२३. नर्तनकम्
सङ्गोष्ठ्यां भवतीह नर्तनमहो विद्वत्सभामण्डले
तत्तत्थैयततं तथेति सुभगं नर्तिष्यते नर्तकी।
आयातेह, रसं च गृह्णत मुदा, ताम्बूलमालादिकं
सर्वं क्लृप्तचरं तथा प्रगुणितं भोज्यं भोग्यं च व:।।
यच्छब्दार्थविचारलीनमनसा नीता विनिद्रा: क्षपा
ज्ञानं वाधिगतं समाहितधिया व्यर्थं समस्तं गतम्।
यच्छास्त्रेषु परिश्रमोऽपि विहितो यद्वा कृतं चिन्तनं
तत्सर्वं तु वृथैव नैव हि तत: कश्चिद् गुणो गोष्ठके।।
सम्मानं लभते नटी खलु यथा वाग्देवता शारदा
सैव ज्ञानविशारदा भगवती लीलालया भास्वरा।
विद्वान् पश्यति काष्ठपुत्तल इव ध्यायन् प्रनत्तां च
तां ह्यस्तव्यस्तसमस्तधीर्जड इव प्रज्ञादरिद्र: क्षणम्।।
शास्त्रं यातु रसातलं बुधजनस्तस्मादधो गच्छतु
संस्कार: कृमिकीटकोटिनिवहै: स्याद् भक्षितस्तेन किम्?
पश्यामो वयमत्रमुग्धमुकुलीभूतैरहो लोचनै:
सङ्गोष्ठ्यां स्मयमानमञ्जुमृदुलां तन्वीं शुभां नर्तकीम्।।
यो वै नर्तयति प्रजां च निखिलां येषां यथा दारवीं
सो ऽप्येतान् मनुते विपश्चित इत: क्रीडाकलापुत्तलान्।
भङ्क्त्वा सूत्रमिदं धृतं च करयोरस्यैव चेमा: प्रजा
विद्वांसश्च समुत्थिता यदि ततो रुद्धं भवेन्नर्तनम्।।
२४. कविगोष्ठी
कामं कवित्वलेशोऽपि कवितायां भवेन्न वा।
मञ्चमारुह्य यन्नाट्यं क्रियते काव्यमेव तत्।।
अतिवाहितरागेऽस्मिन् क्षरत्संवेदने तथा।
कवित्वमधुना लोके तृणायैव मतं बुधै:।।
न रतिर्न गति: काव्ये नापि वा क्रमते मति:।
कवयस्तु भविष्याम: सिंहनादेन गर्जनात्।।
यद्वा ऽतिमधुरैर्नादैर्लयताल समन्वितै:।
मेचकश्रुतिकण्ठेन गीयते काव्यमेव तत्।।
कविम्मन्यास्तु साकूतं साटोपं बहुभङ्गिभि:।
भुजमुत्तोल्य कूर्दन्ति, लयताल समन्वितम्।।
गायन्ति मधुरं वा ते तौर्यत्रिकप्रतीतये।
अहो-अहो इति श्रोतृ-मण्डली कुरुते मुहु:।।
काव्यव्याजेन सम्प्राप्ते कोलाहलहलाहले।
वाणि प्राणिषि तन्मध्ये धन्या ते ऽस्ति सहिष्णुता।।
२५. नर्मदा-गोष्ठी
नर्मदामाश्रित्य सङ्गोष्ठी बुधैरायोजिता कदा।
लीना प्रवाहरागे स्वे न जानाति स्म नर्मदा।।
नाना दिग्भ्यो बुधा: श्रेष्ठा नर्मदातटमाययु:।
नर्मदा तु यथापूर्वं प्रावहन्नविजानती।।
गिरे: कुक्षिं समुत्पाट्य विषमोपलघट्टिता।
चण्डझण्झानिदाघेभ्यो जुगोपात्मानमच्युता।।
भक्तिच्छेदैर्विशीर्णापि सङ्कलय्य निजं वपु:।
शाश्वतीभ्य: सभ्य: सा स्यन्दमाना सरिद्वरा।।
किन्तु ज्ञातवतीदानीं न गन्तव्यं चिरं मया।
यतस्ते हि समायाता बद्धुं मां बन्धकैरिति।।
अवरुद्धा च रिक्ता च गह्वरे चैव यन्त्रिता।
विशीर्ये विलयं याता न भविष्यामि नर्मदा।।
समेता नर्मदातीरे विदुषां पञ्चविंशति:।
मतमेतदभिव्यानक् नर्मदास्त्यजरा ऽमरा।।
नावरुद्धा न रिक्तैषा गह्वरे नैव यन्त्रिता।
विशीर्येत लयं याता न कदापीति नर्मदा।।
धन्यवादैश्च बहुश एवं वर्धापनैस्तथा।
महाजना: प्रमुदिता भावयन्त: परस्परम्।।
अथाहुर्नर्मदातीरे युक्तमायोजनं त्विदम्।
नर्मदामेव चाश्रित्य गोष्ठी सेयं प्रवर्तते।।
अहो अहो नमो ऽस्मभ्यं कृतं पुण्यमिदं महत्।
इत्येवं भावयन्तस्ते प्रशशंसु: परस्परम्।।
अथासीन्नर्मदातीरे काचिदत्र सरस्वती।
इत्यन्वेषकमूर्धन्य: सहसा प्राह तेषु स:।।
सरस्वत्यास्तु का वार्ता सा प्रयागे लयं गता।
कथावशेषतां याता ह्यतीते सा सरस्वती।।
इति तं बोधन्तस्ते विद्वांस: खेदमागता:।
सरस्वत्यास्तु लोपेन खेदप्रस्तावमानयन्।।
सङ्कल्पं कृतवन्तश्च तस्या अन्वेषणाय ते।
सङ्कल्पस्य क्रियार्थं च सङ्कल्पस्तै: कृत: पुन:।।
क्रियार्थाय तथा शोधयोजना महती मुहु:।
प्रकल्पनीयेति सङ्कल्पं कृतवन्तो महाजना:।।
सर्वकारप्रतिनिधर्योजनाया: प्रपूर्तये।
सार्धद्विलक्षदानाय सामोदं स वचो ददौ।।
अहो अहो नमोऽस्मभ्यं कृतं पुण्यमिदं महत्।
सरस्वत्या: स्मृति: सापि रेवया सह यत्कृता।।
त्वं धन्योऽपि वयं धन्या धन्या यूयमहो इति।
धन्यवादान् वदन्तस्ते प्रशशंसु: परस्परम्।।
आसीन्नाविकपुत्री या बाला कापि सरस्वती।
रेवाया अपरे तीरे कुटीरे साऽवसत् तथा।।
पुरा कूलङ्कषा जाता रेवा चण्डी बभूव सा।
वर्षासु प्लाविते लोके भृशं पूरो व्यवर्धत।।
ओधे निमज्जमानासु प्रजास्वेशा सरस्वती।
नौकया तारयन्ती ता एकैकश: समुद्धरत्।।
एकाकिन्युडुपेनैव तीरात् तीरं स्म धावति।
प्रत्यादेशश्च रेवाया सञ्जातैषा सरस्वती।।
गोपायित्वा मुखं स्वीयमन्वेषकशिरोमणि:।
प्रचचाल तथैकाकी चित्ते ध्यायन् सरस्वतीम्।।
