चतुरवञ्चक:
कुण्डलनारायणमिश्र: कुलीनब्राह्मणेषु गणनीय:। कर्णपुरग्रामे कुण्डलनारायणमिश्रस्य कुलञ्च गृहञ्च सर्वजनसम्मान्यम्। प्राय: कुण्डलमिश्रो निजपूर्वजानां कुलीनतां ग्रामजनसमक्षं ससम्भ्रमं स्म सम्मण्डयति ''मम पूर्वजा एतावतो विवाहानकार्षु:’’- ''अमुकश्वशुरादियन्ति रूप्यकाणि एकवारमेवाकर्षितानि’’ ''जातिभोजने पूर्वजैरमुककुलोनकुलमेकवारमेव बाढं कदर्थितम्’’ इत्यादि इत्यादि।
तदनुसारमेव च कुण्डलमिश्रस्यापि बहवो बभूवुर्विवाहा:। ग्रामजना: कथयन्ति- वर्षमेतादृशं कदाचिदेव व्यत्येति यस्मिन्कुण्डलमिश्रो न वैवाहिकमुकुटं शिरसा बध्नाति। मिश्रस्य पञ्चाशद्वर्षाण्यतिक्रान्तं वयस्तथापि प्राय: कन्यापक्षीयजनानां बहुधा दृश्यते मिश्रसदने गमनागमनम्। सत्येवमपि मिश्रगृहमेकतोऽधिकेन स्त्रीजनेन नाधिष्ठितमालोक्यते! श्रूयते पुत्रपुत्र्यादयोऽपि बहुशो मिश्रस्य सन्ति परं ते कीदृशा: सन्तीति न कोऽपि ग्रामजनो वक्तुं पारयते किं बहुना स्वयं मिश्रमहोदयोऽपि विकटस्यास्य प्रश्रस्य कष्टादेवोत्तरं दातुं प्रभवति। अस्तु यत्किमपि भवतु। प्रतिवर्षं प्रतिग्रामं प्रतिश्वशुरसदनं सदनपावनौ चरणौ निक्षिप्त्वतो मिश्रमहाभागस्य साधीयसी भवति द्रविणप्राप्ति:। यदि कश्चन श्वशुरो मिश्रसत्कारेंऽशतोऽपि दर्शयेत् त्रुटिं तदा कुण्डलमिश्राणामुदात्तस्वर: प्रायोऽखिलमपि ग्रामसन्निवेशं मुखरयतीति मूद्र्धन्यो नियम:।
तथा च कुलीनतारूपां जीविकामालम्बमान: कुण्डलमिश्र: सुखमात्मन: कालं क्षिपति। स्वग्रामेऽपि पूर्वतनी ''यजमानयाजनवृत्ति:’’ बहुतरं लाभमुद्भावयति कुण्डलनारायणस्य।
आश्विनमासे समागत एव मिश्रमहोदयस्यापि समागच्छति श्वशुरसदनयात्राकाल:। एकदा नियमानुसारमाश्विनमासारम्भे ससम्भारं वार्षिकजीविकोद्ग्रहणाय कृतयात्र: श्रीमान् कुण्डलमिश्र: श्वशुरसदनेषु ग्रामतो ग्राममाहिण्डमान: प्रतापपुरपत्तनपथे रचयामास शुभां यात्राम्।
प्रतापपुरात्क्रोशदशकान्तराले मिश्रस्यैकतमं श्वशुरसदनम्, मिश्रस्य कियदासीदौदार्यमिति प्रश्रस्योत्तरं तु इयतैव यद्बहुभ्यो ग्रामेभ्य: समधिकं धनमात्मसात्कृतवानप्यस्माकं मिश्रमहाभागो ग्रामपर्यन्तप्रयाणाय यानीयव्ययमपि नाङ्गीचकार, किन्तु बहुतरश्वशुरपूजिताभ्यां पादाभ्यामेव ग्रामयात्रां स्वीकृतवान्।
बलदेवपण्डितो धामपुरग्रामे गण्यमान्यपुरुषेष्वन्यतम:। सम्पत्त्यापि प्राय: पण्डितमहाशयो निकामं सुखित:। अयमपि च कुण्डलमिश्रमहाभागस्यैकतम: श्वशुर:। बलदेवपण्डितगृहे दीपावल्युत्सवो भूयसा सम्भारेण निर्वत्र्यते। व्ययोऽपि भूयान् भवति कुण्डलमिश्रोऽपि तस्मिन्नेव समये दीपाल्युत्सवे प्राय: समवेतो भवति स्म।
कक्षधृतगुरुतरग्रन्थिर्मिश्रमूद्र्धन्य: कियन्तमेव पन्थानमुल्लङ्घितवान्। एतावतैव च मिश्रस्य शरीरं शिथिलं, शिरश्च स्वेदभरसम्मृतमासीत्। कियदग्र एव च नवोज्ज्वलवेष एको बाबुमहाभागो मिलति स्म। एतस्य भारो भारवाहकशिरस्यासीत्। बाबुमहाशयकरे तु चमत्कारसार एक: ''पटसम्पुटक:’’
(१) केवलमासीत्।
मार्गमुल्लङ्घयतोरनयोर्मध्ये कियताऽपि कालेन संलाप: समभूत्। वार्तास्वेव मिश्रमहाभाग: समभाषत- ''धामपुरग्राममहं प्रयामि। तत्रत्यो बलदेवपण्डितमहाशयो मे श्वशुरो भवति।’’
बाबू० - अहह! तदा तु श्रीमन्तो मे मातृष्वसृपतय:। सन्ति! अभिवादये महाभागा:!! न मया श्रीमन्त: प्रत्यभिज्ञाता इति क्षम्यतां श्रीमद्भिर्मेऽपराध:।
मिश्र० - को दोष:! बहूनि दिनानि जातानि सङ्गतस्य मे। विशेषत: कुलीनेष्वस्मादादिषु परिचयविषये प्राय एवमेव भवति। नात्र चित्रम्।
बाबू० - गृहे तु ननु सर्वं कुशलम्? अहह! अद्य महान् मे भाग्योदयो यच्छ्रीमतां संजातं सुदुर्लभं दर्शनम्। अद्य मया सह समागतान् भवतो दृष्ट्वा गृहसदस्या: सर्वेऽपि निकामं मोदिष्यन्ते। प्राय: सर्व एव श्रीमतां दर्शनाय भूयो लालायिता: सन्ति। मातृष्वसुस्तु दिनेष्वेषु व्याधिर्बद्धमूलो जात:। साऽचिरादेव तीर्थेषु पर्यटिष्यति। श्रीमतां प्रतीक्षयैव तु विलम्बो जात:। अद्य भवतो दृष्ट्वा श्रीमती मातृष्वसा कियत्सुखिनी भविष्यतीति न प्रभवामि वाचा प्रकटयितुम्।
एतावदुक्त्वैव च ससमादरं नवीनो बाबुमहाशयो मिश्रसकाशाद् ग्रन्थिभारं गृहीत्वाऽऽत्मनो भारवाहकशिरसि न्यस्तवान्।
पुनश्चाब्रूत- 'इदन्त्वेकं जातम्! परं यदि श्रीमान् पद्भ्यामेव समागत इति श्रोष्यन्ति मातामहास्तदाऽतीव तेषां चित्ते विकारो भविष्यति, मातृष्वसापि निकामं क्रोत्स्यतीति यानमहमन्विष्यामि। क्षणमिह तिष्ठतु श्रीमान्।’’
कुण्डलमिश्रस्तु समादरातिशयमिममालोक्य कुण्डलाकार एव बभूव। उपरितस्तु ''आँ’’ ''न’’ इत्यादि साधुरूपेणाभिनीय समभाषत- ''अहो! तर्हि भवान् शिवठाकुरतनय: सम्यक्! कथं गृहे तु सर्वमनामयम्?
''सर्वं श्रीमदाशीर्भिर्मङ्गलम्’’ इति सङ्क्षेपेणैव समुत्तीर्य बाबुमहोदयो यानानयनोद्योगे निरगात्।
शकटिविश्रमस्थानं समीप एवासीत्। तत्र गत्वा बाबुमहाभागेन यानमेकं भाट्या कृतं स्वायत्तम्। आगत्य च ''श्रीमान् यानमिदं यथासुखमारोहतु ‘‘ इति प्रोक्तं मिश्रमहाशयाय। उपरितस्तु मिश्रेण ''मार्ग: कठिन आसीत्। साधु कृतम्’’ इत्येवोक्तम् । परं मनसि ''न जाने भारमिमं शिरसोद्वहन् दुर्दशामापन्न: कदाऽऽलोकयिष्यं ग्रामम्, सम्प्रति तु सर्वं साधु सम्पन्नम्। यानव्ययोऽपि न जात:। सहचरोऽपि भाग्यान्मिलित:।’’
इतो बाबुमहोदयेनापि एकमुद्रास्थाने मुद्रात्रयं प्रदाय स्यन्दन आत्मसात्कृत:। सभारं मिश्रमहोदयं याने समारोप्य स्वयमपि ससुखं समारुक्षत्। भारवाहस्तु तद्देयं दत्त्वा विसर्जित:।
मार्गे मिश्रेण साकं बाबुमहाशयस्य समधिकं समघटत सङ्गति:। बाबुमहाशयेन नानाविधा देशवृतान्ता: विविधा युद्धसङ्कथा:, विचित्राश्च राजकीयघटना:, तादृशेन प्रवचनमाधुर्येण प्रोक्ता येन कुण्डलमिश्र आद्र्र एवाऽभूत्। केवलम् ''आम्’’ ''अहो?’’ ''हरे हरे!’’ इत्यादिभिरेव मध्ये मध्ये प्रदत्तमुत्तरम्। एवमेव मधुरालपनादिभिर्मिश्रमहोदयो निकाममेव स्निह्यति स्म बाबुमहाशयम्।
इत: सन्ध्यापि सन्निधीयते स्म। अस्तं-जिगमिषोर्भगवतो भास्वतो लोहितायमान: प्रकाश: शनै: शनैर्विलयं यातुमारभत्। अधुनापि मिश्रस्य श्वशुरसदनं क्रोशचतुष्टान्तरितमासीत्।
प्रात: कालमारभ्यैतावत्कालपर्यन्तं कुण्डलमिश्रेण जठरपूजनं न कृतमासीत्। उदरं वारं वारमेव त्वरयति स्म। समयेऽस्मिन् क्षुधा कर्तव्यपाटवं जहार मिश्रस्य। परं बाबुमहोदयस्य तु मार्ग एव विचित्र आसीत्। उदरं परामृशता प्रोक्तं तेन- ''अहो! चित्तमतीव व्याकुलीभवति। न जाने किमिति शिरोघूर्णति। वेदनापि किमपि किमपि भवति।’’
ग्राममभिमुखमालोक्य शकटचालकाय प्रोक्तवान् बाबुमहाभागो रथं स्थापयितुम्। यानादुत्तीर्य च मुखेऽङ्गुलिं दत्त्वा वमनोद्योगमिव चकार। द्वित्रिवारं सशब्दमूद्ध्र्ववायुमप्युत्ससर्ज। मिश्रमहोदयेन दृष्टं यद्वराको वहुतरं कष्टमनुभवतीति।
कियत्कालान्तरं प्रोवाच बाबू- ''महाभागा:! अद्य तु गमनं न सम्भवति। श्वस्त्वश्यमेवाभीष्टस्थलं प्राप्स्याव:। तर्हि रात्रिमस्मिन्नेव ग्रामेऽतिवाहयाम इत्येवोचितं प्रतिभाति। न मे प्रकृति: साधीयसी।’’
इत: शकटिचालकोऽपि भोजनाय व्याकुल आसीत्। तेनापि तत्र स्थितावेव सुखं प्रदर्शितम्। पुन: किमसीत्! तत्रैव स्थिति: सिद्धान्तिताऽभूत्। प्रदोषान्धकारमुद्वीक्ष्य प्रोक्तं बाबुना- ''हन्त! हन्त! अतीव लज्जाकरणमद्यापतितम्। यन्मदुपस्थितौ श्रीमद्भिर्दु:खमनुभूयते।
मिश्र० -किमिह दु:खम्?
बाबू० - इदमेव यदहं तु न प्रकृतिस्थ:। भक्ष्यादिसम्पादने न पारयामि साहाय्यमापादयितुम्। ततश्च वस्त्वानयनं, भक्ष्यादिसम्पादनं च श्रीमतामेव कर्तव्यमापतितम्।
इदमुक्त्वा च प्रदत्तमेकं रूप्यकं मिश्रहस्ते। मिश्रेणापि- ''वत्स! किमिदं दु:सम्भवम्? यदि शरीरमस्वस्थं स्यात्तर्हि कोऽत्र मानुषवशविषय:?’’ इति सस्नेहं वदता गृहीतं रूप्यकं हस्ते प्रोक्तश्च- ''किं साम्प्रतं भक्ष्यं रोचते भवते? तदेवानयामि।’’
सविह्वलजिह्वं प्रोक्तवान् बाबुमहाशय: ''नैव नैव यद्यहं किमपि अभ्यवहरिष्यामि तर्हि शरीरमधिकमस्वस्थं भविष्यति। गृहपर्यन्तं गमनं दुर्घटं भविष्यति। तथा च श्रीमतां यदभीष्टं स्यात्तेदवाऽऽनेयम्। यदि च कियत्कालानन्तरं किमपि शरीरं स्वस्थं भविष्यति तर्हि कियच्चन पथ्यं ग्रहीष्यामि।
नाधिक: समुपालभ्यत विचारावसरो मिश्रमहोदयेन। प्रसन्नेन चेतसा भक्ष्याद्यानयनाय जगामापणाभिमुखम्। परकीयद्रव्येणैव यानव्ययो जठरानुपानव्ययश्च निर्वाह्यत इत्येव विचारे वराको मिश्रो मुदितमना समभूत्।
गमनसमये प्रोक्तं बाबुना- ''श्रीमद्भि: शीघ्रमेवेह समुपस्थातव्यम्। तावत्कालं यानमिहैव स्थास्यति।’’
कुण्डलमिश्रगमनानन्तरं बाबुमहाभाग: प्रोवाच् शकटिचालकम्- ''नूनं नाद्यास्माकं गृहगमनं सम्भवति। मम व्याधि: समधिकं प्रवृद्ध:। नापि च शीघ्रमेवोपशमं यास्यतीति दृश्यते। श्व: पर्यन्ते भवत: स्थितिरपि न सम्भवतीति चेद्वाञ्छसि पथा सुखमात्मनिवासं प्रयाहि। श्वोऽहं पुन: प्रबन्धं करिष्यामि यानस्य। भाटिद्रव्यतोऽधिकश्च रूप्यकमेकं भोजनाव्ययार्थं दास्यते।’’
शकटिचालकस्य उच्चगता ग्रहा:! एकदिनपूर्वमेव नियतं द्रव्यम्! ततोऽप्यधिकमेकमुद्राया अपरो लाभ:! पुन: किं तेन प्रतीक्ष्येत? बाढं प्रसन्नानन: स्वीयं द्रविणमादाय सवेगमात्मस्यन्दनं स्वसदनं निन्ये। किमिति क्रियेत् क्षणमपि विलम्ब:?
