयान्तरालेऽस्मिन् प्रत्यहमुपचीयमान: प्रेमबन्धो निर्भरनिबिडतां भेजे। पाठकमहाभागानां परिज्ञानाय तदिदमपि निवेदनमावश्यकं मन्ये यदयं प्रणयो दम्पत्यो: स्वतन्त्ररुचिनिरूढो न यौवनाऽऽवेगमय:। प्रत्युत कैशोर्ये मातापितृभ्यां वंश-वयो-विज्ञान-वित्त-वपु: सौष्ठवादिरनिरीक्षणोत्तरं कृतसम्बन्धयोरनयोर्मिथ: प्रतीक्षोत्कण्ठादिभि: प्रतिदिनं प्रवर्धमान: सहज: स्वाभाविकश्च।
चारुचन्द्रस्य वय: पञ्चविंशतिवत्सरा:। शरीरेण सुदृढो गौर: सुन्दरश्च। रुचिरा चोनविंशतिवार्षिकी मांसलकोमलाङ्गी लावण्यमयी प्रकृतिरुचिरा च। चारुचन्द्रो जात्या ब्राह्मण: प्राच्यपाश्चात्त्योभयशिक्षानिष्णात:। आरम्भत एवास्य चित्रकर्मणि नैसर्गिकी रुचिरासीत्। अत एव विद्यया सह चित्रविद्यायामपि सोऽयं क्रमश: पाटवं प्राप। यथैव सोऽयं विद्यालयशिक्षां समापयामास तथैव हृदयाभिरुचिते चित्रकर्मणि विशिष्य मनोयोगं ददौ। सम्प्रति तु चारुचन्द्रो रुचिरश्चित्रकर:। दूरदूरदेशेष्वस्य चित्राणि मार्मिकाणामादरभाजनानि।
नियतिनियमानुसारं साम्प्रतं चारुचन्द्र एव गृहस्याधिकारी।
आसीद् गृहे पारम्परिकी भूयसी सम्पत्ति:। स्वोपार्जितेन धनेनापि नाऽऽसीत्काचिन्न्यूनता। अत एवैकेन 'मरुत्तर’ यानेन प्राकृतिकसौन्दर्यनिरीक्षणार्थं सपत्नीको बहिर्निर्ययौ। पुण्यपत्तनाञ्चलमुपयातस्यास्य पञ्चमो दिवस:। सोऽयं प्रान्त: प्राकृतसौन्दर्यार्थं सुप्रसिद्ध:। अत एव परित: पलीग्रामेषु प्रकृतिचित्रणं प्रेक्षमाणस्यास्य प्रययु: पञ्च दिवसा:। एषु दिनेषु सप्रमोदं भ्रमतोऽस्य यत्रैव दिनसमाप्तिरभूत्तत्रैव किञ्चिदावासोचितं स्थानं प्रेक्ष्य सोऽयं रात्रिं विशश्राम। पुन: प्रात: कृतावश्यककृत्य: सपत्नीकोऽसौ मरुत्तरशकटिमारुह्य पुनरग्रे प्रचचाल।
यातायातोचितं मार्गमतिक्रम्य इमौ दम्पती अद्य सुदूरं वनाञ्चलमुपयातौ स्त:। सन्ध्याकालस्याऽव्यवहितपरमेव चैकस्मिन्नतिक्षुदे्र वनग्रामे इमावाश्रयं जगृहतु:। नासीत्तस्मिन् ग्रामे ईदृश: कश्चिद् गृहस्थो यस्य प्रश्रये निवास उपकल्प्येत। परतस्तु ग्रामीणानां निर्देशानुसारं ग्राममात्राय पण्यानि प्रददतो वणिज एकस्य गृहसम्मुखमुपययतु:। वणिङ्महोदय: प्रशस्तां मरुत्तरशकटिम्, उत्तमां वेषभूषाम्, तदुपरि च रजतपूर्णां धननीवीं दृष्ट्वा साध्यातीतया चेष्टया दम्पत्योराहारस्य रात्रिनिवासस्य च सुप्रबन्धं चकार। स्वकीयं शयनगृहं प्रशस्तया गृहसज्जया प्रसाध्य तदर्थमुपकल्पयामास।
रात्रे: प्रभातमभूत्। प्रत्यूषे नवदम्पती ग्राम्यगृहस्य वातायने उपविश्य प्राकृतशोभां निरीक्षमाणावास्ताम्। दशदिगन्तराण्युज्ज्वलीकृत्य निर्मलनीले नभसि भासमानो भगवान् भुवनभास्करो ग्रामनिकटवर्तिनो गिरेरुपरि स्वर्णशलाकानुकारिण: किरणान् विस्तारयामास। गिरिगात्रतो निर्झरतां निर्झराणां विमलवारिणि प्रतिफलन्तो नवीनाऽरुणकिरणा:। काञ्चिदद्भुतामेव सुषमां परित: प्रसारयामासु:। प्रभातसमीर: पार्वतपुष्परेणून् निर्झरशीकरांश्चोपादाय दम्पत्योरुपायनमिव कल्पयामास। ग्रामस्याऽपरपाश्र्व एवाऽऽसीन्नदी। क्षुद्रक्षुद्रास्तरणीरादाय मत्स्याजीवा: स्वकार्यार्थमग्रसरा बभूवु:। महीरुहमूर्द्धसु मधुरं नदन्तो विहङ्गमा: प्राभातिकीं भगवदाराधनगीतिमिव जगु:।
