संधानम्
१. प्रास्ताविकम्
व्याख्यागम्यानि काव्यानि ते लिखन्ति विपश्चित:।
साधारणमहृद्यं च काव्यमत्र प्रकल्प्तिम्।।१।।
यदि नो शृणुते कश्चिद् यदि नैव पठत्यपि।
तेन मे किमिह च्छिन्नं विच्छिन्ने विकले भवे।।२।।
अवकाशविहीने ऽत्र जीविते बुद्बुदोपमे।
शाश्वती रचनाऽपूर्वा कथं वा परिकल्प्यताम्।।३।।
निःश्वासोच्छ्योः किञ्चदन्तराले स्फुटीभवत्।
लिखित्वा च लिखित्वा च स्वयमेव विनाशितम्।।४।।
स्वेदाञ्चितशरीरेण ग्लपितेनान्तरात्मना।
आवापोद्वापपूर्वं यद् रचितं चान्यथाकृतम्।।५।।
सृष्टेरत्र महायज्ञ आत्माऽध्वर्यु: प्रकल्पित:।
काव्यं तत्र हविर्भूतं तेन वै जीवनं हुतम्।।६।।
अन्धे तमसि कृत्स्नेऽत्र मुष्टिताड्ये विजृम्भिते।
शब्ददीपप्रभा क्षीणा कविनेह प्रकाश्यते।।७।।
२. शब्दनौका
न कविर्न मनीषी नो रसभावविचक्षण:।
आत्मन्येवात्मना संस्थो नष्टस्वप्नो हतप्रभ:।।१।।
विस्मृतव्यञ्जनालोकश्चाभिधावृत्तिमातृकाम्।
श्रित:, सोऽहमयं द्धैधभिन्नो द्वन्द्वसमाकुल:।।२।।
भवसागरविस्तारे ऽनन्ते ऽदृष्टतटे तथा।
शब्दनौकां निमज्जन्तीं नये नित्यं प्रयत्नत:।।३।।
उन्नायितो ऽयमुडुपो निमज्जंस्तु पुन: पुन:।
सारं सारमहो दूरं पारं हन्त न लब्धवान्।।४।।
इयं सा गुणनद्धापि निबद्धा रसवर्त्मनि।
अनास्थास्त्यानपङ्के ऽत्र नौकेयं मम सीदति।।५।।
प्रकृतिस्तु परामृष्टा प्रत्ययक्षेपणी धृता।
झञ्झाऽनर्थकरी किन्तु वृणुते वातमण्डपम्।।६।।
भ्रान्तिमद्भि: ससन्देहैर्विकटौघै: प्रघट्टिता।
शब्दनौका तरत्येषा साऽऽर्थद्वीपं प्रयाति च।।७।।
३. छन्द:सप्तकम्
प्रसुप्तानि चिरं गाढं छन्दांस्येतानि जज्ञिरे।
निद्रामुषसि सन्त्यज्य सन्नद्धा: श्रमिका यथा।।१।।
भित्तिरुन्नाम्यते स्थापमिष्टकास्विष्टका यथा।
छन्दसि च्छन्द आधाय तथा काव्यमजायत।।2।।
श्रमनिस्सहगात्रोऽपि नर: सन्नह्यते यथा।
क्षणमुच्छ्वस्य निःश्वस्य पुनरेव तु कर्मणि।।३।।
अवरुद्धान्यपीमानि स्यन्दन्ते च पुन: पुन:।
छन्दांस्युल्लसितानीह नवीभूतानि चेतसि।।४।।
पराया परमात् पाराद् गह्वरान्निर्गतान्यथ।
चक्षूंष्युन्मीलयन्ति स्म पश्यन्त्या भासितानि च।।५।।
अण्डं विदार्य निर्याता जातपक्षा विहङ्गमा:।
डयन्ते स्वैरमाकाशे कूजन्त्यन्योन्यमेलकम्।।६।।
उप्यमान प्रभूता स्यात् कृष्टि: क्षेत्रे सुसिञ्चिते।
साम्बाकृत्य मन:क्षेत्रे च्छन्दसां कर्षणं कृतम्।।७।।
४. उन्निद्रम्
हिमनि:ष्यन्दिनी प्रातर्वनस्थली भवेद् बहि:।
आकाशाच्च्यवमाना: स्युरज्ञातं वाष्पबिन्दव।।१।।
वासकक्षे ऽहमलसो निलीन: स्रस्तरोष्मणि।
न शोचामि न जानामि का दशा वर्तते बहि:।।२।।
तथापि शीतलो वायुर्विशन् वातायनाच्छनै:।