रेवाया अपरे तीरे आययौ स समुत्सुक:।
पुरा साक्षात्कृता येन यत्रासीत् सा सरस्वती।।
डिम्भं स्तनन्धयं लालयन्ती रुदन्तमेव सा।
तर्जयन्ती स्वपुत्रीं सा तेन दृष्टा सरस्वती।।
'अपि प्रत्यभिजानाति भवती मां पुरा मया।
साक्षात्कारो भवत्या स वृत्तपत्रे प्रकाशित:।।
सर्वकार: पुरस्कारं भवत्यै प्रददौ यदा।’’
इति पृच्छति तस्मिन् सा निजगाद सरस्वती।।
ज्येष्ठां तु तनयां स्वीयां प्रेषयन्त्युटजान्तरे।
रुदन्तमश्रुसिक्तास्यं लालयन्ती स्तनन्धयम्।।
गच्छ सम्प्रति भद्रत्वं कृत्यव्यग्रास्मि साम्प्रतम्।
अन्नं पक्ष्यामि नेष्यामि बालस्यास्य पितु: कृते।।
इत्युक्त्वैव सकृत् तूर्णं स्त्रोटजे ऽन्तर्हिताऽभवत्।
प्रत्यागतो निराशो ऽसावन्वेषकशिरोमणि:।।
विदुषां समवाय: स यत्रापूर्व: प्रवर्तते।
एषा प्रसन्नसलिला पुराणेष्वपि नर्मदा।
वर्णिता स्यन्दमानैषा चेतिहासेऽपि नर्मदा।।
इत्येवं कथयन्तस्ते श्लोकान् बहुशो जगु:।
नर्मदास्तवमालां च जपन्तो मुदिता बुधा:।।
पण्डितप्रवर: कश्चित् तेषु मूर्धन्यतां गत:।
मतमेतदभिव्यानक्-नास्त्येषा नर्मदा नदी।।
नर्मदा तु नदी नास्ति माता भगवतीत्वियम्।
ब्रह्यणोऽपि च मातेयं दिव्या चैतन्यरूपिणी।।
ततश्च विदुषां गोष्ठी सङ्कल्पं विदधे पुन:।
नर्मदा न नदी वाच्या देवी मातेति कथ्यताम्।।
प्रस्तावे पारिते चास्मिन्नुदग्रस्तालिकाध्वनि:।
हर्षोल्लासरवो ऽपूर्वस्तुमुल: समजायत।।
श्रुत्वा तं तुमुलं घोषं घोरं कलकलं तथा।
नर्मदा सा नदी जोषं स्मयते स्म विषादिता।।
समापने तु सङ्गोष्ठ्या: सचिवोऽध्यक्षमेव स:।
अध्यक्ष: सचिवं चैव प्रशशंस मुहुर्मुहु:।।
एवमेव महाध्यक्ष उपाध्यक्षं शशंस स:।
उपाध्यक्षो महाध्यक्षं धन्यवादैरवर्धयत्।।
एवं समापयामासु: सङ्गोष्ठीं ते मुदान्विता:।
दिष्ट्या वर्धापयन्तश्च भावयन्त: परस्परम्।।
समाप्ते समवाये सा विदुषां पञ्चविंशति:।
यात्राव्ययं समादाय ततश्च प्रस्थिताऽभवत्।।
प्रस्थितेषु ततस्तेषु नैव केनापि लक्षिता।
स्तिमितप्रवहारेवा विषण्णा च विशेषत:।।
वीचिहस्तैश्च सा व्यग्रा तानाह्वयति नर्मदा।
कथं ते विनिवर्तन्तां विद्वांसस्तु गता गता:।।
विग्ना रुरोद भूय: सा कुररी वृक्षसंस्थिता।
काक: कश्चन निर्त्भर्स्य तामेतन्निजगाद स:।।
कथं चीत्कुरुषे मूढे कस्ते रावं शृणोत्यहो।
न ते प्रतिनिर्वर्त्स्यन्ते विद्वांसस्तु गता गता:।।
इत्याक्रोशति तस्मिंस्तत् रेवाया हृदयं जलम्।
अन्धेन तमसाऽऽच्छन्नं ततो भूयो बभूवह।।
वक्षस्यस्या: शिलानां स भारो गुरुतरोऽभवत्।
तथापि प्रहसन्ती सा स्वयमाह च नर्मदा-
आस्तां तावन्मयेदानीं वहनीयं हि पूर्ववत्।।
अन्धकारे वर्धमाने नीरवे तटसंस्तरे।
अवसन्नासु चाप:सु समायाता सरस्वती।।
स्वघटे जलमादातुं नदीतीरं जगाम सा।
आममर्श स्वहस्तेन स्तब्धं तन्नर्मदाजलम्।।
मृदु संवाहयन्तीव निश्चेष्टां नर्मदां मुहु:।
तेन प्रसन्नसलिला प्रावहन्नर्मदा पुन:।।
२६. अन्वेषणम्
(सॉनेट्)
कृष्णकञ्चुकसञ्छन्ना
भीता सम्पिण्डिता इव
मेधच्छाया भ्रमन्त्येता
लज्जयेव जलीकृता:।
अवतीर्य शनैर्नीचै:
शिखरेऽमरकण्टके।
अधोऽधश्च पुनर्याता
महाश्वभ्रं वनं प्रति।।
रेवारोध: सु शुष्केशु
निर्जलेषु समन्तत:।
अन्विष्यन्ति भ्रमन्त्यस्ता
लुप्ता गुलवकावली:।
नैव यास्तत्र रोहन्ति
रेवाखण्डे विखण्डिते।।
२७. शोणभद्रपीठे
(सॉनेट्द्वयम्)
(१)
प्रत्याख्यातविवाहासीत् पूर्वं दुराग्रहान्मुहु:।
पुनश्चोरीकृतवती नर्मदैषा यथा तथा।।
आरब्धे मङ्गले कृत्ये रचितोद्वाहमण्डपे।
सुरभितप्रतिकेदारे मातुरुद्यानमण्डले।।
शोणभद्रे वरे वाञ्छाविकले समुपस्थिते।
उपविष्टेऽधिवेदिं च नर्मदाकरयाचके।।
मङ्ग्लस्नानशुद्धाऽथ याऽवगुण्ठनचञ्चला।
आनीता शलक्ष्णनेपथ्या बहुमानपुरस्सरम्।।
राजिता शोणभद्रस्य पार्श्वे सा वेदिसम्मुखम्।
पटं संहृत्य सहसा वरं दृष्टवती वधू:।।
कोपाटोपघटाच्छन्नवक्रभ्रूभङ्गवीक्षितम्।
प्राह सा नैव नैवाहं परिणेष्ये जनं त्विमम्।।
असरच्च तथा प्रत्यङ् दुर्निवारगतिर्दुतम्।
चमत्कृता यथा धेनू रज्जुच्छेदपलायिता।।
किं क्रियेत वधूरेव कुसृतिं कृतवत्यहो।
इत्याहुर्ज्ञातय:, सा च वधूर्नैवानिवर्तत।।
अवाङ्मुखोऽवहन्नम्र: शोणभद्रोऽथ पूर्वत:।
यथा स्खलितवीर्य: स्यान्न्यक्कृतो निष्प्रभो जन:।।
दुर्गमोपलसङ्कीर्णेष्वधोऽध: सरन् शनै:।
उच्छ्रायेषु शिर: स्वीयमास्फाल्यास्फाल्य सीदति।।
अध:स्थिता महावृक्षा उन्नमय्य शिरांसि ते।
पश्यन्त्यध: स्खलन्तं तं शोणभद्रं महावने।।
