<
सर्वशुक्लोत्तरा
वाणीं वयं वन्दामहे!
कुन्देन्दुहिमधवलां धवलवस्त्रावृतां हंसस्थितां
वरकच्छपीझङ्कृतिपरां ब्रह्मेशनारायणनुताम्।
मालाधरां पुस्तकधरां निःशेषजाडयविलोपिनीम्
अक्षय्यविद्याविभवदां वाणीं वयं वन्दामहे।।१।।
यस्याः स्मरणमात्रोण पुम्भिर्लभ्यते ज्ञानप्रभा
यस्याः कृपालवलेशतः सुलभा शुभा वाचो विभा।
शब्दार्थगुणवृत्तिप्रदां रीतिप्रदां रसदायिनीम्
ध्वन्यौचितीवक्रोक्तिदां वाणीं वयं वन्दामहे।।२।।
प्रतिभाप्रदां व्युत्पत्तिदामभ्यासदां रचनात्मिकाम्
गद्यात्मिकां पद्यात्मिकां स्वरताललयतानात्मिकाम्।
श्रव्यात्मिकां दृश्यात्मिकां कविसहृयाख्याधारिणीम्
वागात्मिकां नादात्मिकां वाणीं वयं वन्दामहे।।३।।
निगमागमाकृतिधारिणीं सच्छास्त्राचिन्तनरूपिणीम्
विज्ञान-दर्शन-साहिती-भाषा-विभाषा-रूपिणीम् ।
शिक्षा-निरुक्त-व्याकरण-कल्पात्मिकां लिपिरूपिणीं
छन्दोमयीं ज्योतिर्मयीं वाणीं वयं वन्दामहे।।४।।
विश्वं समस्तं मूकवज्जायेत यत्कृपया विना
भुवनं भवेदन्धं तथा यस्या दयालोकं विना।
दूरेऽन्तिके वा तिष्ठतां तां योजयित्रीं प्राणिनां
लोकावलम्बनरूपिणीं वाणीं वयं वन्दामहे।।५।।
यास्ते परा पश्यन्तिका या मध्यमा या वैखरी
सृष्टिस्थितिप्रलयेश्वरी सुयशस्करी मङ्गलकरी।
तमसो जनान् ज्योतिर्नयति या, तां विधातुर्गेहिनीं
शुक्लां सुमतिदां मातरं वाणीं वयं वन्दामहे।।६।।
रचना तिथिः १४/०९/१९९४
सुरभारती विजयते
निगामागमैरुपेता विज्ञानरत्नम्या।
वेदाङ्गपूतकाया सुरभारती विजयते।।
जयदेवशुभ्रगीतिः कविकालिदासकीर्तिः।
सौमिल्लभासहासा सुरभारती विजयते।।
तत्त्वं विचारयन्ती ज्ञानं प्रचारयन्ती।
चित्तं विकाशयन्ती सुरभारती विजयते।।
लोकं प्रबोधयन्ती शोकं विदारयन्ती।
चिन्तां विनाशयन्ती सुरभारती विजयते।।
‘विद्या ददाति विनयं’ ‘सत्यं सदा विजयते’।
इत्यादि कीर्तयन्ती सुरभारती विजयते।।
अज्ञैर्मृतेति गदिता ह्यमरत्वभावभरिता।
नित्यं प्रवर्धमाना सुरभारती विजयते।।
गीतासुघोषदात्री लालित्यभावधात्री।
नित्यं च सर्वशुक्ला सुरभारती विजयते।।
(रचना तिथिः २४-१२-१९७५)
वेदवाणीं नुमः
पश्य देवस्य काव्यं यदास्तेऽमृतं
यज्जराबाधितं नो भवेज्जातुचित्।
अस्य सञ्ज्ञास्ति वेदः, सदा पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।१।।
नैव पश्येदभद्रं नरश्चक्षुषा
नैव चाकर्णयेद्वाप्यभद्रं क्वचित्।
भावनेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।२।।
अन्तरिक्षद्युवारिक्षमासु ध्रुवं
शान्तिसाम्राज्यमास्तां सदा राजितम्।
कामनेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।३।।
स्याम ऐक्यस्थिताः, संवदध्वं समे
मानसं शैवसङ्कल्पपूतं भवेत्।
