कुटुम्बरक्षणम्
(ऐतिहासिकमेकाङ्कनाटकम्)
पात्रपरिचयः
राबहम्मीरसिंहः (रणस्तम्भपुराधीशश्चाहमाननरेशः)
महिमाशाहः (अलाउद्दीनसैनिकः कश्चिन्मुगलः हम्मीरशरणागतः)
मानबाई (हम्मीरसिंहराजमहिष्याश्चेट्यौ)
मदिरा ’’ ’’ ’’ ’’
समुद्घोषकः (सूत्रधारः)
कुटुम्बरक्षणम्
(ऐतिहासिकमेकाङ्कनाट्यम्)
(नेपथ्येऽनुश्रूयते)
व्योमस्कन्धावलग्ना विगतनृपकथोत्थानविध्वसंदूताः
प्रासादा भूरिश्रृङ्गाः कृमिरवमुखरा वृत्तमञ्चन्ति येषाम्।
सम्राजस्तेऽपि यस्य भ्रकुटिपुटबलैर्नामिशेषत्वमीयुः
कालं कल्पान्तभालं महितहरितनुं नौमि पूर्णस्वतन्त्रम्।।1
अपि च,
यदट्टहासोद्धतवायुवेगात् तृणीकृता भूभृदमेयशक्तिः।
अनन्ततारापथकोणलीना पुराणगाथात्वमिता जयेत्सः।।2
भोः भोः सहृदयाः! पश्यन्तु तावत् सृष्टिनटीनर्तनसाक्षिभूतस्य महाकालस्य लीलाविलासम्। नामशेषतामुपगतेषु रामकृष्णयुधिष्ठिरप्रभृतिषु मृत्युतल्पमङ्गीकृतवत्सु चाशोकविक्रमपुण्यमित्रपुलुमाविसमुद्रगुप्तहर्षपुलकेशिराजेन्द्रकुलशेखरभोजपृथ्वीराजादिषु भूपालरत्नेषु तुरुष्कशासनं प्रभवतितरां हिन्दुदेशे भारताभिधाने।
उपरता गुलामवंशीयाः शासकाः। इदानीं सुल्तानपदभाक् अलाउद्दीनो देहल्यां कल्पितराजधानीकः प्रतपति ज्येष्ठमासमार्तण्ड इव। प्रकृत्यैव दुर्मर्षणः पैगम्बरमात्मानं मन्यमानः स्वपितृव्यहन्ता अनयदुराचारकपटहिंसापटुरसौ निखिलमपि भारतं तुरुष्कीकर्तुमुद्यतो वर्तते।
देवगिरिनरपतिं रामचन्द्रदेवं प्रसह्य खलीकृत्य तद्राजमहिषीमनिन्द्यसुन्दरीं कमलादेवीञ्च स्वोपभोग्यां विधाय स इदानीं पृथ्वीराजवंशशिखावलं क्षत्रीयोत्तमरत्नभूतं मरुधराधीशं महाराजं श्रीहम्मीरदेवं मार्गकण्टकं मन्यमानस्तं जेतुं रणस्तम्भपुरों तद्राजधानीं सर्वतोऽवरुध्य तिष्ठति।
(नेपथ्ये महान् कलकलध्वनिश्चीत्कारश्रितश्चाव्यक्तशब्दसंघातोऽनुश्रूयते। प्रशान्ते च कलकले पुनः प्रास्ताविकवाचिकं स्फारीभवति)
श्रुतं भवद्भिः? अयं करुणचीत्कारः अयं बिद्रवपलायनध्वनिः, अयं सम्भ्रमोत्थद्यर्घरपुरस्सरो रवः, इमे च म्लिष्टास्पष्टशब्दाः? हन्त भोः सर्वमेतत् प्रमाणीकरोति रणस्तम्भपुरविपत्तिं करालाम्।
अये! किमिदं नाम? ऐते राजकुलचेट्यौ मानबाईमदिराभिधाने द्रुतपदैधविन्त्यौ इत एवागच्छतः। मन्येऽनयोर्वातालापेन तात्कालिकं वृत्तं राजकुलस्य ज्ञातुं शक्ष्यते। तदहमपि दर्शकाणामुपकाराय दूरीभवामि (इत्यपक्रामति)
(ततः प्रविशतो वार्तालापपरायणे चेट्टयौ)
मानबाई मदिरे! किमिदानीं भविष्यति? महतीयमनर्थपरम्पराऽस्माकं राजकुलं समुन्मूलयितुं प्रवृत्ता।
मदिरा सखि! अस्तङ्गताऽवयोर्भाग्यतारा। विनष्टे खलु राजकुले सर्वमेव विनष्टं प्रतिभाति।
मानबाई (कोलाहलाकर्ण्य वेपमाना)
मदिरे! संकटापन्नाः प्राणाः। कोऽयं कोलाहलः? दुर्गवासिनः पलायमाना इव दृश्यन्ते?
मदिरा सुष्ठु त्वया तर्कितम्! त्वमपि विलम्बं मा कार्षीः। यावकरंजितचरणा नववधूरिव चलसि। कथं न खलु क्षिप्रपदैर्मामनुगच्छसि?
मानबाई (भयमनुभूय)
कथमेवं भणसि मदिरे? सत्यं कथं नोद्घाटयसि?
मदिरा अयि। मूढे! सत्यमेव दुर्गवासिनः स्वधनधान्यं परित्यज्य पलायन्ते। आवयोरपि पलायनमेव श्रेयस्करं प्रतिभाति।
मानबाई अस्मत्स्वामिनी, राजदारिका देवलदेवी, स्वामी हिन्दुजातिप्रतिष्ठापनापटिष्ठः अन्ये च राजकुलसदस्याः क्व वर्तन्ते?
मदिरा (सरोषम्)
व्यर्थमेव त्वं पितृभ्यां मानबाईति संज्ञिता। असाम्प्रतकारिणि! सत्यमेव त्वम् अज्ञानबाईति भवितुमर्हसि। प्राणरक्षणमिदानीं सर्वप्रथमं चिन्त्यम्। त्वं पुनः प्रश्नोपरि प्रश्नं पृच्छसि?
मानबाई (अश्रुक्लिन्नमुखी)
भवतु, न खलु प्रक्ष्यामि इदानीम्।
मदिरा (मानबाई करुणया निभाल्य प्रह्वीभूय)
सखि! सर्वेऽपि राजसेवका भर्तुर्विनाशे बद्धपरिकरा वर्तन्ते। सेनापतिः रणमल्लो विजयान्तरं त्वमेव रणस्तम्भपुरदुर्गनायको मया स्थापयिष्यस इत्युपच्छन्दितस्तेन धूर्ततुरुप्कसुरत्राणेन अलाउद्दीनेन स्वामिनं प्रवञ्च्य तत्साह्यय्ये प्रवृत्तः।
मानबाई (कातरीभूय)
अहो बत कल्पतरुं व्याधूय एरण्डं सेवतेऽसावधमः? सर्वथा धिक् तमसमञ्जसकारिणं स्वामिद्रोहिणम्।
मदिरा जाहडोऽपि कोष्ठागारिको दुर्गस्य प्रवञ्चको जातः। यद्यपि दुर्गस्य कोष्ठागारे बहुवर्षभोज्यम् अन्नादिभक्ष्यपदार्थजातं वर्तते। तथाप्यलाउद्दीनमंत्रणावशात् दुर्गेऽन्नाभावं मुधाऽघोषयत् स पापः। एतच्छ्रुत्वैव प्रजाः मृत्युभयादुद्विग्नाः सञ्जाता यथार्थमज्ञात्वैव समुपद्रुताः।
मानबाई (सख्यर्थं साश्चर्यम्)
हा हन्त! जम्बुका अपि वनराजपराभवे प्रसह्य क्षमन्ते? विजयतामयं कालविपर्ययः!
मदिरा (सविषादम्) सखि! एतत्सर्व निभाल्य धर्मपरायणोऽस्मत्स्वामी हम्मीरसिंहदेवः कालगतिं निपुणं निरीक्ष्य, ईश्वरेच्छाञ्च बलीयसीं मत्वा जाहडप्रचारमुपेक्ष्य स्वयमेव प्रजाजनं दुर्गान्निगंन्तुमादिशति स्म। समुद्घाटितानि तेन दुर्गद्वाराणि!
मानबाई ज्ञातम्। इदानीं स्वामी किं कर्तुं व्यवसितः?
मदिरा (विलपन्ती सदयम्)
यत्करोति स्वामी तद् दर्शयितुमेव त्वां तत्र नयामि। मया सह अन्तःपुरमासाद्य स्वयमेव पश्यसि।
मानबाई (वेपमाना)
सखि! स्पष्टं भण। किं वक्तुमिच्छसि?
मदिरा किं भणामि मूढे? प्रजाजनं दुर्गान्निर्गन्तुमादिश्य धैर्यतुहिनाचलो हम्मीरसिंहदेवः स्वयमन्तःपुरं प्रविश्य राजमहिषीं सान्त्वयन् प्रत्यभाषत-देवि! सर्वमपि प्रत्यक्षन्ते! अहमिदानीं स्वपूर्वपुरुषाणां चाहमानवंशभास्कराणां पृथ्वीराजचरणानां कीर्तिपताकामक्षतां विधातुं समराङ्गणे क्षिपाम्यात्मानम्। त्वमपि क्षत्रियललनाशीलसमुदाचारानुरुपं स्वकुलब्रतं जौहरं (जतुगृहम्) पालय।
(करुणं परिदेवमाना)
मानबाई! स्वामिन्यपि पतिचरणधूलिं सीमन्ते निधाय तथेति प्रतिज्ञाय तत्क्षणमेव राजमन्दिरं प्रविष्टा।
मानबाई (सचीत्कारं धावन्ती)
मदिरे! तत्किं स्वामिनी जौंहरभूमौ समुपस्थिता? कथं न त्वयैतत् प्रागेव स्पटीकृतम्? हा दुर्देव! इदानीं जीविताऽपि किं करिष्ये? स्वामिन्या सहैव वैश्वानरकुक्षौ प्रक्षिप्यात्मानं तदन्नपुष्टं शरीरं भस्मसात्करिष्यामि। हा स्वामिनि! हा राजदारिके! हा महाराज हम्मीरदेव! अद्य अनाथा रोदिति मरुधरेयम्!
मदिरा (धावन्ती) सखि! तिष्ठ तावत्। इयमहमपि आगच्छामि। मां विहाय मा गच्छ। सहैवाग्निशरणं गच्छावः। तिष्ठ तावत्।
(उभे किञ्चदन्तरेण धावन्त्यौ राजमन्दिराभिमुखं गच्छतः)
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
महाराजो हम्मीरसिंहदेवः कषायवस्त्राणि परिधाय शस्त्रास्त्रसज्जितैः पञ्चषैर्वीरैः सह रणार्थं प्रतिष्ठमानो दृश्यते। तच्छरणागतो मुगलवीरो महिमाशाहस्तत्पथमवरुध्य तिष्ठति। राजमन्दिरप्राङ्गणे जौहराग्निधूमबिम्बः परिलक्ष्यते।
हम्मीरसिंहः वीर महिमाशाह! किमेवं कातरीभवसि? अलं निर्बन्धेन। मन्मन्त्रणामङ्गीकृत्य इतोऽपि दूरं किमपि सुरक्षितस्थानं गच्छ। स्वकुटुम्बरक्षां चिन्तय। यदि नाम समरभूमौ प्राणान्न त्यक्ष्यामस्तर्हि पुनर्मेलनं भविष्यत्येव।
महिमाशाहः (करुणं विलपन् हम्मीरचरणयोर्निपत्य)
महाराज! क्षत्रियकुलभूषण! शरणागतवत्सल!! ममैंव दुर्भाग्यशीलस्य कारणादियं विपत्तिः रणस्तम्भपुरवैभवं विनाशयितुं प्रवृत्ता। भवान् पुनः। (इत्यर्धोक्ते)
हम्मीरसिंहः मा मैवम्। महिमाशाह! शरणागतरक्षणन्तु कुलब्रतं क्षत्रियाणाम्। भारतीयानां कृते नात्र किञ्चिद्वैलक्षण्यम्! महाराजः शिविः कपोतप्राणरक्षार्थं स्वशरीरमांसमपि निकृत्य प्राददात्। दशरथनन्दनो रामो रावणं निहत्य शरणागतं तदनुजं विभीषणं लङ्कापति विदधे। सुग्रीवं शरणागतं स सर्वथा निरातङ्कं चकार।
महिमाशाहः (गादीभूय) महाराज...............!
हम्मीरसिंहः बन्धो! मयाऽपि अलाउद्दीनभयविह्वलाय भवते शरणं प्रददता स्वजातिकुलब्रतमेवानुष्ठितम्। नात्र किमपि शोचनीयम्। भवन्तमसुरक्षितं मुञ्चामीति अहमेवास्मि शोचनीयः संवृत्तः।
महिमाशाहः (सानुनयम्)
स्वामिन्! वर्षत्रयं मया मत्सहचरैश्च भवत्सान्निध्ये व्यतीतम्। भवदन्नपुष्टान्यस्माकं शरीराणि। दृष्टमस्माभिः क्षत्रियाणां पौरुषराजनयज्ञानं मानवोचित्तं प्रेम च। इदानीं तु मनसा भावनया कामनया च वयं सर्वे हिन्दुत्वमापन्नाः। सर्वथाऽनुजकल्पोऽस्मि।
तदग्रजेन सार्धसमराङ्गणविक्रमं प्रदर्शयितुं कथमनुजोऽयं निषेध्यते? वयमपि भवन्तमनुगमिष्यामो रणभूमावित्यस्माकं दृढो निश्चयः।
(इति रोदिति पटाञ्चलेन मुखमाबृत्य)
हम्मीरसिंहः (महिमाशाहं बाहुभ्यां निर्भरं निपीड्य)
महिमाशाह! अवैमि ते हृदयपरिवर्तनम्। अहमिव त्वमपि मानवधर्मपक्षधरोऽसि जातः। ममेव तवापि कृते न कोऽपि हिन्दुर्नवा तुरुष्कः। सर्वेऽपि एकस्यैव जगन्नियन्तुः कलाकृतयः। अतएव भूमिविजयकामनया स्वधर्मस्थापनकामनया वा निरीहाणां भटानां विनाशो न युज्यते कर्तुम्। किन्तु रक्तपिपासुरलाउद्दीनौ नैतद्रहस्यं विजानाति।
महिमाशाहः महाराज! समराङ्गणे एतद्रहस्यमहं तं दुरभिमानिनं सम्यगवगमयिष्यामि। कृपया मिथः प्रस्थाने मामपि अनुमन्यताम्।
हम्मीरसिंहः (सोपलालनम्)
सुहृद्वर्य! कुटुम्बरक्षणं तव प्रथमं कर्तव्यम्। पश्य, इदानीमहमेकाकी। राजमहिषी मे जौहरज्वालायां भस्मीभूता। प्राणाधिका मे दुर्ललिता दुहिता देवलदेवी जनन्या सममेव विनष्टा। निखिलमप्यन्तःपुरमकारणमेव समाप्तम्। कुमारोऽवशिष्टः कुत्रापि संरक्ष्यते राजभक्तैर्मत्सेवकैः। इदानीं तु पञ्चषायेऽपि वीरा मत्सार्ध वर्तन्ते ते सर्वैऽपि मृत्युमुखे प्रविष्टाः।
तर्हि निरर्थकं प्रतिभाति मे त्वत्साहसम्। गच्छ, स्वभार्यां दारकांश्च कुत्रापि सुरक्षितस्थानं नय। मय्युपरते राजकुमाररक्षणं कुरु। अयमेव ममादेशः।
(उष्णं निःश्वस्य नयनाश्रूणि च पटाञ्चलेन प्रमृज्य)
शिव! शिव!
महिमाशाहः (निरुत्तरीभूय आत्मगतम्)
कुटुम्बरक्षणार्थमेव रावहभ्मीरो मां युद्धार्थ नानुमन्यते। अहो! ममाधमस्य कृत एवायं नरशार्दूलस्तेन तुरुष्कापसदेन पापिनाऽलाउद्दीनेन छलप्रवञ्चनाधर्मपूर्वकं समुच्छिद्यते! सर्वथा धिङ्मामात्मसुखाकांक्षिणम्! भवतु सुहद्धर्मपालनविघ्नकरं कुटुम्बं स्वखड्गेनैव नामशेषं करिष्यामि।
(प्रकाशम्)
स्वामिन्! यदि भवान् मां समराङ्गणं नेतुं न वाञ्छति तर्हि भवन्निदेशानुसारं स्वकुटुम्बेन सार्धं क्वचिदन्यत्र गमिष्यामि। परन्तु एकवारं तावत् स्वचरणरजोभिरस्मद्दारकान् स्वानुजवधूभूतां मदीयां पत्नीञ्च पुनातु भवान्। भवद्दर्शनं कृत्वैव वयं रणस्तम्भारान्निंर्गन्तुमिच्छामः।
हम्मीरसिंहः (द्रवीभूय महिमाशाहं निर्भरमालिङ्ग्य)
महिमाशाह! मत्सहोदर!! स्वीक्रियते मयाऽयं प्रस्तावः। परन्त्वस्मिन् विपत्तिकाले निर्भूषणोऽकिञ्चनश्च जातोऽस्मि। खङ्गमात्रसहायोऽस्मि सम्प्रति। स्वानुजभार्यायै वालकेभ्यो वाऽयं भूपालभिक्षुकः किमुपायनं दास्यतीति चिन्ता मां बाधते।
महिमाशाहः नाथ! भवद्दर्शनमेव महार्धतमम् उपायनम्।
हम्मीरसिंहः भवतु! अलं विलम्बेन। तुरुष्कसैन्यं दुर्गस्य सिंहद्वारं भञ्जयितु प्रयतते। स्वयं द्वारं प्रोद्धाट्य मरणान्तकं युद्धं करिष्यामो वयम्। गच्छाग्रतः अहमप्यनुपदमागत एव।
महिमाशाहः एतु एतु स्वामि।
(इति निभृतनिभृतं दुर्गोद्यानवृक्षवीथीमतिक्रम्य चौरमार्गैः पुरस्सरन्तौ राजप्रासादमेकमुपगच्छतः। हम्मीरसहचराश्चापि सर्वे तत्र शनैरायान्ति)
महिमाशाहः (गृहान्तरं प्रविशन् तारस्वरेण)
स्वामिन्! प्रतिपालयतु भवान् क्षणमेकम्। गृहिणीं वालकांश्चात्रैवानयामि!