विकलं च सृता वाता: शीतलं नि:श्वसन्त्यध:।
संवाहयन्तस्तं भद्रं शोणभद्रं मुहुर्मुहु:।।
भद्र मा चिन्तयाऽभू: कृश इत्याह कूजितै:।
कान्तार: केशराशिं स्वं धुनानो जटिलं जटी।।
कशाघातैर्हय: कश्चित् सारयन्निव केसरान्।।
शीणभद्रेण सम्प्राप्ता मैत्री चैषां च सङ्गति:।
अपहस्तितसङ्गाया नर्मदाया करस्तु नो।।
२८. सती
परवशत्वमलप्रतिदूषिता
यमगृहं गमितुं च विभूषिता।
असति सत्यनयक्रमविक्रमे
सपदि मानवता क्रियते 'सतो’।
अयमहो श्रुतिशास्त्रविशारद:
नियमित: स्वमठे हठपूर्वकम्।
वदति 'शङ्करं’ एष भयङ्करं
वचनमग्निसमं बहुपुष्पितम्।।
किसलयावृतपुष्पविहासिनी।
नववसन्तसमागमशंसिनी।
मृदुलिता लतिका बत कारिता
गतघृणं बलवच्च किमग्निसात्।।
चिरविलम्बिकुरीतिकलङ्कितो
दुरितदुर्नयदानवदीपित:।
दहति रूपमहो चलितेन्धन-
प्रचयघस्मरपावक एष स:।।
परगृहं किल शैशव एव या
सरलमुग्धमना बत नीयते।
परमनिर्घृणमत्र च ताड्यते
धनजिघृक्षुतया बत हन्यते।।
कथय शास्त्रमिदं खलु कीदृशं
मतिरियं पुरुषार्थमयी च का।
यदिह सौनिकघातमियं हता
स्वगृह एव यथा हि शकुन्तिका।।
यदि सती स्वयमेव निजां तनुं
हुतवहेऽर्पयतीह शुचाकुला।
इयमहो अपरैव विडम्बना
कृपणतां गमिता खलु कैरियम्।।
पतिदिवङ्गमनेन गतार्थतां
गतमहो घृणितं मम जीवनम्।
इति समर्थयते खलु येन सा
व्रजतु शास्त्रमिदं तु रसातलम्।।
२९. सरस्वती
'भारतीया हृता हन्त गौरण्डै: सा सरस्वती।
भोजराजेन देवेन गौरवं प्रापिता पुरा।।
विद्यते लण्डनस्थे सा त्विदानीं सङ्ग्रहालये।
अस्माकं च परिध्वस्तो गौरवस्यालयो महान्।
दम्भोलिघटितै: शब्दै: श्रीदामोदरपण्डित:।
इत्थं सदसि गर्जन् स सभामालोडयन्मुहु:।।
विषण्णा चैव विक्षुब्धा संसदश्रुमुखी बभौ।
सरस्वतीं समानेतुं सङ्कल्पं विदधे च सा।।
प्रस्तावे पारिते तसिमन्नासीत् करतलध्वनि:।
श्रुत्वा तं तुमुलं शब्दं स्मयमानाच्छलेखया।
जनतायां राजमाना मानसे मानसे शुभा।
हंसासीना च देवी सा विजहास सरस्वती।।
३०. ढपोलशङ्खाष्टकम्
सुखावदातो ऽप्यसुराणोऽसा-
वापातरम्यश्च मलीमसान्त:।
बाहीकशुक्लोऽन्तसि चातिकृष्णो।
ढपोलशङ्खो विनदन् विभाति।।
सर्वाति रिक्तो ऽपि सदैव रिक्तो
नीरन्ध्रदृश्योऽपि सरन्ध्र एव।
छिद्रं स्वकीयं विनिगूह्य सोयं
छिद्रं परस्य प्रकटीचकार।।
न तत्र वीणा क्वणते न तन्त्री
गन्त्री विपञ्च्या: स्वरमालिका नो।
कुतोऽथ वंशी खलु वादिता स्यात्
प्रध्माप्यते यत्र ढपोलशङ्ख:।।
पुंस्कोकिल: काकलिगानमेतद्
विस्मृत्य तिष्ठेन्निभृतं चकोर:।
मूका: कुरङ्गा: स्तिमिताश्च भृङ्गा
ढपोलशङ्खो यदि रारटीति।।
न पश्यति ह्येष सुदृश्यरूपं
शृणोति नैव श्रवणीयशब्दम्।
जोगुञ्जयन् फूत्कभरैस्तु विश्वं
ढपोलशङ्खो महिमानमेति।।
जडो जले वर्धित एष शङ्ख:
क्षुद्रस्य कीटस्य विकारभूत:।
उल्लोलवीचीचलनेऽप्यलोलो
गोलो ढपोलो विकसत्कपोल:।।
उच्छिष्ट ओष्ठैरविशिष्ट एष
समुज्झित: शिष्टजनैर्लघिष्ठ:।
अन्यस्य फूत्कारभरेण गर्जन्
ढपोलशङ्खो ऽजनि नादशूर:।।
उच्चै: प्राप्य पदं विमर्दितसभं सिंहासनं राजते
श्वेतस्फीतपटावृत: सुपुरुष: शुभ्राकृति: पूज्यते।
नि:श्वासोच्छ्वसित: परस्य नितरांक्लिश्नाति प्राणांश्चय-
स्तस्मै व्यर्थकदर्थिताय च नम: श्रीमढ्ढपोलाय मे।।
३१. शुभ्रशङ्खाष्टकम्
अन्तर्निगूढान् स्वपरम्पराया
उपांशुजप्याञ् छतश: शताब्दै:।
अनाहतांस्तान् ध्रुवमेव नादाञ्-
जोगुञ्जयन्नस्म्यवदातशङ्ख:।।
धन्येन केनाप्यधरे ध्रियेऽहं
यज्ञे विवाहे शुभकार्यजाते।
संस्थापितो मन्दिरगर्भमध्ये
शोभे यथा कश्चन देवदूत:।।
ममैव घोषै: परिपूरितं सन्
नादात्मकं विश्वमिदं विभाति।
ममैव शब्दै: खलु सिच्यमाना
तरङ्गिता भाति धराऽखिलैषा।।
समित्सु शक्तै: परिवादितोऽहं
तत्प्राणशक्तिं प्रगुणीकरोमि।
वीरेण वीर्येण समर्जिता या
कीर्तिं सितां तां विततां दधामि।।
क्वचित् पाञ्चजन्ये क्वचिद् देवदत्ते
क्वचिद् भीमरूपे च पौण्ड्रे विशाले।
मदीया: स्वरा एव कामं जुगुञ्जु-
र्महाभारतीये समिद्धे च युद्धे।।
श्रुत्वैव घोषं मम कोऽपि जोषं
स्थातुं न शक्रोति मनस्विलोक:।
मदीयनादेन तु मानवानां
झङ्कारिता हृद्गततन्त्रय: स्यु:।।
कर्पूरगौरत्वमनिन्द्यरूपं
सा शुभ्रता वा नवमालिकाया:।
मुग्धस्य बालस्य च रम्यहासो
ममैव रूपेण लसन्त्यजस्रम्।।
कैलाससानौ चिरसञ्चितोऽहं
विद्येऽट्टहास: किल शङ्करस्य।
अनश्वरो निष्कलुष: पुराणम्
चात्मा तु जन्तोरिव चाहमस्मि।।
३२. स्तवमाला
