पश्यतोहर:
(१)
वैशाखमासस्य भुवनभयानको नूनमातप: सम्प्रति व्याकुलीकरोति जनान् प्राणिनश्चान्यान्। साम्प्रतं पूर्णो मध्याह्न:। रवेरुत्ताप: परां कोटिमारूढ:।
अस्मिन् समये मधुपुरग्रामे धूमशकटिविश्रमस्थानसन्निधानएव नन्दरामवणिज: समुद्घाट्यमान आपणोऽस्ति। वणिगस्मिन् समये भोजनसम्पादन एव व्यग्रोऽवलोक्यते।
एतावतैवापणोपरि वृद्ध एक: साधुमहाशय: समुपस्थित:। साधोरस्य पट्टायितललाटे विकटतया घटितं दूरतोऽपि दर्शनीयं तिलकं साम्प्रतं घर्मसलिलै: प्रवाह्य प्रवाह्य ''न ते समुचितम्’’ इतीव नि:सार्यते। लम्बशिखाभूषितं शिर: स्वेदभरक्लिन्नमस्ति। मुखञ्चातपसन्तापेन समधिकमरुणमालोक्यते। वृद्धसाधो: पादौ जानुपर्यन्तं निबिडया धूल्या धूसरितौ स्त:।
साधोश्च पश्चाद्दण्डकमण्डल्वादिधारक: शिष्य एकोऽस्ति। आपणे आगत्यैव सवैक्लव्यं साडम्बरञ्च प्रोक्तं साधु महाशयेन- ''अरे वत्स! किमु वृद्धब्राह्मणायापि न्यूनमिहावकाशं दास्यसि? सम्प्रति मच्छिष्यस्य गेहं दूरवर्ति। शरीरं च मे न सोढुं शक्रोति साम्प्रतं मार्गगमनखेदम्। तद्यदि न ते विमुखानि भाग्यानि तर्हि बू्रहि अद्य रात्रावत्रैव विश्रम्य श्व: प्रातरेव शिष्यग्रामं प्रयास्यामि। कथय भाग्यवन्! कस्ते आशय:?’’
नन्दरामवणिक् सर्वाङ्गपूर्ण एको भक्तजन आसीत्। स हि प्रायश: समागतानां साधुसतां सत्कारे भृशमेव दत्तमना आसीत्। स चास्मिन् मध्याह्ने आपणकार्यनिवृत्त: पाकादिसमायोजनं कुर्वन्नासीत्। एतावतैव वृद्धेन साधुना दत्तं श्रीमुखवचनम्!
वणिग्वराक: सर्वं परित्यज्य प्रणनाम साधुप्रवरम्। साधुमातपे क्लिश्यन्तमालोक्य सकरुणस्य वणिजो मनसि भक्तिश्रद्धाया: प्रावहत्स्रोत:।
साधोर्मध्यकाये धौतवस्त्रं, नहि नहि सम्पूर्णम१क्षतवस्त्रमेव संशि£ष्टमालोक्यते। स्कन्धे रामनामाङ्कितमुत्तरीयं पतितमस्ति। मुण्डिते स्वेदजलमसृणितेऽत एव जाज्वल्यमाने मस्तके शाद्व२लशालिनी शिखा आद्र्रकर्पटाच्छादिताऽस्ति। हस्तयोश्छत्रं प्रकाण्डो दण्डश्च बाभाति। पादौ चौपानद्विरहितौ स्त:। गले तुलसीमाला, वक्षसि च पीतवर्णं यज्ञोपवीतं विराजते। साधो: प्रभावशालिनीं मूर्तिं दृष्टवै भक्तवणिक् ''इमे पूर्णा: परब्रह्मसहचरा:’’ इति मनसि कुर्वन् ससमादरं समभाषत- ''श्रीमन्! कोऽत्र चिन्तावसर: इदमपि श्रीमतां शिष्यस्यैव स्थानमस्तीति बुद्ध्या कृताथ्र्यताम्। प्रायो ये ये साधव आयान्ति ते ते दीनस्यास्य निवासे कुर्वन्ति कृपाम्, श्रीमन्तोऽपीह चरणरजो दत्त्वा पावयन्तु स्थानमिदम्’’।
१. थान। २. घेरा।
इदमुक्त्वैव च वणिजा जलपूर्णं पात्रमेकं दत्तं साधवे। साधुनापि सर्वमात्मीयं वस्तु न्यस्तमापणे। शिष्येणापि सर्वं दण्डकमण्डल्वादिकमुत्तार्य स्कन्धकर्पटेन प्रोञ्छितौ पादौ। वृद्धसाधुना जलेन झटिति प्रक्षाल्य पादौ प्रोक्तं वैश्याय-
''तर्हि वत्स! इदानीं साधूनां भोजनस्यापि कुरु सत्वरमायोजनम्। तुभ्यमपि चेद्रोचेत तर्हि ग्रहीष्यसि भगवत्प्रसादं तत एव। किमिति पृथक्पाकादि कृत्वा वृथा परिश्रम: सोढव्य:।’’
पुन: किमासीत्? नन्दरामस्तु साधूच्छिष्टाय नितान्तमेव लालायित आसीत्। इदानीमात्मनो मनोरथानुकूलं दृष्ट्वा शीघ्रमेव सर्वं वस्तु स्थापितं साधोरग्रे। पाकसम्पादनस्थलन्तु१ पूर्वत एवासीत्सम्यक्तया सज्जम्। साधुरपि सर्वं सुभगमालोक्य सरभसमेव पाकनिर्माणस्थलोपरि आक्रमणमकरोत्।
साधुमहाशयस्त्वरितमेव सम्पादयामास मनोनुकूलं भोज्यम्। नन्दराम: साधुमहात्मनो नि:सार्यमाणा नानाविधा: सामग्री:, मृदुमधुराश्च वार्ता: प्रत्यक्षीकृत्य कटककृतनिकेतनं भगवन्तं जगन्नाथं गृहोपस्थितं मेने।
सम्पन्ने पाके सोन्नादं शङ्खवाद्यं कृत्वा ठणठ्ठणदिति घण्टां ध्वनयामास साधु:। नानाविधानि च स्तोत्राणि सगलास्फालनं समारट्य भोज्यसामग्रीं धृतवान् ग्रन्थिनिष्कासितस्य नृसिंहस्याग्रे। विधिविधानेन च कृतवान् शङ्खोदकादि। तदनन्तरञ्च क्षुत्क्षामकण्ठायात्मन: शिष्याय, नन्दरामवणिजे च दत्तवान् भगवत: पावनं प्रसादम्।
प्रात:कालादनाहारो वराको वणिक्तावता प्रसादनैव कथमपि तुतोष। विशेषतश्च साधोदर्शनेनैव नन्दरामभक्तस्तृप्त: समभूत। तृप्ते मनसि क्वावकाशोऽन्यविषयस्य। इतस्तु किञ्चिन्मात्रेण प्रसादेनैव भक्तं सन्तोष्य सशिष्येण साधुमहात्मना यथेच्छं संहार आरब्ध:। सर्वमपि पदार्थजातं जठरकोषागारे सरभसं न्यक्षिप्यत।