तामेतां प्राकृतशोभां परिलङ्घयानाऽभूदग्रे गन्तुं द्वयोरपि मन:। प्रातर्भोजनं परिसमाप्य दम्पती शैलमेकमारुरुहतु:। किञ्चित्कालपूर्वं येषां पर्वतकुसुमानां सौरभं प्रात: समीर उपददौ तानि पुष्पाणि लतां चेमामभिमुखमालोक्य रुचिरा परमं प्रियते स्म। उवाच सा प्राणेशम् - ''रात्रौ यानि पत्राणि निष्पिष्याऽस्माकमातिथेयो वणिक् लेह्याम् (चटनी) निर्ममौ, मन्ये तान्येवैतानि।” चारुचन्द्र: पत्रमेकमाच्छिद्य मुखे ददौ- 'अहो आस्वादो निकृतेन’। तदनुकरणेन रुचिराऽपि पत्रमेकं मुखे दत्तवती। एवं कौतुकक्रमेण दम्पती एतौ बहूनि पत्त्राणि त्रोटयामासतु:, तदास्वादं च जगृहतु:। विकसितैस्तत्पुष्पैरङ्गं प्रसाधयन्तौ प्रमुदितमानसावेतौ स्वावासं समा जग्मतु:।
गृहमागत्यैव रुचिराया मुखं सहसा विवर्णमभवत्। परक्षण एव सा स्थातुमपि नाऽशकत्। भूमौ पतेदिति लक्षणं दृष्ट्वा चारुचन्द्रस्तामवलम्ब्य आस्तरणे उपवेशयामास। किन्तु मुखे फेना ददृशिरे। हन्त हन्त विषवेगस्य सर्वाणि लक्षणान्यालोकयतश्चारुचन्द्रस्य शिरो जुघूर्णे। वेपमानगात्र: स गृहस्वामिनं वणिजमुच्चै: स्वरेणाहूय रुचिराया: सविधे तस्थौ! किन्तु परक्षण एव तस्यापि चेतना लुप्यमानप्रायाऽभवत्। विवशगात्र: सोऽपि रुचिराया: पाश्र्व एव विवश: पपात।
गृहमागतेन गृहस्वामिना दृष्टं यद् द्वावपि आस्तरणे पतितौ स्त:। द्वयोरपि अतिस्वल्पाऽस्ति चेतना। उभयोरेकैव पीडा, एकमेव च लक्षणम्, शोकभयाभिभूतो वणिग् वराको न किमपि निश्चेतुं प्राभवत्। प्रथमं तु स ग्राम्य:, तदुपरि निरक्षर:। ततोऽपि गृहागतयो: सहसैव युगपत् सेयं दशा, इति विचारयतस्तस्य शरीरे कम्पोऽभवत्। हन्त इदानीं क उपाय:? हठात् तस्य मनसि बभूव यदेतद्ग्रामनायकस्य प्रबन्धको मनीषी (मुंशी ) मन्ये किञ्चित्कर्तुं पारयेत्।
सौभाग्यवशतो विट्ठल: (प्रबन्धक:) स्वावास एवासीत्। संवादमिमं श्रुत्वैव स पलायमान: समाजगाम। दृष्टम्, गृहे 'कोल’ लताया: पुष्पाणि सर्वतो विकीर्णानि गन्धश्च तेषां सर्वतो गृहे व्याप्त:। स आगत्यैव सर्वाण्येतानि राशिकृत्य वातायनाद्बहिर्निचिक्षेप इङ्गितेन च वणिजे सूचयामास यदुभयोरेव समय: सन्निहित:।
निमीलिताक्षो विट्ठल: प्रतिकारं विचारयामास यत्किञ्चिदौषधं शीघ्रमेव चेत्क्रियेत भवेत्कदाचिदेतयो: प्राणरक्षा। सहसा धावमान: स वणिक्पत्न्या: सविधे प्राप, दुग्धं च प्रार्थयामास। किन्तु सञ्जातोऽयं मध्याह्न:। अस्मिन् समये एक 'गिलाश’ तोऽधिकं दुग्धं नासीद् गृहे। हन्त विट्ठलस्य सञ्जातो महान् विषाद:। यद्यस्योपरि पूर्णमात्रया दुग्धं दीयेत तर्हि विषस्य प्रतीकारो भवेत्। किन्तु अतिलघीयानयं वनग्राम:। नास्मिन् समये दुग्धप्राप्तेराशा। अतित्वरितं परित आहिण्डमानोऽपि एक- 'गिलाश’ तोऽधिकं दुग्धं नाधिजगाम। एतावन्मात्रेण तावदेकजनस्य प्राणरक्षा भवेत्। इयानेव ईश्वरस्याऽनुग्रह:।
हरिणीप्लुतै: पलायमान: स गृहं प्राप, किन्तु परक्षण एव तस्य विचारोऽभवद् यद् द्वयोर्मध्ये कस्मै इदं दास्यामि? कस्य च प्राणान् रक्षिष्यामि? एकतरनिश्चयं कर्तुमपारयन् स शयनीयस्य सविधे समागत्य कर्णे अत्युच्चस्वरेणाऽवादीत्- 'विषप्रतीकारार्थमेतावदेव दुग्धं प्राप्तवानस्मि। एतस्मिन् द्विधा विभक्ते कस्यापि प्राणरक्षा न भवेत्। साम्प्रतं त्वेकस्य प्राणरक्षाऽवश्यं भवेत्। अतएव एकतर एतत्पिबतु। अहमितस्ततोऽन्यदपि दुग्धमन्वेषयिष्ये, यदि कदाचिल्लभेय।” इत्युक्त्वा उत्थापनादिनाऽनयो: किञ्चिच्चेतनां सम्पाद्य ग्रामप्रबन्धकस्त्वरिततरमिस्ततो दुग्धान्वेषणार्थं बहिर्निर्जगाम, गृहस्वामी वणिगपि तत्साहाय्याय-तत्परोऽभवत्। गृहे दम्पती विहाय नासीत्कश्चिदन्य:।