उद्वहंस्त्रसरेणूंस्तान् प्रतिसीरां तरङ्गयन्।।३।।
आवहन् विविधाञ्छब्दान् कर्णान्तिकं बहिर्भवान्।
शक्यमालिङ्गितुं त्वेष मनो विस्थापयन् मम।।४।।
काकस्य पक्षपुटयो: प्रस्तारात् सान्द्रमर्मर:।
दारयन् पवनं मन्दो रव आकर्ण्यते सृत:।।५।।
तल्पेऽनल्पवेगेन समुड्डीय विनिर्गत:।
उपर्युपरि पङ्क्तीनां विद्युत्तन्त्रस्य सोऽण्डज:।।६।।
इयं सा चीत्कृतवती चटका कर्णदारणम्।
गतरात्रे प्रसुप्ता या गवाक्षोपरि मे गृहे।।७।।
हन्ति भूय: स्वचञ्च्वाऽवासौ काष्ठे तत्र तुलाधृते।
नूपुरस्येव झङ्कारैर्वातायनाद् विनिर्गता।।८।।
वङ्गभूमेर्वनग्रामे पद्माया: पुलिने क्वचित्।
पुष्करे कर्दमक्लिन्ने शैवलाञ्चितवारिणि।।९।।
कमलानि प्रफुल्लानि मन्ये स्नातानि चातपे।
समुत्थिता यथा नृणां सन्नद्धा इव ते करा:।।१०।।
द्विचक्रवाहने दुग्धपात्राण्येष नयन् द्रुतम्।
छलच्छलरवैर्गोपो रणत्कारैश्च निर्गत:।।११।।
हत्यानृशंस संहार बलात्कारचयं घनम्।
प्राङ्गणे वृत्तपत्रं स्याद् दुर्भाग्यमिव सञ्चितम्।।१२।।
कार्यव्यग्रा विनिर्यान्ति मन्ये श्रमिककार्मिका:।
यथा यथा गवाक्षं मे शनैर्चटति भास्कर:।।१३।।
उत्थातव्यं मयाप्येव शय्यां स्वप्नं च मुञ्चता।
समाह्वयति झाङ्कृत्य गवाक्षान्मां प्रभाकर:।।१४।।
५. परावर्तनम्
एते बुक्कन्ति सन्ध्यायां रथ्याश्वानो हि सङ्गता:।
निर्मक्षिके निशीथे च कुर्वते फेरवा रवान्।।१।।
परायान्त्येव पापानि विहितानि पुरा क्वचित्।
समुत्कानि भवन्त्येव सङ्कुलानि तथान्तरा।।२।।
दिनं पुरा व्यतीतं यच्छ्मशाने भूमिसात्कृतम्।
उत्तिष्ठति तथाऽकस्मात् स्वप्नच्छेदान्नरो यथा।।३।।
अपावृत्य गवाक्षं मे मनसो झाङ्करोत्यथ।
उच्चै:कारं ब्रुवंश्चैवायमहं भो: समागत:।।४।।
६. सन्धानम्
अपि विच्छिन्नवस्तूनि सन्धीयन्ते क्वचित् किमु।
मृण्मयी पुष्पधानी सा भग्ना कुट्टिममार्जने।।१।।
शकला निहितास्तस्या गृहिण्या काष्ठविष्टरे।
सुबहून् दिवसान् यावन्निक्षेप इव रक्षिता:।।२।।
निधापितानि काव्यानि लेखं लेखं तु कर्गदे।
विलुप्तानि व्यतिकरे कस्मिंश्चिद् विस्मृतानि च।।३।।
विहिते चानुसन्धाने नैव लब्धानि तानि च।
आहितानीव संस्तस्थु: क्वचिच्चाबोधपूर्वकम्।।४।।
पिहितानीव सन्धान्यामावर्तन्ते मुहुर्मुहु:।
मनोगवाक्षं सम्प्राप्य कुर्वतेऽन्तसि दर्शनम्।।५।।
एकलो विचरंश्चापि विच्छिद्येत कथं जन:।
सन्धीयते समाजेन स्वैकान्ते ऽपि दृढं तु स:।।६।।
अभ्रङ्कषं समुड्डीनो स्वैरं मोमुद्यते पुन:।
पक्षी समुद्रपोतस्थो पोतं प्रति निवर्तते।।७।।
भ्रमत्कुलालचक्रेऽपि स्वयं याति पिपीलिका।
तथा समाजयात्रायां सङ्गतोऽस्मि पृथक् चलन्।।८।।
मधूकान्तर्विनिष्पेषनिष्यन्दीनि मधूनि वा।
