।। चतुर्थोऽङ्कः ।।
(ततः प्रविशति कमलासनस्थो विरञ्चिः सदेवसमाजः)
विरञ्चिः अहो नु करुणावरुणालयत्वं भगवतो नारायणस्य! यदा-यदा धरित्री पापभारविकला जायते, सत्यं सीदति, धर्मो ध्वंसते, परोपकारः परिदेवते, बन्धुत्वं विपद्यते, दानं दूयते, तपस्सन्तप्यति, सद्गुणाः सङ्कुचन्ति, प्रवर्धते च सर्वतोमुखं रक्षोऽनाचारस्तदैवाऽस्माकं प्रार्थनामङ्गीकृत्य भगवान् जगन्नाथः सद्धर्मसंस्थापनाय, अमर्त्यस्सन्नपि मर्त्यीभूय समवतरति वसुधाम्!
किञ्च, सांसारिकप्रपञ्चशून्योऽपि प्रभुः किं किं मानवीयं दुःखं न सहते? किमर्थम्? केवलं श्रेयोमार्गं प्रदर्शयितुम्।
इदानीमपि लोकरावणं लङ्कापतिरावणं समराङ्गणे निहत्य, धरित्र्याञ्च रामराज्यं संथाप्य भगवान् दशरथनन्दनो रामः स्वैरं चकास्ति।
तद्राघवेतिवृत्तं प्रत्यग्रं ज्ञातुं सम्प्रेषितो नारदः कथं विलम्बते?
(अपटीक्षेपेण प्रविश्य)
नारदः तात! न विलम्बे! एष भवत्स्मरणसमकालमेव समुपस्थितोऽस्मि। नारदोऽहं प्रणमामि।
(इति सप्रणामाञ्जलि चरणो स्पृशति)
विरञ्चिः (सहर्षम्)
वत्स चिरञ्जीव! लोककल्याणभावस्ते प्रवर्धताम्। कथय कोसलवृत्तान्तम्। क्वोपयाता भगवतो नारायणस्य नरलीला?
नारदः तात! अग्रजवराणां ब्रह्मर्षिणां वसिष्ठपादानामनुकम्पया, दुरन्तदुःखान्ता जायमाना सत्यप्यकस्मादेव सुखान्ता जाता।
विरञ्चिः वत्स! किमुच्यते? सविस्तरं श्रोतुमिच्छामि!
नारदः तात! प्रजाकुशलं परिज्ञातुं सम्प्रेषितस्य गुप्तचरस्य मुखाद् वैदेहीशीलचरित्रविषयकं दुस्सहमपवादं रजकमुखोद्गीर्णं श्रुत्वैव प्रियापरित्यागसङ्कल्पवान् जातो राघवः प्रजाऽनुरञ्जनपरः।
विरञ्चिः ततस्ततः?
नारदः ततस्तु पूर्ववत् सञ्जातेऽपि सन्ध्याकाले महाराजाधिराजं श्रीरामचन्द्रं गृहमनागतं परिज्ञाय, तिसॄणामप्यम्बानां चिन्तां समवेक्ष्य, गर्भभारालसायाश्च भ्रातृजायाया विदेहनन्दिन्या विकलतामनुभूय कुमारलक्ष्मणो धर्मसभामण्डपमाजगामाऽश्रृणोच्च यद्भूपतिरात्मनं कक्षेऽर्गलितं विधाय स्थितो न कमपि द्रष्टुं समीहते।
विरञ्चिः अहो नु नारायणपिरतापः। वत्सः! ततस्ततः?
नारदः तात! ततस्तु अग्रजवरं रामं सकृद्द्रष्टुं कृताऽनुनयोऽपि विफलमनोरथीकृतः कुमारलक्ष्मणः कमपि दुर्धर्षलिपड्डम्बरं नेदिष्ठमाशङ्क्य व्यथितो जातः। देव्या वैदेह्या भूयोऽवमानशङ्कयाऽसौ ज्वालामुखमहीधर इव प्रचण्डरोषात्प्रजज्वाल। ततो हि क्षणेनैव,
दहन्निव निशापतिश्शिशिरदीधितस्सम्बभौ
निदाघदहनोपमो मलयमरुतोऽभासत।
शिरोधरणिधारणे निहितमंशतो वक्रता-
महो फणिपतेरगात्प्रकटरोषणे लक्ष्मणे।।1
विरञ्चिः समुचित एवाऽयं रोषश्शेषावतारस्य कुमारलक्ष्मणस्य। ततस्ततः?
नारदः तात! ततस्तु यावदेव पदाहतभीष्मभुजङ्ग इव वैदेहीचरणचर्याऽनुलीनस्सौमित्रिः स्वीयं युगान्तकृत्कोपं प्रकटयितुं कुलगुरूगृहमासादयेत् तावदेव तपोबलज्ञातसकलवृत्तान्तोऽस्मदग्रजो ब्रह्मर्षिर्वसिष्ठः पत्रहस्तं कमपि वैखानसं कुमारलक्ष्मणसकाशं प्रेषितवान्। किञ्च, राघवमपि अनाख्यायाऽनामन्त्र्य न किमपि स्वैरं निर्णेतुं निर्दिष्टवान्।
विरञ्चिः (प्रसादभावमुपगतः)
साधु वसिष्ठः! कुलगुरूचितं समाचरितं त्वया! वत्स नारद! ततस्ततः?
नारदः तात! ततस्तु मङ्गलमेव जातम्। ब्रह्मर्षिकुमारलक्ष्मणयोस्समवेत-प्रयत्नेनाऽन्येद्युरेव सरयूपुलिने शिल्पिकृषकपण्डितपुरोहितसैनिकसामन्तश्रेष्ठितपस्विप्रभृति-साकेतपौराणां परमबृहती काचिज्जनभाऽऽयोजिता। ततश्च यावदेव मध्येसभं ब्रह्मर्षिणा वसिष्ठेन राघवेन्द्रस्य महाविष्णुत्वं सीतायाश्च महालक्ष्मीत्वं प्रकाशिते श्रद्धेयतमैशब्दैस्तावदेव,
हा नाथ! वाचिकमुदीरितमात्मगेहे
यच्चापि तस्य विवृतिर्न मयाऽनुभूता।
स्वाम्बाचरित्रशुभशीलमहो विनिन्द्य
जातोऽस्मि हन्त पशुतोऽपि निकामनीचः।।2
विच्छिन्नजाड्यमतिमान्द्यकुबुद्धिमूलो
न्यग्रोधकल्परजकः परितापबिद्धः।
मां पाहि राघव! पशुं शरणागतन्ते
सीताऽपवादपिशुनं परुषाऽपराधम्।।3
इति सक्रन्दनं सोरस्ताडं सक्षमायाचनमुद्रं कथयन् आदौ कुलगुरुचरणयोः पश्चाच्च राघवचरणयोर्न्यपतत्। निखिलाऽपि पौरसमज्या प्रायश्चित्तविधुरस्य तस्य रजकस्य व्यथयाऽऽक्रान्ताऽभूत्! ततश्च,
क्षणं गुरौ पौरजने क्षणञ्च
क्षणं नु सौमित्रिमुखे विवर्णे।
सञ्चार्य दृष्टिं स्फुटमिङ्गितज्ञो
रामस्तमङ्के रजकञ्चकार।।4
विरञ्चिः (देववृन्दैः सह सहर्षम्)
विजयतां विजयतां लोकनायको रघुनन्दनः। विजयतां मर्यादापुरुषोत्तमो नारायणः। वत्स! वृत्तान्तमिमं श्रावयित्वा हर्षनिर्भरानस्मान् कृतवानसि। चिरञ्जीव, वर्धस्व!
(नारदं गन्तुमुत्कण्ठितं दृष्ट्वा)
तदिदानीं क्व गन्तुमिच्छसि?
नारदः (सस्मितं साऽधोदृष्टिभङ्गम्)
तात! नन्वयोध्यामेव।
विरञ्चिः अये! अयोध्यात एवोपावर्तसे। भूयोऽपि तत्रैव गन्तुमियं त्वरा? किमस्ति रहस्यम्?
नारदः (सनृत्यमुद्रम्)
नारायण! नारायण! तात! न श्रुतं भवद्धिर्वृत्तान्तस्याऽवशिष्टं किमप्यमृतरसायनम्। धर्मसभाऽऽयोजनानन्तरमेव देवी वैदेही यमजौ सुतौ प्रसूतवती। अद्य जातकयोस्तयोः षष्ठीमहोत्सवः प्रवर्तते। निखिलाऽप्ययोध्याऽद्य अमन्दानन्दाम्बुधौ निमज्जितेव परिलक्ष्यते! तत् को नु लाभो निरानन्देऽस्मिन् ब्रह्मलोके कालहरणस्य! एष प्रस्थितोऽहम् नारायण! नारायण!!
(इत्यन्तर्हितो भवति)
विरञ्चिः (सदैन्यम्)
भो भोः पुरन्दरप्रमुखा देवाः! दृष्टं भवद्धिर्नारदस्य चातुर्यम्? नारायणेन सकृच्छलितोऽपि तमेव बहुतरं समाद्रियते न पुनर्मामातमजनकम्!