प्रेरणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।४।।
अस्ति माता मदीया धरेयं तथै-
वास्म्यहं तत्सुतस्तसपर्यापरः।
घोषणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।५।।
राष्ट्रमास्तां सुपुष्टं समृद्धं सदा
त्यागभोगौ सखायौ भवेतां तथा।
देशनेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।६।।
वारिवाहः सुकाले समागच्छतात्
सन्तु गावश्च पुष्टाः समस्तास्तथा।
मार्गणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः।।७।।
‘मा जलानां तरूणां च हिंसां कुरु’
‘द्यूतखेलां परित्यज्य कर्षं कुरु।’
मानवं या दिशन्ती, श्रुतिं तां मुदा
वेदवाणीं नुमो वेदवाणीं नुमः।।८।।
कर्म कुर्वञ्छताब्दं नरो जीवतात्
स्वस्ति पन्था भवेत्प्राणिनां सर्वदा।
ईदृशीं स्वस्थदृष्टिं दिशन्तीं नृणां
वेदवाणीं नुमो वेदवाणीं नुमः।।९।।
‘नैकधर्मास्तथानेकवाचो नरा
मातरं भूमिमेनां सदा रक्षत।’
राष्ट्रियां वैश्विकीमेकतां तन्वतीं
वेदवाणीं नुमो वेदवाणीं नुमः।।१०।।
(रचनातिथिः २८/२/१९९५)
धन्वन्तरिं तमीडे
आविर्बभूव योऽब्धेरमृतं घटे दधानः।
पातुं जनानपथ्याद् धन्वन्तरिं तमीडे।।१।।
विष्णुस्वरूप आयुर्वेदस्य योऽस्ति कर्ता।
भगवन्तमम्बुजाक्षं धन्वन्तरिं तमीडे।।२।।
आद्यं शरीरमास्ते धर्मस्य साधनं यत्।
तद्रक्षितुं दिशति यो धन्वन्तरिं तमीडे।।३।।
चरकाय सुश्रुताय प्रथिताय वाग्भटाय।
यः प्रेरणां प्रदत्ते धन्वन्तरिं तमीडे।।४।।
अद्यापि यस्य भक्ता अष्टाङ्गमाचरन्तः।
स्वस्थं जगद्विदधते धन्वन्तरिं तमीडे।।५।।
‘सर्वे भवन्तु सुखिनः, सर्वे निरामयाः स्युः’।
इयमस्ति यस्य काङ्क्षा धन्वन्तरिं तमीडे।।६।।
(रचना तिथिः ८/९/१९९१)
महाकाल-मालिका स्तोत्रम्
श्रीमहादेव शम्भो जय जय।
देवाधिदेव शम्भो जय जय।।
जय साम्बसदाशिव शम्भो जय।
जय चन्द्रमौलि-परमेश्वर जय।
कैलासपते पार्वतीपते
जय जगत्पते शङ्कर जय जय।
श्रीमहादेव शम्भो जय जय।।१।।
जय शिव हर मृड भव रुद्र भीम
पितृसद्मनिलय पशुपतेऽसीम।
जय महादेव जय विरूपाक्ष
ईशान महेश्वर जय जय जय।।
श्रीमहादेव शम्भो जय जय।।२।।
जय सोमनाथ शम्भो जय जय
श्रीशैलमल्लिकार्जुन जय जय।
जय महाकाल जगदीश्वर जय
ओङ्कारेश्वर जय जय जय जय।।
श्रीमहादेव शम्भो जय जय।।३।।
गिरिजासमेत वैद्यनाथ जय
डाकिनी-भीमशङ्कर जय जय।
जय रामेश्वर जय नागेश्वर
जय काशी-विश्वनाथ जय जय।
श्री महादेव शम्मो जय जय।।४।।
जय त्र्यम्बकेश केदारनाथ
जय घुष्मेश्वर जयदमरनाथ।
जय मदनदहन जय त्रिपुरदहन
जय पापदहन त्रिनयन जय जय।।
श्रीमहादेव शम्भो जय जय।।५।।
जय गङ्गाधर जय पार्वतीश
जय नीलकण्ठ जय जय गिरीश।
जय भूतेश्वर जय सिद्धेश्वर
जय बिल्वेश्वर बृहदीश्वर जय।।
श्रीमहादेव शम्भो जय जय।।६।।
एकलिङ्ग जय लिङ्गराज जय