चारुचन्द्र: अतिकष्टेन पय: पात्रं धृत्वाऽवदत्- रुचिरे! अतिशीघ्रमेतत्पिब।’
रुचिरा मृत्युयन्त्रणया कातरतमा। तस्या: स्वर्णोपमे देहे प्रवर्तमानासीत्। अतिकष्टेन शीर्णर्शीर्णैरक्षरैरवोचत्स्वामिन् पिब।’
चारुचन्द्रोऽस्मिन् वारे अतिकष्टेन किञ्चिदुत्थायाऽभाषत-'अहं प्रार्थये, त्वं पिब। नाहं पास्यामि। त्वदपेक्षया अहं दृढ:। वणिज: प्रत्यावर्तनपर्यन्तं जीवितुं पारयेयम्। त्वं पिब’।
प्रियविपत्त्या व्याकुला रुचिरा शनै: शनैरतिकष्टेन प्रियतमस्य हस्तं धृत्वा सानुनयमवादीत्- 'मा मा, प्रियतमहं सत्यं वदामि, मम शक्ति: पुन: परावृत्ता अहं चिरं स्थातुं शक्नुयाम्। कृपया त्वमेव पिब।’
अस्मिन् वारे प्रणयातुर्येण रुदन्निव चारुचन्द्रोवोचत्- 'रूचिरे! प्रियतमे! मां पातुं किमिति त्वं वदसि? त्वमेव पिब। प्रत्येकमुहूर्त: सम्प्रति मूल्यवान् पिब पिब, अतिशीघ्रं पिब।’
रुचिरापि चरणयो: प्रणमन्तीव अतिकातरकण्ठमवदत्- 'प्राणप्रिय! मत्प्रार्थनां स्वीकुरु। मम जीवनापेक्षया तव जीवितमतिमहार्घम्। संसारे तव अनेकानि कार्याणि। मम जीवनं केवलं त्वद्दृष्टावेव मूल्यवत्। त्वज्जीवनं तु पृथिव्या: कृते मूल्यवत्।’
चारुचन्द्रश्चीत्कारं कृत्वा जगाद- 'हे भगवन्, रुचिरे रुचिरे! किमित्यनर्थकं वाग्व्ययं करोषि। प्रत्येकमुहूर्तो मूल्यवानिति किं मुधा विस्मरसि? त्वमेव भावयितुं शक्ष्यसि यन् मदायत्तरक्षां त्वां स्वहस्तेन विपाद्य नाहं जीवितुं शक्नुयाम्।’
रुचिरापि सहैवाऽवादीत्- ''आर्यपुत्र! त्वमपि विचारये: किञ्चिद् यत् अकिञ्चित्करस्य क्षुद्रस्य मज्जीवितस्य कृते किमहम् अपरिमितमूल्यं त्वज्जीवनं विपादयेयम्? इदमेव किं प्रेम्ण: प्रतिदानम्?”
चारुचन्द्रेणोक्तम्- ''नैतत्। एतत्त्वया पातव्यमेव स्यात्। त्वं किं न किञ्चिद्विचारयसि यत्तवेदं कष्टमालोक्य मे प्राणापगमतोऽप्यधिकं कष्टं भवति। रुचिरे! ...... प्रियतमे! ममैनमन्तिममनुरोधं रक्ष। शीघ्रमेतत्पय: पिब।”
रुचिराऽवादीत्- 'प्राणनाथ! त्वं किं हृदये भावयसि यदहं त्वत्प्राणान् विगमय्य निजजीवितं रक्षिष्यामीति। तव किं नेदं विदितं यत्त्वद्विरहिताया मे न केवलमयमेव लोक: प्रत्युत लोकान्तरमपि विषमयं भवेत्।’
निराशश्चारुचन्द्र: शयनीये नि:सहमपतत्। अवादीच्च- ''सत्यम्, नाहमेतदभावयम्। त्वं यद् वदसि तत्सत्यम्। एकस्याऽभावे अपरो न प्राणितुं पारयेत्। अस्तु, इदमेवेश्वरस्येच्छा, द्वावपि सहैव प्राणानुत्स्रक्ष्याव:।”
रुचिराया अधरयो: स्मितरेखाऽदृश्यत सम्यक् तर्हि, द्वावेव युगपल्लोकान्तरयात्रां करिष्याव:। प्रेष्ठ! अस्मिन् मृत्यावपि कियत्सुखम्! प्रियतम! समीपमुपसर! अन्यत्समीपम्, अन्यदपि किञ्चित्। अन्यत् ...... अन्यत् ......।
पय: पात्रं तथैव पतितमतिष्ठत्
(३)
वैद्यमेकं सह नीत्वा ग्रामप्रबन्धको विट्ठलो, गृहस्वामी च भवने परावर्तेताम्। गृहं प्रविष्य दृष्टं यद् द्वयोरपि श्वासप्रश्वासौ न प्रवर्तेते। वैद्येन परीक्षां कृत्वा निश्चितं यदधुनापि द्वयोर्जीवनप्रदीपो नैकान्ततो निर्वाणोऽस्ति।