हम्मीरसिंहः अलं त्वरया। गच्छ। वयमत्र स्थिताः प्रतिपालयिष्यामः।
(महिमाशाहोऽभ्यन्तरं प्रविशति। गृहाङ्गणे पुञ्जीभूतं निखिलमपि कुटुम्बं स्वनग्नखड्गेन वधिक इव द्राक् घातयति। नेपथ्ये दारकाणां चीत्कारध्वनिः श्रूयते। महिमाशाहो रक्तरञ्जितं खङ्गं दक्षिणहस्ते निधाय सझम्पं बहिरायाति। सर्वे साश्चर्यं ससम्भ्रमं तं पश्यन्ति)
महिमाशाहः विजयतां विजयतां शरणागतवत्सलो रणस्तम्भपुराधीश्वरः। स्वामिन्! समाहितानुरागा भवतामनुजवधूः दुर्ललिता भ्रात्रीयाश्च भवन्तं सन्द्रष्टुमुत्कण्ठिता गृहाङ्गण एव प्रतीक्षन्ते। तत्रैव भवन्तं नयनपाथेयीकर्तुमिच्छन्ति ते।
हम्मीरसिंहः (रक्तरञ्जितं खङ्गं निर्वर्ण्य सत्यमनुभूय सनिर्वेदम्)
महिमाशाह! किमिदमनुष्ठितं त्वया? मूढ! कुटुम्बसदस्यास्त्वया मन्निमित्तं घातिताः? हा दैव! हा भगवत् एकलिङ्ग!! तुरुष्कवंशजातोऽप्ययं हृदयसहचरो मे क्षत्रियपरम्परामतिक्रान्तः?
(सचीत्कारं महिमाशाहं निर्दयमाश्लेष्य विलपन् गृहाङ्गणं प्रविशति। तत्र रक्तरंजितान् निष्प्राणान् स्त्रीपुत्रान् विलोक्य मस्तकं कराभ्यां ताडयन् भूमावुपविश्य विलपति)
महिमाशाहः (अविचलधैर्यमभिनयन्)
स्वामिन्! साम्प्रतं स्वानुजमिमं युद्धार्थमनुमन्यतां भवान्। भवदनुसरणान्तरायीभूतः कुटुम्बो मया भगवद्गृहे साधु संरक्षितः। सर्वथा भवानिवैकाकी वीतचिन्तोऽस्म्यहमपि। इदानीं स्वशरीरस्य एकैकेनापि रक्तकणेन भवदृणं निर्यातयितुं समीहे।
हम्मीरसिंहः (समुत्थाय सधैर्यम् खङ्गरुधिरेण महिमाशाहललाटं तिलकितं विधाय)
महिमाशाह! त्वन्तु रणाङ्गणे स्वप्राणान् विसर्ज्यात्मानमनृणं विधास्यसि। परन्तु वीर! मन्मैत्रीरक्षणार्थं यत्साहसं त्वयाऽनुष्ठितं जन्मान्तरशतैरपि हम्मीरोऽयं तन्निर्यातयितुं न शक्ष्यति।
(स्वोत्तरीयं प्रयच्छन्)
गृहाणेदं काषायवस्त्रम्। इदानीं परमार्थतः क्षत्रियोऽसि संवृत्तः।
(महान्त कलकलध्वनमाकर्ण्य)
मन्ये दुर्गद्वारं भग्नप्रायम्। वयं सर्वेऽपि कृतान्तीभूय योत्स्यामः। तत्साम्प्रतं प्रस्थातव्यम्। हर हर महादेव ऽ ऽ ऽ ऽ।
(सर्वेऽपि चण्डस्वरेण हम्मीरनादमनुवदन्तः प्रतिष्ठन्ते)
।।जविनकापातः।।
राजराजौदार्यम्
(ऐतिहासिकम् एकाङिकरूपकम्)
पात्रपरिचयः
सूत्रधारः (कथाप्रयोजकः)
राजराजः (चोलभूपतिः)
किञ्जल्कः (वृद्धकञ्चुकी)
बन्धुरः (राजपुरुषः)
सेनापतिः (राजराजस्य)
महामात्यः (राजराजस्य)
पुरोहितः (पणार्गलग्रामस्य)
कामाक्षी (राजराजमहिषी)
रुचिरा सख्यौ
मदिरा ’’ ’’ ’’
आलकी (पणार्गलग्रामस्य काचिद् वृद्धा)
राजराजौदार्यम्
सर्वस्वं हरताऽपि गाढरुदितं दृष्ट्वा रतेरार्जवात्
प्रद्युम्नायितवल्लभो मनसिजस्तस्यै पुनश्चार्पितः।
दाक्षिण्ये विधुशीतलो व्यतिकरे वैरायितेऽग्निर्ज्वलद्
चञ्चच्चोलनृपालपूजितपदो गंगाधरः पातु वः।।1।।
अपि च,
व्याधुन्वत्प्रतिपक्षिपाण्ड्यविभवं कर्षत्प्रकर्णं रणे
बाङ्गीभप्यवनीं जयन्तमनिशं पाथोधिपोतब्रजेः।
प्रज्ञाधर्मनयैश्च दक्षिणभुवं सन्धारयन्तं मुदा
पातु श्रीवृहदीश्वरोऽयमनिशं तं राजराजं नृपम्।।2।।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः। पुष्पाञ्जलिं विकीर्य सप्रणामम्)
परमाराध्यश्रीबृहदीश्वरदेवालयस्य कुम्भाभिषेकपर्वणि समायातां पण्डितपरिषदं प्रजाजनसमज्याञ्च युगपत् प्रणमामि। अयि भो मदुराश्रीरंगत्रिशिरःपुरीकाञ्चीचिदम्वरादिचौलावनीवास्तव्याः सहृदयाः भवताम्मनो विनोदाय तञ्जापुरस्थरंगवेलानाम्नी राजराजेश्वरसंरक्षितेयं नाट्यपरिषद् प्रस्तौति लघुरूपकं राजराजौदार्यं नाम। कथावृत्तमस्य लघुरूपकस्य किञ्चित् कालपूर्वमेव बृहदीश्वरमन्दिरनिर्माणसन्दर्भे धटितमिति निश्चप्रचं संवर्धयिष्यति भवतामुत्कण्ठाप्ररोहकन्दलनम्।
तद्यावत् गृहाभ्यन्तरीभूय नाट्यप्रयोगविध्नेश्वरीं स्वसहचरीं पश्यामि कस्माच्चिरयतीति। तावत्सङ्गीतकेन कर्णशष्कुलीं पावयन्तु भवन्तः।
(इति गृहाभ्यन्तरं प्रविशति। नेपथ्ये संगीतलहरी श्रूयते)
प्रणमामि तं बृहदीश्वरम्!
तञ्जापुरीश्वरमीश्वरं चोलाधिपेश्वरमीश्वरम्!!
काञ्चीपुरे पृथ्वीमयै श्रीरङ्गीतीर्थे जलमयम्।
अरूणाचले च मरुन्मयं खभयं नमामि चिदम्बरम्।।
ज्योतिर्मयं किल कालहस्तिनि पञ्चतत्त्वसमन्वितम्।
गिरिजाधवं वृतमाधवं प्रणमामि तं जगदीश्वरम्।।3
(संगीतलहरी क्रमेण क्षीणायते विवदमानौनटीसूत्रधारौ प्रविशतः)
सूत्र. देवि! त्वमधरोत्तरं न विजानासि! पलमात्रे गृहं भस्मसाद् भवति, त्वं पुनः सार्धद्विघटिकां यावत् भद्राभरणीं कथयसि। संमुखीने सति पण्डितप्रकाण्डसमाजे कोऽश्नाति व्यञ्जनं पिवति वा पानकम्?
नटी. (वैलक्ष्यमनुभवन्ती)
भवतु नाम! अहमेव भवदनामयचिन्तयेदानीमुपसाहपात्रतामागताऽस्मि। हन्त भोः
नटेन्द्रगृहणीभूता दूये नित्यं विपन्मयी।
पट्टराज्ञीव कामाक्षी राजराजेश्वरप्रिया।।4
(इति प्रस्तावना)
(ततः प्रविशति यथोक्तव्यापारा पट्टराज्ञी कामाक्षी सखीभ्यामनुगता)
रुचिरा (अनुनयन्ती)
देवि! विजहि कोपम्। बृहदीश्वरेऽर्पितसर्वस्वोऽस्मन्महाराजो न स्मरतीदानीं पौर्वापर्यम्।
मदिरा युक्तमाह रुचिरा देवि! न युक्तमनागसि कान्तेऽदाक्षिण्यमनुभवितुम्।
कामाक्षी सखि! एतदेव शल्यीभूतम्मे यद् राजराजस्य महुषु करणीयेषु मम गणनापि नास्ति? तद् वृथैव लालयति मामेकान्ते इति ज्ञातम्मया व्यलीकाचरणं तस्य।
रुचिरा मामैवं सखि! एकान्ते यस्तवाननेन्दुसिन्धुस्स एव सर्वजनसमक्षं चोलवंशभास्करो दक्षिणावनीराजराजेश्वरः।
मदिरा प्रकाशमपि तावद्राजमहिषीं निजोत्सङ्गमधिरोप्य लालयतु चोलनरेन्द्र इति वाञ्छत्यस्मत् प्रियसखी।
(इत्युभ सख्यौ साभिनयमुपहसतः)
कामाक्षी (सस्मितम्)
अय्यनियंत्रितवदने! बहु प्रमाद्यसि। किमेतावती मूढाऽस्मि जाता?
(ततः प्रविशति लेखहस्तो वृद्धकञ्चुकी)
कञ्चुकी जयतु जयतु राजमहिषी। देवि! महनीयराजकार्यव्यापृतः विसृजति। तदनुगृह्णातु स्वामिनीमं सेवकं लेखादानेन।
(इति लेखमर्पयति सप्रणामं गच्छति च)
सख्यौ किं लिखितं चोलेश्वरेण? दर्शय सखि! किं लिखितम्?
कामाक्षी (सस्नेहम्)
अलमहमहमिकया! रुचिरे गृहाण। त्वमेव पठ। श्रृणोमि तावत् चोलनाथस्य सव्याजव्याहरणम्।
(रुचिरा सकौतुकं साभिनयञ्च वाचयति)
स्वस्ति! राजराजो विज्ञापयति देवीम्। मध्याह्नेऽद्य शिवगंगोद्यानविहारार्थं दत्तवागपि न शक्नोम्यागन्तुम्। मन्ये दूयते भवती। प्रिये! अलमन्यथा संभाव्य! त्वन्मुखाम्बुजरोदरभूतस्य राजराजस्य क्वान्यत्र चित्तविश्रान्तिः?
बृहदीश्वरमन्दिरस्य विमानोष्णीषभूता पाषाणशिलैका कस्याश्चिद् वृद्धाया अधिकारे तिष्ठतीति सूचितं रक्षिभिः। सा पुनस्तां शिलामस्मद्याचनमन्तरा कथमपि दातुं नोत्सहते। तदेव वृत्तं सविस्तरं परिज्ञातुं सभाभवनमिदानीं गच्छामि। न चेदन्यकार्यातिपातस्तर्हि त्वमपि गवाक्षमागत्य तद्वृत्तं प्रत्यक्षमाकर्णय।
रुचिरा श्रुतं दृष्टं व्यलीककोपने! सत्यसन्धं राजराजेश्वरं वृथैव शंकाभिराविलयसि?
कामाक्षी रुचिरे! किं करोमि? शङ्काकातरैव स्त्रीजातिः। तत्रापि पुनः सपत्नीर्ष्याकलुषितचित्त वृत्तीनां राजमहिषीषां का कथा?
मदिरा देवि! मध्याह्नवेलाऽतिक्रामति। मन्ये धर्मासनमधितिष्ठति राजराजेश्वरः! तद्गवाक्षमुपेत्य पत्रलिखितं संविधानकं द्रष्टव्यम्।
कामाक्षी युक्तं भणसि। ममाप्यस्ति कौतूहलम्।
(इति सर्वाः प्रतिष्ठन्ते)
।।इति विष्कम्भकः।।
(ततः प्रविशति धर्मासनस्थश्चोलेश्वरो राजराजः)
वैतालिकः (राजराजस्य दक्षिणभागे तिष्ठन्)
सामुद्री लोलवेला कलयति नितरां यद्यशः सामगानं
कावेरी पूततोया विशदयति गुणान्न्यायधर्मार्जवाद्यान्।
सन्धत्ते नारिकेलीवनरमणपटुः कीर्तिगन्धं समीरो
वीरोऽसौ राजराजो भवतु भुवि नवो देवराजोऽतिराजः।।5
अपि च,
क्वेदानीं शौर्यगाथा श्रयति भुवभिमां हन्त! गुप्तेश्वराणां
क्वाशोकी धर्मगाथा क्वच विनयकथा वैक्रमार्की चकास्ति।
हार्षी वा दानशंसा गुणकगिरौ चोलपे राजमाने
क्वेदानीं सर्पपादाः शमितरिपुकथे हस्तिपादे निमग्नाः।।6
(राजसभायां परितः साधुसाधुव्वनिः प्रभवति। राजराजेश्वरो रत्नमालां कण्ठान्निस्सार्य वैतालिकाय प्रयच्छति)
कञ्चुकी (समुपसृत्य सादरम्)
जयतु जातु चोलेश्वरः। देव! एतौ राजरक्षिणौ स्वामिनियोगमनुपाल्य किञ्चिन्निवेदयितुकामौ प्रतीहारभूमिमुपस्थितौ। श्रुत्वा देवः प्रमाणम्।
राजराजः किञ्जल्क! गच्छ सत्वरम्। आत्मनैव सार्धं प्रवेशय तौ।
कञ्चुकी यथाज्ञापयति राजराजेश्वरः।
(इति निष्क्रम्य रक्षिभ्यां सह पुनः प्रविश्य)
भद्रौ! एष सावधानमनाश्चोलेश्वरो युवां प्रतीक्षते। उपसर्पतं तावत्।
(इति शनकैरपक्रामति)
राजराजः अस्ति कश्चिद् विशेषः? बन्धुर! त्वमेव तावद्भण।
बन्धुरः (सादरम्)
देवनिदेशात् वृहदीश्वरमन्दिरशिखरोपस्थापनयोग्यं सुविशालमखण्डितमजीर्णमनाविद्धमशबलं मसृणमसृणं परुषपरुषं शिलाखण्डं मार्गयद्भ्यामावाभ्यां चोलसाम्राज्यस्य बहूनि जनपदानि निपुणं दृग्गोचरीकृतानि।
राजराजः (सानुशंसम्)
एवम्? ततस्ततः?
बन्धुरः महाराज! ततो नु विविधगिरिशिखरेष्वपि अनुपलब्धं तादृशं शिलाखण्डमनायासमेव एकस्मिन् ग्रामटिकोद्यानपरिसरस्थे शिखरिणि सन्दृष्टमावाभ्याम्।
राजराजः (सहर्षम्)
साधु साधु! क्व वर्तते तत् शिलाखण्डम्?
बन्धुरः देव! तञ्जापुराभ्यर्णचरे पणार्गलग्राम एव कस्याश्चित् आलकीनाम्न्या वृद्धाया अधिकारे तिष्ठति।
(इति नताननो मौनमवलम्बते)
राजराजः बन्धुर! सर्वमभिप्रेतं सम्पाद्यापि किमिति मौनमवलम्बसे? कथं नानीतं तच्छिलाखण्डम्?
बन्धुरः देव! कथयितुं विभेमि! सा वृद्धा कथमपि शिलाखण्डं दातुं नोत्सहते।
राजराजः (साश्चर्यम्)
दातुं नोत्सहते? किमिदं वक्षि? देवकार्येऽपि विरुध्यति चोलदेशप्रजेति विस्मितोऽस्मि! जरती किं ब्रूते? किम् (इत्यर्धोक्ते)
सेनापतिः (सादरं समुपसृत्य)
देव! चोलेश्वर! अनुजानातु मां तत्र गमनाय! इदानीमेव बलादानयामि शिलाशकलम्।
राजराजः (सस्नेहम्)
भद्र सेनापते! अलं त्वरया। सावशेपम्मे वचः। बन्धुर! जरता किं ब्रूते? किमाकाङ्क्ष्यते तया!
बन्धुरः स्वामिन्! आवाभ्यां बहूपच्छन्दिता सा। तथापि निर्बन्धपरुषा सा कथयति यत् (इत्यर्धमुक्त्वा शिथिलीभवति)
राजराजः अलं भयेन संकोचेन वा। सर्वथाऽविशङ्कं वक्तव्यम्। सा कथयति यत्?
बन्धुरः यत् स्वयमेव यदि चोलेश्वरोऽस्मत्कुटीरमेत्य शिलाखण्डं याचते तदैव दास्यामि। अन्यथा मां हत्वैव नेतुं शक्यते! श्रुत्वा देवः प्रमाणम्!
सेनापतिः (सरोषम्)
इदानीं किमाज्ञापयति स्वामी?
महामात्यः अहो! प्रागल्भ्यं वृद्धायाः। कथमेवं जल्पते?
राजराजः (विचार्यं सस्मितम्)
भद्र सेनापते! वृद्धाऽसौ मत्कृते जननीसभा। मन्ये वात्सल्यमूलोऽयं तस्या निर्बन्धः। अतएव मातुस्समीपे पुत्रत्यैव गमनं युक्तं प्रतिभाति। अतएव इदानीमेवास्मद्यात्राप्रबन्धं सम्पादय।
सेनापतिः (प्रह्वीभूय साश्चर्यम्)
विजयतां राजराजेश्वरः। देव! सर्वथाभिनवमनुष्ठीयतेऽत्रभवता। अहो! सामान्यवृद्धां प्रत्यपि एतादृशी श्रद्धा?
महामात्यः राजराजेश्वर! अद्भुतमेव संवृत्तम्। युक्तरूपमिदं चोलमहीपतीनाम्।
(राजसभायां सर्वत्र जयजयध्वनिरुत्तिष्ठति। गवाक्षमार्गेभ्योऽन्तः पुरिकाः पुष्पवर्षा कुर्वन्ति)
।।द्वितीयं दृश्यम्।।
तञ्जापुरसमीपस्थे पणार्गलारख्यग्रामे दृश्यते महानुत्सवः। राजधान्यभिमुखे मार्गे रसालपल्लवालकृतं विशालतोरणम्। तोरणमभितः नारिकेलकुशाक्षतमण्डितौ कलशौ स्थापितौ। तोरणसमीपमेव वृद्धाया आलक्याः पर्णकुटीरं दृश्यते। सर्वेऽपि ग्रामीणा राजराजेश्वरराजराजागमनं प्रतिक्षामाणास्त्वरया गतागतं विदधति। श्वेतवस्त्रा वृद्धालकी कुटीरद्वारसमीपं ग्रामनारीभिस्सार्धं तिष्ठति।
(नेपथ्ये संगीतध्वनिः)
जयति जयति खलु चोलधरित्री!