अन्तत: प्रसादलोलुपो वणिक् प्रतिदिनभक्ष्यापेक्षया अद्र्धेनैव भक्ष्येण सन्तोष्य जठरं प्रक्षालितहस्तमुख: साधो: कृते धूमपानपात्रं२ सज्जीचकार। साधुरपि समापितसमस्तवस्तुस्तूप: कृत्वा च तदुत्तरकार्यं पृथगासने स्थित: साडम्बरं गडगडायमानं चकार धूमपानपात्रम्।
इत: साधूच्छिष्टलोलुपो नन्दरामभक्त: पुनरपि साधोर्भुक्तावशिष्टं भक्ष्यमन्विष्यति स्म। परं तत्र श्रीमता साधुमहात्मनैव साधुकृपा कृताऽऽसीत्। अस्तु यत्किञ्चिदासीत्तदेकव शक्तिभक्तिगद्गदो वणिक् अभ्यवहर्तुमारभत। यावदयं भुङ्क्ते तावतैव श्रूयते स्म घूमशकट्या विकटश्चीत्कार:।
शब्दं श्रुत्वा ससम्भ्रमं जगादापणस्थाय साधवे वणिक्- ''यदि बहि: कश्चन ग्राहक: समायायात्तर्हि श्रीमद्भिस्तत्र देया दृष्टि:। न स परावर्तेत। अयमेव मे जीवनोपाय:।’’
१ चौका। २ हुक्का।
यावदयं संलापो भवति तावतैव पूर्णतया शृङ्गारितसर्वशरीरो बाबूमहाशय एको नन्दरामापणोपरि समापपात।
शृङ्गारिणोऽस्य शरीरं खडखडायमानाग्रबाहुभूषिनेनाङ्गलचोलकेन समाच्छादितम्। कट्यां कृष्णान्त्यरेखमुज्ज्वलं धौतवस्त्रम्। स्कन्धे च सचातुर्यराशीकृतं सद्योधौतमुत्तरीयमेकं विलसति। पादौ चास्य चाकचक्यशालिभ्यां कृष्णवर्णाभ्यां वैदेशिकोपानद्भ्यां१ गूढौ स्त:। ययोर्हि गमनसमये ''चर् मर्’’ इति शब्दो मुखरयति मार्गोद्देशम्। हस्ते च बाबूमहाशयस्य चाकचक्यशाली ''पटसम्पुटक:२’’ द्वितीये च वेशगौरवभयादिव कम्पमाना सुभगा यष्टिरासीत्।
वैश्यो बाबूमहाशयं दृष्ट्वैव, अन्त: कोष्ठकादेव सादरमभाषत- ''महाशया:! क्षणं स्थित्वा गृह्यतां धूमपानपात्रम्। तावदहमायामि’’।
साधोर्नाभवद्वागवसर:। सर्वं वणिजैव वक्तव्यमुक्तम्। वैश्यस्त्वरितमेव हस्तमुखं प्रक्षाल्य बहिरागतो बाबूमहाशयस्य शृङ्गारसुभगां मूर्तिमालोक्य गौरवमिवोद्वहन् समभाषत- ''कथं बाबुमहाशया:! भोजनादिकं निर्वृत्तम्?’’
बाबू. - नैव। इदानीं तु विलम्बो जात:। सायंभोजनमेव साधुतया भविष्यति। इदानीं तु किञ्चित् ''जलपानमात्रं’’ करिष्ये।
''सम्यक् श्रीमन्!’’ इत्युक्त्वा वणिक् कान्दविकाप३णाद् भक्ष्यमानीय बाबुमहाशयं भोजनाय सज्जीकृवान्। बाबूमहाशयोऽपि नाममात्रेणैव ''जलपानं’’ वस्तुतस्तु सर्वाङ्गपूर्णं भोजनं सानन्दमकार्षीत्।
(२)
सर्वेऽपि रात्रिं भुक्त्वा, पीत्वा, शयित्वा सानन्दमयापयन्। नाभूत्तत्र विशेष:।
प्रातरेव जागरूकेण साधुमहात्मना दृष्टं यद्वणिगापणे नागदन्ति४कोपरि पीतं कौशेयाम्बरमेकं लम्बते। जगाद चाथ वणिग्भक्तम्- ''वत्स! यद्यनुमन्यसे तर्हि पीताम्बरमिदं धृत्वा सन्ध्याह्निकादि विदधामि। शिष्यग्रामो दूरेऽस्ति, न जाने कदा वा तत्र प्राप्रुम:। इत एवाह्निकादितो निवृत्तौ सुखं नो भविष्यति’’
वणि.- महाराज! क्रीतस्यास्य दिनद्वयमेव जातम्। नैकवारमपि परिहितं मया। श्रीमतां ''प्रसादीभूतं’’ स्यात्तदा मे मनोऽभीष्टं भविष्यति। धारयतु श्रीमान्।
पुन: किमासीत्? सानन्दं परिहितं साधुमहात्मना। साडम्बरञ्च दण्डकमण्डल्वादि इतस्तत: प्रसार्य, ऊर्णासनोपविष्टोऽक्षिणी निमील्य धृतगोमुखीक: परे ब्रह्मणीव लीनतां गन्तुमारभत।
इतो बाबुमहाशयेन सम्यक्तया विभूष्याऽऽत्मानं स्वीयं च वस्तु गृहीत्वा प्रोक्तं वणिजे- ''अयि वणिग्वर! ह्यस्तनजलपानस्य, सायंभोजनस्य च कियान् व्ययो जात:? कथयतु, इदानीमेवाऽहं सर्वं ददामि। आवश्यकं मे साम्प्रतमेव गमनम्।’’
१. बूट। २. मनीवेग। ३. हलवाई। ४. खूंटी।
वणिजा मनसि चिन्तितम्-''अतीव मे श्रमो जात:। व्ययोऽपि इतो भूयानभवत्। विना किमप्युपार्जनं न चलिष्यति।’’ पुनर्मनसि गणितं कुर्वतेव प्रस्फुरिताधरेण प्रोक्तन्- ''आम्, एवम्। सर्वं मुद्राद्वयं साद्र्धपणपञ्चकं च जातम्।’’
बाबू.- अयि भो:! स्फुटपणानां तु कथैव गच्छतु। इदं तु वणिग्जनानां प्राकृतं कल्पनपाटवम्। तर्हि अष्टौ रूप्यकाणि परावर्तयतु भवान्। अहं दशरूप्यकमूल्यं शुल्कपत्रं१ ददामि।
प्रमुदितचेतसा वणिजा पेटिकातो रूप्यकाष्टकं नि:सार्य समर्पितं बाबूमहाशयाय। धृतञ्च तत् पटसम्पुटकमध्ये बाबूमहाशयेन। अनन्तरञ्च यष्टिं गृहीत्वा प्रयातुमारभत्
बाबुमहाशय:। तद् दृष्ट्वा अतीव विनयेन प्रोक्तं वणिजा- ''बाबुमहाशया:! शुल्कपत्रम्?’’
बाबू.- आम्, तदेव दशरूप्यकाणां यत्प्रदत्तम्!