(सर्वे देवाः प्रहसन्ति)
तत्किमत्राऽवस्थानेन? वयमपि राघवानन्दं नयनपाथेयीकर्तुं साकेतपुरीमेव गच्छामः।
(इति प्रतिष्ठते)
(इति शुद्धविष्कम्भकः)
(ततः प्रविशति हर्षकौतुकादिभावसन्धिमभिनयन् राघवः)
राघव हन्त भोः! कुशलवयोर्जनकोऽस्मि जातः। सन्ततिजन्माऽपि नाम विलक्षणमेव वृत्तं मानवजीवनस्य!
तातः कोऽपि पितामहोऽथ जनकभ्राता पितृव्योऽथवॉ
माता साऽपि पितामही तदनु सा तातस्वसाऽम्बास्वसा।
मातामह्यथ मातुलश्च भगिनी मातामहो वाऽपरो
हन्तैकस्य हि जातकस्य कति नो सम्बन्धिनस्तन्वते।।5
किञ्च,
ह्यस्तनं दिवसं यावद्योऽहमम्बासुतोऽभवम्।
स एवाऽद्य पिता जातो युग्मयोश्चित्रमेव तत्।।6
(इति सस्मितं परिभ्रमति)
यथेयं राजभवनप्राङ्गणाद् बहिर्निस्सरन्ती सूतगृहगीतलय-लहरी कोकिलारावसहचरीव मदयति चित्तं, कुतुकयति च कर्णकुहरं तेन ज्ञायते यत्प्रारब्ध एव भरतप्रमुखैः मत्सहोदरैरायोजितोऽद्यतनो जातकषष्ठीमहोत्सवः। तत्र मयाऽपि नामोपस्थितेन भवितव्यमिति पूर्वमेव विज्ञापितोऽस्मि कुमारलक्ष्मणेन।
(हस्तं हस्ते सम्मेल्य, सवैलक्ष्यम्)
किन्तु जननीनामनुजवधूनाञ्च मध्ये लवकुशयोः पितृरूपेण समुपविशन् किमपि मन्दाक्षमिवाऽनुभवामि।
(अपटीक्षेपेण प्रविश्य)
लक्ष्मणः (सवितर्कम्)
आर्य! प्रारब्धे सति जातकयोः षष्ठीमहोत्सवे कस्मात् पृथक् स्थीयते? जनन्यः कुटुम्बिनः प्रातिवेशिकाः पौराश्च सोत्कण्ठं प्रतीक्षन्ते भवन्तम्। तदहं गुरुवर्यैः सम्प्रेषितोऽस्मि भवन्तमानेतुम्।
राघवः कुमार! किं देवी वैदेह्यपि समागता?
लक्ष्मणः (विहस्य)
आर्य! अथ किम्? आर्याया एव सौभाग्यमद्य समुज्जृम्भतेतरां निखिलेऽपि सौधे। जातकौ पुनः पर्यायेण पितामहीनामुत्सङ्गेषु दोलासुखं प्राप्नुतः। तत्प्रतिष्ठातव्यमावाभ्याम्।
राघवः तर्हि पुरस्सरीभव।
लक्ष्मणः इत इत आर्यः।
(महोत्सवस्थलमुपसृत्य राघवः सीताया दक्षिणभागे उपविशति। उभौ मिथः समवलोक्य लज्जामनुभवतः। उभयोरुपरि सर्वे पुष्पवृष्टिं विदधति)
भरतः (पुरस्सृत्य)
भो भो बन्धवः! प्रातिवेशिकाः! पौरजनाः!! देवानां पूर्वपुरुषाणां, भवतां समेषां किञ्चाऽस्माकं कुलगुरुचरणानामनुकम्पया सम्प्राप्तमिदं सौभाग्यं यदार्या वैदेही अस्मत्कुलदीपकद्वयं लवकुशाभिधानं सूतवती। तदद्य जातकयोः षष्ठीमहोत्सवे समागतेभ्यः सर्वेभ्यो भवद्भयः स्वागतं व्याहरामि। सम्प्रति प्रारभ्यते महोत्सवः।
वसिष्ठः (अरुन्धत्या सह समुत्थाय दक्षिणहस्तमुद्यम्य)
वत्स राघव! इयमावयोराशीः!
चन्द्रस्ते नेत्रयुग्मं शिशिरयतु सदा लोकगाढानुरक्त्या
भानुस्त्वां भूरिदीप्तं कमलसुममिव प्राज्यगन्धं विधत्ताम्।
एते दीप्यद्दिगन्तास्तव विमलयशो मञ्जु विस्तारयेयु-
र्नित्यं त्रैलोक्यशोकं प्रहर रघुपते! सानुजस्त्वं ससीतः।।7
राघवः (सीतया सह सचरणस्पर्शम्)
भगवन्! प्रणमावः
वसिष्ठः वत्स राघव! यदर्थं संरक्षितं जीवनम्मया तदद्य सफलं जातम्। वर्धस्व!
(भरतं प्रति)
वत्स भरत! प्रवर्तयेदानीं महोत्समङ्गलम्!
भरतः यदाज्ञापयति भगवान्! तदिदम्प्रथमतया मङ्गलगीतं प्रस्तूयते।
(ततः प्रविशतः पृथग् यूथौ गायकपुरुषमहिलानाम्। पर्यायेण गीयते)
अद्य रघुपतिसदने लसति सुदिनम्
देवी सीता सूतवतीह तनययुगलम्!!
प्रवहति शिशिरो मलयगिरिपवनः
विधुरिव सुखयति दिवसेऽपि तपनः
अद्य सुरपुरमिव विलसति भवनम्
देवी सीता सूतवतीह तनययुगलम्!!
कौसल्या चुम्बति सुतवधूमिह सीताम्
कैकेयी नन्दति मधुवचनभरैस्ताम्
अद्य तनुते सुमित्रा सूतगृहगायनम्
देवी सीता सूतवतीह तनययुगलम्!!
क्वापि वेदगानमिन्द्रजालमथ मायिनाम्
क्वापि विरुदावली चारणव्यवसायिनाम्
क्वापि विटचेट भण्डगणिकादिनर्तनम्!
देवि सीता सूतवतीह तनययुगलम्!!
वितरति भरतो विविधविधदानम्
सोऽपि रिपुसूदनो विशदयति मानम्
रामस्सेवते सलक्ष्मणो वसिष्ठचरणम्!
देवी सीता सूतवतीह तनययुगलम्!!8
।।जवनिकापातः।।
भरतः सभ्याः अप्रमत्ता भवत! विलक्षणं किञ्चिदिदानीं प्रस्तूयते।
(ततः प्रविशति कृष्णवस्त्राच्छादितश्शोणितनयनो धृतविविधमाल्य ऐन्द्रजालिकः। डमरुकं वादयन् उद्धतनृत्यं प्रस्तौति सपरिवारः)
ऐन्द्र विजयतां विजयतां भूतलविरञ्चिब्रह्मर्षिर्वसिष्ठः। विजयतां धर्मसंस्कृतिशीलसमुदाचाररक्षको महाराजाधिराजो दशरथनन्दनो रामः। विजयन्ताञ्च भरतलक्ष्मणशत्रुघ्नास्सहोदरा राघवप्रतिबिम्बभूताः! भो भोः सहृदयाः पश्यन्तु मम कौशलम्।
हुङ्कृतिविकलकरालदशनकण्ठीरवपृष्ठारूढा
चण्डमुण्डमहिषोपमर्दिनी महाकालिका गूढा।
ज्वलत्त्रिनयना प्रहसितवदना बद्धा विद्याभ्यासे
एषा प्रकटीभवति समक्षं भवतां नीलाकाशे!!9
(सर्वें साश्चर्यं पश्यन्ति महाकालीमाकाशे, प्रणमन्ति च श्रद्धया। सर्वत्रापि करतलध्वनिः)
ऐन्द्र भोः श्रूयताम्!
प्रकटचिटचिटाऽरवैदहन्तं पिबाम्यहं वह्निम्
निर्नौकः पारयाम्यहं पदगत्यैवाऽम्बुनिधिम्।
विदधे कुण्ठान् कण्ठीरवान् गृहीत्वा तत्पुच्छम्
अस्वच्छोऽपि शरीरैर्वसनैर्दधेऽन्तरं स्वच्छम्।।10
तदिदानीं पश्यन्तु भवन्तोऽस्मदिन्द्रजालविद्याया अपरं कौशलम्!
स्तम्भं विदार्य शत्रुं प्रचार्य सञ्चार्य दैत्यसंघम्
उच्चैर्विनद्य दंष्ट्राभिरद्य भीषयन् कशिपुमन्धम्।
नरसिंह एष ननु विकटवेष आलोक्यतेऽम्बरान्ते
प्रह्लादमेकमाह्लादयन्नतितरां कृतं स्वान्ते!!11
(सर्वे हिरण्यकशिपुवधोद्योगिनं भगवन्तं नृसिंहं पश्यन्त्याकाशे विस्मिताश्च जायन्ते। सर्वत्रापि जयजयकारः)
ऐन्द्र. भो भोः राजकुलसदस्याः भरतलक्ष्मणशत्रुघ्नप्रमुखाः! सम्प्रति सर्वेऽप्यप्रमत्ता भवत। एषोऽहं पश्यतामेव भवतां समक्षं नवजातौ लवकुशावपहरामि!
