।। रूपरुद्रीयम्।।
अभीष्टमुपायनम्
(यौतकसमस्याश्रितं रेडियोरूपकम्)
पात्रपरिचयः
आलोकः (नाम्ना संकेतितो नायकः)
दीवानचन्द्रः (आलोकस्य पिता)
रामेन्द्रः (आलोकस्य मित्रम्)
टिङ्कू (आलोकस्य अनुजः)
तुलसीरामः (कन्याविवाहार्थी कश्चित् श्रेष्ठी)
डाली (तुलसीरामस्य कान्वेण्टशिक्षिता कन्या)
शोभो (आलोकस्य भगिनी)
विमला (आलोकस्य माता)
वन्दना (शोभासहपाठिनी)
अभीष्टमुपायनम्
(यौतकसमस्याश्रितं रेडियोरूपकम्)
प्रथमं दृश्यम् ।।
नगरस्य सुरुचिसम्पन्ने निवेशे श्रेष्ठिनो दीवानचन्द्रस्य रुचिरं गृहम् सर्वत्र हर्षोल्लासः। प्रातःकाले सर्वेऽपि गृहसदस्याः स्व स्वकर्मणि व्याप्ता दृश्यन्ते। गृहलक्ष्मीः विमला प्रातराश निर्माय कन्याम् आह्वयति।
विमला वत्से शोभे!
(उत्तरम् अनवाप्य तारस्वरेण)
शोभे! क्व गताऽसि? ईदृशी बधिरा कन्या न मया दृष्टा। श्वसुरालये न जाने कथं निवत्स्यति?...........शोभे! किं पाताललोके प्रविष्टासि!
शोभा (ससम्भ्रमं धावन्ती)
अम्ब! आगताऽस्मि। कथय किं करणीयं वर्तते?
विमला क्व मृतासीः रे! अहं महानसे विदहामि, त्वं पुनः मधुमक्षिकेव अस्थिरा भवसि। गच्छ, प्रातराशं स्वपितरम् उपनय। अहमपि क्षणानन्तरमागतास्मि इति कथय। अवधृतं न वा?
शोभा अम्ब! अवधृतम्। एषा गच्छामि।
(इति प्रातराशं नयति)
दीवानचन्द्रः (शोभां दृष्ट्वा)
वत्से! प्रातराशम् आनयसि किम्? क्व वर्तते ते जननी?
शोभा तात! भवान् प्रातराशं गृह्णातु तावत्। अम्बा द्वित्रैरेव क्षणै आगमिष्यति। एवमामन्त्र्य तयैव प्रेषिताऽस्मि।
दीवानचन्द्रः साधु साधु! गच्छ वत्से स्वमातरं भण केनचिद् विशेषप्रयोजनेन यथाशीघ्रं तां द्रष्टुमिच्छामि।
शोभा यथाह तातः गत्वा जनन्यै निवेदयामि।
(प्रविश्य अपटीक्षेपेण)
विमला किमस्ति तत् प्रयोजनं येनाद्य प्रातरेव मयि अतिमात्रं स्निह्यति भवान्? अद्य खलु पश्चिमायां दिशि सूर्य उदयति।
दीवानचन्द्रः (ससीत्कारं चायपेयं पिबन्)
भाग्यवति! आगतप्राया एव विवदसि? लौहकर्मशालेव नितरां ते मस्तिष्कं दन्दह्यते। कदाचिदपि तावत् हिमशीतला भवतु भवती। एहि, मम पार्श्वे मुहूर्तमात्रमुपविश।
विमला (पार्श्वमुपविश्य)
कथय साम्प्रतं स्वयोजनम्। पुरुषैः मधुरालापे कृते मानसं मे नितरां शङ्कते।
दीवानचन्द्रः (उच्चैर्विहसन्)
अयि भाग्यवति! अलमाशङ्कया। अहं पुनः आलोकस्य विवाह सन्दर्भे त्वया किञ्चिन्मन्त्रयितुम् इच्छामि।
विमला (हर्षेण समुच्छलन्ती)
किमुक्तं भवता, आलोकस्य विवाहसन्दर्भेॽ हे प्रभो! अद्य धन्यास्मि जाता! प्रसन्नाः कुलदेवताः। तर्हि शीघ्रमुच्यताम् उच्यताम्। काऽपि कन्या दृष्टा भवताॽ कदा भविष्यति विवाहःॽ
दिवानचन्द्रः हे परमेश्वर! गहनं महिलामायाजालम्! क्षणेनैव हिमायन्ते क्षणेनैव प्रज्वलन्ति। पुत्रोद्वाहवृत्तं श्रुत्वैव पारदोऽवातरत्?
विमला (कातरीभूय)
भोः शप वा कुप्य वा। न तेन मे किञ्चिद् विप्रकार्यते। परन्तु यद्भवेत् तत् स्फुटं भण।
दीवानचन्द्रः (सस्नेहम्)
देवि! धैर्यं धारय। एकश्वासेनैव प्रश्नशतं करोषि। एकधैव कथमुत्तरं ददानि? गम्भीरोऽयं विषयः।
विमला (अधैर्यम् नाटयन्ती)
भवतु भवतु! अलं विलम्बितेन। कृपया शीघ्रं कथयतु भवान्। कीदृशी वर्तते सा कन्या? कियती शिक्षिता? कीदृक्स्वभावा च वर्तते?
दीवानचन्द्रः देवि! विवाहप्रस्तावास्तु अनेके वर्तन्ते। परन्तु तादृशमेव सम्बन्धं वरं मन्ये यस्मिन् सर्वमपि सिद्धं स्यात्?
विमला (सवितर्कम्)
किं वक्तुमिच्छति भवान्? किन्न वर्ततेऽस्माकं गृहे? धनं धान्यं सन्ततिः सुखमयं गार्हर्स्थ्यं भवनम्-सर्वाणि जगदीशकृपया वर्तन्ते एव। केवलं सर्वगुणशीलनिधानभूता पुत्रवधूर्मया काम्यते।
दीवानचन्द्रः (सोत्साहम्)
भाग्यवति! गतं तद् युगम्। इदानीं तु मनुष्यश्चन्द्रमपि समारोहति। सर्वे गुणाः काञ्चनमाश्रयन्ते। काञ्चनं विना कामिनी निरर्थका। पुनश्च मम पुत्रो रूपवान्, गुणवान्, सदाचारपरायणश्च। कथं न तर्हि यौतकरूपेण विशालां सम्पत्तिमर्जयेयम्?
विमला (सनिःश्वासम्)
हे प्रभो! कोऽयं भवतां दुर्विचारः। पुत्रं विक्रेष्यसि किम्? पुत्रोऽपि नाम वृषभः छागः अन्नमिव प्रतीयते?
दीवानचन्द्रः (सोद्वेगम्)
न जाने विधिना कीदृशी बुद्धिर्निर्मिता स्त्रीणाम्? अये भाग्यवति! किं दशरथेन श्रीरामो विक्रीतः? किं जनकेन वा स्वपुत्री सीता विक्रीता? विवाहसम्बन्धे तु यौतकरूपेण धनस्य आदानं प्रदानं वा भवत्येव। प्राचीनोऽयं व्यवहारः।
विमला (निरूत्तरीभूय)
साधु भणति भवान्। किन्तु क्वचित् इदमेव धनादानं यौतकं वा विषमिव सर्वं विनाशयति। मम तु (इत्यर्धोक्त एव)
(अकस्मादेव समाचारपत्रं हस्ते निधाय प्रविशति रामेन्द्र)
रामेन्द्रः अम्ब! अम्ब! मुखं मे मधुरय मिष्टान्नैः। आलोकस्तु एम्. ए. परीक्षां प्रथमश्रेण्यामुत्तीर्णवान्। पश्य, समाचारपत्रं पश्य।
विमला (हर्षेण गादीभूय)
चिरञ्जीव वत्स! अये वत्से शोभे! क्वासि? आलोकः प्रथमश्रेण्यामुत्तीर्णः। हे प्रभो! महती कृपा वर्तते ममोपरि।
(सर्वेऽपि कुटुम्बिनः पुञ्जीभूय मिष्टान्नं खादन्ति)
दीनानचन्द्रः सुप्रभातं वर्तते अद्य। विमले! एतत् सर्वं संविधानकं नियमय तावत्। मम वचनं श्रृणु। अद्य दशवादने पूर्वाह्णे श्रेष्ठिवर्यस्तुलसीरामः स्वकन्यया सहैव आगमिष्यति। एतदेव मया निवेदितव्यमासीत् प्रातःकाले। तत् स्वागतसम्भारे सम्यक् ध्यानम् अवधेहि।
विमला (सस्मितम्)
आम्। ज्ञातमिदानीं प्रहेलिकातात्पर्यम्। परन्तु सुकन्यां विना नाहं स्ववत्सं परिणेष्यामि, इतीदानीमेव भणामि।
दीवानचन्द्रः ज्ञातं ज्ञातम्। गच्छ तावत्।
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
दीवानचन्द्रस्य आस्थानकक्षे श्रेष्ठी तुलसीरामः, स्वकन्यया डाल्या सह तिष्ठति। समक्षमेव विमला दीवानचन्द्रश्च वर्तेते। चायपानं प्रवर्तते। शोभा स्वसहपाठिन्या वन्दनया सार्धम् आतिथ्यकर्मणि व्यापृता वर्तते। आलोकस्तु रामेन्द्रेण सार्धम् अन्तःप्रकोष्ठे तिष्ठति।
तुलसीरामः (व्यञ्जनं भक्षयन्)
साधु साधु! कियत् स्वादु वर्तते दधिवटकमिंदम्? भ्रातः दीवानचन्द्र! कया निर्मितम्? किं वत्सया शोभया?
विमलाः नहि नहि! शोभायाः सहपाठिनी वन्दना व्यञ्जनपक्वान्ननिर्माणे अतिनिपुणा वर्तते। तयैव निर्मितम्। वत्से वन्दने! मुहूर्तमितस्तावत्।
वन्दनाः (ससंकोचं प्रविश्य)
अम्ब! मामाह्वयति भवती! किं कर्तुं युज्यते?
विमलाः वत्से! न किमपि करणीयम्। अयं महानुभावः त्वन्निर्मितं व्यञ्जनं बहुप्रशंसति। प्रणम तावत्। शोभे! त्वमपि प्रणम।
(उभे सलज्जं प्रणमतः)
तुलसीरामः चिरञ्जीव वत्से! कस्यां कक्षायां पठसि?
वन्दना द्वादशकक्षायाम्।
तुलसीरामः शोभनं शोभनम्। किन्तव विद्यालयेऽपि व्यञ्जननिर्माणकला शिक्ष्यते? कान्वेन्टविद्यालयेषु तु नेयं व्यवस्था।
वन्दना श्रीमन्! गृहविज्ञानमपि आवयोः पाठ्यविषयः। तस्मिन् गृहोपयोगी सर्वं शिक्ष्यते-भोजनकला रोगोपचारकला उद्यानकला।
तुलसीरामः (विहसन्)
वत्से! तस्मादेव कलावती जातासि। गच्छ, कल्याणं भवेत्।
(उभे डाल्या आंग्लवेषभूषां पश्यन्त्यौ गच्छतः)
तुलसीरामः भ्रातः दीवानचन्द्र! प्रकृतमनुसरामस्तावत्। भवतः परिवारं दृष्ट्वा सन्तुष्टोऽस्मि। यद्यपि मम कन्या कान्वेण्टविद्यालये शिक्षिता तथापि किञ्चित्कालपर्यन्तम् अत्रापि निवत्स्यति। पश्चात्तु अनुकूलां व्यवस्थां करिष्यामि। अथ आलोकविषये किं चिन्तितं भवता?
दीवानचन्द्रः (हसन्)
किमहं चिन्तयिष्यामि? यद्यपि आलोक एम. ए. परीक्षामुत्तीर्णः क्वचित् शिक्षणं कर्तुं वाञ्छति, किन्तु (इत्यर्धोक्ते)
डाली (निरर्गलं हसन्ती)
डैड! व्हाट ए सिली आइडिया? दि-पुअर टीचर!
तुलसीरामः (सनिर्भर्त्सनम्)
डालि! वत्से! नैवमुपहसनीयम्। नेदं स्थानं कलिकाता। स्थानानुकूलमेव विचारा जायन्ते।
(विमला आंग्लवाक्यार्थमनवगत्यापि वितृष्णां नाट्यति)
तुलसीरामः दीवानचन्द्र! शिक्षणेन किं भविष्यति? मम एतावत्यः कर्मशाला वर्तन्ते। लक्षकोंटिमितो मम व्यापारः। मयि मृते, सर्वमपि मम पुत्र्या एव हस्ते गच्छति।
दीवानचन्द्रः (पत्न्या दृष्टिमवलोक्य सभयम्)
युज्यते युज्यते। सम्यगाह भवान्। भारतदेशे तु भिक्षावृत्तिरपि श्रेयस्करी न पुनः शिक्षा।
टिङ्कू (चित्रमेकं हस्ते निधाय प्रविश्य)
अम्ब! स्वामिनो विवेकानन्दस्य चित्रमिदं कक्षभित्तौ योजयानि?
विमला (सस्नेहम्)
योजय वत्स योजय! तूर्णमहमागच्छामि।
(इति गृहाभ्यन्तरं प्रविश्य टिङ्कू त्रिपादीमानीय आरुह्य च चित्रं कीलितुं प्रयतते परन्तु असन्तुलनवशात् भूमौ निपतति। ललाटे क्षतं जायते। कोलाहलं श्रुत्वा सर्वे धावन्ति। वन्दना स्वशाटिकां विदार्य क्षतं बध्नाति। रुधिरस्रवञ्व स्तम्भयति)
विमला (धावन्ती प्रविश्य)
किमभूत् किमभूत्? अये क्षतं जातम्? हे प्रभो! कीदृशं दुष्प्रभातमद्य वर्तते!
वन्दना अम्ब! अलं परिदेवनेन। मया क्षतं बद्धम्। रुधिरस्रवोऽपि निरुद्धः। न किमपि अत्याहितम्।
डाली डैड! ही शुड बी हास्पिटलाइज्ड!
विमला (सस्नेहं वन्दनामङ्के निधाय)
वत्से! शीलसौन्दर्यकरुणायाः मूर्तिरसि त्वम्। त्वां सम्प्राप्य गृहमिदं पूजामन्दिरं भविष्यति। तव सद्गुणा एव मे अतुलनीयं यौतकम्। मम अभीष्टम् उपायनम्!!
