दयनीया
(१)
अवरोध:
'किं बाबुमहाशयो गृहेऽस्ति?’ इति वदन् युवको गृहान्त: प्रवेष्टुमैच्छत्तथैव परिचारिका द्रुतं द्वारोपर्येवावरुध्याऽपृच्छत्- 'भवान् कतरं बाबुमहोदयं पृच्छति, किं गृहस्वामिनम्?
''नहि नहि, अहं व्रजनन्दनसहायं पृच्छामि, किमसौ बहिर्गत:?’’ '' आम् सम्यक् ते गृहान्तरेव तिष्ठन्ति, अहं तेभ्यो भवदागमनं सूचयामि।’’
नवयुवको द्वारनिहिते वेत्रासने तिष्ठन्नचिन्तयत् - 'आ:, अस्याऽवरोधस्याऽप्यस्ति काचित्सीमा? अजस्त्रं ममागमनम्। एका जातिस्तथापि गृहवासिनामनारतं भयं भवति यन्नाहं सहसा गृहं प्रविशेयमिति। अत एव परिचारिका सरभसं द्वारे प्रहितास्ति यन्नाहं स्त्रीणां छायामपि पश्येयमिति’।
युवको मनसि विचारयन्नेवासीदेतस्मिन्नेवान्तरे अन्योऽप्येक: सज्जन: समागत्य युवकसमीपस्थमासनधितिष्ठन्नवोचत्- 'हंहो विन्ध्येश्वरीप्रसाद! किं मनस्यावर्तयसि? मुखमुद्रया प्रतीयते यन्मस्तिष्कप्राङ्गणे विचारघोटका: सरभसं प्रधावन्तीति।’ युवक: शनैरवोचत्- 'कोऽन्यो विचारस्य विषय:? एतद्देशस्य परिणामं भावयामि-यत्रहि एकस्यां जातौ, निकटसम्बन्धेऽपि च परस्परमयं व्यवहारस्तत्र साधारणसमाजेन सह कीदृग्वा व्यवह्रियेत? इत्युक्त्वा अवरोधप्रथाविषये आत्मीयान्विचारान्प्रकटयामास।
''अये! समग्रं राष्ट्रमेव किमिति लाञ्छयसि? अयं तु बिहारप्रदेशस्यैव बुद्धेरुपर्यत्याचारो नाम। अन्यान्प्रान्तान् पश्य, सर्वत्र किल विवेकपूर्वो व्यवहार:। जातयोऽवरोधप्रथामनुसरन्ति तास्वपि काचित्सीमा निर्धारितास्ति। एतत्प्रदेशवत् अवरोध: कण्ठावरोधको नास्ति।’’
''हन्त सेयमपि काचित्प्रथा नाम? यत्र हि दयायै विचाराय च स्थानं नास्ति सापि किं मर्यादा परिगण्येत? पश्यतु भवान्-एतेषु सप्तखण्डेषु भवनेषु महिलानां का दशास्ति? न सूर्यरश्मयो नापि वा वायु: सञ्चरति। गृहान्तस्तलेषु स्तिमिततया कृतं सुदृढं पदम्। एवं सत्यपि नेमा वराक्यो गृहाद्बहि: पदं प्रभवन्ति निक्षेप्तुम्। व्रजनन्दनसहायस्यैव गृहमालोच्यताम्-प्राय: सर्वा एव स्त्रियो रुग्णा: सन्ति। 'हकीम महोदयस्य प्राय: प्रत्यहमेवोपचारो भवति। परं न तथापि महिलानां भाग्ये उन्मुक्तो वायु:। गृहाद्बहिर्गमनेऽपि-दृढपिहितेऽपि रथे पुनरुपरित: स्थूलं पटपिधानमाच्छाद्यते येन भगवान् वायुरपि विमुख: परावर्तते।
सज्जन: - भूम्यधिकारिणामियमेव मर्यादा। बाबूमहाशयो वाक्कीलोऽस्तथापि भूस्वामिना प्राचीनमानमर्यादा न शिथिलीकर्तुं शक्यते।
विन्ध्येश्व० - बन्धुवर! अहमपि प्राचीनप्रथापक्षपाती। किन्तु एतस्या: प्रथाया: समर्थनं न कथञ्चिदपि कर्तुं पारयामि य स्त्रीषु कण्ठागतप्राणास्वपि न ताभ्य: स्वच्छवायुर्दीयेतेति।
व्रजनन्दनसहायस्ताम्बूलकरङ्किकामादाय बहिरागमत्, सस्मितमकथयच्च- 'अहो अद्य प्राचीनप्रथानां चर्वणा चिरात्प्रचलिताऽवलोक्यते! अधुना ताम्बूलमादाय तु तत्प्राणान् परित्यज।’
विन्ध्ये० - महोदय! प्राचीनप्रथास्तावत्किमिति कलङ्कयसि। दया च धर्मरक्षापि सर्वत्रानुवर्तनीयावेव। तयोरपि कण्ठावमर्दनं तु न केनचिदाज्ञप्तम्। न भवान् स्तनन्धय:, ईश्वरानुग्रहेण भवतोऽपि द्वित्रा: शिशव: सन्ति। एवमवस्थायामपि स्त्रीष्वननुकम्पनं तावद् दैवेच्छैव।
व्रजनन्दन: - प्रियवर! सत्यं त्विदमस्ति यत् श्रीमती जननी न तावदिच्छति परम्परागतासु प्रथासु स्वल्पमपि परिवर्तनम्। पितृचरणास्त्वेवंविधेषु व्यतिकरेषु न मनोयोगं कुर्वन्ति। अस्तु गच्छत्वियं दन्तकथा। समय: स्वयमेव कञ्चन पन्थानं दर्शयेदग्रे।
सज्जन: - 'सस्मितम्’ प्राङ्गणस्य पन्थानं त्वहंदर्शयामि यत्र हि वायुसेवनार्थं गम्यतेऽस्माभि। स्मेराननास्त्रयोऽपि वायुसेवनार्थं द्रुतमगच्छन्।
(२)
अवरोधवासिन्या: आत्मकथा
तामेव पञ्चदशतारिकाया: (१५ जनवरी) प्रणयकथां सूचयामि। दशवादनोत्तरं कृतभोजनास्ते वाक्कीलताकृतये न्यायालयमगच्छन्।अहमपि गृहजान् सर्वान् भोजयित्वा, बालकांश्च यथावदुपचर्य कृतभोजना अहमपि नित्यवत् सूचीकार्ये मनोयोगमकार्षम्। मध्याह्नोत्तरमेका घटिका व्यतीता भवेदेतस्मिन्नेव समये अस्मत्प्रतिवेशस्था सुशीला (नववर्षवयस्का बालिका)आगत्य 'ताश’ क्रीडार्थमाग्रहमकरोत्। तन्मनोविनोदार्थम् अनिच्छन्त्यप्यहमेतस्यां क्रीडायां प्रावर्तिषि। मन्ये कियन्त एवक्षणा व्यतीता भवेयुरेतस्मिन्नेवान्तराले प्रलयोपस्थापकोऽसौ भयङ्कर: काल: समुपस्थितोऽभवत्। मम पर्यङ्को मन्दमन्दमकम्पत। आश्चर्यचकिताहं भवनभित्तौ समन्ततोवलम्बितेषु वस्तुषु भयवित्रस्ते लोचने अपातयम्। सहसैव नभस्युड्डीयमानस्य वायुयानस्येव घोरतरं घर्घरारवमशृणवम्। तत्क्षणाह्यह्यह्यह्यदेव च पर्यन्तत: कोलाहल: समभवत्। 'बहिर्धावत बहिर्धावत, भूकम्प: समायात:!’ इति गगनभेदी हाहाकार: समन्ताद्व्याप्तोऽभवत्। बालिका सुशीला भयव्याकुला सती निजगृहं प्रति पलायिता! परं हन्त! मत्सदृश्यो दीना: शुद्धान्तवासिन्य: प्राणान्तभयेऽपि कुत्र वा पलायन्ताम्? उन्मुक्ते स्थाने गमनं किं तासां भाग्ये लिखितम्?
एतस्मिन्समये समीपे सरभसं धावमानस्येव कस्यचित् पदशब्दोऽश्रूयत। भीतया मया गृहान्नि:सृत्य दृष्टं यत् वृद्धा श्वश्रूर्बालकान्निर्दयमाकर्षन्ती अन्त: पुराद्बहिर्गच्छति। तादृशभयङ्करं गगनभेदिनं चीत्कारम्, दुग्धपोष्याणां बालकानामेवं निर्दयतयाऽऽकर्षणस्य तथाविधं भीषणकाण्डं च दृष्ट्वा मम हृदयमतितमामेकम्पत। असहमानानीव मे रोमाण्युदतिष्ठन्। भयव्याकुलाया मे यद्यपि हस्तपादमवशमासीत्परं प्राणानां ममताविमोको न सुकुरो नाम। अहं हि न किञ्चिद्विचार्य तस्मात्स्थानात्पलायनार्थं सन्नद्धाऽभवम्। श्वश्रू: पृष्ठतो मामागच्छन्तीं विलोक्य नेत्राभ्यां दहन्तीवाऽवदत्- 'इत: पलाय्य क्व गमिष्यसि? किं न पश्यसि, इतस्तत: सर्वत्र बहि: पुरुषा एव सन्ति? किञ्चिल्लज्जापि पालनीया नाम।’
ममं हृदयरक्तं तस्मिन्नैव स्थाने जडीभूतमभवत्। प्राणानामाणां परित्यज्य, नरघातिनीमिमामवरोधकुप्रथां करुणापूर्णेन हृदयेनाक्रोशन्ती भयवित्रस्ता तत्रैवातिष्ठम्। तावत्काले श्वश्रूस्तु बालकान् भुविकर्षन्ती शुद्धान्ताद्बहिरदृश्याऽभवत्। विशालोऽसौ जनशून्य: शुद्धान्तप्राङ्गण: साम्प्रतमत्यन्तं भयानकतामधारयत्। पूर्वोक्ता घटना: केषुचित्पलेष्वेवाघटन्त। स्मरणे लेखने च मम कामं विलमे भवेत़् परं भयङ्करं तद् दृश्यं प्रतिपलमेवाधिकाधिकं भयानकतरमभवत्।
नाहमधुना तत्र स्थातुमपारयम्। कम्पमानाभ्यां चरणाभ्यां सोपानमुल्लङ्घयन्ती कतिभिश्चित् क्षणैरेव नीचै: प्राङ्गणमवातरम्। प्राङ्गणे मया सम्प्रति पादोऽपि न स्थापितो भवेत्तावदेव अस्मत्सम्मुखस्यं विशालतमं भवनं भयङ्करशब्दं कुर्वदपतत्। विशालेऽस्मिन्महाभवने साहमेकाकिन्यासम्। अतएव भयपरवशाया मे सर्वगात्रमकम्पत। सर्वमपि गृहमस्मिन्समये तरङ्गपतिता नौरिव कम्पमानमासीत्। भीताहं पश्चिमां प्रति मुखं कृत्वा मृत्युकालं प्रतीक्षमाणां सम्मुखस्थां गगनचुम्बिनीमट्टालिकां भयातुरनयनाभ्यां पश्यन्ती क्षणमतिष्ठम्। पतितानां गृहाणामुड्डीयमानयाधूल्या गगनमण्डलं धूलिधूसरमवलोक्यते स्म। समन्तात्पततां भवनानां भयङ्करतमं शब्दमाकण्र्याकण्र्य मम प्राणा एकैकक्रमेण नि:सरन्त इवासन्।