(सर्वें तमैन्द्रजालिकं सकुशलवमाकाशे विलोकयन्ति)
सीता (सभयं क्रन्दती)
हा धिक्! आर्यपुत्र! भरत! लक्ष्मण! शत्रुघ्न! गृहाण बधान तावदिमं मायिनं जातकाऽपहारिणम्!
राघवः (प्रहस्य)
देवि वैदेहि! अलमुद्वेगेन। समाश्वसिहि तावत्। इन्द्रजालकौशलमिदम्! क्वाऽपहरणं तव पुत्रयोः। पश्य, एको मध्यमाम्बाया उत्सङ्गेऽपरश्च कनिष्ठाम्बायाः क्रोडे विलसति।
(सीता वैलक्ष्यं नाटयति। सर्वे हसन्ति निर्भरम्। ऐन्द्रजालिकः प्रणम्याऽपसरित सपुरस्कारम्)
भरतः पुत्तलिकासूत्रधारस्यापि नैपुण्यं पश्यन्तु सम्प्रति भवन्तः।
(ततः प्रविशति धृतपौत्तलिकवेषः पिण्डोदकः पुत्तलिकादम्पतीभ्यां सह)
पिण्डोदकः (समुद्गकं भूमौ निधाय)
(गात्रविकृतिं प्रदर्श्य साट्टहासम्)
(दण्डं भूमौ प्रहृत्य,............पुत्तलिकादम्पतीं सम्बोधयन्)
(पुत्तलिकादम्पतीं सनिर्देशं नर्तयति)
(विजयन्तां भवन्तः। तीरभुक्तेर्मिथिलातस्समागता वयम्! भो बन्धवः! इमां पुत्तलिकामेव नर्तयामि सर्वेषां मनांसि च रञ्जयामि। अस्माकं तीरभुक्तिभूपतिस्तु विदेहः समुच्यते। देहरहित इति विदेहपदस्यार्थः।
इदानीं भवन्त एव बुध्यन्तु। किं शक्नोति कोऽपि विदेहीभवितुम्? तर्हि अस्मत्पुत्तलिकयोरङ्गसञ्चालनमवेक्ष्य राजा विदेहोऽपि सदेहस्सञ्जातः।
तत्तिलोत्तमे! प्रदर्शय तावन्नृत्यमुद्राम्। राज्ञो रामचन्द्रस्य राजगृहमिदम्!
राघवः (पिण्डोदकं प्रत्यभिज्ञाय मन्दमुपहसन्)
आर्य पिण्डोदक! पुत्तलिकानृत्यं कदा शिक्षितं भवता?
पिण्डोदकः (आत्मगतम्)
अये धृतभण्डवेषोऽपि राघवेण प्रत्यभिज्ञातोऽस्मि! किमिदानीं कथयानि?
(प्रकाशम्)
महाराज! कोऽयं पिण्डोदकः? ममाभिधानन्तु महोदरः। महोदरोऽहं राजन्! पुत्तलिकानर्तकः।
लक्ष्मणः (सकैतवम्)
भो अलमार्य प्रतार्यं! पिण्डोदकोऽस्तु भवान् महोदरो वा, परन्तु सत्यमेव पुत्तलिकानृत्यप्रवीणो भवान्! भवत्प्रेषिताभिश्चतसृभिः पुत्तलिकाभिस्सीतामाण्डव्युर्मिलाश्रुत-कीर्तिसंज्ञाभिर्वयमेव चत्वारो भ्रातरोऽहर्निशं नर्त्यामहे।
(इति पिण्डोदककूर्चमुन्मुच्य दूरे क्षिपति। सर्वे साट्टहासं पिण्डोदकं प्रत्यभिजानन्ति)
सीता (सास्फुटहासम्)
अये, सत्यमेव आर्यपिण्डोदक एवाऽस्मज्जनकवयस्यकल्पः?
(सर्वे सकरतलध्वनि निर्भरं हसन्ति। पिण्डोदकः पलायते)
(ततः प्रविशति सागरमन्थनमभिनयन्ती नृत्याङ्गना)
भरतः मान्याः! सागरमन्थनमिदानीं पश्यन्तु भवन्तः।
सुराऽसुरैर्मथितोऽयं सिन्धुः!
देवनिचय एकतोऽप्यरतो यत्नपरोऽसुरबन्धुः!!
मन्दरमन्थदण्डमथितमिह घूर्णति सागरनीरम्
व्याकुलविकटनक्रझषकच्छपशिशुमारश्रिततीरम्।।
श्रीमणिरम्भाकापिशायनीधन्वन्तरिगजराजाः
शङ्खतुरङ्गसुरद्रुमचन्दिरधेनुसुधाहरिचापाः।।
ततः प्रकटितं भुवनचतुर्दशसंहरणक्षमगरलम्
सुराऽसुरैः प्रार्थितो धूर्जटिस्तदपि गलेऽकृत सरलम्।।
वासुकिमन्थनरज्जुविवेष्टितमन्दरमण्डित-सिन्धुः!
देवनिचय एकतोऽप्यरतो यत्नपरोऽसुरबन्धुः!!12
(मृदङ्गादिवाद्यवृन्दाश्रितताललयाऽनुगतं नृत्यं प्रस्तूयते)
भरतः (पुरस्सृत्य)
भो भोः सहृदयाः! कुमारयोर्लवकुशयोः षष्ठीमहोत्सवसम्भारस्सम्प्रति पूर्तिमुपयाति। सर्वेऽपि कलाकाराः सम्भूय शुभाशंसां प्रकटयिष्यन्ति, महामात्यसुमन्त्रपुरस्कृताश्च संन्धि सपीतिं निर्वर्त्य स्वगृहमुपगमिष्यन्ति।
(सर्वेऽपि कलाकारा अधिमञ्चमागच्छन्ति)
(नेपथ्ये श्रूयते)
दद्यातामिन्द्रवह्नी नृपतिसमुचितं क्षात्रतेजोऽप्यकुण्ठ
नासत्यौ मञ्जुरूपं धरणिधरणिजे प्रीतिगर्भं निसर्गम्।
आयुष्यं सूर्यचन्द्रावसुरसुरगुरू चापि विद्यामशेषां
वैदेहीजातकाभ्यां रघुकुलनियतिञ्चापि दद्याद्वसिष्ठः।।13
।।जवनिकापातः।।
।।इतिश्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसेन महामहोपाध्यायेन त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचिते प्रशान्तराघवनाटके चतुर्थोऽङ्कः।।
।।पञ्चमोऽङ्कः।।
(ततः प्रविशति राघवो विविक्तं सेवमानः। सपरितोषानुभवम्)
राघवः हन्त भोः।
क्षोणीचक्रमिवाऽनिशं चतुरुदन्वन्तो मम भ्रातरो
यस्यावन्ति सुमन्त्रदश्च महितोऽमात्यस्सुमन्त्रोऽनघः।
पौरोहित्यमहो बिभर्ति भगवान् वन्द्यो वसिष्ठस्स्वयं
यज्जीवातुचितिर्विदेहतनया किम्मेऽपरं काङिक्षतम्।।1
(किञ्चत्स्मयमान इव)
पितृत्वे सति सिद्धेऽपि मे पुनर्यमजातयोः।
मातृभिश्चिन्त्यमानस्य नक्षयं भाति शैशवम्।।2
(ततः प्रविशति लवकुशाऽनुगता सीता)
सीता (सप्रणयम्)
आर्यपुत्र! अनाख्यायैव भवानिहाऽगतः। कः कालस्त्वामन्विष्यामि?
राघवः (सोल्लुण्ठम्)
देवि! क्वाऽन्विष्टोऽहं भवत्या? श्रोतुमिच्छामि।
सीता आर्यपुत्र! दण्डकारण्यमेकं विहाय क्व नाऽन्विष्टम्मया? किमितरच्छ्रोतुमिच्छति भवान्?
राघवः देवि! दण्डकारण्य एवाऽसमहम्।
सीता (सासूयमिव)
किमर्थम्?
राघवः (सव्यङ्ग्यम्)
मदर्थसन्तप्तां शूर्पणखां भूयोऽपि सान्त्वयितुम्! (इति निर्भरं हसति।)
सीता (सव्यथम्)
आर्यपुत्र! नर्महासमुत्पादयताऽपि भवता मम वेदना नवीकृता। अलमेतादृशैर्दुः स्मरणैः।
(इत्यश्रुकातरा तिष्ठति)
राघवः (समुपलालयन्)
प्रिये विदेहनन्दिनि! किमिदम्? हन्त शोकशङ्कस्ते मया भूयोऽपि कीलितः। तत् क्षन्तव्योऽहम्।
सीता (सानुनयम्)
स्वामिन्! किमेवं स्वचरणेन्दीवरमधुकरीं मामपराधिनीं कुरुते भवान्? आर्यपुत्र! नाऽहं बिभेमि शूर्पणखातः। बिभेमि दण्डकारण्यात्। किञ्च,
शूर्पणख्याः कथा का वा नापि रम्भा तिलोत्तमा।
उर्वशी वाऽर्यपुत्रस्य मनो मोहियतुं क्षमाः।।3
राघवः (निर्भरमाश्लिष्य)
प्रिये! सत्यमाह भवती। कादम्ब इव मन्मनस्त्वत्प्रणयपुष्कर एव विहर्तुमिच्छति। पश्य तावत्,
कामं स्यान्मघवाऽप्सरोगणरतिप्रार्थी ललल्लम्पटो
भूपाला ननु पार्थिवाश्च कतिचिन्नूनं बृहद्वल्लभाः।
स्वप्ने चाऽप्यनवेक्षिताऽपरयुवत्यास्येन्दुबिम्बस्य भो
रामस्याऽस्य गतिस्त्वमेव सुमुखि! प्राणैरहं तद्दधे।।4
सीता (राघवशीर्षं प्रीत्या सारयन्ती)
जानामि, जानाम्यार्यपुत्र!