स्थाण्वीश्वर जय नञ्जनगुड जय।
जय गौरीशङ्कर जय जय जय
जय लोहितनील दिगम्बर जय।।
श्रीमहादेव शम्भो जय जय।।७।।
जय रोहिडेश दाल्भेश्वर जय
मीनाक्षीसुन्दरेश जय जय।
भोजेश्वर जय यागेश्वर जय
पशुपति- पशुपाशविभञ्जन जय।।
श्रीमहादेव शम्भो जय जय।।८।।
त्रिपुटीश मतङ्गेश्वर महेश
जय गुह्यकेश जय नन्दिकेश।
जय महाबलेश्वर धारेश्वर
ममलेश वटेश्वर जय जय जय।
श्रीमहादेव शम्भो जय जय।।९।।
नटराज चिदम्बर गरलाशन
जय घण्टाकर्णदुःखनाशन।
भस्मासुरबाणादिवरद जय
जय मार्कण्डेय-कृपाकर जय।।
श्रीमहादेव शम्भो जय जय।।१०।।
दक्षिणामूर्ति-दक्षिणेश जय
नित्यान्धकरिपु-नर्मदेश जय।
अचलेश्वर जय गोपेश्वर जय
गौरीश गणेश्वर जय जय जय।।
श्रीमहादेव शम्भो जय जय।।११।।
जय वृषवाहन गजवदनतात
गिरिजाधव हे षड्वदनतात।
भस्माङ्गराग भवभयभञ्जन
मणिकर्णिकेश हर हर जय जय।।
श्रीमहादेव शम्भो जय जय।।१२।।
मङ्गेश विभो मङ्गलमय जय।
जय प्रलयङ्कर शङ्कर जय जय।
जय ताण्डवकर जय विश्वरूप
नागेश नटेश्वर हरिहर जय।।
श्रीमहादेव शम्भो जय जय।।१३।।
अष्टमूर्ति जय जय पिनाकधर
जय वृषभध्वज जय त्रिशूलधर।
जय डमरूद्वेलन नृत्यप्रिय
कैलासशिखरवासिन् जय जय।।
श्रीमहादेव शम्भो जय जय।।१४।।
विद्याप्रसूति-देवाधिनाथ
रतिवरदायक जय भूतनाथ।
निर्वाणरूप वेदस्वरूप
अज! अनन्त! जय निर्गुण जय जय।।
श्रीमहादेव शम्भो जय जय।।१५।।
जय रावण-रामचन्द्र-पूजित
जय परशुराम-कुम्भज-पूजित।
सुरनरमुनिकिन्नरदेववन्द्य
उरगासुरभूतवन्द्य जय जय।।
श्रीमहादेव शम्भो जय जय।।१६।।
शितिकण्ठ शिवाप्रिय नागान्तक
शशिशेखर दक्षयज्ञनाशक।
जय जय कपालमालाभूषित
जय परमघोर जय मृत्युञ्जय।
श्रीमहादेव शम्भो जय जय।।१७।।
पञ्चानन योगिन् नन्दीश्वर
सूर्याग्निचन्द्रलोचन ईश्वर।
श्रीकण्ठ भर्ग धूर्जटे विभो
स्वरमय सर्वज्ञ सामप्रिय जय।।
श्रीमहादेव शम्भो जय जय।।१८।।
वेदान्तसारसन्दोह जप्य
हे व्योमकेश हे विमलोदय
जय खण्डपरशु-हर वृषाकपे
गोपते गोप्तृसर्वेश्वर जय।।
श्रीमहादेव शम्भो जय जय।।१९।।
उग्रेश मयोभव शङ्कर जय
विश्वेश मयस्कर शिवतर जय।
त्र्यम्बक सुगन्धि-पुष्टिप्रद जय
त्वं कर्ता भर्ता हर्ता, जय।।
श्रीमहादेव शम्भो जय जय।।२०।।
कर्पूरगौर करुणावतार
संसारसार भुजगेन्द्रहार।
जय सद्योजात महानट जय
तत्पुरुष गृहस्थ यतीश्वर जय।।
श्रीमहादेव शम्भो जय जय।।२१।।
पार्वतीतपस्याक्रीतदास
मेना-नगपति-पुण्यप्रकाश।
जडचेतनमय हे प्रमथनाथ
जय निष्कल सकल निरञ्जन जय।।
श्रीमहादेव शम्भो जय जय।।२२।।
दिक्कालाद्यनवच्छिन्नरूप
जय हे ब्रह्मानन्दस्वरूप।
जय निराकार जय भक्तवरद
लोकेश रमाकान्तप्रिय जय।
श्रीमहादेव शम्भो जय जय।।२३।।
विश्वात्मन् भवते नमो नमः
हे महाकाल! ते नमो नमः
अक्षरमालां स्वीकुरु भगवन्!
