पुरोवाक्
रामनाथपाठक: 'प्रणयी’ विंशशतकस्य विस्मृतप्राय: सुरसरस्वती- साधक:। कविरयं ५.११.१९१९ तमे दिवसे विहारप्रदेशे भोजपुरमण्डले जनिं प्राप। तत्रैव अधीयान: १९३८- तमे वर्षे व्याकरणाचार्येण, १९४१-तमे वर्षे साहित्याचार्येण १९४३-तमे वर्षे आयुर्वेदाचार्येण चोपाधिना सम्बद्धपरीक्षा: उत्तीर्य अलङ्कृत:। १९६२ तमे वर्षे बी.ए. (प्रतिष्ठा)परीक्षा तथा च १९६४-६५ वर्षयो: प्राकृतभाषया संस्कृतेन च एम.ए. परीक्षे अपि अयं उदतरत्। अथ पीएच्.डी- पदवीं प्राप्य १०.५.५६-तमाद् दिनात् विहारप्रदेशस्य शासकीयमहाविद्यालयसेवायां नियोजित: प्राध्यापकत्वं निरवहत्। १४.९.१९६६ तमात् दिवसादस्य नियुक्ति: विश्वविद्यालये अजायत, २४.३.६८ तमाच्च दिनाङ्कात् तत्रासौ विहारलोकसेवायोगेन स्थायिनियुक्तिं लम्भित:। महाभागोऽयं १६.८.८९-तमे दिने दिवमयात्।
१९८३-तमे वर्षेऽयं चलचित्रजगति गीतकारत्वेन संवादलेखकत्वेन च अवतीर्ण:। 'पिया निरमोहिया’ 'पिया के गांव’ द्वयोश्चलचित्रयोर्गीतानि अनेन विरचितानि, 'वैरी सांवरिया’ इति चलचित्रस्य संवादा अपि विलिखिता:। इमानि सर्वाणि चलचित्राणि विंशशतकस्याष्टमे दशके विहारोत्तरप्रदशयोर्लोक- प्रियत्वं भेजिरे। 'गंगा तोहरिया लहरिया’ इति चलचित्रस्य कृतेऽपि प्रणयिना गीतानि रचितानि, परमेतच्चलचित्रमनुन्मीलितमद्यावधि।
हिन्दी-भोजपुरी-संस्कृत-भाषासु अस्य काव्यप्रतिभा समं स्पन्दते स्म। 'राष्ट्रवाणी’ श्रद्धाञ्जलिश्चेति अस्य द्वौ संस्कृतगीतिकाव्यसङ्ग्रहौ। अस्य अन्या: रचना सन्ति-
भोजपुरी गीतसङ्कलनानि: सितार, पुरइन के फूल, वरदान, कोइलिया, कचनार, सोना अइसनभोर।
हिन्दीगीतकाव्यानि- साथी (१९५२), बरसात, तीर्थकर (१९५६) किरण बांसुरी, बाल-गीतांजलि (१९५७) बालगान, प्रणय के गीत।
हिन्दीनिबन्धसङ्ग्रहौ- चिन्तन, आवत होइहैं सांवरिया।
अथ च- अध्यात्मचिन्तन, कलश, आपन भाषा, आपन गांव, हिलोर इत्यादि पत्रिका: अपि अनेन सम्पादिता:।
राष्ट्रवाणी १९५२- तमे वर्षे प्राकाश्यं गता। अत्र पञ्चसप्ततिप्रायाणि संस्कृतगीतानि सन्ति। विंशशतके संस्कृतगीतस्य नवावतार: समजायत। रामनाथपाठक: 'प्रणयी’ अस्मिन् नवोन्मेषे अग्रदूत:। वेदना, कारुण्यं, राष्ट्रभवितव्यतायाश्चिन्ता राष्ट्रवाण्या: सरल-सरल-सुमधुर-गीतिव्रजे भावशबलतां विरचयन्ति। गीतानामेतादृशं लालित्यं माधुर्यं सुदुर्लभमेव।
बी.ए. कक्षायामाचार्या भास्कराचार्यास्त्रिपाठिनो मम अध्यापका आसन्। तेषां सविधे रामनाथ पाठकस्य कानिचित् गीतानि आसन्। तेषां पुस्तिकायास्तानि मयाऽपि विलिख्य सङ्ग्रहीतानि। पङ्क्तय उद्धृता:। अथ बहो: कालादनन्तरं आचार्य- राजारामजैनवर्याणां सौजन्येन राष्ट्रवाणीति पुस्तकस्य प्रथमसंस्करण- प्रतिरप्युपलब्धा। अनन्तरं पाठकोपाह्वा अञ्जना मम निर्देशने रामनाथपाठकप्रणयिन: कृतित्वमधिकृत्य पीएच्.डीत्युपाधये शोधकार्य विहितवती।
राष्ट्रवाण्या: प्रथमे संस्करणे श्रीशङ्कराचार्याणां (पूर्वाश्रमे कवितार्किक- चक्रवर्ति श्रीन्महादेवशास्त्रिणाम्) आमुखेन् साकं धीरेन्द्रब्रह्मचारि-राममोहन- दासयोश्च समाशंसे प्रकाशिते। इयमपि सामग्री अस्मिन् नवीने संस्करणे समावेशिता। प्रणयिन: गीतिमाधुर्यं संस्कृतकविता प्रणयिजनान् प्रीणयेदिति मन्ये।
-राधावल्लभ: त्रिपाठी
आमुखम्
सङ्गीत-सङ्गतां वन्दे शारदामिन्दु-सुन्दरीम्।
वादयन्तीं दिविषदां दयितां परिवादिनीम्॥
जीव्याज्जीयाद् राष्ट्रवाणी गीतिकाव्यरवि: कवि:।
अरविन्द मरन्दोक्ति 'प्रणयी’ विनयी नयी॥
अस्मिन् विश्वस्मिन् समादरणीयादर्शसन्देशे भारतवर्षदेशे सुचिरकालत इतिहासकालत आनखं सहस्रशास्त्रं सामवेदं तमनु गान्धर्वोपवेदं शिवसूत्रं नारदभाष्यविचित्रं सङ्गीत-रत्नाकरं विद्वद्विस्मयकरं समभिव्याप्य सम्प्लावयन्ती कङ्कारयन्ती सङ्गीतस्वरश्रुतिग्राम-मूर्च्छनासन्दोहं कोऽहं भावनां विपरीत-भावनां समुन्मूल्य निर्मूल्यमुज्जागरयन्ती गीतिविद्यानवद्यानदी ज्ञाननदीनं पीनं विदधाना सावधाना प्रवहत्येव। यस्यां समस्यां समुपकूलं नन्दनन्दनस्य आनन्द-कन्दस्य श्रीकृष्णचन्द्रस्य अतन्द्रस्य वंशीनिनादसंवाद: कालिन्दीतरङ्गभङ्गान् उद्गमयति, दिव्यसोर्विश्वावसो र्महतीवृहती स्वान्ते नितान्तं शन्तनोति, गन्धर्वकुलगुरोस्तु-म्बुरो: कलकलावती कलावती कलयति लयं मालयं, नारायणात्मनिवेदन-रदस्य नारदस्य कमन्तरमान्तममन्दम् आनन्दं ददती महती विहरति हरति विषयस्पृहामसहाम्, सुरासुरसेवितसरस्वत्या: सरस्वत्या: स्वच्छपीना कच्छपीन-वीना स्मारयति हरिहरस्मारमनुवारम्। [यस्यां प्रथितो ग्रथित: शृङ्गारसागर-तरङ्गितगोविन्दो गीतगोविन्द: सहका सौरभसम्भारं मधूमधूलाधोरणीं द्राक्षमाक्षिकक्षीरपक्षपात पटाक्षेपं विजयते साक्षात्कारयन्। तदनुसरन्ति न प्रवहन्ति विभिन्नानि कान्यपि नव्यानि गीतिकाव्यानि। अत: सुधा शनसरम्वती-पादारविन्द मधुव्रतानां भारता- नवरतनव्यभव्य भावभावनालुभ्यमानमानसानां समासेचनं किमपि काव्य मृत सर्वन्वविरचनम् अविगीत गीतिकदम्वकरम्बितं प्रत्यग्र जाग्रच्छन्दो-वन्दनीयबन्धसन्धानं संकल्पविकल्पानल्पकल्पना सनाथश्रीराम- नाथपाठक 'प्रणयि’ विनयनयपेयं समर्थार्थसार्थ संभृतं कोकिलकलकण्ड- मधुकरकलरवकमनीयं प्राज्यस्वराज्य सौराज्यतुन्दिल-नवभारत 'राष्ट्रवाणी’ सुगृहीतनामधेद रसिकचक्रचक्रवर्तिचातुर्यावधेयं व्यधत्त। तदिदं विस्रम्भभाजनं महतां मादृशामपि सूक्ष्मदृशामन्यादृशां हृदयाद्हृदयं यावन्मनोभुवो धनु: करकलितं समाह्लादयद् उद्वेलयत्तरुणारुणेषु कामपि प्राभातिकीं सुषमामसमां स्वाभि: संकलिताभिर्जनतां भारतीयां भरितां विधेयाद् ललितललिताभि: कलाभि- रमलाभि॥]
१९, अस्सी महादेव पाण्डेय:
बनारस सर्वतन्त्र-स्वतन्त्र-कवितार्किकचक्रवर्ती
१-१२-५१ अध्यक्ष:
साहित्य-विभाग:, संस्कृतमहाविद्यालय:
हिन्दू-विश्वविद्यालय:, काशी।
प्रस्तावना
श्रीरामनाथ पाठक 'प्रणयी’ ने 'राष्ट्र-वाणी’ नामक रचना में अपने संस्कृत गीतों का संग्रह प्रस्तुत किया है। संस्कृत साहित्य में काव्य ग्रन्थों और महान् कवियों का अभाव नहीं है। जिस साहित्य को वेद, रामायण, महाभारत, पुराण जैसे अमर आकार-ग्रन्थों का बाहुल्य है और जिसे भास, भवभूति और कालिदास-जैसे विश्व कवियों की शाश्वत रचनाएँ मिली हैं, उसकी समृद्धि के सम्बन्ध में प्रश्न ही क्या? किन्तु फिरभी इतना तो अवश्य कहा जायगा साम गान की वैदिक प्रथा जिसमें गेयता को विशिष्टता को आधार मानकर छन्दों की सृष्टि की गई हो, पीछे चलकर लुप्त-सी हो गई; और समग्र पश्चाद्वर्त्ति साहित्य में जयदेव के 'गीतगोविन्द’ के अतिरिक्त कोई ऐसा ग्रन्थ नहीं जिसे सफल गीत काव्य कहा जा सके।
'राष्ट्र-वाणी’ की कविताएँ इस दृष्टि से अपना निज महत्त्व रखती हैं। ये सोलह या चौदह मात्राओं में लिखी गई हैं और आज कल के प्रचलित रागों या तालों में बड़ी ही आसानी से परिणत करके गाई जा सकती हैं। कविताओं का विषय भी आधुनिक है और मुख्य देश, देश की प्राकृतिक निधि, देशभक्ति एवं राष्ट्र-प्रेम मञ्जुल भावनाओं के आधार पर रची गई हैं। इन कविताओं की भाषा सरल एवं हृदयग्राही है: और संस्कृत का अल्पज्ञान रखनेवाला व्यक्ति भी इन्हें कुछ ही अवधारणा के सहारे समझ सकता है। यों तो संस्कृत की कोमलकान्त पदावली विश्व विश्रुत है ही, इन गीतों के माध्यम से वह और भी निखर पड़ी है।
मैं आशा करता हूँ कि 'प्रणयी’ जी की ये रचनाएँ सहृदय हृदयों के द्वारा समादर पायेंगी और इनका उपयुक्त स्वागत होगा। शिक्षा-संस्थाओं के बालक-बालिकाओं को यदि इन्हे मुखस्थ कराया जाय और उचित अवसरों पर इनका गेयरूप में पाठ कराया जाय तो निश्चय ही मञ्जुलता और मधुरता का वातावरण छा जायगा।
मैं इस संग्रह का हृदय से स्वागत करता हूँ।
१२.१.५२ धर्मेन्द्र ब्रह्मचारी शास्त्री
शिक्षोपनिदेशक, बिहार
अहम्
अहमस्मि रणभेरी-रव:!