समीपे दुग्धपूर्णं पात्रमालोक्य वैद्यो विट्ठलश्च विस्मयचकितौ परस्परस्य मुखमवालोकयताम्। एतदनन्तरं विषप्रतीकारपटोर्वैद्यस्य कौशलेन भगवतश्चानुग्रहेण द्वावपि दम्पती पुन: प्राणानवापतु:। पक्वकेशो ग्रामवैद्यस्ततोऽप्यधिकपलितशिरा विट्ठलश्चेति द्वावेव मनसि निश्चितमकुरुताम्- ''नैवं विध: पारस्परिकप्रणय: कुहचिद् दृष्ट:, नापि चैवं विधस्य प्रेम्ण: सङ्कथाप्यस्मिन् जीवने श्रुतेति।
जले ज्वाला (ऊजली-जेठवा-प्रेमाख्यायिका)
(१)
विक्रमस्य द्वादशशताब्द्यां सौराष्ट्रप्रान्तस्य पोरबन्दरे (यस्य हि प्राचीनं नामधेयं सुदामापुरीति) 'जेठवा’ जातीयो हारमणिर्महीपो’ राज्यशासनमकरोत्। एतस्य राज्यकाले एकस्मिन् वत्सरे घोरतमाऽनावृष्टिरभूत्। सम्पूर्ण: श्रावण: समस्तो भाद्रपदश्चापि शुष्को व्यत्यगात्। तस्मिन् समये आसीज्जनताया विश्वासो यद् धान्यस्य व्यापारिणो यतिभ्यो (श्वेताम्बरजैनसाधुभ्य:) द्रव्योपहारस्य लोभं दत्त्वां तेषां द्वारा यन्त्रमन्त्रान् प्रयोजयन्ति येन हि वृष्टेरवरोधो भवति। तेषां धान्यं चातिमहर्घं विक्रीयते।
यदा हि देशे भीषणं दुर्भिक्षमभूत्तदा सर्वाऽपि जनता स्वीयं पशुधनमादाय दूर-दूरदेशे बहि: प्रतिष्ठत। यत्रैव पशूनां कृते तृणमवालोक्यत तत्रैव कुटीरं निर्माय जना न्यवसन्। अमरश्चारणोऽपि पशुसार्थमादाय जनानां समूहे सममिलत्। आसीत्सोऽप्यनावृष्ट्या नितरां व्याकुल:। अतएव पोरबन्दरं परित्यज्य 'हालार प्रान्ते’ (वर्त्तमानकाले द्वारकाप्रदेश:) प्रावसत्। तत्र हि प्रचुरपरिमाणे प्राऽवर्षत्पर्जन्य:। आसीत्पुष्कलं तृणम्, समभूत्प्रशस्यं शस्यम्। अतएव सुप्रसन्नोऽसौ विपिने पर्णकुटीं निर्माय निर्भयं न्यवसत्। तस्य परिवारे पुत्रिकामेकामतिरिच्य नासीदन्य: कश्चित्। आसीत्तस्या अष्टादश विंशतिर्वा वर्षाणि वय:। किन्तु साम्प्रतमप्यासीत्सा कुमारी। नाम तदीयमुज्ज्वलेति। तस्या: पितु: सविधे नासीत्तावद् वित्तं यावता यौतुकादि दत्त्वा केनचित्सह तस्या: परिणयं सम्पादयेत्। अमरो वने गत्वा निजान्पशूनचारयत्, उज्ज्वला च कुट्यां निवसन्ती भोजनमपचत्।
शनै: शनै: सैषा किंवदन्ती पूर्णेऽपि पुरबन्दरे प्राचरद् यत् एकेन यतिना एकस्य कृष्णमृगस्य शृङ्गे एकं यन्त्रं विलिख्याऽस्ति निबद्धं, मृगश्चासौ जनदृष्टिगोपित:। अतएव हि बिन्दुमात्रमपि न वर्षति मघवा। नगरनिवासिनो राज्ञ: समीपे गत्वा यतेरस्य दण्डनाय प्रार्थनामकुर्वन्। प्रोवाच पृथिवीपति:- 'यावदहं कृष्णसारङ्गं निजनेत्राभ्यां न विलोकयेयं तावत्कथमिव दण्डयेयं यतिम्?’। जनताया अयं विश्वास: कस्मिञ्श्चिदंशे समभूत्सत्योऽपि। यतोह्येकेन यतिना मृगा कतिपये पालिता अभूवन्निजावासे। तेषु कृष्ण: कुरङ्गो बहुभ्यो दिनेभ्यो जनदृष्टितो विलुप्तोऽभूत्। एतस्य मृगस्य निवासाद् बहिर्भावो लोकानामाशङ्काया: प्रधानमभूत्कारणं यत्- यत्र यत्र हरिणोऽसौ भ्राम्यति तत्र तत्रैव वृष्टिर्निरुध्यते। एकस्मिकन्दने कुरङ्गोऽसौ यदृच्छया भ्राम्यन्नगरस्योपकण्ठं प्राप्नोत्। जनास्त्वरितमसूचयन्महीपतिम्। राजा निजमश्वमधिष्ठाय सारङ्गमन्वसरत्। दृष्टं नरपालेन यत्कुरङ्गस्य शृङ्गे पत्रमेकमस्ति निबद्धम्। अतएव निजां प्रजामनावृष्टिमुखान्मोचयिष्यन्नरपति: साङ्गमिमं निहन्तुमैच्छत्। स हि सुशिक्षितस्य निजतुरगस्य वल्गामाकर्षत्। अधावद्वायुवेगेन तुरङ्ग:। किन्तु कुरङ्गस्तस्याप्यग्रतो द्विगुणवेगेनोदचलत्।
(२)