वणि.- महाशय! क्व प्रदत्तम्? दानायैव तु स्मारयाम: श्रीमते!
बाबू.- अरे कीदृशमानुषोऽसि? पूर्वं शुल्कपत्रं गृहीत्वा तदनन्तरं तु त्वया मुद्रा: प्रदत्ता:।
वणि.- नैव महाशया:! विस्मरन्ति भवन्त:। स्वीयं पटसम्पुटकमुद्घाट्य पश्यन्तु! न वयं द्विवारं ग्रहीतार:।
बाबू.- अरे न वयं द्विवारं प्रदातार:। भवानेव स्वीयां पेटिकां पश्यतु। भवतो वञ्चनापाटवं नात्र चलिष्यति।
वणिजा मनसि चिन्तितम्- ''अयं तु विचित्रवेषश्चौर: समायात:। हा तात! य: श्रोष्यति स मामेव मिथ्यावादिनं कलयिष्यति। गौरोज्ज्वलवेषमिमं तु सभ्य इति सर्व एव सत्यवादिनं वदिष्यन्ति। यद्भवतु, तद्भवतु यादृशाय तादृश एवोपयुज्यते। अयमिदानीमतीव प्रवृद्ध:। आत्मस्वरूपप्रदर्शनं विना नायं मामकं दास्यति द्रव्यम्।
इत्याकलय्यैव आपणादुत्प्लुत्य पथि समाजगाम, जग्राह च करेण बाबूमहात्मन: पटसम्पुटकम्। उभयोर्बभूव कराकरि समाक्रमणम्।
द्वयोरिमं भीषणसमाक्रमं दृष्ट्वा जना: समाययु:, चक्रुश्च प्रयत्नमस्य कारणावगमाय।
साधुमहाशय: साम्प्रतमासने स्थित: प्रात:सन्ध्यामिव कुर्वन्नासीत। स इमं लोककोलाहलं श्रुत्वा आसनादुत्त्थाय वहिराजगाम। लोकसङ्घाते प्रविश्य च किं किमिति वारं वारमुच्चरगादीत्।
वणिक् साधुमहाशयं समीपे दृष्ट्वा मनसि सुतरां प्रासीदत्। आसीच्चास्य विश्वासो यदवश्यं साधुमहाशया: सत्यां वार्तां प्रकाशयन्तो भक्तस्य मे साहाय्यं करिष्यन्ति। परमित: सर्वा कथैव परावृत्ता।
१. नोट।
अपृष्ट एव साधुमहाशयस्तीवे्रण स्वरेण सर्वानवदत्- ''हरे! हरे! एवं तु वणिक् धार्मिक इव दृष्यते स्म, परं हन्त! हन्त!! अयन्तु सुतरामेव वञ्चक:!!! पश्यत: सर्वस्वं हरति!! पूर्वं तु सभ्यं पुरुषं रात्रौ बलादस्थापयत्। तत एकवारभोजनस्य मुद्राद्वयं व्ययमयाचत्। तदपि वराकेण धार्मिकेणाङ्गीकृत्य दशमुद्रामूल्यं शुल्कपत्रं प्रदत्तम्। अनेनापि तद् गृहीत्वाऽष्टौ मुद्रा: परावर्तिता:। परमिदानीं कथयति ''न मे शल्कपत्रं प्रदत्तम्’’ हरे! राम! कथमस्य भगवान् भव्यं करिष्यति। रे पामर! धर्मतोऽपि मनाग् बिभिहि! कण्ठकर्तनेन न कुबेरो भविष्यसि। सर्वत्र धर्मं दृष्ट्वा कार्यं साधनीयम्। सर्वं खलु भूतभावन: परमात्माऽनिमिशमालोकते।
साधुमहात्मन: कथामिमां श्रुत्वा सर्वेऽपि तदन्तिके समागत्य सर्वं वृत्तान्तं पप्रच्छु:। सभयकम्पमिव प्राब्रवीत्साधु:-
''सर्ववृत्तान्तश्रवणात् पूर्वं भवन्त: पातकिनोऽस्य वणिजो द्वारात् प्रतिष्ठाविरहितं मां स्वभीष्टस्थलं यापयत! न जाने बकभक्तोऽयं बहुमूल्यं ममापि सर्वं वस्तुजातं चेदपहर्तुमुद्यत: स्यात्तर्हि व्यवहारानभिज्ञस्य विपरीतं मे पतेत्। हन्त! हन्त!! अनेन वराकेण तु मदग्र एव शुल्कपत्रं दत्तमासीत्। मया तु यदाऽमुष्मै रात्रौ मम भोजनमूल्यं दत्तमासीत्तदा तु साक्ष्यपि कोऽपि नासीत्।
इदानीं सर्वे जना वराकं वाणिजमेव सावहेलं धिक्चक्रु:- ''अरे राम! इमे तु साधुजना: सन्ति, एभि: साकं च तवाऽयं व्यवहार:! हा धिक्!’’
एक: प्रतिवेशी जगाद्- ''अरे नन्द! त्वमेव स्वयं निजमनसि विचारय, इमे साधव: कदापि मिथ्या वदिष्यन्ति? प्रदत्तं शुल्कपत्रं तु किमित्यपलपसि?
अन्योऽवदत्- ''अस्तु साधुमहाशयसमक्षं प्रदत्तं शुल्कपत्रं तु त्वमधर्मात् गोपयसि। परं रात्रौ साधुमहाशयेन प्रदत्तं यद् भोजनमूल्यं तत्तु त्वया प्राप्तम्। उत तदपि न गृहीतम्?
अधुना नन्दरामस्य आत्माराम एव उड्डीन इवाऽभवत्। वराक: किं वदेत्! यदा सर्वेपि तदीया एव प्रतिकूला जातास्तदा केन वा प्रकारेण वराक आत्मानं सत्यवादिनं कलयेत्?’’
प्राप्तावसरेण चौरबाबुना प्रोक्तम्- ''साधुमहाशया:! इदानीमपि किमिति लुण्टाकस्यास्यापणे तिष्ठथ? राजमार्गे बहव आपणा: सन्ति। अस्मात्तु आत्मानं मोचयत! न जाने अग्रे किमयं कथयेत्?’’
वराको वणिक् स्थूणायित: स्थित आसीत्। इत: साधुमहाशयस्य शिष्योऽपि आत्मनो दण्डकमण्डल्वादिकम्, तेन सहैव च वाणिग्वराकस्यापि स्थालीपात्रादीनि अन्यान्यपि च वणिजो वस्तुजातानि यथासुखमात्मनो ग्रन्थौ ग्रन्थयित्वा सर्वमेतत् स्कन्धे समारोप्य वणिगापणाद्बहिरभवत्।
वराकेन वणिजा यावच्छक्यं सर्वाग्र एव वारं वारमुक्तम्- ''हरे! राम! पश्यतो मम ''धवलमध्याह्ने’’ लुण्टाका: सर्वस्वं लुण्ठन्ति। यूयं च प्रतिवेशिनो भूत्वापि न मे शृण्वन्ति, प्रत्युत वञ्चकानामेव साहाय्यं विधत्थ! त्राहि मधुसूदन!!!