(तुलसीरामं प्रति)
श्रेष्ठिवर्य! श्रुतं भवता? वृता मया स्वकीया पुत्रवधूः। भवान् क्वचिदन्यत्र गच्छतु। नमस्ते।
(शोभा वन्दनाऽद्य मे भ्रातृजाया जाता इति भृशं क्रोशन्ती उच्छलति कूर्दति। नेपथ्ये च मंगलवाद्यध्वनिः श्रूयते)
।।जवनिकापातः।।
नात्मानमवसादयेत्
(भाषणप्रकृतिकमेकाङिकरूपकम्)
पात्रपरिचयः
दन्दशूकः (सूत्रधारः कश्चिच्चौरः)
पुरुषः (कश्चिद् दरिद्रो गृहपतिः)
नारी (काचिद् दरिद्रगृहिणी)
नात्मानमवसादयेत्
(भाषणप्रकृतिकमेकाङिकरूपकम्)
पात्राणीव यथारुचि प्रतिपलं निर्माति जीवब्रजं
नानारूपगुणात्मशक्तिनिलयं नानायति नित्यशः।
लीलामात्रविनोदितो विघटयत्यात्मप्रमाणस्च य-
स्तं वन्दे वरटस्थितं जलजजं देवं त्रिदेवोत्तमम्।।1
अपि च,
रात्रौ चन्द्रमसा तनोति रुचिरां कुन्दप्रियां कौमुदीं
दीप्तिं भास्करभासिताञ्च दिवसे सूर्येण योऽब्जप्रियाम्।
शैतल्यं सलिलेन भूरितपनं वैश्वानरेणानिशं
प्राणान् गन्धवहेन शर्म धरया तस्मै नमो वेधसे।।2
(पुष्पाञ्जलिं विकीर्य)
भोभोः नाट्यदर्शनप्रतीक्षारताः सहृदयाः यामुनगाङ्गसङ्गमनिवासिनः एष प्रणमति दन्दशूकः। ही ही ही ही भोः नाट्यारम्भे परम्परया समागच्छतः सूत्रधारस्य स्थाने मां दन्दशूकं दर्शं दर्शं कथमुपहसन्ति भवन्तः? भोः प्रजासृष्टिरिव काव्यसृष्टिरपि विधात्रधीना। कविरेव प्रजापतिरिति सत्यम्। यथाऽस्मै रोचते काव्यं तथेदं परिवर्तते। दन्दशूकस्य पाटच्चरस्य सूत्रधारीकरणं सूत्रधारस्य च दन्दशूकीकरणमित्युभयमपि तस्यागरवेधसो वामहस्तक्रीडा।
(सर्वतो गत्वा सदृष्टिक्षेपम्)
सोऽहमस्मि दन्दशूकी नाम चौरः। भारते स्वतन्त्रे जाते ममापि पदवृद्धिर्जाता। समाजे प्रतिष्ठाऽपि किञ्चिदौन्नत्यमारूढा। स्वातन्त्रयात्प्राक् सन्धिभेदक आसम्। मृद्भित्तिविदारणक्षमलौहक्षुरप्रमात्रसहायोऽहं निभृतनिभृतं ग्रामटिकासु आहिण्डमानोऽसितपक्षरात्रिषु कुक्कुरबुक्कनं परिहरन् सयत्नं क्वचित्सन्धिं विधाय मुष्टिमितमन्नं द्वित्राणि वा विक्टोरियाङिकतरूप्यकाण्येव बहु मन्यमानो जीवनं निर्वहन्नासम्।
हन्त भोः! ते हि नो दिवसा गताः! भारते सम्प्राप्तस्वातन्त्र्ये सर्वेऽप्यस्मत्सहचराः परिवर्तिताः। यद्यदेवाचरति श्रेष्ठस्तत्तदेवेतरो जन इति नवनीत चौरवचनं प्रमाणीकृत्य मयाऽपि युगानुरूपं परिवर्तनं स्वीकृतम्। पूर्वकाये रक्षिजनोचितं बक्षोरतं (बुश्शर्ट) अधोभागे च पदलीनं (पतलून) भस्मवर्ण वसानोऽहमपि सन्धिभेदकादकस्मादेव दस्युराजो जातः।
इदानीं नाहिण्ड्यते मया ग्रामवीथीषु! प्रक्षिप्तं मया सन्धिविधानशुल्वसूत्रम्। जनदश्व इव परित्यक्तः क्षुरप्रः। कदर्थितम्मया प्राक्तनं सविधानकम्। इदानीं केवलं धनकुबेराणां वंशदीपान् प्रसह्य हरामि। लक्षमितञ्च धनं तेभ्यः स्वायत्तीकृत्य विमुञ्चामि। पणकमात्रमपि नात्र कलिविडम्बनम्।
न खदिरं न चूर्णं तथापि समधिकतररक्तवर्णं ताम्बूलम्!
(कैतवेनाट्टहासं जनयन्)
एवं परिचयः किमहं रोचे भवद्भ्यः? दारक! त्वं ब्रूहि। भ्रातः त्वं ब्रूहि। आर्ये! भवती ब्रवीतु। पितामह! भवानेव ब्रवीतु। अये न कोऽपि ब्रवीति! तत्किमहं न रोचे मनागपि भवद्भ्यः? तत् किं भवन्तः कामप्यपरां महीयसीं पदवृद्धिं मे समीहन्ते?
(सकुटिलहास्यं हस्तमाकाशे भ्रामयन्)
आं ज्ञातम्। ज्ञातमिदानीम्। भवतां मनोवृत्तिरूपलक्षिता मया। केचन सहचरा मे प्रोन्नत्येदानीं विधायकाः सञ्जाताः। मामपि विधायकं द्रष्टुमिच्छन्ति भवन्तः। अस्त्येवं न वा? (सहृदयेष्वट्टहासः)
विधायकोऽपि नाम लीलामलिम्लुचः।
गृहपारावत इव गृहदस्युरयं प्राणी। न सन्धिच्छेदस्यावश्यकता, न दारकापहणापेक्षा न वा रक्तपातसमस्या! सर्वं साध्यते प्रतिभुवा। तूण्णीमास्थाय प्रजापालननाटकमभिनयन्नपि दृष्ट्या लुण्टति सर्वस्वम्। अस्य मौनमेव भाषा। सङ्केत एव प्रणिधिः। विविधदृष्टिपाता एव जीवननिधनदुर्दशापर्यायाः। साक्षात्कृतान्तोऽयं प्रजावर्गस्य।
तदिदानीं स्पष्टं जातम्। भोः सहृदयाः! प्रतिश्रृणोम्यहं यदागामिनि विधानसभानिर्वाचने भवत्कृपयैव विधायकीभूय भवदाकांक्षां पूरयिष्यामि।
(नेपथ्येऽनुश्रूयते)
सायंतने कमलिनीमलिशङ्कुविद्धां
संल्लालयन् विमलशीतकरानुलेपैः।
विस्मृत्य शोकरयतो नियतेर्नियोगं,
नोऽगं रविर्जिगमिषत्यथ पश्चिमस्थनम्।।3
अपि च,
चान्द्री निशेयमथवाऽसितशर्वरी वा
निश्चीयतेऽप्यनुदिते न विधाविदानीम्।
सन्देहभञ्जितधृतिप्लवनास्तदित्थम्
अल्पाल्पमम्बरपथे प्रसरन्ति ताराः।।4
(श्लोकाभिप्रायं विज्ञाय सललाटताडनम्)
दारक दन्दशूक! इदानीं स्वकुटिलतया निहतोऽसि। अन्यत् कर्तुमाज्ञप्तो नाट्याचार्येण तत्रभवताऽभिराजराजेन्द्रेणान्यदेव कर्तुं व्यवसितः? तदिदानीं नास्ति ते मोक्षापायः। भवतु दुर्घटनातो विलम्ब एव श्रेयस्करः। साधु स्मारितमाचार्येण श्लोकाभ्याम्।
(सहृदयाभिमुखीभूय साञ्जलिपुटप्रणामम्)
नमो नवनीतचौराय गोविन्दाय! नमो वृहस्पतये चौर्यशास्त्रप्रवर्तकाय! नमश्चतुर्बेदिने शर्विलकाय सन्धिज्यामितिपण्डिताय! नमोऽस्मच्चौर्यसाक्षिभूतेभ्यो भवद्भ्यः।
(सर्वे दर्शकाः निर्भरं प्रहसन्ति)
भो सहृदयाः! प्रयागनगरवास्तव्याः! सम्प्रत्यात्मना सहैव भवत्समाजमपि परिवर्तयामि।
(डमरुकं वादयन् सहेलं नृत्यति)
सम्पन्नमिदानीं परिवर्तनम्! एष दाक्षिणात्यचौरोऽस्मि जातः। भवन्तोऽपि त्रिशिरपुरीवास्तव्याः वृन्दारकगवीकाव्यप्रसूनमरन्दमार्मिका मधुब्रताः। त्रिशिरःपुरीस्थायाः संस्कृतसाहित्यपरिषदः स्वर्णजयन्तीमहोत्सवे समागतानां भवतां मनोरञ्जनाय स्वाचार्येण किमप्येकाङ्करूपकं प्रस्तोतुमादिष्टोऽस्मि।
तदाज्ञासमकालमेव प्रस्तूयते मया नात्मानमवसादयेदित्यभिधेयं किमपि नवीनतममेकाङ्करूपकम्। यावदहं प्रकृतरूपकानुकूलं नेपथ्यविन्यासं सम्पाद्यागच्छामि तावत्संगीतलयलहरीमाकर्णयन्तु भवन्तः।
(नेपथ्ये संगीतध्वनिः स्फारीभवति)
विचारं त्वदीयं न जानामि बन्धो!
त्वदुत्थानगीतानि गायामि बन्धो!!
लतेयं त्वयैव ज्वलन्नीरसिक्ता
प्रकारं त्वदीयं न जानामि बन्धो!!
प्रसूनैर्विसोढो वियोगो लतानां
विहारं त्वदीयं न जानामि बन्धो!!
हृतं जीवनं सख्यमास्थाय यन्मे
प्रहारं त्वदीयं न जानामि बन्धो!!
विनैव श्रमं लक्षकोटीश्वरोऽसि
प्रभारं त्वदीयं न जानामि बन्धो!!
विनैवाग्विर्षं दहस्याशु शस्यं
तुषारं त्वदीयं न जानामि बन्धो!!5
(नेपथ्येऽनुश्रूयते)
हः हः हः हः ऽ ऽ ऽ अधुना सर्व ज्ञास्यसि! अन्यापदेशरीतिमवलम्ब्य बह्वरण्यरोदनं कृतं त्वया। सम्यगुपालब्धम्। परन्तु किमनेन भवति? अन्धः प्रगुणीकरिष्यति महिषोडिम्भस्तावच्चर्विष्यति।
(अपटीक्षेपेण प्रविष्य)
हः हः हः हः ऽ ऽ ऽ ऽ। भो दन्दशूकोऽस्मि। बहुषु नगरेषु स्वहस्तकौशलं प्रदर्श्य त्रिशिरःपुरीमिदानीमुपगतोऽस्मि। क्वचित्सन्धिविधानेन क्वचिन्मध्येमार्ग प्राणसंकटमयमुत्पाद्य क्वचित्सन्ततिव्यपहरणेन क्वचिंच्च प्रवञ्चनमात्रेण प्रभूतं धनं समाहृत्य दाक्षिणात्यानाञ्चोपकर्तुं समागतोऽस्म्यत्र। श्रुतम्मया यदत्र धनकुबेराः पदे-पदे विद्वांसश्च प्रतिरथ्यं निवसन्ति। अतएव धनार्जनमिति मद्विद्यादुर्लालनञ्चेति उभयमपि प्रयोजनमत्र सिद्धिमेष्यति।
(नेपथ्येऽनुश्रूयते ध्वनिः आऽऽकर्छिः इति)
दन्दशूकः (सामर्षम्)
अये! प्रथमग्रास एव मक्षिकापातः? भोः नासारज्जुकटुको बलीवर्द इव कोऽयमनवसरं हम्भारवमनुनासिकं जनयति? भवतु, किमनेन? यतो हि,
प्रियगृहोद्यमिनी ननु कामिनी धनजिहीर्षुरथोऽपि मलिम्लुचः
विहितविघ्नशतैरपि वारितो न खलु योज्यपथात्प्रतिवर्तते।।6
(निभृतपदैः परितः परिक्रम्य)
क्वाद्य कौशलं दर्शयामि? सर्वाण्यपि गृहाण्यत्रवसतौ पक्वेष्टिकाविनिर्मितानि। क्वचिदपि वातायनमुद्घाटितं न दृश्यते येन सझम्पमभ्यन्तरीभूय स्वसमीहितमनोरथं पूरयामि।
(परित्रः पश्यन् भवनमेकं निर्दिशन्)
हन्त! सिद्धमनोरथोऽस्मि। क्वचित्पर्याकुलकर्परः क्वचिद्विघटितच्छदिर्भग्नतोरणः खण्डितवितर्दिकश्चायमेक एव गेहो व्युन्निद्रवातायनकवाटो दृश्यते। तदलमर्गलाभञ्जनप्रयासैः। सर्पोंपि म्रियतां लगुडोऽपि न त्रुट्यतु! भवतु प्रविशामि।
(शनैः भग्नप्रायगृहसमीपमुपगम्य)
मन्येऽल्पसदस्यमिदं भवनम्। न दारकाणां विकलनिद्राणां नीनीबहुलश्चीत्कारो न वा मार्ज्यमाणानां पात्राणां खनत्कारो न वा प्रसुप्तानां कुटुम्बिनां घोणाहुङ्कारः। तत्किं विजनमेव गृहमिदम्? भवतु, प्रवेशं विना न किञ्चिदपि ज्ञातुं शक्यते।
(निश्शब्दं वातायनमार्गेण प्रविशति। पर्यटति चेतस्ततः)
अये! प्रेतवनमिव भयावहं गृहम्। कण्डिनी पेषिणी, चुल्ली, उदकुम्भीति सर्वमेवात्र दृश्यते। परन्तु कस्मिंश्चिदपि कक्षेऽट्टालिकायां वा मञ्जुषा न वर्तते। तत्किं निखातं धनं दुष्टेन गृहपतिना? यद्येवं तर्हि प्रबोध्य संत्रासयिष्यामि। प्रताडनैस्तु प्रेता अपि पलायन्ते।
(मध्यद्वारमुद्घाट्य पुरस्सर्तुं समीहते। वार्ताध्वनिं निशम्य)
अये कक्षान्तरे वार्ताध्वनिः श्रूयते। श्रोतव्यमिदानीम्।
(इति क्षेत्रपुरुषीभूय मौनमवलम्ब्य तिष्ठति)
नारीकण्ठः (ससीत्कारं सदैन्यञ्चः
मुञ्च तावत् पलालास्तरणम्। दारकोऽयं मदुत्संगेऽर्धनग्नो जातः। कदाचिच्छैत्येन पीड्येत।
पुरुषकण्ठः भाग्यवति! अलममर्षेण। न मया पलालास्तरणं सम्यक् गृहीतम्। त्वत्प्रीत्या वत्सप्रयोजनेन च पूर्वमेव मुक्तम्मया। पश्य तावत्। कूर्मीभूय स्वपिमि।
(नारी किञ्चिदुत्कन्धरीभूय पतिं पश्यति)
नारीकण्ठः सत्यमेव कूर्मीभूतोऽस्मि! मयाऽनार्यया मुधैवोपालब्धोऽसि। कियद् दुःखं सहसे? हे परमेश्वर! कथमेवं निष्ठुरोऽसि सञ्जातः? केभ्यश्चित् अपरिमेयमैंश्वर्यं प्रददासि। आवाभ्यां तावद्दन्तसीत्कारकारिणि पौषशीते ऊष्मप्रावारकमप्येकं न प्रयच्छसि? किमावयोः पूर्वजन्मकर्माणि पुण्यलेशमपि नार्हन्ति?