प्रतिपक्षि-हृदय-विदारक:,
मद-मत्त-कुञ्जर-मारक:,
पवि-परुष-हृदय-स्पन्दनो वन-नन्दनो कण्ठीरव:!
अहमस्मि रणभेरी-रव:!
दुर्धर-महीधर-हारक:,
भू-खण्ड-खण्डन-कारक:,
तिग्मांशु-रश्मि-निवारक: प्रलयङ्करो मरुतो जव:!
अहमस्मि रणभेरी-रव:!
विद्रोह-विप्लव-चारक:,
रोषारुणेक्षण-धारक:,
जाज्वल्यमान: पावकस्तरुणायमानो भैरव:!
अहमस्मि रणभेरी-रव:!
क्षणमन्तरिक्ष-स्पर्शक:,
क्षणमवनि-ताण्डव-दर्शक:, त्रैपुर्य्य-संहारक-हर: क्षण-मध्य-दग्ध-मनोभव:!
अहमस्मि रणभेरी-रव:!
अङ्गार-धारा-वर्षक:,
सर्वंसहा-संकर्षक:,
रे, प्रतिपदं प्रतिचत्वरं प्रतिवीथि-पद-मर्दित-शव:!
अहमस्मि रणभेरी-रव:!
खल-पामराणां धर्षक:,
वीराग्रणीनां हर्षक:,
एकोऽसहायो रावयाम्यखिलं जगत्क्रान्त्या: धव:!
अहमस्मि रणभेरी रव:!
चल-वीचि-नीरधि-मन्थन:,
कल्लोल-लीला-ग्रन्थन:,
भू-पारतन्त्र्यारण्य-गण-संदाहको दुर्दम-दव:!
अहमस्मि रणभेरी-रव:!
म्लेच्छान् विनाशयितुं क्षम:,
सोऽहं शकारिर्विक्रम:,
गाण्डीवपाणिरपाण्डवो ऽप्यहमस्मि युद्धे पाण्डव:!
अहमस्मि रणभेरी-रव:!
बलिदान-वेदी-पावन:,
स्वाधीन-भारत-भावन:,
विजयीति गायन् गीतिकामकरुणतरुणतरुणो नव:!
अहमस्मि रणभेरी-रव:!
आपन्न-भू-भारं वहन्,
जन-चिन्तया चेतो दहन्,
गर्जामि नि:शङ्कं चिरं कृन्तित-दुराशय-कैतव:।
अहमस्मि रणभेरी-रव:!
भीतिर्न मे कण्टक-पथे,
परिपन्थिनां लोचन-रथे,
कर्त्तव्यमेव सदा स्मरन् विहरामि मातृ-कुशीलव:।
अहमस्मि रणभेरी-रव:!
सममेव मरणं जीवनम्,
सममेव मे सदनं वनम्,
तिष्ठामि सर्वत्रैव रे शान्तिर्भवतु वा विप्लव:।
अहमस्मि रणभेरी-रव:!
गीता-जयन्ती, संवत् २००८ रामनाथ पाठक: प्रणयी
इन्द्रनिकेतनम्, धनछूहाँ, आरा
जननि!
जननि, त्वमसि मदीयं शरणम्!
तरुण-कवित्वम्, गीतिर्लास्यम्,
चिन्ता-चित्या, चिन्त्यं दास्यम्,
हर्षोऽमर्षोऽन्तस्तलतर्षो वर-शापावज्ञानावरणम्!
जननि, त्वमसि मदीयं शरणम्!
सुयशोऽयशो जयो वा हार:,
हृदय-ज्वालो रुधिरासार:,
अक्षय-मूच्र्छाऽक्षमता क्षमता गर्वोऽगर्वोजीवन-मरणम्!
जननि, त्वमसि मदीयं शरणम्!
पत्रं पुष्पं फलमथ तोयम्,
अनुरागो रागस्त्यागोऽयम्,
अर्पणमस्तु तवैव चरणयोर्यत्किञ्चन मदकिञ्चनकरणम्।
जननि, त्वमसि मदीयं शरणम्!
'प्रणयी’
जयतु भारतवर्षदेश:।
अमर-वीर-यशस्सुमानाम्,
विश्व-कर-कल-कुङ्कुमानाम्-
सुरभिभिर्भूखण्डमखिलं मोहयति मधु-मुग्ध-वेष:।
जयतु भारतवर्षदेश:।
यस्य पद-कमलं निकामम्,
नव-नृपति-नयनाभिरामम्,
ऊर्मिभि: स्नपयति सरत्नैर्भक्ति-नम्रो निम्रगेश:।
जयतु भारतवर्षदेश:।
आगगनमायस्त-काय:,
हेम-मण्डित-हिम-निकाय:,
उत्तरस्यां यस्य खेलति मुकुटमिव पृथु-पर्वतेश:।
जयतु भारतवर्षदेश:।
सुर-सुलभ-सुषमा-निकेत:,
यत्र हरति न कस्य चेत:,
पावनो गाङ्ग-प्रवाहस्स्वर्विहस्य विहित-निवेश:।
जयतु भारतवर्षदेश:।
यत्र बुद्ध-विरक्ति-गीतम्,
गीयते प्रतिगृहमतीतम्,
यत्र कृष्णर्जुनकथा 'गीता’ जयति कर्मोपदेश:।
जयतु भारतवर्षदेश:।
यत्र रे, जात: प्रताप:,
विहित-रिपु-कुल-तीव्र-ताप:,
विजयि-शिवराज-प्रबल-पद-सैन्य-दल-बल-चलितशेष:।
जयतु भारतवर्षदेश:।
पद्मिनीव बभूव भूति:,
यत्र राज-कुल-प्रसूति:,
विजयतेस्म विजित्य शत्रून् यत्र रे विक्रमनरेश:।
जयतु भारतवर्षदेश:।
यत्र कवि-गुरु-कालिदास:,
यत्र हर्ष-कला-विलास:,
यत्र भवभूतेर्विभूतेर्भाति करुणालय-विशेष:।
जयतु भारतवर्षदेश:।
यत्र तुलसी-सूरदासौ-
अभवतां वाणी-विलासौ,
यत्र मीरा, भारतेन्दु:, भूषण: कविकुलदिनेश:।
जयतु भारतवर्षदेश:।
मदनमोहन-मालवीय:-
अजनि जन-सेवी यदीय:,
धर्म-भार-भृतां धुरीणो विहित-नृप-नीतिक-गवेष:
जयतु भारतवर्षदेश:।
कोऽस्य न जवाहर-सुभाषौ-
श्रयति तनयौ मञ्जु-भाषौ,
यदधुनाऽपि यदीय-हुङ्कृति-भीति-कम्पित-हृद्विदेश:
जयतु भारतवर्षदेश:।
यस्य गान्धी सूत्रधार:-
स्वर्गतो दिव्यावतार:,
पृच्छति ''प्रणयी’’ कवीन्द्रान्नास्त्ययं कस्माद्विशेष:?
जयतु भारतवर्षदेश:।
क्वास्यये, 'झाँसी’-नरेशे?
शोक-पारावार-झाँसी-
मानिनी विधवेव दासी,
काम्विना हा! कष्टमन्या:-श्रीर्गता क्व विदिक्प्रदेशे?
क्वास्यये, 'झाँसी’-नरेशे?
काह्वयेत रिपूनुदग्रान्,
एकलाऽपि पुनस्समग्रान्,
काह्वयेच्चल-चन्द्रहासैर्रक्त-शत-सरितो निमेषे।
क्वास्यये, 'झाँसी’-नरेशे?
हुङ्कृतौ तव सिन्धु-घोष:,
नयनयोस्ते रुद्र-रोष:,
कालिकेव बभूव मूर्त्तिस्तेजसा ते रण-निवेशे।
क्वास्यये, 'झाँसी’-नरेशे?
हा हृता हल्द्याख्य-घाटी-
भूरलौकिक-कीर्त्ति-शाटी,
नित्यमाक्रन्दति निकामं तुभ्यमयि! वरवीरवेषे
क्वास्यये, 'झाँसी’-नरेशे?
युध्यमानात्ययमगच्छ:,
नैव यां जीवन्त्ययच्छ:,
ईक्षितुं न किमेषि 'झाँसीम्’ तामये, स्मृति-मात्र-शेषे
क्वास्यये, 'झाँसी’-नरेशे?
नीयते ते गीति-दोला-
'प्रणयिना’ दु:खाऽश्रुलोला,
तत्त्वमद्य न किं ब्रवीष्यपि, जागृताद्यदि देवि, शेषे।
क्वास्यये, 'झाँसी’-नरेशे?
किं वदेयम्, का कथा रे!
वेपमानं वपुरधीरम्,
परिपतत्प्रस्वेद-नीरम्,
शिथिलता कृशकर-चरणयोर्वद्र्धते मे सर्वथा रे।
किं वदेयम्, का कथा रे!