नमस्तुभ्यं नेतृवर्य यत्कण्ठ: पुष्करायते।
मदाभोगघनध्वाने राजनीतिकताण्डवे।।
निरुपादानसम्भारमभित्तावेव तन्वते।
चित्रमाश्वासनं चित्रं कलाश्लाघ्याय ते नम:।।
चरिते दुरिते तथ्ये सुतथे वितथे तथा।
व्यामिश्रणेव वचसा बुद्धिं मोहयते नम:।।
वाग्विकल्पघटाच्छन्नच्छटां छादयते क्षणात्।
मठाधीश हठाधीश जटाधीश नमोस्तुते।।
प्रवदन् पुष्पितां वाचं श्रुतिस्मृतीरुदाहरन्।
हिरण्यमयेन पात्रेण सत्यं सञ्छादयंस्तथा।।
निस्सारं भाषणे जल्पन् संसारं समकालिकम्।
तस्मिंश्चेतसि लिप्तोऽसौ वेदान्ती वन्द्यते मया।।
प्रसन्नं गद्गदं येऽमी मुकुलीकृतलोचना:।
यान्ति गड्डारिकान्यायं नमस्तेभ्यो नमोनम:।।
हततर्का: क्षतप्रश्ना: शङ्कातीताश्च ये बुधा:।
अनुधावन्ति निश्चिन्तं रूढिमस्तङ्गतामपि।।
भूयो भूयश्च वन्दे तान् पुरस्तात् पृष्ठतस्तथा।
सामीप्यादपि तान् वन्दे वन्दे तांश्चातिदूरत:।।
३३. धर्माचार्य:-१
निनिन्द प्रातरुत्थाय धर्माचार्यो भृशं रुषा।
जृम्भाविदीर्णवक्त्रेण कालिदासं स गालिभि:।।
अहो बत दशा केयं कालस्याथ समागता।
कालिदाससदृक्षो यत् कुकवि: पाठ्यतेऽधुना।।
अयमेव हि हेतुर्यद् विक्रयन्तेऽद्य बुद्धय:।
यूनामाधुनिकानां च बालानां नव्यशिक्षया।।
अश्लीलो ऽसौ कविस्तस्य काव्यपाठात् प्रजायते।
कामक्रीडा-दुराचार: शिक्षासंस्थास्वहो भृशम्।।
कालिदासो निषेद्धव्य: पाठ्यचर्यासु सर्वथा।
इति सम्बोधयन् शिष्यं शिवनाम तथा जपन्।।
स्नात्वा ध्यात्वा महात्माऽसौ व्याख्यानाय सभां गत।
मञ्चारूढश्च मालाभि: संस्कृतो हर्षनिर्भर:।।
तत्र त्वरितमाचष्ट धर्मस्य त्वरितां गतिम्।
दृष्टिं स्वां त्वरितां नारीमण्डलं प्रति लम्भयन्।।
बाला सम्मुखमासीना नव्यवेशविभूषिता।
भूयो जहार तद्दृष्टिं समुपारूढयौवना।।
तस्या: पीनस्तनौ दृष्ट्वा शिर: कम्पयते स्म स:।
तयोरन्तरसंलग्नां दृष्टिमुत्पाटयन्निव।।
सभायां च समाप्तायां स्थले निर्मक्षिकेऽथ स:।
प्राह शिष्यमहो शान्तं पापं दौस्थ्यं न सह्यते।।
सम्मुखस्थितबालाया किं कुचौ लक्षितौ त्वया।
कुञ्चितं कञ्चुकं तस्या भित्वेव बहिरागतौ?।।
अहो महानयं घोर कलिकाल उपागत:।
नारीणां भूषणं लज्जा धिक् तदेव निरस्यते।।
कालिदासप्रभावोऽयं काल एवायमीदृश:।
सतीत्वं कुत्र यातं तत् स्त्रीणां धर्म क्व वा गत्:?।।
सुवृत्तं पदमेतासां हृदयेषु न लब्धवत्।
दर्शयन्त्यत एवैता: सुवृत्तं कुचमण्डलम्।।
निनिन्द रूपं धर्मात्मा स महात्माऽथ वेदवित्।
कालिदासस्य काव्यं च भूयो भूयो निनिन्द स:।।
निन्दां कृत्वा च बहुशो भोजनाय पुनर्गत:।
नगरश्रेष्ठिनो गेहं पूर्वं यत्र निमन्त्रित:।।
साध्वीं रसवतीं तत्र साध्वी रसवती वधू।
विनम्रा विनता नम्रा परिवेषयति स्म सा।।
उत्तानितत्रिकं भङ्ग्या क्वणद्वलयपाणिना।
मोदकं स्थापितवती श्रद्धया साग्रहं यदा।।
स्थाल्यां महात्मना दृष्टं स्थापितं कुचयुग्मकम्।
प्रशशंस महात्माऽसौ कृतं सुस्वादु भोजनम्।।
भोजनं चैव सम्पाद्य विश्राम्यति स्म तत्र स:।
अतिवाह्य दिनं चैवं रात्रौ स्वप्तुं समुद्यत:।।
ददौ भूयो महात्मासौ तन्द्राकीलित जिह्वया।
कालिदासाय गालिं च सुखं सुष्वाप धर्मवित्।।
३४. धर्माचार्य:-२
शुभ्रे सिंहासने हेम्ना मण्डिते राजते शुभे।
विन्यस्तपादपीठेऽस्मिन् धर्माचार्यो निषीदति।।
आलोकशब्दविज्ञप्त: स्वस्तिवाचनसत्कृत:।
चामरैर्वीजितो नित्यं धर्माचार्यो महीयते।।
सन्ति सन्त: कियन्तस्ते श्रद्धाभक्तिसमन्विता।
अहम्पूर्विकया नित्यं मम पादौ स्पृशन्ति ये।।
इति पश्यन् स्वपादस्य वन्दनाद्धर्मसुस्थितिम्।
भावयन् मुदितो नित्यं धर्माचार्य: प्रसीदति।।
तथाकथितधर्मस्य कन्थां जर्जरतां गताम्।
धारयन्नात्मना तुष्टो धर्माचार्य: सुखीयति।।
अहो महान् सतीधर्मो शासनेन विरुध्यते।
निषिध्यते च विधिना कोऽयं काल: समागत:।।
सतीदाहप्रचाराय प्राणानपि ददाम्यहम्।
इति घोषणया सार्धं धर्माचार्य: प्रकुप्यति।।
समस्यानां समाधानं सर्वासामेतदेव हि।
पत्नी दहतु स्वं देहं स्वपत्युर्मरणान्तरम्।।
यत्र नार्यस्तु दह्यन्ते रमन्ते तत्र देवता:।
अन्नं जलं बलं राष्ट्रे सतीदाहेन जायते।।
ऊर्ध्वबाहुर्विरौम्येष नहि कश्चिच्छृणोति माम्।
धर्मस्य तत्त्वं जानामि सतीदाहेन तद्भवेत्।।
इति विज्ञापयन् लोकान् विज्ञैनिर्भर्त्सितोऽपि सन्।
गतिं कालस्य नो जानन् धर्माचार्यो विषीदति।।
३५. समस्यापूर्तय:
(१)
अश्नस्तृणानि विचरन् बहुघासरम्ये
क्षेत्रे खरं बहुल-'ढेञ्चु’-रवं वितन्वन्।