परमिदं वणिज: करुणाक्रन्दनं के शृण्वन्ति? प्रत्युत ''पुरातन:१ पातकी’’ इति बहुशो वणिजमेव सर्वे धिक्चक्रु:। सभयप्रदर्शनञ्च तं तूष्णीं कारयामासु:।
वणिजा बहुधा नानाप्रकारैर्बोधिता: सर्वे, उक्तञ्च वारं वारम्- ''यदेतत्स्थालीपात्रादिकं मदीयमेव वस्तु स्तेना इमेऽपहरन्ति! परं फलमस्य विपरीतमासीत्। सर्वेऽपि सम्भूय तं ''यद्वा तद्वा’’ कथयामासु:। आरोपितभू्रचापाश्च ''पामर! केयं तवोच्छृङ्खला वृत्ति:?’’ इति बहुशस्तर्जयाञ्चक्रु:।
कपटसाधुहतकस्य छद्मपाटवं तादृशं लोकेषु कृतकार्यमभूद् यथा वराकेन वणिजा यदा आत्मन: कौशेयाम्बरविषये, 'यद्धि कपटयतिना वणिज: सकाशात् याचित्वा धारितमासीत्’ ''ममेदम्’’ इति क्रन्दितं तदा सर्वेऽपि राजपथस्था:, अन्येऽपि च तटस्था:- ''हा हा नन्द! किं तवाद्य जातम्? किन्नु वाताध्मातोऽसि? हा! हन्त! वराकस्य दीनसाधो: पीताम्बरमपि अपहर्तुमिच्छसि! तात! मनाक् धर्मभगवतोऽपि भयं कार्यम्। स हि सर्वेषां प्राणभूत: सहचर:। अथ वा लोकादेव बिभेहि! सर्वेषामेवाग्रे साधोर्वस्तुजातमात्मनो ब्रूषे? नैवं गर्हितै: कर्मभिर्जठरपूरणं पूरणं भवति। संसारे कति दिनानि जीविष्यसि! त्वमेव तावद्विचारय एवमधम्र्याणि कार्याणि कृत्वा कति दिनानि भक्षयिष्यसि? अन्ततस्तु तस्मिन्नेव न्यायालये तवोत्तरं देयं भविष्यति यत्र नान्यस्य साक्षिण: साक्ष्यं फलति। येषां कृते पातकमिदमुपार्जयसि ते किमु परिवारजनास्तत्र साहाय्यं विधास्यन्ति? इत्यादि, इत्यादि
समुचितोऽयमवसर इति पर्यालोच्य साधुमहाभागेनापि कपाले समाकर्षिते अक्षिणी! स हि साभिमानमभाषत- ''हा! राम! वयं पूर्वतो वणिजमिमं, ईदृशं लुण्टाकं चेदवेदिष्यामस्तर्हि कस्मादस्य पातकिनो द्वारमायास्याम:! नारायण! नारायण!! अद्याऽनेन, अभागिना मम सर्वं सन्ध्यागायत्र्यादि आह्निकमपि च्यावितम्! हरे विष्णो!?
बाबूदेवोऽवदत्- ''अरे! महाराज! गम्यते न वा लुण्टाकस्यास्य द्वारदेशात्। अथवाऽन्यत्किमपि अपहारयितुं काम्यते? अन्यथा इमे यदि सर्वेऽपि मिलित्वा भवतो दण्डकमण्डलादिकं सर्वमपहरिष्यन्ति तर्हि विना मृत्युमेव मरणं भविष्यति!
बाबूमहाशयस्यारुन्तुदं वचनमिदं श्रुत्वा सर्वेऽपि समवेता: समभाषन्त
''अयि बाबूमहाशया:! इमां कीदृशीं कथां मुखे कुरुथ? ग्रामस्य एको मनुष्यो यद्येवंविध: स्यात्तर्हि किं सर्वमपि ग्रामं भवान् तादृशमेव विज्ञास्यति?’’
बाबु.-अये प्रियसुहृत्! को जानीयात्! अयं हि युष्माकं प्रतिवेशी। यदि ग्रामपक्षपातमवलम्ब्य भवन्त: पूर्वोक्तं कुर्यास्तदा किमाश्चर्यम्!
साक्षेपं द्वितीयोऽवदत्-''आम्! सत्यं बाबूमहाशया:! सत्यम्! इदं जगदेव एतादृशम्। कोऽत्र वा मानुषस्यापराध:?’’
साधु.-नैव वत्सा:! नैव! इदं तू सर्वैरेव दृश्यते यद्यूयं स्वग्रामजनं विहाय नास्माकं सहाया भविष्यथ! लोकस्यं चरितमेवैतादृशम्। तथापि धर्मोऽपि किञ्चन वस्तु भवति। तस्यैकवारमेव न लोके लोपो जात:?
तृतीयोप्यस्मिन्नेव स्वरेऽगायत्-''साधुमहाशया:! धर्मसेतोर्न सर्वथैव भङ्गो जात:। कुटिलेऽस्मिन् कलिकाले यद्यपि छलकपटादिभिर्जगत् परिपूर्णमथापि धर्मस्याङ्गमधुनापि वर्वर्ति। केषाञ्चिन्मानुषाणां प्रवृत्ति: कल्मषकलुषिता, तेनापि किं भवति? अधुनापि संसारे धर्मस्य जागर्तिं सर्वतोमुखो जाज्ज्वल्यमानो मणिमयप्रदीप:, भगवान् जगदाधारो नाधुनापि क्वापि विलीन:! यदि सर्वेऽपि उत्सृष्टसाधुपथा: स्युस्तर्हि भूवलय: कथमिवकल्पयेत्स्थितिमात्मीयाम्।
अस्मिन् समये कपटसाधुना, वञ्चकबाबुना च प्राप्त: समुचितोऽवसर:। उभावपि मन्दमन्दं हसन्तौ तत्स्थानाददर्शनमुपाजग्मतु:।
वराको वणिक् आत्मन: कपालमास्फोट्य, हृदयं कथञ्चित् बलात्संस्थाप्य तयो: पन्थानमनिमेषं पश्यन् पाषाण इवाचलस्तस्थौ।
दृष्टो धर्मपथमवलम्बमानानां समयेऽस्मिन् परिणाम:? धन्य: पूज्यपाद: साधुमूद्र्धन्य:! सन्तजनभक्तिपरायणो वणिगपि च धन्य:!!