शकटादर्शनानन्तरमेव सर्वाङ्गसुन्दरेण बाबुमहाशयेन समुद्घाटित: कुण्डलमिश्रवस्तुग्रन्थि:! तदन्तर्गतं पुरातनमाधिं, व्याधिं च परिहाय ततो द्रविणग्रन्थिरेवात्मन: पटसम्पुटके न्यक्षिप्यत। अवशिष्टञ्च सर्वमवकरजातं कोण एकस्मिन्नकार्षीत्। स्वीयं च सर्वं वस्तु सावधानमात्मसात्कृत्य नैशान्धकारतिरोहितमेतत्स्थलमेकवारमेव तत्याज। गमनसमये चैकस्मिन् पत्रखण्डे इति विलिख्य कुण्डलमिश्रवस्तूपरि निक्षिप्तवान्।
''महाशया:! प्रणमामि’’
इतश्च कियन्तं समयमतिवाह्य एकस्मिन् हस्ते दधिभाण्डमपरस्मिंश्च अन्यद्भक्ष्यव्यञ्जनं वहन् कुण्डलमिश्रो यदा समागतस्तदा ददर्श यत्तत्र न शकटि:, न च शकटिचालक:, नापि च मृदुमधुरभाषी बाबुमहोदयोऽस्ति। केवलं झिल्लीझाङ्कर एवारम्भ्यमाणो निशम्यते! हन्त! सर्वं शून्यम्।
दूरे दूरे गत्वा कुण्डलमिश्रेण द्रष्टास्तास्ता भूमय:, पृष्टाश्च सवैक्लव्यं यातायातं कुर्वाणा ग्रामजना:- ''किन्नु दृष्टमासीदिह यानमेकम्?’’ परमेतदुत्तरे कैश्चन- ''अहो! एते नवीना वा ता ध्माता:? - कैश्चित्! ''सत्यं दर्शनीय: पुच्छविकल: शाखामृग:’’ कैश्चन च ''अयं विचित्र: पशु: कस्माद्वेनादायात:’’ इत्याद्येव, असभ्यासम्भाषितमभिमुखीकृतम्! सहासं तत्पृष्ठस्तालिका वादनं कुर्वद्भिश्च बहुभि: क्षते क्षारनिक्षेप एवाऽक्रियत।
हन्त! हन्त! ग्रामे ग्रामे प्रतिश्वरशुरसदनमाहिण्डमानेन कुण्डलमिश्रेण यद्वार्षिकं भूयसा कष्टेनोपार्जितं तत्समग्रमेव चतुरचूडामणिना केवलं ''मातृष्वसृपतिं’’ मधुराभिर्वात्र्ताभिव्र्यामोह्य संसौकर्यमात्मसात्कृतम्! अवशिष्ट: केवलं दण्डायमान: कुण्डलमिश्र:!
अन्तत: पुन: पुन: क्रन्दता श्रीमता कुलीनकुलचूडामणिना कुण्डलनारायणमिश्रेण गृहीत: स्वभावस्वच्छो निजमार्ग:? भूयसापि च प्रयत्नेन न स समुपालभ्यत कुण्डलमिश्रस्य पाटवपण्डितो ''योषिद्भगिन्यात्मज:!’’
ममाध्यापनम्
(१)
विश्वविद्यालयस्य नियमितपुस्तकभारं मस्तकादुत्तार्य, तत्परिवर्ते शास्त्रिपदकमुपलभ्य, पञ्चविंशवर्षे गुरुदेवस्य सकाशात् चिरविसर्जनमग्रहीषम्। मन्ये पाठकमहाशया: अकथितमपीदं स्वयमेवानुमास्यन्ति, यद् गृहागतोऽपि कतिपयमासपर्यन्तं निजबाहुबलेन अन्नसंस्थानस्य न प्राभवं संघटनं कर्तुम्। प्रेषितं खलु बहुषु विद्यालयेषु योग्यतापत्रसहकृतमावेदनपत्रम्। परं बहुभ्य एवोत्तरमुपलब्धम्- 'इतोऽप्यधिकमिङ्गलिशभाषाप्रावीण्यमपेक्ष्यते। हन्त! कोऽयं संस्कृतभाषायामभिसम्पात:। अस्तु कियत्कालानन्तरं धवलपुरग्रामस्य इंग्रेजीमाध्यमिकविद्यालये (हाईस्कूल) प्रधानसंस्कृताध्यापकपदमुपलभ्य मातापित्रो: स्नेहाश्रुजलेमाभिषक्ति: सन् कार्यस्थले यात्रामकरवम्। तदा हि मम जीवनस्य शोभन: प्रभातकाल:। शरीरे बलम्, मनसि साहसम्। मम नवीनजीवनस्योपरि तदिदं स्रोतोद्वयं निरर्गलं प्रवहति स्म।
धवलपुरग्राम: प्रकृतिदेव्या: सौन्दर्यक्रोडे पालित:। ग्रामस्य चरणतलं प्रक्षालयन्ती, स्रोतोऽभिघातमुखरा प्रवहति खलु कलकलनादिनी तरङ्गिण्येका। नद्या नाम लक्ष्मी। गङ्गाया: शाखानदी। एतस्या एव नद्यास्तटे क्षुद्रमेकं लताभवनं (वङ्गला) निवासार्थं नियतमभूत्। जनकलकलविक्षुब्धमशान्तिदायकं नगरनिवासं विहाय, शान्तिसुखपूर्णस्य निर्जनतामयस्य ग्रामस्याश्रयमुपलभ्य समाश्वस्तोऽभूवम्। आसीन्ममैक: पाचक:, यो हि पाकादिसमस्तकार्याणि निर्वाह्य सन्ध्यात: पूर्वमेव निजगृहं प्रयाति स्म। अहमपि समस्तदिनं विद्यालयच्छात्रेभ्य: समप्र्य परिशेषे श्रान्तदेह: सन् वासस्थानं प्रत्यागच्छम्। गृहे किञ्चिद्विश्रमान्तरं लक्ष्मीनदीतीरे शान्तिदायकस्य निर्मलवायो: सेवनाय पुनरपि गृहाद्बहिरभवम्। एवं प्रसर्पति सन्ध्यान्धकारे पुनर्वासस्थानं परावृत्त: आहारादिकं समाप्य बकशुभ्रयनीयमाश्रितो निशीथपर्यन्तं साहित्यचर्चायां व्यापृत: समभवम्। तदनन्तरं च निद्रा देव्या: क्रोडे आत्मानं समार्पयम्। एतदेव मम दैनिकं कार्यविवरणम् ।
(२)
पाठकगणस्य सविधे तदिदं निवेदनमावश्यकं मन्ये यत् आख्यायिकाप्रणयनस्य कवितालेखनस्य च रोगो मम हृदये बाल्यादेव प्रबलोऽभूत्। अहमनेकेषां मासिकपत्राणां नियमितलेखक:। धवलपुरग्राममागत्य मम रचनावेगो द्विगुणपरिमाणेन वद्र्धते स्म। यत्किञ्चिदस्तु एतस्या निर्जनपल्लयां प्रकृतिदेव्या: क्रोडमाश्रितस्य मम षण्मासा: सानन्दं व्यतीयु:। ग्रीष्मस्य दीर्घोऽवकाश समुपस्थितोऽभूत्। गतेष्वेषु षण्मासेषु धवलपुर- वास्तवस्य नव्ययुवकदलस्य बालकवृन्दस्य चोपरि मम भूयान् प्रभावविस्तारोऽभवत्। सर्वेऽपि सन्ध्याकाले मम निवासगृह-मागत्य संवादपत्राणि मासिकपत्रिकाश्चापठन्। तदन्तर्मुद्रिता मम नामाङ्किताश्च रचनास्तेषां मनस्सु महान्तं प्रभावमुत्पादयामासु:। केचित्केचित्तु ममैतावद्भक्ता: समभवन् यत्तेषां चक्षुष्यहं भारतस्य प्रधाननेता (लीडर) प्रतीतोऽभवम्।
किं वा भूयसा, अस्माकं समवेतचेष्टाया: फलेन अनतिविलम्बमेव ग्रामस्य मध्ये ''स्वदेशहितसाधनी समिति’’ नाम्री एका सभा संस्थापिताऽभवत्। सर्वेषामिच्छानुसारमहमेव सभापतिर्मनोनीतोऽभूवम्। देशहितरूपे महत्युद्देश्ये प्रणोदिता बहवो युवका बालकाश्चास्माकं सभायां योगदानमकुर्वन्। अस्मदादीनां वक्तृताया: प्रबन्धपाठस्य च कलसम्भारेण क्षुद्रो धवलपुरग्राम: कम्पमान इवाभूत्। कियद्दिनानन्तरमेव मम सम्पादकतायां 'स्वदेशहितसाधनी पत्रिका’ धवलपुरग्रामान्नियतसमये प्रकाशिताऽभवत्। महता वेगेन लेखप्रवाह: प्रासरत्। ग्राममध्ये विद्युत्प्रवाह इवैक: प्रावहत्। किन्तु ग्रामस्य प्राचीना: पण्डिता मद्द्वारापहृतां कीर्तिवैजयन्तीसाशङ्कमाना: क्षीणकण्ठं नानाविधान् विवादान् मद्विषये प्रोद्भावयामासु:। परमस्मदादीनामुत्साहे, अध्यवसाये वक्तृताप्रवाहे च तेषां क्षीणकण्ठस्वर: कुत्रापि विलीनोऽभवत्। अस्माकं कार्यं चाप्रतिहतगत्या प्राचलत्।
परं हा हन्त भारतस्य दुर्भाग्यम्। मानुषा: कुर्वन्त्यन्यत् दैववशात्सम्पद्यते चान्यत्। अस्माकं सभाया: कार्यं बहुतरमगे्रसरमभवत्। एतस्मिन् समयेऽकस्मादेव एक: खण्डप्रलयोऽस्माकं सभां, वक्तृताम् प्रबन्धपाठञ्च सुदूरमुड्डाययामास! तदेवाग्रे प्रकाशयामि।
(३)
ग्रीष्मावकाशसुखं गृह एवोपभोक्तुं समागमन् गृहाद् द्वित्राणि पत्राणि। किन्तु सभाया: कार्यकलापस्तस्मिन् समये सुचारुरूपेण प्रचलति स्म, अत एवाहमुत्तरं प्रादाम्- ''अतीव व्यस्तोऽस्मि, नाहमिदानीमागन्तुुं शक्रोमि’’। इदमुत्तरमवाप्य, आत्मीयगणो नाधिकं ममानुरोधमकार्षीत। मन्ये, अस्मिन् समयान्तराले प्रणयदेव: सुनिपुणमलक्षित: सन् मयि शरसन्धानं करोति स्म।
श्रीमत्या: प्रीतिदेव्या: स्वनामाङ्किता कवितावली प्रति मासमेवास्माकं पत्रिकाया: कार्यालये समागच्छत्। प्रतिमासमेव चेयं पत्रिकाया: कलेवरपूर्तिं कर्तुं प्रारभत। हरिहरस्य पिता एको 'नव्यतन्त्रावलम्बी’ पुरुष आसीत्। स हि स्वयं एम.ए. उपाधिधारी, एवं राज्यतन्त्रतो लब्धविश्रम: प्रधानप्राड्विवाकोऽभूत्। एतस्य नामधेयमासीत् चन्द्रनाथशर्मा। 'हरिहरस्यैका भगिन्यप्यासीत्। एतस्या एव नाम प्रीतिदेवी। हरिहरस्य मुखादेवावगतं मया यत्तस्य पिता देशहितविषयकैरेभि: कार्यैर्मम महतीं प्रशंसा करोतीति। एतदाकण्र्य मम मनसि महान् प्रमोद: प्रभवति स्म।
(४)
अकस्मादेव एकस्मिन् दिने हरिहर: समागत्य मामसूचयत्- अद्य सन्ध्याकाले तद्गृहे मम निमन्त्रणमस्तीति। वेषभूषादिभि: सुसज्जितो भूत्वा प्रदोषसमये चन्द्रनाथशर्मणो गृहे निमन्त्रणारक्षार्थमयासिपम्।
चन्द्रनाथस्तस्मिन्समये नीचै स्तलस्यैकस्मिन् प्रकोष्ठकेऽस्थित:। किञ्चित्पुस्तकं पठन्नासीत्। दृष्ट्वैव मामुदतिष्ठदसौ, अहमपि सविनयमकार्षं नमस्कारम्। स हि मदभिमुखे वेत्रासनमेकमुपसार्य प्रावदत्- ''स्थीयताम्।’’
अहं वेत्रासनोपरि आत्मनो देहभारमर्पयित्वा, चन्द्रनाथस्तस्थितपुस्तकोपरि दृष्टिपातमकरवम्। सेयं मत्सम्पादिता मासिकपत्रिका। जिज्ञासितं मया- ''कतमो लेख: पठ्यते?’’
उपनेत्रमण्डितनेत्रेण मामवलोकयन् प्रोवाच चन्द्रनाथमहाशय:- ''भवल्लेख:- समाजोन्नति:।’’ एतदनन्तरं च पत्रिकां सम्मुखेऽवस्थाप्य वस्त्रप्रान्तेनोपनेत्रं मार्जयन् समालपदसौ-
''भवन्निवास: पाटलिपुत्रे?’’
उत्तरितं मया- ''आम्’’
''पितुर्नाम?’’
''श्रीसिद्धेश्वरशर्मा त्रिवेदी’’
''कान्यकुब्ज:?’’
''आम्’’
अन्यत्किञ्चिदकथयित्वा चन्द्रनाथमहाशयोऽन्यत्र दत्तचितोऽभवत्। एतदनन्तरमनेन साकं मम स्वदेशविषयिका: समभूवन् बह्वयो वार्ता:। फले च चन्द्रनाथमहाशयोऽस्माकं 'स्वदेशहितसाधन्या: समिते’ विशिष्टश्रेण्या: सभ्योऽभवत्, प्रतिमासे पञ्चमुद्राप्रदानसाहाय्यं च प्रतिजानीते स्म।
एतस्मिन् समये हरिहर: समागत्यावदत्- ''सोमेश्वरमहाशया:! समागन्तव्यं प्रतीक्षते भोजनस्थाली।’’ एतेन साकमहमन्त:पुरे प्राविशम्। चन्द्रनाथशर्मणो गृहं वैदेशिकोपकरणै: सुसज्जितमासीत्। समस्तस्यापि गृहस्याङ्गाभूमि: सुदृश्येनास्तरणेनाच्छादिता। गृहभित्तिषु महामहान्ति तैलरङ्गचित्रितानि चित्राणि विलम्बितान्यासन्, येभ्यो दर्शनमात्रेण वैदेशिकशिल्परुचि: प्रकाशते स्म। गृहस्य प्रसाधनपरिपाटी द्रष्टुर्मनोहारिण्यासीत्। चन्द्रनाथमहाशयेन, आहारार्थमपि महदायोजनं कृतमासीत्।
एका उपचतुर्दशवर्षवयस्का बालिका परिवेषणादिकार्यं कर्तुमुपाक्रमत। बालिका अतिसुन्दरी। प्रोक्तं चन्द्रनाथेन ''सोमेश्वरशर्मन् एषा मम कन्या’’
न किञ्चिदप्युक्तं मया। आहारादिकं परिसमाप्य चन्द्रनाथशर्मणो गृहात्परावर्तिषि। समस्तमपि पन्थानं चिन्ताभराक्रान्तेन चेतसाऽत्यक्रामम्। मम नयनयो: समक्षं केवलमुज्ज्वलायते द्वे चक्षुषी शोभमाने अभूताम्।
(५)
वासस्थानमागत्य शयनीयस्याश्रयमगृöाम्। शयनीयार्पितदेहभारस्य मे मनसि भावना प्रादुरभूत्- ''चन्द्रनाथमहाशयस्य दुहितुर्मुखं कीदृङ्मनोहरम्! चक्षुषी कीदृगुज्ज्वलायते! कीदृग्वपुर्लावण्यम्!’’ अनेकक्षणपर्यन्तमेवंविधा: कियत्यो वा चिन्ता: प्रादुरभूवन्मे मनसि, न खलु तद्वक्तुमावश्यकम्, न चाहं सर्वस्वं इदानीं शक्रोम्येव वा स्मर्तुम्। सत्यं त्वेतत् पूर्वपठितस्य काव्यकदम्बस्य प्रथमदर्शनविषयका एकैके विचारा मम मनसि जागराबभूवु:। 'अनाघ्रातं पुष्पं किसलयमलूनं कररुहै:’ 'तत्प्रश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्।’ इत्यादीनि यानि यानि वा पद्यखण्डानि मे मनसि यातायातमकुर्वन्, तेषां सर्वेषामेवोल्लेखे अभिनवमहाभारतसमारम्भ इव भवेत्।
अस्मिन् समये ग्राम्यख्र्रिष्टीयधर्मयाजकानामुपासनामन्दिरस्य घटिका 'टन् टन्’ स्वरेण मध्यरात्रमसूचयत्।
सा रजनी अतीव सौन्दर्यपूर्णासीत्। अहं वातायनमुद्घाट्य लक्ष्मीनदीशोभां द्रष्टुमवातिष्ठे। समस्तोऽपि ग्राम: समधिकनीरव: सन् गभीरसुषुप्ते: क्रोडे विश्रान्त आसीत्। अनन्तनीलाम्बरे तारकाराजिविराजतो दशम्याश्चन्द्रस्तदेतन्निभृतदृश्यं वीक्षते स्म। कतिपये नारिकेलतरवो रजनीनाथमुत्स्प्रष्टुमिव मस्तकमुत्तोलय दण्डायमाना आसन्। नीचैश्च कलकलनादिनी लक्ष्मीनदी स्वर्गीयसङ्गीतमिव गायन्ती अविरतं प्रवहति स्म। ऊर्मिबहुले लक्ष्मीनद्या वक्षसि चञ्चला बालिकेव, ज्योत्स्ना तरङ्गै: साकं खेलन्ती रजतमयं तज्जलमकार्षीत्।
अस्मिन् प्रवासे एकाकिनो मम ज्योत्स्नामये कविहृदयोन्मादिनि निशीथेऽस्मिन् शय्यापाश्र्वे अन्यस्यैकजनस्याभावो वारं वारं जागर्ति स्म। स्थित्वा च भर्तृहरेस्तदिदं पद्यं ममाभिलाषविषयमुज्ज्वलमकार्षीत्-
अद्र्धं नीत्वा निशाया: सरभससुरतायासखिन्नश£थाङ्ग:
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हम्र्यपृष्टे विविक्ते।
सम्भोगाक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दभाग्य:।।
सभ्यानां पाठकमहोदयानां पुरतो हन्त! किमिदं प्रोक्तवानस्मि? मम हृदयस्य कथां स्पष्टमद्य वर्णयामीति किमु पाठकमहाभागा: क्षाम्येयुर्ममापराधम्?