पुरुषकण्ठः भाग्यवति! अलमीश्वरमुपालभ्य! ईश्वरस्तु साक्षिमात्रम्। स न कमपिः दुःखाकरोति न वा सुखाकरोति। स्वकर्मविवाकं भजते मानवः।
(पलालास्तरण शिथिलयन्ती पत्नी रोदिति)
नारीकण्ठः आर्य! तृणकटं तावदाकर्ष। महच्छैत्यमनुभवसि। एषाऽहं दारकं स्वपटाञ्चलेन संवृणोमि।
पुरुषकण्ठः (ससम्भ्रमम्)
भाग्यवति! अलं साहसेन। त्वदेतावन्मात्रेण स्नेहेन विपत्तिग्रस्तो भवेयम्। दारके रुग्णे सति रोगोपचारमपि कारियतुं न शक्ष्यामि। दरिद्रप्रिया रोगा इत्यपि साध्ववैमि।
(दन्दशूको वातकिमं श्राव श्रात्रं करुणया प्रह्वीभूय तिष्ठति)
दन्दशूकः (आत्मगतम्)
हन्त भोः एतावती दारिद्र्यसृष्टिर्न मयाऽवेक्षिता पूर्वम्। सर्वथा धिङ् मां परद्रव्यापहारिणं लुण्ठाकम्। योऽहमनुदिनं परार्जितानि धनानि यथाकथाञ्चित् मुष्णन् क्लेशयामि तदर्जनपरायणान्। पापोपार्जितधनैश्च मदिरां निपीय वा द्यूतक्रीडां सम्पाद्य वा, वेशवाटमुपभुज्य वा दुष्कर्माणि सम्पादयामि। निर्गृहघट्टोऽस्मि रजकसारमेय इव। अपरतश्चेमौ दम्पती ययोः पार्श्वे कम्बल, क्रयमितमपि धनं नास्ति। सर्वथा धिङ् मां नृशंसमसाम्प्रतकारिणम्।
(अकस्मादेव शिशुः प्रबुध्य रोदिति)
पुरुषकण्ठः दृष्टं त्वयाऽऽत्मप्रणयफलम्। शैत्यपीडितो दारकोऽवबुद्धः?
नारीकण्ठः न शैत्यपीडितः। मया सम्यगाच्छादितः।
पुरुषकण्ठः तत्कथं रोदिति?
नारीकण्ठः (विवशतामनुभवति)
कथं कारणमन्विष्यसि? शान्तो भविष्यति। शिशवस्तु सुलभरोदना भवन्त्येव।
पुरुषकण्ठः (सदैन्यम्)
देवि! सर्व जानामि। कस्माद् गोपायसि? मन्ये क्षुत्क्षामकण्ठोऽयं रोदिति! कि करिष्यसीदानीम्? हा दैव!
अचर्वितयवा रुषं गिरति कोपना पेषिणी
उपायधृतमत्कुणा हसति दारुणं मञ्चिका।
बिभर्ति भयमाकुला निहतमूसला कण्डिनी
गृहे क्षपितवैभवे किमिव मामकं संकटम्।।7
दन्दशूकः (अश्रूणिपातयन् आत्मगतम्)
बन्धो! अलं दैन्यनिवेदनेन! धनकुबेराणामीश्वरः सर्व श्रृणोति! दरिद्राणां नारायमस्तु नेत्रान्धः कर्णबधिरः पादखञ्जः हृदयपाषाणश्च। तत्तादृशोऽक्षमस्य सर्वविधासमर्थस्येश्वरश्य समक्षं किमेवं वृथा प्रलपसि?
इदानीं प्रबुद्धोऽस्मि! इदानीं विदितोऽस्मि। हृदयान्धकारो मे व्यपगतः। प्रकाशौज्ज्वल्यं स्फारीभवति साम्प्रतम्। तद्बन्धो! स्वसामर्थ्येण धनान्युपार्ज्य ते दारिद्रयमपहरिष्यामि। इतः नात्मार्थमपितु त्वदर्थमेव धनोपार्जनं करिष्ये।
(चीत्कुर्वन्तं दारकं बहुशो लालयन्ती नारी तन्मुखे स्वपयोधरं योजयति)
नारीकण्ठः तूष्णीमुपगच्छ मम दारक! अलमलं रोदनेन। पिब दारक! दुग्धं पिब।
(चुम्बनध्वनिं प्रकटयन्ती)
च्चु च्चु च्चु.............। मम राजा! मम चन्द्रः! मम नेत्रतारकः। मा रुदिहि दारक!
(शिशुः यथाकथञ्चित् तूष्णीमेत्य स्तनं पिबति)
पुरुषकण्ठः भाग्यवति! इदानीं यथा सुखं स्वपितु तथा प्रयतितव्यम्। शिशुनिद्राया वृद्धरसनायाः वा किं खलु प्रमाणम्? गृहाण, निखिलमेव पलालास्तरणं योजय।
नारीकण्ठः (साभ्यर्थनम्)
भोः किमेव साहसमनुतिष्ठसि? दारकस्येदृशी चिन्ता? न चात्मनः? निशीथे नापगते क्व यास्यसि?
पुरुषकण्ठः देवि! अलं चिन्तया! भक्ष्याभावे मृतापि धेनुरुपकरोति। तद्भक्षणावशिष्टं बाहुपरिधिपरिमितं पलालमद्यापि गृहकोणे राराज्यते। तत्रैव गत्वाऽऽत्मप्रबन्धं विधास्ये।
नारीकण्ठः स्वामिन्! यद्येवं तर्हि पलालभारमत्रैवानय। मत्पार्श्वमेव स्वपिहि। एकाकिनी खलु भयमनुभवामि।
पुरुषकण्ठः (मधुरं प्रहसन्)
विभेषि? कस्माद् विभेषि?
नारीकण्ठः चौरात्!
पुरुषकण्ठः (साट्टहासम्)
कीदृशी मुग्धासि! निहतमतिके! चौराः खलु दरिद्रगृहे किं करिष्यन्ति? किन्तव दारिद्रयं सन्दष्टुकामाः समेष्यन्ति? सर्वथा वीतचिन्तां भव। पलालं संगृह्यात्रैवागच्छामि।
(इति गृहकोणाभिमुखं गच्छति)
दन्दशूकः भगिनि! सत्यमेव चौरस्त्वद्गृहं प्रविष्टः। परन्तु न भेतव्यम्! इदानीं तव सोदरोऽस्मि जातः। एष दन्दशूकः शापितस्तव शीर्षेण यदितः प्रभृति दस्युवृत्त्या न जीविष्यामि। श्व एव प्रातरेत्य सम्बन्धं विधाय सोदरीभूय च त्वद्दारिद्रयं छेत्स्यामि।
(कटिप्रदेशे आबद्धां दीनारसम्पुटिकां शिथिलीकृत्य)
एष ते सोदरः शिशोर्मातुलस्त्वत्पत्युश्च श्यालको दन्दशूकः भ्रात्रुचितदक्षिणया स्नेहसमुदाचारं पालयति।
(इति दीनारपुटिकां कवाटावकांशेनाभ्यन्तरं पुरस्सारयति)
भगिनि! गच्छत्येष सोदरस्तेऽहभिज्ञातः। सर्वथा कुशलिनी भव।
(अविरलाश्रुक्लिन्ने नयने पटाञ्चलेन सारयन् यथागतं शनैरपक्रामति)
।।जवनिकापातः।।
स्वप्नाज्जागरणं वरम्!
(प्रतीकाश्रितमेकाङ्किरूपकम्)
पात्रपरिचयः
सूत्रधारः (कथापरिचायकः)
बलाका (सुभगम्मन्या कापि विश्वविद्यालयप्राध्यापिका)
जननी (बलाकाजननी)
स्वप्नर्षिः (शुभैषी कश्चिदाचार्यः)
आदिभाक् (पञ्चविंशतिवर्षदेशीयः कोऽपि देवपुरुषः)
नमोवाकः (द्वात्रिंशद्वर्षदेशीयः कोऽपि देवपुरुषः)
परिपाकः (चत्वारिंशद्वर्षदेशीयः कोऽपि देवपुरुषः)
विपाकः (पञ्चाशद्वर्षदेशीयः कोऽपि देवपुरुषः)
कुम्भीपाकः (षष्टिवर्षदेशीयः कोऽपि देवपुरुषः)
स्वप्नाज्जागरणं वरम्!
(प्रतीकाश्रितमेकाङ्किरूपकम्)
निशि निशि नवैश्चित्रैश्चित्तं विमोह्य धुतभ्रमं
पथि पथि चिदाकाशे यो वै विरोहयति ध्रुवम्।
उदयशिखरिस्कन्धे रूढे रवौ कृतविश्रमो
जयति नितरां स्वप्नप्रख्यः स कोऽपि नवेश्वरः।।1
अपि च,
चञ्चज्जागरनिर्विशेषममलं दुःखं यदीयं सुखं
बोधान्तं सुखयत्यमोधनिलयं क्लिश्नाति वाऽनारतम्।
चित्तं सारयति स्मृतिव्यतिकरैराह्लादरम्यैः फलैः
नेष्टोऽपि प्रथते समष्टिसुरुचिं स्वप्नाय तस्मैः नमः।।2
(नान्द्यते ततः प्रविशति गृहीतपुष्पाञ्जलिः सूत्रधारः)
सूत्रधारः प्रयागविश्वविद्यालयशताब्दीसमारोहः समुपस्थिता अयि भोः नाट्यप्रयोगदर्शनलालसाः सहृदयाः! अद्याहं समाज्ञप्तोऽस्मि रङ्गवेलानाट्यसंस्थाध्यक्षवर्यैरभिराजराजेन्द्रमिश्रमहाभागैः सर्वथा नूतनरूपकं किमपि प्रयोक्तुम्। तत्प्रस्तूयतेऽस्माभिरद्यस्वप्नाज्जागरणं वरमित्यभिधेयं नूतनमेकाङ्कम्। कर्त्तारोऽस्य लघुनाट्यस्यास्माकं संस्थाध्यक्षमहाभागा एव।
(नेपथ्ये श्रूयते)
पितरं सच्चिदानन्दं मातरं ज्ञानदेवताम्।
प्रणमत्येष राजेन्द्रः सोदरं नर्मदेश्वरम्।।3
मनोवाक्कर्मसम्भिन्नं ख्यातिदृष्ट्याऽधमाधमम्।
प्रत्यूहपरिहारार्थं वन्देऽभिनवशूद्रकम्।।4
(सविलासं परिक्रामन्)
श्रुतं भवद्भि? आर्याः! स्वाभिधानोच्चारणसमकालमेव नाट्यकर्त्रा यथाऽत्मपरिचयः प्रस्तुतस्तेन स्फुटं प्रतीयते यत्प्रतीकावलम्बि नाट्यमिदम्। यतो हि कविः नारायणं सरस्वतीं शङ्करञ्च पितरं मातरं भ्रातरञ्च निगदति। प्रत्यवायभूतं पिशुनञ्चापि प्रणमति कविर्नवीनया पदशय्यया।
भवतु। महत्संकटाद् वारितोऽस्मि। अन्यथा प्राक्तनपरम्परामनुपालयता मयाऽपि नाम कविप्रशंसा प्रस्तोतव्यैवासीत्। तदलमिदानीमन्तरायीभूतेन मया। नाट्यमेव पश्यन्तु भवन्तः।
(परिक्रम्य सनिर्देशम्)
भोः सहृदयाः! शिष्टजनवसतिं सम्प्राप्ता वयम्। इदमस्ति भवनं बलाकायाः विश्वविद्यालयीयायाः कस्याश्चित् प्राध्यापिकायाः। यौवनप्रसाददेहलीदत्तचरणेयं बाला मुखेन न्यूनं समधिकञ्च पाठयति कटाक्षच्छटाभिः। शिष्यत्वापेक्षया सेवकत्वमस्याः सम्पादयितुं समधिकतरं धृतलालसा वर्तन्तेऽधीतिनश्छात्राः। पश्यन्तु तावत्। प्रातर्दशवादनात् सायं चतुर्वादनं यावत् महता श्रमेण माणवकानध्याप्येदानीं सुखं शेते सरस्वतीसुषमेयम्। यथा हि,
नेत्रे सम्पुटिते कुवेलललिते स्वप्नश्रियं बिभ्रति
विस्तीर्णञ्च कपोलमण्डलमिदं पूर्णेंन्दुशोभावहम्।
अव्यक्ताक्षरबन्धुरोऽयमधरो मन्ये सुषुप्तावपि
लोकं शिक्षयति प्रमोहविकलं सौन्दर्यशास्त्रं नवम्।।5
तत् निभालयन्तु भवन्तः किमियं भणति!
(इति नाठ्येन अपसर्पति। बलाकोत्स्वप्नायते)
बलाका (स्वप्नेऽध्यापनमभिनयन्ती)
प्रकृतमनुसरामस्तावत्। कादयो मावसानाः स्पर्शाः। ककार आदौ मकारश्चावसाने येषां ते वर्णाः स्पर्शसंज्ञामर्हन्ति। एतदुक्तं भवति यत् करग्रहणे चायपाने ताम्बूलभक्षणे पुस्तकादानप्रदाने मुखचुम्बने च स्पर्शो भवत्येव। छात्राः! अवगतः सूत्रार्थो न वा?
(श्रुतिमभिनीय)
किमाह? नेयं व्याख्या वरदराजाचार्यलिखिते व्याकरणे वरीवर्ति? तर्हि किमनेन? नव्यव्याकरणमिदम्। स्वप्रतिभयाऽभिनवां व्याख्यां प्रस्तौमि।
स्वप्नर्षिः (अकस्मात् प्रविश्य)
बलाके! किं पाठयसि?
बलाका (ससम्भ्रमम्)
अये! उपाध्यायः समागतः? गुरुवर्य! बलाका प्रणमति सादरम्।
स्वप्नर्षिः भद्रे! चिरञ्जीव। कथय, किं पाठयसि?