सम्पीयन्ते विभज्यन्ते निधीयन्ते च मानसे।।९।।
आधानेन विधानेन सन्निधानेन चैव सा।
निर्मीयतेऽतिमहती परित: कापि संहिता।।१०।।
यद् यद वक्रं प्रकृत्यैव विच्छिन्नं चार्धमेव वा।
कृतसन्धानमपि तज्जायते च पुन: पुन:।।११।।
७. अनुभाव:
आवापोद्वापाभ्यां निर्मितमिह चान्यथाकृतं भूय:।
चित्रं विगलितरेखं समजनि भूयस्तथाप्येतत्।।१।।
जीर्णपत्रसञ्छन्ना धरणि: परितो बिभाति वन्यैषा।
मर्मरशब्दं पत्रं पद्भ्यामास्कन्दितं कुरुते।।२।।
क्रन्दन्ते पाण्डूनां पत्राणां सञ्चया अभित एते।
गुप्तं गोपितमथवा किसलयमिह लीयते क्व जातु।।३।।
गतीरवे संरुद्धे गुञ्जति चेतसि च तस्य झङ्कृतिरिह।
सरसि क्षिप्ते लोष्ठे तरङ्गवलया इव प्रसृता:।।४।।
अनुभावं स्वं पृथ्वी प्रकटीकुरुते तुषारलेखाभि:।
तेषु तेषु च भावेषु व्याप्तो य: खलु रसो वै स:।।५।।
८. जीवनवृक्ष:
वरं नश्यत् संसार: सकृन्मे सहसा ह्यसौ।
निपतत्वथ शुष्कं तत् पत्रं पुष्पमशेषत:।।१।।
स्थास्याम्यहमेकाकी स्थाणु: प्रेतवने यथा।
नग्नो निष्प्रभशाखश्च भस्मीभूतमनोरथ:।।२।।
यदि नैव समायाति रमणी मदविह्वला।
सीधुगण्डूषसेकेन प्लावितुं मम विग्रहम्।।३।।
तेन मे किमिहच्छिन्नं यदि नूपुरमण्डितै:।
रणत्क्वाणै: पदै: कापि मसृणं प्रहरेन्न सा।।४।।
दग्धकाष्ठ इव श्यामो ह्यसंस्तुतमनोरथ:।
तिष्ठाम्यत्र कपालीव हानिस्तेनापि किं मम।।५।।
नैवाहं कामये दीर्घं मरणं तु शनै: शनै:।
पत्राणां चैव पुष्पाणां विटपाद् गलनं शनै:।।६।।
वरं नश्यामि सहसा ज्वालाभि: कवलीकृत:।
विकीर्ण: कणश: सद्यो विलीये वलये भुव:।।७।।
अथवा नैव विनङ्क्ष्येऽहं परित्यक्तो जनैरपि।
भूतले मूलमस्त्येव निखातं सुदृढं मम।।८।।
नवपल्लवसम्भारान् पुष्पराशीन् समन्तत:।
इन्द्रनीलमणेराभां रचयिष्यामि वा पुन:।।९।।
जना निवर्तमानास्ते दग्ध्वाऽऽत्मीयं जनं चितौ।
छायां मम समाश्रित्य द्रक्ष्यन्ति स्पृहया च माम्।।१०।।
९. जीवन-व्याकरणम्
न गुणं प्रापिता: केचिन्नवा वृद्धिमुपागता:।
इतो लोप इव च्छिन्ना मनस्येव मनोरथा:।।१।।
उत्थिता: पतितास्तास्ता: प्रत्याहारविवर्जिता:।
क्विप्प्रत्ययनिभा आशा विलीयन्ते क्वचित् तथा।।२।।
सप्रत्ययपरामृष्टा: कृदन्तं गमिता अपि।
सकर्मका अहो जाता: सोपसर्गा: क्रिया वृथा।।३।।
विधिना च निषेधेन कर्माकर्मविचारितै:।
उत्सर्गेणापवादेन सकलं जीवनं गतम्।।४।।
न महाभाष्यसन्दृब्धं नाष्टाध्याय्यामुपागतम्।
कृत्स्नं व्याकरणं वेद जीवनस्येह क: सुधी:?।।५।।
१०. जीवनव्याज:
जीवनव्याजसङ्घातमाच्छिद्याच्छिद्य लीयसे।
अजस्रं छलयन् मां त्वं निश्छलश्च प्रगीयसे।।१।।
त्वयैवं छलितो नाम तथाचैवं प्रवञ्चित:।
उज्झितोऽप्यथवैकाकी न जह्यां स्वीयपद्धतिम्।।२।।