प्रवाहेण यथा वारां स्थितिर्नद्या महीयसी।
सर्वसौभाग्यसम्पन्ना भवताऽपि तथाऽस्म्यहम्।।5
(ततः प्रविशतो धावन्तौ प्रतिस्पर्धमानौ च लवकुशौ)
लवः अहं तातोत्सङ्गे भविष्यामि।
कुशः न त्वम्। अहं भविष्यामि।
लवः न त्वम्। अहं धावन् प्रथममागतः। ततोऽहमारोक्ष्यामि।
कुशः प्रथमागमनेन किम्? अहं ज्येष्ठ इत्यम्बा भणति।
(सीतामभिलक्ष्य)
अम्ब! सत्यमुक्तं मया न वा? अहमेव ज्येष्ठः। ततोऽहमेवारोक्ष्यामि।
(दम्पती दारकयोर्विवादेन प्रह्वीभूय)
राघवः (सवात्सल्यम्)
वत्सौ! अलं विवादेन। ममोत्सङ्गे युवयोः कृते पर्याप्तावकाशः। तदुभावेव युगपदागत्य समुपविशतम्।
(इति लवकुशौ क्रोडे स्थापयति)
पश्य, तवाम्बायाः कृतेऽपि स्थानं रिक्तमेव!
लवकुशौ अम्ब! त्वमपि उपविश!
सीता (प्रहसन्ती)
आर्यपुत्र! पञ्चवर्षदेशीयौ जातौ लवकुशौ! तदलं परिहासेन। क्वचिदन्यत्राप्यावयो रहोवार्तां प्रकाशियतुं क्षमौ। मातरो विलक्षिता, भगिन्यः परिहासमग्ना, देवराश्च कुतुकिनो भविष्यन्ति।
राघवः (स्मृतिं नाटयन्)
देवि दैदेहि! साधु स्मारितोऽहं त्वया यल्लवकुशौ पञ्चवर्षदेशीयौ जातौ। तदिदानीमुपस्थितोऽनयोर्विद्यारम्भकालः।
सीता (नैराश्यं नाटयन्ती)
आर्यपुत्र! किमनयोः शिशुक्रीडाभिः परितुष्टं भवन्मनः?
राघवः (सस्नेहम्)
प्रिये! नेदम्। परन्त्वस्मद्वंशपरम्परेयम्। वयमपि चत्वारो भ्रातरः पञ्चवर्षदेशीय एव वयसि श्रीमद्वसिष्ठगुरुकुले विद्यारम्भं कृतवन्तः।
सीता (सोत्कण्ठम्)
किमेतावपि कुलगुरूणामेवाश्रमे विद्यामभ्यसिष्यन्ति?
राघवः देवि! न खलु कुलगुरूणामपितु महामुनिवाल्मीकिपादानामाश्रमे। स्वयं कुलगुरुचरणैरेव निर्दिष्टमिदम्।
सीता आर्यपुत्र! कुलगुरुचरणैरपि प्रशंसितो महामुनिर्वाल्मीकिरवश्यमेव कश्चिन्महातपा महर्षिरिति तर्कयामि।
राघवः (सश्रद्धम्)
प्रिये! सत्यमाह भवती। प्राचेतसोऽयं महर्षिः प्राग्दस्युवृत्त्या जीवनं नयतिस्मेति श्रूयते।
सीता (साश्चर्यम्)
दस्युवृत्त्या? किं ब्रवीति भवान्? आर्यपुत्र! सविस्तरं श्रोतुमिच्छामि महामुनिवृत्तम्।
राघवः वैदेहि! अनिष्पन्नेषु सत्संस्कारेषु मानवोऽपि पशुर्जायते। पश्य,
दृष्ट्वाऽपि वत्समतिरूढतृषं बुभुक्षुं
प्रोथप्लवज्जटिलफेनचयोपपन्न्म्।
संस्कारसंक्षयवशात्स्वपुरः स्थभक्ष्य-
मश्नाति निःस्पृहतया स्वयमेव धेनुः।।6
तैरेव द्विजकुलसंस्कारैर्यथाकथञ्चिद्विरहितोऽयमपि रत्नाकरनामा युवको दस्युवृत्त्या कुटुम्बं पालयति स्म्। ततश्चैकस्मिन् दिनेऽरण्यपथेन पर्यटन्तं सप्तर्षिसमुदायमप्ययं सधनयाचनमवरुरोध।
सीता आश्चर्यम्। ततस्ततः?
राघवः ततस्तु रत्नप्रत्यभिज्ञानप्रवीणो वैकटिक इव सप्तर्षिचयस्तमुत्पथं युवकमुद्धर्तुकामस्तं प्राह-भो रत्नाकर! येषां कुटुम्बिनां कृते त्वमिदं पापं प्रत्यहमाचरसि किन्ते त्वत्कृतं पापमिदं विभजिष्यन्ति?
ततो नाऽहं देद्मित्युक्तवति रत्नाकरे सप्तर्षयोऽवोचन्-भद्र! यथासुखं गच्छ। पृष्ट्वा कुटुम्बिजनान् त्वरितमागच्छ वयमत्रैव त्वां प्रतीक्षामहे।
सीता आर्यपुत्र! ततः किमभूत्?
राघवः (सस्मितम्)
वैदेहि! ततो नु सप्तर्षिव्यतिकरे सन्दिहानो रत्नाकरस्तान् द्रुमेण केनचिद् दृढं संयम्य गृहं जगाम पृष्ट्वा च कुटुम्बिनो झटित्युपावृत्तः। पृष्टस्सन् सप्तर्षिभिरवोचत्-भो न तेऽस्मत्पापकर्मभोक्तारो भविष्यन्तीति तैर्भणितम्।
ततस्तु सप्तर्षयस्तं सवात्सल्यमवदन्-श्रुतं त्वया कुटुम्बिनामुत्तरम्? त्वत्पुण्यमात्रभोक्तारस्ते न पापभोक्तारः। धिक्तान् स्वार्थान्धान्। वत्स रत्नाकर! आत्मानमुद्धर! स्वपापाचाराणां प्रायश्चित्तं कुरु। तपसा किं न सिद्धयति? ततस्तपस्समाचर। तपोऽग्निना समग्रमपि पुञ्जीभूतं किल्विषं दाहय। भद्र! साधयामो वयम्। कल्याणमस्तु! एवं प्रबोध्याऽपयातेषु सप्तर्षिषु प्रबद्धवैराग्यभावो रत्नाकरस्तस्मिन्नेव वने घोरं तपस्तप्तवान्। ततस्तु,
तत्सान्द्रासु जटासु पक्षिनिचयैनीडान्यहो चक्रिरे
वल्मीकैश्च कृतं गृहन्नु परितो नैकस्फुरद्भूमिकम्।
प्रारम्भे तु मरामरेति तदनु श्रीरामरामेत्युर-
स्यातन्वंस्तपसा महामुनिरभूद्वाल्मीकिनामाऽधुना।।7
अवशिष्टां तत्कथां जातु पश्चाच्छ्रावयिष्यामि।
सीता (व्यथां नाटयन्ती साश्रुनयना)
आर्यपुत्र! कुसुमसुकुमारौ मम दारकौ। कथमाश्रमजीवनं कठोरनियमानुपालनपरं सोढुं क्षमौ भवतः। महामुनिवाल्मीकौ जातश्रद्धाऽप्यहं दारकप्रीत्या कातराऽस्मि जाता।
राघवः प्रिये! वैदेहि! सन्ततिसुखैकलक्ष्यं भवति मानवजीवनम्।
तन्निमित्तं कियदपि दुःखं सोढव्यं स्यात्। पश्य,
निशीथिनीमतिक्रम्य जायते दिवसोदयः।
हेम भूषणतां याति हेमकृट्टङ्किकाऽहतम्।।7
तदलं कातर्येण पुत्रमोहेन वा! तन्मङ्गलमयं भविष्यमेव चिन्तनीयमावाभ्याम्। तन्महामुनिर्वाल्मीकिः (इत्यर्धोक्ते)
कृत्तिका (द्रुतं प्रविश्य)
(महाराज! समागतः)
राघवः (सोत्कण्ठम्)
कृत्तिका (सधैर्यम्)
(कश्चिन्महामुनिर्वाल्मीकिनामा कुलगुरुभिस्सार्धं भवन्तं द्रष्टुं समागतः)
राघवः (सहर्षम्)
अहो मङ्गलानां परम्परा! प्रिये! प्राचेतसोऽसावेवाऽस्मच्चरितकार आदिकविर्भगवान् वाल्मीकिस्समागतः। हन्त,
निषादविद्धमालोक्य प्रेयसीरतिसंश्रितम्।
क्रौञ्चमेकं नु यच्छोकः श्लोकतां स्वयमागतः।।8
प्रिये! तदहमुपसरामि तदभिनन्दनाय।
(इति निष्क्रान्तः)
कृत्तिका (सीतामश्रुमुखीं निर्वर्ण्य)
(पट्टराज्ञि! किं जातम्? कथमिदमौदासीन्यम्)
सीता कृत्तिके! न किमपि! लवकुशौ विद्यारम्भाय सम्प्रति गुरुकुलं यास्यत इति श्रुत्वैव तनयवियोगकातराऽहं जाता। किञ्च,
मधुरमधुरैर्वार्तारम्भैरतत्त्वमनोहरै-
र्धरणिगगनव्याप्तैः स्वीयैः प्रकल्प्यगताऽगतैः।
हृदयमनिशं प्रश्नैश्चित्रैः प्रसह्यविमोहनैः
सखि! शबलयन्तौ तौ जातौ मदेकचिदाश्रयौ।।10
कृत्तिका (स्वामिनि! अस्माकमेव यदीदृशी स्थितिर्यल्लवकुशावनवेक्ष्य सुखं नाऽनुभूयते तर्हि किं वक्तव्यं भवद्विषये? भवती तु जन्मदात्री तयोः।)
सीता कृत्तिके! एहि सौधाभ्यन्तरं प्रविशावः। आर्यपुत्रो महर्षिवाल्मीकिं सम्भावयितुमतिथिकक्षमुपगतः। मन्ये, प्रणामार्थं मामपि आह्वयिष्यत्येव।
कृत्तिका (यदाज्ञापयति महाराज्ञी। अनेन पथाऽगच्छतु)
।।इति श्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसेन महामहोपाध्यायेन त्रिवेणीकविनाभिराजराजेन्द्रण विरचिते प्रशान्तराघवनाटके पञ्चमोऽङ्कः।।
।।षष्ठोऽङ्कः।।
(ततः प्रविशति विशाखाद्वितीया कृत्तिका)
कृत्तिका (विशाखां प्रति)
(रात्रौ भिन्नेऽहन्येव समुत्थिताऽस्मि। किन्तु कार्यं समाप्तिमेव नायाति। कस्यापि सुप्रस्थाने एतावत् षट्कर्म! पितः रे पितः! अस्थिपञ्जरो विचूर्णितो जायते। भगिनि विशाखे! समुचितेऽवसरे समागता वर्तसे। तनुकं साहाय्यमाचर।)
विशाखा (ब्रूहि, ब्रहि। किं कर्तुं युज्यते?)