बलाका (सोद्वेगम्)
गुरुवर्य! किं वदानि! अद्यतनाश्छात्रा गोमयबुद्धय एव। अवगमिता अपि नावगच्छन्ति किञ्चित्। क्षेत्रेपुरुषा इव निश्चलास्तिष्ठन्ति कक्षायाम्। केवलं मम मुखं पश्यन्ति।
स्वप्नर्षिः (स्मेराननः सन्)
भद्रे! कथं न पश्यन्तु बराकाः! क्षीरधवला चन्द्रिका सजलो जलधरः प्रभिन्नकुवलययुगलम् प्रमत्ता रोदरपटली बन्धूककुसुमम् परिस्फुटदाडिमबीजानि शुकशावकानुकृतिः-हन्त भोः एकस्मिन्नेव तवानने किं किं न राराज्यते? श्रमं बिनैव सर्वमेकत्रोपलभ्यते।
बलाका (लज्जामनुभूय)
उपाध्याय! जानामि भवतां सौहार्दम्। प्रकृत्यैव नर्मपेशलो भवान्। सामान्यवार्तालापेऽपि भवतां लोकोत्तरवर्णनानिपुणं काव्यं प्रभवति।
स्वप्नर्षिः बलाके! नाहं रूपसौन्दर्यप्रशस्तिचारणः। युगप्रवृतिं विज्ञायैव मया प्रस्तुतं वाचिकम्।
बलाका भवतु। युक्तमाह गुरुवर्यः।
स्वप्नर्षिः बलाके! मन्येऽध्यापनकर्मणि महती रुचिस्ते। कं विशेषमत्र पश्यसि त्वम्?
बलाका आचार्य! प्राख्यातोपाध्यायः सन्नपि भवान् विशेषं पृच्छतीति भवदभिप्रायं नावैमि।
स्वप्नर्षिः भद्रे! अलमन्यथोत्प्रेक्ष्य। नारीजीवनस्य सार्थकतोद्वाह एवेतिमानिना मयानुरुद्धासि। पुरुषे लवलीवलयकोमलत्वमिव नार्यामपि चण्डपाण्डित्यं न शोभते। नार्याः शोभा गृहदेहलीपरिमिते प्राङ्गण एव।
बलाका आचार्य! कीदृशमद्य भणति भवान्? नारीस्वातन्त्र्ययुगमिदम्!
स्वप्नर्षिः भद्रे! साधु निगदसि। परन्तु युवती नारी प्राध्यापिका वा स्यात् आयकराधिकारिणी वा, राजनेत्री वा सर्वत्रापि सा स्वयौवनमूल्येन स्वरूपसौन्दर्यमूल्येनैव वाऽभिज्ञायते।
बलाका आयार्य! पुरुषगुणपक्षपाती भवान्। पूर्वमीदृशो नासीत्। कोऽयं नूतनो व्यामोहः समजनि?
स्वप्नर्षिः भद्रे! स्वानुभवः सर्व शिक्षयति। नैके भ्रमा ते तर्कं विनैव व्यपगताः। नारीविषयेऽपि ममायमेवानुभवः।
बलाका किं दायित्वं निर्वोढुं नार्यक्षमा? किं नारी पुरुषं तुलयितुं न समर्था?
स्वप्नर्षिः बलाके। ममाभिप्रायं न गृहणासि। नारी सर्वगुणमण्डिता सर्वकलापण्डिता। तथापि रूपसौन्दर्यमेव तस्या अभिज्ञानम्। पञ्चशरनाट्यव्यतिकररंगायमाणं तस्या जीवनमिति मन्मतम्।
बलाका (आत्मगतम्)
सम्यगाह आचार्यः। सम्प्रति कां वाचोयुक्तिमाश्रयानि?
(प्रकाशम्)
आचार्य! स्ववाचिके भवान् किं सत्यं पश्यति?
स्वप्नर्षिः वलाके! त्वयैवोक्तं यन्माणवकास्तवाध्यापनमुपेक्षमाणास्त्वदानन-चकोरीभूतास्तिष्ठन्ति। किमदम्? किमत्र प्रभवतितरां ते लावण्यमध्यापनं वा?
अनुदिनं समाचारपत्रेषु पठ्यते। अद्य कापि ग्रामसेविका केनापि खण्डविकासाधिकारिणा धर्षिता। अमुकनगरे अमुकभृत्या स्वगृहस्वामिना पारितोषिकैः प्रलोभ्य समुपभुक्ता।
किमिदं नाम? पुरुषः कया दृष्टया नारीं पश्यति? किं स्त्रीषुनौत्साहो न क्षमां नार्जवं न कार्यक्षमता न शौर्यं न धैर्य न सहनशीलता न प्रतिभा न वा विविधदायित्वोद्वहशक्तिः? परन्तु मानवस्तस्यां केवलं चित्तप्रमाथि लावण्यं निरीक्षते नान्यत्।
बलाका (सादरम्)
सम्यगाह आचार्यः।
स्वप्नर्षिः भद्रे! नाहं पुरुषपक्षपाती। परन्तु निसर्ग एवात्र प्रभवति। यया दृष्ट्या नारायणो लक्ष्मीं भूतभावनः शिवो रुद्राणीं पुरन्दरः शचीं दिवसः सन्ध्यावधूटीमाकाशो वसुन्धरां पश्यति तयैव दृष्ट्या पुरुषोऽपि नारीं पश्यति। आसृष्टेर्युगान्तं यावत् नेयं दृष्टिः परिवर्तयितुं शक्यते। पुरुषः स्वपौरुषेण स्वगुणेन वा महीयते नारी पुनः स्वरूपलावण्येन।
बलाका (लज्जामनुभूय)
भवतु। स्वपराजयं स्वीकरोमि।
स्वप्नर्षिः भद्रे! तव पराजय एव विजयः। यतो हि सौन्दर्यनिधानभूतासि।
(क्वाटताडनध्वनिं निशम्य)
बलाके! कोऽपि संवृतं कपाटं ताडयति। गच्छ, उद्घाट्य द्वारम्। गच्छाम्यहम्। स्वस्ति भवत्यै!
(अकस्मादेव महानुल्कापिण्ड इव कक्षे पतति। चण्डध्वनिश्च स्फारीभवति। अट्टहासं जनयन् पञ्चविंशतिवर्षदेशीयः कोऽपि सुदर्शनो युवकः प्रकटीभवति।)
बलाका (उत्थातुं प्रयतमाना साश्चर्यम्)
भोः कोऽसि त्वम्? अर्गलितेऽपि द्वारे कथमागतोऽसि? किन्तेऽत्रागमनप्रयोजनम्?
आदिभाक् (अट्टहासं जनयन्)
हः हः हः हः हः ऽ ऽ ऽ। देवि! अन्यानपि हरिद्राकन्दलीभूतान् प्रश्नान् युगपदेव पृच्छ तावत्। सर्वंश्रुत्वैव स्वपरिचयं दास्ये।
बलाका (सोद्वेगम्)
भोः अलमुपहासेन। कथय, कोऽसि त्वम्?
आदिभाक् देवि! त्वन्नियतसहचरोऽस्मि। तथापि नाभिजानासि?
बलाका भोः सुभगम्मन्य! अलं प्रहेलिकया। स्पष्टं भण, कोऽसि त्वम्?
आदिभाक् अयि कोपने! न शोभते रोषस्ते। अहमस्मि ते प्रियवयस्यः। संस्कृतज्ञा मामादिभाजं कथयन्ति। आङ्गलभाषाविदस्तावत् ऐडहाक् (Adhoc) नाम्ना सम्बोधयन्ति माम्।
बलाका (सोद्वेगम्)
एवम्? आदिभाक् भवान्! भो भद्रपुरुष! रमणीयस्ते परिचयः। साम्प्रतं ब्रूहि निजागमनप्रयोजनम्?
आदिभाक् बलाके! एतन्मात्रमाख्यापयितुं समागतोऽस्मि यत् संवत्सरद्वयमात्रमितमावयोः सख्यम्।
बलाका (प्रश्नगर्भां दृष्टिं योजयन्ती)
सर्वथा मूढः प्रतिभासि! किमधरोत्तरं बुक्कसि? कीदृशमावयोःसख्यम्? कदा स्थापितं मयेदं सख्यम्?
आदिभाक् पश्य कोपने! विश्वविद्यालयप्राध्यापिका कियदेव पूर्वं नियुक्तिं लभेत् एकविंशतिवर्षदेशीया तु भवत्येव। एतत्पूर्वं कः खलु एम्. ए. परीक्षामुत्तरति? भवत्यपि द्वाविंशतितमे वर्षे स्ववयसो नियुक्तिमुपगता। इदानीं त्रयोविंशतिवर्षदेशीयाऽसि। पञ्चविंशतिं यावत् विधाताऽपि त्वां विरोद्धुं न समर्थो भविष्यति।
बलाका न खल्ववगच्छामि ते कूटव्याहरणम्।
आदिभाक् (स्मितं जनयन्)
बलाके! पश्य! पञ्चविंशतिवर्षाणि यावत् सौन्दर्यं नापक्षीयते। दिग्विजयिनी भवति रमणी। न तावत् वैदुषीबलेन अपितु भुवनविमोहनक्षमेण लावण्यबलैनैव प्राध्यापकपदे नियोज्यते सा।
बलाका मृषावादोऽयम्। किमहं सौन्दर्यबलेन नियुक्ताऽस्मि?
आदिभाक् अथ किम्? सौन्दर्याभिभूतास्ते गुणाः। बलाके! द्राक्षामधुरं स्मितकमेव तेऽमरुशतकम्। नासाश्रवणमणिबन्धचरणाङ्गुल्यलङ्कारा एव ब्रह्मानन्दसहोदरभूता रसचर्वणा। तवाङ्गसौष्ठवमेव रीतिसम्प्रदायः। तव सरसवाचिकमेव वक्रोक्तिसम्प्रदायः। तवानुकूल्यमेवौचित्यसम्प्रदायः! तव (इत्यर्धोक्ते)
बलाका (निर्भरं विहसन्ती)
आदिभाक्! सत्यमेव सरस्वतीपुत्रोऽसि! रोचसे त्वं मह्यम्। इदानीं स्वीकरोम्यावयोः संख्यम्।
आदिभाक् (पदगतिं समाकर्ण्य ससम्भ्रमम्)
बलाके! यथावसरं पुनरागमिष्यामि। एष ममाग्रजो नमोवाकः समागच्छति।
(पुनरपि कक्षे सूर्योदय इव जायते। द्वात्रिशद्वर्षदेशीयः कोऽपि सहृदयः सुरुचिसम्पन्नो जनः परिलक्ष्यते)
नमोवाकः (सस्नेहम्)
देवि! बलाके। अहमस्मि आदिभागग्रजो नमोवाकः। पञ्चविंशतेः समारभ्य द्वात्रिंशद्वर्षाणि यावत् त्वत्साहचर्ये निवत्स्यामि।
बलाका (सासूयम्)
भोः किमिदम्? न ज्ञानं न वाऽभिज्ञानम्। महामान्योऽसि जातः? कोऽसि त्वम्?
नमोवाकः बलाके! किमादिभाज। नाख्यातम्? दुग्धमुखोऽस्ति वराकः। भद्रे! विश्वविद्यालयेऽध्यापनं कुर्वाणाया रमण्या भाग्यसूत्रधारभूता वयं पञ्चपाण्डवोपमाः पञ्च भ्रातरः। धातुर्नियोगात् वयं सर्वे पर्यायेण सहचरीभूयः नियुक्तेरारभ्य सेवानिवृत्तिं यावत् त्वया सह निवत्स्यामः। आवयोः साहचर्यं सप्तसंवत्सरमितं स्थास्यति। पञ्चविंशतेरनन्तरमहमागमिष्यामि। द्वात्रिशत्तमं यावत्स्थास्यामि।
बलाका श्रुतं श्रुतम्। किमर्थमागतं त्वयेति वाच्यम्। किं तवापि वर्तते किञ्चित् नामकरणरहस्यम्?
नमोवाकः अथ किम्। देवि! पञ्चविंशतिं समतिक्रामन्ती प्राध्यापिका स्वलोकप्रियतां किञ्चित्विजहाति। यतो हि तावता कालेन म्लायति सिन्दुवारकुसुममञ्जरीविभ्रमा कपोलच्छविः। विकीर्णमौक्तिकनिभा विरलायते धवलदशनपक्तिः। शुक्तिगर्तायते नयनम्। शर्वरीकालुष्यं खण्डयन्ती उल्कापातलेखेव क्वचित् दृश्यते पलितकेशलेखा।
बलाका भो दुर्मुख! निरर्थकमिदं वर्णनम्। किमत्र चित्रम्? कालः सर्वान् पचतीति ध्रुवम्। नश्वरे शरीरे तूत्तरोत्तरं विकृतिर्जायत एव।
नमोवाकः देवि! सत्यमुच्यते भवत्या। अस्मिन्नेव संकटे नमोवाकोऽहं सांयात्रिकीभूय प्राध्यापिकाया भग्नप्रायां जीवनतरणीं वारयामि। एषु सप्तवर्षेषु नमस्कारं प्रणतिं विनम्रतां प्रणामाञ्जलिं कृत कस्मितकं कदाचिदाकूणितं वल्गु कटाक्षं सन्दिग्धस्पर्शादिकञ्चैवावलम्ब्य वराकी प्राध्यापिका स्वलोकप्रियतां संरक्षितुं पारयति।
बलाका महाशय नमोवाक! उत्तरचरिते भविष्यति ते प्रयोगः। इदानीं सुखं गच्छ। पञ्चविंशतिवर्षदेशीया सती त्वत्साहाय्यं याचिष्ये।
नमोवाकः देवि! अकथितोऽपि यास्याम्येव। यतो हि मम भ्रातरो परिपाकविपाकौ सममेवागच्छतः। भवतु, नमो भवत्यै।
बलाका (चण्डध्वनिं दारुणपदगर्तिमाकर्णयन्ती सभयं सोद्वेगम्)
हे प्रभो! किं भविष्यतीदानीम्?