योगक्षेममयी मधुवाता मधुसलिला मधुफलजनयित्रि!!
चरणचारणो जलधिरगाधो वसुधेयं रत्नप्रसवित्री!
नारिकेलतरुविजयपताका कदलीवनयौवना सवित्री!!6
(अकस्मादेव जनसम्मर्दे कोलाहलध्वनिः स्फारीभवति। चोलनरेन्द्रस्य शनैः शनैः समीपमागच्छन् दृश्यते। सर्वत्राऽपि जयजयध्वनिः। ग्रामनार्यः कलशदीपानुत्थाप्य स्वागतार्थ सन्नद्धा भवन्ति। ग्रामपुरोहितास्तारस्वरेण वेदमंत्रानुच्चारयन्ति। क्वचिद्वाद्यं, क्वचिन्नर्तनं क्वचिद् गीतञ्चापि श्रूयते चोलनरेन्द्रस्य रथस्तिष्ठति। महाराजस्सेवकमालम्व्य रथादवतरति। महामात्यसेनापतिसामन्तादयस्सर्वेऽप्यवतरन्ति। स्वागतविधानं क्रमेण समाप्तिमेति। विजयतां राजराजेश्वरश्चोलराज इति चण्डध्वनिः श्रूयते परितः।)
राजराजः (निपुणं निरीक्षमाणः)
अयिभोः क्व वर्ततेऽस्मज्जननी वृद्धालकी?
पुरोहितः (सादरं प्रह्वीभूय)
विजयतां प्रजानाथः! राजन्! सेयमस्मद्भाग्यसूर्योदयविधात्री ग्रामदेवी आलकी भवन्तं प्रतीक्षमाणा तिष्ठति। इत इतो देवः।
(इति आलकीपर्णकुटीरसरणिं निर्दिशति)
राजराजः (सत्वरमालकीसमीपमुपसर्प्य सचरणस्पर्शम्)
मातः पूज्यचरणे! अयं ते पुत्रश्चोलराजस्सादरं प्रणमति।
आलकी (अश्रूणि विमोचयन्ती, स्नेहेन गादीभूय)
चिरञ्जीवतु मे पुत्रकः। शतञ्जीवतु मे पुत्रकः। हन्तभोः किम्पुण्यमनुष्ठितम्मया पूर्वजन्मनि येन चोलराजो मां दीनदीनां दुर्भाग्योपहतां वृद्धां जननीं ब्रूते! हे जगदीश्वर! अक्षय्या भवेन्मम पुत्रकस्य कीर्तिश्रीः!
राजराजः मातः! अलं दैन्येन। इतःप्रभृति त्वं मम जनन्येवासि जाता। इदानीं त्वत्पुत्राधिकारेणैव बृहदीश्वरविमानोचितं शिलाखण्डं त्वदीयं याचे!
आलकी (सस्मितम्)
महाराज! राज्ञ एव सम्पर्ति प्रजा भुनक्ति। निखिलाऽपि चोलावनी भवदधिकारे तिष्ठति। का कथाऽस्य शिलाखण्डस्य!
राजराजः मातस्तत्कथं रक्षिणौ निवारितौ त्वया?
आलकी (सवात्सल्यम्)
पुत्रक! केवलं त्वद्दर्शनार्थम्। मम एकल एव पुत्रश्चोलसैन्ये स्थापितः युद्धभूमौ वीरगतिमवाप। ततः प्रभृति पुत्रविरहे निदाघपुष्करिणीव शनकैः शुष्यामि। कः मां प्रवेशयेद्राजधान्याम्? शिलाखण्डमहिम्नैव सौवर्णोऽयमवसरः सम्प्राप्तो मया।
राजराजः (सहासम्)
मातः! इदानीं ज्ञातं सर्वम्। सर्वथा वीरप्रसविनी वात्सल्यमयी वन्द्यचरणाऽसि मत्कृते।
आलकी न केवलमेतत्। महाराज! मन्निर्वन्धं श्रुत्वा चोलेश्वरो बलप्रयोगं करिष्यति बुद्धिप्रयोगं वेत्यपि परीक्षणीयमासीत्। परन्तु ममाभिप्रायमनुभवता यदनुष्ठितं त्वया तत् सर्वथा चोलान्वयानुरुपमेव! राजन्! सर्वथा चिरञ्जीव!
राजराजः मातः! इदानीं परीक्षोत्तीर्णोऽस्मि त्वद्वात्सल्यप्रमावतः। ब्रूहि किमाकांक्ष्यते त्वया शिलार्थम्?
आलकी राजराजेश्वर! पुत्रीभवन्नपि जनन्यै शिलामूल्यं दातुमिच्छसि?
राजराजः अम्ब! पुत्रः सन्नपि चोलप्रजापतिरस्मि। राजागमनं निरर्थकं न भविष्यति!
आलकी आयुष्मन्! यथाभिरुचितं सम्पादय। शिवार्चनं विहाय न मे काप्याकांक्षा।
राजराजः मातः! पणार्गलग्रामे त्वन्नाम्नैव ख्यातं सरोवरमेकमुद्यानमेकञ्च निर्मापयिष्यामि।
(ग्रामीणा जयध्वनिमुच्चारयन्ति)
राजराजः मातः! न केवलमेतदेव। यथा मत्कृते वृहदीश्वरदेवस्थानमिदं राजते तथैव त्वत्कृतेऽपि इरावतीश्वरदेवस्थानं विधास्ये। येन मज्जननीभूता त्वं तुल्यवैभवा भूयाः।
(महामात्यं प्रति)
महामात्य! मन्निदेशान् यथाशीघ्रमनुवर्तयतु भवान्।
(आलकीं प्रति)
मातः! इदानीमनुजानीहि मां तञ्जापुरगमनाय। वृहदीश्वरमन्दिरस्य कुम्भाभिषेकपर्वणि भत्प्रेषितं रथमारुह्य अवश्यमेवागच्छतु भवती।
(इति चरणद्वयं स्पृशति)
आलकी (स्वपटाञ्चलं राजराजोपरि विन्यस्य)
अद्यत्वया पुनः पुत्रवती सञ्जातास्मि। नेदानीं निदाघपुष्करिणी। न मे शोषः संभाव्यते सम्प्रति! महाराज! पुत्रक! त्वयाऽकालजलदेन पुनः वात्सल्याम्बुभरितास्मि! गच्छ शिवास्ते पंथानस्सन्तु।
(राजराजौ रथरोहणं नाटयति। जयध्वनिः प्रसरति)
।।जवनिकापातः।।
को विजयते नैव ज्ञातम्!
(ऐतिहासिकम् एकाङिकरूपकम्)
पात्रपरिचयः
सूत्रधारः (कथाप्रयोजकः)
मारिषः (सूत्रधारसहचरः)
नटः (सूत्रधारसहचरः)
चोलः (तञ्जौरनिवासी कश्चित्)
मालवः (धारानिवासी कश्चित्)
भोजराजः (धाराधिपतिः)
प्रतीहारी (भोजराजस्य)
राजपुरुषः (भोजराजस्य)
कुविन्दः (धारानिवासी कश्चित्)
राजराजः (तञ्जापुराधिपतिः)
धर्माधिकारी (राजराजस्य)
राजपुरुषः (राजराजस्य)
स्थपतिः (बृहदीश्वरमन्दिरस्थपतिः)
डा. चण्डिकाप्रसादशुक्लः (निर्णायकसमितिप्रवरः)
को विजयते नैव ज्ञातम्!
वेष्टन्ते नीरधारास्तरणितनुभवं यत्र देवापगाया
स्तप्तं सृष्टि प्रपञ्चात्प्रथमतरमपि ब्रह्णायत्र शक्त्यै।
ब्रह्माण्डे तोयमग्ने श्रयति वटदलं यत्र डिम्भो मुकुन्दः
वैकुण्ठोऽकुण्ठपुण्यो भरतभुविजयेत्तीर्थराजप्रयागः।।1
अपि च,
दत्ते मुक्तिं मृतेभ्यस्त्रिपुरहरपुरो चेदव्यलीकाभिमानः
नो पश्यामोऽत्र चित्रं प्रभवति हि यतश्शम्भुशूलाधिरूढा।
धन्यं मन्ये प्रयागं कलुषमलहरी निर्झरी निर्जराणां
भक्तैस्सन्दृष्टमात्रा हरिपुरवसतिं यत्र हारीकरोति।।2
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्र. (पुष्पाञ्जलिं विकीर्य)
(समक्षम्) नमो रंगस्थलदैवतेभ्यः (उत्तरस्यां दिशि) नमश्शिवकोटितीथयि (पूर्वस्यां दिशि) नमस्त्रिपथगायै (दक्षिणस्यां दिशि) नमः कलिन्दनन्दिन्यै यमुनायै (पश्चिमायां दिशि) नमस्त्वाञ्जनेयाय महावीराय।
प्रयागस्थ संगीतसमितिसंरक्षणे समायोजिते लघुनाटकप्रतिस्पर्धामहोत्सवे समायातान् विविधजनपदवास्तव्यान् सहृदयसामाजिकान् भवतः साभ्यर्थनमभिनन्दामि।
अद्यास्मिन् समारोहे प्रस्तूयते मयाऽभिराजराजेन्द्रविरचितं वृन्दारकगवीलघुप्रेक्षणकं को विजयते नैव ज्ञातमितिनामधेयम्।
(नेपथ्ये विवादध्वनिः श्रूयते)
अये! किमिदमकाण्डताण्डं नाम? मादृशे संरक्षके सत्यपि विवादोऽयं प्रभवति? श्रृणोमि तावत्तिरस्करिणीमवलम्ब्य।
(ततः प्रविशतो विवदमानौ नाटमारिषौ)
नटः अहं त्वत्तोऽधिकं शोभनमभिनेष्यामि।
मारिषः कथं भोः? तव शरीरसम्पत्तिर्मल्लाभिनययोग्या न वर्तते।
नटः शरीरसम्पत्या किम्? तव कण्ठे मल्लयोग्यश्चण्डध्वनिर्नास्ति।
मारिषः पादेन खञ्जस्त्वम्। सर्वदैव विदूषकीभवसि। अद्य मल्लायसे?
नटः (सरोषम्)
शरीरदोषमुपक्षिपसि? त्वमपि दृष्ट्याऽऽकेकरोऽसि। हास्यप्रसंगे वर्षवराभिनयं करोषि। अद्य मल्लायसे?
मारिषः (सव्यङ्ग्यम्)
नमोऽस्तु खञ्जमल्लाय।
नटः (साभिनयम्)
नमोऽस्तु काणमल्लाय!
मारिषः भोः प्रथममाकेकरं कथयित्वेदानीं काणं बदसि?
नटः (सनृत्यम्)
वक्ष्यामि, वक्ष्यामि। किमपकर्त्तुं प्रभवसि?
(अपटीक्षेपेण प्रविश्य)
सूत्रधारः अये हतकौ! राज्ञा न किञ्चित् ज्ञातं भिल्लैः पुनर्निखिलं वन विभक्तम्? मयि विद्यमाने परस्परं विवदेथे? अभ्यन्तरं गच्छतम्।
(उभौ पलायेते)
सूत्रधारः (सनिःश्वासम्)
भोः पारिषदाः! स्वकुटुम्बकलहं दृष्ट्वा चिन्तितोऽस्मि। किं भविष्यति मम नाट्यपरिषदः?
विस्मयं मे गता बुद्धिर्दृष्ट्वा स्वजनविग्रहम्।
विवदेते यथेमौ द्वौ चोलमालववासिनौ।।
(इत्यपक्रामति। इति प्रस्तावना)
(ततः प्रविशतः कलहायमानौ चोलमालववासिनौ)
चोलः किं लगुडेनाकाशं पातयसि? कथमतिशेते चोलदेशम्मालवदेशः?
मालवः अयिभोः आकाशष्ठीवनम् आत्मशीर्षोपर्येव पतति। मन्ये मालवदेशस्य ऐतिह्यमेव न विजानासि।
चोलः जानामि जानामि। तवैव मालवदेशे मुञ्जराजो राज्यलोभात् स्वभ्रात्रीयं भोजराजं धातयितुमुपचक्रमे। धिगीदृशं राज्यलोभम्।
मालवः परेषां तु सर्षपमात्रमपि दोषं पश्यसि नात्मनो बिल्ववृहदाकारम्? अये तवापि मालवदेशे मदुरान्तकचोलः स्वभ्रातरं चोलदेशाधीश्वरं करिकालोपाह्वमादित्यं षड्यंत्रेण धातितवान्। राजराजचोलस्तु पितृव्यराज्यलिप्सां दृष्ट्वैव सिंहासनं तस्मै प्रायच्छत्।
चोलः (आत्मगतम्)
अये सूक्ष्मवृत्तमपि चोलदेशस्यायं सुष्ठु जानाति। भवतु एवमेनं वक्ष्यामि।
(प्रकाशम्)
भोः केयं वाचोयुक्तिः? राजतंत्रे तु एतत्सर्वं भवत्येव।
मालवः श्रीमन्! धाराधीशस्य भोजराजस्य पाण्डित्यं भवता श्रुतं न वा? नवभूमिकं तस्य ग्रन्थागारभवनमिदानीमपि भग्नप्रायं द्रष्टुं शक्यते। स्वयमेव तेन श्रृङ्गारप्रकाशसरस्वतीकण्ठाभरणसमराङ्गणसूत्रधारभोजवृत्त्यादीनि सारस्वतरत्नानि प्रकटितानि।
चोलः (सोपहासम्)
श्रुतं श्रुतम्। भोजराजस्य ग्रन्थागारन्तु भग्नप्रायम्। अस्मच्चोलदेशे तु सरस्वतीमहलग्रन्थागारमिदानीमपि राराज्यतेतराम्। कृपयाऽगत्य सकृन्निभालयन्तु भवन्तः।
मालवः (सोद्वेगम्)
भोजराज्ये तु कुविन्दोऽपि कविकर्मणि कुशल आसीत्।
चोलः (सोत्साहम्)
राजराजेश्वरस्य साम्राज्ये तु स्थपतिरपि महान् ज्योतिर्विद् आसीत्।
मालवः किं प्रमाणम्?
चोलः तव किं प्रमाणम्?
मालवः बगेश्वरो बल्लालसेनो भोजप्रबन्धे लिखति।
चोलः ममापि प्रमाणं वृहदीश्वरमन्दिरभित्तावुत्कीर्णं वर्तते।
मालवः नाहं मन्ये! कथनमात्रेण किं भवति?
चोलः अहमपि न मन्ये। भोजप्रबन्धस्तु कल्पनाश्रितः।
मालवः भवतु। मत्कथनस्य पुष्टि निर्णायकपरिषदेव करिष्यति।
चोलः ममापि कथनस्य।
उभौ तर्हि तत्रैव गन्तव्यम्।
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
सूत्रधारः (मञ्चमुपसृत्य)
भोः भोः सहृदयसामाजिकाः! दृष्टं श्रुतञ्च भवद्भिश्चोलमालवयोर्वाग्युद्धम्। उभावेव स्वदेशस्य श्रेष्ठतां स्थापयितुं विविधा युक्तौः पुरस्कुर्वाणौ निर्णयार्थं पण्डितपरिषच्छरणमुपागतौ।
मान्याः! सर्वप्रथमं मालवदेशीयः स्वविजयनिमित्तभूतं कुविन्दकवित्ववृत्तमभिनेष्यति। तदनन्तरं चोलदेशीयः स्वश्रैष्ठ्यहेतुभूतं स्थपतिदैवज्ञत्वकथानकं प्रस्तोष्यति।
उभयमेव लघु अन्तर्नाटकं दृष्ट्वा निर्णायकसमितिश्चोलमालवयोरन्यतरस्य श्रेष्ठतामुद्घोषयिष्यति।
तदिदानीमक्षिलक्ष्यीकुर्वन्तु भवन्तोऽन्तर्नाटकं कुविन्दकवित्वाभिसन्धानम्।
(इति सप्रणामं सविलासमपक्रामति)
(ततः प्रविशन्ति सिंहासनस्थो धाराधीश्वरो भोजराजः सभासदश्च)
प्रतीहारी जयतु जयतु वाणीवल्लभो धाराधीशः! देव! एष राजपुरुषः कञ्चित् कुविन्दं पाशैराबध्य देवपादमूलमानयति। तत् श्रुत्वा देवः प्रमाणम्।
भोजराजः (साश्चर्यम्)
अये! पाशैराबध्य समानयति? कोऽपराधस्तेन समाचरितः? तूर्णं प्रवेशयैनम्।
प्रतीहारी (सप्रणामम्)
यथाज्ञापयति स्वामी।
(इति निष्क्रम्य पुनः राजपुरुषेण सार्धं प्रविश्य)
देव! सोऽयं राजपुरुषो भवत्समक्षं? तिष्ठति।
(इत्यपक्रामति)
राजपुरुषः विजयतां वाणीवल्लभो धाराधीशः! देव! कृतापराधोऽयं कुविन्दो मया भवत्सविधिमानीतः।
भोजराजः (सनिःश्वासम्)
भोः प्रथमं तावत् पाशं शिथिलय। कुविन्दं स्वतन्त्रं कुरु।
राजपुरुषः यथाज्ञापयति देवः।
(इति यथोक्त करौति)
भोजराजः भद्र! किमपराद्धमनेन कुविन्देन?
राजपुरुषः महाराज! अयमेवैकलो धारानगर्यां निरक्षरः कवित्वहीनश्च तिष्ठति। धारापतेरादेशं श्रुत्वाऽपि साहित्यं नाधीतवानयम्।
भोजराजः (कुविन्दं प्रति)
भोः कुविन्द! किमयं सत्यं भणति? किं नाकर्णितस्त्वया मदादेशो यत्।
अशिक्षिता दुराचाराः काव्यसंस्कारवर्जिताः।
राजधान्यां न तिष्ठन्ति धारापुर्यामपण्डिताः।।4
कुविन्दः (सादरं सविनयम्)
जयतु जयतु वाणीवल्लभः! स्वामिन्! सर्वं श्रुतम्मयाऽवगतञ्च राजधान्यां स्थातुं न मेऽपात्रता। किन्तु.........(इति शिथिलो भवति)
भोजराजः ब्रूहि ब्रूहि। किन्तु किम्?