न बिभेम्यहमेकाकी द्वितीयं तु सृजामि यत्।
व्याजमन्यं लभे नूनं जीवनाय पुन: पुन:।।३।।
११. सदसद्व्यक्ति:
धगद्धगज्जवन्तीषु कथं ज्वालास्वहं त्वया।
निक्षिप्तो निर्दयं दह्यमानस्तत्र तथोज्झित:।।१।।
अङ्गारैराचिततनु: कष्टं क्रन्दितवानहम्।
भर्त्सनं ते भृशं कुर्वन् शब्दैर्मर्मविदारणै:।।२।।
तप्तहेमप्रभश्चाथ विशुद्धो बहिरागत:।
पश्यामि त्वां तथा देव स्मयमानं समीपत:।।३।।
२. बहिर्जवनिकम्
१२. शुष्कं सर:
बलिं दत्त्वा शूरो यदिह वनजार: कलितवान्१
यदेकं प्राणानामभवदवलम्बश्च नगरे।
सरस्तत् कालेन व्रजितमतिदीनां खलु दशां
हतां दर्शं दर्शं भवति हृदयं दूनमिव याम्।।१।।
अनूचानै: पूर्वं विहितमयनं लोकनयनं
यथाऽद्यत्वे जातं मलकलिलपङ्कैकवलितम्।
तथा नश्चेतोऽदो व्रणयति सर: सागरगतं
परं शुष्कं साधोर्हृदयमिव नाशेन सुहृदाम्।।२।।
स आश्वस्तो नेता वदति बहुभङ्गीभणितिभि:
करिष्याम: शुद्धिं सरस इति चाश्वासयति स:।
परिध्वस्तं जीर्णं भवनमिव शीर्णं किमु सरो
विवेकभ्रष्टानां पतनमभित: सूचयति तत्।।३।।
यथा नात्र स्नानं भवति ननु घट्टेष्विव पुरा
जलं जातं सर्वं क्षुभितमिव राष्ट्रं कलुषितम्।
तथा नश्चेतांसि व्रणयति सर: सागरगतं
रसो बीभत्सोऽर्वाक्तनरसिकलौकैरिव हत:।।४।।
न या मम्लौ कम्रा तरणसवनस्नाननिरतै-
र्नरस्त्रीबालानां शतश इह सङ्धैर्जलतति:।
इदानीं सा शृङ्गाकुलितजलभङ्गास्ति महिषै-
र्वराहैर्वा मुस्ताक्षतिमपि च कुर्वद्भिरभित:।।५।।
विदीर्णैषा भूमि: प्रखरतरहिंस्रार्ककिरणै-
र्जलं जातं धूलिप्रचयकलुषं स्त्यानरुधिरम्।
सरो भ्रश्यद्बन्धं परिगलितसत्त्वं गतरसं
व्यथावृत्तां मन्ये कथयति कथां भारतगताम्।।६।।
यथा दृष्टं दूरात् क्वचन कुहरे लीनमिव तन्
मनस्तापं धत्ते सकलमुपतापं च जनयत्।
पुनर्दृष्टं मार्गे जडयति पुरोगामिनि मन:
पुराभूत: शोको व्यथयति यथा नूतन इव।।७।।
गतं शैवालं तत् परिहसितदर्भाङ्कुरचयम्
अतन्द्रा चन्द्राभा तदनु विहता सा कुमुदिनी।
कथञ्चित् तिष्ठन् यो घृणितमलपङ्काकुलजले
परं दीनो मीन: क्व नु खलु सरेत् पक्षरहित:।।८।।
सरोऽदभ्रे श्वभ्रे प्रकटयति तत् स्वीयमुदरं
क्षुधाखिन्नो दीनो ग्लपितवदन: कश्चन यथा।
गता वर्षास्तृष्णां कथमपि न हृत्वाऽस्य सरस:
कथञ्चित् तत्प्राणित्यहह नलिकाकर्दमभरै:।।९।।
१३. धूमाधारप्रपात:(१)
(१)
पश्यतो मज्जयन् गाढं रघुनाथशिरोमणे:।
जले स्वोपज्ञशास्त्रं स श्रीचैतन्यमहाप्रभु:।।
हसति स्म यथा द्वन्द्वमवधूय मुहुस्तथा-
धूमाधार प्रपातोऽयं विहसन्निव दृश्यते।।
धूमो यत्रास्ति तत्राग्रिरिति व्याप्ति: प्रकीर्तिता।
नैयायिकेषु प्रथितां व्याप्तिमेनां विखण्डयन्।।