(कलहायमानौ परिपाकविपाकौ प्रविशतः)
परिपाकः प्रागहम्।
विपाकः भो न त्वम्। प्रागहम्।
परिपाकः चतुरक्षरं मम नाम। त्र्यक्षरं तावत्तव। अतएव प्रागहम्।
विपाकः (तर्काभावे स्वपराजयं स्वीकुर्वन्)
भवतु। त्वमेव प्राक्। पश्चादहं वक्ष्यामि।
परिपाकः भद्रे बलाके! अहमस्मि परिपाकस्तव तृतीयः सहचरः। अष्ठवर्षमितं ममायुष्यम्। द्वात्रिशतः प्रारभ्य चत्वारिंशत्तमं यावत् त्वया सह निवत्स्यामि।
विपाकः देवि! विपाकोऽहमस्मि। दशवर्षमितं ममायुष्यम्। चत्वारिशत्तः प्रारभ्य पञ्चाशत्तमं यावत् त्वत्सेवां करिष्ये।
(बलाका स्तिमितनयनैरुभौ निभालयति)
परिपाकः देवि! परिपाककाले सर्वेऽपि गुणा दोषायन्ते। केशकुन्तलभारः काशायते। दन्तपंक्तय मलिनायन्ते। पलितवलीपर्याकुलं भवति कपोलमण्डलम्। परिपाककाले प्राध्यापिका स्वासामर्थ्य प्रत्यक्षमनुभवति। विक्षिप्ततां जनयति तस्याः कटाक्षविक्षेपः। मर्माणि भिनत्ति नर्मवचनम्। अमर्षमेवोत्पादयति कादाचित्कसंस्पर्शः।
विपाकः ममापि च (इत्यर्धोक्ते)
परिपाकः भोः सहोदर! सावशेषं मे वचः। कृपया धैर्यमवलम्ब्य मुहूर्त तिष्ठतु भवान्।
तद् देवि बलाके! ईदृशे खलु कालविपर्यये समुपस्थितेऽहमेव सहायो भविता। परिपाकोऽहमस्मि। अतएव प्रीतिपरिपाकेन बुद्धिपरिपाकेन गुणपरिपाकेन वा दोषांस्तेऽपहरिष्यामि। पूर्वप्रणयिनस्ते विनष्टभोगाकांक्षाः साम्प्रतं निष्कामसख्यं विधास्यन्ति। यदज्ञानं यदध्यापनस्खलनम् आदिभाक्कालेऽक्षम्यमासीत् तदेव भविष्यति विभूषणमिदानीम्।
विपाकः देवि! यथा कर्मविपाकबन्धनवशीकृतः प्राणी जन्ममरणदुःखं सततं सहते तथैव उद्दामयौवनमपि विपाकेन दन्दह्यते। विपाके समागत एव अस्तंगतदन्ततारकं भविष्यति ते वदनगह्वराकाशम्। निर्जलपल्लवनिभे भविष्यतो नयने। निसर्गप्रणयिनोऽपि ते पृथक् स्थायिनो भविष्यन्ति। श्लथा भविष्यति दृष्टिः। विलम्बिबृहज्जरुथा द्रक्ष्यते स्थूलदेहवल्ली। तदाऽहम् (इत्यर्धोक्ते)
बलाका (भयविह्वला सती सनिर्भर्त्सनम्)
तदा त्वं मम पार्श्वे भविष्यसीत्येव तेऽभिप्रायः? ममाकारणवैरिणः! निभृतनिभृतं पलायध्वम्। अन्यथा दण्डप्रहारैः शिरांसि युष्माकं रञ्जयिष्यामि।
(इति भैरवगत्योत्थाय दण्ड गृह्णाति। उभौ पलायेते)
आः दुर्दैव! सत्यमेव भाविजीवने एतत्सर्व भविष्यति? इयमनंगलतिका तनुः पिशाची भविष्यति?
रूपसौन्दर्य मे नक्ष्यति? (इति पटाञ्चलेन मुखं पिधाय करुण रोदिति। अकस्मादेव कक्षान्धकारे कापि विकराला दानवाकृतिः साट्टहासं परिलक्ष्यते)
कुम्भीपाकः हः हः हः हः हः ऽ ऽ ऽ ऽ। अहमस्मि कुम्भीपाकः। भोः श्रुतं न वा? कुम्भीपाकोऽहमस्मि। सेवानिवृत्तिकाले जर्जरे बार्धक्येऽहमेव ते सहचरो भविष्यामि। यदा सुहृद्विहीना पश्चात्तापैकशरणा मृतेव, मूर्च्छितेव विकलेव निखिलदिग्दिगन्तान् शून्यं मन्यमाना त्वं सर्वजनोपेक्षां सहिष्यसे तदाहं कुम्भीपाकस्तुभ्यं प्राणपाथेयं दास्यामि। हः हः ह हः ऽ ऽ ऽ ऽ ऽ।
(कुम्भीपाकदर्शनभीताऽट्टहासातङिकता च बलाकाऽकस्मात् चीत्कुर्वाणा प्रबोधमेति)
बलाका (सचीत्कारम्)
अम्ब! वारय बारय! नहि नहि, नाहं कुम्भीपाकं ग्रहीष्यामि।
(इति प्रमत्तेव विलपति। तस्याः क्रन्दनं श्रुत्वा सर्वेऽपि कुटुम्बिनः द्रुतमायान्ति)
जननी वत्से बलाके! किमभूत्? दुःस्वप्नः कोऽपि दृष्टः किम्? कोऽयं दैवहतकः कुम्भीपाकः?
बलाका (स्वप्नं स्मरन्ती)
अम्ब! दुःस्वप्न एवासीत्। इदानीमेकाकिनी न स्वप्स्यामि। अम्ब! त्वदुत्संग एव स्वपिमि। श्रावय कामपि लोककथाम्। हन्तः भोः! स्वप्नाज्जागरणमेव वरम्।
जननी भवतु। एहि, ममैव पार्श्वे स्वपिहि। श्वो मङ्गलवासरोऽस्ति। अनिष्टनिवारणं ते कारयिष्यामि। नूनं कस्यापि दृष्टिस्त्वयि निक्षिप्ता। (उभौ शय्यामुपगच्छतः)
।।जवनिकापातः)
पुनर्मेलनम्
(समुत्प्रेरकं शिशुजनैकाङ्कम्)
पात्रपरिचयः
भूपालः (छात्रः कश्चिद् धनाढ्यपुत्रः)
शोमनः (भूपालसहपाठी, निर्धनश्छात्रः)
मोहनः (शोभनस्य मित्रम्)
दीनानाथः (अध्यापकः)
रामदीनः राजपुरुषौ रक्षिणौ
मेवालालः राजपुरुषौ रक्षिणौ
राजलक्ष्मीः (कान्वेण्टविद्यालयस्य छात्रा काचित्)
पुनर्मेलनम्
(समुत्प्रेरकं शिशुजनैकाङ्कम्)
महानगरस्य सुरुचिसम्पन्ने वसतिखण्डे कश्चिन्माध्यमिकविद्यालयः। सर्वतोऽपि जनसन्मर्दः परिलक्ष्यते। विद्यालयप्रवेशद्वारे छात्राणां विशालसमूहो राजते। केचन छात्रा यूथं निर्माय विद्यालयाभिमुखम् आगच्छन्तो दृश्यन्ते। पूर्वमेव समागताः केचन छात्रा मुद्गफलानि चर्वन्ति परस्परं सपरिहासं लपन्ति च।
काश्चन बालिका विद्यालयपरिधानं परिधाय विद्यालयसमक्षवर्तिराजमार्गेण पूर्वदिशमभिवर्तन्ते। अविदूर एव वर्तते कान्वेण्टपद्धत्या प्रवर्तमानः कश्चिद् बालिकाविद्यालयः। केचन दुर्वृत्तछात्राः पथि गच्छन्तीनां छात्राणां वेशभूषां गतिमुद्रां वा सङ्केत्य ताः परिहसन्ति।
तन्वी सौन्दर्यवती च कापि शीलवती कन्या एकाकिन्येव गच्छन्ती दृश्यते। आभिजात्यं तद्धावभावाभ्यां साधु प्रकाशते। विद्यालयस्यैक उद्धतश्छात्रस्तां प्रतीक्षते विद्यालयद्वारसमुपेयुषीम्।
भूपालः आगच्छति बन्धवः आगच्छति। एषा हेमामालिनी आगच्छति। (कन्या टूरत एव श्रृणोति वाक्यं तथापि न वक्ति किञ्चित्) तदलं विलम्बेन। विद्यालयछात्राः कृपया पङिक्तबद्धाः ‘सैल्यूटं’ निवेदयितुं बद्धपरिकरा भवन्तु।
(केचन बण्डछात्रास्तद्वचसा प्रेरिताश्चड्क्रमणं प्रस्तुवन्ति)
शोभनः (सवेगं पार्श्वमागत्य)
भूपाल! किमिदम्? बन्धो! कुटिलाचारस्यापि कश्चिदवसरो भवति। नेदमत्र युज्यते।
भूपालः मुसलमृगाङ्क! कुतस्त्वं मध्यमापतितोऽसि? अतोऽपि रम्यतरोऽवसरः को भवितुमर्हति?
शोभनः अभिजातकन्यामेकां मध्येमार्गमेवमाविलयितु न लज्जसे?
भूपालः (सोपहासम्)
भोः प्रोफेसर! माऽधिकं टिप्टिपायस्व। नेयं कक्षाया मानीटरी। गच्छ, खट्वाकीट इव गृहकोणे कस्मिंश्चिन्निलीय ग्रन्थवाक्यानि रट। चर्व वा शब्दचणकानि।
(स्वमित्रगणाभिमुखी भूय)
अलम्भोः। बन्धवः हेमामालिनी समक्षमेवागतप्राया परिलक्ष्यते। अद्य त्वस्याश्चन्दनायितं वदनं चञ्चलं नयनयुगलं साधु द्रष्टव्यमेव। सौभाग्यवशादेवाद्य हरिणी गच्छत्येकाकिनी।
शोभनः (सप्रतिरोधम्)
भूपाल! मयि वर्तमाने ईदृशं घृणित्तं व्यवहर्तुं न शक्नोषि त्वम्। कलङ्कयसि पुनरस्य विद्यालयस्य समुज्जवलां कीर्तिम्।
भूपालः (सोल्लुण्ठम्)
भद्र शोभन! दरिद्रसन्ततिरसि। चिन्तय तावद्रोटिकां द्विदलञ्च। नागरजनानामभिरुचिं त्वं नावगमिष्यसि। गच्छ, वत्स! यथासुखं गच्छ।
शोभनः साधु साधु! सम्यगुच्यते त्वया। दरिद्रसन्ततिरेवास्मि। भद्रोटिकाद्विदलप्रबन्धस्तु निर्विघ्नं सम्पाद्यते। पश्यामि पुनस्तव धनकुबेरत्वमपि! वर्धस्व! अद्भुतं सद्व्यसनमधिगतं भूपालचरणेन? परन्तु भद्र! यामबमन्तुमिच्छसि सा खलु त्वज्जन्मदातारमपि क्रेतुं शक्नोति।
भूपालः (सक्रोधम्)
अपेहि। निरर्गलं बुक्किष्यसि चेन्निखिलमपि शोभनत्वं ते पृथक्करिष्यामि। श्यालक! हाईस्कूलकक्षायां प्रान्ते प्रथमस्थानं सम्प्राप्यैव गर्वितोऽसि? अवनौ पदानि विषमीभवन्ति? ब्रह्मणाधम! पाटच्चर! भिक्षुक??
शोभनः भूपाल! जिह्वां संयम्य वार्तां प्रवर्तय अन्यथा........।
भूपालः (किञ्चिदग्रेसरीभय)
अन्यथा किं करिष्यसि?
शोभनः तदेव करिष्यामि यन्नाभिरुचितं नाभिप्रेतन्ते।
भूपालः तिष्ठ तावत्। निमेषद्वयानन्तरमेव पश्यामि ते पराक्रमम्।
(कन्या विद्यालयद्वारमुपतिष्ठते। भूपालो लघुलोष्टमेकं हस्तेनोत्थाप्य छात्राः लक्ष्यीकरोति)
शोभनः (सझम्पं सबलात्कारं लीष्टमागृह्णन्)
प्राक् भणितं मया यन्मय्युपस्थिते न धाष्टर्यमाचरितं शक्नोषि। परन्तु भूपाल! समधिकतरं नीचोऽसि निर्मर्यादोऽसि निर्लज्जोऽसि। यदीयमेव बाला तव भगिन्यभविष्यत् केनचिल्लम्पटेन लोष्टं प्रक्षिप्य दुर्व्यवहृता चाभविष्यत्तर्हि किमभविष्यत्त्वत्कृते?
भूपालः (अपमानममर्षञ्चानुभवन्)
श्यालक! खसूचिन्! एष कथयामि स्वानुभूतिम्।
(पादहस्तप्रहारंश्शोभनमाहन्तुं प्रवर्तते। शोभनोऽपि ससाहसं दृढमभियुज्यते। द्वावपि परस्परं संघटयतः। बालिका साहसं प्रदर्शयन्ती तत्रैव स्थिता भवति)
राजलक्ष्मीः (पार्श्वस्थबालकान् सम्बोध्य)
अये! यूयं सर्वे तिष्ठन्तश्चर्चरीं निभालयथ? कथं न द्वावपि पृथक्कुरुथ?
(बालकाः किंर्क्तव्यविमूढास्तिष्ठन्ति)
साधु। अवगतम्मया युष्माकं यूथपतिर्नासीरे युध्यति इतिकृत्वैव यूयं क्लीबाः जाताः? किमयं बण्डश्छात्र आजीवनं युष्मान् चायविस्कुटादीनि भोजयिष्यति? किमयं युष्मभ्यमाजीविकां वृत्तिं वा दास्यति? अयि भोः कथमेतावन्न चिन्त्यते युष्माभिर्यत् स्वकदाचारे लम्पटतायां वा सम्प्राप्तं युष्मत्साहाय्यमात्रं पुरस्कर्तुकामीऽयं श्रेष्ठिपुत्रः द्वित्राणि रुप्यकाणि युष्मत्कृते व्ययीकरोति!
छात्रमेकमासाद्य
भवतु नाम। त्वमेव ब्रूहि। किं शोभनेन कदापि तवापमानौ विहितः?
बालकः (सदैन्यम्)
न खलु। असौ तु सर्वेषु अतितरां स्निह्यति।
राजलक्ष्मीः यदि शोभनोऽपि धनाढ्योऽभविष्यत्तर्हि युष्मत्कृते किं सोऽपि व्ययं नाकरिष्यत्। किमसौ कृपणोऽस्ति?
बालकः नहि नहि। निर्धनः सन्नपि शोभनो विशालहृदयोऽस्ति। छात्रवृत्तिसम्प्राप्त्यवसरे तेन समग्रसहपाठिभ्यः टॉफी विभक्तासीत्।
राजलक्ष्मीः बन्धोः! एक एवापरः प्रश्नः क्रियते। निखिलेऽप्युत्तरप्रदेशराज्ये विद्यालयस्यास्य कीर्तिः सोभनमुखेन चकास्ति भूपालमुखेन वा?