सन्तुष्ट एष परिचिन्तयते खरो यत्-
'कालो ह्ययं निरवधिर्विपुला च पृथ्वी।।
'मञ्चे मुहुर्नदति भाषणतुष्टचेता:
साम्राज्यमेव मम सर्वमहं विजेता’-
इत्थं मनस्यविरतं कुरुते च नेता-
कालो ह्ययं निरवधिर्विपुला च पृथ्वी।।
आयु: परिस्रवति हस्तगृहीततोयं
स्थास्नुर्भविष्यति जगत्यचलोऽपि कोऽयम्।
श्वासावकाश इह दुर्लभ एव किं स्यात्-
कालो ह्ययं निरवधिर्विपुला च पृथ्वी।।
(२)
अक्षुण्णमेतद्धृदि पारतन्त्र्यं
रूपे विचारे व्यवहारजाते।
'स्वप्नो नु माया नु मतिभ्रमो नु’
स्वातन्त्र्यमेतद् यदवाप देश:।।
दारिद्रय-रोगं किल लोपयामो
वृत्तिं समेषामिह कल्पयाम:।
इत्थं वदद्भिर्बहु वाहितास्ते-
'मनोरथानामतटप्रपाता:।।’
'असन्निवृत्यै तदतीतमेव’
यद् गान्धिना स्थापितमत्र सत्यम्।
'टोपी’ च तन्नाममयी धृता या
नेत्रा विदूरीक्रियतेऽद्य सापि।।
क्लिष्टं नु तावत् फलमेव पुण्यं
सर्वाणि यातानि शुभानि वा किम्?।
देशस्य दैन्ये दिवसावसाने
छायेव लीना खलु संस्कृति: सा।।
(३)
एतत् कुरु प्रविकलं प्रविचाल्यमानं
सिंहासनं स्थिरतया विहितानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
'टोपी’ समुच्छलति भोस्तव मूर्ध्नि नेत:!।।
रीतिं जहीहि रसभावमयीं पुराणीं
शय्यां च मुञ्च ननु पाकमपाकुरुष्व।
काले कवेऽतिविकले नवकाव्यरम्ये-
मार्गे पदानि खलु ते विषमीभवन्ति।।
(४)
नो मासो मधुरस्ति सन्ति न पुनस्ता एव चैत्रक्षपा
नो वाता: प्रवहन्ति हन्ति न मन: पुष्पं प्रवालोपमम्।
नाहं सोऽस्मि तथाप्यसंस्तुतधिया स्वैरं प्रवृत्तं यथा
रेवारोधसि वेतसीतरुतले चेत: समुत्कण्ठते।।
(५)
यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतारुणपुरस्सर एकतोऽर्क:।
कालेन कन्दुकनिभौ चरणप्रहारै:
क्षिप्तावुभौ भुवि यथा शिशुनेव खेले।।
३६. अन्योक्ती
(१)
घट्टोऽयं नवयोगमाप, सुदिने राज्ञा समुद्घाटित:
सा सोपानपरम्परापि विहिता रम्या पुन: स्फाटिकी।
स्वच्छं सर्वमपीह शोधितचरं स्थानं विधानेन यत्
क्रीडोद्यानमिह प्रकल्पितमिदं निर्मापितं मन्दिरम्।।
‘‘आयाहीह रमस्व वा कुरु सखे स्वैरं विहारं मुदा
भक्तिश्चेत् परमेश्वरे, शिवगृहे पूजार्चनां वा कृथा:।
तीरे वा सरितो दिनं विगमय, स्थित्वा समुच्छ्वस्यताम्’’
‘‘नद्यां वारि तु नास्ति’’-‘‘तेन किमिह च्छिन्नं शुचं मा गम:।।’’
''पानीयं यदि नास्ति शून्यमिह तत् सर्वं भवेद् घट्टके
मुक्ता-मानस-शुक्तिका अपि हता: पानीयमप्राप्य यत्।’’
''रिक्तं घट्टमवाप्य सीदसि वृथा, शोकं सखे मा कृथा:
आनेतुं जलमत्र कापि बृहती सा योजना कल्पिता।।’’
(२)
कान्तारा अधुना न सन्ति येषु निनदेद् राजा स पञ्चानन:
चीत्कारं क्व मदातिरेकगुरुकं कुर्वन्तु ते दिग्गजा:।
रात्रौ किन्तु पूरे प्रसुप्तभुवने विश्रान्तकोलाहले
क्वापि क्वापि सुदूरतो विदधते तीव्रान् रवान् फेरवा:।।
गीतवल्लरी
३७. प्रश्रगीति:
सरति मानसे चिन्तासरणिर्नाणुतया वशमयते।
प्रश्रकीलिता सततं शङ्का ह्यतिशयमनुशयमिव कुरुते।।
विचलति वेल्लति भवति च मन: सहसा किमु सोत्कम्।
रेखामात्रमपि क्षुण्णं नो जायते किमर्थं मे।।
अङ्गारैराचितमपि सहसा महसैव नैव ज्वलति।
आर्द्रेन्धमिव चेतो धूमायते किमर्थं मे?।।
काव्यव्यक्ता स्वरलहरी गुञ्जति सततमनाहतापि।
नि:स्पन्दा न तु मानसतन्त्री झङ्कार्यते किमर्थं मे।।
त्रुटिते प्रेमाबन्धे प्रक्षालित इव मनसो रागे।
मयि दृष्टिं निदधच्चक्षुर्वाष्पायते किमर्थं ते?।।
३८. ईश्वरकाव्यविलास:
निबद्धभावसन्ततिप्रगाढबन्धबधुरम्
प्रमोदमद्यमेदुरं समं विषादसादितम्
अनादिवासनान्वितं रसैस्ततं सुसंस्कृतं
विचित्रवृत्तचित्रितं मितं हितेन सम्मितम्,
तदीश्वरस्य काव्यविश्वमद्भुतं महीयते।
विलोकय यन्निरूपितं ह्यपाङ्गकै: पिपास्यते
निशम्य चानिशं तु शं दिवानिशं न लभ्यते,
न जोषमास्यते परं, न तोषमाप्यते क्षणम्
तथापि यच्च गीयते स्वमानसे निधीयते
विषेण मूर्च्छिता सुधा त्वनारतं निपीयते
तदीश्वरस्य काव्यवर्त्म दारदोऽमृतायते।
द्रुमै: सुमै: प्रफुल्लिता क्वचित् प्रमोदवाटिका
नितम्बिनीह नीयते छविल्लकेन नायिका।
क्वचित् कुविन्दहट्टके जिजीविषा पणीकृता
क्वचिच्छ्मशानघट्टके सतीचिता प्रदीपिता
तदीय भस्मरञ्जिता भवेन स्वा तनु: कृता,
तदीश्वरस्य काव्यवस्तु भूतिभिर्विशिष्यते।
३९. ध्रुवागीतय:
(१)
राष्ट्रस्य भूमिर्महती विशाला
जायते मृत्योरिव पानशाला।
एता नराणां बत मुण्डमाला:
कीर्णा: कस्माद् दिशि दिशि विकराला:?