धूमराजिमविच्छिन्नां भावयन्नग्निना विना।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
वह्नि कुत्र भवेदस्मिन् विपक्षे तु महाह्रदे।
इति ब्रवीति शास्त्रज्ञो नैयायिकशिरोमणि:।।
हेत्वाभासमहो सत्यं कविबुद्धौ विभावयन्
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
(२)
भित्तावुल्लोलधारायां लिखितेन रवे: करै:।
उत्थायोत्थाय पतता सविलासमनोहरम्।।
चञ्चलेनेन्द्रचापेन नभोगं तत् स्थिरं धनु:।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
(३)
छायाचित्रं ग्रहीतुं ते यतन्ते ऽस्य जना मुहु:।
कथं न्वस्य समुच्छ्रायश्छायाचित्रं परामृशेत्।।
सङ्गोप्य स्वीयसौन्दर्यं छायाग्राहकयन्त्रत:।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
(४)
क्वचिद् रजतसंकाशै: शरच्चन्द्रनिभै: क्वचित्।
रञ्जितैर्बभ्रुवर्णैर्वा क्वचिद् बालार्करश्मिभि:।।
विचित्रोपलविस्तारै रेवां पश्यन् जडीकृताम्।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
(५)
सहठं यामि यामीति रेवाया अङ्कत: सृत:।
संस्खलन् धारितो गाढं मातु: क्रोडे मुहु: शिशु:।।
आलक्ष्यदन्तमुकुलो ऽव्यक्तवर्णवचा यथा।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
१४. धूमाधारप्रपात: (२)
(१)
हैयङ्गवीनमृदुलश्चीनांशुकमनोहर:।
फेनबुद्बुदराशिर्मे प्रस्तरैर्जर्जरीकृत:।।
इत्यास्फाल्य शिर: स्वीयं शिलायां मूर्च्छितो मुहु:।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
(२)
प्रचलन्नुन्नते मार्गे प्रस्तराञ्चिदन्तुरे।
संस्खलन् सहसा गर्त्ते गम्भीरे पतितो यदा।।
समुत्थातुमलं श्वभ्राददभ्रान्न बभूव स:।
हाहाकाररवोन्मिश्रं विलपंस्तत्र लीयते।।
पर्वताद् वीक्ष्य पाताले विलयं जलसन्तते:।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
(३)
कारागारनिरुद्धां तां राष्ट्रलक्ष्मीमिव च्युताम्।
रेवां जीवनदात्रीं तु बन्धनैर्बहुपीडिताम्।।
शोषितां च स्वदेशस्य जनतामिव वीक्ष्य ताम्।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
१५. वातानुकूलिते याने
नैव धूलिर्न वा पङ्कं परिमार्जितकुट्टिमे।
कदलीफलशिम्बाऽऽदेर्नैव सन्ति त्वचस्तथा।।
विकीर्णं यत्र वा तत्र, नोच्छिष्टं विद्यते क्वचित्।
न च खादितवस्तूनामवशेषा इतस्तत:।।
सर्वमेवोपपन्नं हि याने वातानुकूलिते।
वातोऽपि प्रविशत्यत्र मानवानां समाज्ञया।।
तरुणार्भकरसंरावैरनामृष्टमनाकुलम्।
गोष्ठीनां वनितानां वा नादैरप्यनिनादितम्।।
संसक्तेषु वनितानां वा नादैरप्यनिनादितम्।
संसक्तेषु द्वितीयाया: श्रेण्या यानेषु सञ्जहत्।
कोलाहलमहो सर्वमात्मन्येवात्मना रतम्।।
अस्खलत्सुखसम्पातं स्यन्दमानं शनैरिव।