अस्मिन्नेव समये सम्मुखस्थाया अट्टालिकाया अग्रभागोऽस्मद्भवनस्य बहिरञ्चलोपरि अनमत्, तं च चूर्णविचूर्णं कुर्वन् पश्यन्त्या एव मे केवलं हस्तत्रयसन्निहितमेवागत्य धराशाय्यभवत्। तत उच्छलद्भिश्चपूर्ण-पाषाणैर्मत्पदयोरुपस्थाय प्राणान्तभयस्य सूचना मह्यमदीयतेव। ममहृदयं नीरक्तमिवाभवत्। अहं मृत्योर्निश्चयमकरवम्। जीवनसमाप्तेस्तदेतस्मिन्प्रथमक्षणे जीवनस्यातीतघटना मम हृदयेऽजागरु:। प्राणप्रियाणां शिशूनां स्मृति: सहसा समभवत्। अङ्कलालितं यं किल शिशुं रात्रावपि जाग्रती नितान्तं कठिनतयाऽपोषयं तन्निमितं मम हृदयमक्रन्दत्। किन्तु सहसैव मे मोहनिद्रा भग्राऽभवत्। मम पाश्र्वस्थो गृहभागो भयङ्करशब्दं कुर्वन् मत्समीप एव भूमिसादभवत्। भूमौ पतित्वा प्रसरतो भित्तिभागस्याघातेनाहमपि दूरमपतम्।
हन्त हन्त दुस्त्यज: प्राणानां मोह:। अहं सरभसमुदतिष्ठम्। दवपतिता हरिणीव निजप्राणरक्षार्थमितस्तत: शून्ये नयने प्राहिणवम्। कियत्कालार्थं निजप्राणरक्षाया एकमात्रमुपायमहमलक्षयम्। य: किल भवनभाग: पूर्णतया पतितोऽभूत्तस्यैव भग्रावशिष्टाया एकतमभित्तेरुपाश्रयेणाहमतिष्ठम्, यतो हि तस्मिन्भागे कस्या अपि भित्ते: पतनस्यसम्प्रति भयं नासीत्। एतस्मिन्समये कृतान्तभयविस्फारिते मे नयने पश्चिमदिक्स्थितस्य द्विखण्डशिखरस्योपर्यास्ताम्। न मया पूर्णतया दृष्टमपि भवेदेतस्मिन्नेव समये युगपद्धावतां बहूनां 'मोटर’ यानानामिव घोर: शब्द समभवत्, सहैव च प्रबलतम एक आघातोऽप्यभवत्। एतस्मिन्नेव समये द्विखण्डभवनस्य सोऽयं शिखरभागो मन्मस्तकोपरि निपतन्नवालोक्यत। अस्मिन्वारे निजजीवनस्याशां त्यक्त्वा, यस्या भित्तेराश्रयेणाहमतिष्ठं तस्यामेव भित्तौ निजपृष्ठं सम्यगवमद्र्य मृत्यो: कण्ठाश£ेषार्थं सन्नद्धाहमभवम्। एक: पलोऽपि न व्यतीतो भवेदतस्मिन्नेव काले उत्तरदिशाया दक्षिणदिशायाश्चापि भित्तिभागौ समकालमेव मदुपरि निपतन्तौ मयाऽदृश्येताम्। अन्तकालेऽहमीश्वरस्य स्मरणमपि कर्तुं नापारयं तावतैव पतन्तीनां भित्तीनामाघातेन गतचेतनाऽभवम्।
(३)
नाहं वेद्मि, यत्कियत्कालमहं मूच्र्छापन्नाऽभवम् परं यस्मिन्समये मे चेतनाऽभवत्तस्मिन् समये त्रिभुजाकारे एकस्मिन् सावकाशे स्थाने आत्मानं सुरक्षिततया पतितामपश्यम्। अध उपरि सर्वतो मे इष्टका-पाषाणादीनां राशिरावृतोऽभूत्। मध्योऽहं महतीनां काष्ठ-पाषाणापट्टिकानामन्तरावकाशे निराघातं भुवि पतिताऽऽसम्। मदुपरि कियान् भारो भवेदेतस्य कल्पनापि मद्बुद्धेरगोचरीभूता।
यथैव मे संज्ञाऽभवत्तथैव नानादु:खैर्दुश्चिन्ताभिश्चाहमाक्रान्ताऽभवम्। सर्वत: पूर्वं शिशुनां स्मृतिर्मे हृदयममथ्नात्। आत्मन: सर्वाण्यपि दु:खानि विस्मृत्याहं प्राणप्रियाणां शिशूनां कृते व्याकुलचित्ताऽभूवम्। हा हन्त मम शिशूनां न जाने का वा दशा भवेत्। अहो दुग्धमुखं तं किल शिशुमनिरीक्षितवत्या मे कियान् कालोऽभवत्। स वराक: स्तनमपि तु न पायित:। दुग्धमपायितवत्या मे स्तनयोर्भरकृता काचित्पीडेवासीत् परं सम्प्रति तत्स्मरणेन स्वत एव पयोधरयोर्दुग्धमस्रवत्। ममान्तरात्मा भृशं विकलोऽभवद् यदहमात्मधनं तत् स्ववक्षसि गोपायमि। किन्तु हन्त सम्प्रति स्वयमेवाहमस्मिन् लोके नाऽस्मि। यस्मिन्स्थाने पतिताऽस्मि ततो हस्तमात्रान्तरेऽपि स्पन्दितुं नावकाश:। हे भगवन् किमित्यहं जीवितास्मि? अये कोऽयं कण्ठरव:?
न जाने, अहं कियत्पर्यन्तमेवंविधेषु विचारेषु लीनाऽस्यास्यं परं सहसैव मे कर्णयो: कण्ठरवोऽपतत् यथा समीप एव कश्चिद्ब्रवीति- 'अहं जीवामि। उद्धर माम्’ स्पष्टं प्रतीयते स्म यत्स्त्रिया अयं कण्ठरव:। नाहं सम्यग्विचारयितुमप्यपारयं तावतैव पृष्ठभागादपि ध्वनिरश्रूयत- 'अहमत्रैव निखातास्मि, हन्त उद्धरत माम्।’ इदानीं मम निश्चेयनाभूत्सन्देहो यन् ममेवाऽवरोधरुद्धानामबलानामेव सोऽयं करुणरव:। यथा यथाहमवधानमदां तथा तथैव मे प्रतीतमभूद् यन्मत्समीपवत्र्तिभ्यो बहुभ्य एव स्थानेभ्य: 'अहं जीवामि, उद्धरत माम्’ इत्याकारको हृदयविदारक: करुणरव: समायातीति।
हे भगवन्! अहमिव किमन्या अपि वराक्यो दग्धाया अस्या अवरोधप्रथाया: कारणेन भवनतले प्राणान् पहारिदवत्य:! मम हि नयनयोस्तद्दृश्यमनृत्यद् यस्मिन् समये सर्वेऽपि पुरुषा गृहान् परित्यज्य अनावृत-प्राङ्गणाभिमुखमधावन्। हन्त किं तस्मिन् स्त्रीणां प्राणा नासन्? किं कस्यापि पुरुषस्य नाऽभवत्तदा विचारो यत् प्राणरक्षार्थ वराक्य: स्त्रियोऽपि कातरा भवितुं शक्रुवन्ति। परं किं कश्चिद् दृशमपि तदभिमुखमपातयत्? स्वीकरोमि यत्सङ्कटसमये सर्वेऽप्यात्मरक्षार्थमेव व्यग्रा भवन्ति, किन्तु प्राणरक्षां कुर्वत: कस्यचिद्दीनस्य बलान्निवारणं तु न कश्चित्समर्थयितुं शक्रुयात्। प्राणसङ्कटपतिताहं मृत्युभीषणात्तस्माद्भवनाद्बहिर्भवितुं सज्जाऽभवं तस्मिन्समये वृद्धा श्वश्रू: कया वा निर्दयतया मामतर्जयत्? हन्त गृहाद्बहिर्भूत्वा किमहमपि प्राणरक्षां कर्तुं नाऽपारयिष्यम्?
मम हृदये एवंविधा एव विचारवात्या: सरभसमुदतिष्ठन् परं तस्मात्स्थानाद्बहिर्निर्गन्तुं मे व्याकुलताऽभवत्। अहमपि अन्याबलावत् करुणप्रार्थनामकरवम्- 'नि:सारयत माम्, अहमत्रैव भूमिप्रोथिताऽस्मि।’ मध्ये मध्ये मम श्वासाऽवरोधोऽभवत्परं पाषाणानामन्तराले य: किल वायोरवकाशोऽभवत्तेनैव यथा कथञ्चिदजीवम्।
अहं यत्राऽऽवृत्ताऽभवं तत्र समयपरिज्ञानस्य नासीदुपाय:। नितान्तमन्धकारेण तथास्वल्पप्रकाशेनैव च रात्रेर्दिनस्य वाऽनुमानमासीत्। एतदनुमानाधारेणैवाहं वक्तुं शक्रोमि यन्मूच्र्छापगमनोत्तरं दिनद्वयपर्यन्तमहमात्मन उद्धाराय निरन्तरं शब्दमकरवम्। परं तृतीयाद्दिवसादारभ्य क्षुत्पिपासावसन्नाया मे कण्ठध्वनिर्मन्दोऽभवत्। अतएव कदाचित्तूष्णीमभवं कदाचित्तु प्राणरक्षाव्यग्राहं शब्दमकार्षम्- 'कश्चिन्मामुद्धरतु। अहमिदानीमपि जीवितास्मि।’ एवमेव सप्ताहो व्यतीतोऽभवत्। अहमासं निर्जला निराहारा च।’ अवसन्नशरीराय मे यद्यपि मध्ये मध्ये मूच्र्छाऽभवत् परं यावच्छक्यमहं प्राणरक्षानिमित्तं पूर्वनिर्दिष्टां प्रार्थनामकार्षमेव।
(४)
अष्टमे दिवसे मया ज्ञातं दक्षिणदिक्स्थित: पाषाणादिराशिर्जनैरपसार्यते इति। मम शरीरे नवजीवनस्य सञ्चारोऽभवत्। शनै: शनैरङ्गिन्ती अहं तत् एव गत्वा मम समग्रां शक्तिं विनियुज्य यथाशक्यमुच्चैचीत्कारमकरवम् - 'भ्रातर:! अहमधुनापि जीवितास्मि। उद्धरत माम्। 'राष्ट्रियसभाया: (कांग्रेस) स्वयंसेवकैरहमुद्धृताऽभवम्।
द्वे दिन अहं 'विपन्नसहायकसमिते:’ प्रबन्धे तृणकुटीरेष्ववात्सम्। एतन्मध्ये स्वजनसन्दर्शनार्थमहं रात्रिन्दिवमक्रन्दं परं स्वयंसेवका: मां भोजनाय पानाय च सदयमबोधयन्, असान्त्वयञ्श्च स्वजनसमागमार्थम्। कृतभोजनपानाहं यदा भ्रमणयोग्याऽभवंतदा स्वजनगवेषणायै निरगच्छम्।
स्थानेस्थाने राष्ट्रियसभानिर्मापितेषु तृणकुटीरेषु भूकम्पाभिभूता दीना धनिकाश्चवराका: समानया दुरवस्थया पतिता आसन्। एतेषां दीना दशा पाषाणहृदयमप्यरोदयत्। ये धनकुबेरा: सप्ताहात्पूर्वं गगनचुम्बिषु राजहम्र्येषु मखमल्लनिर्मितचन्द्रातपच्छायाया राजतपर्यङ्केष्वशेरत त एव सम्प्रति भयानकेऽस्मिन् शीते शिर: संरक्षणार्थमपि स्थानं न लभन्ते। अनन्तस्य गगनस्याधस्तादनाया असहायाश्चते मृतकल्पावस्थायां पतिता: सन्ति। दीनसहायकसमिते: सेवका भूमौ लुठतस्तान् द्विहस्तमात्रोच्छायेषु तृणाकुटीरेषु सदयमुत्थाप्य स्थापयन्ति।