आर्तत्राणाय विधृतै: कृपाणै:
निर्दोषाणां किं पणितं प्राणै:।
उन्मादिनी कथं पीता हाला।
परित: सृता: शोणितमद्यकुल्या:
छायाश्चरन्त्यथवा प्रेततुल्या:।
अव्यग्रं मनुजो जग्धि क्रव्यं
हतयज्ञेऽर्पितं नराणां हव्यम्।।
मृत्युर्लूतेयं सारितजाला।
(२)
कालयामिनीयं क्षपिता भविता
उदयिता पथि प्रेरयिता सविता।
इति कल्पयते जनता भीतियुता
तस्कर-लुण्ठाकैर्बहुशो दलिता।।
कालयामिनीयं क्षपिता भविता।
(३)
तस्करास्ते प्रभवन्ति यथायथा
जायते जनजीवनमयथातथा।
अनुदिनं तु वर्धते जनताव्यथा
सूर्योदयस्य सा दूरेऽस्ति कथा
चलितव्यं तमसा ग्लपितेन पथा
इयं हि चिरन्तनी प्रथा।।
(४)
तमस्तु ततिर्भुवनं व्याप्रोति
तस्करवृत्तिरहो राष्ट्रं दुनोति।
जनतैषा धारयते विश्वास
सूर्योदयस्य कुरुते ह्यभिलाषम्।।
४५. लोरी-गीतम्
भद्रे निद्रे धीरे तीरे त्वमवतर मानससरसि न:।
शोकविमुद्रे मीलय नयनयुगलदलमलं जनस्य।।
अवतर भगवति निद्रे सुखं मया त्वत्कृते च समास्तृत:।
नवशाद्वलसुकुमार: स्रस्तर इव नयनपुट: स्वस्य।।
उच्छ्वासैर्नि:श्वासैर्वयैन्द्रजालैरहो दुकूलं तत्।
कूलं यन्नयते न: मन्दं मन्दं सुखजलधेश्च।।
दु:खविमोक्षे स्वीके शरणे स्वीकुरु च मामपि सकरुणे।
अरुणे त्वदिते कामं व्यपनय नयनगतमञ्चलं च।।
चञ्चलमस्ति मदीयं निध्यायत् त्वामिदं दृगञ्चलम्।
उद्घाटितौ गवाक्षावक्षिपुटौ मे प्रविश स्वैरम्।।
गृहकार्ये या जाले नितरां बद्धा न वेत्ति विश्रममपि।
क्षणमयि तामपि गृहिणीमाश्वासय नय च निजलोके।
क्षुधा चार्दिते बाले बाले काले दयस्व चास्मिंस्त्वम्।
स्थापय कामं वरदं भालतले स्वं करतलमस्य।।
नयनं न याति चयनं स्वप्नस्य चाप्ययनं विलीनं तत्।
नवपल्लवसुकुमारे गृह्णासि जनं न चेत् स्वाङ्के।।
दीने हीने दु:खाकुलिते श्रमेण च निस्सहगात्रेऽत्र।
दयसे त्वमेव शुभ्रे श्रमिकेऽपि कर्षकजने वापि।।
रणरणकाकुलितेऽस्मिन् कृपां कृपामयि निधेहि संसारे।
स्नेहसुधासारे स्वे सारय नयने सुखाधारे।।
४१. प्रेमगीतम्
भ्रान्त्वा क्लान्त: खिन्नमना: सम्प्राप्त:
सायं पुनरिह स्वं निकेतनम्
दृष्ट्वा त्वया सखेदं दयिते
दीयते खेदस्य वेतनम्।
इयमन्यतमा विलासलुलिता दृष्टिर्
मुहुरुज्जीवयतेतराम्
कार्यालय-हर-कोपानल-भस्मसात् कृतम्
अङ्गेष्वनङ्गमहो मकरकेतनम्।
अनुदिनमनुक्षणमनुसंसारम्
मुहुरिह सरणं मुहुरिह मरणम्,
आसङ्गतेराविप्रयोगतायास्ते
मुहुरुच्छ्वसितं मुहुरपि जीवितम्।
क्रान्त्वा द्वारं पुनरपि मृत्यो-
रायात: स्वकुलायवेश्मकम्।
जीवनरसमयि, यत्रासीना
कुरुषे स्नेहनिवेशनम्।।
भ्रान्त्वा क्लान्त: खिन्नमना: सम्प्राप्त:
सायं पुनरिह स्वं निकेतनम्।
दृष्ट्वा त्वया सखेदं दयिते
दीयते खेदस्य वेतनम्।।
४२. विक्रयगीतम्
विक्रीयते किं किं न भुवने?
क्रीतं सर्वं भो: करपादं
नेत्रं श्रोत्रं सादं सादम्।
श्रमिको बन्धीकृत्य क्रीतो
राजंस्ते निष्कृपे शासने।।
विद्या क्रीता क्रीतं ज्ञानम्
एतदेव किं ते विज्ञानम्?
क्रेतुं कथं पारयसि राजन्
मनोऽस्मदीयं विहिते पणने?