उड्डीन इव विहग: पारिवाहपथेऽथवा।।
याति यानमहो स्वैरं यन्त्रितं चाप्ययन्त्रितम्।
यात्री यन्त्रितमात्मानं तथापि मनुते कथम्?।।
गवाक्षाद् वीक्षितुं शक्य: सानौ श्लिष्टो वलाहक:।
इक्षुक्षेत्रनिषादिन्य: शालिगोप्त्र्यश्च डिम्भका:।।
कवोष्ण: शिशिरस्वत्र ग्रीष्मश्च शिशिरायते।
जनसम्मर्दजनिता विहता किन्तु सोष्मता।।
सोपहारो यथा प्रेयान् द्वारोपान्तनिरन्तर:।
कपाटद्वयमावृत्य मानवत्या निराकृत:।।
वनान्तवान्तवातोऽयं लावण्येन सुपूरित:।
सङ्घट्टनात् परावृत्त: काच-वातायनश्रिया।।
छायायामम्बरस्यैव समासीनो दिगम्बर:।
भृङ्गारेण जलं भृत्वा धारायन्त्रान्मुहुर्मुहु:।।
अधिस्थण्डिलमेवासौ स्नाति मन्त्रं जपन् मुदा।
छप्छप-ध्वनिरावोऽत्र नेत्रेणैव निशम्यते।।
अवस्थानात् समायातमन्यस्माद् भुवनादिव।
विस्फारिताधरोष्ठाभ्यां विवृताद् वदनात् सृतम्।।
कस्यचित् प्रेरितं कस्मै श्रुतं तेन न वा श्रुतम्।
अव्यक्तवर्णमाह्वानं नात्र श्लिष्यति पार्श्वत:।।
वृत्तपत्रे दत्तनेत्रा यानेऽस्मिन् यात्रिण: स्थिता:।
दिवि संस्था इव सुरा दृष्टा नैव बहिर्जनै:।।
तमोऽवतरणं लक्ष्यं नैवावस्थान-सङ्गतम्।
सहसाऽऽच्छिद्य तमसा नीयते भुवनं क्वचित्।।
१६. मेघच्छाया
(१)
महासागरसङ्काशे नीले तमालकानने।
मेघच्छाया तरत्येषा लघुनौकेव मन्थरम्।।
(२)
गिरे: पर्यन्तदेशेभ्य: काननेषु पलायते।
उपत्यकासु विन्ध्यस्य मेघच्छाया द्रुतं सृता।।
अन्विष्टा सततं दीना यूथभ्रष्टा मृगीव सा।
पृष्ठप्रसक्तधर्मेण व्याघ्रेणेवानुधावता।।
भीतिसंहृतसर्वाङ्गी रक्षणोपायविह्वला।
पतिता गहने गर्ते सहसा मार्गमजानती।।
(३)
निरस्तपादपे देशे द्रुतं कुद्दालचालनै:।
खनत: खरहस्ताभ्यां खरं तपति भास्करे।।
सत्त्वरं श्वसतो दीर्घं सोच्छ्वासप्राणितस्य च।
तापादार्त्ति च नीतस्य घर्मेण धनिकेन च।।
ग्लपिते श्रमिकस्यास्ये स्वेदबिन्दुविचित्रिते।
क्षणं मुखपटप्रीतिं कुर्वती करुणान्विता।।
वैषम्याकुलसंसारे तापप्लुष्टेऽतिखेदिते।
उदितेयमहो मेघच्छाया छायां प्रतन्वती।।
१७. धनु:खण्डम्
वल्मीकाग्रादुदयते धनुर्दण्डं विखण्डितम्।
सन्नद्धं मण्डलाकारमाखण्डलस्य लम्बितम्।।
इदं शकुन्तलाया: स्याच्चित्रं दुष्यन्तनिर्मितम्।
आवापोद्वापसहितं विहितं चोज्झितं पुन:।।
मेघभित्तौ जलार्द्रत्वाद् मार्जितं निर्मितं पुन:।
तथापि तस्या लावण्यं रेखास्वत्र समन्वितम्।।
कालत्रयभ्रमल्लोलमनोमेघपटेऽङ्कितम्।
सम्भिन्नं सम्प्लुतं नाना-घटना-सङ्ग-सङ्कुलम्।।
अथवेदं स्मृतीनां स्याच्चित्रं वर्णविचित्रतम्।
वर्तमानकुठारेण खण्ड्यमानं पुन: पुन:।।
१८. नाराशंसी
नारी रोदिति, नो मुधा निपतिता बाष्पस्य ते बिन्दव:
सोच्छ्वासं पृथिवी प्रयाति च लता: मुञ्चन्ति पर्णाश्रुकम्।
धारां वाष्पजलाविलामपि नदी, नृत्यन्ति नो केकिन:
पृच्छन्त्येतदहो वनानि-कुररी केयं कथं क्रन्दति?।।
हंहो रोदिति यन्नरो नभसि ते स्यु: पुष्पकरावर्त्तका:
सञ्छन्ना: प्रलयो भवेत् पुन रहो दीर्णं नभो वा भवेत्।
ज्वालालीढमुखा: स्फुटाश्च गिरय: पृथ्वीतले स्युर्गिले-
दौर्वाग्निर्जलधिं तथापि विरुदन् सन्दृश्यते किं नर:?।।
१९. संस्कृति:
सबलात्कारमामृष्टा साध्वीव वनिता हृता।
गोपायन्ती मुखं स्वीयं लीयते किल संस्कृति:।।
संस्कृतिर्भारतीयैषा न ममार न जीर्यति।
इति पुष्पितया वाचा हन्यते बत संस्कृति:।।
क्वचिल्लुप्ता क्वचिद् गुप्ता सान्तर्नीरा सरस्वती।
शास्त्रेष्वेव परिज्ञाता विद्वद्भि: किन्नु संस्कृति:।।
कृत्वा प्रतिकृतीश्चैषा रक्ष्यते सङ्ग्रहालये।
म्रियमाणा सभायां सा स्तूयते बहु संस्कृति:।।
सत्पात्रदत्तसम्पत्ति: प्रतिपत्ति: सुशिष्यगा।
सुकृति: सज्जनस्येव क्षीयते नैव संस्कृति:।।
२०. चौरपञ्चाशिकापरिशिष्टम्
अद्यापि मानसगता प्रतिभेव सद्यो
नेत्रे ममोत्सुकतरे सहसा स्फुरन्ती।
तैस्तै: पदैर्मधुरझङ्कृतिमादधाना
सा ऽऽविर्भवेत् सपदि मृत्युपथे कदाचित्।।
पश्यामि पश्चितमतया सकृदेव वा तां
ध्वान्ते घनान्तपटले तडित प्रभाभाम्।
कारुण्यपूरपरिपूरितदृष्टिरस्या:
पाथेयमेव मम मृत्युपथस्य सा स्यात्।।
मन्दस्मितेन्दुवदना करुणाकटाक्ष-
धाराधरेण यदि सा स्नपयेत् तनुं मे।
जृम्भाविडम्बिविकटाननसम्मुखीने-
कालेऽवलीढमपि मां वृणुते न चिन्ता।।
अद्यापि बिम्बफलरक्ततराधरोष्ठात्
किञ्चिन्मनोगतमहो गदितुं ह्यशक्तात्।
श्रुत्वाऽस्फुटं किमपि बुद्बदमक्षरं तत्
कालस्य भीतिरहितं शृणुयां न शब्दम्।।
यज्जीवनं मम जने: प्रभृति व्यतीतं
त्वावर्तबुद्बुद इव क्षणभङ्गुरं तत्।
तस्मिन् क्षणो मम समुल्लसितस्तदानी
यस्मिन् क्षणे सह तया मम सङ्गमोऽभूत्।।
भग्ने तु जीवनघटे जलबिन्दवोऽमी
कालस्य, मौक्तिकनिभास्त्वरितं क्षरन्ति।
कालं ह्यतीत्य लसितं च तदीयरूपं
चित्ते धृतं यदि, बिभेमि न जातु कालात्।।
दूरं प्रयान्ति मम रम्यदिनान्यतीता-
न्यग्रे विजृम्भृणमिव प्रकरोति शून्यम्।
विच्छिन्नधूश्च विकलो व्यथितो जडोऽयं
गाढान्धकारमिव मज्जति मेऽन्तरात्मा।।
यज्जीवनस्य मरणस्य च सन्धिकाले
तिष्ठामि, चैष विनिवर्तनशक्तिहीन:।
कालानिलाहत इव प्रगते प्रदीपे
धूमायमानगतदीप्तिदशेव दूये।।
आत्मा घटो निपततीह घनान्धकूपे
कालस्य घोरविवरे विनिपात्यमान:।
नो मे भयं न च पुनर्मम कोऽपिशोक-
स्तस्या: स्मृतिर्ननु समुद्धरतीह रज्जु:।।
आरोप्य मां सपदि सन्नतशूलपाशे
मृत्योर्मुखे स्फुटतरे पुरुषा: क्षिपन्ति।
सा चेत् समेत्य तदनन्तरमेव गात्रं