व्यतिगत: सम्पूर्णोऽपि दिवस:। सम्प्रति भगवान् वासरमणिरस्ताचलाभिमुखोऽभवत्। मृगोऽपि परिश्रान्त: स्थानेऽस्मिन् निषीदति स्म किञ्चित्। आश्वस्तो नरपतिस्तस्मिन्नेवावऽसरे शरासनाद् बाणममुञ्चत्। मृगोऽप्यमुञ्चत्प्राणान्। मृगसमीपगतो राजा शृङ्गात्पत्रमिदमगृहणात्। पाषाणतो वह्निमुत्पाद्य पत्रमिदं तत्कालमधाक्षीत्।
यथैव महीपालेन यन्त्रमिदं पावकसात्कृतं तथैव वारिधरा व्योमनि विपुलतया व्याप्नुवन्। प्रारभ्यत घन-घोरा वृष्टि:। महीपतिस्तुरगं निजराजधान्यभिमुखमधावयत्। किन्तु मूसलधारावर्षां वर्षति वारिधरे नगरे समवाप्तिस्तुरभूदतिकठिना। समभूत् कज्जलकृष्णा रजनी। मार्गमपरिचिन्वन् पर्यभ्राम्यदितस्ततो नरपति:। सूचीभेद्येऽस्मिन्नन्धकारे नाऽपश्यन्नरपालो मार्गं वा तुरगं वा। वृष्टिरपि या किलैतावन्तं समयं बलादवरुद्धाभूत्, सम्प्रति भयङ्कररूपेण प्रापतत्। विद्युतां वज्रध्वनि:, वारिदानां घोरगर्जना, पर्जन्यस्य मुशलधारावर्षा, समस्तैरेभिर्व्याकुलीकृतो नरपति: समग्रदिन-परिश्रमेण तुरगस्थित एव मूर्च्छितोऽभवत्। किन्तु सुशिक्षितो जात्यश्च तुरगोत्तमो मूर्च्छितं स्वामिनं वहन्नतिसतर्कतया मार्गमुदलङ्घयत्। राजा कदाचिन्मूर्च्छामगमत् कदाचिच्चेतनाम्। विद्युत: प्रकाशे दृष्टं तुरङ्गेण यत्सम्मुखे एका कुटी वर्तते। स हि तस्या एवाभिमुखमासाद्य कातरहेषामकरोत्। कुटीरेऽस्मिन्नमरस्तत्पुत्री च निजाङ्गानि सङ्कोच्य द्वावपि खट्वाकोणे निपतितावास्तां तस्मिन्नेव समये घोटकस्य हेषारवस्तयो: कर्णे न्यपतत्। अमरो व्यचारयन्मानसे यत्- प्रबलवर्षाभिर्व्याकुल: पथिक: कश्चिदाश्रयाय द्वारि तिष्ठति। अत: खट्वास्थित एव सोऽशब्दायत- 'द्वारे यस्तिष्ठति। स हि तृणाऽऽवरणमपसार्य नि:शङ्कमुपयातु गृहमध्यम्। किन्तु न किञ्चिदुत्तरमलभत्, घोटकस्तु पूर्ववत्पुनहेषत्। इदानीं विवश: सन्नमरो गृहाद्बहिरागच्छत्। विद्युत्प्रकाशे समधिकसमवधानेन व्यालोकयत्स: - अचेतनाऽवस्थायामेतस्याऽतिथिस्तुरपृष्ठे तिष्ठति। साम्प्रतमयं तुरग एव एतावत्पर्यंतं निजसादिनमानीतवान्।
अमरस्तुरगपृष्ठादवतार्य हारमणिं निजपृष्ठे समवहत्। कुटीरे चानीय खट्वायामशाययत्।
(३)
पुनर्गृहाभ्यन्तरे प्रविष्य पाषाणादग्रिसमुत्पादनस्य चेष्टामकरोदमर:। किन्तु सूत्रपुञ्जस्य ('तोडा’) आर्द्रतया नाऽभूत्सफल:। विवश: स शुष्कमास्तरणं, शुष्कवस्त्राणि च कुटीरेऽन्वैषयत् येन हि तानि अतिथेरचेतने शीते च शरीरे वेष्टयेत्। किन्तु कुटीरे जलप्रस्रवणात्सर्वाण्यपि वस्त्राण्यभूवन्नार्द्राणि। इदं विलोक्य मूर्च्छितस्याऽतिथेर्मरणाऽऽशङ्कया नितरामकम्पिष्टाऽमर:। अन्ते स हि निजस्य वस्त्राणि शरीरादुन्मुमोच। आगन्तुकस्य पार्श्वे च शयित्वा निजशरीरस्योष्णतां तच्छरीरे सङ्क्रामयितुमैच्छत्। किन्तु वृद्धस्य गात्रे तावती क्वोष्णता यया स निश्चेष्टमतिथिं सचेष्टं निष्पादेयत्। इदानीं पुत्रीमाहूय समादिक्षत्- ''वत्से, कुटीरे नाऽस्मिन्समये वह्निर्न च दीपक एव। वस्त्राणि च सर्वाण्यार्द्राणि। अचेतनाऽवस्थायां च कुटीरे ममाऽतिथि: समायात:। यदि वयं तस्य सचेष्टतां सम्पादयितुं न पारयेम, शीतस्य बाहुल्याद् यदि प्राणानसौ जह्यात्तर्हि वयं पापभाजो भवेम।
सम्प्रत्ययमेवोपाय: केवलमवशिष्यते। यत्त्वमसि युवति: स्त्री। तव वपुषि प्रकाममुष्णता। त्वं निजवस्त्राण्यवतार्य, निजबाहुपाशे परिवेष्ट्य, स्वीयामुष्णतां सञ्चारये:। येन त्वद्गात्रस्योष्णता एतच्छरीरे सङ्क्रामेत्, अयं चोपलभेत चेतनाम्”