गीतं क्रीतं शब्दा: क्रीता
मधुमयभणितिर्हट्टं चैव
विदुषां सदसि, कविसम्मेलने।।
हट्टे हट्टे बत सङ्घट्ट:
को वा नष्ट: कोपि प्रणष्ट:।
विक्रेतार इमे ह्युपस्थिता:
दृष्टिं दत्त्वा क्रेतुर्वदने।।
स्वात्मच्छाया क्रीता दृष्टा
चितिरपि मनुजे भीता दृष्टा।
प्रतिबिम्बो नो स्वस्य वेद्यते
भवता प्रदत्तेऽस्मिन् दर्पणे।।
विविधं विततं सर्वं क्रय्यम्
किं वा क्रेयं किं वा हेयम्।
याहि याहि रे नैव कदाचिद्
विक्रीयते निखिलं जीवने।।
विक्रीयते सर्वं न भुवने।
५. नमोवाक्
४३. कन्याकुमारीकाव्यम्
क्रान्त्वा विन्ध्यं पुरवनततिं व्योमयानेन तूर्णं
वेलां प्राप्त: सहजकुतुकात् पश्चिमस्याहमब्धे:।
पृच्छामि त्वां कुशलमिह तल्लोचनाभ्यामदृष्टां
ज्ञातुं सोत्कोऽपि खलु कठिनं वर्धते ते तपस्तत्।।
अन्विष्यामि प्रतिदिनमिह त्वां कुमारीं प्रपन्नो
गन्ता वाऽऽहो कियदयि पथि प्राप्तये तेऽस्मि कन्ये।
मन्ये मातर्मम विकलतां विस्मिताभ्यामुरुभ्यां
पश्यन्ती त्वं स्मयस इह सा वत्सला लोचनाभ्याम्।।
हट्टे प्रान्ते नगरपरिधौ नीयते मे शरीरं
चित्तं चैतद् विचलति मुहुर्द्रष्टुमुत्कं कुमारीम्।
प्रत्युप्ता त्वं किमसि सिकतासङ्गतायां धरित्र्यां
किं वा ऽकस्मान्नयनपुरतो यास्यसीह प्ररोहम्?।।
दूराद् दृष्टा किमति सहसा ढौकसे१ स्वीयमास्यं (१. ढौक आच्छादने।)
लीना वासि प्रबललहरीतालतुङ्गेऽब्धिभङ्गे।
यद्वा गुप्ता क्वचन कुहरे सागरस्य प्रचण्डे
खण्डे वास्मिन् हिमगिरिसुते तप्यमाना तपांसि।।
धृत्वा हस्ते निभृतनिभृतं पादुके चैष पद्भ्यां
वेलायां यत् प्रबलजलधेरित्वरोऽहं चरामि।
देवि क्षेत्रे तव विचरत: केरलानां सुरम्ये
क्षन्तव्योऽहं यदि मम पदा कच्चिदामृश्यसे त्वम्।।
शान्ते क्षेत्रे सवननियमं वा चरन्ती शिलाया:
पृष्ठे भागे भवसि जनतामेलकेनात्र खिन्ना।
पश्यामि त्वां क्षितिजपुलिने दूरमस्या: शिलाया:
खेलन्तीं वोच्छलितगतिभिस्तै: पयोधेस्तरङ्गै:।।
सिन्धोरस्य प्रकटितमिदं यज्जलं कज्जलाभं
श्यामं रूपं छुरितमिह ते गाहनादेव वा किम्?
आप: शाटीलहरिपटलीं स्वे कराग्रे च धृत्वा
सोत्तिष्ठन्ती जलनिचयतो दृश्यसे तेन गौरी।।
शुभ्रै: फेनैर्हससि लहरीघातजातै: शिलायां
दोर्भ्यां दोर्भ्यां तरसि सहसा वीचिमालासु चाब्धे:।
एदद् दृश्यं क्वचिदित इत: सैकते तेऽङ्घ्रियुग्मं
हन्ताखण्डं क्वचिदपि न ते गौरि रूपं समीक्षे।।
नाहं बाल: प्रकृतिसरलस्त्वं च नैवासि माता
योत्सङ्गे मां रभसनिभृतं धारये: स्नेहजुष्टा।
प्रौढिं प्राप्त: पलितशिरसा त्वां कुमारीं नतोऽहं
मातृस्नेहस्त्वदुरसि सदा तेन मां स्वीकुरुष्व।।
यत्र स्थित्वा विहितविधिभिर्दीर्घकालं तपोभि:
सिन्धुर्बन्धुस्तरुवरगण: पुत्रकल्प: कृतस्ते।
काले तस्मिंस्तव हि तपसां साक्षिभूतास्तरङ्गा
अद्याप्येते कथयितुमहो उद्गतास्तत्कथां किम?।।
क्षिप्त्वा घोरं निशितपरशुं केरलानुद्दधार
रेखां कुर्वन् जलधिपरिधौ भार्गवस्त्वत्र राम:।
स्वीये क्रोडे विततलहरीभङ्गसङ्गे तपस्ते
दृष्ट्वा नूनं स्वयमिह ददौ स्थानमेतत् पयोधि:।।
अद्याप्येषा समयसुदढा बन्धुरा सा शिला ते
स्नेहात् तुभ्यं स्वयमुपहृता बन्धुना सिन्धुना या।
तत्र व्यक्तं दृषदि चरणन्यास आस्ते तवायं
शश्वद् भक्तैरुपहृतबलिर्भाजमान: पवित्र:।।
यस्यामेव प्रथितमतुलं नूतनं स्मारकं तै-
नव्यैर्भक्तै रचितमधुना च्छादयित्वा समुद्रम्।
अन्तर्धानं गतमिव तव स्थानमेतेन दिव्यं
त्वं तद् याता क्वचन सहसा डम्बरेणेव खिन्ना।।
त्रातुं चैतत् प्रकृतिसुभगं पश्चिमक्षेत्र रूपं१
(१. पश्चिमघट्टरक्षान्दोलनं साम्प्रतिकमत्र सङ्क्तेतितम्।)
वेलारूढैर्हरितसिचयां पादपैर्वन्य लक्ष्मीम्।
गुप्तापि त्वं सृजसि बहुला: सैनिकानां चमूस्ता
विश्वामित्रप्रतिहितरुषा कोपना नन्दिनीव।।
अङ्गारो वा भवति स यथा नष्टदीप्तिर्गतायु-
र्भस्मच्छन्नो झटिति पवनप्रेरणाज्वाल्यमान:।
निर्वाणं मे मतमिव तथा प्रातिभं ज्योतिरासीत्
त्वं चायाता नवलकलया तद्धि सन्धुक्षयन्ती।।
काव्यं कामं भवतु न पुनर्यद्धि सम्बोधनं मे
त्वां प्रत्येतत् किमपि लपितं जल्पितं स्वैरमेव।
मूकीभूता भवसि यदि वा भाषसे नोत्तरं वा
प्रत्यादेशं मयि तव कृतं नाहमेतं तु मन्ये।।
आपृच्छे त्वां गमनसमय: प्राप्त एषोऽधुना मे
किं वा भूय: सहजविशदं दर्शनं तेऽहमाप्स्ये।
धन्ये मान्ये यदि नुरहो मन्यसे दर्शनार्हं
कन्ये मां त्वं भवति च वयो मामकं तेन धन्यम्।।
श्रीश्रीकण्ठसमद्युतिं विदधतीं वारांनिधेरञ्चलं
श्यामां तां बहुनारिकेलकदलीवृक्षच्छटां तन्व तीम्।
रम्यां रम्यतटीकटीमनु सदा रक्ताम्बरं सैकतं
बिभ्राणां, हरितप्रभाप्रमुदितां कन्यां कुमारीं भजे।।