ज्वलयति क्षुद्, द्यति पिपासा-
हृदयमयि, कुत्राऽपि नाशा,
विगलिताक्षिकनीनिका सह रोदनैर्वाणी श्लाथा रे।
किं वदेयम्, का कथा रे!
चञ्चला: प्राणा: प्रयातुम्,
अवयवानां प्रेम हातुम्,
अद्य यावन्नैव पूर्णा: हन्त! केऽपि मनोरथा रे।
किं वदेयम्, का कथा रे!
कुटिल-कण्टक-राशिभूत:-
कोऽपि नित्यं-मृत्यु-दूत:,
वीक्षते रक्तेक्षणाभ्यां यामि येनाऽहं पथा रे।
किं वदेयम्, का कथा रे!
एकला स्मृतिरस्ति चित्ते,
या गता तनये, न वित्ते,
अन्तराया: पीडयेयुस्तमपि मा हा! मां यथा रे।
किं वदेयम्, का कथा रे!
सन्ति सुसखायो न लोके-
केऽपि, परितोऽहं विलोके,
श्ववदमितवैरायितारो व्याहरन्ति वचोऽन्यथा रे।
किं वदेयम्, का कथा रे!
देव चन्दन-वन्दनीय:,
देश एष महान् बली य:,
नो विपत्प्रालेयलीनो विजयते सम्प्रति तथा रे।
किं वदेयम्, का कथा रे!
को न तां संस्मृत्य दीन:,
को न वा तस्या अधीन:,
चालयति सुख-दु:ख-चक्रं काऽपि या भाग्य-प्रथा रे।
किं वदेयम्, का कथा रे!
याहि, निज-पथमनुसर त्वम्,
याहि, देश-दशां स्मर त्वम्,
किं करिष्यसि पथिक तामाकर्ण्य, या किल मे व्यथा रे।
किं वदेयम्, का कथा रे!
वन्दी प्रविशति कारागारे!
अरुण-किरण-कृत-राग-विभाते,
वहति मलय-गिरि-मञ्जुल-वाते,
वद्ध-शयो धृत-शिति-परिधानो-
दण्ड्यो नृपति-विरुद्धाचारे।
वन्दी प्रविशति कारागारे!
गोपायेत्को जननीमधुना,
सिञ्चेत्कल्पलतां को मधुना,
एवमशेष-स्मृति-मूर्च्छितधी:-
प्लवमानोऽमितमौन-विचारे!
वन्दी प्रविशति कारागारे!
स्मारं-स्मारं कुटी-निवासान्,
क्षुत्तृड्विकलान् मुक्तोच्छ्वासान्,
गायन् करुणगीतमयि! दृग्जल!
वह, चल, चञ्चल! पारावारे।
वन्दी प्रविशति कारागारे!
देहि निशितकरवालम्,
सैन्य-ग्रामे रिपुसंग्रामे,
गन्तुमतीव मतिर्व्यग्रा मे,
मा कुरु मोहं सम्प्रति मात:, विद्धि न मामयि, बालम्।
देहि निशितकरवालम्!
यदि नु निवृत्यायामि न गेहे,
का चिन्ता क्षण-भङ्गुर-देहे,
कृन्तत्येव कदापि यतोऽसौ कालकरी तनु-नालम्।
देहि निशितकरवालम्!
ग्लपय न चेतो व्यर्थ शोके,
रणमरणं जीवनमिह लोके,
न विलम्बय मामयि, करुणामयि, जहि सकलं भ्रमजालम्।
देहि निशितकरवालम्!
सम्प्रति रोदनमेवाधार:!
एकान्ते जन-संकुल-रहिते-
स्थाने विविधोपद्रव-सहिते,
अन्तर्गीतमहं गायाम्ययि संशृणुते शून्य: कान्तार:।
सम्प्रति रोदनमेवाधार:!
'किं करोषि?’ केनाऽपि न पृष्टम्,
जगदन्यन्नयनाद्भिस्सृष्टम्,
क्व नु गच्छेयम्, किङ्कुर्य्यां मामुज्झति नहि भाव-प्राकार:
सम्प्रति रोदनमेवाधार:!
सहे निरन्तरमत्याचारम्,
विकल-वेदना-पारावारम्,
हन्त! तथाऽप्ययमीर्ष्यति, जाने कथमधुना भहयं संसार:।
सम्प्रति रोदनमेवाधार:!
धिक्, स्वपित्यद्यापि देश:!
यत्र खेलति दैन्य-बाला,
अपहृता सुश्री: विशाला,
मिलति नो स्वप्रेऽपि सम्प्रति पौर्विक: सुख-शान्ति-लेश:!
धिक्, स्वपित्यद्यापि देश:!
धेनव: प्रतिदिनमगणिता:,
अननुकूला आर्यवनिता:-
हन्त! हन्यन्ते कुटिल-यवनैर्महात्याचार एष:।
धिक्, स्वपित्यद्यापि देश:!
दुग्ध-सरितां का कथा रे,
पाल्यते नीर-व्यथा रे,
चलति नो पवनोऽप्यभीतोऽ सम्भव: कोऽस्त्यत्र शेष:?
धिक्, स्वपित्यद्यापि देश:!
व्यर्थं मुञ्च न लोचन-नीरम्!
जगति भवत्येवं बहुहेला,
नैषा युव-जन-विलपन-वेला,
संग्रामे सैनिक, विजयश्रीरञ्चति नूनं त्वादृशवीरम्।
व्यर्थं मुञ्च न लोचन-नीरम्!
धारयाशु निशिताग्रकृपाणान्,
संयोजय विविधानथ वाणान्,
त्यज चिन्ताञ्चल योद्धुमभीत: कुरु हृदयं समरोचितधीरम्
व्यर्थं मुञ्च न लोचन-नीरम्!
जयतु चिरं ज्वाला-सञ्चार:,
उद्विग्र: स्यात् पारावार:,
आकाशं भूमौ पतितं स्यात्, गर्ज तथाभूतं गम्भीरम्।
व्यर्थं मुञ्च न लोचन-नीरम्!
जयति संयति सांयुगीन:!
तीव्र-गतिमारुह्य यानम्,
दर्शयन्नात्माभिमानम्,
लक्षयन्प्रतिपक्षिलक्ष्यं कम्पयति धरणिं धुरीण:।
जयति संयति सांयुगीन:!
भीषणं ज्वलदग्रिवर्षम्,
काक-कुल-शव-हृदय-कर्षम्-
विरचयन् द्रवयति समस्तं विश्वमसु-चयन-प्रवीण:।
जयति संयति सांयुगीन:!
'चक्रवर्त्ति’ -भवितु-काम:,
अरुण-दृगशयिताष्टयाम:,
अतुलितो नृत्यति निकामं दिक्ष्वयं रुद्रो नवीन:।
जयति संयति सांयुगीन:!
१०
जहिहि निद्रां क्रान्तिबाले!
वर्त्तसे चिरतश्शयाना,
विस्मृताऽखण्डाभिमाना,
भाति किं कर्त्तव्यमेतत्तेऽधुनाऽस्मिन् विषमकाले
जहिहि निद्रां क्रान्तिबाले!
रौति सभयं सागराम्भ:,
ईदृशस्ते तत्र दम्भ:,
दृश्यते चिरशोणितालेपो विशाले विश्वभाले!
जहिहि निद्रां क्रान्तिबाले!
एकमनुनयमद्य पालय,
अक्षिणी क्षणमाशु चालय,
कालिके, नृत्यसि न रे, कथमद्य भूनभसोऽन्तराले!
जहिहि निद्रां क्रान्तिबाले!
११
को नु मे भविता सहाय:?
अपहृतं सुख-राशि-सैन्यम्,
फलति पुरतो दु:ख-दैन्यम्,
अश्रुनिधिरेवाद्यशेषो यत्र नृत्यत्यन्तराय:!
को नु मे भविता सहाय:?
क्व प्रयाता श्रीर्न जाने,
मूर्च्छितोऽहं ह्री-प्रयाणे,
शोषण-प्रगति: प्रकामं वर्द्धते, निहतोऽन्ववाय:!
को नु मे भविता सहाय:?
कस्य कश्शृणुते विलापम्,
को हरेत् कथमन्य-तापम्,
जायते भुवि मिथुनयोरपि हन्त! सम्प्रति सम्पराय:!
को नु मे भविता सहाय:?
१२
तरुण, रे! कथमद्य शेषे?
गोमयं यस्या: पवित्रम्,
क्षणिकजगदर्णववहित्रम्,
सा सवत्सा हन्यते धेनुर्वलान्म्लेच्छै:स्वदेशे!
तरुण, रे! कथमद्य शेषे?
भवति किं तस्यै न शोक:,
कीदृशस्ते ज्ञान -लोक:,
ओषधं यस्या: पयस्त्वयि विविधरोगगृहीतकेशे!
तरुण, रे! कथमद्य शेषे?
जीवनन्ते मरणतुल्यम्,
जीवनस्य न तेऽस्ति मूल्यम्,
उपकृतिर्न हि यस्य काचन, धिक् स जीवति मृत्युवेषे!
तरुण, रे! कथमद्य शेषे?
१३
मित्र, सदनमपि काराभार:!
मिलति न यत्र मनागपि शान्ति:,
खलयत्यनुपलमभितो भ्रान्ति:,
प्रसरति नित्यमहह! नितरामिह-
कलुष-कलह-कोलाहलचार:!
मित्र, सदनमपि काराभार:!
विलपति जननी, क्रन्दति बाल:,
कृन्तति हृदयं दैन्य-व्याल:,
रहित दृशो निकाषऽसृग्धारा,-
भवति नितान्तं क्रान्त्यभिसार:!
मित्र, सदनमपि काराभार:!
क्षणमायाति न रात्रौ स्वाप:,
दहति तनुं च बुभुक्षा-ताप:,
पश्यन्तोऽत्र हसन्ति कियन्तो-
विपदि कथं स्यात्कोऽप्याधार:!
मित्र, सदनमपि काराभार:!
१४
तरुण, रणभेरीं निनादय।
स्मर समरमनुजाभिमानम्-
गरलमपि पीयूष-पानम्,
किमिति मति-माया-वितानम्, धिङ्नु नात्मानं प्रवादय
तरुण, रणभेरीं निनादय।
सज्जिता सेना नवीना,
वैरि-दल-दलन-प्रवीणा
विजयते, विजयैककर्मन्निङ्गितय, न मनो विषादय
तरुण, रणभेरीं निनादय।
वेपतां धरणिर्न शोक:,
प्रलयमेत्वयमखिललोक:,
किन्तु रे त्वं क्रान्ति-देव्या तरलशोणितमांसमादय
तरुण, रणभेरीं निनादय।
१५
कीदृश: कोलाहलोऽयम्?
