असमसाहसम्
कन्दुको भित्तिनिक्षिप्त इव प्रतिफलन् मुहु:।
आपतत्यात्मने नूनं दोषोऽन्यस्य चिकीर्षित:।।
प्रथम: परिच्छेद:
''कोऽयम्’’
'न नाम सत्यमिह गोपाय्यते’
सेयमद्य दशतोऽधिकानां वत्सराणां वार्ता। सम्प्रति लक्ष्मीदेव्या: कृपाकटाक्षत: सुखेन कालं क्षिपामि। सुघटितगवाक्षसनाथं त्रितलं मे सदनम्। भोजनाच्छादनमपि यथा सम्पन्नानां तथैव निर्वाह्यते। सेयमेकैव वार्ता, सर्वमप्यावश्यकं न मे परिहीयते इति। परं यस्य समयस्याऽयं वृत्तान्तस्तदा न मे साधीयसी समभूदवस्था।
पाश्चात्यचिकित्सापरीक्षायां लब्धपदकस्य मे पञ्चाधिका: समत्यगु: संवत्सरा:। समधिकमन:प्रणिधानेन चिकित्समानस्यापि मे नायान्ति स्म तदा भैषज्यालये रोगिण:। तदवधि न यश:सौरभमेव मे प्रासर्पन्नापि वा धनसमृद्धिरेव समभूत्। आत्मानमवकर्षन् महता कष्टेन कालमयापयम्। भैषज्यभूताविष्टो न चान्यत्कार्यमपि किञ्चन् समशिक्षिषि, येन वान्यान्यैरेव व्यापारै: पूरयितुमपारयिष्यं कार्यकलापम्। इतस्तत: पर्यालोचयमान: सर्वदा विषण्णवदन: समभूवम्।
एकदा समस्तमपि दिवसं कांश्चन रोगिण: प्रतीक्षमाण: शून्ये भैषज्यालये इतस्तत: परिवर्तनैरत्रासयं वेत्रासनम्। विशालेऽपि राजनगरे न कोऽपि पथिपरिभ्रष्ट: समायासीच्चिकित्साभिलाषुक:। समधिकं विषण्णानन: सायममुद्रयं चिकित्सालयद्वारम्। प्रविश्य चान्त:सदनमुपाविशं गवाक्षे। अस्मिन् समये बाढमासीत्सन्ध्या, पूर्वनैशान्धकारलहरी परिखेलति स्म परित:। आत्मनोऽवस्थां विचारयमाणस्य कियानेव काल: समत्यगात्तावदेव प्राविशत्परिचारक:, प्रावदच्च- ''बहि: कश्चन पृच्छति भवन्तम्।’’
बहिरागत्य दृष्टं यत्कोऽपि सभ्यपुरुषस्तिष्ठति भेषजालयद्वारे। वय: परिमाणे तु पञ्चविंशे वर्षे वर्तमान इव समभासत। स्वच्छे परिधानीये स्फुरति स्म श्मश्रुकलाप:, यो हि मद्दृष्टौ दृश्यते स्मावश्यकतातोऽधिक:। मामालोक्य निजगाद-''भवानेव वैद्यमहाशय:’’
''आम्। आगच्छन्तु भवन्त:’’ इति प्रत्युत्तरयन्नेव समुदघाटयमौषधालयम्। वेत्रासनमध्यास्यैव प्रोक्तममुना-''भवत: सन्निधानमागतोऽस्मि, कारणं तु कल्पितमेव भवेत्। अस्ति मे शरीरमस्वस्थम्’’।
प्रोक्तं मया- ''किमस्ति’’
सभ्य:-कतिपयैर्दिवसैर्भवति मध्येहृदयं पीडा। समये समये तु श्वासप्रश्वासोऽपि भवति समधिकं कष्टकर:।
अहम्-अङ्गरक्षकमिदमवतार्यताम्, साधु परीक्ष्य निर्णेष्यामि।