धर्मपथस्थितो वराको नन्दरामवणिक् केवलं हाहाकार भागी बभूव। परमानन्दभागिनौ च बभूवतु: ''लुण्टाकयति:, वञ्चकबाबू च’’।
सरला
(१)
हिमालयवक्षसि, एकस्यामुपत्यकायां सुन्दरमेतन्नगरं केन वा रूपेण स्थापितमभूदिति न कोऽपि शक्रोति वक्तुम्। किन्तु नगरेऽस्मिन् य: समायाति स एव प्रकृतेर्मधुमयं सौन्दर्यं विलोक्य मुग्धो भवति। प्राप्तविश्रमा: कतिपये गौराङ्गा: स्थानेऽस्मिन् हम्र्याणि स्थापितवन्त:, अतएव नगरे बहूनां श्वेताङ्गपुरुषाणां महिलानां च विलोक्यते समागम:। यस्मिन् वत्सरे ग्रीष्मस्य घटा समधिका भवति तस्मिन् संवत्सरे अत्रत्यो जनकोलाहल: संवद्र्धते बहुतरम्। वायुसेवनार्थं वङ्गदेशीया अपि बहवो धनिन: कुर्वन्त्यत्र पदार्पणम्। नाहं धनिक:, एवं वायुसेवनमपि न मे तथाविधमावश्यकम्। तथाप्यहं स्थानेऽस्मिन् भ्रमणार्थमागतोऽस्मि। नात्र कारणं भ्रमणव्यसनम्, किन्तु कस्मिननपि स्थाने मासद्वयादधिकं न मे स्थातुं प्रवृत्तिर्भवति। अत्र षड्भ्यो मासेभ्यो निवसामि। मनोयोगोऽत्र जातोऽस्ति न वा एतत् न कदाचिदपि चिन्तितवानस्मि।
एकं क्षुदं्र लताभवनं मे वासगृहम्। दूरादरण्याद्वायोर्हिल्लोल: पुरातनसुखस्य स्मृतिं मनसि जागरयति कदाचित् कदाचित्। मध्ये मध्ये वन्यकुसुमसौरभेण मे वासगृहमामोदितं भविति। एवं वातायनपथे गिरिशृङ्गेण सह धूमकान्तेर्मेघस्य समागमं पश्यन् कस्मिन्नपि स्वप्रराज्ये इव प्रवाहितो भवामि। मम अतृप्तकामना बहि:पृथिव्यां परिभ्रमणस्य सुविधामप्राप्येव सङ्कीर्णेऽस्मिन् स्थाने व्याकुलभावेन परित: परिभ्रमतीव। किन्तु मम किमभवत् इति स्वयमहं बोद्धुं न पारयामि।
मम भवने अन्ययोद्र्वयो: प्राणिनोर्निवास:। एकस्तद्देशीयो भृत्य:, नाम सुचेत इति, एष हि अनन्तरूप:। कदाचित् परिचारक:, कदाचित् पाचक:, कदाचित् द्वारपाल:। अपूपवेल्लने, पादुकास्वच्छीकरणे च स हि समानभावे तत्पर:। द्वितीयस्य च प्राणिनो नाम रामचरण:, स खलु मत्पितामहसमयस्य भृत्य:।
रामचरणस्य बाल्यजीवनस्येतिहास: करुणरससिक्त:। स खलु मत्पितृसमवयस्क:। स हि यदा प्रथममेवास्माकं गृहे प्राविशत्-श्रुतवानस्मि,-तदा तस्य वय: त्रयोदशवर्षात्मकमासीत्। परं साम्प्रतमेतस्य विश्रमप्राप्ते: समय:। उल्लङ्घितं षष्टितमं वर्षम्। किन्तु स शेषदिनपर्यन्तं मत्सविधे स्थास्यति, एवंविधं सङ्कल्पं स्थिरीकृतवानस्ति। पितामहचरणा आश्रितवत्सला: समभूवन्। तैर्हि रामचरणार्थमेकं गृहं दत्तमासीत्, तस्य विवाहोऽपि स्वहस्तेन कृतोऽभूत्। परं हतभाग्यस्य गार्हस्थ्यसुखं नाभवत्स्थायि। रामचरणस्य हस्ते एकं पुत्रसन्तानमुपहृत्य तत्पत्नी विधातुराह्वाने पृथिवीं परितत्याज। मातृहीनं शिशुमाप वराको जीवयितुं नाशकत्। रामचरण: प्रमाज्र्याश्रूणि पितामहं प्रावदत्- ''स्वामिन्! संसारधर्मं समापितवानस्मि। गृह्यतामियं गृहस्य कुञ्चिका। न मे गृहस्यावश्यकता। गृहस्यास्य कोण एव एकस्मिन् सुखं स्थास्यामि।’’ पितामहचरणा: कथाया मर्म सम्यगबुध्यन्। दासदासीनां वेदनाभरे उपेक्षां प्रदश्र्य आत्मनो धनिकत्वप्रदर्शनवृत्तिर्नासीत्तेषाम्। प्रत्यवदत्-''किं कथयामि तात! तव संसारसुखं सङ्घटयितुं यथाशक्ति प्रयते।’’ अस्तु कालान्तरेण शोकेऽस्मिन् मन्दीभूते रामचरणस्यानेके शुभाकाङ्क्षिण: पुनर्दारपरिग्रहस्य परामर्शं प्रददु:। परं नासौ कथायामेतस्यां कर्णं दत्तवान्। स हि मद्भगिनीं मोहिनीमेव क्रोडे कृत्वा कथयामास प्रायश:-''एतदादीनवलम्ब्यैव मम संसार:।’’
मयि सूतिकागृहाद् बहिर्भूत एव रामचरण एव मां क्रोडे जग्राह। संसारे आगत्य जननीक्रोडात् रामचरणक्रोड एव सर्वप्रथममाश्रय: प्राप्तोऽभूत्। जननी मे स्वर्गवासिनी। इदानीमपि रामचरणस्य निकटे स एव शिशुरहम्।
स्नेहमय्यां मम भगिन्यामपि रामचरणस्य नाभूदल्प: प्रेमा। समये समये मोहिन्या: कृते रामचरणस्य चित्तं साम्प्रतमपि विकलं भवति। परं न तन्निमित्तं कस्यापि चिन्ता। मम भगिनीपति: परेशचन्द्र एक: सुयोग्य: प्राड्विवाक: (जज)। एतस्य सदाचरणेन सर्वेऽप्युच्चाधिकारिण: सन्तुष्टा:। प्रजास्वपि सुमहानादर:। फलतो मोहिनी एकस्मिन् सुयोग्यपात्रे न्यस्ता। मोहिन्येव स्वगृहे कत्र्री। नगरप्राड्विवाको मम भगिनीपति: स्वोच्चाधिकार्यपेक्षया मोहिनीमेवाधिकमाद्रियते स्म।
अहं हि यस्य समयस्य कथां वच्मि, तदा ह्यासीद वैशाखमास:। अपराöे अकस्मान्मेघाडम्बरमदृश्यत। वृष्टिरपि किञ्चित्किञ्चित्प्रारभ्यत। निवासकक्षस्य वातायनान्याबध्य पल्यङ्के शयानोहं शून्यदृष्ट्या गृहस्य छदिरवलोकयन्नासम्। मनसि च किञ्चिद्विचारयन्निवातिष्ठम्। यद्ध्यहं पृष्टोऽपि तस्मिन्समये नाशक्ष्यं सम्यग् वर्णयितुम्।
रामचरणो मत्पदप्रान्तेऽवस्थाय सस्नेहमवदत्- ''विनो! भवत्पादौ संवाहयामि?’’। मम चक्षुषी जलपूर्णे अभूताम्। रामचरणस्य मनसि मन्ये अकस्मात् पूर्वकथा उदियाय। अत एव स प्रावदत्- ''विनो? स्वल्पस्य कृते भवता सर्वमपि संसारसुखं विनाशितम्! सेयं चिन्ता मरणपर्यन्तमपि न मां विहास्यति।’’