४८. भरत-भावना
भरतो भारतवर्षं भुवि प्रतिष्ठां निनाय कृत्स्नायाम्।
तेने नाट्यवितानं तेनेहाभिनयसन्तानम्।।
प्रतिभा निरता यस्य प्रति भारतवासिनोऽनुरञ्जनाय।
विश्रामाय श्रर्मार्त-शोकार्त-तपस्विनो नरस्य।।
येनायोजि नयेनाखिलमपि नाट्यं नवै: रसपदार्थै:।
आसंसारं सारं सारं क्षपितं न यत्सारम्।।
नैकान्ततोऽस्ति यस्मिन्ननुभावनं नरस्य देवस्यापि।
नैकान्ते यन्नयते मनुजं रमयति परं कान्ते।।
अध्वर्युं नवयज्ञे पूर्वमपूर्वं च येन जनितमत्र।
तमहं वन्दे भरतं प्रजापतिं नाट्यविश्वस्य।।
४९. कविस्मृति:
यक्षो मनो मदीयं कविता त्वलकापुरी त्वदीया सा।
मध्ये च वर्तमानो विलम्बते कालमेघोऽयम्।।१।।
रामगिरौ संसारे जीर्णारण्ये मुहुर्मुहु: प्लुष्ट:।
दवदहनज्वालाभिश्चिन्तासन्ततिभिरहमनिशम्।।२।।
तव स्मृति: सहसा सा सीकरसन्ततिरिवावतरन्तीह।
प्रशमनफलं विधत्ते चापन्नार्ते मदीयमनसि।।३।।
स्मरति मनो मे यावत् तव नवसंस्कारपूतभारत्या:।
तावन्नैव विधत्ते रतिमिह पापे न वा तापे।।४।।
एकान्ते ध्वान्ते मे विधुरा सीदति मनोदशा नितराम्।
दीपशिखेव ज्वलिता स्फाटिकयोगेन ते वाण्या:।।५।।
आपूरितकेदारे जीवति युक्तस्तु शुष्ककेदार:।
जीवितुमिह वाञ्छामि त्वयि युक्तस्तथा चाहमपि।।६।।
अभिनवसुन्दरताया: सहचर, सहचर मया स्वललितपदै:।
वसन्तेऽनन्ते वान्त-विकासिसुमसुरभितवनान्ते।।७।।
अवतर कविवर हालाहलपरिपूरितभवेऽस्मदीये त्वम्।
ऊयिकाभिरिव जग्धे ग्रन्थागारे विनष्टचरे।।८।।
विचर मया सह विन्ध्ये विखण्डितसत्त्वेऽपि।
खल्वाटे कान्तारे प्लुष्टप्राये च भूखण्डे।।९।।
घुणलग्ने सुविशाले काष्ढागारे तथैव समायाहि।
धीवर-विहितं प्रश्न समुपस्थापय पुन: सुकवे।।१०।।
वरमिमस्ममभ्यं त्वं कविवर देहि यजनेऽपि सृष्टेर्न।
धूमाकुलदृष्टीनां पावक एवाहुति: पततु।।११।।
४६. कालिदासवन्दना
भावावेशाद् रसिकहृदये या पदं न्यस्य मुग्धा
मन्दाक्रान्ता ह्यभिनवमधूवन्मनोहारिणी सा।
यत्काव्याभा सहृदयदलं मोहयत्येव सद्यो
वन्दे त वै सररचनं कालिदासं कवीशम्।।
प्रत्यादेशाद् विधुरहृदयां भर्त्सिसतां तां मुनिभ्यां
नारीं दीप्तां तदपि न रुषं नैव मानं त्यजन्तीम्।
तामेतां य: प्रतिसहृदयं मूर्तयामास चित्ते
वन्देऽहं तं ललितवचनं कालिदासं कवीशम्।।
एकान्ते य: स्मरति सततं स्वीयकान्तागुणानां
शून्येऽरण्ये करुणकरुणा लीयते यस्य वाणी।
गुह्यां ज्ञातुं प्रभवति कविर्गुह्यकस्यास्य पीडां
वन्देऽहं तं तरलहृदयं कालिदासं कवीशम्।।
अभ्युत्थानं व्यसनमखिलं मानवीनां प्रजानां
दृष्टं येन प्रकटितमिदं दर्शनाद् वर्णनाच्च।
राजन्तं तं ह्युपरि परित: काव्यविश्वे समस्ते
वन्दे नित्यं कविकुलगुरुं कालिदासं कवीशम्।।
४७. राघवभट्टवन्दना
दुर्याख्यामर्मप्रहरणभीषितखेदितकविताया:
वनिताया व्रणरूषितगात्रे बघ्नन्तं मृदु पट्टम्।
कालिदासकाव्याम्बुधिमवगाहं गाहं रत्नानां
राशीभूतानामर्थानां रचयन्तं नवहट्टम्,
अर्थद्योतनिकासौन्दर्योन्मीलितवाङ्मयरूपै:
विविधशास्त्रविद्याशिल्पानां कलयत्तं सङ्घट्टमहलन्त
द्रष्टारं सुकविकुलगुरो रसमयभणितेर्विच्छित्तीनां
लाघवबोधितभावततिं तं वन्दे राघवभट्टम्।
४८. सफ्दरहाशमी:
छाया यस्य सदा बभूव शरणं सन्तप्तलोकाय सा
साम्ये यासुदृढं सुनिश्चितपथं सन्दर्शयन्ती शिवम्।
या नाट्यं प्रतिबद्धमप्यरचयन्माङ्गल्यभावान्वितं
यस्यां श्रीश्च सरस्वती च पुरुषव्यापारवश्ये स्थिते।।
दुर्दान्तैर्नितरां मदस्मयजुशैर्धृत्वा कुठारान् खरान्
सत्तालोलुपवृत्तिभिर्वृकसमै: कातर्यनीतिं श्रितै:।
छिन्नस्तै: स महाशमीतरुरहो सान्तर्ज्वलत्पावक:
श्रीमान् सफ्दरहाशमी विजयते मृत्वाप्यसौ नो मृत:।।
निघ्नन्ति स्म कदर्थितास्तु कुटव: वीरं यथा छद्मना
चक्रव्यूहनिबद्धमर्जुनसुतं चैकाकिनं सङ्गता:।
हिंस्रै: स्वार्थपरायणै: कुचरितैरेक: स वीरो हत:
कर्तव्यं न जहौ क्षणे क्षणमहो यो वै तथा चान्तिमे।।
नष्टे वस्तुनि तस्य चात्र नितरां छायापि सा नश्यति
छायात्मा विननाश किन्तु न मनाङ् निश्चप्रचं हाशमे:।
दारास्तस्य वहन्त्यमी ध्वजममुं यत् तेन चोन्नामितं
माला नाम तदीयकीर्तिमणिकामालेव सञ्चारिणी।।
४९. उमा माहेश्वरी
सम्पूर्णं पुण्यानां वितरन्ती या फलं बहुलमनधम्।
अवतीर्णेयमभिनवा सरस्वती भारतवर्षभुवि।।
कालिदासकविताया: संसारं जीवितं विधत्ते या।
शकुन्तलालावण्यं कण्वौदात्त्यं भरतबाल्यम्।।
या गौरीव कुमारी तपश्चर्यया परं पवित्रं तत्।
चरितं चरितार्थत्वं नयति विनयगुणै: सम्पन्ना।।
उमया माहेश्वर्या प्रत्यक्षमुमाहेश्वरौ गमितौ।
सम्यक् कृता सपर्या वागङ्गससत्त्वनेपथ्यै:।।