नात्रसमुल्लेखावश्यकता, यदेतावति समये चिकित्सालये कृत आसीत्परिचारकेण दीपोद्योत:। अस्तु. रोगिण: कायं न स्पृशेद् बाह्यो वायुरिति चिन्तया मया पिहितं गृहद्वारम्। प्रदीपप्रकाशे निरावरणममुष्य वक्ष:स्थलं सुदृढ़ं सुस्थं चालोक्यत्। कतिपयमुहूर्तैर्यन्त्रेण साधु परीक्ष्यापि न प्रापं रोगलक्षणम्, रोगसूत्रपातचिह्नं वा। अन्ते त्वगादिषम्-''नाहं पश्यामि चिन्ताकारणं भवत:। नास्ति शरीरे रोगलेश: श्रीमत:।’’
अङ्गरक्षणं पुन: परिदधता प्रोक्तं तेन-''तर्हि किमिति मे पीडा भवति’’
अहम्- प्रायो दृश्यते, साधारणकारणैर्मध्ये मध्ये भवति मांसपेशीषु पीडोद्भव:। एवमवस्थायां हृदयान्तर्भवति वेदनेति सर्वोऽपि परिलक्षयति। मन्ये भवतोऽपि स एव भ्रम:। नाहमत्र भावयाम्याशङ्काकारणं भवत:।
कक्षसम्पुटकाद् दशमुद्रामूल्यं शुल्कपत्रमाकृष्य तेन दत्तं मे विस्मितस्य हस्ते। सत्यभाषणे नाहं जिह्रेमि, एतावत्कालं केनापि रोगिणा न दत्तान्यासन्नेकवारमेव दश रूप्यकाणि। मयेदं शुल्कपत्रं परावर्तयितुमभ्यलष्यत। प्रोक्तम्-''गृहागतान् रोगिण: परीक्षमाणो न गृöानि परीक्षणद्रविणम्। केवलमौषधशुल्कमाददामि।
सभ्य:-परं ये सन्ति दीनास्तेभ्य:, ये तु दातुं प्रभवन्ति तेऽत्र समागत्यापि निजसदने वा भवन्तमाहूय दास्यन्त्येव।
कुण्ठितकण्ठेन प्रोक्तं मयका- ''यद्येवमेव भवतो मनीषा, तदापि दशमुद्राग्रहणस्य न मेऽधिकार:। मुद्राद्वयमेव रोगिपरीक्षणस्याहं गृöामि।’’
स्मेरानन: प्रावदद्युवक:- ''महोदय! नात्र सङ्कोचावसर:। स्वत: प्रसन्नोऽहमिदं प्रददामि। श्रीमता चिरप्ररूढा मे दुर्भावना दूरीकृता, एवं चिन्तने तु न किमपि मया प्रदत्तमित्येव पर्यवस्येत्।
अन्तत: शुल्कपत्रं गृहीत्वा मयैव नवीननाटकमिदं परिसमापितम्! युवापि तद्दत्वा दु्रतमेव भैषज्यालयाद् बहिरभवत्। मया पूर्वमाकलितमासीद् यद् गमनसमये प्रक्ष्यामि नामधेयं युवकस्य, परं न तत्कर्तुमपारयम्। दश मुद्रा: प्रदत्ता इति रोगिनामजिज्ञासायां सङ्कोच इव समभूत्। विविक्ते तु व्यचारयं पुन: पुन: ''कोऽयम्’’।
द्वितीय: परिच्छेद:
''किं वा अङ्गुलिं छिनद्मि’’।
व्यत्यगाद् भूयान् समय:। उपरि वर्णितो युवको न पुनर्मे दृष्टिगोचरोऽभवत्। ममावस्थापि पुन: ''यथापूर्वमकल्पयत्’’ अभवत्।
एकदा सान्ध्यभोजनतो निवृत्तो वीक्षमाण आसं किञ्चन भैषज्यपुस्तकम्। सहसा समागत्य निवेदितं भृत्येन- ''भोजनं कुर्वाणेष्वेव भवत्सु समायासीत्कश्चन। स चाह्वयति श्रीमत: क्वापि नेतुम्। बहिस्तिष्ठति’’
वेषभूषादिभि: सज्जयित्वात्मानं शीघ्रमेव बहिरागमम्। बहिरागतं मां प्रणम्य प्रावादीदेष:-''आह्वयति भवन्तं मत्स्वामी, शकटिरपि सह मयाऽऽनीता। अध्यारोहतु श्रीमान्’’