कुविन्दः महाराज! यदायं राजपुरुषोऽस्मत्साक्षरत्वं ज्ञातुं मां बाधितवान् प्रश्नैः तदाहं वस्त्रवयनकर्मणि नितान्तमेव निमज्जितचित्तवृत्तिरासम्। साऽऽसीत् मय योगावस्था स्वामिन्! यतो हि योग कर्मसु कौशलम्!
भोजराजः (सविस्मयं स्वगतम्)
अये! कुविन्दोऽयमसाधारणपण्डितः प्रतिभाति। सर्वथाऽसमञ्जसमाचरितमनेन मूढरक्षिणा।
(प्रकाशम्)
साधु कुविन्दा! साधु। अनवसरं रक्षिणा बाधितोऽसि!
कुविन्दः स्वामिन्! रक्षिनिर्बन्धात्सञ्जातरोषेणैव मयोक्तम् भो निरक्षरोऽस्मि, मूर्खोऽस्मि इति।
भोजराजः युज्यते। आस्तां तावत् एतत् सर्वम्। पटनिर्माणातिरिक्तं किं करोषि?
कुविन्दः देव! काव्यं करोमि।
भोजराजः शोभनं शोभनम्। पुरस्करणीयोऽसि।
कुविन्दः (सविनयम्)
देव! नहि चारूतरं करोमि।
भोजराजः कुविन्द! नायं दोषः। संस्कारमूलं हि कवित्वम्। सतताभ्यासे कृते एव चारुत्वमायाति कविकर्मणि। उत्तरोत्तरं तत्र यत्नः कार्यः।
कुविन्दः (सोत्साहम्)
स्वामिन्! यत्नात्करोमि यदि, चारुतरं करोमि!
भोजराजः सर्वथाऽभिनन्दनीयोऽसि। त्वादृशा एव धारापुर्यां स्थातुमर्हन्ति।
कुविन्दः भूपालमौलिमणिरञ्जितपादपीठ हे साहसाङ्क! कवयामि।
भोजराजः (सहर्ष स्वनामाङिक्तमुद्रिकां प्रयच्छन्)
व्यलीकनिरक्षर! पदगुम्फप्रवीणोऽसि। पण्डितसभासदस्यं त्वां करोमि। अत्रैव मत्पार्श्वे तिष्ठ।
कुविन्दः (सादरं राजानुग्रहं स्वीकुर्वन्)
स्वामिन्! वयामि। वस्त्रनिर्माणकलायां पारंगतोऽस्मि। सभायान्तु बहवः पण्डितास्सन्ति। परन्तु मां विना धारानगर्या वस्त्रव्यापारो विनाशमेष्यति।
भोजराजः (विचिन्त्य) सुष्ठूच्यते त्वया। भवतु, गच्छेदानीम्। परन्तु काले काले द्रष्टव्या वयम्।
कुविन्दः (साभ्यर्थनम्)
यामि देव! भवदाज्ञावशंवदोऽस्मि।
(इति शनकैर्गच्छति। जवनिका पतति। वाद्यध्वनिश्च प्रसरति)।
सूत्रधारः (सयत्वरं प्रविश्य)
अयिभो रंगमण्डपास्तारस्सहृदयाः? दृग्गोचरीकृतं भवद्भिः कुविन्दकवित्वाभिधम् अन्तर्नाटकम्। इदानीं प्रस्तूयते स्थपतिदैवज्ञत्वाभिधमपरमन्तर्नाटकम्। तत्सज्जीभवन्तुभवन्तः।
(इत्यपक्रामति)
(ततः प्रविशन्ति सिंहासनस्थश्चोलेश्वरो राजराजः सभासदश्चः)
धर्माधिकारीः विजयतां विजयतां चोलावनीन्द्रो राजराजः। महाराज! धर्मविरुद्धमाचरन्नयं वृहदीश्वरमन्दिरस्थपतिः पाशैर्बद्ध्वा राजपुरुषेणानीतः। श्रुत्वा देवः प्रमाणम्।
राजराजः आश्चर्यम्। अव्रह्यण्यम्। होमं कुर्वाणस्यापि हस्तो ज्वलति? तूर्णं प्रवेशयैनम्।
(निष्क्रम्य, प्रविश्योभाभ्यां सह)
धर्माधिकारीः देव! एतौ तौ स्थपतिराजपुरुषौ देवादेशं प्रतीक्षते।
राजराजः (राजपुरुषं प्रति)
भद्र! ऋजुकोऽयं प्रतिभाति स्थपतिः। किमपराद्धमनेन?
राजपुरुषः जयतु जयतु स्वामी। स्वामिन्। अनेन स्थपतिना प्रभोवैदिकधर्मानुप्राणकत्वं सुष्ठु विजानताऽपि धर्मविरुद्धमाचरितम्।
राजराजः (सोत्कण्ठम्)
ब्रूहि, किं कृतमनेन?
राजपुरुषः देव! बृहदीश्वरमन्दिरस्य उत्तरस्यां भितौ तृतीयभूमिकायां अनेन अनार्यधर्मावलम्विनः कस्यचित् स्तूपोष्णीषधारिणो विग्रहं निर्माय स्थापितवान्।
राजराजः (सगाम्भीर्यम्)
भवतु। प्रक्ष्याम्येनम्। मुञ्च तावत् पाशम्।
राजपुरुषः यथाज्ञापयति देवः
(इति पाशं शिथिलयति)
राजराजः भोः स्थपते! कुतस्समागतोऽसि?
स्थपतिः विजयतां देवः। महाराज! काञ्चीपुराधीश्वरपादमूलात्समागतोऽस्मि।
राजराजः (सादरम्)
एवम्? भगवन्तम् एकाम्रेश्वरं सेवमानोऽसि?
स्थपतिः अथ किं महाराज!
राजराजः यदयं राजपुरुषो भणति तत्किं सत्यम्?
स्थपतिः महाराज! सत्यं भणति भद्रपुरुषोऽयम्।
राजराजः जानासि यद् वृहदीश्वरसमुपासका वयम्। मन्दिरभित्तावपि पुराणगाथाश्रिता एव मूर्तिः विन्यस्येरिति ममादेशः। तत्कथं त्वया विरुद्धमाचरितम्?
स्थपतिः महाराज! भविष्यत्कालानुरोधवशात् सा मूर्तिर्मया निर्मिता।
राजराजः (सविस्मयम्)
स्थपते! रहस्यगर्भन्ते वचनं प्रतिभाति। स्फुटं भण।
स्थपतिः चोलाबनीन्द्र! भवान् वर्तमानं चिन्तयति पश्यति च। अहं पुनः दैवज्ञदुष्ट्याऽऽगमिष्यन्तीं सहस्त्राब्दीं पश्यामि। राजन्! भवदनन्तरं त्रयोऽन्येऽपि राजवंशाश्चोलबसुन्धरां प्रशासिष्यन्ति। तेषां त्रयाणामन्यतमो राजवंशस्तु वैदेशिको भविष्यति। तेषां शासकानामियमेव वेषभूषा भविप्यति।
राजराजः (साश्चर्यम्)
महानयं विस्मयः। स्थपते! क्व पुनर्ज्यौतिषमधीतम्?
स्थपतिः राजराजेश्वर! सर्वमेकाम्रेश्वरकृपयाऽधीतम्। पशुपतिसेवया किं न सिद्ध्यति?
राजराजः (सादरम्)
सर्वथाऽभिनन्द्योऽसि। हन्तभोः स्थापत्यव्यापृतस्याऽपि ईदृशी ते दैवज्ञता? मन्दिरनिर्माणान्तरं त्वं मत्सविधिमेष्यसि। राजदैवज्ञपदं ते दास्यामि।
स्थपतिः कृतार्थोऽस्मि राजानुग्रहेण। परन्तु मूर्तिनिर्माणन्तु मदीयं पैत्रिकं कर्म। तत् कथमपि बिहातुं नेच्छामि। कुलदेवता रोषमेष्यन्ति।
राजराजः प्रातरेव त्वन्निर्मितवैदेशिकभटविग्रहं द्रक्ष्यामि।
स्थपतिः स्वामिन्! पश्यन्तु भवन्तः। अयं विग्रहस्तु विगतेषु सहस्त्रमितेषु वर्षेषु सर्वान् दर्शकान् विस्मापयिष्यति भवदीयां कीर्तिञ्चाक्षुण्णां विधास्यति।
राजराजः (सोत्कण्ठम्)
स्थपते! अथ कियत्कालानन्तरमिमे वैदेशिका भारतभुवमागमिष्यन्ति?
स्थपतिः (अक्षिणी निमील्य पुनरुन्मील्य च)
देव! ते तु समागतप्राया वर्तन्ते। परन्तु राज्याधिकारन्तु इतः प्रभृति अष्टशतवर्षानन्तरमेव प्राप्स्यन्ति।
राजराजः अथ बृहदीश्वरमन्दिरस्यायतिः कीदृशी भविष्यति?
स्थपतिः (सध्यानम्)
चोलेश्वर! वृहदीश्वरदेवालयस्तु अनन्तकालं यावत् भारतभुवमलंकरिष्यति।
राजराजः (सहर्षं कण्ठहारं प्रयच्छन्)
सर्वथा परितुष्टोऽस्मि त्वद्विद्याया। भवादृशैर्दिव्यदृष्टिसम्पन्नैः दैवज्ञैः कृतार्थेयं चोलावनी! गच्छ स्वनियोगमशून्यं कुरु!
स्थपतिः (सादरं कण्ठहारमादाय)
यथाज्ञापयति चोलवसुधेन्द्रः!
(इत्यपक्रामति)
सूत्रधारः (प्रविश्य)
भोः सहृदयाः! इदानीमवसितम् अन्तर्नाटकम्। निर्णायकपरिषत्सदस्या डॉक्टरचण्डिकाप्रसादशुक्लःडॉक्टररेवाप्रसादद्विवेदिडॉक्टरकमलेशदत्तत्रिपाठिडॉक्टरभास्कराचार्यत्रिपाठिनश्च यावत्सम्मन्त्र्य स्वनिर्णयं प्रस्तुवन्ति तावत् गीतिमेकां श्रृण्वन्तु भवन्तः।
(सवाद्यं गीतं प्रारभते)
मदयति नहि कं सुमधुर रचना?
क्वचिदमरधुनीव धुनोति कलिम्
बिलसति रमणीव करोति रतिम्
क्वचिदुन्मादयति विशदमदना
मदयति नहि कं सुमधुररचना!!
(शनैः गीतध्वनिर्मन्दायते)
सूत्रधारः (पुनः प्रविश्य)
मान्याः सहृदयाः! इदानीं निर्णायकसमितिप्रवराः प्रयागविश्वविद्यालयीय-संस्कृतविभागस्य पूर्वाध्यक्षवर्या नाट्यप्रयोगमर्मज्ञा डाक्टरश्रीचण्डिकाप्रसादशुक्लमहाभागा निर्णयं श्रावयिष्यन्ति। तत् मध्येशालं निषण्णाः चोलमालवदेशीया भ्रातरो भगिन्यश्च सज्जितश्रवणेन्द्रिया भवन्तु।
(इति मञ्चपार्श्वमुपतिष्ठति)
डा. चण्डिकाप्रसादशुक्लः (सस्मितम्)
मान्याः सहृदयाः! दृष्टं भवद्भिरन्तर्नाटकद्वयम्। एकतस्तु तन्तुवायः सन्नपि साधारणो जनः कवित्ववैशारदीं प्रकटयति। अन्यतस्तु टङ्किकाघातध्वनिबधिरितकर्णोऽपि स्थपतिस्त्रैकालिकं वृत्तं हस्तामलकमिव दरीदृश्यतेतराम्।
उभयोर्मध्ये कः परः कोऽवरश्चेति सरलतया निर्णेतुं न शक्यते। वस्तुतः आकाश्मीरात् कन्याकुमारीं यावत् भारतराष्ट्रमविच्छिन्नं वर्तते। अस्य पवित्रदेशस्य प्रत्यङ्गं पवित्रं श्रेष्ठं, विस्मयावहञ्च। सर्वेऽपि भारतीया एकस्यैव विशालप्राङ्गणस्य शिशुभूता वर्तन्ते। अतएव सूक्ष्मविमर्शानन्तरमियं निर्णायकसमितिः स्वरुचिकरं निर्णयं प्रस्तौति, स चास्ति (तारस्वरेण)
को विजयते नैव ज्ञातम् इति!!
(सहृदयेषु महान् अट्टहासः करतलध्वनिश्च)
।।जवनिकापातः।।
(खालिस्तानसमस्याश्रितं नव्यमेकाङ्कम्)
पात्रपरिचयः
गुरुः गोविन्दसिंहः (सिक्खानां दशमो गुरुः)
बन्दा बैरागी (गोविन्दसिंह-शिष्यः)
मलखानसिंहः (गोविन्दसिंह-सेवकः)
गुरुः रामदासः (सिक्खानां चतुर्थो गुरुः)
गुरुः अर्जुनः (सिक्खानां पञ्चमो गुरुः)
गुरुः तेगबहादुरः (गोविन्दसिंहस्य पिता)
ऊधमसिंहः, भगतसिंहः (उत्सृष्टप्राणौ राष्ट्रभक्तौ)
कृपालसिंहः (अमृतसरनगरस्य कश्चिद्व्यवसायी)
हेमेन्द्रसिंहः (कृपालसिंहस्य तनुजः छात्रः)
अमृताकौर (कृपालसिंहस्य पत्नी)
इन्दिरा गान्धी (भारतस्य प्रधानमंत्री)
रक्ताभिषेकम्
(खालिस्तानसमस्याश्रितं नव्यमेकाङ्कम्)
अमृतसरनगरस्य दशमेशइण्टरकालेज इत्याख्यः कश्चिद् विद्यालयः। विद्यालयवार्षिकोत्सवे समायोजितं किमपि नाट्यम्। दर्शकाणामग्रिमपङ्क्तौ कृपालसिंहः स्वपत्न्याऽमृतया पुत्रेण हेमेन्द्रेण च सार्धं समासीनो वर्तते। नेपथ्ये संगीतस्य मन्दस्वरलहरी तरंगायते।
कृपालसिंहः वत्स हेमेन्द्र! किन्नु खलु नाटकमद्य प्रस्तोष्यते?
हेमेन्द्रः तात! नाटकस्य शीर्षकोऽस्ति पुष्पाहुतिरिति।
कृपालसिंहः पुष्पाहुतिः! वत्स! अनेन किमुक्तं भवति?
हेमेन्द्रः (सोद्वेगम्)
तात! भवांस्तावत् अनवगतप्राय एव! पुष्पाणामाहुतिरिति पुष्पाहुतिशब्दस्याभिप्रायः। गुरोर्गोविन्दसिंहस्य द्वापि दारकौ जोरावरसिंहफतेहसिंहौ पुष्पकोमलौ धर्मरक्षार्थं मृत्युवेदिकामारूढौ। अद्यतने नाट्यमञ्चने एतावन्मात्रं प्रदर्शयिष्यते।
(अकस्मादेव क्षीयते संगीतलहरी। शान्तिः प्रभवत्यधिमञ्चम्)
हेमेन्द्रः तात! अलमिदानीं पृच्छया। पश्यतु भवान्। जवनिकोद्घाटितप्रायेव संलक्ष्यते। यत्सत्यं नाटकं सम्प्रति प्रारभते।
(जवनिकोद्घाट्यते। गोविन्दसिंह आनन्दपुरस्थे स्वपैत्रिकावासे बहिरलिन्दे चिन्तामग्नस्तिष्ठति। तत्काष्ठवेदिकासमीपमेव प्रियशिष्यो बन्दाबहादुरस्तिष्ठति विनम्रमुद्रः। आगमनध्वनिःश्रूयते)
गोविन्दसिंहः वत्स वन्दक! निभालय तावत् क आगच्छति? अपि नाम मलखानो भवेत्।
बन्दाबहादुरः सत् श्री अकाल! महाराज! इदानीमेव पश्यामि।
(गत्वा मलखानेन सार्धं पुनः प्रविश्य)
महाराज! साधीयान् खलु भवत्तर्कः। मलखान एव प्रत्यागतः।
(मलखानो भृशं विलपन् गोविन्दचरणेषु निपतति)
गोविन्दसिंहः उत्तिष्ठोत्तिष्ठ मलखान! रोदिषि कथम्? बर्बरमृगराजोऽसि चञ्चत्सटाभारः। सिक्खा (शिष्या) भिधानेन सार्धं सिंहशब्दो मया योजितस्तत्किं परिदेवनार्थम्? अये! केसरिण इद वैरिणां मांसखण्डानि प्रसह्य स्वायत्तीकर्तुमेव ते सिंहीकृता मया।
मलखानः (आननमुत्थाप्य सास्फुटरोदनम्)
महाराज! बर्बरसिंहोऽपि सन्नहं मन्दभाग्यो जम्बुको जातः। किञ्चिदपि कर्तुं न शशाक। कालिमोपेतं मन्मुखम्।
गोविन्दसिंहः (सातङ्कम्)
तत्त्किं परिभुग्नौ मे दारकावालमगीरस्य धर्मान्धत्वदावाग्नौ? मलखान! तत्किं मन्नेत्रज्योतिर्भूतो जोरावरसिंहो निर्वाणमुपगतः? किम्मे दुर्ललितदारकः फतेहसिंहो नामशेषो जातः?
मलखानः (तारस्वरेण विलपन्)
महाराज! कथं स्फुटीक्रियेत? अनेन हतकवक्त्रेण कथं वर्ण्येत? हन्तभोः! एतन्निवेदनात्प्रागेव मया कथं न मृत्युर्वृतः?
गोविन्दसिंहः (अश्रूणि प्रमार्ज्य सधैर्यम्)
अथ किं वृत्तं वन्द्यचरणाया मातुः? कुत्रास्ति सा?