(६)
एषु दिनेष्वहं प्राय: प्रतिदिनमेव चन्द्रनाथमहाशयस्य गेहे यातायातं करोमि। गृहवर्तिभि: सकलैरेव साकं मे परिचय: सञ्जातोऽस्ति।
एकदा चन्द्रनाथशर्मणा प्रोक्तम्- ''सोमेश्वरमहाशय! अपि तृतीयप्रहरे प्रीतिमपि किञ्चित्किञ्चित्पाठयेद्भवान्?’’
प्रीतिं पाठयितुं मम नासीत्किञ्चिदापत्ते: कारणम्। सत्यपि कारणे, वर्तमानेक्षेत्रे 'आपत्ते:’ आधिपत्यविस्तारस्य नाभविष्यत्सुयोग:। सुतरां चन्द्रनाथशर्मण: प्रस्ताव सम्मतोऽभवम्। असूचयं चैतं-यद्भवत्प्रास्तावानुयायि कार्यं कर्तुं प्रस्तुतोऽस्मीति।
एतस्य परिस्मिन् दिन एव नवीनायाश्छात्र्या: शिक्षाभारमगृöाम्। हरिहरमुखादाकर्णिनं च मया यत्तस्य पिता मासान्ते विंशतिमुद्रा: पारिश्रमिकरूपेण देयादित्यस्तयाशा।
किन्तु दृष्टं मया ममच्छात्री मयि शिक्षकगौरवं न प्रदर्शयति। सा हि मामात्मनो व्यस्यमिव मन्यते स्म। मम आदेशस्य बाध्यताचरणमपि करोति स्म सा। शिक्षकस्य सविधे छात्र्या: इयं महती त्रुटि:। तथाप्यहं छात्रामेतां नापारयं कमपि दण्डं दातुम्! प्रीतिदेवी एकस्मिन् दिने कस्य विचारस्य वशे भवतीति नासीत्किमपि निश्चितम्। एकस्मिन् दिने हठात्प्रश्रमकरोन्मयि - ''अध्यापकमहाशया:! एतस्यां पृथिव्यां सर्वप्रधानं कीदृशं वा सुखम्?’’ मया दृष्टम् - प्रश्रो गुरुतरोऽस्ति। सत्यं वच्मि ममाप्यस्योत्तरे कश्चन गूढोऽभिसन्धिरासीत्। सुतरां प्रीति प्रावोचम्- ''श्व: कथयिष्यामि।’’
गृहमागत्य शयनीयतले विश्रमं प्राप्तवम्। प्राप्तविश्रमं पुनर्मां चिन्तापिशाची पीडयितुमारभत्। समुदभूवन् नानाविचारा:। एव विचारमग्र एवाहं लेखनसाधनानि गृहीत्वा पत्रमेकमलिखितम्-
''प्रीते!
नानाविधं खलु सुखम्। केचन धर्माचरणं विधाय आनन्दमुपभुञ्जते, तमेव चानन्दं जीवनस्य प्रधानसुखं विवेचयन्ति। केचित्तु अधर्ममेवाचरन्त: सुखं मन्वते, तदेव च सुखमात्मनो जीवनस्य सुखं ते भावयन्ति। सर्वोऽपि हि आत्मनाभिलषितं वस्तु समधिगम्य सुखं प्राप्रोतीति सारम्। दृष्टान्तरूपेण पश्य! अहं भवतीं --- कियत्सुखी भवामि।’’
पत्रमेतद्विलिख्य व्यचारयम् - ''प्रीतये प्रदास्याम्येतत्पत्रम्? यदि सा क्रोधं कुर्यात्, तर्हि समग्र एव मम सुखस्वप्रो भग्रो भवेत्। अथ यदि न प्रददामि तर्हि कियत्कालं यावत् इमां दग्धयातनां वक्षसि गोपयित्वा स्थास्यामि।
एतस्या: कथाया: प्रकाशने फलमेव वा किम्? प्रीतिर्हि निजपितु: सम्पूर्णतोऽधीना। चन्द्रनाथो येन साकं प्रीतेर्विवाहं चिर्कीषिष्यति, तेनैव साकं भविष्यति प्रीतेर्विवाह:।’’
एवं रूपेण बहुतरं विचारयन्नहं परिशेषे प्रीतये पत्रमेतत्समर्पयितुमेव स्थिर्यकार्षम्। स्वयमेव च पत्रमेतत्परस्मिन्दिनेऽध्यापनोत्तरं प्रीतये समप्र्य, कौतुकाकुलं हृदयमादाय समागच्छं गृहे।
(७)
एतस्य द्वितीयस्मिन् दिने आसीद्रविवार:। प्रात: कालस्य सुशीतलो वायुर्वहति स्म। ममापि तस्मिन् दिने नासीत्किमपि कार्यम्। वेत्रासनोपरि अद्र्धशयानावस्थायामवस्थित: कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलं पठन्नासम्। कवेरेकैकस्य विचारस्योपरि नानाविधविचारलहरी खेलति स्म मन्मनसि। दुष्यन्तोक्तीरात्माने घटयन्- आलङ्कारिकाङ्गीकृतं 'भावकत्व’ व्यापारं चरितार्थयन्नासम्। मध्ये मध्ये च तरुणतपनस्य पीतकिरणैरुद्भासितं शस्यश्यामलं क्षेत्रमालोकयमान: प्रकृतिदेव्या महिमानमस्तौषम्। परं पुनर्मां स्वार्थपरा विचारा: समुत्तेजयाञ्चक्रु:। अहं भावयन्नासम्- ''ह्य: समर्पितस्य पत्रस्य किमु दास्यति प्रीतिरुत्तरम्? अहमेवोत्तरमकार्षम्- ''आम्! कुतो वा न दास्यति? यदि मयि नाभविष्यदेतस्या: प्रेमा, तर्हि नैवंविधं प्रश्रमकरिष्यदसौ। यदि च लज्जया नैवमाचरेत्? पुनर्मामाशापिशाची भ्रामयांबभूव- ''यत्किञ्चिदस्तु अस्मिन् व्यतिकरे कार्यसिद्धेराशा शक्यते कर्तुम्। अत एव तु तद्दिने चन्द्रनाथमहाशयेन सस्नेहं निवासादिप्रश्र: कृत आसीत्।’’
''तर्हि केन वा प्रकारेण प्रीतिरात्मन: प्रीतिं मयि सूचयिष्यति। शकुन्तलया तु कमलपल्लवं प्रीतिलेखमुल्लिख्य प्रियम्वदा नियमिताऽभूत्समर्पयितुम्। तर्हि किं ममाभ्यर्पणेऽपि काचित्प्रियम्वदा समागच्छेत्?’’ एवमहं मन: कल्पितेर्नानाविधै: सुविचारै: प्रफुल्लहृदयोऽभूवम्, एतस्मिन्नेव समये चन्द्रनाथस्यैक: परिचारको ममाभिमुखमुपस्थितोऽभवत्। भावितं मया मनसि- ''अस्तु प्रियम्वदाया: परिवर्ते प्रियम्वद एवास्तु! दृश्यतां किं वा प्रियमुपस्थितं भवति।’’
परिचारकेण समर्पितमेकं पत्रम्। तदुपरि आसीच्चन्द्रनाथमहाशयस्य लेख:। तदिदमालोक्येव आशाया: कलेवरसङ्कोचोऽभवत्। अस्तु, किञ्चिदावश्यकं भविष्यतीति विभाव्य पत्रमुन्मुक्तावरणमकार्षम्। किन्तु यदा समस्तमिदं पत्रमपठं तदा ममान्त:करणे भीषणा आत्मग्लानिरुद्भवत्। अहमेवात्मनो हस्तेन मम सुवर्णप्रतिमां भग्रवानस्मीत्यजानाम्। आसीदिदं पत्र लिखितम्।
सोमेश्वरमहाशय!
भवन्तमहं सुचरितं सुजनं च पूर्वमजानाम्, परमद्य अपगत: स विश्वास:। प्रीतये भवता ह्य: कीदृक्पत्रं समर्पितमासीत्? किमेतद्भद्रोचितं कर्म? हा धिक्!’’
नाहमेकं दिनमपि प्र्रतीक्षितुमपारयम्। तस्मिन्् दिन एव आशातीतमिदमध्यापनाकार्यं विसृज्य स्वदेशं परावर्तिषि!
प्रतिशोध:
देशस्य दुर्भिक्षेण दारुणदुर्दशाऽभूत्। ग्रामा: खर्वटाश्चोच्छिन्ना अभूवन्। दिनकरेण द्योतमानमपि दिनं तामसी रात्रिरिव भूरितमं भयमजनयत्। दीना: धान्यकणानां कृते दूरदूरमधावन्, क्षुधया व्यलोठन् धरणौ, व्यक्रीणत कतिपयपणानां कृते देहमप्यात्मीयम्। हा हन्त! दुर्दैवस्य कीदृश आसीत्परिहास:, कालस्य कीदृशोऽभूद् दुर्विलास:। नेत्रे कोटरग्रस्ते, हस्तपदं नि:सहम्, शरीरं च सर्वतोऽपि निर्बलमलोक्यत जनानाम्।
ग्रामवृद्धा अकथयन्-ईश्वरस्य कोपोऽस्ति। वर्षा व्योम विलोकयतां व्यत्यगु:, शिशिर: शीतेन वेपमानानां व्यत्यगात्, सम्प्रति निदाघश्चण्डरश्मेज्र्वलनज्वालया व्यत्येति। हन्त! कीदृशी भयङ्करी कालस्य क्रीडास्ति। सत्यं सत्यमयमकाल:। भूमि: शून्यमञ्चलं प्रसार्य विषण्णा व्यतिष्ठत। गोपग्रामो दीर्घनिश्वासानिव गृöाति स्म। भगवान्निशाकर: पर्णकुटीनां तासां मन्दतमं प्रकाशमचोरयत्१। चन्द्रजयोत्स्ना निजस्योत्सङ्गे संस्थाप्य तासां दीनकुटीनां दैन्यपूर्णां कथामिव शृणोति स्म। दूरे शृगालानां, ग्रामे शुनां शब्दो निस्तब्धतामभिनत्। अन्यथा सर्वत्र व्याप्तासीन्निस्तब्धता। रजनी निभृतमपश्यत्ताण्डवनृत्यम्।
दैत्येन सर्वथा मन्दो नन्दो विषण्णायामेकस्यां पर्णकुट्यां कन्थोपरि पतित: शोचति स्म निजदिनानि। जाग्रत एव तस्य सा रात्रिर्नेत्रयोव्र्यत्यगात्। हन्त, ग्रामपतये कृषिशुल्कं शोधनीयमस्ति। अन्यथा कृषिक्षेत्रं हस्तान्निस्सरेत्, गृहमुच्छिन्नं भवेत्, सर्वस्वमपह्रियेत। आसीन्नन्दोऽतिदीन:, सर्वेषामाज्ञावहो भृत्य:। मन्दभाग्य: पामर:।
महिषीछाग्यो वृषभाश्च ऋणपूरणे नि:शेषा अभवन्। अवशिष्टमासीत् केवलं क्षेत्रम्। नानोपायैस्तस्य रक्षणचेष्टायामपि नाभूत्सफलता। क्षेत्रमिदं नन्दस्याधिकाराद्विच्युतमभूत्। नन्दस्य समीपे साम्प्रतमेका 'श्यामा’ (गौ:) अवाशिष्यत। नन्दस्तस्यामत्यन्तमस्निह्यत्। क्षेत्रे कर्षणं कुर्वाणो यदा स नन्द: समाह्वयत् 'श्यामे!’ तदैव सा धावन्ती तत्राऽगात्। पालित: सारमेय इव सा गौर्नन्दस्य पश्चात् पश्चादभ्राम्यत्। यदा सा नवमासानां वत्सतरी आसीत्तदारभ्यैव नन्दस्तामपालयत्। अत एवासीन्नन्दस्य तस्यामतिप्रणय:।
पत्नीं गङ्गां पितृगृहे प्रापय्य मोहमयीनगरं नन्दो गच्छेत्, तत्रैव भृतिकार्यं कुर्यात्, द्रव्यमर्जयेत्, निरन्नमरणादात्मानं रक्षेत्। धूमयानाऽऽरोहणाय त्रिकटस्य२ कृते नासीत्तस्य निकटे द्रव्यम्। सम्प्रति नन्द: श्यामां विक्रीणीत। गङ्गा भृशमनुरोधमकार्षीत् यत् श्यामां नासौ विक्रीणीत, किन्तु सर्वथा किंकर्तव्यमन्दो नन्दो विवश आसीत्। मोहमयीं
१. अर्थात् चन्द्रप्रकाशस्याग्रे स लुप्तोऽभवत्।
२. त्रिकट, त्रिषु स्थानेषु कट्यते व्रियते (वाञ्छ्यते, दृश्यते) इति त्रिकटम्। 'कटे’ वर्षावरणयो:।
गन्तुं रूप्यकाण्यपेक्षितानि, तानि च न नन्दस्य निकटे। अत एव श्यामाया विक्रय एवैकमात्रोपाय:। रात्रिन्दिवमत्याचारान् सहमानस्य नन्दस्य हृदयमभूच्छनै: कठिनम्। स कदाचिदपि श्यामां न व्यक्रेष्यत, निजशरीरं कामं स व्यक्रेष्यत। किन्तु सहनशीलताया अप्यस्ति काचित्सीमा। निरन्तरपातिभिर्दुखैस्तस्य साम्प्रतमन्त:करणं पाषाणायितम्।
गङ्गाया: पिता द्वितीये ग्रामे आसीद् यामिक:। कृषेयभूमिरप्यासीत्तस्य निकटे। अत एव गङ्गा निजपतिं तत्रैव गत्वा निवसितुमददान्मन्त्रणाम्। गङ्गाया: पितापि भूयांसमनुरोधमकार्षीत्। किन्तु श्वशुरगृहे उदरपूरणं नाभ्यरोचत नन्दाय। दीनोऽप्ययं नन्दो निसर्गादमन्दो मनस्वी।
गङ्गां पितृगृहे प्रापप्य परावर्तिष्ट निजगृहं नन्द:। स्वामिनो विसर्जनसमये संस्मृतदु:खानुषङ्गा गङ्गा वाष्पमवमुञ्चती प्रावोचत्-प्रेषयिष्यसि शीघ्रं शीघ्रमात्मन: संवादम्। यावत्सम्भवं वर्षाभ्यन्तर एव परावर्तेथा:।
नन्द:-यथा परमेश्वरस्येच्छा।
मेघमिव जलपूर्णं हृदयमादाय परावृत्तवान् गेहं नन्द:। नन्दस्य गृहे नारायण-तिवारिणो भूयान्सम्मान:। आसीदपि सोऽयमतिसरलो ब्राह्मण:। नायं ग्रामवासिनां कस्मिन्नपि प्रपञ्चे पर्यपतत्। नन्दस्य श्यामा नारायणस्यासीदतिप्रिया। मार्गे यदा कदाचिदपि साऽमिलत् तस्या: पृष्ठं करेण परामृशन् पुचुत्कारेण तामस्निह्यत्। नन्दो जानाति स्म यन्नारायणस्य गृहे श्यामा सुखिनी भवेत्। अत एव श्यामामादाय नन्दो नारायणस्य द्वारमुपागच्छत्। सबहुमानं प्राणमत्।
तिवारी पर्यपृच्छत्-'कथं भो नन्द! कुत: सिद्धेरिच्छा’।
'महाराज, सर्वमप्यपगतम्, इदानीमहमपि मोहमयीं गच्छामि।’ सविषादमुत्तरमदान्नन्द:।
तिवारी- सत्यमेव, किं त्वं कुर्या:? दिनानां परिवर्तनमिदं दुर्लङ्घ्यम्। भूस्वामी चाऽयं नितरां निष्ठुर:। ग्रामे सुतरामप्रबन्धोऽस्य। कर्मचारी यथा वाञ्छति तथैव सर्वैव्र्यवहरति। भूस्वामिनश्च विलासविभ्रमेभ्य एव नाऽवकाश:।
उक्त्वैव चेदं, स हि सस्नेहदृष्ट्या पर्यपश्यत् श्यामाम्।
'भाग्ये यदासील्लिखितं संघटितं तत्। सम्प्रति भवादृशानामाशीर्वादं गृहीत्वा प्रयामि। किन्तु मार्गव्ययार्थं न मत्सविधे किञ्चित्। विंशतिरूप्यकाणि वाञ्छामि। श्यामा भवत्सविधे स्थास्यति।’ महत्या निराशया प्रावोचदिदं नन्द:।
तिवारी- (किञ्चिद्विचार्य हन्त, नाऽभूत्तवोपरि लेशतोऽपि दया ग्रामाधीशस्य? सर्वनाशं कृत्वैव पर्यतुष्यत्। कदा ते प्रस्थानम्।?