सत्यं मया दृष्टं यद् भाट्यानीता शकटिरेका तिष्ठति। अहमपि विना वाक्यव्ययं धमिति समारोहं शकटिम्। भृत्यात्किमिति न मया पृष्टं कोऽसौ भवत्स्वामी इति भावना मद् हृदये वारवारमखेलत्। कियद्दूरं गत्वा द्वितलस्यैकस्य सदनस्य सम्मुखमतिष्ठच्छकटि:। अग्रे अग्रे गच्छतो भृत्यस्य पृष्ठत: प्रयानहं प्राविशं तत्सदनम्। न चाहमशृणवं कलकलं जनस्यापरस्य। अस्तु. इतस्तत: परिभ्रामयन्भृत्यो द्वितीयस्मिन् खण्डे मामनयत्। प्रादर्शयच्च, अपावृतकपाटं प्रकोष्ठकमेकम्।
प्रकोष्ठकेऽस्मिन् तम:प्रतीप: प्रज्वलति स्म प्रदीप:। प्रान्ते च विरलं वस्तुविस्तरं वहन्ती चतुष्पादिकैकाऽसीत्। तत्सम्मुख एव च वेत्रासनोपविष्टस्तिष्ठति स्म पुमानेक:। वेषभूषा चास्य धनिनामनुरूपाऽऽसीत्। स चायं दृष्ट्वैव मामुदतिष्ठद्वेत्रासनात्। मह्यं स्थातुमिङ्गितं कुर्वन्स्वयमुपाविशत्। प्रावोचत् च- ''मन्ये न मां प्रत्यभिज्ञातुमपारयद्भवान्’’।
अहह! सर्वथा प्रत्यभ्यजानाम्! स एवासीदयं पूर्वपरिचितो युवक:। साम्प्रतं नासीदस्य तादृशं श्मश्रु, तथापि दृष्ट्वा वदनसन्निवेशं श्रुत्वा कण्ठस्वरं सम्यक्प्रत्यभ्यजानाम्। प्रश्रस्योत्तरं प्रदामहम्-''किमिति न पारयिष्यामि प्रत्यभिज्ञातुम्? किं नु भवत: पुन: प्रादुरभूत् काचन दुर्भावना?’’
युवक:- नैव। श्रीमता साकं काश्चन गुप्तवार्ता: कर्तुमभिलषामि।
चिकित्सकै: साकमनेका: सम्भवन्त्यप्रकाशनीया वात्र्ता:। मया केवलमिदमेवोत्तरितम्- ''कथयतु भवान्’’
मदन्तिकमुपसर्पन् मन्दस्वरेण प्रोक्तवान् युवक:- ''आवयोर्यो भविष्यत्यधुना संलाप: स गुप्त एव स्यात्’’
अहम्-चिकित्स्यचिकित्सकयोरालाप: सर्वदा गुप्त एव भवति।
युवक:-रोगिणश्चिकित्सामन्तरा किमप्यन्यत्कर्तुं न मन्ये स्याद्विचिकित्सा भवत:?
अहम्.-अन्यत् किम्?
युवक:-किमप्यङ्गं छेत्तुम्!
अहम्-कस्यां कस्यांचन पीडायां समये
समयेऽङ्गच्छेदनमप्यावश्यकमापतति।
युवक:-यदि च पीडा न भवेत्?
अहम्-तर्हि सुस्थमङ्गं किमिति च्छेत्स्यामि?
युवक:-यदि स स्वयमेव च्छेदयितुं वाञ्छेत्?
अहम्- स नूनमुन्मत्त: स्यात्, किं वा कुटिलं तस्य मनीषितं स्यात्। सुस्थाङ्गच्छेदनं किं न भिषज: कर्तव्यम्?
युवक:- वार्तामहं प्रकाश्यरूपेण वदामि, तदा मन्ये भवेदिदं हृद्गतं व:। छिनत्तु भवान् मदीयामेकामङ्गुलिम्। प्रदास्याम्युपहाररूपेण श्रीमते सहस्रद्वयं मुद्राणाम्!