मलखानः (सीरस्ताडं परिदेवमानः)
हन्त स्वामिन्! सा तपस्विन्यपि स्ववंशदीपौ निर्वापितौ दृष्ट्वा देवी मीराबाईव कालकूटं निपीतवती।
गोविन्दसिंहः (स्तम्भितकण्ठः साश्रुमुखः काष्ठफलकादवतीर्य पूजागृहं गत्वा)
पूज्य पितृचरण! मम दीक्षागुरो! किमेतज्जातम्? परमेश्वर! इस्लामधर्ममनङ्गीकुर्वन्नेव भवान् आलमगीरस्य क्रौर्यवैश्वानरे सन्दग्धः! अद्य पुनस्ते पौत्रौ हव्यतामुपगतौ? शक्तिम्मे देहि वाहेगुरो! पन्थानं मे निर्दिश मत्स्वामिन्! न खलु खालसासम्प्रदायगुरुरूपेण अपितु भग्नहृदयो निराश्रयः पितेव गोविन्दसिंहोऽद्य भवन्तं भिक्षां याचते।
(इति सचीत्कारं बहुशो विलपति)
बन्दाबहादुरः (पार्श्वमुपेत्य सश्रद्धं सान्त्वयन्)
सत् श्री अकाल! महाराज! आत्मानमवतु भवान्। भवन्तं परिदेवमानं पश्यन् विध्वंसते तुहिनाचलः। सागरे वात्याचक्रं संलक्ष्यते। गगनमण्डले ग्रहतारकाः स्खलन्ति। दिवसो निशायते स्वामिन्! उत्तिष्ठतु गुरुवर्यः। इदानीमपि जीवतितरां बन्दाबहादुरः! प्राणोत्सर्गमूल्यमेतत् बन्दाबहादुर आलमगीरकुलात् निश्चप्रचमाग्रहीष्यति।
(इति गोविन्दचरणयोः प्रणमति)
गोविन्दसिंहः बन्दकं! मम पुत्रक! त्वमेव ममात्मासि। अस्मदनन्तरं न समाहिता भविष्यन्ति तत्रैव गुरोरात्मा प्रभविष्यति। वत्स बन्दक! मम पुत्रयो रुधिरमाह्वयति मामिदानीम्। एष गच्छाम्यहम्। सिक्खसम्प्रदाययोगक्षेमौ तव हस्तयोरर्पितौ मया!
(इति वीरवेशं नाटयति)
बन्दाबहादुरः (गोविन्दसिंहस्य पादौ गृह्लन्)
महाराज! अलमस्मान् अनाथीकृत्य! शरीरं भवान्। बन्दा पुनश्छाया भवच्छरीरस्य। रुधिरस्यान्तिमं विन्दुं यावद् भवदैश्वर्यं मलिनायमानं न द्रक्ष्यति भवच्चरणसेवकोऽयम्। परन्तु स्वामिन्! बन्दकमेकाकिनमपहाय न गच्छतु भवान्!
गोविन्दसिंहः (बन्दकमङ्कपाल्यामागृह्य)
उत्तिष्ठ वत्स! शरीरमात्मानं च प्रत्यभिजानीहि। शरीरेण सह शरीरस्य सम्बन्धो भवति। आत्मा पुनर्मुक्त एव। न तदुपरि किमपि बन्धनम्। जीवनस्यान्तिमं युद्धं चरितार्थयितुं गच्छाम्यहम्। यदि नाभिरोचेत तर्हि त्वमपि मामनुसर।
(बन्दाबहादुरं समेत्य गुरुगोविन्दसिंहः प्रतिष्ठते)
उद्घोषकः
निर्गतो गोविन्दसिंहो बन्दकद्वितीयः
धर्मयुद्धं संविधातुं
विज्ञातं तावदेव
नामशेषतां यातः
दिल्ल्यां क्रूर औरंगजेबः
सिंहासहमधिकर्तुं बद्धपरिकरास्तस्य
निर्वीयपुत्रका युद्धरताः समभूवन्
बन्धुरेव पपौ हन्त रुधिरं सहोदरस्य
सुतो मुअज्जमनामा
शरणमागतस्तावत्
गुरुश्रीगोविन्दस्य!
पन्थाः समजायत निष्कण्टकः
सिंहासनमधिरुरोह दिल्ल्यां शाहंशाहः
प्राख्यातोऽभूद् बहादुरशाहनाम्नाऽसौ!
(कारुण्यसूचकः संगीतध्वनिः श्रूयते)
निभृतनिभृतं हन्त! मृत्युः
गुरुसमीपमुपागतः।
दाक्षिणात्ये भारते नान्देणनामनि स्थानके
सान्ध्यकाले वन्दनं सम्पाद्य यावत्
गुरुवरो ह्यासीच्छयान-
स्तावदेव विषाक्तचित्तः
कोऽपि सिक्खारिः पठानः
प्राहरद् गोविन्ददेवं हन्त! दुस्सहखड्गधातै-
स्तत्क्षणं स महामनाः पञ्चत्वमेतः।
तदनु वैरागी स बन्दा
पूज्यगुरुनिधनार्दितः सन्
भैरवे समरे महाकालत्वमेतः
एकमेकं पथभ्रष्टं संजधान स मार्गयित्वा
क्रूरहृदयं हिन्दुधर्मविनाशहेतुम्!
सम्प्रकाश्य च भूमिलोकं
बहादुरशाहस्य कोपाग्नौ विदग्धः सोऽपि वीरः।
अद्य नो गोविन्ददेवः
न वा वीरवरस्स बन्दा
चारुचरितं तयोर्हन्त यशोऽभ्युपेतं
निखिलपञ्चनदप्रदेशं
मोदयत्यामोदयति च!!
(जवनिका पतति। नाटकमवसितं भवति। समग्रोऽपि सम्मर्दो नाट्यशालातो बहिर्निष्क्रामति)
हेमेन्द्रः तात्! कीदृशमासीन्नाटकमिदम्?
कृपालसिंहः विजयतां विजयतां वाहेगुरुः। खालसासम्प्रदायं दीपितवानसौ। तस्य वचनानि निशम्य तु ममापि रोषः प्रतिमुद्धः।
हेमेन्द्रः तात! गुरुदेवः कदापि धर्मद्वेषं न कृतवान्। हिन्दवो बलपूर्वकं तुरुष्कीक्रियन्तामिति औरंगजेबस्य दुर्नीतिरेव तस्मै नारोचत।
कृपालसिंहः सम्यग् वदसि वत्स! इदमेवासीत् कारणम् आलमगीरगोविन्ददेवयोर्वैमनस्यस्य। अन्यथा तु स्वजनकस्तेगबहादुर इद गोविन्ददेदोऽपि मुगलसैनिकरूपेण कियन्त्येव युद्धानि कृतवान्।
हेमेन्द्रः तात! गोविन्ददेवः कदापि बन्धुभ्यो न द्रुह्यतिस्म। स कदापि भारतराष्ट्रं न खण्डितवान्। परन्तु पश्यन्तु तावदिदानीम्। तस्यैव अनुयायिंनो मुष्टिमिताः सिक्खाः किं कर्तुं व्यवसिताः?
कृपालसिंहः (सनिर्भर्त्सनम्)
किमिदमधरोत्तरमसम्बद्धञ्च भाषितुमुपक्रमसे?
अमृताः अलं बालकं निर्भर्त्स्यं। प्रश्नस्तस्य कथं न साधु समाधीयते?
कृपालसिंहः यत् तथ्यं न जानाति नावगच्छति किमर्थं तत् पृच्छति?
अमृताः अहन्तु जानाम्यवगच्छामि! भवतु, अहमेव तावदिदं पृच्छामि।
कृपालसिंहः अकालिनां सिक्खानां जातिवैशिष्ट्यमपक्षीयते। तेषां स्वाभिमानो जातिगौरवं च नश्यतः। अतएव पृथक्प्रत्यभिज्ञानसंरक्षणार्थं खालिस्तानमपेक्ष्यते तैः। तेषामान्दोलनं समुचितम्।
अमृताः साधु साधु! अद्भुतं समौचित्यं निरूपितम्? किं सिक्खा हिन्दवो न वर्तन्ते? किमेकस्यैव कुटुम्बस्य द्वौ बालको सिक्खहिन्दू न वर्तेते? किं सिक्खानां खालिस्ताननिर्माणेच्छा राष्ट्रद्रोहमात्रं न पुष्णाति?
कृपालसिंहः (सोद्वेगम्)
मार्गे कथं विवदसि? गृहमासाद्य वार्ता करिष्यावः।
हेमेन्द्रः तात! यद्वेवमेव प्रत्येकराज्यं स्वस्मै पृथग् राष्ट्रं याचेत तर्हि किं भविष्यति भारतराष्ट्रस्य?
कृपालसिंहः (सक्रोधम्)
भ्राष्ट्रे यातु तव.........।
अमृताः कथम्भोः मुखदरीमाविलयसि? खालिस्तानयाचकान् देशद्रोहिणः कथं न भ्राष्ट्रे निक्षिपसि! तव पत्नीत्वं निर्वहन्त्यपि साम्प्रतमहं लज्जामनुभवामि।
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
अमृतसरनगरस्यैकस्मिन् क्षेत्रे कृपालसिंहस्य भवनम्। शर्वर्याश्चतुर्वादनवेला। निद्रामग्नो दारकः कृपालसिंहस्य हेमेन्द्रनामाऽकस्मादेव स्वप्ने प्रसारिणं विलक्षणं प्रकाशपुञ्जमवलोकते। अनन्तरमेव माध्वीकमधुरया वाण्या च्छन्दांसि कानिचित् प्रकटयन्ति।
स जयेद् भूतलस्त्रष्टाऽलक्ष्यश्चेको निरञ्जनः।
सुखमूलं स एवैको दुःखितं सर्वभूतलम्।।1
मृषा जातिर्मृषा पंक्तिर्योगभोगादिकं मृषा।
भक्तिमान् लभते देवं नानको वक्ति सत्तमम।।2
गुरुर्हि नानको जातो ननकानाख्यनीवृति।
अन्वेषणैर्हरिः प्रायः सिक्खधर्म इतीरितम्।।3
आद्यो हि नानको देवो द्वितीयश्चाङ्गदो गुरुः।
तृतीयोऽमरदासश्च सिक्खमार्गप्रवर्तकः।।4
(अकस्मादेव प्रकाशपुञ्जे कापि भव्याकृतिः साधुवेशधारिणी प्रकटयति)
हेमेन्द्रः महाराज! प्रणमामि। कोऽस्ति भवान्?
रामदासः वत्स! सिक्खसम्प्रदायस्य चतुर्थो गुरुः रामदासोऽस्मि। गुरुनानकस्य मानवधर्मो मया भारतराष्ट्रस्य कोणे-कोणे प्रसारितः। आगरानगरं यावन्मदीया कीर्तिर्गता। शहंशाहोऽकबरोऽपि मां प्रतिष्ठापितवान्। सिक्खसम्प्रदायस्य विस्तारार्थ पञ्चशतबीघामितभूमिं स मह्यं प्रादात्। तस्यामेव भूमौ मयाऽमृतसरोवरं हरिमन्दिरञ्च निर्मापिते।
(मध्य एवापरोऽपि भव्यपुरुषः प्रकटीभवति)
हेमेन्द्रः (सादरम्)
सत् श्री अकाल! महाराज! भवान् पुनः कोऽस्ति?
अर्जुनः वत्स हेमेन्द्र! अर्जुनोऽस्म्यहं पञ्चमो गुरुः। गुरुनानकस्य अन्येषाञ्च हिन्दुतुरुष्कसाधकानां कबीनां भक्तानां वाक्यानि संहृत्य मया सिक्खानाम् आदिग्रन्थो लिखितः। यस्मै गुरुग्रन्थसाहिबाय हरिमन्दिरे प्रतिदिनं प्रणतिमर्पयसि स मयैव लिखितः।
मुगलगृहयुद्धे राजदारकस्य खुशरोः पक्षग्रहणात् शहंशाहो जहाँगीरो लक्षद्वयमितेन रुप्यकराशिना दण्डितवान्। अर्थदण्डञ्चानिष्पादयन्तं मां घातितवान्। मया योगबलेन स्वप्राणाः समुत्सृष्टाः।
(पुनरपि काव्यस्वरः प्रस्फुटति)
अर्जुनस्य सुतः षष्ठो हरिगोविन्दको गुरुः।
सप्तमो हरिरायश्च किशनोऽप्यष्टमो मतः।।5
नवमः खालसारत्नः गुरुस्तेगबहादुरः।
धर्ममानवताहेतोः विससर्ज स्वजीवनम्।।6
द्यां संस्पृशति यत्कीर्तिः कुन्दकर्पूरपाण्डुरा।
धर्मरक्षार्थमेवासौ प्राणानपि ददे मुदा।।7
(गुरुतेगबहादुरः समक्षमायाति)
हेमेन्द्रः महाराज! भवानेव गुरुतेगबहादुरः? कश्मीरस्थहिन्दूनां सबलात्कारं तुरुष्कीकरणं भवतैव खलीकृतम्? गुरुदेव! अनेनैवापराधेन आलमगीरो भवन्तमिस्लामधर्ममनङ्गीकुर्वाणं नृशंसतया धातितवान्?
तेगबहादुरः साधु वत्स हेमेन्द्र! तेगबहादुर एवास्मि। परन्तु एतावति लघुवयसि कथं नु ज्ञातमेतत्सर्वं त्वया?
हेमेन्द्रः (सहर्षम्)
महाराज! मज्जननी सर्वमेतत् मह्यमाख्यातवती। सत् श्री अकाल।
(क्षणेनैव तेगबहादुरस्याकृतौ गुरुगोविन्दसिंहस्य मुखच्छविः संलक्ष्यते)
अहो आश्चर्यम्! चित्रमेतत्। देव! सिक्खानां दशमो गुरुगोविन्दसिंहो भवान्? चित्रपरिचयाद् भवन्तं प्रत्याभिजानामि। महाराज! सत् श्रीअकाल। जय माता दी!!
गोविन्दसिंहः (सवात्सल्यम्)
वत्स! जय माता दी! चिरञ्जीव! वर्धस्व!!
हेमेन्द्रः (सहर्षम्)
भगवन्। ह्य एवाधिमञ्चं प्रस्तुते नाटके भवज्जीवनवृत्तं दृष्टवानस्मि। सत्यमेव भवान् परो देवः। परन्तु पितरं पृष्टं मदीयं प्रश्नं भवानेव तावत् समादधातु। प्रश्नं जानाति भवान्!
गोविन्दसिंहः वत्स हेमेन्द्र! धर्मान्धस्यालमगीरस्यात्याचारेभ्यो हिन्दुत्वं मानवताञ्च संरक्षितुं मया स्वशिष्याः (सिक्खा) सैनिकीकृताः! एकेकस्मात् हिन्दुगृहात् एकैकस्या हिन्दुजनन्या सोऽहं धर्मरक्षणार्थम् एकमेकं पुत्रं याचितवान्। अनेक प्रकारेण मया धर्मो रक्षितः।
वत्स हेमेन्द्र! प्रत्येकसिक्खो मूलतो हिन्दुरस्ति। यथा भूषणं वस्तुतः सुवर्णमेव तथैव सिक्खोऽपि हिन्दुरेव। पश्य तावत्
श्रीरामे पुरुषोत्तमे विलसति प्रीतिर्मदीयाऽनघा
श्रीकृष्णे रमते नटीव धिषणा लीलामनोरञ्जनी।
साक्षादेव शिवोऽहमस्मि परया शक्त्या लसद्विग्रहः
अन्यत्किं कथयामि सिंहनिलया दुर्गा परा देवता।।8
वत्स हेमेन्द्र! एतद्रहस्यमविजानन् सिक्खोऽद्यतनः स्वमूलमेव छिनत्ति।
हेमेन्द्रः महाराज! तत्किं खालिस्तानयाचना न युक्तियुक्ता?
(अकस्मादेव आंग्लवेषधारौ युवकौ प्रविशतः)
ऊधमसिंहः, भगतसिंहः सर्वथाऽयुक्तियुक्तेयं याचना। राष्ट्रद्रोहोऽयम्। अस्य पापस्य फलं समग्रेणापि पञ्चनदराज्येन भोक्तव्यं भविष्यति।
हेमेन्द्रः (सप्रणामम्)
भवांस्तावद्राष्ट्रभक्तो भक्तसिंहः? पितुश्शयनकक्षे भवच्चित्रं दृष्टम्मया। परन्तु कोऽयं द्वितीयो भवत्सविधौ?
भगतसिंहः जलियाँवालोद्यानगुलिकाकाण्डस्य मुख्याभियुक्तं जनरलडायरं लन्दननगरस्य कस्याञ्चित् सभायां यो गुलिकासारवर्षाभिश्छिन्नभिन्नाङ्ग चकार तं राष्ट्ररत्नमूधमसिंह न जानासि?
ऊधमसिंहः वत्स हेमेन्द्र! इदानीं प्रत्यभिज्ञातोऽस्मि न वा?
हेमेन्द्रः बाढम्। ज्ञातम्। सत् श्री अकाल। भवन्तः सर्वे यस्य राष्ट्रस्य एकतायै स्वतंत्रतायै च प्राणाहुतिं दत्तवन्तस्तस्मिन्नेव राष्ट्रे सम्प्रति पृथक् खालिस्तानं याच्यते। पश्यन्तु तावत्
आस्थाय प्रहरीव रक्षणपरो योऽभूत्सदा संकटे
सर्वस्वं व्यपहाय कीर्तिमतुलां भेजे सुरक्षाग्रणीः।
यो बाह्याक्रमणेषु शेतुमथवा नाल्पं शशाकानिशं
सोऽयं पञ्चनदप्रदेशविभवः सम्पद्यते दुर्दशाम्।।9
शतमिताः सहस्त्रमिता वा निर्दोषा हता हन्यन्ते च इदानीमपि न शाम्यत्यग्निः। स्वर्णमन्दिरं धर्मद्रोहिभिः पापगृहीकृतम्। कथं न भवन्तं एषां दुर्वुद्धिं परिवर्तयन्ति? पञ्चनदराज्यमिदानीं निखिलभारतराष्ट्रस्य शीर्षवेदनामूलं जातम्। भवन्तः स्वजन्मभूमिं कथं नाततायिभ्यो विमोचयन्ति?