सच्चिदानन्द हे ज्योतिर्मय।
श्रीमहादेव शम्भो जय जय।।२४।।
इति नवदिल्लीस्थवाणीविहारवासिश्रीरमाकान्तशुक्लप्रणीतं भास्कराचार्यसंस्कृतं ‘महाकाल-मालिका’ नाम स्तोत्रं सम्पूर्णम्।
पठतां शृण्वतां च शुभमस्तु।
रचनातिथिः शिवरात्रिः २.३.१९९२ परिवर्धन-परिष्कारतिथिः २६.२.२००६ महाशिवरात्रिः २०६२ रविवारः
श्रीवरदेश्वराष्टकम्
श्रीहरिन्यासेन पुर्यां श्रीभिवान्यां स्थापितं
कामकोटियतीश्वरादरभक्तिभावसुपूजितम्।
आञ्जनेय-गणेश-षण्मुखसेवितं विश्वम्भरं
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।१।।
हरितदूर्वा-पाटलैरश्वत्थवटबिल्वादिभिः
पारिजातैश्चम्पकैर्नक्षत्रवृक्षैः शोभिते।
मन्दिरे श्रीहरिहराख्ये श्रीभिवानीसंस्थिते
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।२।।
कमलभूषितसलिलपूर्णैः सुप्रसन्नसरोवरैः
विविधवर्णजलच्छटामहितैश्च धारायन्त्रकैः।
अतिथिगृह-सत्सङ्गभवन-ग्रन्थगेहैः पूजितं
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।३।।
श्रीहरेरनुकम्पयाकाशीयमार्गेणागतम्
रत्नपीठोत्तरजलहरीराजितं पश्चिममुखम्।
यज्ञशाला-विष्णुमण्डपमध्यगं वृषभध्वजं
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।४।।
स्तम्भकुट्टिमतोरणध्वजकुम्भदीपाधारकैः
घण्टिका-देवाङ्गना-गोमुख-कपाटैर्मण्डिते।
मन्दिरे विभ्राजमानं पूजितं भक्तैर्नतैः
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।५।।
अशरणानां शरणदं भवभीतिभीताभयकरं
भक्ति-मुक्तिसुदायकं शक्तिप्रदं पापापहम्।
सच्चिदानन्दस्वरूपं व्यापकं विभुमव्ययं
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।६।।
अष्टमूर्तिधरं परेशं निर्गुणं सगुणं परं
कारणानां कारणं दृश्यं तथादृश्यं शिवम्।
श्रीभिवानीपुरपतिं जगतीपतिं जगदात्मकं
नौमि वरदाम्बायुतं वरदेश्वरं वरदायकम्।।७।।
धन्यधन्यास्ते समे यैर्निर्मितं प्रभुमन्दिरं
शिल्पिनः प्रतिमाकरा उद्यानकारा रक्षिणः।
वेदपाठकृतोऽर्चका भक्ताश्च दर्शनकामिनो
ये स्मरन्ति नमन्ति वरदाम्बायुतं वरदेश्वरम्।।८।।
रमाकान्तेन शुक्लेन श्रीब्रह्मानन्दसूनुना।
कृतं स्तोत्रं पठेद्यस्तु शिवभक्तिं स आप्नुयात्।।९।।
(रचनातिथिः ३०.३.२००३ महाशिवरात्रिः)
नमः शास्त्रिणे वीरधुर्याय तस्मै
यमालोक्य लोकस्य सेवासु सक्तं
सदा मातृभूमिः प्रसन्ना बभूव।
व्यधाद् यः समस्तं जनौघं स्वभक्तं
नमः शास्त्रिणे वीरधुर्याय तस्मै।।१।।
सदा यस्य वक्तृत्वपीयूषधारां
निपीयाऽभवन् देशभक्ता अमर्त्याः।
अभूवंश्च शत्रोः कृते ते कृतान्ताः
नमः शास्त्रिणे वीरधुर्याय तस्मै।।२।।
सदा कर्षकैर्मन्त्रदो यः प्रतीतो
गृहीतो भटैर्यः समुत्साहपुञ्जः।
मतः शान्तिकामैश्च यः शान्तिदूतो
नमः शास्त्रिणे वीरधुर्याय तस्मै।।३।।
न मम्लौ यदीयं मुखं निःस्वतायाम्
विमूढं न चित्तञ्च मन्त्रित्वलाभे।
सदा कर्मठो यः स्थितप्रज्ञ आसी-
न्नमः शास्त्रिणे वीरधुर्याय तस्मै।।४।।
सदा सञ्चितं येन वृत्तं न वित्तम्
सदा स्वीकृतं चार्जवं नैव दैन्यम्।
प्रियं यस्य कार्यं न चैव प्रभुत्वम्
नमः शास्त्रिणे वीरधुर्याय तस्मै।।५।।
दृढं यन्मनो वज्रराशिं बभार
कृशं यच्छरीरं हिमाद्रिं दधार।