उज्ज्वला नितरामधोमुखी मूकभावेन पितुरादेशम् अश्रौषीत्सर्वम्। व्यरमत्तस्या वाक्शक्ति:। मुखात्तस्या: स्वीकारो वा नकारो वा नकिञ्चिन्निरगात्। किन्तु यदा भूयान् समयो व्यतिगत:, न किञ्चिदुत्तरमुपलब्धं तदा पुनरयमभाषत- ''पुत्रि! हे हृदयभावमहमवगच्छामि। तव नारीधर्मस्त्वामेतदर्थं नाऽऽज्ञापयति। परमहमप्यात्मनो धर्मं सम्यगवधारयामि। त्वं तु साम्प्रतमपरिणीता। स्वपुरुषस्य परपुरुषस्य वा त्वत्सम्मुखे प्रश्र एव नोपतिष्ठति। 'यस्मै अहं दद्यां स एव ते पतिर्भवेत्।’ एतदवधार्य ममैतामाज्ञां पालये:, आतिथेर्जीवनरक्षां च कुर्या:।”
इममादेशं प्रदाय तत्कालमगादमर: कुटीराद्बहि:।
पितुर्गमनान्तरं कञ्चित्कालं यावत्किङ्कर्तव्यविमूढापितुरादेशोपरि मर्मविचारम-करोदुज्ज्वला। अन्ते सा निजं कर्तव्यमकरोन्निश्चतम्। अतिथे: खट्वां परित: सप्तवारान् सा प्रदक्षिणामकरोत्। मनसि निजपूज्यां जगदम्बां ध्यात्वा प्रार्थनामकरोत- ''भगवति! कौमार्यावस्थायां केनचित्सह शय्यामधिरोढुं नास्ति मेऽधिकार:। तथापि पितुराज्ञया सम्पादयाम्येतत्। अयमतिथि: कामं कस्या अपि जातेर्भवेत्, पितुराज्ञाऽनुसारमहमेनं निजपतित्वेन वृणोमि। साम्प्रतमहमस्यार्द्धाङ्गिनी भूत्वा मृत्युमुखे पतितस्याऽतिथे: सहशय्यामधिरोहानि। रक्ष मे सौभाग्यम्, मदगात्रस्योष्णतया निश्चेष्टस्याऽस्य शरीरे सञ्चारयेरुष्णताम्।
साम्प्रतं स्वयं समर्पिताया उज्ज्वलाया: सौभाग्यसिन्दूरं तस्या एव मूर्च्छितव्यक्तेर्जीवनोपर्यासीदवलम्बितम्। अतएव येनैव प्रकारेण तस्या: साध्यमभूत्तेनैव प्रकारेण उष्णतामानेतुं सा प्राणपणेनाऽचेष्टिष्ट।
प्रात:कालिक: सुखद: पवन: सम्पूर्णामपि रजनीं निरन्तरं जागरुकामुज्ज्वलामिमामशाययत्। इतश्चोष्णतासञ्चारादतिथेरपि संज्ञा पुन: परावर्तिष्ट। स ह्यात्मानमेकस्मिन् तृणकुटीरे परमसुन्दर्या युवत्या दृढबाहुपाशे बद्धं व्यलोकयत्। नासीत्तस्याऽश्चर्यस्य परिसीमा।
(४)
वृष्टिरासीदवरुद्धा। भगवतोंऽशुमालिनो निर्मल: प्रकाश: प्रासरत्कुटीरेऽप्येतस्मिन् । अतिथिर्युवतेर्बाहुपाशादात्मानमवमोचयितुं यथैव चेष्टामकरोत्तथैव सेयमुज्ज्वलापि जागर्ति स्म। सा सहसैव समुत्थाय वस्त्राणि परिदधती सम्मुखमवातिष्ठत। अतिथिरपि जीर्णाऽऽस्तरणेन निजशरीरमाच्छाद्य परिचयमेतस्या जिज्ञासते स्म। रात्रे: सम्पूर्णामपि घटनामानुपूर्व्येण वर्णयित्वा न्यवेदयत्साम्प्रतमुज्ज्वला- 'इत: प्रभृति भवान् मे भर्ता। अत्रैव मत्पित्रा सह गृहमिदमधिष्ठाय मामद्र्धाङ्गिनीरूपेणाऽङ्गीकुरु।’
अतिथिरुज्ज्वलाया: प्रार्थनामिमां निभृतमाकर्ण्य न किञ्चिदुत्तरमदात्। अभूत्सज्जोऽसौ प्रस्थातुम्। इदानीमतिथिं यात्रायै सन्नद्धमवलोक्य प्रोक्तवानमर: ''यस्यामवस्थायां ममाऽसौ तनया भवतश्चेतनामानेतुं सर्वत: साहाय्यमकरोत्तामवस्थां संस्मरन्नपि भवान् किमस्मानित्थं विहाय गन्तुमुचितं प्रतर्कयेत्? किं मानवधर्मस्तदिदमेवाऽऽज्ञापयति?”
परमतिथिर्नाऽस्याऽपि किञ्चदुत्तरं ददौ तुरगोपरि स्थापयामास स ह्यासनम्। उज्ज्वलामाश्वास्य तुरङ्गमध्यारुरोह सोऽयम्। गमनस्याऽऽज्ञां याचमान:, प्रावोचदमरं नरपाल: 'अहमस्मि पोरबन्दरस्य शासको हारमणिर्जेठवा। भवतो जामातृभावेन ममात्र निवास: सर्वथा असम्भव:। सम्प्रति भवान् मामाज्ञापयतु राज्ये गन्तुम्। अहं भवतस्तनयां पोरबन्दरे सादरं सप्रतिष्ठं चाह्वयेयम्।