ममामृशेदुपरतो न मृतोऽपि चाहम्।।
यद्वा, न यातु मम दृष्टिपथेऽथ साऽस्मिन्
काले, च राजपुरुषास्तु हरन्तु मेऽसून्।
एतावदेव बहु किं न ममास्ति यत् सा
प्राप्ता मया गुणमयी खलु जीवनेऽस्मिन्।।
२१. अवशिष्टम्
घण्टापथे रथे याति शब्दो धडधडेति सन्।
कम्पयन् सर्वमध्वानं धरित्रीं दारयन्नभूत्।।
निष्कम्पचामरशिखा केसरैर्वातचुम्बितै:।
अलङ्घ्या: स्वै रजोभिस्ते रश्या अक्षमया द्रुता:।।
पवनं जवना लङ्घमाना त्यजन्ति च क्षमाम्।
आलोडयन्त: पृथिवीं खुरनिर्घातकम्पिताम्।।
रणत्कारै: किङ्किणीनां ठणत्कारैश्च चक्रगै:।
खुराणां टप्टपैश्चैव शब्दस्तत्र व्यजृम्भृत।।
चले च रथे राज्ञो दरत्रस्तजनोज्झिता।
क्षुण्णा बहुखुराघातै: पदवी सा स्म लक्ष्यते।।
सखिभि: सह खेलद्भिर्धावित्वा सहसोज्झित:।
जोषं तस्थौ शिशु: स्तब्धो राजमार्गे चमत्कृत:।।
रथोऽन्तिकमगात् तस्य लक्ष्यबद्ध: शरो यथा।
अन्तरा च शिशुं रथ्यान् क्षणार्धेन समागता।।
तरसाऽश्वपदैर्लुप्यमानं क्रूरतया पथि।
आच्छिद्य रथरेखातो माता तस्य ररक्ष तम्।।
गतो रथो गता रथ्या आस्कन्द्य स्वीयपद्धतिम्।
अवशिष्टा तथा वार्ता रथयानस्य तद्दिने।।
अवशिष्टाश्च रेखास्ता रथचक्रविनिर्मिता:।
अवशिष्टा तथा माता शिशुं सङ्गोप्य वक्षसि।।
२२. राज्यमहोत्सव:
उद्घाटनार्थमाहूतो राजा राज्यमहोत्सवे।
याञ्चाभि: करबद्धाभि: मन्त्रिभि: साग्रहं मुहु:।।
ददौ चाश्वासनं सद्यो व्यस्तो व्यस्ततरोऽपि सन्।
दत्वापि स्वीकृतिं स्वीयां, राजा तत्र च नाययौ।।
न ययौ नापि वा तस्थौ समाजो विदुषां यदा।
नैवायास्यति राजेति दूतस्तस्य व्यजिज्ञपत्।।
भङ्ग्या भणित्या बहुश: प्रभाव्योऽद्य प्रभु: किल।
इति तेषां दिवास्वप्ना भग्ना: सूचनयाऽनया।।
कथञ्चित् तैस्तु निर्व्यूढोऽराजक एव चौत्सव:।
विद्वद्भिर्विंशतिप्रायैर्द्वित्रैस्तै राजमन्त्रिभि:।।
गम्भीरां गूढमुद्रां स्वे मुख आरोप्य संस्थिता:।
विद्वांसो विंशतिप्राया द्वित्रास्ते राजमन्त्रिण:।।
मन:सु सादमायान्ती सोत्सवं चाप्यमानयत्।
मध्येशालं समासीना जनानां पञ्चविंशति:।।
शालाया बहिरेतच्च नैव केनापि लक्षितम्।
जीवनस्य प्रवाहोऽपि प्रववौ तत्र निरन्तरम्।।
उत्सवस्यैव वार्तां तु न जानन्ति स्म ये जना:।
राज्ञोऽनागमनं तत्र जानीयुस्ते कथं तदा।।
आपणे पणनं हट्टे सङ्घट्टो जनतारव:।
पूर्ववत् प्रचलत्येव कृत्यव्यग्रो जनोऽभवत्।।
साधुवादैर्धन्यवादै: सम्पन्न: स महोत्सव:।
अधोमुखी च निर्याता शालाया यदा पुन:।।
गम्भीरमुखमुद्राणां विदुषां पञ्चविंशति:।
ताम्बूलस्यापणे गृह्णन् मुखे ताम्बूलवीटिकाम्।।
नर: कश्चन वाचाल: पृष्टवान् पार्श्ववर्तिनम्-
कस्यैषा शवयात्राद्य पथि गच्छति सम्मुखम्?।।