भगतसिंहः वत्स हेमेन्द्र! त्वत्सदृशे निष्ठावर्ति सिक्खे सति वाहेगुरोष्णीशो न समुच्छलिष्यति। पश्य,
कतिपयक्षणं यावदुद्याने वर्तते इयं वात्या
न चिरं कुलायो भविष्यति पुनरपि गास्यन्ति विहगाः
अद्य भूरियं पञ्चनदानां
अधिकारे तिष्ठति जरनैलसिंहस्य
परमिमां मोचयितुं नूनं
वयं श्व एव स्वयमागमिष्यामः।।
अमृताः (अपटीक्षेपेण प्रविश्य ससम्भ्रमम्)
उत्तिष्ठ उत्तिष्ठ वत्स हेमेन्द्र! अनर्थः सञ्जातः। निखिलमपि राष्ट्रं विपन्नं जातम्।। सुरक्षासैनिकाभ्यां बेअन्तसतवन्ताभ्यां प्रधानमंत्री श्रीमतीन्दिरागान्धी निहता।
हेमेन्द्रः (प्रबुध्य सचीत्कारम्)
न खलु न खलु। मातः किमिदं भणसि? इदानीमेव स्वप्नेऽहं गुरुवर्य रामदासमर्जुनं तेगबहादुरं गोविन्दसिंहञ्चापश्यम्। अम्ब! मया श्रेष्ठराष्ट्रभक्तस्य भगतसिंहस्य ऊधमसिंहस्य च सान्त्वना श्रुता। न ते पञ्चनदप्रान्तं कलङिक्त द्रक्ष्यन्ति।
अमृता (दारकं प्रबोधयन्ती)
वत्स हेमेन्द्र! स्वप्न आसीदसौ। सत्यमिदं पुनः। निखिलोऽपि संसारः संस्तम्भितोऽनया घटनया। सिक्खजातिः स्वप्रतिष्ठां विलोपितवती। एहि तावत्। रेडियोसमाचारं श्रुणुवः?
हेमेन्द्रः (सवेदनं मातृसमीपमासाद्य)
अम्ब! मम सदयाम्ब! एकामपि ममेच्छां पूरयिष्यसि?
अमृता (सस्नेहं सास्त्रम्)
वत्स! किं वक्तुमिच्छसि? कथय तावत्।
हेमेन्द्रः यथा त्वं ममाम्बा तथैवेन्दिरागान्ध्यपि तद् दिवङ्गतां जननीं सन्द्रष्टुं मां दिल्लीं गमयिष्यसि? या स्वरुधिरव्रातैरस्य देशस्य मृत्तिकामभिषिक्तवती तस्या अभिषेकं निजाश्रुभिः सम्पादयितुमिच्छामि।
अमृता (साश्रुनयनम्)
मम दारक! अवश्यं याहि। तव पिता कामं नेच्छेत्। परन्त्वहं त्वां प्रेषितुं समीहे। गच्छ, रक्ताभिषेकवतीं जननीं पश्य।
(रेडियोयन्त्रं प्रवर्तयति। इन्दिराया वाणी श्रूयते)
‘मुझे चिन्ता नहीं कि मैं जीवित रहूँ या न रहूँ। जब मेरी जान जायेगी तो मेरे खून का एक-एक कतरा भारत को जीवित रखेगा और मजबूती देगा।’
(प्रकरणवक्रताश्रितम् एकाङिकरूपकम्)
पात्रपरिचयः
सूत्रधारः (कथायोजकः)
काश्यपः (महर्षिः कश्चित्)
नारदः (आश्रमवटुः)
गौतमी (तापसवृद्धा)
काश्यपाभिशापम्
(प्रकरणवक्रताश्रितम् एकाङिकरूपकम्)
।।प्रथमं दृश्यम्।।
कराम्बुजविराजितां कलितकच्छपीमञ्जसा
श्रुतिस्वरविमूर्च्छनामहितमञ्जुनादान्विताम्।
निरन्तरमखेदितां सपदि वादयन्ती मुदे
भवेदिह सचेतसां द्रुहिणसुन्दरी भारती।।1
(नान्द्यन्ते ततः प्रविशति सूत्रधारः। पुष्पाञ्जलिं विकीर्यं)
भोः भौः सहृदयाः भवदिच्छानुरूपमद्य मया प्रस्तूयते प्रकरणवक्रताश्रितं लघुरूपकं काश्यपाभिशापं नाम। कल्पयिता त्वस्य रूपकस्याभिराजराजेन्द्रः प्रयागविश्वविद्यालयीयसंस्कृतविभागे प्रवाचकपदमधिरूढो यमधिकृत्य सामोदमुल्लिखति कविशेखरमणिस्त्रिपाठी भास्कराचार्यः।
दिव्या वाणी वलितमधुरा स्वर्धुनी भूतलेऽस्मिन्
हिन्दीभाषा नवलकलया पावनी भानुकन्या।
अन्तर्नीरं प्रदहति च या रागरम्या कविश्रीः
उत्सङ्गे ताः सुखयति समं तीर्थराजोऽभिराजः।।
(श्रुतिमभिनीय)
अये वंशीमुरजझल्लरीपुरस्सरं संगीतकं यथा नेपथ्ये समारब्धं तेन रूपकारम्भोत्साहः सम्यक् सूच्यते।
(सहृदयाभिमुखीभूय)
भो सहृदयास्तीर्थयात्राप्रतिनिवृत्तानां कुलपतीनां महर्षिकाश्यपानामभिनन्दनसमारोहसम्भारोऽयं प्रत्यक्षमानीयते भवताम्। तदहमप्यनन्तरकरणीयाय नेपथ्यगृहमुपसरामि।
(इति प्रस्तावना)
(ततः प्रविशति वटुगणपरिवारितः कुलपतिः काश्यपो मृगाजिनस्थः)
गौतमी अयि भो आश्रमवासिनः तीर्थयात्रोपावृत्तो भगवान् काश्यपोऽस्माकं समेषां धन्यतया पुनरलंकरोति पुण्यस्थलीमिमाम्। तदिदानीं नारदप्रभृतिभिर्वटुभिर्मुक्तच्छन्दसा गीतिकैका तत्सभाजनार्थं प्रस्तूयते!
(गीतिका प्रस्तूयते)
गच्छ सखे! पुनरागमनाय!!
गच्छति सलिलं स्वयमपि गगनं
वर्षति पुनरिह भुवनसुखाय!!
प्रतिसन्ध्यं विनिमज्जति सविता
म्लायति सरसि सरोरुहवनिता
उदयति किन्तु स एव विभाते
पुनरपि कमलवनाभ्युदयाय!!
अहनि मृगाङ्कोऽपि सहति तापम्
नो नन्दयति दृशामभिलाषम्
किन्तु रजन्यां हिमकरनिकरैः
स्फुरति नभसि कैखकलनाय!!
संहतकरपदनखमुखवचना
भवति न मनुजो विलिखितरचना
गुणगरिमैव विरचयति कायं
प्रभवति येन चिरं रणनाय!!2
(नारदो गीतिकान्ते मालतीपुष्पग्रथितां मालां काश्यपकण्ठे विन्यस्यति साष्टाङ्गं प्रणामञ्च निवेदयति! सर्वेऽपि वैखानसास्तमनुकुर्वन्ति)
काश्यपः (साह्लादम्) स्वस्ति। वत्सकाः स्वस्ति युष्यभ्यम्। परं प्रीतोऽस्मियुष्मद्गीतिभावनया। मदभावेऽपि गौतम्या तपोवनमिदं साधु संरक्षितमित्यवलोक्य मोमुद्यते मच्चेतः।
गौतमी (सप्रणामम्)
भगवन्! सर्वमेवेदं भवत्तपोगौरवम्। यतो हि,
माल्यसंग्रथिते पुष्पे देवपादान्वितेऽपि वा।
सौरभं पुष्कलं तस्य गन्धयत्येव भूतलम्।।3
(ततः प्रविशति मृगपोतको दीर्घापाङ्गः)
काश्यपः (दृष्ट्वा सहर्षम्)
अये दीर्धापाङ्ग! एहि एहि वत्स! त्वदभावेऽतिदुःखं सोढं मया। चिराय दृष्टोऽसि।
(इति कुशग्रासैरुपच्छन्दयति। दीर्धापाङ्गः काश्यपसमीगमागत्य बहुशः प्रणयं प्रकटयति)
काश्यपः गौतमि! स्मरसि खल्वस्य जननव्यतिकरम्?
गौतमी भगवन्! साधु स्मरामि। अहं पुनः सान्ध्यसवनार्थं पुरोडाशं पचन्ती पर्णकुटीर एवासं तावदेवाश्रमबटूनां कलकलोऽश्रूयत।
काश्यपः गौतमि! सिंहनादं श्रुत्वाऽस्य जननी जलं पिवन्ती यावदेव सझम्पमुत्प्लुत्य धावितुमुपक्रमते स्म तावदेव गर्भभारमन्थरा वराकी साऽवटे स्खलद्गतिस्तत्रैव न्यपतत्। मयि पश्यत्येव पोतकमिमं प्रसूय सा प्राणपीडामसहमाना पञ्चत्वं गता।
गौतमी भगवन्! उटजाद्बहिरागम्य दृष्टम्मया यदयं हतभाग्यो मृगपोतको भवदुत्सङ्गमलङ्करोति।
काश्यपः (दीर्घापाङ्ग प्रचुम्ब्य लालयश्च)
गौतमि! कियतोत्साहेन शकुन्तलाऽस्य नामकरणं कृतवती? सर्वेऽपि आश्रममृगास्तस्मिन् दिने मृदुदूर्वाङ्कुरैर्यथारुचि परितोषिता आसन्! स्मरसि न वा?
गौतमी भगवन्! सर्वं हस्तामलकमिव पुन पश्यामि।
नारदः गुरुवर्य! यस्मिन् दिने यूथविभ्रष्टो दीर्घापाङ्गः केनचित् व्याघ्रशावकेन भक्षयितुमाकृष्यमाणस्सन् दैववशात्तत्रोपस्थितैरस्माभिर्वारित आसीत् अहमेवैनं क्रोडे समुत्थाप्य भवत्सकाशमानीतवान्।
गौतमी भगवन्! वराकी शकुन्तला तु स्वकृतकतनयस्य दीर्घापाङ्गस्य धृत्तमाकर्ण्य एव मूर्च्छामुपगताऽऽसीत्।
काश्यपः (क्रोधमभिनीय)
गौतमि! जितक्रोधस्यापि मे मनस्तस्मिन् क्षणे ज्वलदनलपरीतमिव सञ्जातम्। प्रबुद्धायां शकुन्तलायां मया स्वतपोबलेन नियमोऽयं कृतो यद्दीर्धापाङ्गस्य दर्शनमात्रेणैव हिंसजीवानां प्रकृतिर्विपर्ययमेष्यतीति।
नारदः (सनृत्यम्)
एतत् श्रुत्वैव भगिनी शकुन्तला नृत्यन्ती कूर्दन्ती महान्तं प्रमोदमुपगतासीत्। साऽस्मभ्यं सयत्नरक्षितं पिण्डखर्जूरं तदा भोजितवती।
गौतमी (सस्मितम्)
भगवन्! नारदास्तु पिण्डखर्जूरस्मरणेनैव सर्वं स्मरति!
(सर्वे हसन्ति)
नारद! निवेदय तावत् दीर्घापाङ्गस्य दिनचर्याम्?
नारदः भगवन्! यदस्माभिः प्रत्यक्षमवलोकितं तदुच्यते। अयं पुनः
आदत्ते प्रातराशं हरिततृणमयं खड्गवृन्दैः परीतः
कूर्दत्युच्चैः प्रधावी निहतगजघटैः सिंहशावैश्च सार्धम्।
कण्डूतिं शृङ्गकाग्रैर्विदधपि चिरं रोचते सिन्धुरेभ्यः
कस्मात्किं किं कदा वा कलयति रुचिरं को नु वेत्तुं समर्थः??4
(सर्वेऽपि हसन्ति)
काश्यपः पश्य गौतमि! पुनरप्ययं विहर्तुकामो दृश्यते। न मम हस्ताभ्याशेऽवस्थातुमिच्छति।
(समुपलाल्य विमुञ्चति)
गच्छ, यथेच्छं विहर तपोवने। गौतमि! शकुन्तला पुनर्न दृश्यते? क्व वर्तते सा?
गौतमी भगवन्! मन्ये सखीभ्यां सह चरणोपरागसुलभं लाक्षारसमन्वेष्टुं क्वचिदरण्ये गता। इदानीं विश्राम्यतु भवान्। अहं तामादाय तूर्णमागच्छामि।
।।जवनिकापातः।।
।।द्वितीयं दृश्यम्।।
(मालिनीतटवर्तिनि स्वाश्रमे महर्षिकाश्यपः प्रातर्यज्ञं सम्पाद्य भगवतेऽहस्कराय जलाञ्जलिं प्रददद् दृश्यते)
काश्यपः (समंत्रोच्चारणम्)
ऊँ नमो भगवते सहस्त्रमरीचिमालिने! ऊँ नमोऽज्ञाननिद्रान्तकाय सूर्याय! ऊँ नमोऽहस्काराय!!
चञ्चन्मरीचिनिचयैर्जंगतां विधुन्वन्
निद्रावशीकृतहृषीकचयानुरोधम्।
इन्दिन्दिरावृतकुवेलवनाभिनन्दी
बालार्क आदिशतु मे नवसुप्रभातम्।।5
(नेपथ्ये चीत्कृतयश्श्रूयन्ते)
अब्रह्मण्यं भो अब्रह्मण्यम्!
काश्यपः (विस्मयमभिनीय)
अये किन्नु स्यात्! प्रशान्ततपोवनेऽब्रह्मण्यं नाम किम्?
(नेपथ्ये पुनश्श्रूयते)
अब्रह्मण्यं भो अब्रह्मण्यम्! हा दैव!!
लोलापाङ्गैर्विधुन्वन् युवतिदृगमलावेक्षणानि प्रवेगै-
र्यातो वातप्रमीत्वं विदधदिह सुखं मूकचाटूक्तिसारैः।
लीलाभूमिः कलानां हरिणकुलमणिः पूज्यकण्वाक्षिदृष्टिः
दीर्घापाङ्गो हतोऽयं कुलगुरुतनुजाकायजीवातुभूतः।।6
(नेपथ्यध्वनिश्रवणसमकालमेव जलपात्रं काश्यपहस्तात्पतति)
काश्यपः (साश्रुबदनः)
हा दैव! किमिदं श्रूयते? दीर्घापाङ्गो व्यापादित इति कथं विश्वसनीयम्? नैतत् सम्भवति। मयि जीवति दीर्घापाङ्गो न हन्तुं शक्यते।
नारदः (अपटीक्षेपेण ससहचरः प्रविश्य)
भगवन् भगवन्! अनर्थः संवृत्तः। दीर्घापाङ्गो मृतः (इत्यर्धोक्ते)
काश्यपः (क्रोधोद्धुरस्सन् वामहस्ते जलमादाय)
हुँ येन दुर्मतिनाऽततायिनाऽभयारण्येऽस्मिन् प्रविश्य तपोवनप्राणभूतो मृगशावको निहतस्तस्मै शापोऽयम्मे प्रभवतु। अयमहं काश्यपः स्वतपश्शक्त्या वच्मि,
क्षणमपि न वशे स्यात्तस्य बुद्धिः प्ररूढा
नयविनयविहीनोऽसौ प्रमत्तोऽस्तु तूर्णम्।
न खलु भवतु लोके तस्य कीर्तिप्रशंसा
भवतु भुवनभर्त्ता क्ष्माधिपो लुब्धको वा।।7
नारदः (स्रसम्भ्रमम्)
भगवन्! न कोऽपि लुब्धक आसीदसौ। स तु हस्तिनापुरनरेशो दुष्यन्त आसीत्।
(ससम्भ्रमं प्रविशति गौतमी शृणोति च वार्तालापम्)
काश्यपः (सदैन्यम्)
धिङ् मामसाम्प्रतकारिणम्। त्वरया विवेको मेऽपहृतः। तस्मै सत्यसन्धाय प्रजाहितचिन्तकाय धर्मप्रवणाय राज्ञे शापं प्रददता मयाऽत्मन एव हानिर्विहिता। वत्स नारद! कथन्न प्रागेव व्याहृतम्?
नारदः भगवन्! मद्वचनेऽर्धोक्त एव दीर्धापाङ्गवियोगमसहमानैरत्रभवद्भिः शापः प्रदत्तः। मन्दभाग्योऽहं पश्यन्नासम्।
गौतमी (सदैन्यम्)
भगवन्! पूर्वमेव ज्ञातम्मया यत् दीर्धापाङ्गनिधनं श्रुत्वैव भवान् दुर्धर्षकोपानलं प्रकटीकरिष्यति। तस्मादेवाहं धावन्ती भवत्सकाशमुपगच्छामि। परन्तु किमिदानीं भविष्यति?
काश्यपः वत्स नारद! आश्रमनियमविज्ञोऽपि नृपतिः कथमेतदकार्यं कृतवान्?
नारदः (सोत्साहम्)
श्रृण्वन्तु भगवन्तः। दूरवनात् विभ्रष्टसमागतः कश्चित् दुष्टसिंहऽशावक आश्रममृगपोतकान् अवसरमवाप्य पीडयतीत्यस्मन्मुखादाकर्ण्य महाराजो दुष्यन्तस्तं दण्डयितुं प्रतिज्ञातवान्।
काश्यपः ततस्ततः?