उज्ज्वला प्रात: कालात्सायम्पर्यन्तं प्रत्यहं निजाङ्गुले: पर्वसु दिनानि गणयामास। प्रतीक्षमाणायास्तस्या व्यत्यगु: पञ्चदशदिवसा:। परं पोरबन्दरान्न कोऽपि नर: समगात्। व्याकुला तावदुज्ज्वला हृदये समुत्पन्नं प्रणयपातिव्रत्याङ्कुरं गलदश्रुधारया निषिञ्चन्ती न्यषीदत्।
उज्ज्वलाया मानसिकदु:खमनुमाय, अमरो राज्ञा सह सङ्गन्तुं गृहात्प्रास्थित। पोरबन्दरं प्राप्य राजदर्शनस्येच्छां प्राकाशयदसौ, किन्तु न सा सफलाऽभवत्। द्वित्राणि दिनानि इतस्ततो बभ्राम्, प्रयत्नं चकार, फलं न दृष्ट्वा पुनर्गृहमाजगाम। सर्वमिदमवधार्य सती सा विचलिताऽभवत्। पितरं सहाऽऽदाय स्वयमुज्ज्वला पोरबन्दरं प्राप। राजद्वारं प्राप्य राज्ञो दर्शनं लब्धुं सा प्रार्थनां प्रेषयामास। किन्तु किमप्युत्तरमलब्ध्वा, अनशनव्रतं स्वीकुर्वती सती सा तत्रैव स्थितवती। अस्मिन्नन्तराले भूपतिर्निजनिवासात्पदमपि बहिर्न निदधौ।
भूपतेरुपेक्षापूर्णमिमं व्यवहारमवधार्य तस्या हृदयं विदीर्णमभूत्। करुणं विलपन्ती सा सदैन्यं न्यषीदत्। तस्या हृदयतन्त्री शोकाऽवेगाज्झाङ्कुर्वती करुणमक्रन्दत्। निस्सरत्तस्या मुखात्-
''निजयूथाद्विभ्रश्य व्यथते हरिणमनोऽप्यहो।
प्रियविरहं निर्विश्य जीतति कथमिव मानुष:।।”
पर्यन्ते विरहविह्वलाया उज्ज्वलाया: प्रगाढं प्रणयबन्धं निर्धार्य द्रवति स्म हृदयं जेठवानरपते:। स हि तामाह्वयति निजसमीपे। त्रीणि दिनान्यखण्डमुपोषिता निजपरिगृहीताद् व्रतात्सुभृशमविचला सेयमुज्ज्वला यदा हि राजनिकटमवाप्रोति तदा शुष्यन्त्यपि तस्या आशालता लहलहायिताऽसहसा।
तस्या: हृदये समभवत्सोऽविश्वासो यत्सा निजं प्रियतमं सर्वदार्थं समधिगतवती।हृदयतन्त्री तस्या: सुमधुरं झङ्कृतवती-
तपने तपति सुतीक्ष्णमारोहति शिखरं गिरे:।
विह्वलवपुषाऽभीक्ष्णमुपलब्धा छाया घना।।
किन्तु द्वयो: समागमे मिथ: संलापो यदा प्रारभ्यते तदा 'जेठवा’ नरेन्द्रस्तामे- तामुज्ज्वलां 'भगिनी’ इति सम्बोधयति, प्रबोधयति, चासौ, ''प्रियभगिनि, योर्विभिन्नजात्योर्मध्ये आवयोर्जन्माभवत्तयोर्नियमानुसारमावयोर्मिथ: पतिपत्नीसम्बन्धो नाऽद्यावधि कदापि समभवत्- न चाप्यन्ते कदापि सम्भविष्यति। एतयोर्मध्ये भ्रातृभगिनी सम्बन्ध एव पुराऽप्यभूद्, युज्यते चापि। एवमस्थायामन्यविधा प्रत्याशा कथमिव कर्तुं युज्यते त्वया? आम्, यदि त्वं वांछेस्त्तर्हि सम्भ्रान्तकुलोत्पन्नेन केनचिदुच्चारणयुवकेन ते विवाहमहं सम्पादयेयम्। त्वत्कृतस्योपकारस्य परिवत्र्ते तु ममैतदर्थं राज्यम्, अर्धं च मे प्रासादमहं समर्पयेयं तुभ्यम्। किन्तु नेयमाशा कदापि स्थापनीया यदावयोर्मिथो दाम्पत्यसम्बन्धो भवेदिति।”
हन्त! भिन्नहृदञ्चला ह्युज्ज्वला किं वा साम्प्रतमुत्तरं दद्यात्? नि:सरति तस्या मुखात्-
जगति मिथुनमश्रावि सारसयोरथ चक्रयो:।
नान्यद् भुवने भावि, श्रान्ता भ्रान्ता भूरिश:।।
परन्तुजेठवानृपतिर्नात्मनो निश्चय कथमपि परिवत्र्तयितुं सन्नद्ध:। स हि प्रबोधयति ताम् - ''भगिनी भूत्वा त्वं मे प्रासादे निवसेर्नि:शङ्कम् अहम् आजन्म ते भ्राता भूत्वा सुखं निवत्स्यामि।”
किन्तु तन्मयं तस्या हृदयं श्रोतुमपि नेदं वाञ्छति। प्रस्रवद्वाष्पजला प्रावोचदुज्ज्वला-
यमृते क्षणो न याति तमृते जन्म कथं चलेत्?
रुदतीं भवान् जहाति किमु कृत्वा मां योगिनीम्?