बहुकालमन्वेषणानन्तरं हस्तद्वयोन्नते खर्जूरशाखानिर्मिते लघुकुटीरे तृणास्तरणोपरि अवनतमुख:, 'हन्त काहं त्वां गोपयेयम्’ इति सूचनायैव शिरसि हस्तद्वयं निदधान:, चिन्तया निश्चेतन इव शोकेन शीर्ण इव, दैन्यवशाद्भूमिमाविशन्निव, स्वल्पसमयान्तरेऽपि जन्मान्तरमिवोपगामी मे स्वामी, मन्नयनयोर्गोचरमगच्छत्। हा हन्त! तद्दृश्यस्य कल्पनामात्रेणापि हृदयं विदीर्यते। स्वामिनमेकाकिनमालोक्य 'हा प्राणधन! क्व मे कुसुमसुकुमारा: शिशव: सन्ति’ इति करुणं विलपन्ती तच्चरणयोरपतम्।
स हि शोकावेगेन द्विगुणतरमुद्गच्छन्तं नयनजलपूरं नयनयोरेवाऽवरुध्य कथमप्यवादीत्- 'प्रिये मन्दभाग्योऽहं निरचिनवंयन् मात्रा भगिन्या बालकैश्च सह भवादृशं नारीरत्नमपि हारितवानस्मि। परं परमेश्वरानुग्रहेण पुनरपि भवतीमवलोकयामि। भगिन्या: सुशीलाया: पितृचरणानां च दाहक्रिया तु परश्व एव निरवत्र्यत। बालकानां मातुश्चापि न किञ्चिदनुसन्धानमवाप्तम्। ‘
इदमाकण्र्य मम का दशाऽभवदिति तु केवलं कस्याश्चनमातुर्हृदयं मत्सदृशस्य कस्यचन दु:खिजनस्य वान्त:करणमेव बोद्धुमर्हति। मामाश्वासयन्नसौ मद्वृत्तान्तमपृच्छत्। अहं सविनयं न्यवेदयं यन् मन्दभाग्याया मे वृत्तं पश्चाच्छ्रोष्यसि, पूर्वं शिशूनां मातृदेव्याश्चा (श्वश्रू:) नुसन्धानमस्माभि: कर्तव्यम्।
एष सरभसमुदतिष्ठत् वाष्पपूर्णाभ्यां नयनाभ्यां मामवलोकयंश्चावादीत्- 'देवि! त्वं दयाया: स्नेहस्य च मूर्तिरसि। मत्सदृश: स्वार्थी पुरुषो भवत्परिसरमपि समुपगन्तुं नार्हति। या पुरुषजाति: स्त्रीजनमवरोधशृङ्खलया निगडयन्त्यपि तेन सह स्वार्थिताया व्यवहारं करोति, ईश्वरदृष्टौ अस्या अपराधोऽवश्यमक्षम्य:। हा हन्त! सोऽहमपराधी केन वा दण्डेन दमनीयो भवेयम्? ‘
प्रोक्तं मया- 'इदं किल स्त्रीजातेरेव दुर्भाग्यमहमवैमि यद्दीनानामबलानां प्राणबलौ दीयमानायामपि कुप्रथानां पूर्णाहुतिर्न भवति।
तद्दिनादारभ्य प्रतिदिनमावां बालकानामन्वेषणार्थं समितेर्नानास्थानेष्वगच्छाव परं सन्ध्यासमये अत्यहमेव निराशौ परावर्तिष्टाताम्। एकदा एकेनस्वयंसेवकेन सूचितं यदस्मत्स्थानात्समीप एवैकस्मिन् ग्रामे एकावृद्धा स्त्री त्रयो बालकाश्चापि स्वयंसेवकै: प्रापिता: सन्ति। मम हर्षस्य नासीत्परिसीमा। समभून्मम सुदृढा आशा यदहमद्यावश्यमेव प्राणप्रियान् शिशून् विलोकयिष्यामि। स्वामिना सह तत्कालमेवाहं तत्रागच्छम्, परं तत्र गत्वा विदितमभूद् यदिमे बालका मम न सन्ति। भग्रहृदयावावां पुन: पर्णकुट्यामाप्तौ। द्वितीयदिवसे भग्रस्थानानां शोधने कृते स्वयंसेवकैस्त्रयाणां शिशूनां मातुश्चापिमृतशरीराणि प्राप्तानि। तानि दृष्टैव मे हृदय विशीर्णमभवत्। स्वामिनश्चरणाववधृत्याहं न्यवेदयम्- 'प्रभो! ममापि जीवनं सम्प्रति समाप्तप्रायम्। नाहं साम्प्रतं धैर्यमवलम्बितुं शक्रुयाम’। v
तस्य नयनयोर्नासीद्वाष्पलेशोऽपि। कण्ठे नाभवद्गद्गद्भाव:। प्रत्युत तन्मुखमण्डले एकमस्वाभाविकं ज्योतिर्न वेद्मि कुतस्तरामुद्भूत्। भग्रहस्तूपोपरि आरुह्य तेनौच्चैरुक्तम्- 'नहि नहि देवि! सम्प्रत्यपि कार्यं न समाप्तम्। यस्या: कुप्रथाया: कृते निजहस्तेनैव अनेकेषां प्राणानां बलिं समर्पितवत्यसि तस्या: परिणाम: सम्प्रत्यपि जनसमाजाय बोधनीयोऽवशिष्यते। आगच्छ, इत: प्रभृति एतद्व्रतस्य दीक्षां गृöीव:’।
अनादृता
रामबाबुमहाशय: प्रावारकं परिधृत्य छिन्नस्यूतयोरुपानहोरभ्यन्तरे चरणं प्रवेशयन्नेव घटिकां व्यलोकयत् यत्-साद्र्धनववादनं जातम्!! ऊध्र्वश्वासं धावनं विना नास्ति दशवादने कार्यालयप्राप्ते: सम्भावना। सरभसमुपानहौ परिधृत्य, छत्रं कक्षे धृत्वा धावमानो यथैव गृहाद्बहिरभवत्तथैव गृहिणी विकटचीत्कारं कृत्वाऽब्रवीत्- ''अये गच्छसि कुत्र? यावत्यो गृहयन्त्रणास्ता: किमहमेकाकिन्येव भोक्ष्ये? न किं भवत: किञ्चिदपि चैतन्यम्? मानुष: किमेवं यातना: सोढुं पारयेत्? गृहकार्यैरेवमेव मे नास्ति श्वासावरसरस्तदुपरि नित्यनवीनैरेवंविधैरुत्पातै: कियत्कालमहं जीवितुं शक्रुयाम्?’’
बाबुकुलचूडामणे रामकृष्णमहोदयस्य साम्प्रतं कण्ठे श्वास: समायात इति कथने नातिशयोक्ति:। यतो हि पञ्चदशवर्षव्यापिना सुदीर्घेणानुभवेन सम्यक्परिज्ञातं तेन यद् घटनापरिज्ञानस्य चेष्टायामद्य कार्यालये गमनमसम्भवमेव भवेत्। अत एव वक्ष: सुदृढीकृत्य छत्रं दोलयन् निरुत्तरमेव बहिर्गन्तुं गृहद्वारमपावृणोत्। द्वारस्य सम्मुखे रथ्यायामेकादशवार्षिकी बालिका स्थिताऽऽसीत्। छिन्नात्तस्या ललाटाद्रक्तं प्रस्रवति स्म। बालिका हस्तस्थितेन वस्त्रेण प्रस्रवद्रक्तं प्रोञ्छन्ती नि:सहं क्रन्दन्त्यासीत्। बालिका रामबाबुमहोदयस्य मृतभ्रातुर्दुहिता।
रामकृष्णेन सविषादमुक्तम- ''अहो लतिके! एतत्किम्? ललाटमिदं कथं विदीर्णम्? एहि, पश्यामि। अरे! इयदाघात: कथं सञ्जात:? चल, चल, गृहान्त:। पटबन्धं बध्नामि। अहो रक्तेन सम्पूर्णमपि परिधानीयमाक्विन्नम्। अरे इदं शिर: कथं विदीर्णम्, कथय?’’
लतिका केवलमक्रन्दत्। उच्चलच्छ्वासताया न किमपि वक्तुं प्राभवत्। रामबाबुमहोदयस्तामालम्ब्य सरभसं गृहे आनयत्। अङ्गप्रोच्छकमेकमाद्र्रीकृत्य शिरसि पटबन्धमबध्रात्। 'किमभवत्’ इति वारं वारं जिज्ञासितेलतिका रुदत्यवदत्- 'ज्येष्ठा माता अताडयत्’।
लतिका इममभियोगमद्य कथमुपाऽस्थापयदिति न विद्म:। इत: पूर्वं ज्येष्ठपितु: सम्मुखे ज्येष्ठमातु: प्रातिपक्ष्ये अभियोगमुपस्थापयन्त्या न कदापि किञ्चित्फलमुपलब्धं तया। यस्मिन्दिने ज्येष्ठमातुरसावधानतया मार्जारो दुग्धमपिबत्, ततस्यस्या ज्येष्ठमाता सलिले किञ्चिद्दुग्धं सम्मिश्रय महानसद्वारे प्रवाहयन्ती रामबाबुमश्रयावयत्- ''एवंविधा प्रमत्तबालिका तु नास्मिन् जन्मनि मया दृष्टा। यावत्य: प्रमत्तक्रीडा भविष्यन्ति ता: सर्वा महानसे एव। हन्त यत्किञ्चिद्दुग्धमासीत्सर्वं तत्प्रवाहितम्। दीना: शिशव: किं पिबेयु:?’’ लतिका ज्येष्ठपितु: सम्मुखे सत्यव्यापारसूचनाय बहुतर चेष्टामकरोत्। ज्येष्ठातातमहोदयस्य प्रबोधोऽभून्न वा, इति तु न जानीम:, किन्तु लतिकाया दीनाभियोगस्योत्तरे ''तूष्णीं तिष्ठ, तूष्णीं तिष्ठ’’ इत्येव सोऽवादीत्।
यस्मिन्दिने तस्या ज्येष्ठा माता पाषाणकुण्डिकामुपरित उद्धरन्ती अनवधानेन तां प्रक्षिप्य अभनक् तदा रामबाबुसविधे साऽभियोगमकार्षीत्- ''बालिकाया इयत्प्रवृद्धं वय:, किन्तु न किञ्चिदपि शासनं मनुते। नेदानीं मे सोढुं शक्ति:। प्रातरारभ्यैव हठमकरोत् यत् पाषाणकुण्डिकया क्रीडिष्यामीति। बहुवारमहं न्यवारयमिमाम्- 'वत्से! सा भग्रा भवेत्। चिरन्तनी च सेयं पाषाणपात्री’। किन्तु को मे वच: शृणोति? अत्याग्रहे कृते विवशा समार्पयमहम्। परिणामे च तामेतां स्वल्प एव काले खण्डखण्डमकरोत्। एवं सति गृहे लक्ष्मी: किं स्थिरा भवेत्?’’ तस्मिन् दिनेऽपि निर्भरं रुदती लतिका निजनिर्दोषितां ज्येष्ठं पितरं सूचयितुं बहुतरमचेष्टत् किन्तु ज्येष्ठपिता न किञ्चिदवदत्। केवलं ज्येष्ठा माता घोरं गर्जन्ती अवदत्- ''पुनर्मिथ्या कथा? एवावन्मात्रायां बालिकायामेतावती धूर्तता?’’