रामचरणो मम संसारवैराग्यस्य कारणं जानाति स्म। पृथिव्यां वयं त्रय एव एतदजानीम, रामचरण:, अहम्, अन्यश्चैको जन:। स च क:, इत्यगे्र स्फुटमभिवर्णिते भवेद्विदितम्।
(२)
सेयं बहुपूर्वतनी कथा। प्रायो दशवत्सरा व्यतीता भवेयु:। मम वय: साम्प्रतं सप्तविंशतिर्वत्सरा:। साम्प्रतमहं कालिकात्ताविश्वविद्यालयस्य एम.ए. नामकचक्रचिह्नित: शिक्षितो युवक:। किन्तु सा क्षुद्रघटना एतस्य तुच्छजीवनस्य गतिं परिवर्तयामास, सा हि दशवत्सरेभ्य: पूर्वं घटते स्म। तेन समयेन साकं वर्तमानसमयस्य घनिष्ठसम्बन्धमहं मर्मणि मर्मणि अनुभवामि।
सप्तदशवत्सरात्मकस्य वयसो य: खलु उत्साह:, उद्यम:, या वा प्रफुल्लता, तस्या: खलु तुलना दुर्लभा। वर्षाजलसिक्ताया लताया: श्यामलताम्, प्रभातपद्मस्य मनोहरमरुणिमानम्, शरत्पूर्णचन्द्रस्य शुभ्रज्योत्स्नायां यूथिकाविकासम्, अनेकवारमवलोकितवानस्मि। कदाचित् कदाचित् सौन्दर्यमुग्धोऽपि जातोऽस्मि। परं नारीमुखस्य कीदृक् सौन्दर्यमिति न तस्मिन् समये सम्यग् बोद्धुमपारयम्। यद्धि सौन्दर्यं चिराय चित्तं मरीचिकायां निक्षिप्य स्वयमन्तर्हितं भवति, तस्य महिमानं तावत्कालमप्यहं नान्वभवम्।
सप्तदशवत्सरात्मके वयसि एफ.ए. परीक्षामुत्तीर्य प्रियभगिन्या मोहिन्या: श्वशुरगृहमगमम्। मोहिन्या वयस्तस्मिन् समये पञ्चदशवर्षात्मकम्। एतस्य वर्षद्वयपूर्वं मोहिन्या विवाहोऽभवत्। मम भगिनीपति: परेशमहाशय: बी.ए. परीक्षामुत्तीर्य एम.ए. परीक्षार्थं कलिकातायामपठत्। विजयदशम्या अवकाशमुपलभ्य समायासीदसौ गृहान्। अहमपि देवीपूजावकाशे भगिनीं द्रष्टुमायातोऽभवम्।
एकस्मिन् दिने परेशचन्द्रेण सह तस्य शयनकक्षे स्थितो वार्तासक्त आसम्। एतस्मिन् समये एका युवति:- युवतिरथवा किशोरी- इति नाहं सम्यग् वक्तुं पारयामि, प्रायो मोहिन्या: समवयस्का एका सुन्दरी ''महदेकं कौतुकम्’’ इत्युक्त्वा उन्मुक्तसरलहास्येन हठात् प्रकोष्ठकामेदं झाङ्कारितमकरोत्। परमकस्मात् सम्मुखे मामभिवीक्ष्य चकितचकितमतिष्ठत्। मुखं लज्जारुणमभवत्। तस्या हास्यं सम्भ्रमश्चमुहूर्तमध्ये तिरोऽभूत्। क्षणमात्रे विलम्ब्य नतमुखी अत्यन्तमप्रस्तुतभावेन गृहाद्बहिरभवत्। परेशचन्द्रस्तां प्रत्यावर्तयितुं बहुतरमाह्वयामास, द्वारपर्यन्तमग्रेसरोऽप्यभवत् परं सुन्दरी न पुन: परावृत्ता। परेश: प्रावदत्- ''सरलाया महती लज्जा। भवन्तं दृष्ट्वापि लज्जा!’’ परेशस्य हास्यमयमाननं हठाद् गम्भीरमभवत्।
मम विदितमासीत् केय सुन्दरीति। सरला परेशचन्द्रस्य कनिष्ठसहोदरा। सा चेयं विधवा, इत्यपि मे विदितमासीत्। एतत्पूर्वं परेशगृहगमनस्य नाभूदवसर:। सरलां सर्वप्रथममद्यैवापश्यम्!
किन्तु किमहमपश्यम्? एवंविधं कदाचन पूर्वं दृष्टवानस्मीति न मे मनसि समभवत्। मम प्रतीतमभूत्-घनकृष्णस्य मेघस्यान्तराले विद्युल्लता दु्रततरमखेलत्। चञ्चलेऽस्मिन् विद्युत आलोके, आलोकहीनमुज्ज्वलतावर्जितं च मम यौवनकक्षं सहसैव आलोकितमभूत्।
दिनत्रयादुत्तरं परेशचन्द्रादनुमतिं गृहीत्वा यात्रामकरवम्। किन्तु दृष्टं मया-यदेतस्मिन्स्वल्प एव समये मम मनोमध्ये घोर एको विप्लव उपस्थितोऽस्ति। विप्लवस्य कारणमपि सुस्पष्टमभूत्। फलभोगोऽपि तस्य प्रारब्धोऽभूत्। किन्तु मन:संयमस्य कामपि युक्तिं नाहमध्यगच्छम्। रक्तमांसमयं शरीरं भित्त्वा या खलु तीक्ष्णाऽसिधेनुका मनस्यपि व्रणमुत्पादयामास तस्यास्तीक्ष्णतां मुहूर्तमध्य एव हृदयङ्गमामकरवम्। नाहं सरलां विस्मर्तुं प्राभवम्।
गृहं प्राप्यापि सरलाया: कथा मनसि जागृताऽभवत्। सप्ताहात्परं सप्ताहं व्यतीतमभवत्, नानाकार्येषु मनो योजयितुं चेष्टामकार्षं परं किमपि फलं नाभवत्। मनसा सह युद्धं कृत्वा पराजितश्चावसन्नश्चाभवम्। एकमासोऽपि नाभवद्व्यतीत:, पुनरहं मोहिनीं द्रष्टुं परेशचन्द्रगृहमयासम्। सत्यमेव किमु मोहिनीं द्रष्टुम्? मोहिन्या विवाहोत्तरं वर्षद्वयस्य मध्ये नैकवारमपि तां द्रष्टुं तावद्व्याकुलता समभवत्, एषा कथापि मे मनसि स्वयमेव प्रादुरभूत्। आत्मसुखस्य कृते ममाप्यात्मप्रवञ्चनाया दासत्वं कर्तुमापतितम्।
तस्मिन् दिने प्रथममेम प्राङ्गणे परेशेन सह मम साक्षात्कारोऽभवत्। तदनन्तरं परेश: अन्त:पुरे प्रयातुमुदतिष्ठत्। वार्तास्रोतस्तथैव प्राचलत्। अहमपि तदनुसरणमकार्षम्। लज्जा प्रतिपदं बाधामुपस्थापयामास। परेशो मया सह आत्मन: शयनगृहमाजगाम। सरला हि तस्मिन् समये पुस्तकपाठे दत्तचित्तासीत्। द्वारस्य सम्मुखे अहम्, परेशश्च गृहप्रविष्ट:, पलायितुमपारयन्ती सरला भयचकिताभवत्। मुखमवनामयामास। अहमेकवारं तन्मुखमवालोकयम्। तस्मिन् मञ्जुनि मुखे एवंविधा सलज्जकोमलता मिश्रितासीत्, यद्वशान्मम मनसि नूतनमिव पुनरुदभवत्-सेयं सर्वाङ्गसुन्दरी, सरला विधवा? विधातु: कोऽयं विचार:!