गृहाभ्यन्तरादानीय समार्पिपद् विंशतिमुद्रास्तिवारी। किन्तु नन्दो रूप्यकाणि हस्ते गृहीत्वा सविषादां दृष्टिं पर्यपातयत् श्यामाया उपरि। साऽपि तं दीनभावेन ददर्श। अतिकरुणं दृश्यमासीत्तत्। नन्द: श्यामाया: कन्धरायां हस्तमासज्ज्य करुणभावेन चुचुम्ब नि:शब्दं नतमस्तको जगाम च।
किञ्चिद्दूरं प्रयाणे शुश्राव स 'बाँ, बाँ’ इति हृदयद्रावकं शब्दम्। उरसि शिलामिव वहन् विचिचिन्त नन्दो यत् दीनतममाह्वयति श्यामा। किन्तु दृढीकृतहृदयस्तदिदं जल्पन् जगाम गेहं नन्द:- श्यामे! यदि तव भाग्येनाहं समर्थोऽभविष्यम् तर्हि......’
हन्त, नि:शेषीकृतनिखिलो नन्द:। कोऽस्य भाग्यं जानीयात्?
(२)
मोहमयीमवाप्रोन्नन्द:। राजमार्गानभिवीक्ष्यैव स भ्रान्तचित्तोऽभूत्। यत: पश्यति तत एव तस्य दृष्टि: पर्यबध्यत। स कर्तव्यं विस्मृत्य इतस्ततो निरुद्देश्यं प्रवाहितोऽभूत्। ग्रामजातो दीन: सोऽयं न केनचिदासीत्परिचित:। मरुत्तरस्य भों भों रवेण, घोटकशकटीनां च दूरापसारणस्वरेण स नितान्तमुत्त्रस्तोऽभूत््। 'कुत्र गच्छामि, किं करोमि, भृतिकार्यं कुत्र लप्स्य इत्येव प्रश्रा: पुन: पुनरुदतिष्ठन्नन्त:करणे तस्य। व्यतीयु: कतिचिद्दिनानि। न वराकस्यास्य समुदैत्साहसं केनचित्सह संलापं कर्तुम्।’
संन्यधीयत सन्ध्या। न्यलीयत भगवान्मार्तण्ड: पश्चिमगगनकोणे। लक्षलक्षजनकलकलादुद्विग्र इव नन्दो नगराद्दूरमपासरत्। वेतनकार्यस्यान्वेषणे न वराकस्याभूद्विदितं यत्कियद्दूरमुपगतोऽस्मि। किन्तु जठरे ज्वलन्ती क्षुधाज्वाला कथङ्कारं विस्मर्येत? अभूदधुना निकामं क्षुत्क्षाम:, एकत्र स्थित: पर्यपातयत् परितो दृष्टिम्। आसीन्महाविशालं वाटकम्१। तत्रैव बहुतरा महिष्यो गावश्चासन् निबद्धा:। स्वसदृशा मलिनवस्त्रधारिण: कर्मकरान्यपतँस्तस्य दृष्टौ सेवाकार्यं कुर्वाणा:। किञ्चिदाश्वस्त इव भूत्वा समभ्यसरत्तान्। समभूत्संलाप:। पर्यबध्यत परिचय:। नन्द: प्रकटीचकार स्वाभिप्रायम्। अभूत्सहानुभूतिस्तेषां तेन सह। तस्मिन्नेव दिने निजस्वामिन: सन्निधावनीयत नन्द:। अभूद्दुग्धशालायां कर्मचारी नन्द:।
आसीद्वैदेशिकस्य धनपतेरियं विशाला दुग्धशाला (डेरी)। अभूद्दुग्धस्य व्यवसायो महति परिमाणेऽस्याम्। नन्देनालभ्यत तत्र कार्यं गवादीनां दोहनस्य। निपुणोऽप्यासीन्नन्दोऽस्मिन् कार्ये। प्रत्यक्षं परिक्षितोऽसौ कार्यालयाध्यक्षेण। पर्यतुष्यत्तस्य कार्येण स्वामी। व्यतीयुर्दिनादनन्तरं दिनानि। स हि महता परिश्रमेण पर्यपूरयन्निजनियोगम्। स्वाभाविकेन विनयेनाऽभूत्सर्वजनप्रियो नन्द:। शालाध्यक्षो धनपति: परमं प्रासीदत्तेन। उत्तरोत्तरं पर्यवद्र्धत विश्वासो नन्देऽमुष्य।
प्राप्यत गङ्गया लेखितं पत्रं नन्देन। नन्दस्य कुशलवृत्तादिकमपृच्छ्यत तस्मिन्। नित्यनिर्वाहार्थं प्रार्थितान्यभूवन् रूप्यकाणि। कदा च निजदेशं परावर्तिष्यते इत्यपि तस्मिन् पृष्टमासीत्।
पै्रषयद् रूप्यकाणि नन्दो गङ्गायै। प्राहिणोच्च प्रत्युत्तरम्- 'साम्प्रतमहं पूर्णसुखी। स्वामिन: समीपे वेतनरूप्यकाणि सञ्चिनोमि। प्रान्तेऽस्मिन् भूयान् लाभो दुग्धव्यवसाये।
१. बाडा 'आहाता’।
एतद्व्यापारविषये सञ्जातो मे भूयाननुभव:। कञ्चित्कालं भृतिकार्यं कृत्वा द्रव्यं राशीकरिष्यामि। तत: स्वयमहमिमं व्यवसायं परिचालयिष्यामि। निश्चितं महतीं लाभसम्भावना। भवतीमपि तदैवाऽऽनाययिष्यामि।’
(३)
व्यत्यगाद् वर्षद्वयम्
नन्दो देहलीतो गोमहिषीश्चानाययत्। त्वरितमेवाऽस्य भाग्यतारा समदीप्यत सफलतागगने। शनैरभूद् घनिष्ठता सफलतया सह। निजकार्यालये दुग्धं नवनीतं घृतं च व्यक्रीणीताऽसौ। उन्मीलिते अभूतां व्यवसायनेत्रे एतस्य। धान्यकणानां कृते वितृष्यन्नन्द: साम्प्रतं धनराशेरुपरि धनराशिं समचिनोत्।
एकं बान्धवं सह नीत्वा गङ्गापि समागान्मोहमयीम्। प्रबन्धविषये नाभूत्कष्टं नन्दस्य। इदानीं सर्वोऽपि गृहप्रबन्धो निव्र्यूढोऽभूद् गङ्गाया। महता सुखसौभाग्येन व्यवसतां दम्पती। नन्दो दिवानिशं निजे व्यवसायकार्ये संलग्रोऽभूत्। न प्रतीयते स्म व्यतीयमानोऽपि कालस्तस्य। किन्तु नाऽभ्यरोचत नागरिकजीवनं गङ्गायै। केवलं प्रभूतपरिमाणेन समुपागच्छतो धनस्य लोभेन सन्तुष्टचित्तासौ समयं व्यत्यगमयत्।
व्यतीयुर्दश वर्षाणि
दुग्धशालाध्यक्षो निजदेशं परावर्तिष्ट। नन्दस्तस्य दुग्धशालामिमामक्रीणान्निजधनेन। पर्यगण्यताऽसौ महाव्यवसायिषु साम्प्रतम्। स हि सम्प्रति नन्दान्नन्दराम: संवृत्त:। किन्तु मोहमय्या जलवायुभ्यां प्रत्यहमस्वस्थोऽयमस्थात्।
समगादीद् गङ्गा ह्येकस्मिन्दिने- 'पश्याम्यहं, भवान् दिनं प्रतिदिनं देहेनाऽपचीयते। बहो: कालादत्र मनोऽपि नौ विषण्णं तिष्ठति। प्रचुरं धनं दत्तवान्परमेश्वर:। सम्प्रति निजदेशं परावर्तावहे, तत्रैव कृषिव्यवसायेन निर्वक्ष्यावहे। अत्रत्यजीवने सम्प्रति न प्रतीयते सुखम्।’
गङ्गाया: कथनोपर्यचिन्तयन्नन्दोऽपि समये समये। तस्यापि मनसि कृतपदाऽभवत्सेयं वार्ता। एकदा सोऽप्यभाषिष्ट-'चलावो निजग्रामं सम्प्रति। नेदानीमत्र स्थास्याव:। अतिपरिमाणस्य धनस्य सङ्ग्रहेण किं न: कर्तव्यम्? अहह, तानि नौ दिनानि कीदृशान्यासन् सुखपूूर्णानि यदा हि समस्तं दिनं क्षेत्रे कार्यं कृत्वा सायं निजकुटीरं परावर्तिष्वहि। अहह, सर्वमिदं स्वप्रायितमभूत्।’
कियत: कालस्य पश्चान्नन्दराम: स्वव्यवसायमुपसमहार्षीत्। एकस्य श्रेष्ठिनो हस्ते सर्वं विक्रीय धनं राशीचकार।
गङ्गया पृष्टम्-'संहत्य सर्वं कियत्?’