एवं किल बहुवारमभूत्। किन्त्वद्य कया प्रत्याशया लतिका अभियोगमिम-मुपास्थापयदिति नाभवद्विदितम्। मन्ये, विचारितं स्यात्तया- इन्धनकाष्ठस्य घोरप्रहारेण यो मे महान् रक्तप्रवाहोऽभवत्तमालोक्य मे ज्येष्ठ: पिता जन्मत: क्लिष्टायां मयि अवश्यं दयेत। अन्यन्मास्तु नाम, किन्तु मम विदीर्णं ललाटमालोक्य मे निर्दोषिता त्ववश्यं प्रमाणिता स्यादिति। अस्तु, किं विचार्य बालिकया ज्येष्ठपितुग्रेऽभियोग: कृत इति तु नाभवद्विदितं किन्तु यथैव सा कथामेतामकथयत्तथैव प्रबला झञ्झेव तस्या ज्येष्ठमाता सरभसमागत्याऽवादीत्।
''अरे अहमताडयम्?अहो बालिकायाश्चरित्रं पश्यत। एहि, चक्षुभ्र्यां पश्य भवतो घटिकाया: का दशा जातेति।’’
'अरे मम घटिकाया: किं कृतम्’ इति वदन् रामबाबुमहोदय: सरभसं प्रधाव्य निजशयनकक्षे प्राविशत्। दृष्टं यत्तस्य एकमात्रा भित्तिघटिका (क्लॉक) भूमौ प्रपत्य चूर्णविचूर्णिता जातेति। भित्ते: समीपे एका उच्चतमा आसन्दी स्थापितास्ति। तामेवारुह्यकेनचित्सा घटिका हस्ताभ्यां पातितेति।
रामकृष्ण: क्रोधे प्रदीप्तवह्निरिवाऽभवत्। स हि बालिकाया आघातकथामेकवारमेव व्यस्मार्षीत। ''दुष्ट बालिके! तिष्ठ, अद्य त्वां गृहाद्बहिर्नि:सार्य ततोऽन्यत्किञ्चित्कार्यं कुर्याम्’’ इति सोच्चकण्ठमुक्त्वा दु्रतपदं गृहाद्बहिरभूत्।
एतदुत्तरपि ज्येष्ठमातुर्घोरगर्जनं गगनमकम्पयत्। प्राय एकघण्टां यावन्निर्भरमाक्रुश्य ज्येष्ठा माता आहारादिकमकरोत्। किन्तु लतिकां न कोऽप्याहारायाऽऽह्वयत्। शिरोवेदनया क्षुधोज्वालया च भूमौ निपत्य सा वराकी केवलमक्रन्दत्। निर्भरं व्यथितानां दीनानां रोदनादृतेकोऽन्य आश्वास:? एतस्मिन्नेव समये ज्येष्ठमातुरुच्चतरं कण्ठस्वरमशृणोत्सा- ''अये शयनेन किं गृहकार्याणि परिचलेयु:? याहि, दु्रतमेव गत्वा आपणात्पणद्वयस्य हरिद्रामानय। शिशुश्चासौ क्रन्दतीति तं क्रोडे कृत्वा आपणं गच्छ।’’
भत्र्सनाया भयेन नितरामशक्तापि लतिका पणौ नीत्वा क्रोडे बालकमवहत्। बालकोऽसौ ज्येष्ठमातु: साक्षात्तनय:। अतएव शरीरेण भृशं हृष्टपुष्ट:। हस्तयोश्चास्य सुवर्णवलयावशोभेताम्। वपुषि च मखमल्लनिर्मितं सुदृश्यं परिधानीयमासीत्।
बालकं क्रोडे वहन्ती लतिका गृहाद्बहिरवश्यमभवत्, किन्तु लाञ्छनादु:खं स्मरन्त्यास्तस्या निर्भररोदनेन मध्ये मध्ये सर्वाङ्गमकम्पत। सा किञ्चिदेव दूरं गताऽऽसीत्। एतस्मिन्नेव समये मार्गगामी कश्चिज्जनस्तामवदत्- 'बालिके! किं तेऽभवत्? कथं रोदिषि?’
मुखमुत्थाप्य लतिकया दृष्टं यत् सुदृश्यपरिधानीयो द्विधा विभक्तं सुमसृणकेशपाशं वहन्नेको युवक: सम्मुखेऽस्ति। पादयोस्तस्य चाकचक्योज्जवले आङ्गलोपानहौ स्त:। कुञ्चितमुज्ज्वलं धौतं चायं धारयति। लतिका न किञ्चिदवदत्।
आगन्तुकोऽवादीत्- 'किमिति क्रन्दसि? किं त्वां क्षुद् बोधते? चल, आपणात्तुभ्यं मिष्टभोज्यं क्रीणामि?’
प्रातरारभ्य एतावत्पर्यन्तं लतिका तस्मिन्दिने न किञ्चिद्भुक्तवती। क्षुधया तस्या मस्तकं घूर्णते स्म। सा नि:शब्दमागन्तुकमनुससार।
द्वित्रारथ्या: समतिक्रम्य एकस्या लघुप्रतोल्या: सम्मुखे आगन्तुको लतिकामवोचत्- 'अस्मादापणात् आणकद्वयस्य भोज्यं क्रीत्वा आगच्छ। तावद्बालं मे क्रोडे देहि। भोज्यमानीयास्मिन् शून्यापणे स्थित्वा भुङ्क्ष्व। ततो बालकं गृहीत्वा यास्यसि।’
लतिका बालकमागन्तुकस्य क्रोडे दत्त्वा प्रतोल्यां प्राविशत्। आसीत्स्वल्पदूर एव एको मिष्टान्नापण:। भोज्यं क्रीत्वा प्रतोल्या आमुखभागे परावृत्त्य सा व्यलोकयत्-शून्यापणे स्थित एकाकी बालको रोदिति, आगन्तुकश्च नासीत्तत्र। हन्त हन्त! सर्वनाश:। बालकस्य हस्तयो: स्वर्णवलयौ? लतिकाया रक्तं जडीभूतमभूत्। बालकस्य स्वर्णवलयौ क्व गतौ?
लतिकाया मस्तकमघूर्णत। न सा वराकी स्थातुमपारयत्। शून्यापणे नि:सहमपतत्। आपणस्थितायास्तस्या मनसि नानाविधा दुश्चिन्ता यातायातमकुर्वन्। मिष्टान्नपूरितो द्रोण:समीप एव पतितोऽतिष्ठत्। नासीत्तस्योपरि तस्या भू्रक्षेपोऽपि। बालको द्रोणादेकां शष्कुलीम् (जलेबी) आकृष्य मुखे अदात्, स्रवन्त्या लालया मिष्टरसेन च परिधानीयमाद्र्रमकरोत्।
अवशेषे बालकोऽरोदीत्। लतिका तमुत्पसङ्गेसमारोप्य सान्त्वनस्य बहुतरचेष्टामकरोत्। परं शिशुर्न कथञ्चिदपि तूष्णीमभूत्, क्रमशश्च तस्य रोदनं तारतारतरमभवत्। परिशेषे लतिका शिशुं क्रोडे कृत्वा हस्ते मिष्टान्नद्रोणं वहन्ती गृहमचलत्।
ज्येष्ठमातुर्भीषणमूर्तिं भावयन्त्या लतिकाया गृहप्रवेशार्थं न प्राचलतां पादौ। शेषे किञ्चिन्मनसिकृत्य अतिनिभृतं सा गृहं प्राविशत्। कतिपयक्षणैरेव लतिका प्राणपणेन धावन्ती गृहाद्बहिरभूत्। द्वारपर्यन्तं घोरगर्जनां कुर्वन् कश्चित्तामनुदधाव। तदन्तरं तु सशब्दं द्वारकापाटौ रुद्धावभूताम्। शृङ्खलाचाऽयोज्यत। ऊध्र्वश्वासं धावन्त्या लतिकाया नैवत्सर्वमज्ञायत। तस्या ज्येष्ठमातुर्बालकबालिका उल्लासध्वनिं कुर्वन्त: सानन्दं भोजनमकुर्वन्।
सन्ध्याकाले ताजमहलस्य सम्मुखे महान् जनसमागम:। चतस्रोऽपि दिशो विद्युदालोकैरुद्भासिता अभवन्। कति वा मरुत्तरशकट्य:, कति वा सुदृश्यतमानि नानाविधयानानि तत्सम्मुखे समागमन्निति न संख्यातुं सुकरम्। गौराङ्गमहोदयास्तत्पत्न्यश्च यानेभ्योऽवतीर्य गणश: पान्थावासमिमं प्राविशन्। राजपथस्य दिशि काचाच्छादितेभ्य: प्रकाण्डद्वारेभ्य: पान्थावासस्य नानाविधानि सुदृश्यवस्तूनि दृश्यन्ते स्म। अभ्यन्तरे हि भोजनस्य सुमहदायोजनम्। शतशतपरिचारका: सुदृश्येषु काचपात्रेषु उष्णां भोज्यसामग्रीं वहन्तो यथाक्रमं पर्यवेषयन्। अहो कियन्मद्यम्, कियन्ति भोज्यानि, कियांश्च भोजनस्य समारोह:।
बहि: शीतलपवनेन वेपमाना मलिने एकमात्रे सूक्ष्मे परिधानीये अङ्गान्याकुञ्चन्ती क्लायान्तरचरणा लतिका जन्मावधि अदृष्टचरमेतद्दृश्यं निर्निमेषं पश्यन्त्यासीत्। सा समस्तमपि दिनं मार्गे मार्गे अधावत्। साम्प्रतमवसादेन तस्याश्चरणौ पीडितावास्ताम्, मस्तकं च घूर्णते स्म। किन्तु सर्वमिदं विस्मृत्य नूतनमिदं दृश्यं सा सविस्मयमीक्षते स्म। तस्या: परिधानीयं तदेव रक्तसिक्तमासीत्। दूरे स्थिता सा पान्थावासस्य मोहकमिदं दृश्यं विलोकयन्ती मनस्यचिन्तयत्- 'मन्ये अयमेव स्वर्ग:। इह गतान् मन्ये क्षुत्तृषो: क्लेशो न बाधते।
'अरे अपसर, इतो दूरमपसर!’ इति द्वाररक्षकोऽभत्र्सयत्। अवसन्नचरणा लतिका लोलुपदृष्ट्या पान्थावासस्य सुसज्जितकक्षान्यवलोकयन्ती ततो दूरमपासरत्।
परदिेने प्रातरेव रामकृष्णबाबुमहोदयं रथ्यायां दु्रतपदं प्रयान्तं दृष्ट्वा तत्प्रतिवेशी पुण्डरीक: प्रोवाच- 'कथं भो रामबाबुमहाशय एतावत्त्वरितं क्व प्रयासि- 'अये! रक्षाविभागगुल्मे (थाना )यामि। मम भ्रातु: कन्या ह्य:प्रभृति अन्विष्यमाणापि न दृश्यते।’
'अये, किं कथयसि? हन्त हन्त सर्वनाश:। संवादपत्रे यदहमपाठिषम् अपि तदेव?’
'किम् किम्?’