परिणामो यादृशो भवितुं युज्यते तादृश एव सम्मुखगतोऽभूत्। दैवदुर्बलाया आशालता नितान्तमम्लायत। प्रस्रवन्नयनजला ह्युज्जवला जेठवानरपते: सम्मुखात्परावत्र्तत। आगमनसमये प्रोक्तं तया- ''प्रभो, दीनयाऽनया निजहृदयं भवते समर्पितम्। मत्समीपे योऽपि विधिरासीत्तस्य स्वामी मया भवानेव निर्मित:। जानेऽहं भवान् राजा, अक्षयसम्पत्ते: स्वामी। मम निर्धनाया: सम्पत्ति: श्रीमन्तं समाक्रष्टुमतितुच्छा। किन्तु त्रैलोक्यपतिं कृष्णं प्रीणयितुमासन् सुदाम्र समीपे केवलं तण्डुला एव। निर्धनोऽसौ हीरकान् मणीन् वा कुत: समाहरेत्? अस्मिन्संसारे दीनदु:खिताया मे सम्प्रति न कोऽपि सहायक:। अहं गच्छामि, भवतो मूर्त्तिं हृदयमन्दिरे संस्थाप्य भवत्सम्मुखात् सर्वदार्थं व्रजामि। नाहं भवतो जातिप्रणये बाधिका भवितुमिच्छामि। भवद्-हृदये जात्युपजातीनां यो हि निर्बन्धोऽस्ति स न तावदीश्वरनिर्मित:। अपि तु केवलं समाजकल्पित: स:। चेदयं सिद्धान्त: सत्यो मान्यते भवता यच्चारणजातौ जन्ममात्रेणैवाऽहं भवत: प्रेमभिक्षाया अनधिकारिणी भवांश्च मे प्रणयनिधिं चरणाभ्यामवमन्य दासीमात्रमपि मां निर्मातुं सुस्पष्टं निषिध्यति, तर्हि सूचयाम्यहम्- निराश्रयाया मम कृते “ सहजशीलताज्जलराशेरग्रिरेवोदभवेत् यस्मिन्नहं सर्वदार्थमात्मनं समर्पयेयम्। समग्र: संसारो मे सत्यस्य परीक्षक: साक्षी व सम्भवेद्। यदि समुद्रे प्रवेशसमयेऽग्रिदेवो मे शरीरमङ्गीकुर्यात्, मां चेद् भस्मसात्कुर्यात्तर्हि ततस्तृतीयदिने अर्थात् मम मरणस्य तृतीययाह्वे भवत: शरीरमपि विनैव वह्निं प्रज्वलेत्। मम भवतश्च समागम: परमपितुस्तस्य समक्षं परलोके सम्भवेत्।”
इदमुक्त्वा विह्वला सेयमुज्ज्वला राजभवनाद् बहिरभवत्। समुद्र आत्मानं समर्पयितुं सा तेनैव मार्गेण राजपथे प्रायासीत् येन समायाताऽभूत्। नागरिकाणामपार: समुदायस्तस्या: समन्तादासीत्परिवृत्त:। राजभवने जायमानया घटनयाऽनया समग्रमपि नगरमुत्कर्णमासीत्। आबालवृद्धं सकलमपि नगरं सतीदर्शनार्थं निजनिजनिवासात् प्राचलत्।
कश्चिद्राज्ञो दुराग्रहमनिन्दत्तर्हि कश्चिदुज्ज्वलाया: हठमकुत्सयत् गृहस्थमहिला: एतस्या: साध्व्याश्चराजसा निजललाटमपावयन्। निजाङ्कगोपितान् हृदयसर्वस्वान् (शिशून्) तच्चरणयोर्निपात्याऽऽशीर्वादमगृह्णन्। एवं किल जनसमुद्रेण परिवृता उज्ज्वला सेयं समुद्रं प्राप। इतस्तत: कुतश्चिदपि दृष्टिमक्षिपन्ती सेयं समुद्रे प्राविशत्। यथा-यथा च सेयं जले अग्राग्रत: प्रसरन्ती अभूत्तथा तथा जलमप्यस्यै मार्गमददात्। अनुमानत: सार्धशतपदानि यावत्सेयमेव परिस्थितिरभूत्। अर्थात् इयं जले प्रविशन्ती प्रासरत्, जलं चास्यै मार्गं प्रदददिव तस्या अग्रे प्रावर्धत। अन्ते या घटनाऽदृश्यत सा किल मानवेतिहासे अभूतपूर्वा। सत्यव्रतादुज्ज्वलाया: शरीरात् सहसैव जाज्वल्यमानो वह्नि: प्रादुरभूत्। गगनं चोचुम्बमानासु प्रदीप्तशिखासु तस्या: पावनं शरीरं चिरकालार्थमन्तर्हितमभूत्।
जठवानरपतिर्हारमणि: सतीशिरोमणेस्तस्या: अग्रिस्नानस्य यथैव संवादमशृणोत्तथैव तस्य हृदि सुदृढो विश्वासोऽभवत् यत् अद्यतस्तृतीये दिने मम मृत्युरवश्यम्भावी। न तस्य निरोध: कोटियत्नैरपि सम्भवेत्। दिनद्वयमनेन परमेश्वरोपासनया व्यतिगमितम्। नाऽभूदस्य लेशतोऽपि भयमनया वार्त्तया यत्तस्य मृत्युस्तस्य शिरसि निर्भरं नृत्यतीति। प्रत्युताऽसौ पूर्वतोऽपि प्रसन्न: प्रालक्ष्यत। तस्य हृदये सेयमासीत्प्रमोदलहरी यत् स हि निजधर्मरक्षार्थं प्राणान् विसृजतीति, न कश्चिद् विलासलोलुप: कामुक इव।
ऐतिहासिक सेयं घटना प्रख्यायते यत् तृतीये दिने प्रात: कालस्य सुशीतलेऽपि वातावरणे जेठवानरपते: शरीरे सहसैव भयानकस्ताप: समुदभवत्। ''हन्त, दह्ये, दह्ये,” इत्यनवरतं प्रजल्यन्नेव स हि ऐहलौकिकलीलां समापिपत्।
टिप्पणी- डिङ्गल (राजस्थानीय) भाषाया: ''जेठवा की बात” इति नाम्ना सुविख्यातमिदं जेठवा-ऊजली-प्रेमाख्यानं राजस्थानप्रान्ते। एतस्य कथानकस्य चरितनायिका उजली राजस्थानीसाहित्यस्य चरमा तेजस्विनी विभूति:। सीता-सावित्री-प्रभृति-भारतीय-सतीनामिवालौकिकी पातिव्रत्यक्षमता सुदुर्लभा तावदितिहासेषु। आख्यानलेखकेन ''अभिज्ञानशाकुन्तल” स्येवेदं स्नेहतिरस्कारस्य कथानकमनुकृतं स्यादैतिहासिकी वा सेयं घटना स्यादिति नाहं किमप्यत्र निर्णेतुमिच्छामि, किन्तु साहित्यमार्मिका: समालोकयेरन् यत् सदाचरणवैभवे कियदिदं कथानकं सफलमभूदिति।