कृत्तिका (पश्य, अक्षताः, कुङ्कमम्, ताम्बूलम्, दूर्वाः, दुग्धम्, घृतम्, मधु, दधि चेति सर्वं मयाऽर्जितम्। इदानीमपरं किं किं वाञ्छ्यते?)
विशाखा (स्मृतिं नाटयन्ती)
(आम्! बुद्धम्। पुष्पाणि, कदलीपत्राणि, गोमयं, तुलसीदलानि च। एतत्सर्वं तु गृहे एव मिलिष्यति)
(कृत्तिकां रुदतीमवलोक्य)
(किम्भोः किमिदम्? कृत्तिके! भगिनि! कस्माद्रोदिषि?)
कृत्तिका (किं कथयानि रे! लवकुशाभ्यां सह पट्टमहिष्यपि वाल्मीक्याश्रमं गच्छति। प्रस्थितायामेव तस्यां शून्यमिदं भवनं भविष्यति। कथं स्थास्याम्यहम्? लवकुशाववश्यमेव जनितौ सीताराज्ञ्या, परन्तु तैलमुद्वर्तनं तु मयैव कृतम्। पालनं-पोषणं मयैव विहितम्। तर्हि किमस्मद्धदये लडहकयोर्ममत्वं न वर्तते?)
विशाखा साधूक्तं भगिनि! आत्मीयस्वामिनामेव सुखदुःखानि अस्माकमपि सुखदुःखानि बोध्यन्ते। अयि भगिनि! पोतहङ्ग्यो वयं सर्वाः। कियदप्युड्डीय, आगन्तव्यं पोतोपर्येव। कृत्तिके! राज्ञी किमर्थं गच्छति?
कृत्तिका (लवकुशयोर्निमित्तम्। यथा वत्समनुधावति धेनुस्तथैव सीताराज्ञी लडहकयोरनु। अयि भगिनि! सन्ततिजननस्य प्रेम भवत्येवैतादृशम्।)
विशाखा (महाराजस्येच्छया पट्टराज्ञी गच्छतीति मन्ये)
कृत्तिका (अथ किम्। यतः प्रभृति दारकयोर्गुरुकुलप्रेषणवृत्तमाख्यातं महाराजेन तत एव राज्ञी रोदितुं प्रवृत्ता। गुरुवशिष्ठं वाल्मीकिं च सम्भाव्य रात्रौ यदा महाराज उपावर्तत तदा राज्ञ्या इमां दशामवलोक्य स्वयमपि बिह्वलो जातः।)
विशाखा (ततश्च किमभूत्?)
कृत्तिका (स्वामिनी स्वयमेव प्रावोचत्-
कुशलवौ रघुनाथ सुकोमलौ परुषकाननदारुणजीवनम्।
न हिल सोढुमिमौ सहजं क्षमौ विरहितौ नु कदापि कुटुम्बतः।।1
निमिषमात्रमपि क्षमते न वा जनकजातनुजा किल जीवितुम्।
तदपि नाथ! विचारय दारुणं विशसनं मम यन्त्रितमङ्गलम्।।2
गुरुकुलं तनुजद्वयसङ्गता जिगमिषामि महर्षितपोवने।
अनुमतं यदि ते भवतादिदं कुशलवौ सुखिनौ मम नो व्यथा।।3
त्रिपथगाऽभिषवैर्ननु वृण्वती महितपुण्यमवेक्ष्य तपोवनम्।
कुशलवौ च निवेश्य यथोचितं त्वरितमेव भवन्तमुपाश्रये।।4)
विशाखा (सहर्षम्)
(वराऽन्वितमाह राज्ञी। तदा किमभूत्?)
(तर्हि किमवशिष्टमासीद् भवितुम्। सागरसदृशं विशालहृदयमस्मन्महाराजस्य। असौ तु पट्टराज्ञ्याः प्रस्तावं तत्क्षणमेवाऽमन्यताऽवदच्च-सीते! कुमारेण लक्ष्मणेन सह त्वां कल्ये प्रातरेव गुरुकुलं प्रेषयिष्ये, मासानन्तरञ्च स्वयमेवाऽहमागमिष्यामि भवतीमात्मना सहाऽनेतुम्!)
(नेपथ्ये श्रूयते)
द्वारे पूर्णाम्बुकुम्भः पथि-पथि विपणौ राजमार्गे सुमानि
श्यामा धेनुस्सवत्सा विकसितनयना दक्षिणे क्वापि बद्धा।
कूजन्तश्शोणिताक्षाः प्रमदवनपिका मञ्जु कीराः पठन्त-
स्सम्भारं मङ्गलानां दधति रघुपते! सिद्धसर्वार्थयोगे!!5
कृत्तिका (श्रुतिमभिनीय)
(विशाखे! एष गुरुवसिष्ठवचनाद् वैतालिकः प्रस्थानमुहूर्तं विज्ञापयति। तदेहि स्वामिनीमेव पश्यावः।)
।।इति प्रवेशकः।।
(ततः प्रविशति लवकुशाऽनुगतां वैदेहीं पुरस्कृत्य राघवः, विभवतश्च परिवारः)
वैदेही (आत्मगतम्)
हा धिक्, पुत्रसाहचर्यलोभादरण्यप्रस्थिताया अपि आर्यपुत्रं त्यजन्त्या मे चरणौ न कथमप्यग्रे सरतः।
राघवः देवि! समुपस्थितः कुलगुरुर्निर्दिष्टः सौप्रस्थानिकक्षणः। तदलं विलम्बेन। गुरुचरणान् मातरश्च प्रणम्याशिषं गृहाण।
वैदेही (वसिष्ठमुपसृत्य)
भगवन् वन्दे।
वसिष्ठः वत्से! अखण्डसौभाग्यमस्तु ते। कुशलवाभ्यां स्थिरयशस्विनी भूयाः।
पुलिनाभ्यां यथा गङ्गा लोचनाभ्यां यथा तनुः।
तनयाभ्यां तथा सीते! वत्से! सार्थवती भव।।6
वैदेही (प्रणम्य)
अम्ब! कुशलवयोः कृते माऽतितरामात्मानं क्लेशय।
कौशल्या वत्से! प्रयत्नं करिष्ये। तथापि,
प्रसूं त्वामपि विस्मृत्य निजक्रोडप्रविष्टयोः।
कथाश्रावणनिर्बन्धः पौत्रयोर्मां विनङ्क्ष्यति।।7
(इत्यश्रूणि विहरति)
वैदेही (प्रणम्य, कैकयीं प्रति)
अम्ब! त्वरितमेवाऽहमुपावर्ते। आर्यपुत्रं तावत्त्वमेव परिसान्त्वय। त्वदेकशरणोऽसौ।
कैकयी वत्से वैदेहि! अलं चिन्तया। भ्रातृभिस्सुरक्षितो राघवः। तमहं सविशेषं परिचरिष्यामि।
वैदेही (सुमित्रां प्रणम्य)
अम्ब! यथा मम भगिन्यस्तिस्रः प्रसन्नाः स्युस्तथा वर्तेथाः। मम दुर्ललितदेवरौ भरतशत्रुघ्नौ त्वमेवाम्ब पालय!