पुण्डरीक: संवादपत्रस्य एकतमं भागमभिमुखमदर्शयत्-
'सन्देहजनको मृत्यु:’
(रक्षाविभागीयानां गवेषणा)
''गतरात्रौ द्वादशवादनसमये एको गौराङ्गो दुर्गसम्मुखस्थे प्राङ्गणे (मैदान) गच्छन् शाद्वलस्य प्रान्तभागे वृक्षस्यैकस्याधस्तात् एकस्या बालिकाया मृतदेहमपश्यत्। बालिकाया वय:क्रमो दशैकादशवर्षाऽऽसन्न:। परिधानवस्त्रं रक्ताक्तम्। आकारप्रकाराभ्यामुच्चकुलसम्भूता प्रतीयते स्म। मोहमय्या रक्षाविभागीया एतस्यान्वेषणे संलग्रा: सन्ति। अनुमानमस्ति, अलङ्काराणां लोभात् केनचिद्दुरात्मना सेयं निहतेति। हन्त! भारतीयबालानामलङ्कारजनित: सोऽयमकालमृत्यु: कदा विरमेत्।’’
प्रत्युत्पन्नमतिर्हालिक:
नगरोपकण्ठगतायां प्रपायामेक: कृषीवलो मुखाग्रनिहितपल्लवितकर: पानीयं पिबन्नासीत् । भूकर्षणजलोद्धरणादिकृ षिकार्यैर्भुग्रीकृतकठिनाङ्गुलेरस्य करत: प्रवहदासीत्पानीयपानसमये सलिलम्। इतश्च पश्चादागता जलपानार्थिन: केचिन्नागरिकास्तदेतत् सकुतुकमवैक्ष्यन्त। तेषु नागरिकम्मन्य:कश्चिदात्मनो धर्मविज्ञानाऽभिज्ञतां प्रकाशयन् सगौरवं प्रोचे- 'एैेश्वरमियज्जलं मुधैव प्रवाहयत्, किमस्योत्तरं दास्यसि’।
जलमपिबत्कृषको, नैतस्योत्तरमपारयद्दातुमिति निभृतमश्रौषीत् सर्वम्। जलपानान्निवृत्ते त्वैतस्मिन् स हि नागरिकमानी प्रववृते जलं पातुम्। किन्तु तत: पूर्वं निजनागरिकतामुत्स्फु टयन्नेष प्रभूतेन पानीयेन सुनिपुणमक्षालयत् करयुग्मम्, अनिच्छत्यपि प्रपायके प्राकरोत् कतिचिद् गण्डूषान्। निपीतसलिल: कार्षिक: साम्प्रतं सविनयाकूतमभाषत- 'श्रीमन्! ममाङ्गुलिभ्यो यज्जलं प्रावहत् तदर्थमेवोत्तरमाकांक्षितं मन्ये भवता। किन्तु प्रातरारभ्य सायं पर्यन्तं, कदाचित् कदाचित्तु निशीथपर्यन्तं प्रत्यहं नैतावन्मात्रमेव, अपितु प्रवाहरूपेणैव प्रवाहयाम्येवमेव सलिलमविश्रान्तं भूमौ। हन्त मे मन्दस्य जन्मैवाऽखिलमतीतमेतेन। अत एवैतस्योत्तरं युगपदेव मे देयं स्यात्। स्वच्छताप्रियेण भवता तु मन्ये सज्जितमेव स्यादेतस्योत्तरं सम्यक्।
किमासीदेतस्योत्तरं पौरमानिन: समीपे? अत एव अद्र्धप्रबुद्ध एव निरुत्तरमसौ गन्तुमियेष। मर्मवेदी गुणग्राहक: कश्चिदुत्तरेणाऽनेन परमचमत्कृत: सुगूढमस्य तात्पर्यं तमपि नागरिकमानिनं बोधयितुमिच्छन्नूचे-'ग्रामवासिनापि हालिकेनाऽनेन किमुत्तरितम्, अपि परिग्रहीतं तद्भवता? मम पानीयपानसमये यत्किञ्चज्जलं विवशतया व्यगलत्, तस्य परिवर्ते ऐश्वरेण जलप्रवाहेणाऽनेन भुव एवोपकार: साधित: स्वजीवनेऽद्यावधि मया। सोऽपि न केवलमात्मन:, अपि तु परेषामेवाऽधिकम्। किन्तु केवलं स्वच्छतामिषेण प्रचुरं जलप्रवाहं व्यर्थमेवापगमयन्तो नागरिकाभासा:किमस्य प्रतिशोधं दातुं प्रतिदानं शक्रुयु:?
क्षत्रियशोणितम्
(१)
निरन्तरं शारीरिकपरिश्रमेण निजगार्हस्थ्यजीवनं यथाकथञ्चिन्निर्वाहयद्भि: पितृचरणैर्भूयसी चेष्टाकृता किन्तु नाहं सरस्वत्या: कृपापात्रतामासादयम्। मद्द्वारा कृतैर्नित्यनवीनैरुपद्रवाणामाविष्कारैग्र्राम्यविद्यालयस्य मास्टरमहोदयश्चकितोऽभवत्। पितरं सम्प्राथ्र्य स हि ग्रामविद्यालयान्मम मुक्तिमकारयत्। एवमहं शिक्षितवायुमण्डलाद्दूरगामी समभवम्। मम प्रतिवेशे न्यवसत: कतिचिद्विद्यार्थिन:। ते हि मम शारीरिकबलं दृष्ट्वा प्रासीदन् समये समये। देशसेवां कर्तुमुपादिशंस्ते नानाप्रकारै:। ममापि समभूदुत्साहो यत् स्वयंसेवको भूत्वा शरीरेण समाचरेयं मातृभूमे: सेवाम्, किन्तु विधाता सर्वं दृश्यमेवाऽदृश्यं चक्रे।
रात्रिन्दिवा परिश्रमेण जर्जरशरीरस्तात: समभून्मद्विषये नितरां निराश:। अत्यावश्यकतां विना संलापमपि नाकार्षीत्स:। किन्तु हार्दिकमसन्तोषं तेषां जानन्नपि न प्राभवमहं तान्प्रसादयितुम्। परं विधाता दारिद्र्यपूर्णगार्हस्थ्यदु:खं नाधिकमन्वभावयद् तदेतेन। अनशनजर्जरां जननीं रोगपीडितां भगिनीं च रुदतीं परित्यज्य पितृचरणा समभूवन् सहसा स्वर्गवासिन:। आसमहं तदा पञ्चदशवर्षवयस्क:। एतां नि:सहायावस्थामनुभूय ममापि प्रादुरभूत्प्रबोध:। निरन्तरेण शासनेन प्रबलतमेनोद्योगेनापि च यज्ज्ञानं नाभवत्तत्स्वत एव सम्प्रति मे हृदये जजागार। देशसेवात: प्रबला मातृसेवा मे प्रतीताऽभूत्। तद्दिनं मे जीवने चिरस्मरणीयं भविष्यति यस्मिन्हि वाष्पं वर्षन्तीं जननीं, रोगपीडितां भगिनीं चैकाकिनीं विसृज्य द्रव्योपार्जनाय गृहाद्बहिरभवम्। आश्रयहीनस्य निरूपायस्य युवकस्य दृष्टौ निरन्तरशोभामयी सा राजस्थानवसुन्धरा विकरालवेषेव साम्प्रतं प्रतीयते स्म। दृश्यमिदं संस्मृत्य साम्प्रतमपि वेपते हृदयम्।
शिरसि जाज्वल्यमानज्येष्ठस्य प्रचण्डश्चण्डरश्मिर्वर्षति स्म वह्निं किन्तु हतभागिनीं जननीं रोगशीर्णां भगिनीमसह्यानि तत्कष्टानि च सञ्चिन्त्य वाष्प: प्रास्रवत्। ममन्थ च घोरा वेदना मे हृदयम्। सम्पूर्णं दिनं मार्गमुल्लङ्घ्य नितान्तं श्रान्तशरीर: सायं समासदं धर्मशालामेकाम्। आसीन्मे सविधे चव्र्ये (चणकादि) किञ्चित्, घोरपरिश्रान्तोऽपि तदेव भुक्त्वा पानीयमपिबम्। अखण्डदिनपरिश्रमेण शरीरं मे क्लान्तमसीन्नितान्तम्, निद्रादेव्या: सुखमये क्रोडे व्यसमार्षमहं दु:खमखिलम्।
प्रकारेणानेन बहुतरान्दिवसान्मार्गमलङ्घयमहम्। एकदा महति प्रत्यूषे दैहिककृत्यतो निवृत्तोऽहं रात्रिनिवासस्थानान्निरगमं बहि:। प्रचलन्नासं निर्जने पथि। प्रभातवायो: कोमलस्पर्शेन व्यस्माहर्षमहं कियन्तं कालं यावद्दु:खमखिलम्। प्रात:कालस्य प्राकृतसौन्दर्येण मनसि मे मद इव समुदियाय। शनै: शनै: पूर्वानुभूतानि बाल्यसुखानि हृदये एकैकशो यावज्जाग्रति तावदेव तुरगौ द्वौ नक्षत्रवेगेन मदभिमुखमेव धावन्तावदृश्येताम् निमेषेणैव तौ मत्सम्मुखमुपागमताम्। द्वयोराश्वारोहयोरेकाऽऽसीद्बालिका, द्वितीयश्चैको बालक:। नेदं मार्मिकेभ्यो वक्तव्यं स्याद् यद् द्वावप्यमू गौराङ्ग (अंगरेज) सन्तानौ। बालकस्य हस्ताद्वाजिनो वल्गा विस्खलिताऽऽसीत्। नासौ केनचिदपि यत्नेन निरोद्धुमपारयत्तुरगम्। केवलं घोटकस्य सौशील्यं दयां वा विश्वस्य निराशभावेन स हि तत्पृष्ठमध्यतिष्ठत्। भयाकुलयोस्तन्नेत्रयो: प्रतिक्षणं प्रतीक्ष्यमाणेवाऽसीद्विपत्ति:।
बालिका बालकस्य साहाय्यमाचरितुं निजमपि तुरगं प्राणपणेनाऽद्रावयत्, किन्तु पृष्ठस्तुरगखुरखडात्कारेण द्विगुणं सम्भ्रान्तस्तुरङ्गस्ततोऽपि तीव्रवेगेनाऽद्रवत्। बालिकाया हितावहापि चेष्टा विपरीता पर्यणमद्बालकस्य पक्षे। मामवलोक्य बालिका दूरादेवाऽक्रन्दत्- 'अहो! भवत एवेदानीमवलम्ब:। रक्ष मे भ्रातरम्। यत्त्वं याचिष्यसे दास्यामि।’
क्षत्रियस्योत्तप्तं शोणितं प्रावहन्मे धमनीषु। भयं किं भवतीति नासीन्मे तदवधि परिचितम्।
अत एव नेतोऽधिका प्रार्थना कर्तव्याऽभून्मम। एकेनैवोत्फ ालेनोत्प्लुत्य वाजिनो वल्गामहमधारयम्। आजानेयस्तुरङ्गमो वल्गे गृहीतायामुत्प्लुत्य तत्रैवातिष्ठत्। भयाकुलो बालकस्तुरगस्य सहसैव निरोधेन प्रत्याघातमवाप्य घोटकपृष्ठात्पतन्नासीत्। वामहस्ताऽऽलम्बेन तमहं सम्प्रधार्य भूमावस्थापयम्।