(बालकः प्रश्नस्य गूढाभिप्रायमविजान्निव साश्चर्यं पश्यन् तिष्ठति)
पश्य भ्रातः! अहमिव त्वमपि इण्टरकक्षाया उत्तराधे भविष्यसि प्रथमार्धे वा। सर्वथा त्वं मम सोदरोऽसि। अहमस्मि त्वद्भगिनीसदृशी। राजलक्ष्मीर्ममाभिधानम्। एतावन्मात्रमपि ममानुनयं कि नाङ्गीकरिष्यसि? भ्रातः! वारय शोभनम्।
बालकः (राजलक्ष्मीववनेन प्रभावितस्सन् सलज्जम्)
भगिनि! सत्यमेव महनीयकुलोत्पन्नास्ति भवती। परमभिजातास्ति भवति। मम चक्षुषी भवत्योन्मीलिते। भवतु, तिष्ठन्तु तावत् भवत्यः।
(सझम्पमग्रेसरीभूय भूपालं दृढमागृह्य विघटयितुं प्रयतते)
भूपालः मोहन! मुञ्च माम्। श्यालकमद्यावलेहं विधास्ये। मान्यतरोऽयं (मानीटर) भवति कक्षायाः।
(सदीर्घनिःश्वासम्)
लुञ्चितोऽयमिव दशद्वादशमिता बालकास्तु मम गृहे कर्मकरा वर्तन्ते। अस्य पिताऽपि ममैव गृहे पूजापाठं कृत्वा दक्षिणां संहरति।
बालकः (सनिर्भर्त्सनम्)
भूपाल! चैतन्यमेहि। यावत्कृतं त्वया तावदेव प्राज्यम्। यदि नामेदानीं किञ्चिदप्यधरोत्तरं प्रलपिष्यसि तर्हि ध्रुवमेव भग्नमुखीकरिष्यसे?
भूपालः (साश्चर्यम्)
लालाटिक! किमिदं ते जातम्? कीदृशमिदं विसंवदसि?
बालकः भोः उक्तम्मया यत् किञ्चिदप्यधरोत्तरं प्रलिपष्यसि तर्हि......।
भूपालः तूष्णीं भज जारजात्! यस्मिन्नेव पात्रे भोजनं। तस्मिन्नेव छेदनम्?
बालकः (द्रंष्ट्रोपरि दुस्सहं मुष्टिप्रहारं कुर्वन्)
निभालय वत्सक! पात्रच्छिद्रं पिदधाम्येषः। गच्छेदानीम्। कमपि दन्तचिकित्सकं याचस्व।
(भूपालोऽसह्यदंष्ट्राघातवेदनां नाटयन् भूमावुपविशति)
भूपालः (उत्थाय)
भवतु वत्सक! त्वामपि द्रक्ष्यामि। कन्यया कयाचिन्मनाङ्मन्त्रित एव द्रवीभूतोऽसि?
बालकः सम्यगभिधेहि भूपाल! अन्यथाऽपरामपि द्रंष्टां विघटयिष्यामि। नेयं कन्या कापि। अद्यप्रभृति मम भगिनी सञ्जाता।
भूपालः याहि याहि। त्वादृशाः पञ्चाशल्लालाटिकाः प्राप्स्यन्ते। रक्ष स्वकीयां ज्येष्ठभगिनीम्। हुः विजयतामार्या विजयताञ्च सहोदरः।
बालकः बन्धवः! श्रुतं युष्माभिः? किं वुक्कतीयं राजपुत्रः? यूयं जानीथ यन्ममैव बलेन भूपालोऽयं प्रमाद्यति स्म। अनेन कियन्त्येव निन्द्यकार्याणि मत्तः कारितानि। तस्मिन् दिने नेत्रान्धयाचकस्य यष्टिकामाकुञ्च्य तं वराकं शातितवान्। ह्यश्य संस्कृताध्यापकस्य गुरुवर्यस्य कक्षां समुत्सारितवान्। तदापि मयाऽवबोधितम्। दृष्टं तावत्? अद्यतनं वृत्तं तु प्रत्यक्षमेव वर्तते। बन्धवः आर्या राजलक्ष्मीः कियदृजुकाऽभिजात्यसम्पन्ना च वर्तते। तस्या मंत्रितानि तु युष्माभिरपि श्रुतान्येव? सम्प्रत्ययं कथयति यत् युष्मादृशाः पञ्चाशन्मितास्तेनोपलप्स्यन्ते। ब्रूत भोः किमस्य लालाटिका यूयम्?
एकः स्वरः लालाटिकोऽस्त्यस्य दुश्चरित्रस्तातः।
द्वितीय स्वरः निर्धनानां रुधिराणि शोषं शोषं येनाट्टालिकोत्थापिता।
तृतीयः स्वरः लालाटिकवादिनं खञ्जीकरिष्यामो वयम्।
चतुर्थः स्वरः म्रियतां म्रियतां भूपालः। विजयतां विजयतां शोभनः। विजयतां विजयतां मोहनः। विजयतां विजयतामार्या राजलक्ष्मीः।
(नेपथ्ये जयजीवशब्दावृत्तिः श्रूयते। अकस्मादेव गणिताध्यापको दीनानाथ आगच्छन् संदृश्यते)
एकःस्वरः पलायध्वं पलायध्वम्। हिटलरगुरुः समागतः। गृहीते सति व्याधुन्वन् तुषीकरिष्यति।
(सर्वे छात्रा भर्भारायमाणाः पलायन्ते। दीनानाथः प्रवेशद्वारमासाद्य तिष्ठति। शोभनस्य दुःस्थितिमाकलयन्)
दीनानाथः वत्स शोभन! किन्तेऽभूत्? इयं धूलिः कर्दमश्चयत्? अये? त्वद्वामजानुकृत्तिरपि निष्कुषिता? किमेतत्सर्वम्?
(शोभनस्तूष्णीं भजते)
मोहन! त्वमेव ब्रूहि। किं केनापि मारितम्?
मोहनः (निष्ठीवां निगिरन्)
गुरुवर्य। एवमेतत्। भूपालश्शोभनं भूमौ निपात्य ताडितवान्।
(भूपालो घटनां प्रभवन्तीं दृष्ट्वैव द्रुतं पलायते)
दीनानाथः (साक्रोशं श्रावयन्)
तिष्ठ भूपाल! तिष्ठ। तिष्ठान्यथा परावृत्ते सति सम्यक् प्राघुणोचितम् उपचारं करिष्ये।
भूपालः (पलायमान एव)
गुरुदेव! न गङ्गदत्तः पुनरेति कूपम्।
दीनानाथः (शोभनस्य स्कन्धोपरि हस्तं विन्यस्य)
शोभन! कथमयं दुर्वत्तस्त्वयि परिलग्नः? ब्रूहि तावत्?
(शोभनो राजलक्ष्मीमाविलयितुं नेच्छति)
राजलक्ष्मीः गुरुवर्य! एषाऽहं कथयामि। राजलक्ष्मीरहमस्मि डाक्टर लोचनद्विवेदिनां तनुजा। कान्वेण्टविद्यालयेऽध्येमि इण्टरकक्षोत्तरार्धे। पलायितोऽयं दुष्टच्छात्रः प्रतिदिनं मां दृष्ट्वा दुर्वचनैस्सभाजयन्नासीत्। अद्य पुनः दौर्भाग्यवशादहमेकाकिन्यासम्। तस्माद्धाष्टर्यमस्य पराकाष्ठामुपगतम्।
मोहनः गुरुदेव! भ्रात्रा शोभनेन बहुशो निरुद्धो भूपालस्तथाप्यसौ आर्या राजलक्ष्मीं खलीकर्तुं लोष्टाघातं कर्तुमियेष। इदमैवाभूत्संघर्षकारणम्।
दीनानाथः (शोभनस्य शीर्ष सारयन्)
अलं सन्तप्य वत्सक! शरीरसम्पत्त्या त्वं भूपालादून एवासीः। तथापि प्रशंसनीयं तवात्मबलम्। सत्कार्यनिमित्तं त्वया संघर्षः कृतः। विद्यालयस्य प्रतिष्ठा संरक्षिता। एहि, त्वां प्राचार्यसमीपमुपनयानि। वत्से राजलक्ष्मी! डाक्टरलोचनस्तु मम सहपाठी। भाग्यवशादसौ विश्वविद्यालयमलकरोति विद्यालयं पुनरहम्। मम नमस्कारस्तस्मै निवेदनीयस्त्वया।
राजलक्ष्मीः बाढम्। पितृव्यचरण! गच्छाम्यहम्। शोभनं मोहनञ्च समानीय कदाचिद् गृहमागच्छन्तु भवन्तः।
(ग्रीवाभंगाभिरामं शोभनं मुहुः पश्यन्ती प्रतिष्ठते। दीनानाथोऽपि सशोभनी विद्यालयं प्रविशति)
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
राजमार्गसमीपस्थितमेवमारक्ष्यधिष्ठानम्। पार्श्ववर्तिमिष्टान्नविर्क्रेतृणां गान्धिकानां श्रेष्ठिनाञ्च आपणाः सन्दृश्यन्ते। अविदूर एव सघनवसतिकः कश्चिद् ग्रामोऽपि परिलक्ष्यते।
रक्ष्यधिष्ठाने रक्षिणः सावधानं पर्यटन्तो दृश्यन्ते। अधिष्ठानाधिकृत् कश्चित् पञ्चविंशतिवर्षदेशीयो नवयुवको वर्तते। स रक्षिद्वयेन सह वार्तामग्नोऽस्ति। रक्षिणोरेको रामदीनोऽपरश्च मेवालालोऽस्ति। अधिष्ठानकृच्च शोभनशुक्लानामधेयः।
रामदीनः श्रीमन्! अमोघं वर्तते लक्ष्यं तस्य माणवकस्य। शब्दवेधिनीं गुलिकां सन्धत्ते।
मेवालालः स्वामिन्! नियमधर्मयोश्च महान् पालको वर्तते। दस्युवृत्त्याऽवश्यं जीवति परन्तु प्रमादवशादपि निर्धनान् न शातयति न वा वधूजनं दुहितरं वा कुदृष्ट्याऽवलोकते।
शोभनः (साश्चर्यम्)
अहो चित्रमेतत्! कर्म दस्यूनां चरित्रञ्च महात्मनाम्? रामदीन! कदाचिदभ्यर्णचरीभूयं तं दृष्टवानसि?
रामदीनः (सोत्साहम्)
बाढम् बाढम्! भवत्पूर्ववर्ती अधिष्ठानाधिकृत् सक्सेनामहोदयोऽपि इमं दस्युदारकं दृढं मार्गयामास। एकदा तु मुखवीरात् स्थितिमस्य विज्ञाय सक्सेनामहोदयो भूपादस्युं दोनईधट्टं निकषो वने परितो रुणद्धिस्म। तस्मिन् दस्युग्रहाभियानेऽहमप्यासम्।
शोभनः किं घटितं तदा?
रामदीनः वृत्तमिदं स्वामिन् यत् भूपादस्युतेनैव मार्गेण स्यन्दिकां नदीमुत्तर्तुमागतवान्। परन्तु स चतुश्चतुर्मितानां पञ्च यूथानि विनिर्माय समागतः पञ्चमार्गैश्च घट्टाभिमुखमग्रेसरी बभूव।
शोभनः हन्त भोः! पटुत्वं त्वस्य सुल्तानाख्यं दस्युराजमनुहरति!
रामदीनः श्रीमद्भिरपि किमुच्यते? क्व दस्युराजः सुल्तानः क्व चायं दुग्धमुखो माणवकः? स्वामिन्! भूपादस्युस्त्वतीवसुन्दरो वर्तते। सर्वथा राजकुमारः प्रतीयते। न जाने कथं पदानि तस्य निषद्वरमग्नानि जातानि?
मेवालालः (अग्रसरीभूय)
स्वामिन्! अहं निवेदयामि! भूपादस्युरयं सत्यमेव राजकुमारः। पिता चास्य बाबूसुकुमारसिंह आंग्लशासनकाले द्विचत्वारिंशन्मितानां ग्रामाणां भूमिपतिरासीत्। विमातुर्वैमात्रिकाणाञ्चात्याचारैः सम्पीडितोऽयमुत्पतिष्णुर्युवको दुर्वृत्तिमिमामुपगतः।
शोभनः (अकस्मादेव विद्यालयघटनां संस्मरन्)
मेवालाल! अपि नाम भूपा किञ्चित् शिक्षितोऽपि?
मेवालालः स्वामिन्! दशमकक्षोत्तीर्णः खलु। इण्टरकक्षामुत्तीर्णो न वेति साधु न जाने। सक्सेनामहोदयोऽकथयत् यत् कस्मिंश्चित् कन्यकाप्रसंगे संघर्षं सन्धाय पलायितवात्। विद्यालयं पुनर्न गतवान्।
(शोभनस्य नयनद्वयमश्रुक्लिन्नं परिलक्ष्यते। स करप्रोञ्छण्याऽश्रूणि प्रोञ्छति)
रामदीनः स्वामिन्! किमिदम्? किमिदमभूद्भूवतः? किं भवान् भूपादस्युं जानाति?
शोभनः एवमेतत् रामदीन! विद्यालये भूपालसिंहो ममैव सहाध्याय्यासीत्। यां छात्रां कदर्थियतुं मया सह तस्य संघर्षो जातः सैव तवार्यावधूः मद्भार्याऽस्ति।?
रामदीनः स्वामिन्! किमुच्यते भवता? क्व भवादृशोऽधिष्ठानाधिकारी क्व चायं भूपादस्युः?
शोभनः भवतु नाम। मित्राणि! एतावन्मात्रमवधेयं युष्माभिः।
रामदीनः आज्ञापयन्तु श्रीमन्तः।
मेवालालः आज्ञापयन्तु श्रीमन्तः।
शोभनः यदि नाम कदाचित् भूपाऽस्माकं कूटग्रहे निबध्दोऽपि स्यात्तर्हि गुलिकाप्रहारो न कार्यः। यावच्छक्यप्रयत्नैः स मदभिमुखं प्रेरणीयः।
रामदीनः अवगतं स्वामिन्नवगतम्। यत् किञ्चिदपि स्यात्। परन्तु भूपादस्युर्भवत्सहपाठी वर्तते। कदाचित्तस्य जीवनं भवत्प्रत्नैर्व्यवस्थितं भवेत्!
शोभनः (एकतस्संकेतयन्)
सम्प्रति सन्नद्धा भवत। यानमागतम्। पूर्वनिश्चयानुसारं कार्यं साधनीयम्।
(सर्वेऽपि रक्षिणः यानमारुह्य प्रतिष्ठन्ते। शोभनश्चालकसमीपमुपविशति। कतिपयनिमेषानन्तरमेव द्रुतगत्या धावद्वाहनं निर्जनक्षेत्रमासाद्य तिष्ठति)
शोभनः चालक! यानमत्रैव स्थापय।
(रामदीनं प्रति)
पश्य रामदीन! मुखवीरसंकेतितं कर्पूरपुरग्रामोद्यानमिदमेव वर्तते। श्रेष्ठिदुःखहरणनिर्मापितं कालीमन्दिरमपि वर्ततेऽत्रैव। किमुक्तमासीत् गुप्तचरेण?