तस्मिन् दिने सरलया सह मम परिचयमात्रं समभवत्। क्रमेणालापवृद्धौ सरलाया: सङ्कोचो दूरेऽभवत्। मम पुरता नातिष्ठत्कुण्ठितभाव:। अहमपि मध्ये मध्ये मोहिनीं द्रष्टुमयासम्! मामवलोक्य सरला किञ्चिदपि हर्षं न प्राकाशयत्। निजगाम्भीर्येणात्मानमवगुण्ठयितुमकरोच्चेष्टाम्। किन्तु तस्या नयनयोव्र्याकुलतां नैषा गोपायितुमशकत्, चेतसो विकृतिमवरोद्धुं बलात्कारेण सैषा कार्यान्तरे मनोयोगमकार्षीत्।
पञ्चषमासानन्तरं प्रसङ्गतोऽहं मम मनसो भावं सरलाया: पुर: प्राकाशयम्। सरला धीरभावेन सकलामपि कथामशृणोत्, किमप्युत्तरमदत्वा मस्तकमवनमय्य प्रायासीत्। गमनसमये केवलं नि:श्वासशब्दोऽश्रूयत।
शरीरमवसन्नम्, मनो भाराक्रान्तम्, कस्मिन्नपि कर्मणि नास्त्युत्साह:। तातचरणा मां कार्यार्थं चन्द्रनगरं प्रेषयामासु:। रामचरण: शुश्रूषार्थं मया साकमगच्छत्। चन्द्रनगरे कतिपयदिनपर्यन्तं न प्राप्तं मया गृहस्य वृत्तम्। पर्यन्तत: प्रियसुहृद एकस्य पत्रं प्राप्रवम्। तत्रासील्लिखितम्- पितृचरणानामार्थिकी दशा शोचनीया। परं शीघ्रमेव तत्प्रतीकारो भावी। पत्रस्यान्ते एतदपि सूचितमासीत्-यत्पितृचरणा मदर्थमेकां सुन्दरीं कन्यामन्विष्यन्ति। प्रियबन्धोरिदं पत्रमभिवाच्य मम हास्यमभवत्। रामचरणो मत्पाश्र्व एव स्थितोऽभूत्। स हि मम हास्यमभिवीक्ष्य जिज्ञासते स्म- ''पत्रे किञ्चित् शुभवृत्तमस्ति किमु?’’
सहास्यं प्रोक्तं मया-''पितृचरणा मम विवाहस्यायोजनं कुर्वन्ति। रामचरण! मन्ये विसर्जनस्य सोऽयमेव समय:!’’
रामचरण: साश्चर्यं ग्रीवामाकुञ्च्य प्रावदत्-''विसर्जनम्? केयं भवतोऽवस्था? महान्मम विचार उपस्थित:’’।
(३)
कतिचिद् दिनान्यातिवाह्य चन्द्रनगरे पत्रमेकमधिगतं मया। अपरिचितान्यक्षराणि, दृष्ट्वैव प्रतीयते-स्त्रीजनस्य कस्यापि लेख:। केयं मां पत्रं लिखितवती? किञ्चित्कौतुकेन, किञ्चिदाग्रहेण, पत्रमिदं निर्मुक्तबन्धनमकार्षम्। दृष्टं मया यत्पत्रस्यावसाने सरलाया नामाक्षराणि सन्ति! सरलया मह्यं पत्रं लिखितमस्ति। नाहमिदं कदाचिदपि मनस्यकरवं यत्सरलाया: पत्रमधिगमिष्यामीति।
पत्रमेकश्वासेन समस्तमपठम्।
''विनोद!,
''भ्रातुरुद्देश्येन यत्प्रेषितवानसि पत्रम्, तत्पठितं मया। भवत: शरीरस्य याऽवस्था, तदर्थं चन्द्रनगरनिवास एव भवत: सुखावह:। निरन्तरेणाध्ययनेनैव शरीरमुत्क्लेशितवानसि। भ्रातृजाया भवदर्थं निरतिशयचिन्ताकुला। भवत: कुशलवृत्तमुपलभ्य सर्वेऽपि सुखिनो भविष्याम:। चन्द्रनगरे भवत: कियान्निवास: सुनिश्चित:?’’
''भवन्मनसोऽवस्था शोचनीया, एतत्सम्यगवगच्छामि। चन्द्रनगरप्रयाणात्पूर्वं मह्यं यत्प्रोक्तवानसि, तस्य न किमप्युत्तरं प्राप्तं भवता! अभागिनी किं वा उत्तरं दास्याम्यहम्? अहं बालविधवा। विवाह: कदाऽभवादित्येव न स्मरामि। स्वामिनो मुखमपि न कदाचित्स्मृतिपथे समुपैति। एतत्कथाविस्मरणेन लेशतोऽपि मम दु:खं नासीत्। पितृगृहं आल्हादेनैव दिनान्ययापयम्। अनेनैव रूपेण दिनयापनं किमु नासीत्सुखावहम्?’’