बालिकाऽप्यनुपदमवाप तत्स्थाने। भवेत्तस्या: चतुर्दश पञ्चदशवर्षात्मकं वय:। परिश्रान्ते कान्तेऽस्या मुखे समशोभन्त विकीर्णा: स्वेदबिन्दव:। किञ्चिन्नीला: स्वर्णकान्तय: केशा: पवनेनासन्नितस्ततो विलुलन्त:। पाटलप्रभं सुन्दरमिदं वदनं प्रभातसूर्यस्य रश्मिभि: शैवल-नीहारसम्पृक्तं कमलमिव निर्भरं विरेजे। बालकस्य तुरगं वृक्षशायाखायामासज्ज्य, निजकराऽवलम्बेन बालिकामपि घोटकादवातारयम्।
अत्यन्तं भीतयोर्घोरतरं श्रान्तयोश्च बालकबालिकयो: समपद्यत कियताऽपि कालेन स्वस्थता। तावदहं प्रतिष्ठं तत्रैव नि:शब्दम्। व्यतिगते किञ्चित्समये कृतज्ञतामपि प्रकाशयन्ती बालिका जिज्ञासते स्म मे परिचयम्। संक्षिप्य समसूचयं मे वृत्तान्तम्। आसीद्बालिका बालकतो वयसि ज्येष्ठा। सा मां जीविकाऽर्जनाय समुपगतं ज्ञात्वा प्रासीदत्। अविलम्बितमेव सा प्रत्युपकर्तुं पारयिष्यतीत्याशया स्फु टं प्रस्फु रन्ती प्रसन्नता समलक्ष्यत तस्या मुखे।
परमसभ्यम्मन्या आङ्गलजातिर्भारतीयान्प्रति कृतज्ञताप्रकाशनं स्वल्पमेव जानाति। मामप्राक्षीद्बालिका 'किं न निवसितुं शक्रुयाद्भवानस्मद्गृहे?’ प्रत्युक्तं मया- 'नैतदवधि मया किञ्चित्स्थिरीकृतम्, किन्तु वर्तमानपरिस्थितौ यत्रापि मे कार्योपलब्धि: स्यात्तत्रैवाहं तिष्ठेयम्।’
किञ्चित्स्मयमाना प्रोवाच बालिका - 'तर्हि चलतु भवानावाभ्यां सह’।
द्वावपि गौराङ्गबालकौ पुनरारोहतां तुरगम्। प्राचलं चाहं ताभ्यां साद्र्धम्। बालिकाया: पिता प्रान्तीयकृषिविभागस्यासीत्सुप्रतिष्ठितोऽधिकारी। नाम 'रेमण्ड’ इति। अर्बुदनगरे (आबू) सुरम्यमेकं प्रासादमध्यवात्सीदसौ। बालिकाया नाम 'एदिथा’। नाभवद्भृतिकार्यलाभे मम विलम्ब:। बालकयोर्निरीक्षणे समभूवं नियत: समुचितवेतनेन। दु:खिनीं जननीं भगिनीं च संस्मृत्य भगवतो दयाभावस्य प्रादामनेकान्धन्यवादान्।
(२)
व्यत्यगुस्त्रीणि वर्षाणि कर्मकुर्वाणस्य मे। चतुर्दशवार्षिकी सा बालिका 'एदिथा रेमण्ड’ साम्प्रतं मधुमयी षोडशीरूपे परिणता। सा चपलता, तदितस्तत: पलायनम्, मया सह तौ क्रीडापरिहासौ, सर्वमिदमिदानीं विलुप्तम्। साम्प्रतमेदिथा सुरम्यसरोवराणां तटे निषीदत्येकाकिनी। उपवनानामेकान्तकुञ्जेषु सा सायं परिभ्रमति। तुङ्गमेतस्या वक्षो दीर्घनि:श्वासै: कदाचित्कम्पते तर्हि कदाचित्प्रतीयते मधुरम्। कान्तयो: कपोलयो: सा लज्जहास्यस्यारुणिमा संविकसत्यतर्कितमेव। वक्षस: समुन्नत्या मनस्येव क्षीणा कटि: प्रकटीकरोत्यनुदिनं दौर्बल्यम्। लज्जामिश्रिता चक्षुषोश्चञ्चलता चक्षुभ्यामेव विलोकनीया नूनं न तत्र चारो वाचाम्।
ममापि पदोन्नतिर्यथेष्टमभूत्। नेदानीमहं 'बॉय्’ बालक:, साम्प्रतमहमङ्गरक्षक (एडी०सी०) वेषं परिधाय एदिथाया रथस्य पश्चादवस्थितो दूरदूरतरं करोमि वायुसेवनम्। यावन्मात्रभृत्यानामहं करोम्यनुशासनम्। किन्तु वत्सरेष्वेतेषु मम हृदयस्य याभूत्समुन्नतिस्तस्या: संमुखे सेयं पदोन्नतिरतिसामान्या। एदिथाया: पदशब्दमेवाकण्र्य भवति मे हृदयं वेपथु:। तस्या सा मधुमयी धीरवाणी प्रस्रवति मे कर्णयोरमृतम्, न मे साहसं भवति तस्या मुखमवलोकयितुम्। तस्या: करस्पर्शेनैव भवति मे रोमाञ्च: सर्वाङ्गे। ज्योत्स्नामय्यां मधुरनिशीथिन्यामेदिथाया: पश्चादवस्थितस्तत्तनुलताया मनोरमं गन्धमाघ्राय विस्मराम्यहमात्मानमपि।
कार्यस्वीकारादुत्तरं नाहं गतो गेहम्। प्रतिमासं प्रेषयामि रूप्यकाणि, पत्राण्यपि गच्छन्ति यथासमयम्। तत्रत्येन संवादेन न मे काचिच्चिन्ता। जननी भगिनी च यापयत: सुखेन दिवसान्। ममाह्वानाय व्यलिखतां ते पत्रं कतिधा, किन्तु न मे मनो भवत्येदिथां विहाय गन्तुम्। माता प्राकरोदनुनयविनयौ मे बहुधा, इदमपि सानुरोधं सा पर्यलेखीद्यत् त्वामदृष्ट्वा नाहं शक्रुयां जीवितुम्। किन्तु नाशकं गन्तुं तथापि।
आत्मन: कल्मषं निवेदयिष्यामि सत्यं सत्यम्। एदिथाया: प्रणय: समाकर्षन्मां शनै: शनैरात्मनोऽभिमुखम्। इयं प्रीतिरेकनिष्ठैवासीदुत मह्यमस्निह्यदिति नाहं शक्रोमि स्पष्टं वक्तुम्। किन्तु प्रत्येककर्मणि सा मां सहचरं व्यधात्। अहोरात्रे सर्वाधिक: समयो ममैव च सविधे व्यत्यगात्तस्या:। एतावदहमवश्यं जाने। किन्तु महाकवि: कालिदासोऽत्र वक्ष्यति - 'कामी स्वतां पश्यति।’
आत्मनश्चरित्रं यदा प्रकटीकरोमि तदा नाहं पाठकेभ्य: किञ्चिदपलपिष्यामि। आसीन्मम विचारो यन्मातु: स्वसुश्च कृते किञ्चिद् भोजनं संस्थानं विधाय समर्पयिष्याम्यात्मानं मातृभूमे: सेवायाम्। किन्तु अत्रत्यैस्त्रिभिर्वर्षैर्मे सर्वेऽपि विचारा: समूलमुन्मृष्टा:। अहमत्रत्यायां परिस्थितौ तथा विलिप्तोऽभूवं यत्स्थानान्तरे गन्तुं न प्रासरतां मे पादौ। अहं बहुवारानकार्षमात्मनस्तिरस्कारमात्मनैव, अध:पातस्यास्य कृते व्यधामनुशोचनं बहुधा, किन्तु सर्वमिदमेदिथाया विलोकनात्प्रागेव। तत्समक्षमुपगतो व्यस्मार्षं सर्वमिदमेकान्तत:। न्यायदृष्टय: पाठका: शक्रुयुरेतस्य कृते निर्भरं तिरस्कर्तुमेनं माम्। अद्य प्रातरारभ्यैव विलोकयाम्यहमेदिथामत्यर्थं विषण्णाम्। पृच्छाम्यहमेतस्य कारणमेतामिति व्यचारयं कति वारान्, किन्तु नाहमपारयं प्रष्टुम्। यतोहि न साम्प्रतमेदिथा मया सह क्रीडाशीला, साम्प्रतं सा सभ्यपत्नी (मैंम साहब)। विनाऽऽह्वानं मुहुस्तत्समीपे गमनमास्खलेदत्रत्यानामपि दृष्टौ। 'चाय’ समर्पणार्थमाह्वानस्यावसरमहं प्रत्यैक्षिषि किन्तु न तां व्यलोकयताऽभितस्ततोन्विष्यापि। यथैवाहं परावर्तेयं तथैव तडिद्वृत्तपत्रं मे हस्ते प्रादीयत तत्कर्मचारिणा। रेमण्डमहोदयस्य भवने कार्यस्वीकारानन्तरमाङ्ग्लभाषाया लेखनपठनं किञ्चिदासीदभ्यस्तं मया। यस्या: सरस्वत्या: पुरा विसर्जनमक्रियत साम्प्रतमावाहनं तस्या: कर्तव्यमभूत्। आङ्गलसंलापमहं सम्यग्बोधिषि परं न प्राभवं यथेष्टं वक्तुम्। तडित्पत्रमुद्घाट्य व्यलोकयं यन्माता मरणासन्ना रुग्णा। व्यघूर्णत मे मस्तकं, व्यलोक्यत परितोऽप्यन्धकार इव। हा हन्त एतावत्कालं रुग्णां मातरमेकदाप्यनवलोकयता मया किमिदमनुष्ठितमकृत्यम्।
स्वामिनमदर्शयं तत्तडिद्वृत्तपत्रम्। दयालुस्वाभावोऽसौ पञ्चादशदिनानामवकाशं स्वीकृत्य मासस्य वेतनमग्रिमं मे समार्पिपत्। तस्मिन्नेव क्षणे प्रस्थातुमकार्षमहं सन्नाहम्। आवश्यकवस्तूनि सम्बध्य यथैवाहं द्वारोपरि समागमं तथैव सम्मुखत: समागच्छन्तीमेदिथामपश्यम्। ललाटे स्वेदबिन्दवो हस्ते पाटलगुच्छको मुखे वेदनायाश्छायाऽस्या: समलक्ष्यत। एदिथामालोक्य प्राद्रवन्मे हृदयम्। प्रोक्तं मया- 'श्रीमति! जननी मेऽत्यन्तं रुग्णा, गृहमहं गच्छामि। किन्तु भवतीमेतावद्विषण्णां किमित्यवलोकयामि?’
न प्रायच्छत्सा मे प्रश्रस्योत्तरम्। अवाङ्मुखी भूत्वा हस्तपरिगृहीतस्य पुष्पस्तबकस्यैकैकं पत्रमचूर्णयत्सा करेण। छिन्नस्य पाटलपुष्पस्य प्रभा प्रभासते स्म तत्कपोलयो:। किन्तु लज्जारुणं तद्वदनं नाधिककालमहमालोकयितुमपारयम्। 'महाभागे! गच्छाम्यहम्’ इत्याभाषमाण इव तत: प्रास्थिषि किन्तु मार्गमुल्लङ्घयतो मे हृदि मातु: शोकशीर्णमूत्र्या सह रक्तकपोलायास्तस्या मधुमयमूर्तेर्दारुणो विवादो वारं वारमावर्तते स्म।
(३)
जनन्या रोगवृत्तान्तो नासीत्सत्य:। कम्पमानेन हृदयेन यथैवाहं गृहद्वारे प्राविशं तथैव माता प्राहसत्सहसा, प्रावोचच्च- 'किं भो:! आङ्ग्लानां गृहे भृतिकार्यं करोषि तत एव मन्ये श्यामवर्णा भारतीया न तेऽभिरोचन्ते!’