द्वे सहस्रे मुद्रा:! द्वे सहस्रे!! राशीकृतमेतावद् द्रव्यं नैतावत्पर्यन्तं ममासीद् दृष्टिगोचरमपि! वार्तेयं साधारणत: श्रवणे नर्मनिगदितेव प्रतिभाति, तथापि यद्दत्तवान्पुरा मुद्रादशकं तत्तदवधि स्मरणमधिरूढमासीत्, किन्तु किमिति सुस्थामङ्गुलिं छेदयितुं कामयते, किमिति वा राशीकृतमेतावद् द्रव्यमञ्जसा प्रदातुमुत्सहते इति नांशतोऽपि प्राभूवं सम्यक् संवेदितुम्। किमपि विचार्य प्रोक्तवान्- ''भवतोऽङ्गुलौ काचन वर्तते नु पीडा’’?
युवक: - न कापि।
अहम् - तर्हि किम्, अङ्गुलिरेव कुरूपेव दृश्यते?
''प्रत्यक्षं वीक्षतां भवान्’’ इति वदता दर्शिता युवकेन हस्तयोरुभयोर्दशाप्यङ्गुलय:। हस्तयो:, अङ्गुलीष्वेव वा न काप्यासीदंशतोऽपि प्रसौन्दर्यापहारिणी त्रुटिर्नाम। प्रत्युत साम्प्रतं हस्तो दृश्यते स्म विकचपङ्कजोपम:। मया प्रोक्तम्-''तर्हि किमिति वाञ्छन्ति भवन्तश्च्छेदयितुमङ्गुलिम्?’’
मन्दं हसन् प्राह स्म युवक:- ''तन्न प्रकाशयिष्यामि भवतोऽन्तिके’’
अहम्-भवतोऽङ्गुलौ न काचन पीडा, नापि च कश्चन कठिनो रोग एवास्ति। तथापि भवान् सुस्थं सुन्दरं च करं छेदनलाञ्छनेनाऽमङ्गलं विकलं च कर्तुमादिशति माम्? नेदं भिषज: कर्तव्यम्। नाहं कर्तुमभिलष्यामि कार्यमिदम्।
युवक:-एवं चेत् किं मे फलं वाक्यव्ययेन। नेतोऽधिकं वक्ष्यामि, केवलमिदमेव मे पुनर्वक्तव्यं यदियं नौ वार्ता तिष्ठतु गुप्तैव।
''निश्चिन्तेन भाव्यं भवता, नेदं सम्भवति कदाचन’’ इति वदन् प्रस्थातुमुदतिष्ठतम्।
किं मया दृष्टं यन्मे हस्ते पञ्चशतमुद्रामूल्यमस्ति शुल्कपत्रम्! स्पष्टमुक्तं मया-''किमिदं दत्तम्! पश्यतु मनाक्, प्रमाद्यति भवान्!’’
युवक:-क: प्रमादो जात:? स्पष्टमुच्यतां मे।
अहम्-भवता भ्रमेण मे दत्तं पञ्चशतमुद्रामूल्यं शुल्कपत्रम्! न चैतत्प्राप्तुं मेऽधिकार:। यतो हि न मया किमपि चिकित्सितं भवत:, नापि वा तस्मिन्विषये सहमतिरेवसाधीयसी दत्ता। व्याधिग्रस्तान्नियतद्रव्यं ग्रहीतुमस्त्यस्माकं नियम:, सर्वाङ्गसुस्थाद् ग्रहणस्य नास्ति।
युवक:-नैव। रूप्यकाणीमानि भवत एव स्वत्वमभ्युपयातुमर्हन्ति। मया यत्प्रोक्तं तत्परस्ताद् विचारयतु भवानेकवारमेकान्ते। स्वेच्छयैवाहमात्मनोऽङ्गुलिं कामये च्छेदयितुम्। नात्र पश्यामि कारणमापत्तेर्भवत:। यदि च सुचिरं विचारयन् निश्चिनुयात्कर्तुमेतद् भवान् तर्हि श्व:समायातु समयेऽस्मिन्नेव। अवशिष्टमपि धनं शक्रोति तस्मिन्नेव समये ग्रहीतुम्।
युवक: कथमपि नाभूत्सम्मत: शुल्कपत्रपरावर्तने। अहमपि घटनामिमां पर्यालोचयन् परावर्तिषि निजनिकेतनम्। पथि च सुभृशं प्रावर्तत मनस्यान्दोलनं मे ''किं वा अङ्गुलिं छिनद्मि’’।