हसति कश्चित्, कश्चिदेक:-
विलपति, न नियतेर्विवेक:,
पृच्छ, कन्यासूञ्जिघांसति निष्ठुरो जठरानलोऽयम्।
कीदृश: कोलाहलोऽयम्?
कस्यचिद्दासी स्वयं श्री:,
कस्यचित्सहठं हृता ह्री:,
हन्त! भूतलमश्रुभि: क: प्लावयति करुणाबलोऽयम्।
कीदृश: कोलाहलोऽयम्।
अद्य सद्य: प्रातरेता:-
रे दिश: क्रन्दन-समेता:,
क्वापि शान्तिमुपैतुकामो व्रजति किमकिञ्चनजनोऽयम्।
कीदृश: कोलाहलोऽयम्।
१६
कीदृशन्ते दूति! शयनम्?
प्रार्थये चिरकालतोऽहम्,
हन्त! किन्तु विभर्षि मोहम्,
नो कथं जागर्षि दुष्टे, धिक्! व्यतीतमगण्यमयनम्?
कीदृशन्ते दूति! शयनम्?
स्मरसि किं नो राष्ट्र-कृत्यम्?
भावि शीघ्रं समर-नृत्यम्,
द्योतते रण-ताण्डवारुणमीश्वरस्य तृतीयनयनम्?
कीदृशन्ते दूति! शयनम्?
मूर्च्छिताऽस्यथवासि रुष्टा,
छलमिदं वा पाप-पुष्टा,
एधमाने विप्लवे किं रोचतेऽद्य विलासचयनम्?
कीदृशन्ते दूति! शयनम्?
१७
सज्ज नवसैनिक, चलेयम्।
रण-चरण-रोषारुणाक्षा,
मरण-भी-भीषण-कटाक्षा,
शक्तिरसकृद्भक्ष-दक्षा या, तया खं कम्पयेयम्।
सज्ज नवसैनिक, चलेयम्।
दासतामपनेतु-कामा,
पाशतामपनेतु-कामा,
उत्थिताश्रुतरङ्ग-सङ्गा चरति क्रान्तिश्चञ्चलेयम्।
सज्ज नवसैनिक, चलेयम्।
दर्प-दोलान्दोलकानाम्,
विरचितानल-गोलकानाम्-
शोणितैस्स्खलितैररीणां वसुमतीं परिषिञ्चयेयम्।
सज्ज नवसैनिक, चलेयम्।
१८
रे, व्रजन्नहमस्मि काराम्।
पश्य, विलपति विधुर-संध्या,
अतनयेव कुलीन-बन्ध्या,
अन्तरिक्षदिशं प्रपश्यन्नद्य किञ्चिच्चलित ताराम्।
रे, व्रजन्नहमस्मि काराम्।
हृदि हविर्दन्दह्यमानम्,
वपुरये, वेपथु-प्रधानम्,
भेद-खेद-रखलितहारां चिन्तयन् जननीमुदाराम्।
रे, व्रजन्नहमस्मि काराम्।
''अन्यथा किमु शङ्कते ताम्,
वन्धु-वान्धव-जन-समेताम्,’’
इति मुहु: शमयन् कराभ्यामनुसरत्तनुजाश्रुधारीम्।
रे, व्रजन्नहमस्मि काराम्।
१९
एहि रणं नो मरणं चिन्तय।
उच्छृङ्खल-खल-शत्रु-समूहे-
खेल तरणिरिव तिमिर-व्यूहे,
अश्रु-कलाप-कलित दृग्-दीनां-
जननीं निगड-बन्धनान् मुक्तय।
एहि रणं नो मरणं चिन्तय।
रक्ष पय:पानस्य व्रीडाम्,
स्मर शिशुताया अङ्क-क्रीडाम्,
वसु-मोषाणामाशु कृपाणै:-
छिन्धि शिरांसि, करौ ननु कृन्तय।
एहि रणं नो मरणं चिन्तय।
त्वयि जीवति, यदि रोदिति माता,
किमिति विनिर्मितवान् त्वां धाता,
कथय, तवान्तर्द्रवति न सैनिक,-
सत्वरमयि परवशतामन्तय।
एहि रणं नो मरणं चिन्तय।
२०
पश्यसि किमिति घूर्णयन्नयने?
नैष मृदुलशय्याया: समय:,
हन्त! हसन्तीमे त्वामरय:,
सम्प्रंति 'सत्यं शिवं सुन्दरम्’ तरुण, लप्स्यते कण्टकशयने।
पश्यसि किमिति घूर्णयन्नयने?
त्यज ललनाया: ललितं लास्यम्,
कृन्त, कृन्त, रे! स्वीयं दास्यम्,
क्षपय न कालं व्यर्थमकाले विद्रोहिन् कणिकानाञ्चयने।
पश्यसि किमिति घूर्णयन्नयने?
कुरु हुंकृतिमरिकुलक्षय: स्यात्,
कुरु हुंकृतिमथवा प्रलय: स्यात्,
शृणु, रे करुण-विलापं जननी जनयति कारागृहमरुदयने।
पश्यसि किमिति घूर्णयन्नयने?
२१
कुरुते को न परस्परघातम्।
मुञ्चति नीतिं वसुधा-मोहे,
निन्दति जननीं जाया-द्रोहे,
श्रयतितरां नितरां संसारो दिशि-
दिशि भीषणमग्न्युत्पातम्।
कुरुते को न परस्परघातम्।
जननी चलित-नयन-जल-धारा
विलपति चिर-सेवित-कटु-कारा,
परमधुनाऽपि जहासि न कष्टम्!-
वीरानुचितरचित-पिष्टातम्।
कुरुते को न परस्परघातम्।
शापे परिणतमिह वरदानम्,
कश्शोचेत्ते मे कल्याणम्?
दहति तनुं प्रावृषि रविताप:,
सुरभिरथाञ्चतिझंझावातम्।
कुरुते को न परस्परघातम्।
२२
गाय तरुणि, नो तादृशगीतम्!
यस्मिन् स्वाद्वैधव्य-विलाप:,
मृत-तनुजाया: भृशमभिशाप:,
क्रन्दनमहह! बुभुक्षित-सूनो: हृद्द्रावकमाकुलमप्रीतम्।
गाय तरुणि, नो तादृशगीतम्!
यत् श्रुत्वा क्रन्दतु निष्प्राण:,
द्रवतुतरां नितरां-पाषाण:,
स्वर-संतति-संधान-वितानं स्याद्रोदनमिव करुण-विनीतम्।
गाय तरुणि, नो तादृशगीतम्!
येन कवे: स्खलिता स्याद् वाणी,
अवरुद्धौ स्यातामथ पाणी,
अम्बुधिरुच्छ्वसिताद्गम्भीरं भवतु मनो नियतेरपि भीतम्।
गाय तरुणि, नो तादृशगीतम्!
२३
अशिवदो नन्वश्रुपात:।
याति विह्वलताम्मनो मे,
मोहमय-धन-तिमिर-तोमे,
जीर्ण-जीवन-तरणिरेवं तीरमेष्यति नैव मात:!
अशिवदो नन्वश्रुपात:।
शोभते स्नेह: किमेष:?
मातरि त्वयि को विशेष:?
हन्त! मध्ये नीरधावेवं भयानक-विषम-वात:।
अशिवदो नन्वश्रुपात:।
अम्ब! किमिदं चित्रमेतत्,
न्यस्यते रण-वारणं यत्,
त्यज्यतामधुना जननि, नवलोल्लसित-तारुण्यघात:।
अशिवदो नन्वश्रुपात:।
२४
को न निन्दति नियति-कृत्यम्?
यत्र साधारण-समाज:-
मन्यतेस्म कुवेर-राज:,
पश्य! तत्र नृपोऽपि सम्प्रति दुरित-दूनश्श्रयति भृत्यम्।
को न निन्दति नियति-कृत्यम्?
विश्व-शिक्षाभ्यास-भूति:,
नित्य-नूत्न-कला-प्रसूति:-
भूरियं किन्त्वद्य कामिनि, नेह किमपि चकास्ति वृत्यम्।
को न निन्दति नियति-कृत्यम्?
विस्मृतो राणा-प्रताप:,
रचित-रिपु-रमणी-विलाप:,
अद्य भारतवर्षभूमौ हन्त! भवति क्लीव-नृत्यम्।
को न निन्दति नियति-कृत्यम्?
२५
तरुण, कलय भारत-भू-चित्रम्।
मृदुसुमनस्सज्जितपर्यङ्के,
श्रमहारिणि, शमकारिण्यङ्के-
क्रीडन्नादिकविर्वाल्मीकिर्व्यंरचयदमल-सुचारुचरित्रम्।
तरुण, कलय भारत-भू-चित्रम्।
सम्जन्यर्जुनजनुरभिमन्यु:,
वटुरपि समरश्रुतकृतिजन्यु:
कस्य न हृद्यद्यापि वहति रे यत्करुणस्मृतिवारि पवित्रम्।
तरुण, कलय भारत-भू-चित्रम्।
विलसति हिमसदनं नगराज:,
सेवित-सिद्ध-तपस्वि-समाज:,
यत्सेवा-शरणं भव-जीवन-जलधिं तरितुं कुशलवहित्रम्
तरुण, कलय भारत-भू-चित्रम्।
२६
गच्छ, गच्छ, रे! त्यज न: सदनम्!
कथमिह सागर-पारादैत्य-
निवससि रे, मायाविन्, दैत्य,
भारत-सुख-शशिनो घनततिरिव जातन्ते घातकमागमनम्
गच्छ, गच्छ, रे! त्यज न: सदनम्!
छलयँस्त्वमिह धरेन्द्रो जात:,
शास्यस्मान् हा! कीदृग्घात:,
हससि, वयं व्याकुलहृदया इह कुर्मो नित्यं करुणविलपनम्
अवहुदिने वहुवसून्यमुष्णा:,
किन्तु, व्रूहि रे! कियतोऽपुष्णा:?
अस्पृश्यस्य खलस्य न किन्ते स्पृशति कुलीना ह्रीरपि वदनम्
गच्छ, गच्छ, रे! त्यज न: सदनम्!
२७
महाविप्लवो भारतवर्षे!
स्वाधिकार-चेष्टायाम् गर्वे-
क्षत-विक्षता:, विनष्टा: सर्वे,
कोटि-कण्ठ-रोदनकालेऽस्मिन् के मिलन्तु रे मग्रा: हर्षे?
महाविप्लवो भारतवर्षे!
प्रतिपलमद्य सर्वतो लोक:-
नश्यति, शश्वदेधते शोक:,
प्रावहत्पुरोक्त-समुद्र:, कथय किन्न बोभवीत्यमर्षे?