नारदः ततस्त्वद्यैव प्रभाते केनचित् आश्रमबटुना तपोवनाभ्यर्णचारी स सिंहशावको महाराजाय निवेदितः। श्रुत्वैव तत्सथानमुपेत्य सिंहपोतकमकुतोभयं स्वैरमटन्तं दृष्ट्वा लक्ष्यीकृत्य तं यावदेव प्रत्यञ्चातः करालशरं मुमोच तावदेव न जाने कुतो वायुवेगातु समुत्प्लत्य दीर्घापाङ्गो मध्येमार्गमापतितः। ततस्तु,
प्रफुल्लमल्लीव तुषारदग्धा
विरूढसन्ध्येव मृगाङ्कलुप्ता।
शराभिघातप्रविकीर्णमांसा
मृगच्छविश्चापि वभूव नष्टा!!9
काश्यपः (स्तम्भितकण्ठः)
हा मृगपोतक! तादृशस्य लवलीलतासुकुमारस्य ते मसृणकायस्य एवमभूत् करुणोऽन्तः! हा वत्से! शकुन्तले! कथमिदानीं धैर्यमुपगमिष्यसि? श्यामाकमुष्टिपरिवर्धितको ब्रणविरोपणक्षमैरिङ्गुदीतैलैर्निषिक्तकुशसूचिविद्धमुखः कृतकतनयस्ते दीर्घापाङ्गो दिवङ्गत इदानीम्।
गौतमी (साभ्यर्थनम्)
भगवन्! ननु प्रवातोऽपि निष्कम्पाः गिरयः। अद्य पुनः विप्रतीपं पश्यामि। सागरोऽपि मर्यादां विजहाति? चन्द्रोऽपि भस्मीभवति? भगवन्! निखिलाश्रमभव्यं भवदधीनम्। अहं पुनः किञ्चिद् दारुणतरं दुःखं निवेदयितुमागता।
काश्यपः (स्थिरीभूय साश्चर्यम्)
गौतमि! किं विवक्षसि? स्फुटं भण।
गौतमी भगवन् एषा भणामि।
(नारदं प्रति)
वत्स नारद! गच्छ त्वम्। शकुन्तला क्ववर्तते इति सम्यग् विज्ञाय द्रुतमायाहि।
नारदः (सादरम्)
यदाज्ञापयत्यार्या।
(इति बहुभिस्सार्धं गच्छति)
गौतमी भगवन्! भवत्यनुपस्थिते सति मृगयाप्रसंगेऽत्र समागतेन राज्ञा दुष्यन्तेनाश्रमस्य महती रक्षा कृता। रक्षांसि न इष्टिविघ्नमुत्पादयन्तीति श्रुत्वैव वैखानसमुखात् समागत्य तेन वीरेण राक्षसा निहता उपप्लाविताश्च।
काश्यपः (सपरितोषम्)
युक्तरूपमिदं पौरवाणाम्।
गौतमी तस्मिन्नेव प्रसंगेऽस्मद्दुहितरं शकुन्तलां निर्वर्ण्यानसूयामुखाच्च तस्याः क्षत्रपरिग्रहक्षमतां परिकल्प्य तस्यां बद्धदृढतरानुरागो बभूव महीपतिः। शकुन्तलाऽपि दुष्यन्ताभावे जीवितुमक्षमामात्मानं कल्पयन्ती कलामात्रशेषा चन्द्रमूर्तिरिव अस्तप्राया समलक्ष्यत। तस्या मरणातङ्कमवलोक्य सखीभ्यां तज्जीवनं दुष्यन्तहस्ते समर्पितम्। किं बहुना,
गान्धर्वविधिना राज्ञा परिणीता शकुन्तला।
पौरवं गर्भमाधत्ते यदिदानीं निवेद्यते।।9
काश्यपः (सस्मितम्)
गौतमि! प्रियं नः। शकुन्तलेदानीं राजमहिषी जातेति चिरसमीहितं मे पूर्णतामुगतम्। इदानीं महान्तं परितोषमनुभवामि। ऋषिरक्षितां तां शीघ्रमेव श्वसुरालयं प्रेषयिष्यामि।
गौतमी (सवितर्कम्)
भगवन्! किन्तु (इत्यर्धोक्ते)
काश्यपः गौतमि! अलं चिन्तया। त्वं पुनरस्मच्छापं शोचसि! तस्याप्युपायं करिष्ये। विषस्य विषमौषधम्। स्वयज्ञप्रभावेण तपोबलेन च राजर्षिं दुष्यन्तं स्थिरमतिं तेजोवन्तं चक्रवर्तिनञ्च विधास्ये। गच्छ शकुन्तलामानय तावत्। तामभिनन्दितुमुत्कण्ठितोऽस्मि।
गौतमी (सहर्षम्)
यदाज्ञापयन्ति भगवन्तः। एषा गच्छामि।
(इत्युत्थाय पर्णशालाभिमुखं प्रतिष्ठत)
।।जवनिकापातः।।
(पुराणकथोत्प्रेक्षितं नव्यमेकाङ्कम्)
पात्रपरिचयः
सूत्रधारः (नाट्यपरिचायकः)
द्वैपायनः (महर्षिः वेदव्यासः)
द्रुपदः (पाञ्चालनरेशः द्रौपद्याः पिताः)
इन्द्रः (अमरावतीश्वरो देवराजः)
मातलिः (इन्द्रसारथिः)
नारदः (महर्षिः अहल्याजानिः)
विरञ्चिः (सृष्टिकर्ता प्रजापतिः)
कुन्ती (पाण्डवजननी)
अहल्या (गौतमभार्या)
एकं सद् विप्रा बहुधा वदन्ति!
(एकाङिकरूपकम्)
साम्मुख्येनैव कंसं प्रबलतमरिपुंक्रीडया मुष्टिकादीन्
युक्त्या वार्हद्रर्थं तं यवनमपि जधानाजिभूमिं विमुच्य।
मत्या युक्त्याऽथशक्त्या द्विजसुरपृथिवीधेनुधर्मारिभूतान्
दैत्यान् हत्वा रथस्थो जयति कुरुरणे पार्थनाथो मुरारिः।।1
अपि च,
सख्यः किं कथयानि माधवगतं मध्येपथं मामायं
कालिन्द्या विनिवर्तितां सविनयं रुद्ध्वा प्रभाते चिरम्।
व्यर्थं पृच्छति राधिकाविषयकं वृत्तं मुदा लालयन्
काठिन्येन समागतेति वचसां पात्रं हारिः पातु वः।।2
(नान्द्यन्ते ततः प्रविशति सूत्रधारः। पुष्पाञ्जलिं विकीर्य)
सूत्रधारः मान्याः सहृदयाः मनोरञ्जनमद्य क्रियते। सुगृहीतसत्यव्रतं सम्प्राप्तरेवाप्रसादं प्रमोदितगणपतिं मोहितव्रजमोहनं कलितकृष्णकान्तं विपूजितविश्वनाथं भावितभास्करं शंसितश्रीनिवासं राधितराधावल्लभं कम्रीकृतकमलेशं समीहितविद्यानिवासं वन्दितसुन्दरमूर्तिं रञ्जितरुद्रदेवं प्रह्वीकृतकमलारत्नं समर्चितशिवशेखरं लालितलक्ष्मीsकान्तं वन्दितचण्डिकं प्रगीतप्रभातं कलितकरुणेशं जनकीकृताद्याप्रसादं वशीकृतकमलाकान्तं सम्प्राप्तारुणोदयं कविकुलमण्डनं सहृदयाशीर्वर्धितमहर्निशं देववाणीसपर्यापर्याकुलं राजेन्द्रमिश्रं सम्प्रति को न जानाति संस्कृतपक्षधरः? यो हि
वैदुष्या ज्ञानसन्दीप्तान रसज्ञान् काव्यसम्पदा।
जयते राधयन्नित्यं समाजं स्वीयसद्गुणैः।।3
(नेपथ्ये श्रूयते)
अज्ञानराशिमपहर्तुमुदारबुद्धि-
र्वेदांस्त्रिधा विशदयन्नजहत्पुराणान्।
सारस्वत वियति योऽभ्युदियाय नव्यो
जीयात्स कृष्णतरणिर्भगवाञ्छुकात्मा।।4
अये! भगवतां कृष्णद्वैपायनानामागमनं विदेद्यते? मन्ये प्रवृत्तमेव नाट्यम्। मान्याः रसिकाः स्वयंवरमहोत्सवे स्वधनुर्विद्याकौशलैन द्रुपदात्मजां कृष्णां परिणीय यावदेव वीरोऽर्जुनः पर्णशालामाजगाम बन्धुभिस्सार्धं तावदेव युधिष्ठिरमुखादानीता भिक्षाम्बेति श्रुत्वा कुन्ती विभज्य भुङ्ग्ध्वमिति भिक्षाबुद्धयैव मंत्रितवती। पश्चाच्च स्फुटिते सति सहस्ये दूयमानहृदया सा स्वसत्यरक्षायै चिन्तयामास।
अर्जुनस्यार्धाङिग्नीभूता द्रौपदी कथं पञ्चपाण्डवान् भजेत इति एका चिन्ता। स्वप्नेऽप्यसत्यमभाषमाणाया पृथाया वचनं कथं सत्य भवेदित्यपरा चिन्ता। संकटापन्नः खलु पाण्डवकुटुम्बः? कः पुनरुपायो भवेत? मन्ये परमकारुणिकानां महर्षिकृष्णद्वैपायनानामागमनेन प्रश्नोऽयं समाधानमेष्यति। तदहमपि प्रविशाम्यभ्यन्तरम्।
(ततः प्रविशति भगवान् कृष्णद्वैपायनो व्यासः)
कुन्तीः (सादरं चरणयोर्निपत्य)
भगवन्! भवत्स्नुषा पाण्डवजननी कुन्ती प्रणमति।
द्वैपायनः साध्वि! कल्याणमस्तु। मंगलमस्तु।
द्रुपदः भगवन् करुणावरुणालय! भवच्चरणेन्दीवरमधुव्रतोऽयं द्रुपदः प्रणमति।
द्वैपायनः स्वस्ति भवते। राजन् वर्धस्व।
कुन्ती भगवन्! इयं द्रुपदात्मजा कृष्णा सद्य एवार्जुनेन स्वयंवरमहोत्सवे परिणीता भवच्चरणसपर्यां विदधाति। वत्से! प्रणम कल्याणनिधानं स्ववंशमूलम्।
(द्रौपदी सादरं प्रणमति)
द्वैपायनः वत्से! सर्वसौभाग्यं लभस्व।
कुन्ती भगवन्! मन्येऽस्मत्कल्याणार्थमेव भवदागमनमतर्कितम्। सूर्योदये सति कुतोऽन्धकारः? इयं चारुशीला कन्या स्वधनुर्विद्याकौशलं प्रदर्श्य फाल्गुनेन पत्नीरूपेण सम्प्राप्ता। परन्तु रहस्यमेतदविजानत्या मया भिक्षानीतेतियुधिष्ठिरमुखात् श्रुत्वा सम्यग्विभज्य भुङ्ग्ध्वमिति पर्णशालाभ्यन्तरादेव झटित्यादिष्टम्। न मया कदाचित्स्वप्नेऽप्यसत्यभाषणं कृतम्। प्रभो! सम्प्रति मद्वचनरक्षणं संशयापन्नं प्रतीयते। किं करवाणि भगवन्? भवन्त एव प्रमाणमत्र!
द्वैपायनः (मनस्समाधाय सस्मितम्)
वत्से! अलं चिन्तया। अदृष्टप्रेरितमेव त्वद्वचनम्। न त्वयाऽसत्यमुदितम्। सत्यवक्त्री त्वं प्रमादेनापि मृषावादं कर्तुं न शक्नोषि। द्रुपदात्मजेयं पञ्चानामेव पाण्डवानां राजमहिषी भविष्यति।
द्रुपदः (ससम्भ्रमं प्रणम्य)
किमुच्यते भगवन्! कथमिदं सम्भवति? लोकविरुद्धमयशस्करं चैतद् भविष्यति। कथमहं प्रजाः स्वमुखं दर्शयिष्यामि?
द्वैपायनः (ससान्त्वनम्)
राजन्! विज्ञः सन्नपि प्राकृतजन इव मन्त्रयसे! उचितानुचितबुद्धिस्तु लोकापेक्षया जायते। धर्मतत्तवज्ञाः पुनः लोकं व्युपेक्ष्य परलोकं पश्यन्ति। पश्याम्यहं योगदृष्ट्या यत्सत्यं वर्तते। तदेव सत्यं पृथा भाषितवती।
द्रपदः (सादरम्)
भगवन्! किं सत्यमत्र पश्यति भवान्।
द्वैपायनः (सस्मितम्)
राजन् पाञ्चालाधिपते! इमे पञ्च पाण्डवाः शरीरमात्रेण भिन्नाः। चैतन्यं तु एकमेवामीषाम्। देवराज इन्द्र एवात्मानं पञ्चधा विभज्य समवतीर्णः धरामण्डले। अयमेव पुरन्दरः पार्थविग्रहो नन्दनन्दरूपधारिणां भगवतां नारायणानां साहाय्येन असुरान् कौरवान् समराङ्गणे हनिष्यति। पातिब्रतधर्मपरायणा शची एव स्वपतिमनुसरन्ती कृष्णारूपेण त्वद्गृहे सम्भूता। अतएव नात्र किञ्चिदसामञ्जस्यम्।
द्रुपदः भगवन् त्रिकालदर्शिन्! देवी शची कृष्णारूपेण मदगृहे जातेति सौभाग्यगर्वितोऽस्मि। परन्तु ईर्ष्याद्वेषविकलोऽयं लोकः। एतद्रहस्यं को नु खलु प्रत्येति?
द्वैपायनः राजन्! सम्यगुक्तवानसि। परन्तु किमेतेन? ऋतापेक्षी समग्रोऽयं ब्रह्माण्डः। सत्यमेव जयते नानृतम्। पञ्चषैस्तत्त्वदर्शिभिरेव लोको धार्यते न खलु शतमितैः सहस्त्रमितैर्वा मूढैः। विद्वज्जना न वैधेयान् प्रमाणीकुर्वन्ति। पश्य तावत्।
सुधासारा ज्योत्स्ना विधुनमनहेतुर्न च मलं
अलभ्यं सौरभ्य मृगमदमथेन्धे न च जनिः।
मधूच्छिष्टं स्वादैमदयतितरां लोकमखिलं
प्रशस्तिर्वस्तूनां भवति गुणमूलैव जगति।।5
द्रुपदः (सप्रणामं सादरम्)
भगवन् पाराशर्य! इन्द्र एवात्मानं पञ्चधा विभज्य पृथिव्यामवतीर्ण इति यदुक्तं भवद्भिस्तन्नावगतमस्माभिः। अपनयन्तु भवन्तोऽस्मन्मोहान्धकारम्।
द्वैपायनः राजन्! रहस्यगर्भं गूढातिगूढमेतद्देवचरितम्। तच्च प्रत्यक्षप्रमाणलुब्धैरल्पबुद्धिभिर्मानवैरवगन्तुं न शक्यते। तथापि भवत्सन्देहद्रुमं समूलमुन्मूलयितुं तत्सर्वं स्वतपःप्रभावेण दर्शयामि। सर्वेऽपि यूयं समाहितमनसो भवत। दिव्यदृर्ष्टि ददामि।
(सर्वेऽपि समाधिमग्ना इव स्थिरा जायन्ते। भगवान् द्वैपायनः कमण्डलुजलेन सर्वान् पवित्रकरोति। देवलोकदृश्य प्रत्यक्षीभवति)
राजन् द्रुपद! वत्से पृथे! युधिष्ठिरप्रमुखाः पाण्डववीराः! वत्से याज्ञसेनि!! सर्वेऽपि यूयमिदानीं देवलोके स्थ। प्रत्यक्षमेव पश्यत पुरावृत्तं देवचरितम्।
(नेपथ्येऽनुश्रूयते)
भो भो अमरावतीपुरीवास्तव्या वरुणयमरुद्राष्टवसुसूर्यचन्दप्रमुखा देवाः! यूयं शृणुत। योऽयमिन्द्रः शतक्रतुः सर्वदेवशक्तिसम्पन्नो रोदसीरक्षणार्थं भगवता कमलयोनिना साभिरुचिव्यरचि, न भजतेऽसौ सदाचारम्। स्वशक्तीनां दुरुपयोगं विदधत्स स्वमहिम्ना गरिम्णा प्रथितयशया च परिहीयते। तत्स्वैराचारकदर्थिको भगवान् बृहस्पतिरपि तं तज्याज। निर्मङ्गलमिदानीं वृन्दारकनगरम्। दानवाः प्रभवन्ति नितराम्। भव्यसम्पादनार्थं पुरन्दरस्त्वष्ट्ऋतनयं विश्वरूपं पुरोहितपदमधिरोपितवान्। पश्यन्तु तावत् यदग्रे जातम्।
(ततः प्रविशति मातलिद्वितीय इन्द्रः)
मातलिः स्वामिन् देवराज! अलं सन्तापेन। देवगुरुं बृहस्पतिमेवानुनीय राजधान्यां प्रत्यावर्तयन्तु भवन्तः। ब्राह्मणस्तु प्रकृत्यैव कोमलहृदयः। आराधितस्सन् प्रसादमेष्यति।
इन्द्रः न खलु। मातले! बृहस्पतिरस्मदैश्वर्यविरोधी। न मे विलासस्तस्मै रोचते। स खलु शचीपक्षधर उर्वशीं नितरां खलीकरोति। तस्याः करणाङ्गहारसमन्वितं लास्यं द्वेष्टि। कथमहं तमानेतुं शक्नोमि?
मातलिः प्रभो! युक्तमाह भवान्। यतो हि
दुर्विरोधपरा भार्यासोदरारिसुहृन्मुखाः।
विसोढुं किल शक्यन्ते न परं ब्राह्मणो गुरुः।।6
इन्द्रः तदेहि! विश्वरूपं पश्यावः। श्रुतम्मया गूढचरैर्यदसौ मुखेनैकेन मत्प्रशस्तिं गायति। द्वितीयेन वेदमन्त्रान् पठति। तृतीयेन पुनः मदिरापानभ्रष्टेन दानवप्ररोचनामपि प्रस्तौति।
मातलिः स्वामिन्! असमञ्जसमिदम्। दानवप्रशस्त्या तु भवत्तेजोऽपक्षीयते। तन्निवार्योऽयं नव्यपुरोहितः।
इन्द्रः मातले! तदेव चिन्तयामि। अयं पुनः विश्वरूपाश्रमो दृश्यते। प्रविशावस्तावत्।
(उभौ नाट्येन प्रविशतः। विश्वरूपं मदिरापानसक्तं पश्यतः)
(विश्वरूपप्रलापः अनुश्रूयते)
हः हः हः हः! ओम् ओम्! मदिरापि नाम सुधातिशायि प्रकृष्टपानकम्।
(हिक्कामभिनीय)
अये निपीतमदिरोऽहं विचित्रं रणरणकनुभवामि। इदानीं क्व वेदमन्त्राः क्व पुरन्दरो देवराजः क्व वा वृषपर्वा?
(स्खलितं नाटयन् मन्दं मन्दं गायति)
यो जात एव प्रथमो मनस्वान् यः पृथिवीं व्यथमानामदृंहद्।
यो हत्वाहिमरिणात्सप्तसिन्धून् येनेमा विश्वा च्यवना कृतानि।।
(उच्चैरट्टहासं कुर्वन्) महर्षिर्गृत्समदोऽपि मदिरापायी प्रतीयते य एवं स्तौति कामकीटं देवराजम्! किमिन्द्रेण सर्वं सत्कृतमेव न दुष्कृतं किमपि?