सुमित्रा पुत्रि! करिष्ये वचनं तव! शिवास्ते पन्थानस्सन्तु।
वैदेही (स्वसॄन् प्रति)
माण्डवि! उर्मिले! श्रुतकीर्ते! तिस्रोऽपि मां सहैव प्रगाढमालिङ्गत। मासं यावल्लोचनाभ्यां न द्रष्टुं शक्ष्यामि युष्मान्!
(इति युगपदेव प्रगाढमालिङ्गति)
माण्डवी आर्ये! तक्षपुष्कलयोश्चिन्तां काऽधुना करिष्यति?
उर्मिला आर्ये! त्वामन्विष्यन्तं चन्द्रकेतुं कथं विनोदयिष्यामि?
श्रुतकीर्तिः आर्ये! त्वय्यविद्यमानायाम् (इत्यर्धोक्त एव)
वैदेही (उपलालयन्ती)
भगिन्यः! अलं कातर्येण! मिथो विनोदयत। मासं यावदेव न वर्तिष्ये। लवकुशौ वाल्मीकिगुरुकुले व्यवस्थाप्य त्वरितमागच्छामि। तदलं चिन्तया।
(सेविकाः प्रति)
माण्डवि! मिथो विनोदयत। मासं यावदेव न वर्तिष्ये। लवकुशौ वाल्मीकिगुरुकुले व्यवस्थाप्य त्वरितमागच्छामि। तदलं चिन्तया।
(सेविकाः प्रति)
माण्डवि! मिथो विनोदयत। मासं यावदेव न वर्तिष्ये। लवकुशौ वाल्मीकिगुरुकुले व्यवस्थाप्य त्वरितमागच्छामि। तदलं चिन्तया।
(सेविकाः प्रति)
माण्डवि! त्वमिदानीं ज्येष्ठाऽसि। कृत्तिकादीनां योगक्षेमौ सम्यक्तया सम्पादय।
(सर्वाः सेविका मुखं पिधाय रुदन्ति)
(ततः प्रविशति सहिक्कं विलपन् पिण्डोदकः)
पिण्डोदकः (इति मुखं पिधाय गाढं रोदिति)
(वत्से सीते! अद्य त्वां वाल्मीक्याश्रमं गच्छन्तीमवलोक्य भवत्याः पतिगृहगमनदिनमिव प्रतीयते। किं कथयानि? हृदयं पाषाणतामुपगतम्। लोचनाभ्यां नाऽवलोक्यते। पित्रोरियमेव दुर्दशा जायते!
दिनद्वयं रोदिति बन्धुजाया भ्राताऽप्यहान्येव दशाऽथ पञ्च।
स्मृतौ कृतायां विलपेन्नु तातो माता पुनश्शून्यगृहं विलोक्य।।8
वैदेही (सादरं प्रणमन्ती)
आर्य पिण्डोदक! तातकल्पो भवान्। वयं सर्वा अपि भगिन्यः शैशवादेव भवत्सरक्षणे संवर्धिताः तातोऽपि भवन्तं सोदरीकृत्यैव मया सार्धमयोध्यां प्रेषितवान्। तदलं सन्तप्य मत्कृते। तिस्रस्त्ववशिष्टा एव भवदुपलालननिमित्तम्। श्रुतकीर्तिं सविशेषं रक्षेति निवेद्यते।
पिण्डोदकः
(लवकुश प्रचुम्ब्य)
(पुना रोदिति। सीता प्रतिष्ठते)
(भगवान् गङ्गाधरस्ते मनोरथं पूरयेत्पुत्रि! अत्रत्यां कामपि चिन्तां मा कार्षीः। समोदं गच्छेः। अलमधुना विलम्बेन, तत्प्रतिष्ठस्व, रथमारोह।
भो इदानीं मातामहस्य पृष्ठे कोऽन्वारोक्ष्यति? अन्ये सर्वे दारकास्तु क्रोडेनैव विनोदयितुं योग्याः।)
वसिष्ठः वत्स पिण्डोदक! संयमयाऽत्मानम्। परिहीयते प्रस्थानवेला।
(वैदेहीं प्रति)
वत्से वैदेहि! मया सह प्रदक्षिणीकुरुष्व भगवन्तं कृपीटयोनिम्।
(सर्वे प्रदक्षिणां कुर्वन्ति। वैदेही लवकुशाभ्यां सह रथारोहणं नाटयति)
लवकुशौः तात! पञ्चषैर्दिनैः पितामहीभिस्सार्धमवश्यमागन्तव्यम्!
(राघवो वात्सल्यसन्तप्तस्सन् तूष्णीमुपयाति वैदेही रोदिति राघवमपाङ्गेन पश्यन्ती)
राघवः वत्सौ लवकुशौ! अवश्यमागमिष्यामि।
(रथः प्रतिष्ठते)
वसिष्ठः (साभ्यर्थनम्)
महामुने वाल्मीके! भवदभ्युपपत्त्या धन्यतामुपगतं रघुकुलम्! अद्याऽहं सर्वथा वीतचिन्तोऽस्मि जातः। यतो हि,
शस्त्रे शास्त्रे प्रवीणो निखिलजगति कः श्रीमदन्यो वदान्यः
क्रौञ्च्याक्रन्दोत्थशोको नवरसमधुरां काव्यतां यस्य यातः।
वैदेहीयुग्मसून्वोस्स खलु यदि भवान् देशिकस्तर्हि नूनं
तत्कण्ठैरादिकाव्यं प्रचरति भुवने तावकीनं समन्तात्।।9
वाल्मीकिः (सप्रणामम्)
भगवन् विरञ्चिनन्दन! कृतार्थोऽस्मि जातो भवदाशिषा। अत्र ब्रवीमि किञ्चित्,
भूपालः प्रशशास यां दसरथो वासिष्ठसंरक्षणे
सोर्वी माघवनी वनी सुरतरुर्यत्राऽस्त्यहो राघवः।
तत्पुष्पासवपानमत्तहृदयो वाल्मीकि भृङ्गो न्वहं
गुञ्जन्मञ्जु मनांसि हन्त कृतिनां सम्भावये सन्ततम्।।10
(वाल्मीकिरथोऽपि प्रतिष्ठते)
राघवः वत्स भरत! वन्द्यचरणान् गुरुवर्यान् तदाश्रममुपनय। अम्बा वधूजनांश्चाप्यवरोधगृहं प्रापय। अलं वैदेहीचिन्तया। कुमारलक्ष्मणसंरक्षणेऽसौ सर्वथा निष्प्रत्यवाया वर्तते।
(इति धैर्यं नाटयन् मन्दं मन्दं पुरस्सरति)
(नेपथ्ये श्रूयते)
तौर्यत्रिकं पथि कपोतयुवा विधत्ते
प्रोड्डीय चुङ्कृतमुपार्च्छति नीलकण्ठः।
कारञ्जकुञ्जविनिगूढकलेबरोऽयं
पुंस्कोकिलो गमनमङ्गलमातनोति।।11
।।इति श्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगौत्रीभभयाख्यमिश्रंशावतंसेन महामहोपाध्यायेन त्रिवेणीकविनाऽभिराजराजेन्द्र विरचिते प्रशान्तराघवनाटके षष्ठोऽङ्कः।।
।।सप्तमोऽङ्कः।।
(गङ्गातमसयोः सङ्गमे वाल्मीक्याश्रमः। परितोऽपि तापसकुटीराणि। ततः प्रविशति ललिताद्वितीया वैदेही)
वैदेही सखी ललिते! श्रूयते यन्निशान्तेऽवलोकिताः स्वप्नाश्चरितार्थतामुपयान्ति? कथं वा त्वं मन्यसे?
ललिता मयाऽपि नामेदमेव श्रुतम्। सत्यमपि मन्येऽहम्।
(सोत्कण्ठम्)
वैदेही ललिते! न खल्वनवसरं पृच्छामि। अद्य मया प्रभातप्रायायां रजन्यां विचित्रमेव कमपि स्वप्नं दृष्टवती। तत एव भणामि।
ललिता (सप्रणयम्)
सखि वैदेहि! श्रावय माम्।
वैदेही सखि! जिह्रेमि श्रावयितुम्। आर्यपुत्रविषयकं किञ्चिद्दृष्टम्मया।
ललिता (सनिर्बन्धम्)
भोः वनदेवतां साक्षिणीं कृत्वा सखीत्वं मयि स्थापितं त्वया। तन्न किञ्चिदपि मत्तो निगूहितुं युक्तम्!