महाविप्लवो भारतवर्षे!
धूम-ज्वाल-ज्वलिताकाशे-
को मुक्त:, कोऽथवा न पाशे?
हन्त! निर्दयं हता सुखश्री: कदा निदध्यात्पदमुत्कर्षे?
महाविप्लवो भारतवर्षे!
२८
धिग् जीवनम्, जीवति नर:।
भुक्त्वैव कृतकृत्य: परम्,
शेते सुखेन निरन्तरम्,
भारं वहन्नप्यात्मना यतते न हन्त! यथा खर:।
धिग् जीवनम्, जीवति नर:।
जित्वा चिरं चिन्तामयम्,
हित्वा स्वपरिवारान् स्वयम्-
दास्यं दुरास्यं सेवते, श्वैको यथाऽकिञ्चित्कर:।
धिग् जीवनम्, जीवति नर:।
चेत: प्रयातमधीनताम्,
धीर्यस्य याता हीनताम्,
चाटूक्ति-शुश्रूषण-विधौ नित्यं परेषां तत्पर:।
धिग् जीवनम्, जीवति नर:।
२९
निर्दय, दया न रे त्वयि सृष्टा।
स्वच्छन्दं भ्रमतो मृग-बालान्,
अश्रुवर्षमलिनीकृत-जालान्,
वद, हत्वैव फलं किमाप्स्यते कथमिह रे ते मतिराकृष्टा।
निर्दय, दया न रे त्वयि सृष्टा।
वन-तृण-पत्र-चर्वणायत्तम्।
लघुजीवनमेषामुन्मत्तम्,
हन्त! तदेषु कथं न्यपतत्ते शरसंधान-समीहा धृष्टा।
निर्दय, दया न रे त्वयि सृष्टा।
त्यज धनुराशु, वधिक! न विचारय,
निजकलुषिततृष्णाशां मारय,
धिक् चेतस्त्वादृशो मयैवं मृगयासक्ति: क्वापि न दृष्टा।
निर्दय, दया न रे त्वयि सृष्टा।
३०
चल, नवीनयुगं विधातुम्।
सर्वत: परिहाय भीतिम्,
रचय कामपि मुक्ति-रीतिम्,
तरुण, तरुणां क्रान्ति-गीतिं कलय कामप्यद्य गातुम्।
चल, नवीनयुगं विधातुम्।
वीक्ष्य नयनस्रस्तनीरम्,
वीक्ष्य भारतमत्यधीरम्,
वीर, किं चरणौ न ते हा! चञ्चलौ भवत: प्रयातुम्?
चल, नवीनयुगं विधातुम्।
अन्तिमेयं ते परीक्षा,
शूरता-क्षेत्रे प्रतीक्षा,
मातरं प्रिय, मातृभूमिं शोषितं रे त्वरय पातुम्।
चल, नवीनयुगं विधातुम्।
३१
पुनरपि समरज्वालो ज्वलित:।
प्रतिपक्षं क्रमशो जय-हारौ
भवत: क्षत-हत-रुधिरासारौ,
उच्चैर्महानाद-विस्फोटक-वर्षैरगणजनपदो दलित:।
पुनरपि समरज्वालो ज्वलित:।
जले स्थले गगनेऽप्यातङ्क:,
चीत्करोति नहि कोऽद्य सशङ्क:,
हा! संसृति-सर्वस्व-विनाशो न्वेष विधेरभिलाष: फलित:।
पुनरपि समरज्वालो ज्वलित:।
बालो युवा जरामापन्न:,
जनो विपत्त्यानायाच्छन्न:,
चरोऽचर: सकलोऽपि समन्तात्केवलकरुणाक्रन्दनकलित:।
पुनरपि समरज्वालो ज्वलित:।
३२
व्यक्त-वेदनया हतोऽहम्।
ये स्म रे स्पृहयन्ति मह्यम्,
तेऽधुना द्रुह्यन्ति मह्यम्,
का कथा गरलस्य, सुधया मूर्च्छितावस्थां गतोऽहम्।
व्यक्त-वेदनया हतोऽहम्।
दुर्लभा क्व नु मधुर-वाणी,
पश्य-बद्धावुभौ पाणी,
आत्मनो बान्धवजनानामाविलै: व्यङ्यै: क्षतोऽहम्।
व्यक्त-वेदनया हतोऽहम्।
शोषितानामश्रु-मुक्ता:,
अकथनीय-विषाद-मुक्ता:,
गीतिका-व्याजेन ग्रथ्रन् भारती-सेवा-रतोऽहम्।
व्यक्त-वेदनया हतोऽहम्।
३३
मात: किन्न गता ते पीडा?
कथय, कथं रोदिषि नतभाला,
त्यक्त-मुकुट-मणि-मञ्जुल-माला,
विद्धं वाग्वाणैर्हृदयं वा व्यथयति काऽपि कुलीना व्रीडा।
मात: किन्न गता ते पीडा?
हृतमथवा केनाऽपि दुकूलम्,
यद्भूतं संतापक-शूलम्,
अन्नं वा लभते न शिशुस्ते यस्मादेषा करुणा क्रीडा।
मात: किन्न गता ते पीडा?
शोचसि किम्, रचयसि कां मायाम्-
रे विश्वस्मिन् प्रलयोपायाम्,
सत्यं वच्मि, भवस्यधुना त्वं कृतजनताचललोचन-नीडा।
मात: किन्न गता ते पीडा?
३४
किन्न शोचसि वीर-बालक?
रागिणीं रजनीं विषण्णाम्,
श्लथ-तिमिर-रथ-सन्निषण्णाम्-
नाशयित्वा दिनकरस्त्वां भावयति भुवि चञ्चलालक!
किन्न शोचसि वीर-बालक?
तरुषु कूजति पक्षि-बाल:,
मरुषु ते प्रतिपक्षि-बाल:,
केवलं त्वमिहासि मौन: भावि-भारत-वर्ष-पालक!
किन्न शोचसि वीर-बालक?
वर्त्तते प्रतिपलममूल्यम्,
वर्त्तते प्रतिपलमतुल्यम्,
मा कदर्थय, जहिहि तन्द्रां तिमिर-मलिनां क्रान्ति-चालक!
किन्न शोचसि वीर-बालक?
३५
देवि, सम्प्रति दण्डितोऽहम्!
याचित-स्व-समाधिकार:,
विहित-विद्रोह-प्रचार:,
हा! परस्पर-भेद-खेदै: सर्वतोऽप्यवखण्डितोऽहम्!
देवि, सम्प्रति दण्डितोऽहम्!
पारतन्त्र्याम्बुधि-तरङ्गै:,
विकट-संकट-कूट-सङ्गै:,
शर्म-कूल-दूकूल-भङ्गैर्हा भुजङ्गैर्मण्डितोऽहम्!
देवि, सम्प्रति दण्डितोऽहम्!
किन्तु, ते प्रोत्साह-दानम्-
स्मारयति वीराभिमानम्,
यामि, कृत-कार्यो भविष्याम्यामरण-रण-पण्डितोऽहम्
देवि, सम्प्रति दण्डितोऽहम्!
३६
कोऽयमेति तरस्वि-तरुण:?
असमये सहसाऽपयानम्,
छलमभूदिति सप्रमाणम्,
सैनिकोऽयं म्लायमानो भाति नूनं प्रकृति-करुण:!
कोऽयमेति तरस्वि-तरुण:?
कीदृशं समतन्यजन्यम्,
किमथवा विहितं न जन्यम्,
अन्यथा वृणुते कथं तनुमस्य परितो रेणुररुण:!
कोऽयमेति तरस्वि-तरुण:?
ज्ञायते नहि किं रहस्यम्,
सैनिकान्त-र्वैमनस्यम्,
अम्बरे मन्दायमानो भारतस्य सखे! किमरुण:?
कोऽयमेति तरस्वि-तरुण:?
३७
सङ्गी कारावासमगच्छत्!
भारतमातुर्गीतं गायन्,
अश्रु-मलिन-मुख-चित्रं ध्यायन्,
जननी-चरणाम्बुज-सेवा-व्रत-विश्वासं प्रत्येकमपृच्छत्!
सङ्गी कारावासमगच्छत्!
सत्याग्रह-कृत-दृढ-संकल्प:,
त्यक्त-मधुर-भोजन-मृदु-तल्प:,
खेलितुममररणे प्राणै: सह शुचिमङ्गलमादेशमयच्छत्!
सङ्गी कारावासमगच्छत्!
ननु मुञ्चन् सहसा पुनरन्ते-
त्रींश्चतुरोऽश्रुकरणान् स्वदृगन्ते,
पञ्चनद-प्रमदा-स्तन-कत्तन-कटु-कथया हा! हृदयमयुच्छत्!
सङ्गी कारावासमगच्छत्!
३८
स्वप्रं पश्यति काऽपि शयाना!
स्वाधीनो जातो मे देश:,
विगत - परस्पर - राग - द्वेष:,
दिशि-दिशि-नृत्यति विजय-पताका नव-मञ्जुल-मङ्गलपरिधाना!
स्वप्रं पश्यति काऽपि शयाना!
आलिङ्गति रिपुरप्यन्योन्यम्,
मनुतां नात्मानं को धन्यम्?
प्रतिसदनं खेलति मेलश्री: रे भारत-भाग्यं तन्वाना!
स्वप्रं पश्यति काऽपि शयाना!
पिबति पयो बालो नि:शङ्कम्,
स्वासीनो कालान्मात्रङ्कम्,
विहसति साऽपि सुतं पश्यन्तो चिरमन्तर्विकलाश्रु दधाना!
स्वप्रं पश्यति काऽपि शयाना!
३९
माऽतो मात:! कुरु गुरु-रोषम्।
अविनीतोऽपि शिशु: क्षन्तव्य:,
नो तनय: कथमपि हन्तव्य:,
वाञ्छति तव चरणाम्बुजशरणं यद्यपि कृतवानस्त्यतिदोषम्।
माऽतो मात:! कुरु गुरु-रोषम्।
त्वयि रुष्टायां कोऽस्ति सहाय:,
प्रतिदिनमेव भवेदवनाय:,
भ्रान्तो व्यग्रमनान्त्वद्भीतो वद, बिभ्रीत कथं संतोषम्।
माऽतो मात:! कुरु गुरु-रोषम्।
यस्मिन् स्यात्तव मङ्गलवाद:,
स्पृशेदम्ब! तं कथमवसाद:?