तृतीय: परिच्छेद:
''तत्किं शक्रोमि विस्मर्तुम्’’
परस्मिन्नहनि वारंवारमकार्षं तस्मिन्नेव विषये विचारम्। स्वयमुपनतस्य धनस्यैतावत: क: शक्रुयात्परित्यक्तुं लोभम्। पाठकमहाभाग! भवानेव तावद्विमर्शयतु निभृतम्, किमेतादृशमवसरं परित्यजेद्वा भवान्? विशेषतश्च ममासीदावश्यकता द्रविणस्य। शून्ये कोषगृहे मूषका: कुर्वन्ति स्म व्यायाममिति प्रकाशितमेव पुरस्तात्। यो वा वाञ्छति स्वयमङ्गुलिमात्मनश्छेदयितुं तत्र मम निषेधेनैव किं सिध्यति? यद्यहं न करिष्यामि, मम भ्राताऽन्य: कश्चनायास्यति, इत्यादि नानासाध्यसाधना: समाधाय निरचिनवं कर्तुमेतत्कार्यम्। सायं च शस्त्रादिकमावश्यकमादाय प्रायासिषमालयं युवकस्य।
मामालोक्य स्मयते स्म पूर्वं युवक:। समभाषत- ''पश्यामि भवान्सम्मनुते कार्यमिदम्’’
अहम्-दृष्टं मया, स्वत एव भवान् दृढमनोरथश्छेदयितुमात्मनोऽङ्गुलिम्, तदा मदायत्तिर्विडम्बनमात्रम्।
युवक:-पूर्वमपि इमामेव वार्तां प्राकाशयं भवन्निकटे।
प्रकोष्ठकेऽस्मिन्, तत्परिसरे वा नासीत्कश्चन। वसनखण्डम्, पानीयमन्यान्यानि चावश्यकानि स्वयमानीय निमीलितं प्रकोष्ठकद्वारं युवकेन। प्रोक्तं च पश्चात्-''केवलमङ्गुलिच्छेदेनेनैव न परिसमाप्स्यति कार्यम्। चातुर्यमपीह समपेक्षितं किञ्चित्। अत एव च समापतिता भवदावश्यकता।’’
कोणस्थितात् काष्ठपेटकाद्बहिर्निस्सारयामास वस्तु किञ्चन, यद्धि वसनाच्छादितमासीत्। यदा चापसारितं तदावरणम्, तदा तु मेऽवस्थैवान्यादृशी समभवत्। मनोवृत्तिरेकवारमेवाऽसीज्जडीभूता। किं वा विलोकितं मया युवकहस्ते? यदेकश्छिन्नो मानुषहस्तोऽस्ति!!
तद्दर्शने विषयविमर्शने च मम कतिपयमुहूर्तानां समभूद्व्यय:। परत: समबुध्यत मया यद्धस्त: केवलं मृद्घटित एवास्ति परमेतद् वामहस्तस्यैतादृशमनुकरणमासीद्यथा सुविचक्षणोऽपि निर्णये व्यामुह्येत्। हस्तेऽस्मिन् अङ्गुलीषु, तर्जनी केवलमङ्गुलिर्नासीत्। तन्मूले तु महता पाटवेन निर्मितमासीद् व्रणचिह्नमेकम्।
चिह्नमेतत्प्रदश्र्य प्रोक्तं युवकेन- ''सविशेषावधानं पश्यतु भवानेतत्। केवलमङ्गुलिच्छेदनस्य सहस्त्रद्वयं प्रोक्तं मुद्राणाम्। यदि च सम्यगेतादृशं चिह्नं कर्तुं पारयेद्भवाँस्तर्हि पञ्चशती मुद्राणामधिकं लभ्येत्’’।
अस्तीह किञ्चन निगूढं रहस्यमिति सम्बुद्धं मनसि मया। परं नास्मिन् विषये जिज्ञासितं प्रोक्तं वा किञ्चिद् युवकाय। प्रोक्तं तु प्रकाशम्-''एवमेव भविष्यति।
प्रसारितवान् वामहस्तं युवक:, प्रोक्तवांश्च- ''इदानीमारभतां कार्यमात्मनो भवान्’’
अहम्-समधिकं पीडा भविष्यति, अपि पारयिष्यसि सोढुम्?