मातलिः (सक्रोधम्)
स्वामिन्! असह्योऽयं वचःप्रहारः। मदिरां निपीय ब्राह्मणाधमोऽयं रोदसीचक्रवर्तिनं भवन्तं विगर्हते।
(इन्द्रः क्रोधीद्धुरः सन् निजायुधं सन्धत्ते। पुनः श्रूयते)
स जनास इन्द्रः। इदानीं देवपुरोहितोऽहं विश्वरूपः पुरुहूतप्रशस्तिपरं नूतनं मन्त्रं सृजामि।
(सहिक्कं गायति)
य उर्वशीं रूपसुधैककुम्भां कुम्भस्तनीं सेवते निश्शचीकः।
बृहस्पतेरवमन्ता विलासी श्रदस्मै धत्त स जनास इन्द्रः।।7
(इन्द्रो निजमायुधं सन्धाय सवेगमभियाति। नेपथ्ये खङ्गप्रहारध्वनिः विश्वरूपचीत्कृतयश्च श्रूयन्ते। तदनु प्रवर्तते कोऽप्याकाशवाणी)
भो भो अमरावतीपुरवास्तव्या बृन्दारकाः! अब्रह्मण्यम् अब्रह्मण्यम्। विवेकहीनेन पुरन्दरेण स्वपुरोहितो वेदवेदाङ्गतत्त्वदर्शी त्वष्ट्ऋतनयो विश्वरुपो निहतः। संकटापन्नमिदानीं विवुधनगरम्। योऽयमिन्द्रस्त्रिलोकरक्षणाय सर्वदेवेभ्यस्तेजोंऽशं संहृत्य प्रजापतिना निर्मितः स एवाधुना तमपव्येति। पश्यन्तु तावत्
धर्माद्धर्मप्रवृत्तिं सुरमनुजहितोत्प्रेक्षिणीं भव्यभावां
ऐश्वर्यञ्चापि विष्णोः प्रसभबलमपि प्राज्यशक्तेर्मरुत्तः।
नासत्याम्यां सुरुपं युवतिजनमनोहारि हृत्वैव धात्रा
सृष्टोऽयं धर्मतत्त्वाच्चयुत इव नितरां सीदतीन्द्रो गुरुघ्नः।।9
अपि च,
यस्माद्धतो गुरुर्विप्रो मघोना वेदवित्तमः।
धर्महीनं विहायैति तस्माद्धर्मो यमं प्रति।।9
(नेपथ्ये घातप्रतिघातहुङ्कारादिध्वनयः श्रूयन्ते। आकाशवाणी पुनः प्रवर्तते)
भो भो देवाः। सन्निहिता भवत देवलोकरक्षायै। स्वपुत्रवधार्दितो भगवान् त्वष्टा पुरन्दरविनाशार्थं दुर्धर्षकृत्याँ जनयितुमुपक्रमते।
(नेपथ्ये स्वाहाध्वनिः श्रूयते)
इन्द्रशत्रोर्विवर्धस्व स्वाहा। इन्द्रशत्रोविवर्धस्व स्वाहाऽऽ।
आः कम्पते त्रिलोकी। दन्दह्यतेऽमरावती। भो देवाः दुर्धषपराक्रमोऽयं वृत्रासुरस्त्वष्ट्रा समुत्पादितः शक्तिहीनमिन्द्रं भक्षयितुं धावति।
(नेपथ्ये विद्रावणपलायनवधादिसूचकाः कलरवाः श्रूयन्ते। ततः प्रविशति मातालिद्वितीयो देवराजः)
इन्द्रः (सदैन्यम्)
मातले! किमिदानीमनुष्ठातव्यम्? निखिलाऽपि देवसेना वृत्रेण समुच्छिन्ना। ममास्त्राण्यपि कुण्ठितानि। वृत्रं सम्मुखीनं सोढुं नाहं क्षमे। यतो हि
खद्योताभां शशाङ्को रविरपि तनुकां दीपदीप्तिं मरुत्वान्
आश्लेषप्रख्यसौख्यं निऋतिरपि परां दुर्गतिं स प्रचेताः।
दैन्यं क्लैव्यं यमोऽपि प्रचुरतरलतां सर्वदाही हुताशः
संयाताः संयुगीने परिभवविकला हन्त दृष्ट्वैव वृत्रम्।।10
तत्किमिति चिरयति प्रजापतिसन्निधौ साभ्यर्थनं प्रेषितो देवर्षिनारदः?
मातलीः देवराज! अलं सन्तप्य। महाकालस्यायमकाण्डताण्डवम्। कदाचिद् गन्त्री तरण्युपरि कदाचिच्च तरणी गन्त्र्यपुरि! अयमेव कालप्रवाहः।
इन्द्रः मातले! स्वदुरितानामेव फलमेतत्। दुर्विवेकेन मयाऽवध्योऽपि स्वपुरोहितो निश्चेतनोऽकारणं हतः। सर्वथा धिङ् मामसाम्प्रतकारिणम्!
मातलीः स्वामिन्! अलमात्मावमानेन।
नारदः (सझम्पं प्रविश्य)
नारायण! नारायण!! देवराज शचीप्रणयिन् स्वस्ति ते। शुभमस्तु, मङ्गलमस्तु। राजन्! पूर्णमनोरथोऽसि।
इन्द्रः (सप्रणामम्)
देवर्षे! वृत्रे जीवति क्व मे कुशलम्?
नारदः पुरन्दर! वृत्रे जीवत्यपि ते कुशलमेव।
इन्द्रः (साश्चर्यम्)
देवर्षे! न खल्ववगच्छामि ते निगूढवचनम्। कृपया स्फुटं भणतु।
नारदः (सस्मितम्)
देवराज! अलं भयेन। वृत्र इदानीं ते मित्रं जातः।
इन्द्रः (साश्चर्यम्)
देवर्षे! न खल्ववगच्छामि ते निगूढवचनम्। कृपया स्फुटं भणतु।
नारदः (सस्मितम्)
देवराज! अलं भयेन। वृत्र इदानीं ते मित्रं जातः।
इन्द्रः (सप्रमोदम)
हन्त भो लब्धमिदानीं स्वास्थ्यम्। देवर्षे! कथमिदमभूत्?
नारदः पुरन्दर! इतो गत्वा मया भवन्निवेदना पितामहचरणेषु सम्प्रस्तुता देवमण्डलीपरिभवं श्रुत्वा दूनहृदयो विरञ्चिः स्वयमेत्य वृत्र बहुशस्तोषयामास सान्त्वचनैः। पितामहवचनात् भगवान् त्वष्टाऽपि स्वकृत्याप्रभावं परिसमाप्य वृत्रं सह्यतेजसं कृतवान्।
इन्द्रः प्रत्युज्जीवितोऽस्मि भगवता पद्मयोनिना। ततस्ततः?
नारदः देवेश! भवन्तं सुहृदं मन्यमानो वृत्र इदानीं संन्यस्तस्सन् सागरतटे समाधिमग्नो वर्तते। यदि न स्यात्प्रत्ययस्तर्हि स्वयमेव गत्वा पश्यतु भवान्। भवतु, साधयामस्तावत्। स्वस्ति भवते।
(इति शनकैरपयाति)
मातलिः (सहर्षम्)
स्वामिन्! प्रियं नः। इदानीममरावत्यां प्रवेष्टव्यम्।
इन्द्रः (संशयं नाटयन्)
मातले! प्रत्यक्षमदृष्ट्वा न मे संशयच्छेदः। तर्हि समुद्रतटमेव गच्छाव।
मातलिः यद्रोचते विवुधेश्वराय।
(इत्युभौ प्रतिष्ठेते। सागरतटमासाद्य वृत्रं समाधिमग्नं दृष्ट्वा)
इन्द्रः (सहर्षम्)
मातले! अवितथमाह देवर्षिः। वृत्रोऽयं समाधिमग्नः।
मातलिः भगवन्! पार्श्वमेत्य भवता स्नेहसमुदाचारैर्मैत्री द्रढयितव्या।
इन्द्रः (आत्मगतम्)
समुचितोऽयमवसरः शत्रुविनाशस्य। स्वशौर्यपराक्रमाभ्यां वृत्रं हन्तुं न प्रभविष्यामि। प्रवञ्चनेनैव मारयिष्यामि। कदाचित्पुनरपि शातयेत्।
(प्रकाशम्)
मातले! युक्तमात्थ। एहि, वृत्रसमीपमुपगच्छावः।
(उभौ पृष्ठतो वृत्रसमीपं गच्छतः। इन्द्रोऽतर्कितमेव दुर्धर्षवज्राघातेन वृत्रशीर्षं छिनत्ति)
मातलिः देवेश! किमिदं भवतानुष्ठितम्?
सख्यं नापेक्षितं हन्त! धातृवाक्यं न सम्मतम्।
शौर्यं कलङिक्तं वृत्रं वञ्चयित्वा घ्नता त्वया।।11
(इन्द्रः पापभाराक्रान्तस्सन् दैन्यं नाटयति। आकाशे श्रूयते)
यस्मात्त्वया सुहृदयो निहतस्समाधौ
वीरोचितं समरधर्ममपोह्य शश्वत्।
तस्मादह मरुतमेमि निजोत्सभूतं
क्लीबं विहाय मघवन्! कुशलं तवास्तु।।12
पापाचारपरायण! कृतकपुरन्दर! त्वदाश्रयेण भृशं कलङिकतोऽहं पराक्रम इदानीं निजाभिमानिनं वायुदेवमुपगच्छामि।
मातलिः देवराज! विश्वरूपं निहत्य धर्मविरहितोऽसि। अद्य पुनर्वृत्रं निहत्य पराक्रमेणापि कदर्थितोऽसि!
इन्द्रः मातले! किं करोमि मन्दभाग्यः? विवेकहीनं चित्तं मे प्रज्ञां हरति। संकल्पेऽसत्यपि वृत्रो मया हत इति विचिन्त्य लज्जितोऽस्मि। तदिदानीं राजधानीं न गमिष्यामि।
मातलिः क्वापरत्र गन्तुमिच्छति देवेशः?
इन्द्रः (किञ्चिद्विचिन्तय)
मातले! पुरुषोत्तमलीलाविहारस्थलं भारतवर्षं विहर्तुंमिच्छामि। तदेहि। तत्रैव गच्छावः।
(उभौ नाट्येनावतरतः)
मातलिः स्वामिन्! ब्रह्मद्रवभूतेयं भगवती भागीरथी दृश्यते। अयं पुनर्महर्षेः गौतमस्याश्रमपरिसरः। पवित्रोऽयमुद्देशः।
इन्द्रः (प्रकृतिसौन्दर्यमवलोकयन्)
मातले! देवलोकमप्यतिशेते भारतीसुषमा। हन्त भोः
कुवेलामोदानां दधदिह भरं खेदहरणे
पटुर्गङ्गातोयप्रविरलकणैरञ्चिततनुः।
स्मरोन्मादी ह्लादी मदयति हृषीकोच्चयमयं
वहत्प्राचीवायुस्तरलहृदयं हन्त कुरुते।।13
मातले! समुदितप्रायो भगवान् सहस्रमरीचिमाली। तदेहि भगवन्त गौतमं समर्च्यात्मानं पावयावः।
मातलिः यथाभिरुचितं भवताम्।
(इत्युभौ नाट्येन आश्रमपदं प्रविशतः)
इन्द्रः मातले! अत्रैव तिष्ठ त्वम्। यावत्पुरस्सृत्य पृच्छामि।
(किञ्चिदग्रे गत्वा)
कः कोऽत्र भोः?
(स्वरमाकर्ण्य गौतमभार्याऽहल्या बहिरायाति)
अहल्या (विलक्षणतेजसं देवराजमवलोक्य सस्मितम्)
भद्र! स्वागतम्। कोऽस्ति भवान्? किमागमनप्रयोजनम्।
इन्द्रः (अहल्यारूपलावण्यं निर्निमेषं दृष्ट्वाभिभूतः सन् आत्मगतम्)
आश्चर्यमाश्चर्यम्। उर्वशीमपि न्यक्करोतीयं सुतनुका। इमां दृष्ट्वैव मन्मथो मे चित्तं प्रमथितुं प्रवृत्तः। किमदानीं कर्तुं युज्यते?
(प्रकाशम्)
देवि! भगवन्तं गौतमं द्रष्टुमागतोऽहम्।
अहल्या (इन्द्रदृष्टिमवलोक्य सवितर्कम्)
कामलम्पटोऽयं प्रतिभाति। कदाचिच्छन्नवेशः कोऽपि देवो दानवो वा भवेत्।
(प्रकाशम्)
भद्र! महर्षिप्रवरास्तु प्रातस्स्नानाय जाह्नवीतटं गताः। इदमासनं तावदास्यताम्। अहमर्ध्यमुपहरामि।
(इति त्वरितं पर्णशालां प्रविशति)
इन्द्रः (कामव्यथां नाटयन्)
भगवन् कुमुमायुध! रभ्भोर्वशीमेनकाघृताचीतिलोत्तमासहजन्यासानुमतीभिरनिन्द्य-सौन्दर्यवतीभिर्देवाङ्गनाभिर्देव्या शच्या च नखक्षतचुम्बनालिङ्गनसुरतव्यापारैराकण्ठमुपभोजितोऽपि क्षुत्क्षामकण्ठतां प्रदर्शयसीति धिक् तेऽनल्पदारिद्रयम्। हन्त भोः शल्यभूता मेऽहल्या! किं करोमि?
(अर्ध्यमाहरन्तीमहल्यां दृष्ट्वा सवेगं पर्णशालां प्रविशति)
अहल्या (सभयम्)
भो नेदं प्राधुणोचितो व्यवहारः? मन्ये त्वामतिथिं मन्यमानया मया न साध्वाचरितम्। कोऽसि त्वम्?
इन्द्रः (अहल्याया मणिबन्धमागृह्य)
देवि देवाङ्गनोपमलावण्यशालिनि! अलं भयेन। चित्तप्रमाथि त्वल्लावण्यं मामुन्मदयति।
अहल्या (सक्रोधं मणिबन्धं मोचयन्ती)
नीच! कामलम्पट! परपुरुषसंस्पर्शदूषितां मां कृतवानसि? कोऽसि त्वम्? स्फुटं भण। अन्यथा शापाग्नौ त्वां धक्ष्यामि।
इन्द्रः (अहल्यानेत्राग्निं दृष्ट्वा सभयम्)
देवि! अलं मां भस्मात्कृत्य। इन्द्रोऽहमस्मि देवेश्वरः।
(अकस्मादेव महर्षिगौतमः प्रविशति। सर्वं श्रुत्वा दृष्ट्वा च मृगाजिनेन सरोषं देवराजं प्रहरति)
गौतमः कामलम्पट! अहं त्वां भस्मसात्करोमि। त्रिलोकीमीशानोऽपि खण्डितवृत्तोऽसि? शचीं सम्प्राप्यापि कामकीटायसे? गच्छ दुर्वृत्त! इतः प्रभृति त्वच्छरीरं सहस्रयोनिसम्पन्नं भविष्यति!
(अहल्यां पश्चात्तापसन्तप्तां कम्पमानां दृष्ट्वा)
अहल्ये! जानामि यन्नापराद्धं त्वया। तदलं सन्तप्य। अत्रैवाश्रमे स्थिता तपसा स्वकीयं परस्पर्शधर्षितं तेजो वर्धस्व। त्रेतायां दशरथनन्दनरूपधारिणा भगवता विष्णुना सम्मानिता सती पुनरपि मदर्धाङ्गमलङ्करिष्यसि। अहं लोकान्तराणि पर्यटिष्यामि।
इन्द्रः (गौतमचरणयोर्निपत्य)
भगवन्! कारुण्यसागरः! क्षमस्व मां पापम्। विवेकहीनेन मया सर्वं नष्टम्। सहस्रयोनिकलंकितेन शरीरेण जीवितुं न शक्नोमि। त्राहि मां कृपालो! त्राहि माम्।
(इति भृशं विलपति)
गौतमः (सदयम्)
उत्तिष्ठ मघवन्! नेदं दैन्यं समीचीनम्। मर्षयाम्यहम् तावत्। परन्तु स्वपापानां फलमवश्यं भोक्तव्यं त्वया। गच्छ, योनय इमा नेत्रचिह्नानि भविष्यन्ति। इतः प्रभृति सहस्राक्ष इति सम्बोधयिष्यसे जनैः।
(इति पादौ परिवर्त्य प्रतीपदिशं गच्छति। अहल्या रुदती तिष्ठति)
विरञ्चिः (आकाशे स्थितः)
देवराजः! पतिव्रतामहल्यां कलङ्कपङ्के निपात्य न त्वं सुखं स्वप्स्यसि। मूढ! पुराऽपि धर्म खलीकृत्य त्वया पुरोहितोऽवध्यश्च ब्राह्मणो विश्वरूपो निहतः। तदनन्तरं मामप्यवधूय पराक्रमं च खलीकृत्य छलपूर्वकं मित्रभूतो वृत्रो घातितः। इदानीञ्च स्वरूपसौन्दर्याभिमानगर्वितेन त्वया कदर्थितेयं तपस्विनी। सौन्दर्यतत्त्वं त्वामपहाय सम्प्रति स्वमूलस्थानं देववैद्यं याति। शृणु मूढ! न त्वं देवलोकमीशितुमर्हसि। सामान्यमर्त्योऽसि जातः स्वपापकर्मभिः। अतएव मृत्युलोकं गच्छ। स्वपापानां प्रायश्चित्तं कुरु। अयमेव ममाभिशापो ममादेशश्च।
मातलिः (विरञ्चिं निर्वर्ण्य तच्छापञ्च श्रुत्वा सभयम्)
आः किमिदम्। किमपराद्धमस्मत्स्वामिना?
इन्द्रः (मातलिसमीपमेत्य सदैन्यम्)
भगवन् प्रजापते! मर्षय माम्।
विरञ्चिः देवराज! न मेऽनुज्ञाऽन्यथाभवितुमर्हति। पृथग्भूतैः धर्मपराक्रमसौन्दर्यतत्त्वैः पुनरुपेतस्त्वं मर्त्यलोकं गमिष्यसि। स्वपापानां प्रायश्चित्तं विधाय पुनरपि स्वप्रकृतव्यक्तित्वं धारयिष्यसि। अयमेव मे निर्णयः।
(नेपथ्ये कारुण्यसूचको ध्वनिः। भगवान् कृष्णद्वैपायनो दिव्यदृष्टिं प्रतिसंहरति। सर्वेऽपि जना विस्मयविमूढा जायन्ते)
द्वैपायनः राजन् द्रुपद! वत्से पृथे! सत्यमक्षिप्रत्यक्षीकृतं न वा?
द्रुपदः (चरणयोर्निपत्य)
भगवन्! समुद्धृतोऽस्मि। पाण्डवप्रिया मे तनूजा भवेत्। इदानीं न मे कापि चिन्ता लोकस्य। सौभाग्यगर्वितोऽस्मि प्रभो!
।।जवनिकापातः।।