हर्षोच्छ्वासेनाहमप्यहसम्, प्रावदं च- 'तडित्संवादं सम्प्रेष्य कियति सङ्कटेऽहं निपातित इति न वो विदितम्। अत्यावश्यकं कार्यं विहाय समादाय च घोरां व्याकुलतामुद्विग्र: सोऽहं समागतोऽस्मि।’
एषु दिनेषु किं ममासीदत्यावश्यकं कार्यं तद्विजानाति मे हृदयमेव। परं प्रतारणाया अमुष्या: कृतेऽन्तरात्मा मे कशाघातमिवानुभवति स्म। प्रावदज्जननी- 'एतस्मिन्वारे तादृशं दृढप्रबन्धं कर्तास्मि येन तडिद्वृत्तपे्रषणस्याऽऽवश्यकतैव पुनर्न भवेत्।’
समभूद्धृदये मे सन्देह:। भोजनादेरनन्तरं प्राचालयज्जननी विवाहस्य मे प्रसङ्गम्, परं प्रादर्शयं विमुखभावं प्रारम्भ एव। किन्तु जनन्या: नयनजलप्रवाहे मे धीरत्वमिदं न स्थातुमशकद्बहुकालम्। अभून्मे पराजय:। अपूर्यत सर्वमिदमभिलषितं जनन्या:, परं विवाहोऽयं नासीन्मे सुखविवाह:। एदिथाया लज्जाकणेन तेन वदनेन विकलीकृतोऽहमेकवारमेव। वाष्पपूर्णाभ्यां दृग्भ्यां दु:खपूर्णेन च हृदयेन यथाकथञ्चिन्निरवर्तयं विवाहविधिमेनम्। सर्र्वेऽपि जना: प्रशशंसु: प्रसन्ना:- 'वधूरत्यन्तं सुन्दरी’ति। किन्तु ततो दृष्टिं निपातयितुमपि नासीन्मे मन:। अत्यावश्यकं कार्यं मे समुपस्थितमिति कृत्वा द्वितीयस्मिन्नेव दिने गृहात्प्रस्थानमकरवम्।
'बहुकालानन्तरमेदिथां विलोकयिष्यामीति विचिन्तयतो ममासीच्चेतसि प्रकम्प इव सम्मुखमेव तु महाहम्र्यस्य द्वारमिदम्। अये! इयमेदिथैव तु सम्मुखे समुपस्थिता! परमेतस्या: सहचर: कोऽयम्?’ विचारयन्नेवेदं कम्पमानहृदयोऽहमुपागां द्वारसीमनि। दृष्टं यदेकोऽपरिचितो गौराङ्ग: एदिथाया: श्रोणिदेशे करबन्धमासज्याऽवस्थितोऽस्ति।
तां दृष्टैव मे हृदयं न जाने किमिति विदग्धमभूत्। यदि कश्चिदवधानेन दृष्टिमपातयिष्यत्तर्हि तस्मिन् समये मम मुखे घृणाया: क्रोधस्य निष्ठुरतायाश्च प्रतिच्छविं स्वच्छमलक्षयिष्यत्। एदिथा मां दृष्टैव गौराङ्गात्तस्माद्दूरमपासरत्, व्यनमयच्च लज्जया वदनम्। तस्यै अभिवादनं कृत्वा प्रावादिषमहम्- 'जननी मे सर्वथा स्वस्थाऽस्ति।’ एदिथा प्रत्यवदत् -'दिष्ट्या ईश्वरस्य धन्यवाद:। तत्कृते समभूच्चेतसि चिन्ता।’ एतत्सहानुभूतिप्रकटनं केवलमासीन्मौखिकम्, न कथञ्चिदप्यान्तरमिति बोधे नाभवद्विलम्ब:। अहं पुनरिमामभिवाद्य भवनस्यान्त: प्राविशम्। तस्मै गौराङ्गाय शिष्टाचारानुमोदितमप्यभिवादनं कर्तुं नासीन्मे प्रवृत्ति:। पृष्ठं परावर्तयतैव श्रुतं मया यद् गौराङ्गोऽसौ किञ्चिदालपति किन्तु किमेतस्योत्तरं दत्तमेदिथयेति न किञ्चिदप्यश्रूयत। शनै: शनैरहं निजनिवासप्रकोष्ठकं प्राविक्षम्।
(४)
तेन गौराङ्गेण सह निश्चितोऽभूदेदिथाया विवाह:। आसीदसौ चायोपवनस्य कस्यचित्प्रबन्धकर्ता। नामासीद् 'बैण्डाल’ इति। अयमासीदत्रत्यस्य रक्षाप्रबन्धकर्तु: सहोदरो भ्राता। अद्यतस्त्रयाणां मासानामनन्तरं सम्भवेद्विवाह:। विवाहनिर्धारणस्य महोत्सवनिमित्तमद्य रात्रौ प्रमोदगोष्ठी। नृत्यगानयो: पानभोजनयोश्च प्रचुरमायोजनं रजन्याम्। एदिथाया: प्रमोदो न माति हृदयेऽद्य। निसर्गादेव मधुरा तदाकृति: प्रमोदप्रभया नितान्तमेव मधुराऽद्य विद्योतते।
'चाय’ पानादनन्तरमेव समागत्य एदिथा मामब्रवीत्- 'शार्दूलसिंह! शीघ्रमेवाश्वयानं सज्जय, अहं 'साहब’श्च वनविहारायाद्य गमिष्याव:।’ एदिथा न ममाभिमुखं सम्यक्प्रकारेण दृष्टिमनयत्। तस्या: कोमलकपोलयोर्मधुरलज्जाया अरुणाऽऽभा प्रभासते स्म मुहुर्महु:। अहं 'सम्यक्’ इत्येव यथाकथञ्चित्प्रत्यवदम्। नासीदधिकं वक्तुं मे शक्ति:। कष्टावरुद्धैरश्रुभिन्र्यरुध्यत मे कण्ठतटम्।
भवेन्नववादनस्य समय:। अश्वरथं सज्जयित्वा एदिथाया गौराङ्गेण तेन साकमहं प्राचलं भवनाद्बहि:। इतोऽद्र्धक्रोश एवासीद् गहनं वनम्। काननस्योपकण्ठ एव शकटिं विसृज्य वनाभिमुखं प्रचलतोरेदिथागौराङ्गयो: पश्चाद्भोजनसज्जामादाय प्राचलमहमपि। अस्थाच्छकटोपरि शकटिचालक:।
वन दूरं गत्वा वटवृक्षस्यैकस्याधस्तादतिष्ठतां तौ दम्पती। अहमपि भोजनसज्जां सम्मुखे निधाय किञ्चिद्दूरे न्यषीदम्। किञ्चित्कालान्तरं मदारुणनयन: स गौराङ्गो मत्समीपं समागत्याब्रवीत्- 'त्वं किमित्यत्र तिष्ठसि? पलायस्व।’ अतिकष्टेन कोपमात्मनोऽहं न्यरुधम्। विंशति-पञ्चविंशतिवृक्षाणामन्यदप्यन्तरमुल्लङ्घ्य न्यसदमेकस्य वृक्षस्याऽधस्तात्।
गौराङ्गदम्पत्योरट्टहासध्वनिव्र्यदारयदिवाऽऽकाशम्। महाकाशं कामं न व्यदारयत्परं मम हृदयाकाशं क्षणे क्षणे विदीर्णमकरोदसौ। अहमात्मनो हृदयं यथाकथञ्चित्पर्यवस्थाप्य न्यषीदमवाङ्मुख: कष्टेन।
मद्यस्याद्र्धकूपिकां नि:शेषीकृत्य बेण्डालस्य वीरतावह्नि: प्राज्वलत्सहसा। व्यकथयत महाशय:- 'अलम्! एदिथे! अहं गच्छामि भल्लूकस्यैकस्य मृगयां चाऽऽचरामि।’ वनेऽस्मिन् नासीद्भल्लूकानां न्यूनता। प्रत्यवादीदेदिथा- 'मा मैवम्। नेदमावश्यकं सम्प्रति। न जाने काचिदापत्ति: समुपतिष्ठेत्!’।
बेण्डाल: प्रत्यवदत्- 'अंग्रेजसन्तानस्य कृते भयम्! न कदाचिदिदम्। शब्दोऽयं कोषाद्बहिर्भूत:।’
एदिथा प्रशंसापूर्णाभ्यां नेत्राभ्यां बेण्डालस्य वीरमूर्तिमवलोकयन्ती निर्निमेषमतिष्ठत् कांश्चित्क्षणान्।
वीरवर 'चा-प्रबन्धक’ महाभागो लगुडमात्रमेकं सहायकमादाय भल्लूकमृगयायै सगर्वं प्रस्थित:।
एदिथाया: सगर्व: स विस्मयभावो नातिष्ठद्बहुकालम्। साहबे दृष्ट्यन्तरिते सत्येव सा समुपगत्य प्रावोचत्- 'शार्दूूलसिंह! गच्छ त्वं साहबेन सार्धम्। कदाचिदुपतिष्ठेत् - काचिदापत्ति:।’
एदिथाया वाक्यमुल्लङ्घयितुं नासीन्मे शक्ति:। आत्मन: सुदीर्घां वंशयष्टिमादाय बेण्डालस्य किञ्चिद्दूरे प्राचलं पृष्ठदेशे मन्दं मन्दमहम्। एदिथाऽपि प्राचलत्पृष्ठदेशे मे। किञ्चिद्दूरमुपगत्यैव दृष्टं साहबमहोदयेन यदेको भल्लूकस्तस्य मार्गमवरुध्य समवस्थितोऽस्ति। साहबमहोदय: पृष्ठं परावत्र्य व्यलोकयदेकवारम्। आसीत्सम्भवो यदि साहबमहाभागो नावां व्यलोकयिष्यत्तर्हि लज्जायै तिलाञ्जलिं दत्त्वा पलायिष्यत नि:शङ्कम्, किन्त्वावां विलोक्य निजवीरताप्रदर्शनस्य घोरा लालसा दुर्दमनीयाऽभवत्साहबकुलचूडामणे:। महाभागो भल्लूकस्य भाले प्रकरोल्लगुडप्रहारमेकम्। किन्तु भल्लूकोऽयं नासीत् 'चायोद्यानस्य’ कुली भृत्य:। स हि लगुडप्रहारस्य प्रत्युत्तरे साहबस्य पदचुम्बनं कृत्वा महता प्रेमभावेन तमालिङ्ग्य बाहुपाशे निर्भरं निष्पीडयामास। साम्प्रतं साहबमहोदयो वीरनादस्य परिवर्ते प्राकरोदार्तनादं सहसा। एदिथा मत्करमवलम्ब्य प्रार्थयत दीनभावेन-शपथस्ते ईश्वरस्य। संरक्ष मे स्वामिनं यथा कथञ्चिदपि।
अहं क्षण एव भल्लूकस्य सम्मुखमुपागाम्। क्षत्रियमुद्राङ्कितमकमुत्तमं वंशप्रहारं चास्थापयमृक्षराजस्य मौलिदेशे। प्रचण्डप्रहारेण भ्रान्तमस्तिष्कोऽभूद्भल्लूकभूषणो नूनम्। किन्तु शीघ्रमेव कोपोत्तेजितो भल्लूक: साहबं विहाय प्रकरोन्मदुपर्याक्रमणम्। एतदन्तरालेऽहं तीक्ष्णकरवालिकां कटितो निस्सार्य करे समधारयम्। क्रुद्धभल्लूकस्य मदुपरि निपतन एव सा करवालिका मुष्टिपर्यन्तं तस्य वक्ष:स्थले प्राविशत्। एदिथा प्रधाव्य मत्पृष्ठे करं विन्यस्य कृतज्ञतया प्रावदत्प्रसादेन- 'धन्योऽसि शार्दूल! यदि त्वं नाभविष्यस्त्तर्हि न जाने मम कीदृश: सर्वनाश: समुपस्थास्यत्।’
प्रणयिन्या: साधुवादमेकस्य कृष्णमनुष्यस्योपरि वर्षन्तमालोक्य साहबमहोदयो भयङ्करभावेन विकृतोऽभूत्। क्रेाधगद्गदकण्ठमजल्पत्- 'कथं रे पामर! मामकं भल्लूकमिमं कथमिव त्वमवधी:? अहमेकाकी दशाधिकानेवंविधभल्लूकान्निहिंसितुं समर्थ:।’
अहं क्षुद्रचित्तमिमं कृतघ्रं समुचितमुत्तरं दातुमग्रत: प्रासरत्, किन्तु एदिथाया: प्रार्थनापूर्णे नतनयने विलोक्य महता कष्टेनाऽऽत्मानमवारुधम्।
(५)