युवक:-परीक्ष्यैव प्रेक्षिष्यते भवान्।
मृद्घटितं हस्तमेतमभिमुखमाधाय छेदनाय निस्सारितं मया शस्त्रम्! तर्जन्या मांसं पृथक्कृत्य द्वितीयेनास्त्रेण च्छिन्नं तदस्थि! शोणितं धारायन्त्रनि:सृतं जलमिव समवहत्।
नितान्तभीषणेऽप्यस्मिन् समये न कृतो यन्त्रणासूचक: शब्दोऽपि युवकेन। न चैकवारमपि मुखभङ्गिरेव विकारमापादिता। किं बहुना, हस्तोऽपि न कम्पित:। यथा नास्ति शरीरान्तर्गणनीया तस्य साऽङ्गुलि:। अहन्तु तच्चित्तदाढ्र्यमालोक्य जात: सत्यमेव अवाक्! यस्य चित्तमेवमस्ति सुदृढं न तस्य किञ्चन पृथिव्यामसाध्यं नाम।
अङ्गुलिं छित्त्वा, रक्तस्रावमौषधोपचारैरवरोध्य, कृतं व्रणोपरि पटबन्धनम्। पृष्टवाँश्च युवकम्- ''अपि जाता समधिकं यन्त्रणा’’?
युवक:-अपि दृष्टं समधिकयन्त्रणायाश्चिह्नं किञ्चन?
प्रोक्तं मया- ''धन्यं भवतश्चित्तबलम्। यदि सर्वदैव लभ्येत भिषग्भिर्भवादृश: सुदृढचित्तो रोगी, तर्हि न स्यात्कश्चन भावनाया विषय एव!’’
युवक:-भवतो रूप्यकाणि सन्ति चतुष्पादिकोपरि। गृöन् शक्रोति प्रयातुं श्रीमान्।
अहम्-यावन्न भवेद्भवतो हस्त: प्रकृतायामवस्थायां तावदायास्यामि नित्यमेत-न्निरीक्षणाय।
युवक:- आम्। आयान्तु श्रीमन्त: स्वैरम्।
साद्र्धसहस्रमुद्रामूल्यान्यासन् शुल्कपत्राणि निर्दिष्टे स्थाने। तानि कक्षकोषसात्कृत्य-समायासिषमात्मन: सदनम्।
व्रणपूरणे व्यत्यगात्प्रायो मासतोऽधिक: काल:। मध्ये मध्ये व्रणस्थलं पुनरुत्कीर्य यत्नसहकारेण निरमीयत तादृशं चिह्नम्। उल्लादशायामासीत्तादृशमेव व्रणचिह्नं छिन्नाङ्गुलीमूले। युवकेनात्मन: प्रतिज्ञानुसारं पुनर्मे दत्ता पञ्चशती मुद्राणाम्। आगमनसमये प्रकाशितं च- ''मां कदाचिद् दृष्टवान् भवान् इति सर्वमपि विस्मार्यं भवता। यथा नासीत्कदाचिदपि परिचय: परस्परं नौ तथैवाकलनीयं मनसि। गोपनवार्ता तु पूर्वमावेदितैव भवते, न पुनस्तामाम्रेडयिष्यामि साम्प्रतम्। यदि च प्रसरेत्प्रकटमियं वार्ता तदा भवत एवाधिकं भयस्थानमिति विदितं भवतु भवत:’’।v
द्वितीयस्मादेव दिवसान्न पुन:, केनचन विलोकितस्तस्मिन् सदने युवक:। मह्यमपि न प्रोक्तवान्किमप्यस्मिन् विषये। आश्चर्यसंघटनामुग्ध: कृतवान् भूयांसमहं प्रयासं तदन्वेषणे परं न मे किञ्चन समभूत्फलानुगुणम्। अभिधानं वा निवासस्थानं वा युवकस्य नाजायत मे विदितम्।
गुप्तमहावीरोऽपि न पुनर्दृष्टिगोचरमयासीत्। यदि तु तारो मुद्राझणत्कारो न मे गृहेण्यभविष्यत्, तर्हि वृत्तान्तमेव समस्तं स्वप्रकल्पितमाकलयिष्यम्।
परं किं शक्रोमि सहसा तद्विस्मर्तुम्’’।