'लक्षद्वयात्किञ्चिदधिकम्’।
हर्षविस्मयाभ्यां जडीकृताङ्गा गङ्गा पाञ्चलिकेव प्रमोदाऽमन्दं पर्यवैक्षत नन्दम्। तस्मिन्नेव दिने प्रातिष्ठेतां निजदेशं द्वावपि।
(४)
सर्वभावैरवन्ध्याऽभूत्सा सन्ध्या। एकयुगतोऽप्यधिकं कालं बहिव्र्यतिगमय्य निजगृहं परावर्तिष्ट नन्द:। तस्य जीर्णकुटीरोपरि महाविशाल: प्रासादोऽभून्निर्मीयमाण: महदभूत्परिवर्तनम्। दुर्लङ्घ्यो भगवत्या लक्ष्म्या: प्रभाव:। ग्रामस्य प्रतिष्ठिता अपि पुरुषा: सम्प्रति नन्दरामस्यालिन्दे सानन्दमवातिष्ठन्त। स हि निजस्य वृत्तान्तमश्रावयत्सर्वानमायिकभावेन। ग्रामवासिनां संलापेनैव विदितं नन्दरामेण यद् ग्रामाधिपतिर्भूस्वामी साम्प्रतं पतनस्य सीमानमुपागत:।
श्यामामवलोक्य नितरां खिन्नोऽभवन्नन्द:। अभूत्सा जरती। नाभूत्तस्या दुग्धमपि। अस्थिपञ्जरमदृश्यत तस्या:। नन्दराम: प्रचुरेण धनेन परितोष्य वृद्धब्राह्मणमिमं तस्मिन्नेव दिने समानैषीच्छ्यामामिमाम्।
अद्याऽऽसीद् ग्रामस्य विक्रयदिनम्। ग्रामाधीशस्य राजहम्र्ये समताड्यत विक्रयसूचिका ढक्का। महामहान्तो व्यापारिणो भूस्वामिनश्चासन् समवेतास्तत्क्रयणाय। विलासिताऽगुण्ठने निलीनो भूस्वामी निजदशायां नग्रं दृश्यमपश्यत्साम्प्रतम्। नन्दरामोऽध्यगच्छत्संवादमिमम्। नितरां व्यषीदन्नन्द:। शुल्कपत्राणां महापुटकं सम्बध्य बहिरभूदसौ गेहात्। गङ्गा समतर्कयन्निजमनसि यन्नन्दरामो ग्रामोपरि स्थापयेन्निजाधिकारम्। ग्रामवासिनोऽन्येऽपि भूयस्तरामिदमेवाऽनुमानमकुर्वन्।
अह ह नन्दरामो ग्रामविक्रयस्याऽश्रौषीद् भीषणां घोषणाम्। हन्त, पूर्वकालस्य भयानकानि दिनानि समनृत्यन्नेत्राभ्यन्तरे तस्य। अकम्पिष्ट करुणशीलस्य तस्य हृदयम्। अतीव विषण्णो मृतप्राय इव जडीकृतनेत्र: सम्मुखेऽवातिष्ठत दीनो भूस्वामी। परानुकम्पया नितराममन्दो नन्दो नात्मानमवस्थापयितुमशकत्। ग्रामाधीशस्य दीनदशां विलोक्याद्रवद् हृदयं तस्य। स हि तत्कालं शुल्कपत्राणां पुटकं तस्य सम्मुखेऽवस्थाप्य दीनमगदत्- 'स्वामिन्! अहमिदं दु:खमनुभूतवानस्मि पूर्वम्। न कुर्याद् भगवान् यत्कश्चिदिदं दारुणदिनं द्रष्टुं बाध्यो भवेत्। गृöीत धनराशिमेनम्। अनेन हि संरक्षत निजं ग्रामम्। भवता कृतेनाऽप्यपकारेण मे समभून्महानुपकार:। सोऽयं धनसङ्ग्रहो भवत्कारणात्, अत एवास्त्यधिकारो भवत:।’
हर्षविस्मयलज्जानुतापैरनीशो ग्रामाधीशो मूच्र्छित इव तदभिमुखं पश्यन्नेवातिष्ठत्।
हृदयव्रण:
(१)
अतीतभारतस्यातीतगौरवचिह्नानि सुविशाले निजवक्षसि वहन्ती सेयमुज्जयिनी अद्यापि महिष्ठं मौलिमुन्नमय्य मौनमवस्थिता। सुभगसलिला नन्दितविप्रा भगवतीशिप्रा त्रिभुवनैकपालस्य भगवतो महाकालस्य चरणस्पर्शेन मुदितपुलकतेव नूनमनन्ताभिमुखमभिधावति। सोऽयमस्या: प्रकारोऽप्येवमेवाऽव्याहतमनन्तकालात्प्रचलति। संसारचक्रमपीदम्, भाविनं वर्तमाने परिणमय्य, वर्तमानं चातीतगर्भे विनयन्नित्यमेवमेवाबाधितमभिवर्तते। शिप्रे!, जगदुज्जयिन्या उज्जयिन्याश्चिरसङ्गिनि शिप्रे! दर्शितनानारङ्गैर्भवत्यास्तरङ्गैरनेकेभ्यो व्यथितहृदयेभ्य: शान्तिरर्पिता स्यात्। दूरीकृतविषादैर्भवत्या: कलकलनादैरनेकेषूत्साहशून्येष्वन्त:करणेषु सञ्चारिता स्यात्कार्यकारिणी शक्ति:। निविडपादपघनेऽस्मिन्निर्जने रोधसि समास्थिता ह्यनेके संसारविरता: प्राप्तवन्त: स्युरनन्तस्य साक्षात्कारम्। सरलतरले तरङ्गिणि शिप्रे! शिप्रे निदाघर्तोर्यस्मिन् कस्ंिमश्चिदहनि महाराजो भर्तृहरिरवश्यावश्यमिदं भवत्यास्तटमुपगतो भवेत्। सान्ध्यप्रकाशस्य च दृश्यं तावदवश्यं तटादेवाऽवलोकितं स्यात्, तत एव चावलोकितं स्यान्निस्तन्द्रेण चन्द्रेण भासुरं तन्नैशमम्बरम्।
एकमेकं कृत्वा रात्रेर्दश वादितानि घटिकया। एकैकक्रमेण च समभूवन् सर्वेऽपि निर्वाणा: प्रदीपा:। प्रशान्तोऽभूत्सर्वतोऽपि कोलाहल:। कलकलोज्जयिनी उज्जयिनी। प्रशान्ते: प्रतिमूर्तिरिवाऽलोक्यत साम्प्रतम्। नीरवनिस्तब्धाया नगर्या मण्डितमस्तकोपरि भगवान् रजनीनाथ: सहस्रकिरणैव्र्यराजत्। किं सङ्कुचितासु प्रलोलिकासु, किं प्रशस्तेषु राजपथेषु सर्वत्रापि गृहावलयो मौनमवस्थिता आसन्। गृहे गृहे सुखशय्यामध्यशेरत सर्वेऽपि। नैशीं नीरवतां खण्डयदकस्मादश्रूयत मधुर कण्ठगीयमानमिदम्- ''हरिरभिमानी रजनिरिदानीमियमपि याति विरामम्’’।
एकस्मिन् प्रकोष्ठे प्रज्वलति स्मैक: प्रदीप:। शुभ्रशयनीयोपरि रुग्ण एकस्त्रयोदशवार्षिको बालको निरुत्साहशिथिलमासीदधिशयान:। मुखमस्यैकान्ततो म्लानम्, शरीरं च भृशं कृशम्। विशाले तस्याक्षिणी अभूतां गर्तगते। शिरोभागे चान्य एकोयुवकोऽवस्थितो यस्योत्सङ्गे निहितमासीद्रोगिणो मस्तकम्। रोगिणा प्रोक्तम्- 'आर्यक!१ जलम्। शुष्यति मे कण्ठ:। किमेवं भो: पश्यसि, दीयतां मे पानीयम्’।
युवको मधुरेणाऽपि करुणतरेण स्वरेण प्रोक्तवान्- 'वत्स भानो! पूर्वमिदमौषधं गृहाण, पश्चात्ते जलं दास्याम:’। भानुरवदत्- 'आर्य विमल! नाहमधुना भेषजं पास्यामि। जलम्---
१. दादा/बड़ाभाई
-----’। विमलेन प्रोक्तम्- 'किमिति वत्स? किमेवमद्य हठमाचरसि?’। भानु: प्रशान्तेन स्वरेण प्रात्यवदत्- 'पितामह मुखाद्बहुधाऽश्रूयत--'औषधं जाह्नवीतोयं वैद्यो नारायणो हरि:’।
न किञ्चिदवादीद्विमल:। भानु: शनै: शनैन्र्यमीलयन्नयने। किन्तु शीघ्रमेव नयने उन्मील्य करुणकरुणया दृष्ट्या व्यलोकयद्विमलाभिमुखम्। भानोरयं दृष्टिपात: पूर्व: पद्यखण्डश्चातीव हृदयभेदकोऽभूद्विमलस्य। स ह्यतीव धैर्यबन्धेन निरुरोध वाष्पप्रवाहम्।
किन्तु भानु: पुनरवोचत्---'आर्य! साम्प्रतं मे प्रतीयते यद्भवन्तो दुराशावशीभूता:। न ममायं साधारणो व्याधि:। भवान्........ अहो भवान् रोदिति’। नेदानीं सोढुमशक्यत विमलेन। स हि बालक इव मुक्तकण्ठमरुदत्। पत्नी सरला समीप एवाऽवस्थिताऽभूत्। भानुरवादीत्- 'पश्य भ्रातृजाये! न जानेऽद्य तातस्य किमभूत्?’
सरला नेत: पूर्वं विमलस्य नेत्रयोर्बाष्पमालोकयत्। अद्य तया प्रत्यक्षीकृतं यद्विमलस्य हृदयेन धैर्यस्य बन्ध: साम्प्रतमेकान्ततो भग्र:। अवादीत्सा विमलम्- 'किमिदम्? यदि भवानेव बाल इवैवमश्रूणि विमोक्ष्यति तर्हि.......।’
विमलोऽवदत्- 'मा मैवम्। नाहं रोदिमि’। विमल: पर्यमार्जयन्नयने।
भानुरवोचत्- 'यदि भेषजस्याऽग्रहणेन भवति भवतो दु:खं तर्हि दीयताम्। अहमापिबामि।’
विमलो भेषजपात्रमोष्ठसविधमानयत्। अपिबच्च भानुर्भेषजम्।
पुनरवादीदसौ - 'इदानीं तु मे पानीयं दास्यथ?’
विमलस्तप्तपानीयमानेतुमकरोत्सङ्केतं सरलायै। सा ह्येकं जलपात्रमददाद्विमलस्य हस्ते। स हि भानुमवदत्- 'गृहाण’। भानु: किञ्चित्पीत्वैव मुखं परावर्तयत्- 'हन्त तप्तमस्तीदम्। शीतलमानीयताम्।’
इदानीं सरलाऽवदत्- 'भवान् विवेकशीलोऽपि कथमेवमागृöाति? साम्प्रतमिदमेव पिब’। विमलोऽवदत्- 'वत्स शीतलं ते जलं प्रातरेव दास्यामि’।
श्रुत्वैवेदं भानु: - कयाचिदान्तरिकप्रेरणयेव सहसा प्रावदत्- 'कदा! प्रात: किन्तु कस्मै? इदमुक्त्वैव सोऽभवत्तूष्णीम्। अदृश्यत मुखोपरि काचित्स्मितरेखेव। एतस्यैतद्वाक्यमाकण्र्य, साकूतं स्मितं चावलोक्य विमलो व्यकम्पत। भानो! किं प्रात:कालात्पूर्वमेव त्वमज्ञेये कस्ंिमश्चन पथिपथिको भवितुमिच्छसि? किं त्वं साकूतेनाऽनेन स्मितेन सत्यमेव मामुपालभसे ''यत् मन्दभाग्य! त्वया तु शीतोदकेन मे तृष्णापि नापनीता!’’
(२)
'टन् टन् टन्’ विमलश्चकितो भूत्वा घटिकां व्यलोकयत्। त्रीन् टङ्कारान् कृत्वा यन्त्रस्य बृहत्सूची प्राचलदग्रत:। भानोर्नेत्रयोव्र्यलोक्यत साम्प्रतं निद्रेव। विमलो बहिरागमत्प्रकोष्ठकस्य। दृष्टं परितो यन्निद्रादेवी सम्पूर्णेऽपि जगति निजं मोहनजालमास्तृतवती पूर्णरूपेण। शीतलो मन्दश्चावहति सर्वतोऽपि समीरण:। धात्री प्रकृति: प्राणिमात्रमपि सम्प्रति शाययतीव सुखावहेन निजकरसंवाहनेन। भगवान् कुमुदिनीनायको निजसहचरीं विभावरीं ज्योत्स्नाजालकेन स्वैरमामण्डितवान्। सम्प्रति कौतूहलेन महाकालमन्दिरस्योच्चचूडां करै: परामृशन् परिहसतीव प्रमोदेन। सहचरी यामिनी प्रेमपरवशा संलपतीव निभृतनिभृतं चन्द्रदेवेन, किन्तु तारका: प्रणयालापमिममाकण्र्य माद्यन्ति निजमानस एव। कीदृश: प्रशान्त: कान्तश्च सुसमय:!। किन्तु सन्तापितानां क्व शान्ति:? प्रसृता सम्प्रति सर्वतोऽपि नीरवता। तामिमाम् (नीरवताम्) क्वचित्क्वचित् जागृत जागृतेतिकलकलैर्भञ्जन्ति यामिका एव। समीपावस्थिते तिन्तिडीतरौ सम्प्रति निषीदन् दिवान्धदेवो वा निजघर्घरारवेण तामिमां प्रतिबध्नाति।
विमलो बहिरागत्य शून्यदृष्टया विलोकयामासेतस्तत:। अस्मरत्स हि - नाभूत्प्रभूत: समयो यदा स: (विमल:) पूर्वमेकस्यां रजन्यामेवमेव गगनाभिमुखदृष्टिरालोकयति स्म। किन्तु नासीत्पूर्वमेवं नैराश्यान्धकारपूर्णं तद् हृदयम्। अद्य तु तस्य प्राणप्रियो भ्राता यस्य हि रक्षणावेक्षणं तस्यैवाधीनं मृत्युशय्यामधिशेते। तस्मिन्दिने परित: स आलोकभासिता: सर्वा दिश: समलोकयत्, किन्त्वद्य घोरनिबिडेऽन्धकारे क्षीणक्षीणमेकं ज्योतिरालोकयितुमपि निराश:। अद्य हि महत्सङ्कटं तस्य। स्नेह: पापशङ्कीति कथानुसारं स हि प्रतिक्षणमाशङ्कते स्म तस्य जीवनज्योतिषो निर्वाणम्। स हि निजहृदय एव प्रश्रमकरोत् - 'यदि तज्ज्योतिर्निर्वाणमेव स्यात्तर्हि?’ हन्त हन्त कीदृग् भयानकोऽभूत्स प्रश्रो यस्य विचारमात्रेणाऽपि विमलस्य हृदयं विमूच्र्छितमिवाभूत्। नैतस्योत्तरमलभ्यत, अशुभश्रवणभयेन स एव वा नास्योत्तरं श्रोतुमैच्छत्। किन्त्वासंस्तानि यवनानां 'रमजान’ दिनानि। अत एव दूरे एको यवनभिक्षुरगायत्
'चुन चुन मिट्टी महल बनाया, लोग कहैं घर मेरा है।
ना घर मेरा ना घर तेरा, चिडिया रैन बसेरा है।।’
विमलेन तदिदमुत्तरं श्रुतं न वेति न विजानीमो वयम्, किन्तु तस्मिन्नेव समये पृष्ठदेशात्कोऽपि तस्य स्कन्धे हस्तं न्यदधात्। कोमलकरस्पर्शेनाऽनेन चकितोऽभूद्विमल:। परावृत्य दृष्टम्- सरला अवाङ्मुखी म्लानं तिष्ठति। अप्राक्षीद्विमल:- 'किमस्ति?’
सरला मन्दमुखमवादीत् - 'भानुर्न जाने किं प्रलपति’। विमल: किमप्यनुक्त्वा तत: प्रास्थित। प्रकोष्ठके समागत्य दृष्टं यद्भानुर्निद्राऽऽवेशे किञ्चिद्वदति। स हि समीपमागत्योपाविशत्। भानुर्निद्रायामासीत्संलपन्- ''...... महत् ........ मम ....... कर्तव्यम्। ......किन्तु अहं ......पूर्वमेव ......प्रस्थानं करोमि....भगवन्.....।’’
विमल: सधैर्यमाह्वयत् - 'भानो!’
भानुश्चकितमकम्पत। विमलोऽपृच्छत् - 'वत्स भानो! किं त्वमकथय:?’