रामदीनः सन्ध्याकाले षङ्वादनेऽस्मिन्नेवोद्याने भूपादस्युः सहचरैस्सहैष्यति। अद्य रात्रौ सः शेखपुरग्रामे धनापहरणयोजनां चरितार्थयितुमिच्छति।
शोभनः साधु! इदानीं पृथग्भूय सर्वेऽपि उद्यानमिमं परितः परिवारयन्तु। मक्षिकाभिनत्कारोऽपि मा भवेत्। क्षेत्रशस्येषु सर्वे निलीनाः स्युः। ममाकाशप्रहारध्वनिं विना प्रहरणं कथमपि न प्रारप्स्यते।
(चालकं प्रति)
त्वमपि दूरं गच्छ। होरानन्तरमत्रैव पुनरागन्तव्यम्।
(चालकः शनकैरपयाति)
भवतु। विश यू आल बेस्ट आफ लक! सर्वेभ्यः स्वस्ति कामये। अहमप्येतस्मिन्नेव बर्जरक्षेत्रे निलीये।
(सर्वे तथा कुर्वन्ति। शोभनः स्वराजकीयं परिधानमपनीय साधारणजनोचितं वस्त्रं धारयति। रिवाल्वरञ्च कटौ निबध्नाति। भद्रपुरुषीभूय स क्षेत्राद्बहिर्भूय मार्गे तिष्ठति। द्वौ दस्यू शस्त्रास्त्रसन्नद्धौ वाटिकाभिमुखमागच्छन्तौ दृश्येते)
शोभनः (सनिःश्वासम्)
हे प्रभो! अपि नाम द्वयोरेकतरो भूपालः स्यात्?
(दस्यू समीपमागच्छतः। शोभनं दृष्ट्वा तौ द्विचक्रिकातोऽवतरतः। शोभनोऽज्ञानं नाटयति)
शोभनः (प्रथमदृष्ट्यैव भूपालं सम्यगभिज्ञाय)
अये भूपाल! त्वमसि?
भूपालः (अंगप्रच्छदेन मुखाकृतिं गोपयन् सचण्डस्वरम्)
को भूपालः? कस्त्वमसि? कस्त्वां प्रेषितवान्?
शोभनः (सस्मितम्)
भ्रातः भूपाल! अये शोभनं न प्रत्यभिजानासि त्वम्? काण्वेन्टछात्राया राजलक्ष्म्याः प्रसंगे येन सह तव संघर्षो जातः? कियान् आहत आसम्। पश्य तावत्!
(पदलीनवस्त्रमपसार्य वामजानु दर्शयति)
भूपालः (सवेगमासाद्य प्रगाढमालिङ्गय)
भ्रातश्शोभन! क्षमस्व तावत्। मम वृत्तिरेवेदृशी यत् प्रत्येकं जनोऽस्मत्कृते रक्षिगुप्तचर एव प्रतीयते।
शोभनः कस्मात् पुनः? भूपाल! का ते वृत्तिः?
भूपालः शोभन! मम वेषभूषां निभाल्य किं त्वं मद्वृत्तिमवगन्तुं न क्षमसे?
शोभनः सत्यमेव दस्युः प्रतीयसे बन्धो! परन्तु सत्यं भण। कां वृत्तिं निर्वहसि?
(भूपालोऽकस्मादेव हतप्रभो जायते)
भूपालः चतुष्पञ्चवर्षानन्तरं प्राप्तोऽसि शोभन! आत्मविषये किञ्चद् ब्रूहि?
शोभनः भोः किमिदम्? मत्प्रश्नो व्याधूतः। द्विदले कालिमा परिलक्ष्यते भूपाल? बन्धो! शप्तोऽसि मैत्र्या। अवितथं भण। अनन्तरं भणिष्याम्यहमपि।
(भूपालोऽश्रूणि प्रमार्जयति)
भूपालः भ्रातश्शोभन! तपस्विनीं राजलक्ष्मीं शातयित्वा दण्डमिदानी भुनज्मि। विद्यालयं त्यक्वा निर्गृहघट्टोऽभूवम्। मम विमाता सम्पत्त्यधिकारे मां प्रत्यवायं मन्यमानाऽसकृत् प्राणान्मे समुच्छेत्तुमियेष। तातोऽपि मद्रक्षणेऽशक्तो जातः। विमातुर्वैमात्रिकयोर्मातुलानाञ्चान्यायं ध्वंसयितुमेवान्ततो लौहभुजगीमिमांधृतवानस्मि।
(द्विनालिकां दर्शयति)
पश्चाद्वर्तिवृत्तानि मा पृच्छ शोभन! गृहं द्वारं ग्रामः कुटुम्बो मित्राणि बन्धवो ज्ञातिजनाः सर्वेऽपि परकीया अजायन्त मत्कृते। इदानीं तु बृहदेव विजनं मम नैशवासस्थानं वर्तते।
शोभनः (स्कन्धोपरि हस्तं निधाय)
भूपाल! कथन्नापनीयत इयं जीवनचर्या? अशिवोऽयं पन्थाः। मार्गोऽयं त्वां पतनोन्मुखं विधास्यति।
भूपालः सहस्रधा त्यक्तुमिच्छामि शोभन! सहस्रधा!! परन्तु किं करवाणि? रक्षाधिष्ठानं मिथ्याकलहेषु मां सन्निवेश्य जीवितमपि मे संशयापन्नं करोति। यावदेवोत्तर्तु प्रयते तावदेव दृढं मग्नोऽस्मि।
शोभनः (सस्नेहम्)
किं त्वमात्मसमर्पणमिच्छसि?
भूपालः न केवलमहम्। भ्रातः सर्वेऽप्यस्मत्सहचराः सभ्यजनजीवनचर्या वाञ्छन्ति। दोषाः कृता अस्माभिः। परन्तु न कृता हत्या, न वा व्यभिचारः कृतो न वा कोऽपि निर्दोषजनः शातितः।
(शोभनोऽश्रूणि प्रमार्जयति)
स्वापराधदण्डं प्रसन्नतया भोक्तुं सन्नद्धा वयम्। परन्तु रक्षिणोऽऽप्यार्जवमस्माकं साधु रक्षन्तु।
(शोभनः कटिप्रदेशान्निष्काष्य सीटिकां वादयति। क्षेत्रनिलीना रक्षिणो द्राग् बहिरायान्ति भूपालं तत्सहयोगिनञ्च शोभनसंकेतमवाप्य निबध्नन्ति)
भूपालः (किकर्त्तव्यविमूढः सन्)
किमिदम्? शोभन! प्रवञ्चितोऽस्मि त्वया? आरक्षिणां प्रमुखोऽसि त्वम्?
शोभनः (सस्नेहम्)
बाढम्! परन्तु विश्वसिहि मित्र! एतत्सर्वं त्वद्धिताय करोमि। मयि जीवति त्वमन्यायं न द्रक्ष्यसि। भूपाल! अन्तर्मनसेच्छाम्यहं यत्प्रसादनिर्भरं जीवनं जीव त्वमपि।
(सस्मितम्)
अपरञ्च। सर्वप्रथमं त्वद्भ्रातृजायाहस्तनिर्मितं स्वादु चायपेयमुष्णमुष्णं त्वां पाययिष्यामि। द्रक्ष्यसि यद् भ्रातृजाया ते हेमामालिनी कियद्रुचिरं पेयं घटयति।
भूपालः (स्मृतिं नाटयन् साश्चर्यम्)
किमुक्तं भवति?
शोभनः (सहासम्)
युक्तस्ते वितर्कः। हेमामालिनी भवति राजलक्ष्मीः। भूपाल! न त्वया साऽपमानिता भवेन्न मया वारिता न च साऽस्मत्प्रणयपयोनिधिमज्जिता स्यात्। सर्वमेवेदं नियतिप्रेरितं घटनाचक्रम्। आवयोरेकीकरणस्य श्रेयस्त्वामुपगच्छति भूपाल! आवयोः पुनर्मेलनस्यानन्दं राजलक्ष्मीरेवानुभविष्यति।
(द्वावपि निरर्गलं प्रहसतः)
।।जवनिकापातः।।
कन्थामाणिक्यम्
(समुत्प्रेरकं शिशुजनैकाङ्कम्)
पात्रपरिचयः
भवानीदत्तः (नगरस्य प्रसिद्धोऽधिवक्ता)
सिन्धुः (भवानीदत्तस्य तनुजः, छात्रः)
सोमधरः (सिन्धोः सहपाठी)
रामदत्तः भवानीदत्तस्य भृत्यौ
हरणः ’’ ’’ ’’ ’’
रत्ना (भवानीदत्तस्य पत्नी)
कन्थामाणिक्यम्
(समुत्प्रेरकं शिशुजनैकाङ्कम्)
।।प्रथमं दृश्यम्।।
नगरस्य सघनवसतौ प्रख्याताधिवक्तुर्भवानीदत्तस्य भवनम्। भवनान्तरे कलकलः श्रूयते।
भवानीदत्तः रामदत्त! अयि भो रामदत्तऽ ऽ ऽ। हरण! अयि भो हरणस्य दारक!
(रामदत्तहरणौ ससम्भ्रम धावन्तावगच्छतः)
हरणः अंगप्रच्छदेन हस्तौ मार्जयन्)
अन्नदातः! रसवत्यामासम्। किं कर्तुं युज्यते? आज्ञापयन्तु तावत्।
रामदत्तः वचोभिः प्रसादयन्)
स्वामिन्! शीलमानयानि उष्णं वा? आहोस्वित् पक्ववटिकादीनि खादितुमिच्छति भवान्?
भवानीदत्तः (रोषोत्तप्तां मुखाकृतिं किञ्चिन्मसृणयन्)
भ्राष्टे गच्छतु ते पक्ववटिका। सर्वेऽपि यूयं म्रियध्वे। आहूतोऽपि न बोल्लति कोऽपि। गृहमस्ति कस्यचित् भद्रपुरुषस्य भग्नावशेषो वा प्रेतानाम्?
रामदत्तः (सापराधमुद्रम्)
स्वामिन्! कार्यव्यापृतैरस्माभिः कदाचिन्नाकर्ण्यते परिस्फुटम्। तत्क्षमन्तामन्नदातारः।
भवानीदत्तः (सव्यङ्ग्यम्)
अन्नदातृदारक! अलं नाटकेन। गच्छ सिन्धमाह्वय तावत्। निषेधं नाटयेच्चेत् कर्णग्राहमानय।
हरणः (भयभीतस्सन्)
स्वामिन्! किं भर्तृदारकेण किञ्चिपदपराद्धम्? शिशवस्तु क्रीडां हेलां कुर्वन्त्येव। भवानिव अहमिव न तेऽधरोत्तरं विवाहनन्ति। स्वामिन्! भतृदारकस्तु इदानीमेव क्रीडित्वा समागतः। वधूराज्ञाः पार्श्वे भविष्यति।
भवानीदत्तः (कठोरस्वरेण)
हरण! कियद्वारं निर्दिष्टोऽसि यत् प्रवचनं वा बुक्क। यदुद्यते तदेव श्रृणु। किमवगतम्?
हरणः (सनैराश्यम्)
युक्तमेतत् स्वामिन्। एतदनन्तरं तावन्मात्रमेव श्रोष्यामि। भृत्यस्तावद् भवामि स्वामिन्! कथं खलु प्राज्यं श्रोतुं शक्नोमि? एष गच्छामि। (हरणो गच्छति। रामदत्तोऽपि तमनुसरति) (कतिपयनिमेषानन्तरमेव द्वापि भृत्यौ भवानीदत्तस्य पुस्तकालयमुपगच्छतः। पश्चाच्चाधिवक्तुः पत्नी रत्ना वत्सेन सार्धमायाति)
रत्ना किं वृत्तम्? अद्यागतप्राय एव वात्याचक्रमुत्थापयितुं प्रक्रमसे। कस्मिंश्चिद् व्यवहारे पराजितोऽसि किम्?
भवानीदत्तः (नीलकञ्चुकमवतारयन्)
गृहेश्वरि! इदानीं यावत् न्यायालयसत्रे भवानीदत्तः कमपि वादं व्यवहारं वा न भ्रंशितवान्। परन्तु भवत्या न्यायालये तु निरन्तरमेव खलीकृतोऽस्मि।
(हरणरामदत्तौ मुखे करप्रोंञ्छनीं विन्यस्याट्टहासं रोद्धुं प्रयतेते)
भवानीदत्तः (द्वापि निभाल्य)
बण्डौं पाटच्चरौ! युवां तत्र किमुपजपथः? स्वामिनीविजयमहोत्सवं नाटयथः? पलायेथां ततः? (भृत्यौ सहासं गृहाभ्यन्तरं पलायेते)
रत्ना (सस्मितम्)
अवितथं भण। किं वृत्तम्? मनःस्थितिः कथमद्य संस्खलति?
भवानीदत्तः (प्रक्षालनद्रोण्यां मुखं प्रक्षाल्य प्रच्छदेन च हस्तं मुखं मार्जयन्) इदानीमेव कथयामि। मुहूर्तमात्रं तावत्।
(सिन्धुर्जनन्यञ्चले दृढं सज्जते)
बाढम्। एष भणामि। मास्टर सिन्धो! इतस्तावत्।
सिन्धुः (कातरदृष्ट्या जनन्यभिमुखं पश्यन्)
अम्ब!
भवानीदत्तः (कठोरदृष्ट्या पश्यन्)
इतस्तावत्। तात आह्वयति नाम्बा। आगच्छ। हरी अप्।
रत्ना (दारकं लालयन्ती सविस्मयम्)
किं कृतवान् सिन्धुः? समागच्छन्नेवाग्निं वर्षसि? अहमपि तावदाकर्णयानि।
भवानीदत्तः (सिन्धुमाकृष्य)
देवि! तदेव वच्मि यत्तव सिन्धुना समाचरितम्। ब्रूहि मास्टरसिन्धो! नीचानां वसतौ किमथं गतवानसि?
सिन्धुः (सभयम्)
तात! मम सखा सोमू तत्र निवसति। तस्मात् स्वपुस्तकमानेतुं गतोऽस्मि।
भवानीदत्तः किं करोति तस्य पिता?
सन्धुः तस्य पिता ट्राल्यां निधाय शाकान् फलानि च विक्रीणाति।
भवानीदत्तः तव पिता च किं करोति?
सिन्धुः स तु उच्चन्यायालये वाक्कीलोऽस्ति।
भवानीदत्तः कीदृशं तव भवनम्?
सिन्धुः अतिसुन्दरं मम भवनम्। स्वच्छं निर्मलं च वर्तते।
भवानीदत्तः सोमधरस्य च कीदृशम्?