विघ्रानां स विजित्य सहस्रं रे विन्दति सुख-सुषमा कोषम्
माऽतो मात:! कुरु गुरु-रोषम्।
३९
तनु तरुणि, नव-वर्ष-हर्षम्।
शमय सम्प्रति नयन-नीरम्,
रोदनोद्रुतमत्यधीरम्,
कलित-ललित-कपोलतीरं सकल-सहृदय-हृदय-कर्षम्
तनु तरुणि, नव-वर्ष-हर्षम्।
आशु वर्द्धय वन्धु-मेलम्,
रचित-शात-तरङ्ग-खेलम्,
अमितमपनीय प्रगति-मति-मति-हसित-मवसितममर्षम्
तनु तरुणि, नव-वर्ष-हर्षम्।
विजय मा-मोमुद्यमाना-
लसित-शुभ्र-यशो-विताना,
दिक्षु मञ्जुल-भारतश्री: विजयिनी नृत्यति सतर्षम्।
तनु तरुणि, नव-वर्ष-हर्षम्।
४१
गर्जति सेनानी: संग्रामे।
संसर्पन्ती: शेणित-धारा:,
भृत-भीषण-रण-भय-प्रचारा:,
अभिवर्षन्तमसिं बिभ्राणो भ्रमति भृशं सापत्न-ग्रामे।
गर्जति सेनानी: संग्रामे।
कावचिके कृत-विपुलायासे,
रोष-रसासव-कर्कश-भाषे,
इङ्गितगे जनयत्युत्साहं हतचारे गतिबद्धायामे।
गर्जति सेनानी: संग्रामे।
कृतभूयोभारत-जयकारे,
कृत-रिपु-कुल-दल-वल-संहारे,
जेतरि याति सुरा: सुमवर्षं रचयन्त्यध्वनि बद्धललामे।
गर्जति सेनानी: संग्रामे।
४२
दिशि-दिशि गुञ्जति जयगीतं सखि।
नव-वर्षारम्भैकाह्लादै:,
युव-ललमा-चलदधरास्वादै:,
विगलदसह-सम-विषमविषादैर्वन्द्य-निनादै: परिवीतं सखि।
दिशि-दिशि गुञ्जति जयगीतं सखि।
यत्-श्रावं श्रावं शैलेश:
भरताश्रयमाश्रयतेऽक्लेश:,
दर्शयितुं मुदमाकुलशेष: कथय न कस्य मन: प्रीतं सखि।
दिशि-दिशि गुञ्जति जयगीतं सखि।
यस्य गतिं श्रुति-संपुट-पेयाम्,
कोकिल-कुल-कल-कलाभिनेयाम्,
कलयन्तीभिर्वरवीणाभिर्झंकृतिसफलत्वं नीतं सखि।
दिशि-दिशि गुञ्जति जयगीतं सखि।
४३
तस्य नृपस्य भवेदवसानम्।
य: सततं गणिकास्वनुरक्त:,
योऽक्षवतीषु सततमासक्त:,
योऽवमत्य दुग्धं, मधु: सर्पि: कुरुते गर्हितमदिरा-पानम्।
तस्य नृपस्य भवेदवसानम्।
गमयत्यहर्निशं व्यसने य:,
हा! पशुपिशितानामशने य:,
यस्य प्रजा: कुर्वन्ति विलापम्, य: स्वदेशदुर्भिक्ष-निदानम्।
तस्य नृपस्य भवेदवसानम्।
जीवति रे, स कथं जनतेश:,
प्रतिरथ्यं यं निन्दति देश:,
हन्त! स्वार्थ-परतायां लीनं यस्य भवति नि:शेषविधानम्।
तस्य नृपस्य भवेदवसानम्।
४४
अद्य गीतं को नु गास्यति?
विलुलितो भारत-विलास:,
रोदने कथमस्तु हास:?
'सुन्दरं सत्यं शिवं’ पुनरप्यतीतं को नु दास्यति?
अद्य गीतं को नु गास्यति?
अक्षि-विक्षेपोऽपि पापम्,
हा! सहे चिरमद्य तापम्,
मधुर-मधु संत्यज्य चञ्चलमश्रुनीरं को नु पास्यति?
अद्य गीतं को नु गास्यति?
वेदनाब्धे: भाग्य-तरणिम्,
वेपमानां वीत-सरणिम्,
नाविकोऽरित्रं वहन् बहु-दूर-कूलं को नु लास्यति?
अद्य गीतं को नु गास्यति?
४५
हन्त! रचयसि नर्त्तनं खग!
प्रग्रहे मयि वहसि मोदम्,
धिक् त्वदीय मनो-विनोदम्,
वेद्मि, ते प्रकृताविदानीं किमपि नवपरिर्त्तनं खग!
हन्त! रचयसि नर्त्तनं खग!
मोदमानोऽहमपि मुक्त:
पूर्वमासं विभव-युक्त:,
अद्य लभमानोऽस्मि किन्त्वयि करुण-कारा-वर्त्तनं खग।
हन्त! रचयसि नर्त्तनं खग!
कस्य रे फलितोऽद्य शाप:,
यदभवद् मिथ्या-विलाप:,
रञ्जयति यत्त्वामकिञ्चन-जन-हृदय-परिकर्त्तनं खग!
हन्त! रचयसि नर्त्तनं खग!
४६
जनयतु जनकानन्दम्।
मञ्जुल-मोहक-हास:,
रण-रति-नीत-निवास:,
चञ्चल-चन्द्र-मरीचि-यशोब्धे: कलयतु कूलममन्दम्।
जनयतु जनकानन्दम्।
मणि-मुकुलोज्ज्वल-काय:,
शंसित-सिद्धि-निकाय:,
विश्व-जयन-शील:, श्रीलो भुवि जयतुतरां स्वच्छन्दम्।
जनयतु जनकानन्दम्।
कथयतु कामपि चित्राम्,
कथां मनस्वि-चरित्राम्,
सच्चेता: नेता भवतादवकिरन् कला-मकरन्दम्।
जनयतु जनकानन्दम्।
४७
कोऽयमम्बरतोऽवतीर्ण:?
नील-नील-कराल-गात्र:,
कर-निहित-कङ्काल-मात्र:,
पश्य, घूर्णेतेऽस्य नेत्रे, केश-समवायश्च कीर्ण:।
कोऽयमम्बरतोऽवतीर्ण:?
नवल-रुधिर-स्फीत-वसन:,
भृत-भयङ्कर-धार-दशन:,
क्रोध-शोधीकरण-लक्ष्य:, को न यं स्मृत्वा विदीर्ण:।
कोऽयमम्बरतोऽवतीर्ण:?
नूनमेव विभाति काल:,
रचित विप्लव-लीन-ताल:,
अद्य वा श्वो निश्चितं स्थाताऽस्ति संसारो न जीर्ण:।
कोऽयमम्बरतोऽवतीर्ण:?
४८
शृणुत का क्रन्दति कुटीरे।
अहह! नवलोद्वाहिताया:,
रण-रमण-मरणाहिताया:,
अद्य कस्याश्चित्प्रियस्याऽसीच्चिता ज्वलिताम्बुतीरे।
शृणुत का क्रन्दति कुटीरे।
किन्तु, सा तु तदा लसन्ती-
ह्रपयति स्म विधिं हसन्ती,
देवता: नभस: प्रसूनान्यवकिरन् तस्या: शरीरे।
शृणुत का क्रन्दति कुटीरे।
नूनमेवास्या: रहस्यम्,
भाति वैभव-वैमनस्यम्,
क्षुत्तृषोर्लहरी हतेयं काऽपि नृत्यति रे समीरे।
शृणुत का क्रन्दति कुटीरे।
४९
कथयसि रे, कथमहं न जाने।
तव वक्षसि खेलति मृदुमाला,
मम वक्षसि काऽप्यनल-ज्वाला,
तव वटवो विहरन्ति विमाने, मम कर्कशकण्टकोपधाने।
कथयसि रे, कथमहं न जाने।
तव दिवसा: यान्त्यन्तिमहर्षै:,
मम चञ्चल-लोचन-जल-वर्षै:,
तव लक्ष्मी: खेलति खे, भूमौ मम रोदिति घन-तिमिर-विताने।
कथयसि रे, कथमहं न जाने।
तव सदने रत्या अभिसार:,
मम सदनेऽत्र सदाऽत्याचार:,
कियदन्तरमिदमस्ति चिरन्तनमेव जगति जाग्रति च शयाने।
कथयसि रे, कथमहं न जाने।
५०
पश्य, रोदिति दिक्षु कोऽयम्?
अस्थि-पञ्जर-मात्र-शेष:,
कर-निहित-कन्था-विशेष:,
तरुण-ताप-गृहीत-केशो भाति मरण-विभीषुकोऽयम्।
पश्य, रोदिति दिक्षु कोऽयम्?
नयनयोरश्रु-प्रवाह:,
सत्यमेव हृदोऽस्य दाह:,
जय-पराजय-भय-गत-स्मृति-रन्न-कणक-समीच्छुकोऽयम्।
पश्य, रोदिति दिक्षु कोऽयम्?
देवि, दृश्यमिदं मदीयम्-
द्यति हृदम्, नहि किन्त्वदीयम्,
विविधदु:खधरोऽद्य जीवति कथमनाश्रयभिक्षुकोऽयम्।
पश्य, रोदिति दिक्षु कोऽयम्?
५१
चित्रकार, तच्चित्रं हेयम्।
मधु-शालायामुन्नत-भाल:,
पिबति मधुर-मदिरां भूपाल:,
मुञ्चन्ती पुरतोऽक्षि-कटाक्षान् गायति गणिका गीतमगेयम्।
चित्रकार, तच्चित्रं हेयम्।
आसीन: पाश्र्वे शिशुरेक:,
क्षुत्तृड्विकल-विनष्ट-विवेक:,
याचेयेति विचिन्त्य निकामं ग्लायति, निन्दति दैन्यमजेयम्।
चित्रकार, तच्चित्रं हेयम्।
कियति ततो दूरे केदारे
ताड्यन्ते माहेय्यश्चारे,
लाल्यन्ते क्वचिदङ्कमुपेता: श्वान: शीघ्रमतस्तन्नेयम्।
चित्रकार, तच्चित्रं हेयम्।
५२
नव-नाविक, नय तरणिं तीरम्।
अनुवेलं वेलति कल्लोल:
आवत्तै: सह निर्भर-लोल:,
सामर्षं खेलति केवलमिह सम्प्रति परितो निर्गम-नीरम्।
नव-नाविक, नय तरणिं तीरम्।
लसति कदाचित्तरल-तरङ्गे,
उडुविम्बं जलधेरुत्सङ्गे,
अन्धतया, त्वमदान्धतया वा स्मरसि नरे पन्थानमधीरम्।
नव-नाविक, नय तरणिं तीरम्।
शिशवो गृहे भवेयु: क्षुब्धा:,
बाधेरन्तान् विपदो मुग्धा:,
तन्मे ब्रूहि, समर्थोऽसि न वा प्रापयितुं पारं गम्भीरम्?