वैदेही भवतु। यदीच्छसि तर्हि श्रावयाम्येव। बहिर्द्धारं तावद् विलोकय सकृत्। न कोऽप्यपरः पर्णशालायामुपस्थितो भवेत्।
ललिता (गत्वा पुनः प्रतिनिवृत्त्य)
सखि! मुञ्च तावत्सन्दर्भमिमम्। पञ्चषा वर्तन्ते पर्णशालायाम्।
वैदेही कास्ताः? मुनिकुमारिकाः? ऋषिपत्न्यो वा?
ललिता (सोल्लुण्ठम्)
न खलु ताः।
वैदेही अलं प्रहेलिकया। कास्ताः पञ्चषाः?
ललिता पिपीलिकाः। श्रुतं न वा?
(इत्यट्टहासं जनयति)
वैदेही ललिते! अतिमधुराऽसि त्वं प्रकृत्या! रोचते मे त्वन्निसर्गः। तत एव मयाऽङ्गीकृतासि।
ललिता सखि! सम्प्रति श्रावय प्राभातिकं स्वप्नम्।
वैदेही (लज्जामभिनयन्ती)
स्वप्ने मम वार्ता समजायत गृहसारिकया सार्धम्। सा मामवोचत्स्वामिनि! राघवसन्देशमादाय त्वदन्तिकमुपागताऽस्म्यहम यतः प्रभृति त्वमिहाऽगताऽसि विरहविधुरो राघवोऽतितरां ताम्यति त्वत्कृते। हा हन्त, त्वद्विरहितायां प्रथमनिशीथिन्यामेव,
पल्यङ्कतल्पशयितो रघुवंशभानुः
पूर्वप्रतीतिवशगस्तनुजौ स्वपार्श्वे।
सम्मार्गयन् निशि न तौ समवाप्य विद्ध
उन्निद्र एव रजनीं क्षपयाञ्चकार।।1
भार्यां क्वचित्प्रहितबाहुलतोऽङ्कपाशे
नोऽवाप्य भग्नहृदयो हतगाढनिद्रः।
उत्थाय भूरिविरहार्दितकान्तकायो
रात्रौ जजागर सहायपरोऽधिशय्यम्।।2
(इत्यश्रुमुखी दीना च जायते)
ललिता अहो निरतिशया प्रीतिस्त्वयि राघवस्य। सखि वैदेहि!
वियोगाऽग्निदहत्कान्तप्रवृत्तिर्धूमसन्निभा।
बाधमानाऽपि प्रीणाति स्वाधीनपितकाक्षिणी।।3
तदलं सन्तप्य। सौभाग्यहर्षयोरयं विषयः। किमपरं समाख्यातं सारिकया?
वैदेही सखि! भणन्त्याः सीदति मे हृदयम्। कथितं सारिकया-
स्वामिनि! रघुपतिवियोगं प्रत्यक्षमवलोकयन्त्या ममाऽपि निद्राऽपगता। किञ्च,
प्राणप्रियां प्रियतमां ननु जीववल्लीं
सीतां विना विरहिणो निखिलास्त्रियामाः।
वत्साननेन्दुपरिवीक्षणसिन्धुकल्प-
श्रीराघवस्य प्रणयोर्मिहता अभूवन्।।4
देवि विदेहनन्दिनि! किमधिकमत्र वक्तव्यम्? इति। किञ्च,
राघवाऽधिं विजानाति विधिर्वा राघवः स्वयम्।
अहं वेद्मि शुको वेत्ति त्वं विजानासि वा न वा।।5
ललिता (सवितर्कम्)
अहो व्यङ्गयगर्भता सारिकोपालम्भस्य। नियतसाक्षिभूतत्वाद्राघवविपदमहं विजानामि। मत्सहचरश्शुकोऽपि जानाति। परन्तु दयितसाहचर्यवञ्चिता त्वं जानासि न वेति सन्दिहाना सारिका परमप्रतिभाशालिनी जातिस्मरा च प्रतीयते!
वैदेही सखि! सत्यमेवेदृशी सा। विहङ्गी सत्यपि मर्त्याङ्गनेव विवेकपुरस्सरं लपति। श्रृणु तावद् यदन्ते तया भणितम्-
द्वित्राण्येव दिनानि भूरितपने वीतानि सीतापते-
वैदेहीप्रवियोगकातरतनोर्यद्यप्यदीनाऽत्मनः।
किन्त्वेवं प्रतिभातमाशु निखिलः कल्पो यथा निर्गतो
दाम्पत्यप्रणयच्युतो नु दयितः सर्वं चिनोत्यद्भुतम्।।6
ललिता साधु सारिके साधु! सम्यगवेक्षितं त्वया! सखि! ततस्ततः?
वैदेही (सनैराश्यम्)
सखि! तावदेवाऽश्रमताम्रचूडानां नभोविवरव्यापिभिश्चण्डरावैः शकुन्तान्तराऽनुगतैः प्रोन्मीलितेऽक्षिणी। स्वप्नभङ्गे जाते क्वाऽसौ सारिका क्व च राघवः?
ललिता (सहासम्)
तथापि महामहिमशालिन्या स्वसारिकयाऽतीवोपकृताऽसि।
वैदेही (सविलासम्)
ननु कथम्?
ललिता या वराकी पञ्जरबद्धापि प्रोड्डीय राघवमत्र समानीतवती तद्वृत्तान्तमुखेन।
वैदेही सखि ललिते! कोऽत्र सन्देहः? सत्यमेव मर्त्योचितं दायित्वं निर्व्यूढवती सारी। परन्तु प्रसुप्तां शिथिलीभूताञ्च दयितस्मृतिं स्फारीकृत्य मामुत्कण्ठितां व्यदधात्। कः खलु तत्र शमनोपायः?
ललिता सखि वैदेहि! त्वम्पुनः किमीहसे?
वैदेही (सहर्षम्)
सखि ललिते! एषा भणामि ते सखीगौरवात् गोपनीयमप्याख्येयं किञ्चित्। कदाचित्सुतयोरतितरामासक्तां मां राघवस्सव्यङ्गयमवोचत्-
अयि शुभे रघुनायकनायिके धरणिजे विपदुत्सवसङ्गिनि।
प्रियतरौ तनयौ न च राघवः स्थविरकं खलु मां किमुपेक्षसे।।7
सुमुखि! ते हृदयं सुतकेन्द्रितं मम पुनस्त्वयि लीनमनोरथम्।
त्वमसि नो सुखिनी तनुजौ विना न च सुखी विरहे तव राघवः।।8
कुशलवौ रुचितौ मम नेति नो तदपि मैथिलि! राघवजीवितम्।
त्वदनुगं प्रणये तव मज्जितं कथमिति स्वयमेव न वेदये।।9
अकृतकानुरागगर्भं राघववाचिकमाकर्ण्य प्रतिवक्तुं विसंष्ठुलाऽहमश्रुकातरा जाता। तद्वक्षसि निहितशीर्षाऽहं यताकथञ्चिदकथयम्-
कुशलवौ रघुनाथ! तवात्मजौ मम पुनर्वपुरात्मधरौ च तौ।
ननु विभज्य निजं त्रिषु विग्रहं त्रितयमेव कृतं मम सौहृदम्।।10
तदपि नाथ! विदेहसुताऽश्रयस्त्वमसि केवलमत्र परत्र च।
सुमफलप्रसवाऽपि लताऽनघा त्यजति नैव तरुं दयिताश्रयम्।।11
ललिता (सप्रणयम्)
सखि वैदेहि! धन्याऽसि त्वं यस्या ईदृक् चरितोऽज्जवलो हिमहारनीहारपाण्डुरहृदय एकनिष्ठरतिर्भर्ता। पश्य,
शुक्तिकञ्चुकयोर्मध्ये यथा राजति मौक्तिकम्।
तथैव युवयोर्मध्ये पुत्ररत्नमिदं द्वयम्।।12
सखि! यन्मया पृष्टं यत्त्वम्पुनः किमीहस इति तदुत्तरमनेन वृत्तेनैवाऽवाप्तम्।
वैदेही ननु विज्ञापयामि स्वप्रत्यग्रमीहितम् सखि ललिते!