सिन्धुः तस्य गृहं नातिदीर्घम्। अस्वच्छवीथिकायाञ्च स्यितम्। न मार्षितं न चाप्यलंकृतम्।
भवानीदत्तः (सक्रोधम्)
मूढ! तस्य गृहमपि मलीमसं वसतिरपि मलीमसी, तस्य पिताऽपि शाकफलविक्रेता! एवम्भूतेऽपि किमर्थं तत्रागमस्त्वम्?
सिन्धुः (सदैन्यम्)
तात्! सोमधरो मम सुहृदस्ति। ममाध्यापिकाः पाठयति यत् सुहृल्लालयितव्यः।
भवानीदत्तः पृच्छाम्यहं मास्टरसिन्धो! तेन् सह त्वया सख्यमेव कस्मात् कृतम्? तस्मै स्वपुस्तकं कस्माद् दत्तम्? किमभिजातकुलोत्पन्नाश्छात्राः कक्षायां न सन्ति?
सिन्धुः तात! सोमू मय्यतितरां स्निह्यति। अध्ययनेऽप्यसौ तीक्ष्णो वर्तते। ममाध्यापिका तं मान्यतरं (मानीटरं) कृतवती।
भवानीदत्तः (सोद्वेगम्)
त्वं पुनः कथन्न तीक्ष्णोऽसि? फलविक्रेतुर्दारकः कथं त्वामतिशेते?
सिन्धुः (प्रतिवचनासामर्थ्यं नाटयन्)
तात! अहमपि तीक्ष्णोऽस्मि। अहं सोमू च द्वापि तीक्ष्णौ। सप्तमकक्षायां प्रथमोऽहमासं सोमू च द्वितीयः। इदानीमष्टमकक्षायां षाड्मासिकपरीक्षणे सोमधरोऽग्रेसरो वर्तते। परन्तु तात! वार्षिकपरीक्षणे पुनरप्यहं सोमधरमतिशयिष्ये।
भवानीदत्तः (बालकस्य वृद्धिवैभवाद् वैलक्ष्यमनुभवन्)
एवमेतत्। इदानीमवगतम्। एतदर्थमेव भवान् खटिकानां वसतौ गतवानासीत्? इदानीं सोमू एव भवन्तं पाठयिष्यति नाध्यापकः?
सिन्धुः तात! सोमधरोऽपि तावत् निजाभ्यासपञ्जिकां गणितस्य मह्यं ददाति। आवामेकीभूय प्रश्नान् समादध्वः।
भवानीदत्तः (सिन्धोः कर्ण किञ्चित्कुव्जीकुर्वन्)
मास्टर सिन्धो! अस्मात्परं शिक्षको भवन्तं गणिताध्यापयिष्यति। सोमधरेण न वा? भवान् खटिकवसती न पदं करिष्यति। सोमधरेण साकं मैत्रीवर्धनस्य न काप्यपेक्षा। कदाचित्पुनरपि यदि तत्र द्रक्ष्यसे तदा दृढं ताडयिष्यामि। गच्छ, इतः प्रतिष्ठस्व।
(सिन्धुरस्फुटं रुदत् गृहाभ्यन्तरं प्रविशति)
रत्ना (सरोषम्)
साधु साधु! विलक्षणं पितृहृदयमवाप्तम्! शिशोः सद्भावैरात्मानं शिक्षयितुं कश्चिन्तयति? आत्ममौढ्यमपलपितुं तस्य वराकस्य कर्णमेव भञ्जयितुं प्रवृत्तोऽसि?
भवानीदत्तः यू शटऽप मैडम्! खटिकवसतेः संस्कृति त्वं नावबुध्यसि। ज्ञातुमिच्छसि चेत्कस्मिंश्चिदिद्ने पर्यटनं सम्पादय।
रत्ना अलं मां शिक्षितेन? मम मातृगेहेऽपि खटिका अन्यजातयश्च वर्तन्ते। स्वपितामहसदृशमेवाहं भूपालं पितामहपदेन समबोधयम्। भूपालस्य नप्त्री मम प्रेष्ठा सख्यासीत्।
भवानीदत्तः (साट्टहासम्)
शोभनं शोभनम्! इदामीमवगतम्मया मास्टरसिन्धोः खटिकानुरागरहस्यम्!
रत्ना अलमुपहासेन। त्वं वसतेर्मलिनतां पश्यसि, खटिकानां दैन्यं पश्यसि। परन्तु तेषां दरिद्राणां सद्भावनां हृदयनैर्मल्यं द्रष्टुं न शक्नोषि। वाक्कीलानां छलछद्मकपटाचारेभ्यो लक्षगुणाधिकं महीयते तेषां श्रमजीविनां जीवनम्।
भवानीदत्तः मम जीवनं छलछद्मविकलमित्येव ते विवक्षा? कथं न तर्हि पितरं कथितवती नाहं वाक्कीलं कमपि परिणेष्यामि?
रत्ना अथ किम्! उत्थानेऽवस्थाने स्वप्ने जागरणे गृहे मार्गे न्यायालये सर्वत्रापि केवलमसत्यं प्रवञ्चनं षड्यंत्रो वा प्रभवति। वादविजय एव तीर्थाटनमिव। नैतत्सर्वं मह्यं रोचते। पित्रे निवेदनीयमासीदिति यदुक्तं तदपि न युक्तियुक्तम्। विवाहकाले भवान् बी. ए. परीक्षार्थी आसीत्। भविष्यकाले भवान् किं भविष्यतीति को ज्ञातुं शशाक?
भवानीदत्तः (अपमानमनुभूय)
हन्तः भो! ईदृशो ग्रन्थिस्तव मनसी? अद्यैव साधु परिलक्षितम्।
रत्ना सहजं मयोदितम्। अलमन्यथा प्रकल्प्य तत्सर्वम्। सर्वथा विशदा मे मनोवृत्तिः। परन्त्वहं मिथ्यावैभवविलासप्रदर्शने ऐश्वर्योत्सेके च न विश्वसिमि। ईश्वरः प्रत्येकं जनं स्वाभिरुच्या सर्जितवान्। दैन्यं धनाढ्यत्वञ्च समाजव्यवस्थयोत्पद्येते। दीनखटिकस्यापि दारकः सर्वविधाभावग्रस्तो गुणेन प्रतिभया च त्वत्पुत्रकमनुहरति कदाचिदतिशेते वा इत्येव मत्कथनस्य प्रमाणम्।
भवानीदत्तः (सदीर्घनिःश्वासम्)
ओ माई गाड! अद्य पुनर्वादे पराजितोऽभूवम्।
रत्नाः (सस्मितम्)
एहि तावत्। भोजनं निर्वर्तय।
(गृहाभ्यन्तरे भृत्ययोरट्टहासः श्रूयते)
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
सन्ध्याकालस्य चतुर्वादनवेला। अधिवक्ता भवानीदत्तः स्वपुस्तकालये निषण्णी दूरभाषयन्त्रं बहुशः प्रवर्तयति। तद्भार्या रत्नाऽपि पार्श्वस्थमासन्दीमुपविश्य चिन्तां नाटयति।
भवानीदत्तः हलो हल्लो ऽ ऽ ऽ भारद्वाजविद्यानिकेतनम्? का नु खलु भवती ब्रवीति? हलो, प्राचार्या? बाढं बाढम्। अयमहं भवानीदत्तो ब्रवीमि। नमस्करोमि तावत्। पश्यन्तु तावत्। चतुर्वादनं जातम्। कतिपयनिमेषा समधिकमेव व्यतीताः। परन्तु मम दारक इदानीं यावद् गृहं नायातः। किं विद्यालयेऽद्य कश्चिन्महोत्सवो वर्तते?
(श्रुतिमभिनीय)
किमुक्तं सपादत्रिवादन एवावकाशो जातः? साधु साधु!!
रत्ना (ससम्भ्रमम्)
किमुक्तवती प्राचार्या? त्रिवादनेऽवकाशो जातः? अत एव चिन्तिताऽस्मि। प्रतिदिनं सिन्धुः सार्धत्रिवादनं यावदागच्छति। गच्छतु भवान्। स्कूटरेण गच्छतु। पश्यतु तावन्मध्येमार्गं विद्यालयवाहनं क्व वर्तते?
भवानीदत्तः गच्छामि गच्छामि। त्वं पुनः शिशुरिव धैर्यहीना जायते। अमङ्गलं मनसि कस्माच्चिन्तयसि?
रत्ना भवान्न जानाति राजपथवृत्तम्। मुमूर्षवो द्राग्यानचालका मदिराप्रभावैर्निहतचेतनास्सन्तश्चालयंति। कोऽपि म्रियत वा जीवेद् वा? तेषां हतकानां किं जायते? एतत्सर्वं स्मारं स्मारं निमज्जति मम हृदयम्।
भवानीदत्तः भवतु। शान्ता भव। त्वरितमागच्छामि।
(इति प्रस्थातुमिच्छति। अकस्मादेव रक्षायानमेकं भवनप्राङ्गणं प्रविश्यति। कश्चिद् बालकः सिन्धुमङ्गपाल्यां निश्राय रक्षायाने तिष्ठन्नास्ते)
भवानीदत्तः (सत्वरमुपसृत्य)
अये किमिदम्?
(सिन्धुं प्रत्यभिज्ञाय)
किं वत्स! सौमू तवैवाभिधानमस्ति?
सोमधरः (सविनयम्)
पितृव्य! अहमेवास्मि सोमधरः। सिन्धोर्विद्यालयवाहनमद्य केनचिद् द्राग्यानेन दृढमाहतम्। र्वेऽपि बालकाः क्षतविक्षता जाताः। वाहनं हित्वा द्रगयानचालकः पलायितः।
भवानीदत्तः त्वं पुनः कुत्रासीः?
सोमधरः पितृव्य! अहं पुनः प्रतिदिनमेव पदातिरागच्छामि। दुर्घटनामनुदशनिमेषानन्तरमेवाहं तत्रासादितवान्। महान् जनसम्मर्दस्तत्रावलोकितः। पितृव्य! ततः प्रभृत्येव सिन्धुर्मूर्च्छामुपगतौ वर्तते।
(वार्तालापं श्रूत्वा भृत्यौ रत्ना च बहिरायान्ति। रत्ना सिन्धुं निस्संज्ञमवलोक्य भृशं रोदिति)
भवानीदत्तः देवि! किमिदमाचरसि? न किञ्चिदत्याहितम्। इदानीमेवाहं भिषजमाह्वयामि। सिन्धुश्चैतन्यमेष्यति।
रत्ना (विलपन्ती)
यदि नाम मद्दारकस्य किञ्चिदभूत् नाहं जीवितुं शक्ष्यामि।
सोमधरः अम्ब! अलं चेतनां खलीकृत्य। डाक्टरधूलियामहोदयमानयामीदानीमेव। प्रतिवेश एव निवसत्यसौ।
भवानीदत्तः वत्स सोमधर! मा गकः कुत्रापि त्वम्। मातृसमीपमेव तिष्ठ। अहं दूरभाषयंत्रेणैव भिषजमाह् वयामि।
(मध्य एव सिन्धुश्चेतनामनुभवति। सोऽअम्बमाह्वयति)
सोमधरः (सहर्षम्)
पितृव्यचरण! अलं भिषगाह्वानेन। सिन्धुश्चैतन्यमागतः।
(भवानीदत्तः दारकसमीपं निवर्तते। रत्नानेत्रे आनन्दाश्रुपूरिते जायेते)
सिन्धुः (अम्बां तातं सोमधरञ्च दृष्ट्वा)
अम्ब! कथमहं गृहमागतः? मम वाहनन्तु द्राग्यानेन दृढमाहतमासीत्। वयं सर्वेऽपि तारस्वरेणाक्रोशाम। वाहनमस्माकं विपर्यस्तमासीत्।
रत्ना (दारकं प्रचुम्बन्ती)
एवमेतत् वत्स! विपर्यस्तं तव वाहनम्। सोमधरस्त्वामानीतवान् रक्षायानेन।
सिन्धुः (सप्रणयम्)
सोमू?
(अकस्मादेव पितरमुपस्थित दृष्ट्वा सिन्धः शिथिलीभवती। भवानीदत्तोऽग्रेसरीभूय सोमधरशीर्षे करतल सारयति। सिन्धुदृष्टिर्दीप्तिमुपगच्छति)
सोमधरः (सस्नेहम्)
सिन्धो! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया। श्व आवां पुनर्विद्यालयं गमिष्यावः। भवतु, पितृव्य! गच्छामि इदानीम्। नमस्ते। अम्ब! नमस्ते!!
भवानीदत्तः (समादिशन्निव)
वत्स सोमधर! मित्रगृहान्नैवं गन्तयव्म्। तिष्ठ तावत्। वयं सर्वेऽपि सहैवाल्पाहारं निर्वर्तयिष्यामः। सपीत्यनन्तरं गच्छसि।
सोमधरः पितृव्यचरण! स्वपितुः ट्राल्याः सज्जा मयैव करणीया वर्तते। स मां प्रतीक्षमाणो भविष्यति।
भवानीदत्तः (हतप्रभः सन्)
वत्स सोमधर! सत्यमेवासि त्वं कन्थामाणिक्यम्। सिन्धुस्त्वामतितरां प्रशंसति। इतःप्रभृति तव शिक्षणव्यवस्थामहं सम्पादयिष्यामि।
(भृत्यौ अल्पाहारमानयतः। सर्वेऽपि निषीदन्त्यशितुम्)
बाढम्। सोमधर! श्व एवाहं युवयोः कृते द्विचक्रिके क्रेष्यामि। युवां द्वावपि सावधानं प्रवर्तयतम्। सहैव गच्छत सहैवागच्छतम्। तव शुल्कं तव तातो ददाति?
सोमधरः न खलु। शुल्कस्तु मुक्तः। पुअरब्वाय्जफण्डतः पञ्चविंशतिरुप्यकाण्यपि प्राप्यन्ते।
भवानीदत्तः शोभनं पुत्रक! तथापि यदि धनमपेक्ष्येत तर्हि मां भणिष्यसि।
सोमधरः (चायपेयं परिसमाप्य समुत्तिष्ठन्)
पितृव्यचरण! गच्छामि तावत्। नमस्ते। अम्ब! प्रणमामि। सिन्धो! श्वो मिलिष्यावः।
भवानीदत्तः (रत्नां प्रति)
रत्ने! सत्यमेव सिन्ध्वभिरुचिं प्रशंसामि। सोमू कन्थामाणिक्यमेव वर्तते। इदानीं न मे घृणा दरिद्रवसतिं प्रति। अद्यप्रभृत्यहं त्वन्नेत्राभ्यां संसारं द्रक्ष्यामि।
।।शनैर्जवनिका पतति।।