भानुर्मौनी आसीत्। स हि विमलस्य मुखाभिमुखमालोकयन्नस्थात्। किन्तु त्वरितमेव प्रारभ्यन्त तस्य हिक्का:। अलक्षयदिदं सरला। अत एव सा धावित्वा भृत्यमवादीत्- 'डाक्टरं त्वरितमाकारय’। भृत्य आदेशपालनाय त्वरितमधावत्।
किञ्चिद्विलम्ब्य कथमपि नेत्रेङ्गितद्वारा भावं प्रकटयन् भानुरभाषत- 'साम्प्रतमहं प्रयाणोन्मुख:। किन्त्वैकमिदं प्रार्थये। मम जीवनस्य कर्तव्यभारो भवता वोढव्य: स्यात्।’
इदमुक्त्वैव स व्यलोकयद्विमलाभिमुखम्। आसीद्विमलस्तूष्णीम्। भानु: पुन: प्रावदत्- 'ममात्यन्तमनुतापोऽस्ति यत् यदर्थमहमिहाऽऽगाम् तमपूरयित्वैव गच्छामि। यदि भवाँस्तस्य पूरणं प्रतिजानीत तर्हि सुखेनाऽहं प्रतिष्ठेय।’
विमलो मायामुग्ध इव स्तब्धमतिष्ठत्। कश्चन दिव्यपुरुषो, योगी वा कश्चिदसाधारणं कार्यं किञ्चित्सम्पादयितुमस्मिन् कुटुम्बे समागच्छत्। काऽन्यथा त्रयोदशवार्षिकस्य बालकस्यैषा मति:? हन्तैवं विधस्य कर्मयोगिन: कत्तव्र्यभारं वोढुमस्ति मे शक्ति:? स हि भावानुप्राणित: स्वहृदये हस्तं निधाय व्यलोकयत्, आसीत्तत्साम्प्रतं वेगेन कम्पमानम्। सम्मुखे दृष्टं यद्बालस्य कनीयसो भ्रातु: कार्यं पर्वत इव विशालतमम्। विमल: स्वहृदयमामन्त्रयत - 'अपि त्वमेतत्कर्तव्यसाधने सम्भवे: सफलम्?’ किन्तु न किञ्चिदुत्तरमलभ्यत।
विमलमनेन प्रकारेण वाचंयममालोक्य भानुरुत्तेजितोऽभवत्। अवादीत्स:- ''आर्य विमल! तर्हि किमहं निराश: सन्नित: प्रस्थास्ये। अस्तु इदमपि मे सम्यगेव। यद्येवमेवाऽनुतापानलेन दह्यमानोऽहं प्राणान् विसृजेयं तर्हि मे पूर्णो विश्वासो यज्जन्मान्तरेऽहमात्मन: कर्तव्यमवश्यं पूरयितुं प्रभवेयम्। पूजनीयार्य! नायं भारो भवता स्वीकार्य:। इ...दा......नीं....दे.......हि.......मे........अनुम....तिम्।’’
विमलोऽल्पवयस्कस्य भ्रातु:, न हि नहि कर्तव्यायावतीर्णस्य कस्यचिद्योगिनोऽपूर्वमिमं प्रभावं महोत्साहं चावलोक्य स्तब्धोऽभूत्। न मुखात्तस्य किञ्चिदपि वाक्यमुदगच्छत्। किन्तु परक्षण एव महोत्साहस्य सङ्गत्या प्रारम्भिकमुत्साहमलभत, धैर्यं चाऽऽवालम्बत। हन्त पशोरिव निरुद्देश्यं मे जीवनं धिक्। येन हि महोत्साहपूरणीयं तत्कर्तव्यं न श्रुतं कर्णाभ्यामपि, दूरे कथा तत्सम्पादनस्य। अवादीद्विमल:- 'भ्रातर्भानो! अहं ते कार्यं प्रतिजाने।’
एतावत्समयान्तराले अभूद्भानोर्भावान्तरम्। स हि विच्छिन्नविच्छिन्नैरक्षरैरवदत्- ''नैव आर्य......प्रणामो........ मे/ ........ मम....कार्यं ........ म .........या..... सह........ भ्रातृजाये....... आर्य......मम.........अप .......रा...धा, प्र...ण’’ (एका हिक्का) अलम्।
सरला चीत्कारं कृत्वा भूमावलोठत्। चीत्कारं श्रुत्वैव डाक्टरमहोदयो द्वारादेव यथागतं प्रत्यावर्तत। विमलस्य न किञ्चित्प्रत्यभासत। आसीत्सर्वत्रान्धकार:।
भानुर्नास्मिन् संसारे। व्यतीतस्तस्य भूयान्काल:। किन्तु सृष्टे: सर्वाणि कार्याण्यविकलं पूर्ववत्प्रचलन्ति। सूर्य उदेति, अस्तं गच्छति। दिनं भवति, रजनी व्यत्येति। शीतलीकृतवप्रा शिप्रा कलकलं वहन्ती तथैवाऽविरामं वहति। उज्जयिनीवासिन: सर्वेऽपि सानन्दमनुरक्ता: संसारयात्रायाम्। भगवतो महाकालेश्वरस्य मन्दिरं सायं प्रातस्तथैव 'हरीओम् हर’ ध्वनिभिर्भवति मुखरितम्। सायं आर.एम.शाखाया रेलशकटिर्नियतमुपतिष्ठति। भानुं विना न किञ्चित्कार्यमवरुद्धं दृश्यते।
सायमासन्नम्। अवसानवेलायामुपशमशाली भगवानंशुमाली प्रसादयति रक्तै: करै: पश्चिमां दिशम्। शोभया सर्वनगरीणामुज्जयिनी सेयमुज्जयिनी सौधशिखरेष्वावहति रक्तां रुचम्। नागरिका: शिप्रातटेष्वारामनिकटे सानन्दमासेवन्ते सान्ध्यं समीरणम्। विमल: साम्प्रतं पौरोद्याने शीतलाऽऽसन्दिकायामासीन: समवलोकयति गगनम्। व्यचिन्तयत्स:- 'आकाशमिदमनन्तम्। अहमप्यनन्तस्य गर्भेऽवस्थित:। भानोरात्माऽप्यतन्तस्य गर्भमधिवसति। तदा किमिति नाहं भानुं पश्यामि? आम् अवश्यं द्रक्ष्यामि। किन्तु कदा? अनन्तस्य गर्भे सन्त्यनन्तानि वस्तूनि। भानुरप्यनन्तवस्तूनामेकम्, अहमपि चैकम्। अनन्तेषु वस्तुषु कथमहमेकमन्वेष्टुं प्रभवेयम्? तर्हि किं करोमि? एतदर्थे किमहमप्यनन्ते विलीन: स्याम्? तदा ह्यहं भानुश्च द्वावप्येकतां प्राप्स्याव:, न भविष्यति तदन्वेषणस्याऽपेक्षा।
एतस्मिन्नेव काले समभूत्तस्य समाधिभङ्ग:। निरीक्षितं यन्निकट एव चूर्णविक्रेता सञ्चरतां चित्तावर्जनाय चरुति चारुचाटूनि चण्डस्वरेण। विमलस्तत उत्थाय गृहमागात्। शिरोवेदनाव्यपदेशेन भोजनमकृत्वैव शयनीयमाश्रयत्। सरला समीपेऽवस्थाय शनै: शनै: परामृशत्करेण शिर:। एवमवस्थायामेवाऽवातरद्विमलस्य नेत्रयोर्निद्रा। किन्तु विचारतरङ्गैर्नाभूद्विमुक्तस्तदापि। व्यलोकयदसौ स्वप्रे- यथा स हि गहने वने सञ्चरति। शनै: शनैरावृतमभूद् गगनं घनघटाभि:। प्रावहद् झञ्झा। निबिडेनान्धकारेणाच्छाद्यन्त दशदिश:। अवर्षच्च मुशलधारावर्षं पर्जन्य:। अन्धकारेण न हस्तो हस्तमलोकयत्। एतावतैव प्रास्फुरन्महता वेगेन विद्युत्। दृष्टं तेन तत्प्रकाशे भानुर्मुशलधारावर्षायामस्यां सानन्दमाऽक्रीडति बालचापलेन। दृष्टं च तेन यत्स: प्रकाममापिबति शीतलं पय:। निद्रायामेवाऽवदद्विमल:- 'भानो! किमिदम्? वत्स! मा क्रीड शीतले जले। रुग्णो भविष्यसि’।
भानु: प्रहस्याऽवदत्- 'हन्त नृशंस विमल! दीनं याचितोऽपि मम भवता तु न नाम निर्वापिता तृषा’।
विमल: प्रकाममनुतप्तं हृदयं कथञ्चिदवस्थाप्य प्राचलदग्रे। उत्कण्ठया सहसैवाऽयमशब्दायत- 'भानो! क्वासि?’। किन्तु झञ्झावातविक्षुब्धेऽस्मिन्नरण्ये केवलं प्रतिध्वनिरेवाऽयमश्रूयत- 'भानो त्वं क्वासि’।
इदानीं विमलस्तदरण्यमुल्लङ्घयितुमचेष्टत। शनै:शनैव्र्यलीयत घनघटा। भगवान् शर्वरीनाथ: पुनरात्मनो मनोरमं मुखमदर्शयत्। इदानीं दृष्टं विमलेन यन् मन्ये निर्जनेऽस्मिन्वने शैलमधस्ताद् द्वयोर्नद्यो: सङ्गम:। तत्र चैका सुभगवाटिका। वाटिकायामस्यामेकं कुटीरम्। वाटिकामध्ये कदलीकुञ्जेषु क्रीडन्ती शुभ्रस्फटिकशिलास्वापतन्ती, विटपि विटपानाकम्पयन्ती स्रवन्ती चैका द्वितीयस्यां नद्यामात्मानमर्पयन्ती भवति दृशोर्गोचरे। शान्तिकुटीरेऽस्मिन्नेको निषीदति युवा संन्यासी। विमलो वाटिकां प्रवेष्टुमैच्छत्। तस्य तमिमं भावं विज्ञायैव सन्न्यासी प्रावदत् - 'ज्येष्ठार्य विमल! नैतत्स्थलं कर्तव्यपराङ्मुखानां कृते। भवता मत्कर्तव्यं कर्णाभ्यामपि नाकर्णितं हन्त!’।
विमलश्चकितो भूत्वा उच्चैरवदत् - 'अये भानु:।।’।
विमलस्य निद्रा व्यगलत्। स हि शिरोभागे निषीदन्तीं केवलमलोकयत्सरलाम्। उदतिष्ठदयं सहसैव शयनीयं परित्यज्य। सरला प्रणयमधुरेणाऽपृच्छत्स्वरेण- 'किमस्ति?’।
विमल: कम्पितकण्ठमवदत् - ''वक्षसि व्रणोऽस्ति’’।
स्वावलम्बनम्
कश्चिद्व्यापारी निजपुत्राय किञ्चिद्धनं दत्वा व्यापाराय वस्तुसङ्ग्रहं कर्तुं विदेशं विसर्जयामास। गमनसमये स निजसुतमाश्वासयाञ्चकार- 'वत्स! ईश्वरोपरि कार्यस्त्वया दृढविश्वास:। स एव सर्वेभ्य: फलदाताऽस्ति। निजशक्तेरनुसारमुद्यमोऽस्माकं कर्तव्यम्’।
पूर्वकाले वर्तमानकालवत् वाष्पयान१ प्रभृतीनि नासन् वाहनानि। न च समाचारप्रेषणस्यैव तारयन्त्रादि२ वत्सुविधाऽभूत्। पादाभ्यामेव मार्गोल्लङ्घनं पुरा कर्तव्यमभूत्। अतएव स वणिक्पुत्र: पादचर एव गन्तव्यदेशं प्रति प्रातिष्ठत। एकदा मार्गे गच्छत एव तस्य रात्रिरुपतस्थौ। समीपे नाऽदृश्यत कश्चिद्ग्रामोऽपि। अतएव घोरे वन एव स्थातुं स विवशोऽभवत्। भयात्स निशि निद्रामपि न लेभे। सुरक्षितं वृक्षकोटरमधितिष्ठता तेन दृष्टं यदेक: शृगाल: समीप एव पतितोऽस्ति। रोगात्स तावदशक्तो यद् गन्तुमपि न सामथ्र्यम्। तं दृष्ट्वा तेन व्यापारितनयेन विचारितम्- 'अहो अयमत्यन्तं रुग्णोऽस्ति। नायं पदात्पदमपि गन्तुं समर्थ:। हन्त कथमयं वराको निजोदरं पूरयेत्? एवमेव गच्छति काले काऽस्य जीवनस्याशा।’
एवं विचारमग्र एव स मार्गश्रमान्निद्रामुपगतवान्। किन्तु किञ्चित्कालानन्तरमेव घोरात्सिंहगर्जनात्स जागरितोऽभवत्। भयाकुल: स कोटरे निभृतं व्यलीयत। एवस्मिन्नन्तराले स सिंह: कञ्चिद्वन्यपशुं हत्वा तन्मांसं बुभुजे। अवशिष्टमंशं तत्रैव त्यक्त्वा यथागतं वनान्तरमगच्छत्। सिंहे दूरं गते स वणिग्बालक: कोटरद्वारादपश्यत्- यस्मिन्स्थाने स शृगाल: पतितोऽभूत्तत्समीप एव सिंहेन स वन्यपशुव्र्यापादित:। सिंहगमनान्तरं मांसगन्धं प्राप्य रुग्ण: स जम्बुक: शनै: शनैस्तत्रागत्य तन्मांसेन निजोदरं पूरयामास, तत्रैव च सुखेन सुष्वाप।
व्यापारिबालकस्तदेतद् दृष्ट्वा सुविस्मितोऽभवत्। स मनसि व्यचिन्तयत्- 'अहो ईश्वर: प्रत्येकदशायामुदरपूरणाय यदा भोजनं ददाति तदा किमिति परिश्रमेणाऽस्माभिरात्मा पीडयितव्य:।’ विचार्यैव तदिदं स पराववृते गृहान्। निजभवनमुपेत्य सर्वमिमं वृत्तान्तं निजपित्रे निवेदयामास, प्रोवाच च- 'सर्वदैव यदा भगवानस्माकमुदरपूर्ति करोति तदा विफलेनास्माकमुद्यमेन किम्? विदेशेषु वस्तुक्रयणस्य विक्रयणस्य च परिश्रमं किमिति मुधा कुर्याम?’
एतदाकण्र्य पिता तूष्णीमतिष्ठत्, किन्तु क्षणानन्तरमेव पुत्रमशिक्षयत्- 'वत्स! यत्त्वया प्रोक्तं तदेतत्सर्वं सत्यम्। किन्तु जाने त्वं बुद्धिमानसि। वद त्वमेव, किं त्वं रुग्णशृगालवत् निजजीवनमन्येषामुच्छिष्टेन निर्वाहयितुं वाञ्छसि, आहोस्वित्सिंहवत्? अहं तु वाञ्छामि यत्त्वं सिंहवत् स्वावलम्बनो भवे:। अतएवायमुपदेशो मम यत्त्वं शार्दूलवत्स्वयमेव निजभोजनमुपार्जये:, अन्येभ्यश्च तदवशेषं प्रयच्छ। येन तव सर्वत्र प्रभावो व्याप्रुयात्’।
पितुरिमां शिक्षामाकण्र्य विचारशील: स व्यवसायिबालको मनसि भृशं ललज्जे। नैतदनन्तरं स विचारमेवम्विधं चकार। व्यवसायव्याषृत: स महद्धनं प्रभूतं च यश: प्रापत्।
सिंहवत्स्वयमुद्योगी परेषामाश्रयो भवेत्।
परोच्छिष्टोपजीवी तु गह्र्यो रुग्णशृगालवत्।।
स्वामिभक्त:
(१)
ज्येष्ठमासस्य प्रखरो मध्याह्न:। सूर्यस्य किरणा वह्निमिव वर्षन्ति। जननिवासाद् बहि:, कान्तारे१ वह्निं वर्षता तप्तवायुना सर्वथा निरुद्धो लोकानां सञ्चार:। एतस्मिन्नेव घोरतरे मध्याह्ने जीर्णमश्वमारूढ: कृषीवल एक: शून्यं वनमुल्लङ्घयन्नवलोक्यते। अयमापादमस्तकं स्वेदै: स्नात:। तप्तबालुकया दग्धो घोटकोऽपि दीनदीनं सञ्चरति। सर्वत: कष्टमिदम्, यदस्य पालित: कुक्कुरोऽपि एतस्यानुगमने साम्प्रतमसमर्थ:। सशब्दं नि:श्वसतोऽस्य जिह्वातो जलबिन्दवो निपतन्ति।
शुनो२ऽश्वस्य च तामिमां दशामवलोक्य नैकपदमपि गन्तुमशकत्कृषीवल:। मार्गस्य समीप एव वृक्षगुल्मे३ विलश्रमं कर्तुं विवशोऽभवत्। घोटकं वृक्षमूले निबध्य, तत्पल्याणं४ च भूतले प्रस्तार्य, तदुपरि स विशश्राम। तत्समीप एव विह्वल: कुक्कुरोऽपि न्यषीदत्।
(२)
एष पथिक: काञ्चनपुरस्य प्रतिष्ठित: पट्टकिल:५। वंशपरम्परातोऽस्य ग्रामे मुख्यता समागच्छति। अयमासीत्पूर्वं धनिक:, किन्तु न साम्प्रतं तादृशी स्थिति:। अतर्कितं६ प्रवृत्तया धान्यस्य समर्घतया७ बाढमस्य क्षतिरभूत्। भूमिकर८मप्यसौ सम्प्रति शोधयितुं नाऽलम्। ग्रामाधिकारी च भूमिकरमप्राप्य एतस्य कृषिमेव प्रत्यबध्रात्९। अतएव वराको ग्रामान्तरादृणं कृत्वा प्रभूतं च धनमादाय भूमिरक्षानिमित्तमस्मिन् घोरे मध्याह्न एव मार्गमुल्लङ्घयति।
भूमेरपगमनचिन्तया बह्वयो रात्रयोऽप्राप्तनिद्रस्यास्य व्यतिगता:। ग्रामान्तरं गतस्यापि नाऽभून्निद्राऽवकाश:। अतएव दूरतरमार्गोल्लङ्घने परिश्रान्त: सोऽयं साम्प्रतं निद्रां लब्धवान्। यदा ह्यस्य प्रबोधोऽभवत्तदा दृष्टमनेन यत्स्वल्पमेवाऽवशिष्टं दिनस्य। रजनिभयाद्भीतोऽसौ तत्कालमेव घोटकोपरि पल्याणमासज्ज्य द्रुततरमारूढोऽसौ ग्राममार्गमनुससार।
१. जङ्गल। २. कुक्कुरस्य।
३. 'झुरमुट’। ४. घोड़े की पीठ का बिछावन।
५. 'पटैल’। ६. अचानक।
७. 'सस्तापन’। ८. जमीन का लगान।
९. प्रतिबन्धनम् अकरोत्।
किञ्चिद्दूरं गत्वा दृष्टमेतेन यत् कुक्कुरो न मामनुसरतीति। मार्गे स्थितोऽसौ श्वानमाह्वातुं सीत्कारध्वनिमकरोत्, नामग्राहं१ चाऽशब्दायत२, परं नागच्छत्तस्य कुक्कुर:। इदानीं घोटकादवतीर्य अत्युच्चस्वरेण तन्नाम गृहीत्वाऽऽह्वयदसौ। किञ्चित्कालानन्तरं दृष्टमनेन यत् कुक्कुर: समागत: परं पुन: प्रतिनिवर्तते। तमपि च प्रतिनिवर्तितुमिङ्गितं३ कुरुते। कुक्कुरस्य सङ्केतं बोद्धुमप्रभवन्नयं सहाऽऽगमनाय तमाज्ञाप्य सत्वरं चलितुमारेभे।
(३)
आसीत्सन्ध्या सन्निहिता। शून्येऽस्मिन्मार्गे लुण्टाकानां चाऽभूत्प्रचुरं भयम्। अत एवान्धकारं दृष्ट्वा भयभीतोऽसौ शीघ्रमेव ग्राममवाप्तुं मनश्चक्रे। किन्तु कुक्कुर: प्रतिनिवृत्त्य वारं वारं तत्रैव गन्तुमैच्छद् यत्र तेन मध्याह्नो व्यतिगमितोऽभूत्। परं तत्त्वमज्ञात्वा क्रोधाविष्टोऽसौ लगुडेन तं सवेगमाजघान। हन्त! दण्डाघात: कुक्कुरस्य शिरसि पपात। अतएव रुधिरं क्षरन्नसौ तत्रैव निपपात।
शिरसि पतितं दण्डमवलोक्य भृशं पश्चात्तापोऽभूत्कृषीवलस्य। परं किं भवेत्सम्प्रति? क्रोधान्धो यन्न कुर्यात्तदेव न्यूनम्। किन्तु कीदृशस्य कुक्कुरस्योपरि तेन दण्ड: प्रक्षिप्त इति न साम्प्रतमसौ वराको जानाति। अस्तु, अनुतापतप्तं हृदयमावहन्नयं त्वरितमेव ग्रामाभिमुखो बभूव।
घोटकमुत्प्लावयन्नसौ४ शीघ्रमेव निजग्राममाजगाम। आसीत्सर्वतोऽप्यन्धकारसाम्राज्यं सम्प्रति। गृहस्वामिनश्चिन्तायां सर्वेऽपि गृहजना अभूवन्नुत्कण्ठिता:। अतएव गृहागतमेनं सर्वेऽपि साऽऽमोदं पर्यवारयन्५।
पल्याणस्थं वस्तुजातं यावदसौ अवतारयति, तावदेवाऽस्य, शरीरं कम्पमानमभूत्। नेत्रयोश्चान्धकार: प्रासरत्। दृष्टमनेन- ऋणं कृत्वा यद्धनमसावानीतवान्, तस्य ग्रन्थिर्नास्ति पल्याणे! हा हन्तेति कृत्वा विषण्णोऽसौ भूमावपतत्। गृहजनाश्चकिता भूत्वा कारणमस्य पर्यपृच्छन्। अश्रुगद्गदया गिरा सर्वमयं संक्षेपेणाऽवदत्। बहुधा विचारयन्नप्यसौ न निश्चेतुमपारयद् यद्धनग्रन्थि: कुत्र गता? नासौ मार्गेऽपतत्, नापि वा केनचिदपहृता।
वृद्धानां मन्त्रणयाऽस्यापि शङ्काऽभवत् यत् सा ग्रन्थि: कदाचित्तत्रैव विस्मृता यत्र मध्याह्नोऽतिवाहित:। यदा च कुक्कुरस्य पुन: पुन: परावर्तनवृत्तं तेन कथितं तदा तु सर्वैरेव निश्चितं यद् ग्रन्थिर्विश्रमस्थल एव पतिताऽस्ति। अतएव तु कुक्कुरस्तदानयनार्थं मुर्हुमुहु: सङ्केतमकरोत्।
१. नाम गृहीत्वा (अर्थात् नामग्रहणपूर्वकम्)।
२. शब्दं करोति शब्दायते। तस्य लङि (अनद्यतनभूते) अशब्दायत, 'नाम लेकर आवाज दी’।
३. इशारा।
४. दौड़ाता हुआ। उत् + प्लु, प्रेरणार्थक (शतृ)।
५. परि + वृ (प्रेरणार्थक)। वर्त. परिवारयति। अनद्य.बहु. पर्यवारयन्।
(४)
सुदृढान् सहायकान् सहाऽऽदाय काचदीपिका१सनाथोऽसौ तत्क्षणमेव तदानयनार्थं परावर्तत। समस्तेऽपि विपिने घोरस्यान्धकारस्य राज्यमासीत्। नास्मिन्समये दृढहृदयोऽपि पुरुष: स्थानेऽस्मिन्गन्तुमग्रेसरो भवेत्, किन्तु निजप्रयोजनव्यग्रा एते कस्मिन्नपि भये दृष्टिमनिक्षिप्य तस्यैव स्थानस्य समीपगता अभवन् यत्र कृषीबलेन मध्याह्नोऽतिगमितोऽभवत्।
काचदीपिकाभाजनमग्रे कृत्वा यथैव तैस्तदिदं स्थानमवलोकितं तथैव कश्चन पशु: शयानस्तैरालोकित:। सहसा तेषां भयमभवत्, किन्तु सावधानदृष्ट्या यदा स्वामिनाऽवलोकितं तदा दृष्टं यत्तस्यैव स्वामिभक्त: कुक्कुरस्तस्या रूप्यकग्रन्थेरुपरि द्वावपि चरणौ मस्तकं च निधाय भूमौ पतितोऽस्ति!
यदाऽसौ कृषीवलेन सबलं दण्डेनाऽऽहतस्तदा वराकस्याऽस्य शिरो विदीर्णमभवत्, मूच्र्छा च समभवत्। कियतापि कालेन तस्य किञ्चिन्मात्रमेव संज्ञा, क्षीणतमा शक्तिश्च समभवत्। यथा कथञ्चित् शनै: शनैश्चलन्नसौ स्वामिनो धनरक्षायै अस्मिन्नेव स्थाने समागमत्। मस्तकाद्रुधिरं प्रवहदासीत्, किन्तु निर्गच्छत: प्राणान् यथाकथञ्चिन्निरुध्य ग्रन्थेरुपरि विसंज्ञोऽपतत्।
स्वामिना तन्नाम गृहीत्वा यथैवोच्चस्वरेणाऽऽहूतं तथैवाऽसौ अतिकष्टेन नेत्रे उन्मील्य विलोकयामास। स्वामिभक्तिपूर्णयोस्तन्नेत्रयोर्मध्ये तस्मिन्समये एक: सफलतागर्व इवाऽखेलत्। मन्ये, स नि:शब्दं कथयति स्म- 'हे स्वामिन्! प्राणानपि बलान्निरुध्य यद्धनं मया रक्षितं तद् गृहाण सम्प्रति, देहि च मह्यं परलोकप्रस्थानस्याऽनुमतिम्’।
शोककारुण्यवत्सल्याऽऽकुल: कृषीवलो हा हेति कृत्वा तमेनं हृदये जग्राह। अतिकष्टलब्धाया धनग्रन्थेरुपर्यपि तस्य दृष्टिर्नासीत्तस्मिन्समये। किन्तु स्वामिभक्तस्याऽस्य नयने एकवारमुन्मील्य चिरकालार्थं निमीलिते अभूताम्।
१. लालटैन।
दीक्षा
(१)
''पुरुषो वा स्यान्नारी वा भवेत् आत्मन: परसात्करणे तिरस्करणे वा न तस्य स्वातन्त्र्यं नूनम्। मानवो हि परमेश्वरस्य प्रमुख: सर्ग:, विश्वस्मिन्ननुपमा शक्ति:। तस्य स्वातन्त्र्यचूर्णने न मनुष्यस्याऽधिकार:। शिक्षा ह्येषा मनुष्यस्यात्मानमुचितानुचितविवेकिनं शक्तिशालिनं च निर्माति। यदि शिक्षितोऽपि निजस्यात्मन: सत्वानि नावधारयति तर्हि किं कृतं शिक्षया? अत एव शिक्षितस्त्रीसमाजे निजाधिकाररक्षाया: प्रश्र: साम्प्रतं प्रवृत्तोऽस्ति, यमादायाऽस्माकं समाजे नानारूपेणटीकाटिप्पण्योऽपि प्रचरन्ति। किन्त्वात्मनो हितं स्वयमिदं विचारणीयं स्त्रीजातेरेव।’’ सगौरवमिदमगादीदुच्चशिक्षिता बाल्यसखी सरोजिनी।
भालबिन्दुं शिर:सिन्दूरं च दर्पणेन यथास्थानमारचय्य देवपूजासंविधानमायोजयन्ती अन्नपूर्णा सस्मितविनयं प्रत्यवादीत्- ''सखि शिक्षितानां वार्तां वेत्ति किल शिक्षित एव। सहपांसुक्रीडासख्यपि न चाहं तथा। आजन्मनो यादृशे समाजे परिपालितास्मि तादृशैरेव विचारैर्मे परिचय:। कथमहमेतावद्बोद्धुंशक्रुयाम्?’’
सरोजिनी - भगिनि! मैवं मां प्रतारयस्व। अन्य: कदाचिन्न जानीयात्परमहं शैशवादेव ते विचारगम्भीरतां वेद्मि। पुस्तकरटनाभावेऽपि भवन्ति केचिन्निसर्गादेव परिष्कृतात्मान:, इत्यहं जाने तावत्। तत एव तवात्मनो महत्त्वमालोच्यैव चर्चामिमां प्रचालितवत्यस्मि। अस्तु साम्प्रतमहं याचे गमनानुमतिम्।
अन्तर्गृहादश्रूयत- ''वधु! अपि मङ्गलकलश: सज्जीकृत:?’’ ''आम् मात: यथास्थानं स्थापितोऽसौ मया।’’
एकमासस्यावकाशमादाय पद्मनाभो निजगृहमागमत्। किन्त्वपरिज्ञातमेवाव-काशदिनानीमानि व्यत्यगमन्। अवकाशसमयश्चिरादेवमेव व्यतिगच्छन्दृष्ट:। अद्य सायं पञ्चवादने पद्मनाभ: स्वकार्यस्थले कुर्यात्प्रस्थानम्। अत एव स्नेहमयी जननी पुत्रस्य शुभकामनया माङ्गलिकानुष्ठानेषु व्यापृता। सा ह्यपृच्छत्पुत्रवधूमन्नपूर्णाम्- 'अपि जलकलशं स्थापितवत्यसि?’
वारिपूर्णस्यैकस्य घटस्य मुखे एकामाम्रशाखां द्वे बिल्वपत्रे कुसुमकुङ्$कुमं चाभिचच्र्य वधू: प्रत्यवदत्- 'आम् मात: स्थापितवत्यस्मि।’
पुत्र: पद्मनाभ: पूर्णकुम्भस्य पादमूले प्रणामं कृत्वा मातुश्चरणधूलिमनयन्निजशिरसि। तत: स्नेहशीलाया: प्रेममयमूर्ते: पत्न्या: सकाशाद् गमनानुमतिमादातुमुपातिष्ठत। एक: पञ्चवार्षिक: पुत्र: द्विवार्षिकी चैका कन्या जनन्या हस्तमवलम्ब्य पितुमुखमवलोकयन्तावतिष्ठताम्। नासीत्कस्यापि मुखे वार्ता, सर्वे नीरवा:। पद्मनाभस्य चक्षुषी वारिपूर्णे अभूताम्। बालकबालिकयो: कपोलमाचुम्ब्य, पद्मनाभो वाष्पगद्गदकण्ठ: पत्नीमाभाषत-'प्रिये! मे प्राण:.....’
अन्नपूर्णा नाशक्रोत्प्रतिवदितुम्। स्वामिनो मुखाभिमुखमलोकयत्केवलम्। पद्मनाभोऽवदत्- 'पुनरहं शीघ्रमेव गृहमायास्यामि। त्वां विरहय्य कियत्कालमहंस्थातुं शक्रुयाम्’ चक्षुषी प्रमार्जयन्पद्मनाभ: प्रकोष्ठात्प्रस्थानमकरोत्।
अमावस्याया निबिडतममन्धकारराशिं हृदये आवाह्य विषादशीर्णाऽन्नपूर्णा तस्मिन्नेव स्थाने न्यषीदत्। व्यचारयत्- 'सर्वदैव तु विदेशं प्रत्येवमेवगच्छन्ति। तर्हि किमित्यद्य मेऽन्तरात्माऽभूतपूर्वभावेन नीरवं रोदिति? स्वयमुद्भूतयाऽमङ्गलाशङ्कया न जाने किमिति मे प्राणा वेपन्ते। दयामय भगवन् किमिदम्?’