''किन्तु दिनयापनं न मे भाग्ये आसीत्। त्वं मम दृष्टिगोचरोऽभू:। तवादर्शनमेव मन्ये सम्यगासीत्। किन्तु यद्भावि, तज्जातमेव। भवान्मयि बद्धप्रणय:, मामुद्वोढुं निश्चयो भवत:। अनवलोकितपतिमुखानां मादृशविधवानां विवाह: शास्त्रसङ्गत:, असङ्गतो वा, नैतदहं जानामि। किन्त्वस्मिन् जीवनेऽसम्भव एव विवाह:। पृथिव्यां नाहं संसारिणी भविष्यामि। समाजस्य भयेनैतां कथं लिखामि, नैतत्। कलङ्कस्य भयेन मानुषो जीवनस्य सकलकामना: परित्यक्तुं न शक्रोति। समाज एव वा सतीत्वस्य जवनिकायां कानि कानि वा दुराचरणानि नाद्यावधि सहते? तथापि कथयामि संसारे व्यापारमिममुद्दिश्य नेत: परं भवता सह मे साक्षात्कारो भविष्यति। अपरपारार्थं अपेक्षां कर्तुं पारयेद्भवान्? यदि पारयेस्तर्हि पुनर्मम दर्शनं देयम्, अन्यथा न मम दृशो: सम्मुखमुपैष्यामि, इदमेव सविनयमर्थये। एतत्किमेतावत्कठिनम्? अहं तु न तथा भावयामि।
सरला।’’
द्विवारे त्रिवारं पत्रमेतदपठम्। रमणीहृदयरहस्यं न मे परिज्ञातमासीत्। पराजितो भूत्वा मृद्र्धानमवनतमकार्षम्। विपुलचेष्टया मन: संयतं कृत्वा प्रावदम्-तदेव भवतु, तदेव भवतु। इह लोके एतत्पर्यन्तमेवास्तु। परलोके मम नि:सीमं शान्तिसुखम्। एतल्लोकस्य सीमोल्लङ्घने कियान् वा समय आवश्यक:? कति दिनानि वा प्रतीक्षाकरणमावश्यकं भविष्यति? v
यथासमयं सरलायै मम मनोभावमेनमसूचयम्। v
(४) v
एतद्घटनानन्तरं पुन: पञ्च वर्षाण्यतीतान्यभवन्। एतस्मिन् समयान्तराले बहव: कन्यापितर:, आत्मन: कन्यारत्नसम्प्रदानस्य प्रस्तावं चक्रु: पितुरग्रे, मित्राणां द्वारेण मामप्यस्मिन् विषये नितरामबाधयन्। परं नाहमात्मन: सत्यमत्यजम्। किमिति विवाहं न करिष्यामि, पितुरग्रे तदेतदप्रकाशितमासीत्। जलप्रवाह इव दिनप्रवाहो यातुमारभत। सर्वदिनान्येकवारमेव चदयास्यन्, प्रसन्नस्तह्र्यभविष्यम्। v
पूर्वमिव मध्ये मध्ये परेशगृहं मे गमनमुपक्रान्तमिति। सरला पूर्वमिव सहास्यमालपति, इतिहासान् कथयति, किन्तु न कदाचिदपि भावान्तरं दृष्टं मया। पत्रेण ममापि शिक्षा जातासीत्- अहमपि कस्मिञ्श्चिद्दिने न काञ्चिदन्यां चिन्तां मनस्यकरवम्। प्रेम्ण आकर्षणं मां सरलाया निकट समाचकर्ष, किन्तु एतस्या देव्या: सम्मुखे मोह: न मां विह्वलं कर्तुमपारयत्। सरला यदा हि मम सम्मुखे आगत्यातिष्ठत्, तदा तामात्मनशछायां मनस्यभावयम्, किन्तु बिन्दुमात्रमपि पार्थिवकामना न मे मनस्युदियाय। सरलाया दृष्टान्तेनात्मनो मनसि संयम: स्थापितोऽभून्मया। v
प्राय: षण्मासानन्तरमेतस्य, संसारकार्याणि परिसमाप्य पिता मे स्वर्गमयासीत्। माता तु बहुकालपूर्वमेव स्वर्गवासिनीजाताऽभूत्। गृहमध्ये परिवारगणनायामतिष्ठाव, अहं, रामचरणश्च। v
पितुर्लोकान्तरगमनानन्तरं रामचरण: पुनरेकवारं मां विवाहार्थपीडयत्, परं मम तदेव एकमुत्तरम्-नीरवं हास्यं नाम। वराको वृद्ध: कथं वा मम कथां बुध्येत्? v
परेशचन्द्र एव एकप्रकारेण ममाभिभावक: समभवत्। एतत्पूर्वमेवाहं एम.ए. परीक्षोत्तीर्ण: समभवम्। परेशचन्द्रस्येच्छासीत्, यदहं वाक्कीलो भवामि, अथवा न्यायाधिकरणेऽधिकारप्राप्त्यर्थं परीक्षां ददामि। गार्हस्थ्यावलम्बनार्थं परेशचन्द्रो बहुतरं मामबाधत। स्नेहमयी भगिनी मोहिनी मां लोकचर्यायामुदासीनमभिवीक्ष्य चक्षुषोर्जलमपि नि:शब्दममुचत्। अहं कदाचिद् देशदेशान्तरेषु परिभ्रमामि, कदाचिच्च निर्जने पुस्तकपाठावहित: सन् काञ्श्चिन्मासान् यापयामि। जीवनं यदा सुतरां वैचित्र्यहीनं प्रतीयते, तदा परेशचन्द्रस्य गृहे गत्वा वत्सरद्वयात्मकं मोहिन्या: शिशुमङ्के कृत्वा विनोदयामि विषण्णं चेत:। v
एकदा अपराöसमये गृहावस्थित: पुस्तकपाठनिविष्टमना आसम्, एतस्मिन् समये परेशचन्द्रस्य पत्रमेकमवाप्रवम्-दिनत्रयात् सरला ज्वराक्रान्ता, विकारस्य लक्षणानि क्रमक्रमेण प्रकाशन्ते।’ नाहं स्थिरतामवलम्बितुमपारयम्। तस्मिन्नेव दिने सरलामवलोकितुं परेशगृहे यात्रामकरवम्। v
द्वितीयादिने सन्ध्यात: प्राक् परेशचन्द्रस्य गृहे उपस्थितोऽभूवम्। सरलाया: शयनकक्षे गत्वा विलोकितं मया- परेशचन्द्र: मोहिनी च सरलाया: शय्याप्रान्ते विमर्शभावेनावस्थितौ। चिकित्सक: अद्र्धघटिकात: पूर्वं सरलां विलोक्य गतवानस्ति। जीवनस्याशा अतिस्वल्पा, रात्रिरपि प्रयाति न वा, अस्मिन् विषये सन्देह एवासीद्वैद्यवरस्य। v
सर्वमेतदश्रौषम्। सरलाया: शयनीयसन्निधौ विह्वलभावेनावस्थित: शनै: शनै: सकलामेव कथामवागच्छम्। मम वक्षसि रक्तस्रोत: स्तम्भितमभूत्। व्याकुलदृष्ट्याऽहमेकवारं परलोकयात्रिणोऽस्य मुखमद्राक्षम्। तदा ह्यासीत्सरलाया: संज्ञा विलुप्ता, तस्मिन्दिने अपराöावेव सरला विचेतना। ललाटधृतहस्तोहं तस्मिन्नेकस्मिन्नेव स्थाने एकेनैव भावेनातिष्ठम्। समस्तदिनस्य पथिश्रमेण देह आसीदवसन्न:, परं मानसिकी दुश्चिन्ता देहस्यावसादमाच्छादयामास। v
अद्र्धरात्रादुत्तरमेकघटिका व्यतीता भवेत्, एतस्मिन् समये सरलायाश्चेतनासञ्चारोऽभूत्। प्रतीतमभवन्मे मनसि- यथा चतुर्दिक् नयने प्रक्षिपन्ती सा कञ्चिदन्विष्यतीव।
पाश्र्वं परिवत्र्य सरला विलोकयामास माम्। पर्यपश्यत्सा एकवारं मम मुखम्। तस्याश्चक्षुषोरलौकिकं किञ्चित् तीव्रज्योति: प्रकाशितमासीत्। v