नव-नाविक, नय तरणिं तीरम्।
५३
नेत: क्वासि पुनर्गन्तेत:?
आशु निविड-तमस: साम्राज्यम्,
प्रसरिष्यति परितस्त्वां त्याज्यम्,
नो केनाऽपि भविष्यति विहित: कथमपि कानन-पथ-सङ्केत:!
नेत: क्वासि पुनर्गन्तेत:?
अग्रेऽस्त्यतुलमुभयतो खेयम्,
श्याम-सलिल-परिपूर्णमजेयम्,
यद् रूपं दिवसेऽपि कदाचित्तोत्स्यति संभ्रान्तं ते चेत:।
नेत: क्वासि पुनर्गन्तेत:?
अद्येहैव विधाय निवासम्,
श्रममपनय च कृतार्थय दासम्,
प्रत्यूषे सहसैव निदेशं गच्छे: स्व-सकलचिह्न-समेत:।
नेत: क्वासि पुनर्गन्तेत:?
५४
भाति भवन्निव संध्याकाल:।
संघटय्य दीधिति-संदोहान्,
कलित-कमलिनी-चल-दल-मोहान्,
वासर-मणिरभ्येति निकेतनमस्ताचल-शिखरं मूर्च्छाल:।
भाति भवन्निव संध्याकाल:।
रेणुकणैखे पीतानायम्-
तन्वानं गोकुल-सभवायम्
धृत-घण्टं शालामुपयान्तं क्षणमनुसरति तमश्चाण्डाल:।
भाति भवन्निव संध्याकाल:।
आगतयो: पित्रोस्तरु नीडम्,
चारु चरित्वा निर्गत-पीडम्,
चञ्चौ चंचुपुटं चञ्चलयन् कूजति मधु-मधुरं खगबाल:।
भाति भवन्निव संध्याकाल:।
५५
एष समायातो मधुमास:।
मधुर-मधुर-मादक-मधु-वर्षै:,
मदनोऽप्यमर-विजय-गुरु-तर्षै:,
पञ्चशरांस्त्यक्तुं चापज्यामाकर्षति कृत-बहुविध-लास:।
एष समायातो मधुमास:।
चलति दक्षिणो दक्षिण-वात:,
कोकिल-'कुहू’-प्रभूत-प्रात:,
धिक्! विलासशयनीय-शयानस्त्वमिह केवलं निद्रादास:।
एष समायातो मधुमास:।
मधु-चयनं मधुपानामेतत्,
ग्लपयति रे, नालस्यं ते यत्,
मन्थर! किन्न मनागपि शोचसि, चेदेवं सर्वस्व-विनाश:।
एष समायातो मधुमास:।
५६
जहिहि मधुप! मधुपानम्।
प्रसरति पश्य वने-वने दव:,
अद्य सर्वतो व्याकुलो भव:,
सत्यमेव सम्प्रति विभाति मे व्यङ्यबाणवत्ते कल-गानम्।
जहिहि मधुप! मधुपानम्।
क्वचित्विक्लवा: सन्ति हरिण्य:,
क्वचित्विक्लवा: सन्ति करिण्य:,
क्वचित्पक्षिणां विकल-विरावैराकुलीकृतं ग्रामोद्यानम्।
जहिहि मधुप! मधुपानम्।
हृदयमस्ति किमु ते पाषाण:,
कथमन्यथा मुदं बिभ्राण:,
अस्य महाविप्लवकालस्य त्वं नेच्छसि मनसाऽप्यवसानम्।
जहिहि मधुप! मधुपानम्।
५७
सखि, सुरभिर्निवृतो निभृतो वा?
दूरे सरित्, दुर्लभा आप:,
हन्त! नितान्तमेधते ताप:,
स्वेद-विन्दु-निन्दित-वदनेन्दु: पथिक: पथि सुप्तो नु मृतो वा?
सखि, सुरभिर्निवृतो निभृतो वा?
वीरुल्लता-तृणानां श्रेण्य:
नीरसा वने, व्यग्रा एण्य:,
नव विलोल-पल्लवस्तरूणां परित: पश्य हतो नु हृतो वा?
सखि, सुरभिर्निवृतो निभृतो वा?
अर्को रचयंश्चित्याकाशम्,
प्रस्फुटदग्रि-कणान् प्रत्याशम्
किरत्येष सर्वेषां तर्क:, किं वक्ष्यसि, सत्यो न्वनृतो वा?
सखि, सुरभिर्निवृतो निभृतो वा?
५८
प्रेयसि, परिमाणं न पथो मे।
नवो नवो देश:, नव वेष:,
नवे निर्जने वने प्रवेश:,
नवा-नवा प्रकृति:, नग-निर्झर-सरित्तडाग-राग गतयो मे।
प्रेयसि, परिमाणं न पथो मे।
नवो नभस्तारक कल-ह्रास:,
नवो वारिधेर्वीचि-विलास:
जीवन-मरणम्, मिलन-वियोगौ, प्रेम-पूजनम्, रतिस्तपो मे।
प्रेयसि, परिमाणं न पथो मे।
अहर्निशं चलन-क्रम-भेद:
अहर्निशं चलन-क्लम-खेद:,
अन्धं तमो भवेद् झंझा वा विश्राम्यति नो प्राण-रथो मे।
प्रेयसि, परिमाणं न पथो मे।
५९
कथमहं ग्रन्थामि मालाम्?
वीर-शून्या-धरणिरेषा,
साम्प्रतं गतसौम्य-वेषा,
हन्त, कलयिष्यामि कण्ठे कस्य चारुमरीचि-जालाम्।
कथमहं ग्रन्थामि मालाम्?
उत्सवश्चयने सुमानाम्-
कृन्तित: कल्पद्रुमाणाम्,
किन्नु तैश्शप्ता न जानेऽहं पिबामि दृगम्बुहालाम्।
कथमहं ग्रन्थामि मालाम्?
कामनां मधुपावलीनाम्-
हृतवती वा मुकुल-लीनाम्,
कामनां यस्मान्मदीयां हन्ति नियतिरसौ विशालाम्।
कथमहं ग्रन्थामि मालाम्?
६०
नवविधानम्, नवविधानम्।
यदि हसन्तु, हसन्त्वपुण्या:,
नय-विशारद-सार-शून्या:,
पारतन्त्र्यमपाकृतं स्याद् भवतु किमपि तथा निदानम्।
नवविधानम्, नवविधानम्।
सततमायततां जिगीषु:,
किं करिष्यति रे विभीषु:,
बुद्धि-कञ्चुकितो विदध्यादापदां मध्येऽभिधानम्।
नवविधानम्, नवविधानम्।
अभिमता: जनता: भवेयु:,
सिद्धय: सकला: श्वयेयु:,
वैमनस्य-विलीयमानं भातु भूयो मानि-मानम्।
नवविधानम्, नवविधानम्।
६१
क्व गतं भारत-भविकं मात:।
नोदेस्यति किं भाग्य-विवस्वान्,
आवृणुतेऽस्मान् भेद-तमस्वान्,
तुदति पुरो रुदतां पृथुकानामुच्छ्वासानलझंझावात:।
क्व गतं भारत-भविकं मात:।
गगनं दु:ख-पयोदाच्छन्नम्,
लभते कोऽपि न वारि न वान्नम्,
नुदति निरन्तरमन्तर्रोदनमसुहर्षक-विस्रम्भाघात:।
क्व गतं भारत-भविकं मात:।
कोऽयं तनुते क्षोभ-वितानम्,
नो सहते भारत-महिमानम्,
रुदति जनेऽपि दधाति न करुणां कस्य नयनयो: पक्ष्मनिपात:।
क्व गतं भारत-भविकं मात:।
६२
नैष सामयिको विलाप:।
शोक-शय्या-सन्निषण्ण:,
हन्त! कथमेवं विषण्ण:,
ब्रूहि, रोदिषि रे कथं कथमीदृशस्ते तरुणताप:?
नैष सामयिको विलाप:।
हा! शिशौ त्वयि या कृताशा,
सत्यमेव गता वृथा सा,
पुत्र, सम्प्रति यत्त्वमेवं भवसि शोषित-शाप-पाप:।
नैष सामयिको विलाप:।
त्वादृशानां जन्म लोके-
कथमभून्नाऽहं विलोके,
मुञ्चतस्तरुणे वयसि ते लोचने यदि चञ्चलाप:।
नैष सामयिको विलाप:।
६३
शृणु, कल्प्यते किमिदं स्त्रिया?
आकर्ण्य विप्लव-रव-लवम्,
जागर्ति यस्य न वैभवम्,
चित्रं न सोऽञ्जलिमात्रके नीरे त्यजेत्स्ववपुह्रिया।
शृणु, कल्प्यते किमिदं स्त्रिया?
धिक् तमिव जीवन्तं शवम्,
अभिवन्द्य-कुल-कानन-दवम्,
हा! शिष्यते यस्येह केवलमधमशृंगार-क्रिया।
शृणु, कल्प्यते किमिदं स्त्रिया?
नाद्यैव, किन्तु युगान्तरेऽ-
प्युट्टङ्कितं भविताम्बरे,
''मानव! मनागपि शोचतात्सहसैव ते क्व गतं श्रिया!’’
शृणु, कल्प्यते किमिदं स्त्रिया?
६४
भारतीयोऽहमभविष्यम्?
गाङ्गवारि निपीय पुष्ट:,
भारतीयोऽहमिति तुष्ट:,
दिग्विदिग्देशागतान् प्रति चतुर-नृप-नीतिमवदिष्यम्।
भारतीयोऽहमभविष्यम्?
नित्य-नूतन-भूत-रत्नै:,
साधितैरल्प-प्रयत्नै:,
संपरायानयनरुष्टं वीरपृथुकमखेलयिष्यम्।
भारतीयोऽहमभविष्यम्?
पूर्णवयसि तपो विधातुम्,
मञ्जु मोहन-नाम गातुम्,
त्यक्त-षड्वर्गो हिमालय-हैम-गह्वर-माश्रयिष्यम्।
भारतीयोऽहमभविष्यम्?