पुञ्जीभूतं नु पुण्यं दुरितमपगतं स्वर्णदीवारिसेकै-
रारण्या प्राणयात्रा ननु कुशलवयोः प्रीतिदात्र्येव जाता।
क्रीडन्ती कृष्णसारैस्सपदि वृतवती हन्त भूयोऽपि बाल्यं
सम्प्राप्ता त्वं सखी मे किमपरमिह प्रार्थितं कानने स्यात्।।13
इदानीं मासो व्यतीतप्रायः। सम्प्रत्यासन्नो मे राजमन्दिरनिवर्तनकालः। भगवतां वाल्मीकिपादानां वात्सल्यैः सदर्थितं मम जीवनम्। अपि नामैतावता कालेनैव (इत्यर्धोक्ते)
(नेपथ्ये श्रूयते)
वर्णाश्रमधर्मसंरक्षकोऽयोध्याधिपतिश्श्रीराघवस्समागच्छत्याश्रमपदम्। भो भोः प्राचेतसाऽश्रमवासिनस्तपस्विनः एष वर्णाश्रमधर्मरक्षिता सर्वोदयाचलशिखरारूढभास्करः परदुःखश्रवणकातरः दीनबन्धुः करुणासिन्धुर्मर्यादापुरुषोत्तमो रामोऽगस्त्याश्रमादुपावर्तमानोऽस्मत्कुलपतीन् पौलस्त्यवधमहाकाव्यकारान् महर्षिवाल्मीकिपादान् सम्भावयितुं पुष्पकाधिरूढस्तपोवनमागच्छति। तदप्रमत्तास्तिष्ठत्। सामदिशन्त्यस्मकुलपितचरणाः यत्,
कापोतीं कायशोभामिह दधतु दिशो यज्ञधूमप्रसारै-
र्गृष्टीनां रम्ययूथस्स्रुतधवलपया राजतां सम्मुखीनः।
माङ्गल्यान् वेदमन्त्रान् प्रवचनपटवस्सामगा व्याहरन्ता-
माशसन्तां कुमार्यो रघुपतिकुशलं पुष्पलाजाक्षतौघैः।।14
अपि च,
ऊर्ध्वाऽधः क्षिप्रवेगप्रमथितपवनैः कम्पयन् वन्यवृक्षा-
नारावैर्घर्घराढयैः श्रुतिकुहरचयान्स्फोटयन्नेव सद्यः।
संस्थानं श्वापदानामपरिचयवशाद् द्रावयन् भीमरूपो
व्योम्न्यासन्नो विभाति प्रथितगुरुगतिः पुष्पकोऽयं विमानः।।15
वैदेही (सहर्षं ललितां निर्भरमालिङ्गय)
सखि! प्रियम्मे। सिद्धो मनोरथः। त्वरितमुपलब्धं स्वप्नदर्शनफलम्। हन्त, प्रसन्नाः कुलदेवताः। प्रसन्ना भगवती भागीरथी रघुकुलोद्धारिणी। एष आगच्छति राघवः।
ललिता (सदैन्यम्)
सखि! हर्षवृत्तान्तस्सन्नप्ययं व्यतिकरो मां व्यथयत्येव। वैदेहि! राघवस्त्वां नेतुमेति। इतोऽग्रे निरूद्धमेव स्थास्यति मम हर्षमन्दिरद्वारम्।
(इत्यश्रूणि मुञ्चति)
वैदेही सखि ललिते! मा मैवम्। अभिन्नाऽसि त्वम्। ममाऽभावे लवकुशयोः कृते त्वमेव वैदेहीकल्पाऽसि! तदलमधैर्येण।
(इति प्रगाढमालिङ्गति)
ललिता सखि! तदनन्तकरणीयाय सज्जीभव। अहमपि प्रतिवेशिनीभिस्सह त्वरितमागच्छामि।
(इति निष्क्रान्ता)
(ततः प्रविशति पुष्पकादवतीर्णो राघवः)
वाल्मीकिः (प्रीताभ्यां लोचनाभ्यामवलोकयन्)
विजयतामस्मन्महाकाव्यनायको दाशरथी राघवः!
राघवः (सविनयम्)
महर्षे! आदिकवे! वन्दे। भगवन्! भवद्दर्शनैरात्मानं पावयितुं समागतोऽयं राघवः!
वाल्मीकिः राजन्! धर्माचरणमर्यादासुरतरो! इष्टेन युज्यस्व।
बन्धुत्रयसमाश्लष्टे धरित्रीं त्वयि शासति।
मन्ये साक्षान्महाविष्णुः शास्ति सीतारमापितः।।16
अयोध्येनाऽविताऽयोध्या भवता भूभुजाम्पते।
अयोध्यया जगत्कृत्स्नं भाति सम्प्रति रक्षितम्।।17
राघवः (सविनयम्)
महामुने! कृतार्थोऽस्मि जातोऽनयाऽभ्युपपत्त्या। यच्च जनमिमं नायकीकृत्य प्रणीतं भवद्भिर्महाकाव्यं रामायणाऽपरपर्यायं पौलस्त्यवधाऽभिधानं तेनाऽप्यात्मानं धन्यधन्यमनितरसाधारणञ्च मन्ये। किञ्च,
यन्निसर्गो यदारम्भो यादृशोऽहं महामुने!
तादृशं मा न जानाति लोकोऽयं द्वैधकातरः।।18
भवद्धिश्चित्रितं किन्तु राघवम्मामनाहतम्।
स्थिरबुद्ध्या स्थिरास्तत्वं त्रिलोकी ज्ञास्यति ध्रुवम्।।19
वाल्मीकिः (प्रह्वीभूय)
प्रियंवदोऽसि राजन्! महापुरुषलक्षणमिदम्। भवत्पुत्रयोर्लवकुशयोः शिक्षागुरुस्सन् स्वतपश्चर्यां फलवतीमनुभवामि। यमजावेतौ भवद्वंशकीर्तिविस्तारकौ दिव्यास्त्रप्रयोगकुशलौ गान्धर्वविद्यापारङ्गतौ च भवतः। राजन्,
तीरद्वयोपमसुतद्वयपूतकुक्षि-
र्गङ्गेव मैथिलसुता यमवाप्य धन्या।
तं व्योमचुम्बिजनवन्दितकीर्तिसानुं
त्वां नौमि राघव! हिमालयनिर्विशेषम्।।20
(परितोवलोक्य)
कः कोऽत्र भोः?
ललिता (प्रविश्य)
भगवन्! इयमहं ललिताऽस्मि। को निदेशोऽनुष्ठीयताम्?
वाल्मीकिः वत्से ललिते! त्वमसि विदेहनन्दिन्याः सखी। तन्महाराजं श्रीरामचन्द्रं वैदेहीकुटीरमुपनय। किञ्चिदशित्वा विश्रम्य च भूपतिस्सभार्यो राजधानीं निवर्तिष्यते। तत्सर्वमपि कृत्यजातं त्वमेव सहायैस्सह सम्पादय। सौप्रस्थानिकञ्चानयोर्यज्ञशालास्थं मां सूचय।
ललिता यदाज्ञापयति भगवान्।
वाल्मीकिः (सप्रणाममुद्रम्)
करुणावरुणालय राम! विपर्यस्तमपि भवन्नामाक्षरद्वयं रटन् वाल्मीकिस्सञ्जातोऽस्मि।
इदानीम्पुनस्त्वद्गुणगीतिमहिम्नैव भगवता पद्मसम्भवेनाऽदिकविपदवीमुपनीतोऽस्मि।
प्रणन्ताऽपि प्रणम्योऽपि यस्य मे रघुनन्दनः।
तस्य भोः किमभीष्टं स्यात्सौभाग्यमहिमात्मनः।।21
(सश्रद्धम्)
ब्रह्मक्षत्रपते जगत्त्रयपते सोदन्वदुर्वीपते!
मर्यादाऽधिपते धनुर्धरपते सद्धर्मचर्यापते!
दिव्यज्ञानपते प्रजाजनपते वाचस्पते श्रीपते!
दीनाऽनाथसुहृत्पते रघुपते! सीतापते! पाहि माम्।।22
राजन्! किन्तेऽपरं प्रियमुपहरामि?
राघवः महामुने! किमतोऽपि प्रियतरं मे भवेत्?
भार्या मे निमिनन्दिनी जनकजा पुत्रीव संल्लालिता
प्रीत्या मे यमजौ सुतौ कुशलवौ शिष्यो भवद्भिः कृतौ।
कल्पान्तस्थिरया भवत्कवितया यच्चास्म्युपश्लोकितः
तेनाऽहं सचराचरात्मधरणीचक्रः कृतार्थोऽभवम्।।23
तथापीदमस्तु भरतवाक्यम्!
पूजास्थानं न मौढ्यं परिषदि भवताद् वैदुषीकञ्चुकस्थं
सच्चारित्र्यं न राष्ट्रेऽनुभवतु निकृतिं सद्गुणा नो त्रपन्ताम्।
नीतिं सेवेत शक्तिः कुटिलपथजुषां जायतां मानभङ्गो
निष्ठां नो न्यक्करोतु प्रसरदभिनयस्सद्वचांसि प्रथन्ताम्।।24
।।जवनिकापातः।।
।।इतिश्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगौत्रीयभभयाख्यमिश्रवंशावतंसेन हामहोपाध्यायेन त्रिवेणीकविनाऽभिराजराजेन्द्रण विरचिते प्रशान्तराघवनाटके सप्तमोऽङ्कः।।
।।अवान्तरनिवेदनम्।।
पूर्वसङ्कल्पितं नाट्यं प्रशान्तराघवाऽभिधम्।
मया कृतं हरिद्वारे पूतभागीरथीतटे।।1
गुणार्यम्बरयुग्माब्दे वैक्रमे मार्गशीर्षके।
सुदि भौमे प्रभातेऽह्नि प्रारब्धं नाटकं मया।।2
वदि पौषे च सप्तम्यां भौमवारे निशीथके।
द्वाविंशे दिवसे भक्त्या पूर्यतेऽम्बानुकम्पया।।3
जयरामाश्रमे रम्ये बिल्वनीलाऽद्रिमध्यगे
सन्निधौ पञ्चदेवानां सम्पन्नं शारदार्चनम्।।4
नवप्रस्थानकं नाट्यं संस्कृतप्राकृताश्रितम्।
सचेतसां विनोदाय रङ्गमञ्चोचितं भवेत्।।5