(२)
गच्छत्सु कतिचिद्दिनेषु समलभ्यत संवादो यत्पद्मनाभो रोगशय्यामधिशयित:। गृहे प्रावर्तत हाहाकार:। पद्मनाभस्य जननी वत्सतरवियुक्ता गौरिव यथाकथञ्चिद् गृहमध्यतिष्ठत्। अवशेषे स्नुषया सह परामर्शं विधाय पद्मनाभस्य कार्यस्थाने यात्रां विधातुमुद्युङ्क्त, किन्तु नाशक्रोद्गन्तुम्। शीघ्रमेव संवादोऽलभ्यत- 'पद्मनाभो ग्रन्थिज्वरेणाक्रान्त: प्राणानत्याक्षीत्’। जननी कात्यायनी धूलौ निपत्योन्मादिनीवाऽकार्षीच्चीत्कारान्। पतिप्राणाऽन्नपूर्णा विसंज्ञा भूत्वा भूपृष्ठे व्यलोठत्। हा हन्त! अनयैवाशङ्कया मन्ये पतिव्रताया अस्या: प्राणा: पूर्वत एवाऽक्रन्दन्।
(३)
दिनत्रयोत्तरमन्नपूर्णाया ज्ञानसञ्चारोऽभूत्। तदा हि सा शनैर्नयने समुन्मील्य परितोऽपश्यत्। दृष्टं तया पुत्रकन्ये समीपावस्थिते सदैन्यं क्रन्दत:। गृहेऽनेका: स्त्रिय: समवेता:, सकलानामेव मुखं विषादाच्छन्नम्। विस्मितनयनमन्नपूर्णा सर्वासां मुखाभिमुखमवालोकयत्, किंतु परस्तादेव सा कथा, सर्वनाशस्य स संवादो विद्युद्वेगेन तस्या हृद्यजागरीत्। अन्नपूर्णा पुनश्चैतन्यं हारयित्वा भूमावलुठत्।
प्रतिवेशिनीनां यत्नैरन्नपूर्णाऽचिरमेव चेतनामलभत। तदा श्वश्रू: कात्यायनी वध्वा मुखे जलमासिच्याऽवदत्- 'वधु! उत्तिष्ठ, व्यतीतानि त्रीणि दिनानि, न त्वया जलमपि मुखे कृतम्। हा हन्त! मानुषस्य कपाले एवमपि वेदना विलिखिता:।’
कात्यायनी विवशमक्रन्दत्। अन्नपूर्णाया: पुत्रकन्ये मातु:शरीरं हस्तेन परामृशन्त्यौ गद्गदमवदताम्- 'मातरुत्तिष्ठ, भुङ्क्ष्व सम्प्रति’।
अन्नपूर्णोदतिष्ठत्, किन्तु न कोऽपि तां किमपि भोजयितुमपारयत्। पूर्णनिदाघस्य जलपूर्णो मेघखण्ड इव शनै: शनैरुत्थायाऽन्नपूर्णा जनशून्यमेकं गृहमाविश्य अन्तर्भागात्पिदधौ कपाटाभ्याम्। ततो भूमितले लुठन्ती, बाष्पधाराभिर्धरणिमासिचन्ती दीनतरमवादीत्- ''स्वामिन्, प्रभो! दैवत! व्यतीतान्यद्य त्रीणि दिनानि। त्यक्तवानसि दासीमिमाम्। यदि गतोऽसि, सुखं गच्छ, दास्यपि सेयं त्वामनुगच्छेत् किन्तु यस्मिन् लोके त्वं गतोऽसि, किमहं तं लोकं प्राप्तुं शक्रुयाम्? तं लोकमुपगन्तुं किमहमधिकारिणी? मा मैवम्। नाहमधुना देहं परित्यजेयम्। पूर्वं साधनाबलेन त्वद्दर्शनं लब्धुं योग्यतां सम्पादयेयम्, तत: पाञ्चभौतिकमिदं भाण्डं भुङ्क्त्वा भवन्तमनुसरेयम्।’’
अन्नपूर्णा उदतिष्ठत्। चक्षुषी अपरिमृज्यैव बद्धाञ्जलिरगदत्- 'त्वं मे इष्टदेव:, त्वमेव मे धर्म:। अद्यारभ्य यावन्ति दिनान्ययं देहस्तिष्ठेत् तावदिमामेव योगसाधनामनुतिष्ठेयम्। अन्तरिक्षे क्वावस्थितोऽसि प्रभो! देहि मह्यमाशीर्वादं येन दास्या: साधना सेयं सर्वथा सिध्येत्।’
अन्नपूर्णा नेत्रे प्रमृज्य साम्प्रतं गृहादभ्युत्थिताऽभूत्।
(४)
दिनानि यथा व्यतियन्ति तथैव व्यत्यगु:। भानुदेव: किरणान्प्रसार्य यथैव भूमिमुद्भासयति स्म तथैव साम्प्रतमप्युद्भासयति। निशीथे सुनीलनभ: समाश्रित्य समोदं स्मयमान: शशधरो यथापूर्वं जगति माधुर्यं विकिरति। गन्धवाहस्तथैव लीलाखेलया प्रवहन्विचरति चतुर्दिक्। मानवस्तथैव हसन्विलसन्विहरति सर्वत:। न कोऽपि कञ्चित्प्रतीक्षते। एकजनस्य सर्वनाशेऽपि सृष्टेर्न कश्चिद्व्याघात:।
संसारे नास्ति पद्मनाभो तथाप्येको वत्सरो व्यतिययौ। समयो नातिष्ठत्प्रतीक्षायाम्। सृष्टेर्नाऽघटत कश्चिद्व्याघात:। सर्वमपि तथैव प्राचलत्, केवलं शोकशीर्णाऽन्नपूर्णा सधवावेशं विमुच्य ब्रह्मचारिणीवेषमदधात्। अन्नपूर्णायां नाधुना यौवनजन्यं चाञ्चल्यम्। चाञ्चल्यमिदं पराहत्य प्रौढोचितं गाम्भीर्यमिदानीं खेलति, यथा प्रावृड्जनितस्य प्रचण्डजलताण्डवस्योत्तरं गभीरा प्रसन्नता भगवतीं प्रकृतिमधिश्रयति। अन्नपूर्णा तामेव प्रसन्नतां वक्षसि वहन्ती विचरति संसारयात्रायाम्। मन्ये, नासीत्तस्या: पूर्वमेतावद्रूपम्। निराभरणाश्वेतवसना स्वामिध्याननिषण्णाऽन्नपूर्णा प्रतिदिनमुद्भासितेव भवति सौन्दर्येण। हन्त को वा वदेदलङ्कारै: परिवद्र्धते रूपमिति।
अन्नपूर्णा श्वŸवा आदेशेन सांसारिनककार्येषु नृत्यति पुत्तलिकेव, किन्तु निजस्य कर्तव्यं न विस्मरति मुहूर्तायापि। अरुणोदयात्पूर्वमेव उद्यानोद्यानेषु परिभ्रम्य चिनोति सा पुष्पाणि। ततश्चन्दनमुद्घृष्य स्वामिनोऽर्चनाय सा तिष्ठति। यस्मिन्दिने सा बहूनि कुसुमान्यलभत तस्मिन् पुष्पहारमेकमागुम्फ्य परिधापयति स्म सा स्वामिनम्। अवशिष्टमेकमेकमपि पुष्पमाचित्य स्वामिनश्चरणोद्देशे सा समार्पिपत्। हन्त न सा समार्पयदेकमपि जगदीश्वराय।
कदाचित्कदाचिद्दिवा द्वितीयप्रहरे पुत्रकन्यादीनामाहारं परिसमाप्य द्वितीयवारमन्नपूर्णा पूजायामुपाविशत्। कदाचित्कदाचित्तस्या: पूजैव न समपद्यत्त, आन्तरिकाश्रुप्रवाहे सर्वमितस्तत: प्रावहत्। तस्मिन् समये मुद्रितात्तस्या नयनयुगलात्प्रवहन्ति वाष्पधारा यदा ह्यञ्जलिनिषण्णं पुष्पनिचयमसिचत्तस्मिन् समये यस्य सौन्दर्यस्य सृष्टिरभूरत्तद्धि गगनस्य गात्रे, प्रकृतिदेव्या वक्षसि केवलं चित्रितमलक्ष्यत। परतोऽन्नपूर्णा यदा ह्यश्रुसिक्तं चन्दनचर्चितमिमं पुष्पाञ्जलिं मानसमन्दिरस्थापितस्य पतिदेवस्य चरणोद्देश्ये भक्तिप्लुतहृदयमर्पयति स्म तदा ह्यभवन्मनसि यदिदं चित्रं हिन्दुमहिलानां हृदयं व्यतिरिच्य न क्वचित्त्रिभुवनेऽपि चित्रितं शक्येत विलोकयितुम्।
(५)
'पुत्रि! कथमहमाहूत:?’
'गुरुदेव महति सङ्कटे पतितास्मि’
'कीदृशं सङ्कटम्?’
'पुत्रं हारितवत्या: सम्प्रति पुत्रवधूं नीत्वा मे सङ्कटम्।’
'पुत्रवधूं नीत्वा सङ्कटम्? कीदृशं तत्?’
कात्यायनी नेत्रयोर्जलमञ्चलेन परिमृज्य प्रत्यवदत्- 'वधूर्न खादति पिबति, न गृहं निरीक्षते न पुत्रकन्ये विलोकयति, न जाने कथमुन्मत्तेव सञ्जाता।’
गुरुदेव: सशब्दं नासिकायां नस्यमापूर्य, सगाम्भीर्याभिनयमददादुत्तरम्- 'वधू: पतिशोकाभिभूता सञ्जाता, सम्प्रति तद्व्यवस्था न: कर्तव्या’।
कात्यायनी - कां व्यवस्थां करिष्यसि?
गुरु - मन्त्रदीक्षां दास्यामि।
कात्यायनी - यथा रोचते। कदा सा दीयेत?
गुरु - श्व एव शुभदिनमस्ति। तद् यतस्व सामग्रीमायोजयितुम्।
गृहिणी दीक्षोपकरणानामायोजने व्यापृताऽभवत् किन्तु न किञ्चिदवादीदन्नपूर्णाम्। अन्नपूर्णाऽप्यसौ न किञ्चिदज्ञासीद्रहस्यम्।
(६)
परदिने प्रातरेवाऽन्नपूर्णा स्नानं समाप्य पुष्पचयने प्रावर्तत। अद्य बहूनि पुष्पाण्यलभ्यन्त। अन्नपूर्णा करण्डिकामापूर्य परावर्तत भवनम्। पूजागृहे निभृतमुपविश्य, एकाग्रचित्तप्रारभत मालां ग्रथितुम्। मालामुपग्रथ्रन्त्यास्तस्या: कण्टकै: सूच्या च हस्त: क्षतविक्षतोऽभूत्, किन्तु नास्योपर्यन्नपूर्णाया दृक्पात:। सा परावृत्त्याऽप्येकवारं नाऽपश्यत् यत् शुभ्रकायाया मल्लिकाया अङ्गं रुधिररागेण कथमभूद्रञ्जितम्, पाटलवर्णाऽपि पाटला रक्तोपलिप्ता भूत्वा सन्ध्याभ्रकपिशा नूनमुषा इव कथं दृश्यते इत्यादि नासीदन्नपूर्णाया: कुतोऽपि मनोयोग:। स्वामिनश्चरणयुगलं ध्यायन्ती सा मालाग्रथनं समापयत्।
ततश्चन्दनघर्षणम्। स्वामिचरणार्पितचित्ततया चन्दनं घर्षयन्त्यास्तस्या: सहसैव प्रतीतमभूद्यत् पाषाणफलके स्वामिनश्चरणम्, चन्दनकाष्ठे स्वामिनश्चरणम्, घर्षितचन्दने स्वामिनश्चरणम्। तस्या: समस्ताऽपि देहलता पुलककुलकै: कण्टकिताऽभवत्। चन्दनघर्षणाद्विरता सा पाषाणफलकाभिमुखं विलोकयन्ती निश्चलमतिष्ठत्। एतावत्परिश्रमेणावघृष्टश्चन्दनोऽसावशुष्यत्। सयत्नं ग्रथिता पुष्पमालाऽम्लायत्। सायासमवचित: कुसुमराशिरुपेक्षितोऽभवत्। अन्नपूर्णा निविष्टचित्तमनन्यकर्मा सती चन्दनघर्षणपाषाणफलकमनिमिषमालोकयन्ती निस्पन्दमतिष्ठत्।
क्रमात्पाषाणफलकोऽप्यन्तर्हितोऽभवत्। सम्प्रति केवलं चरणमवाशिष्यत। परिशेषे चरणोऽप्यदृश्योऽभूत्। सम्प्रति नाऽदृश्यत किञ्चित्। गगनं, पृथिवी, उद्द्योत:, अन्धकार:, पुष्पं चन्दनम्, स्वामिचरणं न किञ्चिदप्यवाशिष्यत। सर्वमपि कुत्रचिददृश्यभूत्।
अन्नपूर्णा भूम्यासनोपविष्टा, स्पन्दनरहिता ज्ञानशून्या। तस्या: शिरोऽञ्चलमवस्रस्य भूमावपतत्। विलुलित: सिक्तश्च तस्या: केशराशिर्भूमावलम्बत। तस्या देह: सुस्थिर:, नेत्रद्वयमद्र्धनिमिलितम्, श्वासो निरुद्ध।: अधरोष्ठो वियुक्त:। अन्नपूर्णा निजदेहं विमुच्य मन्ये प्रगता कुत्रचित्।
अस्मिन्नेव समये कात्यायनी तद्गुरुदेवमहोदयश्चोभावपि तस्मिन्कक्ष्ये समुपातिष्ठताम्। सम्मुख एवादृश्यत ताभ्याम् अन्नपूर्णाया ज्ञानशून्य: समाधिस्थो देह:। पुष्पं चन्दनं माला च सर्वमेकत: पतितम्। पूजाया उपकरणानि समन्तादितस्ततो विकीर्णानि। मध्ये च निष्कम्पमवस्थिता ज्ञानविरहिताऽन्नपूर्णा। नासीन्नयनयोर्निमेष:, न नासिकायां विश्वास:, न च देहे स्पन्दनम्। गुरुदेवो नीरवं नि:स्पन्दनयनं चाऽन्नपूर्णाभिमुखमवलोकयन्नतिष्ठत्कतिचित्क्षणन्। किन्तु गृहिणीनाऽपारयद्धैर्यं धारयितुम्। सा हि वध्वा अमङ्गलाऽऽशङ्कया सरभसमुपसृत्य तामेनामवलम्बितुमुद्यताऽभवत्। गुरुमहोदय इङ्गितेन गृहिणीं निवार्य मृदुस्वरेऽवदत्- 'वधू: सम्प्रतिध्याननिमग्रा, नैतस्या विघ्रमाचरे:।’
वार्तायामस्यां नाभूद्विश्वासो गृहिण्या:। यतो हि हरिनाममालां करे वहन्ती साऽपि प्राय: प्रत्यहं जपं ध्यानं च करोत्येव। किन्त्वेवं मृतमनुष्यस्येव नाऽस्या: कदाचिदपि जाताऽवस्था। प्रत्युत ध्यानावस्थायां तस्या बुद्धिशक्ति: कार्यतत्परता च तावत्प्रबला भवति यथा सा तस्यामवस्थायां गृहस्यायव्ययादिकं स्थिरीकरोति, बिडालकुक्कुरादेर्निभृतपदशब्दमपि शृणोति, शासनादावपि तेषां सा प्रभवति। मृताऽवस्था दूरे, प्रत्युत सा तस्यामवस्थायामधिकां सजीवतां लभते। अत एव सर्वमिदं परिभाव्य गृहिणी गुरुदेवस्य कथायामभूत्सन्दिहाना, परं तस्य शासनलङ्घने नाभूदस्या: साहसम्। किञ्चिदप्यनुक्त्वा वध्वा: पाश्र्वे वध्वा मुखं सोत्कण्ठमवलोकयन्ती निस्पन्दमवस्थिता।
गुरुदेव: शनै:शनैरुदतिष्ठत्, नि:शब्दपदसञ्चारं च समागच्छद् गृहाद्बहि:। इङ्गितेन चाऽऽह्वयदसौ निजशिष्याम्। कात्यायनी शिष्या समागत्य सविषादमतिष्ठत्समीपे। इदानीं गुरुदेवो मृदुस्वरमवादीत्, 'भवत्या: पुत्रवध्वा दीक्षा निष्फला’।
गृहिणी सविस्मयमगादीत्-'किमेतद् गुरुदेव?’
गुरु.-सा हि पूर्वत एव दीक्षिता समपद्यत। गृहिणी वस्त्राञ्चलमालम्ब्य मन्दं स्मयमानाऽवदत्-'नैवं गुरुदेव! वध्वा मन्त्रदीक्षा नाद्यापि समभवत्। नैतद्विजानाति तत्र भवान्।’
गुरु. - विधेहि मे वचसि विश्वासम्। सुस्पष्टमहं वदामि यज्जाता दीक्षा वधूदेव्या:।
कात्यायनी - तर्हि को मन्त्रं दत्तवान्? भवानहं वा?
गुरु. - न केनचिद्दातव्योऽसावभूत्। स्वयमिवमङ्कगतमलभत।
कथायामस्यां नाभवत्कात्यायन्या विश्वास:, किन्तु गुरुदेवस्तत्वमबुध्यत। स ह्यवदत्- 'शृणु भद्रे! गुरोर्वचसि नाऽविश्वासमारचयन्ति सन्त:। अहमस्मिन् सप्ततिवर्षात्मके वयस्यपि यत्कर्तुं न प्राभव सेयं क्षुद्रबालिका स्वल्पकाल एव तत्कर्तुमपारयत्। दिव्यतेजोदीप्ताया बालिकाया अमुष्या नावश्यकता दीक्षाया:।’
कात्यायनी - तदा श्रूयतां गुरुदेव! अहं हि निभृतमवस्थिता वधूदेव्या: सर्वामपि पूजामर्चनां च दृष्टवत्यस्मि। न कदाचिदप्यहं भगवन्तमाह्वयन्तीमिमामपश्यम्। न तुलसीं, न देवं विठ्ठलं, न वा जगन्नाथमहं प्रणमन्तीमिमामद्राक्षम्। या ह्येवं मूढा, धर्महीना कथमहमेनां वदेयं यदियं दीक्षां लब्धवतीति।
गुरु. - तर्हि त्वमेव वद! तव वधूरियं निस्पन्दमवस्थिता किं करोति?
कात्यायनी - किमियं करोतीति कथमहं शक्रुयां बोद्धुम्? किन्त्वस्पष्टं यत्किञ्चिद् ब्रवीति। मध्ये मध्ये 'स्वामी स्वामी’त्यप्याह्वानं करोति किन्तु न विस्मृत्यापि कदाचित् 'हरे हरे’ इत्यारटनमश्रूयत। तुलसीकाष्ठस्यैकां मालां भगवतश्चरणपूजां कृत्वा प्रादामहमस्यै, किन्तु न स्वप्रेऽपि सा तस्या हस्तगता दृष्टा।
गुरु. - वधूदेवी जपात्तपसश्चातीता। न्यास:, प्रणाम:, प्रणवो, धर्म:, कर्म वा त्वत्कृते मत्कृते वा। सम्मुखे यामेनां समाधिस्थामालोकयसि न तस्या: कृते। अपि बुद्ध भवत्या?
कात्यायनी- किं वा बोद्धव्यम या नारी देवानां नाम विस्मृत्य जीवनमखिलं स्वामी स्वामीत्येतावदारर
कात्या. - किं वा बोद्धव्यम्? या नारी देवानां नाम विस्मृत्य जीवनमखिलं स्वामी स्वामीत्येतावदारटनेनैव व्यक्षिपत् तस्या धर्मो मम धर्मापेक्षया श्रेयान्? किमिदमुपदिशसि देव?
गुरु. - वत्से विस्मरति भवती, आर्यसदाचारे स्वामिपूजैव नारीजन्मनि श्रेष्ठो धर्म:।