६५
'कुहु-कुहू’ नो कलय कोकिल।
विलपतोऽद्य निवर्त्य बालान्,
बदह-मन्द-दृगम्बुलालान्,
अश्रु-वर्षक-कर्षकान् वप्रागतान्नो खलय कोकिल।
'कुहु-कुहू’ नो कलय कोकिल।
अद्य रे, मधुर-स्वराणाम्,
जित-सुधासव-शीकराणाम्
निन्दया स्वान्तं स्वकीयं हन्त! नो चञ्चलय कोकिल।
'कुहु-कुहू’ नो कलय कोकिल।
मौन-धारणमेव रम्यम्,
दैन्यमन्तर्वृत्ति-दम्यम्,
व्यङ्ग्य-वचनानल-कलम्बै: काननं नो ज्वलय कोकिल।
'कुहु-कुहू’ नो कलय कोकिल।
६६
गणिके, किन्ते रूपमरूपम्?
क्षणमभ्यन्तरमेव गलिष्यति,
व्यभिचारस्ते नाति फलिष्यति,
छलयन्ती सकलं जगदेतद् दिशि-दिशि मुञ्चसि सुषमाधूपम्।
गणिके, किन्ते रूपमरूपम्?
प्रतितालं सविलासैर्लास्यै:,
स्वोपध-मण्डलि-मण्डितहास्यै:,
खलयन्ती सुहृदयजनचेत: पुष्णास्यभित: किल्विषकूपम्।
गणिके, किन्ते रूपमरूपम्?
व्रज दूरं स्पृश नो प्रतिबिम्बै:,
सरसरसाले किन्ते निम्बै:,
ज्वलयन्ती नारीत्वममूल्यं कामयसे किं मां कविभूपम्।
गणिके, किन्ते रूपमरूपम्?
६७
काननेऽपि बिभर्षि रागम्?
श्रयति यत्र तपस्तपस्वी,
जयति मानधनो मनस्वी,
रक्षितुं तत्राऽपि कामयसे न रे, स्वातन्त्र्य-यागम्।
काननेऽपि बिभर्षि रागम्?
अत्र पामर, ते प्रवेश:-
कस्य भूत्यै भूत एष:,
आत्मनोऽहितमेव दुग्धं पाययसि यद्विषय-नागम्।
काननेऽपि बिभर्षि रागम्।
हससि, रोदिषि, चरसि मोहम्,
वक्षि तस्माज्जगति सोऽहम्,
भ्रान्तिमेतां जहि, कृतार्थय शेषमपि जीवन-विभागम्।
काननेऽपि बिभर्षि रागम्।
६८
धिक्, मदान्धाचार्य कविवर!
एष एव कवित्वदर्प:,
कल्पितालक-कृष्णसर्प:,
व्रीडसे क्षणमपि न चेतस्यात्मकर्म विचार्य कविवर!
धिक्, मदान्धाचार्य कविवर!
हा! बुभुक्षो: क्रन्दनानाम्,
सदय-हृदय-स्पन्दनानाम्-
हेलयैव भवसि किमेवं हर्षित:, कृतकार्य कविवर!
धिक्, मदान्धाचार्य कविवर!
कृन्त रसनां लास-लीनाम्,
लेखनीं तोडय विदीनाम्,
दूयसे न कथं चिरन्तन-सुख-शमौ संहार्य्य कविवर!
धिक्, मदान्धाचार्य कविवर!
६९
ब्रूहि 'वन्दे मातरम्’ शुक!
पञ्जरेऽस्मिन् त्वमपि वन्दी,
पञ्जरेऽस्मिन्हमपि वन्दी,
आवयोरपि सैष बन्ध: योऽन्वबध्रान्मातरं शुक!
ब्रूहि 'वन्दे मातरम्’ शुक!
लम्बते तेऽप्यक्षि-नीरम्,
लम्बते मेऽप्यक्षि-नीरम्,
आवयोरप्यक्षिनीरं रुजति वन्दीं मातरं शुक!
ब्रूहि 'वन्दे मातरम्’ शुक!
अक्षयस्ते मेऽपि शाप:,
दु:ख-दैन्य-कला-कलाप:,
आवयोरप्याधि-वह्निर्दहति दीनां मातरं शुक!
ब्रूहि 'वन्दे मातरं’ शुक!
७०
वर्ष रे, घनदर्प जलधर।
गर्जनं बहुहास्यमूलम्,
श्रेयसान्तेऽप्यननुकूलम्,
गर्ज, गर्जन्नीरसत्वं सुरस-पातैरस्तदनु हर, हर!
वर्ष रे, घनदर्प जलधर।
प्रेम-पूतासन-निषण्णान्,
वैमनस्य-वशान् विषण्णान्-
काव्य-वप्र-समागतान् सुहदो रिपूँश्चाप्यद्य भर, भर!
वर्ष रे, घनदर्प जलधर।
जन्म चेत्सफलं त्वदीयम्,
प्रार्थना-करणं मदीयम्,
नूतनां कामपि कलां सकलामये गम्भीर धर, धर!
वर्ष रे, घनदर्प जलधर।
७१
याहि निवृत्य पथिक, निज-गेहम्।
दुर्भिक्षे गमनेन विदेशे,
निपतिष्यति चेतस्ते क्लेशे,
दिशि-दिशि हन्त! कियन्तो नित्यं क्षुत्तृड्भ्यां मुञ्चन्ति नु देहम्।
याहि निवृत्य पथिक, निज गेहम्।
अद्य सर्वत: भारत-वर्षम्-
रण-चण्डी खेलति सामर्षम्,
गगनमरुण-करुणार्द्रं, भूमि: रक्तमयी, जीवनमस्नेहम्।
याहि निवृत्य पथिक, निजगेहम्।
परिमृजाश्रु दुरवस्था-मुक्तम्,
नैतदस्ति रे सम्प्रति युक्तम्,
किमिति चित्रमिव लोचनयोस्ते क्रान्ति-चिह्नमङ्कितमीक्षेऽहम्।
याहि निवृत्य पथिक, निज गेहम्।
७२
जयतु चिरं 'जय, भारत!’ घोष:।
चत्वारिंशत्कोटि-जनानाम्,
नित्यं परवश-कर-चरणानाम्,
शोक-मुक्त-लोचन-मुक्ताभि: हन्त! पूर्य्यते जीवन-कोष:।
जयतु चिरं 'जय, भारत!’ घोष:।
येषामस्ति शरीरे रक्तम्,
येषां देशे मन: प्रसक्तम्,
अरुण-नेत्र-तरुणानां तेषामद्य कथं जागर्त्ति न रोष:।
जयतु चिरं 'जय, भारत!’ घोष:।
प्राणान् धनान्यथो परिवारान्-
ये त्यजन्ति रक्षितुमधिकारान्,
मातृ-मुक्ति-कामानां तेषां नेता जयतु 'सुभाषो’ बोस:।
जयतु चिरं 'जय, भारत!’ घोष:।
७३
शिशिरमेव जाने, न वसन्तम्!
दुर्लभमन्नम्, दुर्लभमाप:,
यत्र मित्र, जीवनमभिशाप:,
क्षुत्तृड्भ्यां विलपत्सु जनेष्वयि, कं पश्येयं हन्त! हसन्तम्!
शिशिरमेव जाने, न वसन्तम्!
अत्याचारशतानां लोके-
वृद्धिमहं प्रत्यहं विलोके,
अर्थ-रिपौ शासति कथयेयं कथय कथं कं सन्तमसन्तम्!
शिशिरमेव जाने, न वसन्तम्!
जीवन्तीह जना: म्रियमाणा:,
जीवन्तीह मूक-पाषाणा:,
कं मन्येय जनं जीवन्तं! हा! बुभुक्षुदेशे निवसन्तम्!
शिशिरमेव जाने, न वसन्तम्!
७४
अवतीर्ण: पुनरपि हेमन्त:।
वसनविहीनात्, अशनादीनान्,
विपत्पयोधौ नित्यं लीनान्-
कम्पयितुं पवनै: साकं नृप! बन्धुत्वं बध्राति दिगन्त:
अवतीर्ण: पुनरपि हेमन्त:।
हिमपातं सञ्जातं क्षेत्रे-
वीक्ष्य साश्रुणी कर्षक-नेत्रे,
शस्यानां चिर-शोणित-पालित-वर्द्धिष्णूनामेष दुरन्त:।
अवतीर्ण: पुनरपि हेमन्त:।
यदि विहिता विधिनैव न भिक्षा,
का दु:खानां प्राण-परीक्षा?
जानेऽहं न कया कामनया प्राणा: यान्ति न हन्त! चलन्त:
अवतीर्ण: पुनरपि हेमन्त:।
त्वमसि शयान: सुन्दर-तल्पे,
का चिन्ता दलितानां कल्पे?
कणिकाभि: सुमन:-कणिकाभिस्त्वामविरतमाश्रयति वसन्त:।
अवतीर्ण: पुनरपि हेमन्त:।
अहह! विहाय विहङ्गम-लीलाम्,
करुणा-क्रन्दन-विहसन-शीलाम्,
आश्चर्य यदि जानीया: त्वं 'जगति जना: विलपन्ति कियन्त:’।
अवतीर्ण: पुनरपि हेमन्त:।
सफलय पुण्य-पवित्र-नृपत्वम्,
जहि सकलं रे मद-मलिनत्वम्,
भविता निश्चितमेव कदाचित्त्वय्यपि वक्रो नियतिदृगन्त:।
अवतीर्ण: पुनरपि हेमन्त:।
७५
जयतु रे कवि-कालिदास:!
भारती-सौभाग्य-भालम्,
विश्व-भावुकता-विशालम्,
कोऽपि य: सिन्दूर-पूरै: पर्य्यपूपुरदिन्दु-हास:।
जयतु रे कवि-कालिदास:!
उज्जयिन्या: कीर्त्ति-केतु:,
उज्जयिन्या: कीर्ति-सेतु:
एकलोऽपि य उज्जयिन्या: भूपते: गौरव-समास:।
जयतु रे कवि-कालिदास:!
कल्पनोदधि-रत्न-भूत:,
कल्पनार्क-मरीचि-पूत:,
कल्पनाकाशे कलं क्रीडन् किरति य: सूक्ति-भास:।
जयतु रे कवि-कालिदास:!
यस्य नाट्य-शकुन्तलाया:,
रसिक-वन-घन-कुन्तलाया:,
कस्य हा! नाऽद्यापि चेतो दहति दौयमन्तिक-निरास:।
जयतु रे कवि-कालिदास:!
वर्ष-भोग्य-वियोग-शापम्,
क्षपयितुं कुर्वन्विलापम्,
येन यक्ष-मिषेण पुण्येऽकारि रामगिरौ निवास:।
जयतु रे कवि-कालिदास:!
शाश्वतं पीयूष-वर्षम्,
विरचयन्तं लोक-हर्षम्,
यं विना नाऽभूदशेष: 'विक्रमस्य’ सभा-विलास:।
जयतु रे कवि-कालिदास:!