अद्य रेमण्डमहोदयस्य हम्र्ये महामहोत्सव:। सन्ध्यासमयस्यानन्तरादेव नानाविधा वेशभूषा:, नानाविधानि प्रसाधनसाधनानि च वहन्तो गौराङ्गास्तत्पत्न्यश्च संघश: समायान्ति। लताकुसुमैरालोकमालाभिश्च प्रमोदगृहमद्य नाट्यशालारूपे परिणतमालोक्यते। सुन्दरमहिलानां तुषारधवलेषु वक्ष:स्थलेषु, स्फ टिकधवलेषु सुराभाजनेषु, हीरकजटितेष्टाभूषणेषु च नानावर्णानामालोकमालानां किरणा: प्रस्फु रन्ति परित: प्रतिफ लिता:। 'एसेंस’ गन्धमिश्रितेन कुसुमसौरभेण सकलमपि प्रमोदभवनमामोदतो महमहायते नूनम्। सुमधुरवाद्यानां सुरम्यसङ्गीतस्य च स्वरलहरीं संवहन् नैशकालिको विविक्तपवन: सर्वत: संसूचयतीव महोत्सवमिमम्। शनै शनै: समायाद्भोजनसमय:। ततो हृदयङ्गमहासपरिहासै: सह समाप्ते प्रीतिभोजे प्रारब्धो-ऽभून्नृत्यमहोत्सव:।
क: कया सह नर्तिष्यतीति मिथुनविचार एव व्यत्यगाद्भूयान् समय:। अस्मिन् सुयोगे मिथ: 'प्रेमालाप:’ प्रीतिपोषकावनुनयविनयौ च परस्परमलक्षिता: समभवन्। साम्प्रतं प्रारभ्यत नृत्यमहोत्सव:। हृदयस्योत्तेजना यथाक्रममधिकाधिकमुन्मेषं प्राप। मधुमयमदिरात: समुद्दीप्तं प्रणयाऽनलं मानसे सन्धार्य सुतरामुत्तेजिता युवकयुवतिगणा: स्वच्छन्देऽस्मिन्नावेगे निर्मर्यादमनृत्यन्।
भारतीययोर्मम नेत्रयोस्तदिदं दृश्यमतिवीभत्समिवाऽऽभसत। आरामे स्थितोऽहं मन्दप्रभेषु नक्षत्रेषु निक्षिपन् दृष्टिं शनैरत्यजं शीतलनि:श्वासम्। साम्प्रतमतीतजीवनस्य भूयांसि दृश्यानि मे हृदये जागरुकाण्यभूवन्। एदिथाया: सरलसुकुमार: स मनोहरो हास:, स वै प्रेमोच्छ्वास:, उन्मादिनी सा प्रणयदृष्टि: सर्वमिदमद्यारभ्य चिरकालार्थं विलुप्येत। किञ्चित्कालानन्तरं मे स्मृतिमात्रमपि तद्धृदयादपसरेत्। हन्त एतस्यै दुराशायै किमित्याहं निजहृदये स्थानमदाम्। एकेनाऽऽङ्ग्लेन साकं भारतीयस्यैकस्य सद्भावो नूनमाकाशकुसुमायित:।
नासीन्मे स्मृतिर्यत्कियत्कालादारभ्य शून्यहृदयोऽहमेवमस्थाम्। हम्र्यस्य स्वामी रेमण्डमहोदयो मत्समीपमागत्य मामब्रवीत् - 'शार्दूलसिंह! एदिथा न कुत्रापि विलोक्यते। रात्रिरत्यधिकं व्यतीता। त्वं बेण्डालमहोदयं तस्य निवासस्थाने प्रापयिष्यसि।’
बेण्डालस्य नाममात्रतोऽपि मे हृदयमदह्यत। तं निजगृहमेव किम्, यमगृहपर्यन्तमपि प्रापयितुं नासीन्ममापत्ति:। स्वामिनो निदेशानुसारमहमगवेषयमेदिथामितस्तत:। परं नाऽदृश्यत सा कुत्रचित्। अन्ततो लघुप्रकोष्ठकस्यैकस्याभ्यन्तरे सहसाऽश्रूयत एदिथाया: कण्ठस्वर:। अहं नि:शब्दमतिष्ठं तत्रैव। एदिथाया मुखान्मे नामधेयं श्रुत्वा भूयस्तरां प्रावर्धत मे कौतूहलम्।
एदिथा समालपन्त्यासीत्- 'शार्दूलसिंहेनाद्य’ ते या संरक्षा विहिता तस्योपकारममत्वा तत्परिवर्ते दुर्वाच्य सम्प्रदानं न ते समुचितमभूत्। बेण्डाल: प्रावोचत् - 'ऊँ:, त्वमेषां कृष्णचर्ममनुष्याणां स्वभावं न परिचिनोषि। उपानद्भिर्यष्टिभिश्चैषां समादर: कर्तव्यो भवति। कदाचित् 'चायोद्याने’ त्वं चलिष्यसि तर्हि योग्यतामेतेषां दर्शयिष्यामि। कृतज्ञता, अपरस्योपकार:, शूरता एवं विधा गुणा न तेषां चरित्रे कदाचित्संसृज्यन्ते।’
एदिथा- सर्वेषु भारतीयेषु समानरूपेण दुश्चरित्रस्थापनं नूनमन्याय:। आरम्भे, अनेनैवास्माकं कीदृगुपकार: कृतस्तस्य वृत्तमखिलं ते निवेदितवत्यस्मि।
बेण्डाल:- सोऽयमुपकारो नास्ति, केवलमुदरभरणस्य लालसा।
एदिथा- नैतद्भवान् समर्थयितुं शक्रुयात्। अहं शार्दूलाय शतमुद्राणां शुल्कपत्रं समर्पयितुं प्रासरं किन्तु नासौ तत्स्पर्शमपि वाञ्छितवान्।
बेण्डाल:- अहह सम्यक्! कशाया: पावना: प्रहाराश्चेत्पृष्ठेऽपतिष्यन् तर्हि सर्वं समञ्जसमभविष्यत्।
एतदुपरि एदिथा नरपशुश्चासौ द्वावप्यट्टहासमकुरुताम्। घृणाया धिक्कारस्य च घर्षणेन खण्डखण्डमभून्मे हृदयम्। तस्मिन्नेव क्षणे रेमण्डमहोदयस्य भवनाय तिलाञ्जलिम् समार्पिपमहम्।
(६)
गृहमागतस्य मे व्यत्यगुस्त्रयो मासा:। तत्रत्य: पे्रमविकार: साम्प्रतं प्रशान्तप्राय:। प्रणयिन्या: स्निग्धस्य सलज्जस्य च प्रेम्णोऽनुभवं विधाय सम्यक्तया निर्णीतं मया यदस्मिन्देशे आङ्ग्लै: सह निबद्धं प्रणयफलं न तिष्ठेद्बहुकालमविकृतम्। जातु यत्नशतै: स्थापितमपि नास्माकं कृते तद्भवेत्सुपचम्। हन्त सर्वमिदं जानतोऽपि एदिथाया: कृते न जाने मन: कीदृशं मे भवति कदाचित्। चेतसो विस्मारितापि तत्स्मृति: समुदेत्येव बलान्मानसपटले। अद्य तस्या: परिणयदिवस:। परिणयेन सा सुखिनी जाता नवेति परिज्ञातुमुदियाय मे प्रबलतरोत्कण्ठा। बेण्डालं प्रति सुस्थिराऽभून्मे घृणा। ममान्तरात्मा मह्यमसूचयन्निभृतं यद् बेण्डालेन सह परिणयं विधाय न भवेदेदिथा सुखिनी।
सुकठिनमभूदुत्कण्ठाया दमनं मत्कृते। उत्कण्ठापरवशो गृहान्निष्क्रान्त एव। अलक्षितेन सूत्रेण बलादाक़़ृष्टोऽहं यदा प्राप्रुवं रेमण्डभवने तदा समतीताभूत्सन्ध्या। उपातिष्ठत विवाहसमय:। रात्रैर्नववादितान्यभूवन्। किन्त्वाश्चर्यम्, विवाहभवनेऽप्यस्मिन्नासीदायोजनमालोकमालाया:। उदपद्यन्त मे हृदये नानाविधा आशङ्का:। नि:शब्दमहमुपागामेदिथाभवनम्। दृष्टं मया-शून्यभवनेऽस्मिन् शून्यहृदया सा वेत्रासनमेकमधिष्ठिताऽस्ति। अम्लायत्तस्या: सरसं तन्मुखकमलम्। विशालयोस्तन्नयनयोरधस्तादभासन्त कालिम्रो रेखा:। कोमलयो: पाटलकपोलयो: सा वै अरुणाऽऽभा चिराय मन्ये मीलिताभूत्। दृष्ट्वैव मे प्रापतन्नेत्राभ्यामश्रुबिन्दव:। शनै: शनै: संस्थितोऽभूवमहमेदिथाया: सम्मुखे। अवलोक्यैव मामेदिथा निर्भरमरुदत्। प्रोक्तं मया- 'एदिथे! किमिदम्? अद्य तु भवत्या: परिणय:।’
अश्रूणि प्रोञ्छन्ती प्रावददेदिथा - 'विश्वासघाती मे सर्वनाशमकरोत्। अद्य सप्ताहो व्यतीत:, नास्ति तस्यानुसन्धानम्।’ तस्या अङ्गानि दृष्ट्वा पूर्वमेव मे सन्देहोऽभूत्, इदानीमनेनाऽनुतापेन सर्वमेव निश्चितमभूत्। सर्वाङ्ग: मे क्रोधेन प्रादीप्यत। स्वत एव जातं मेऽनुमानं सत्यमभूत्। स्वार्थिनमिमं नराधममालोक्यैव मे समभूदतर्किता घृणा।
अकथयदेदिथा- 'वञ्चकस्य तस्य कृते निजजीवनमपि त्वया सन्देहग्रस्तमक्रियत। क्षमस्व माम्। नाहमस्मिन् जीवने पारयेयं सुखिनी भवितुम्।’ मामित: प्रस्थातुं सा व्यदधादिङ्गितम्। अजल्पहं गद्गदकण्ठम् - 'एदिथे! विश्वस्तसहायकस्य यदि कदाचिदावश्यकता स्यात्तर्हि स्वैरं मां स्मरे:।’ एदिथया विसृष्ट: समायासिषं बहि:।
शनै: शनैर्गृहाभिमुखमागच्छन्नासम्। मार्गे सवेगं धावन्तीमेकामश्वशकटिं विलोक्य सहसा चकितोऽभूवम्। अरे! अयं तु स एव नीचकर्मी बेण्डाल:! भस्मावृतो मे क्रोधानल: प्रोददीप्यत सहसा। आसमहमेषु दिनेषु सर्वदैव शान्ते: पक्षपाती। देशसेवायामपि मे लक्ष्यमासीद्यत् देशस्य यदि कल्याणं तह्र्यहिंसायामेव। मत्प्रतिवेशिन: स्वयंसेवका अपि सदा शान्तेरेव पक्षपोषका आसन्। परं सत्यमहं वक्ष्यामि-तस्मिन् समये न जाने क्वापाऽगमन्मेे सोऽयं भाव:। मम 'राजन्यशोणितम्’ क्षत्रियशोणितम् एकान्तत: समुद्वेलितमभूत्। क्रोधावेगादुत्फुल्लमुर:सम्मुखे कृत्वा सामर्षमतिष्ठं मध्येमार्गम्। बेण्डालोऽपि मामलक्षयदिति जाने। स मयि कियत्प्रसन्न आसीदिति जानन्ति सर्वेऽपि। सम्मुखमुपयात्येव तस्मिन्प्रावदमहम्- 'त्वमेदिथया सह कथमिव पशुवद् व्यवाहर इति ज्ञातुमिच्छामि।’
तस्य मस्तिष्कं पूर्वत एव विकृतमासीत्। दीनेषु 'कुलि’षु निजवीरताया: परिचयं प्रदाय बह्वमन्यत सोऽयं निजमात्मानम्। स हि हस्तगतां कशां मदङ्गे प्राहरत्। किन्तु तस्य विचारो नितान्तमासीद्भ्रमपूर्ण:। 'चायोद्यानस्य’ कुलिनस्तिरस्कृत्य समवद्र्धत तस्य सा इयम्। परं नायं समसृज्यत कदाचित् कू्ररेण राजपुत्रेण। अहं पश्यत्येव तस्मिन्निमेषमात्रेण धावन्तीं शकटिमध्यारोहम्। शकटादाकृष्य तमहं नीचैरपातयम्। ततस्तस्यैव कशया सर्वाङ्गपूजामेतस्य समकल्पयम्। आघातैर्यदा विसंज्ञोऽयं जातस्तदा मार्गसमीपवर्तिनी केदारे विनिक्षिप्य प्राचलं निजभवनाय। किन्तु कियदेव दूरं गत्वा समभून्मे विचार: - 'विसंज्ञस्य मार्गे एवं प्रक्षेपो न कथञ्चिदुचित:’। परावृत्त्य तमहमकरवं ससंज्ञम्। उत्थाय च बलाच्छकटमारोहयम्। गच्छन्तं तमहमिदमप्यवादिषम् - 'यदि भवेदिच्छा तर्हि स्वैरं सञ्चालयेरभियोगं मदुपरि’ किन्तु नासौ तथा चक्रे।
बहो: कालादनन्तरमद्राक्षमेकदा एदिथाम्। सा हि लाहौरनगरस्थे 'मुक्तिसैन्य’ सम्प्रदायं प्राविक्षत्। निसर्गमनोहरा तस्यास्तनुलता संयमतेजसा नितान्तमेवोज्ज्वला समवालोक्यत।