बलिञ्चाकरोज्जीवनं यो जनन्यै
नमः शास्त्रिणे वीरधुर्याय तस्मै।।६।।
(रचनातिथिः २-१०-१९६५)
उज्जयिनीयं जयति
क्षणमपि दृष्टा यालोकयितुर्जातु जहाति न चित्तम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
उज्जयिनीयं जयति विशाला कविगणवन्द्या नित्यम्।।
1
उद्घाटयति निजं हृदयं ब्रूते निजकथा अतीताः
श्याममृत्तिका स्पृष्टा प्रेम्णा यस्या लोकातीता।
कालिदास-शूद्रक-विक्रम-वेताल-विलक्षणघटनाः
कविकुलवर्णितविविधदेशवस्तूच्चयरीतिविरचनाः।।
प्रत्यक्षं तनुते मानसमोदाय समेषां सततम्
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
2
उदयन-वासवदत्ता-सेना-चारुदत्त-कल-गाथाः
केकित्रासककबरीभाराः सुरभिलधूपसनाथाः।
लोलापाङ्गैर्लसितास्तन्व्यः श्यामा मध्ये क्षामाः
श्रोणीभाराद्विलसितगमनाः तन्त्रीवादनकामाः।।
पदे पदे साक्षात्क्रियन्ते यत्र सहृदयैर्नित्यम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
3
हारास्तारास्तरला गुटिका भाण्डसमूहा भव्याः
पुष्पस्तबकाः शेखरहारा माला नव्याः नव्याः।
शिप्रावाताः कविसङ्घाता महाकालशिवभक्ताः
शास्त्रकाव्यनाटकसङ्गीतानां गोष्ठीष्वनुरक्ताः।।
यत्राद्याप्यविरतं हरन्ति प्रेक्षावतां सुचित्तम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
4
अत्रैवाभिरूपभूयिष्ठा विक्रमपरिषत् शुशुभे
या कविकालिदासकृतनाटकवीक्षणाय खलु लुलुभे।
अत्रैवापरितोषाद्विदुषां कविना यत्नोऽकारि
बाणो विजहारात्र निश्चितं सहृदयहृदयविहारी।।
अत्रागत्य जायते चित्तं शिवं सुन्दरं सत्यम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
5
शिप्रास्नानं यत्र धर्मिणः कलिमलदारणनिपुणम्
अर्थकामिनो विपणिविभागं नानापण्यसुपूर्णम्।
कामकामिनोऽभिमतं स्थानं नवलविलासोल्लसितम्
मोक्षार्थिनो महाकालेशं ज्योतिर्लिङ्गं प्रथितम्।
क्षीरसागरं यान्ति च रसिका नद्यो यथा समुद्रम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
6
‘चल चल भामिनि चल सिंहस्थं द्वादशवर्षैर्लब्धम्’
‘चल गजगामिनि कार्तिकमेलाक्षेत्रं कौतुकलुब्धम्।’
‘चल मूढे क्रीणामि सुमाल्यं मालीपुरे त्वदर्थम्’
‘अहो श्रूयते कार्तिकमासे शृणु शृणु कोकिलविरुतम्’।।
यत्रेत्थं चाटूयति रमणो दयितानिर्दयचित्तम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
7
प्रतिवर्षं खलु यस्याः शिप्रातीरे विचलितधीरे
‘माच’ - दर्शनोत्सुकैर्मालवैः मेलाशीतसमीरे।
अविदितगतयामा रजनी नीयतेतरां निश्चिन्तम्
झञ्झावाते घनघनवर्षे वापि शीतले नीरे।।
अहो मधुरिमा, अहो प्रमोदो यस्या अतुलो नित्यम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
8
रविकरचुम्बितकमलविकासैः मदकलसारसनादैः
मालविकानां सुमधुरहासैः विबुधशिरोमणिवादैः।
देवोत्थानवह्निखेलाभिर्नवनवदीपविलासैः
भैरवगढमुद्रितवस्त्राणां चेतोहरैः सुहासैः।।
बालवृद्धयूनां परिहासैर्या जयति जगच्चितम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
9
चमरपुच्छिका खण्डितकन्दुक कुसुमनोहरवर्षैः
कविकविताप्रस्तुतिवेलायां सहृदयसुहृदां हर्षैः।
अतिथीनां विदुषां सचेतसां सुमनोरथचङ्क्रमणैः
व्याससमासरीतिवक्तव्यैः भावानां सङ्क्रमणैः।
कीर्तिमन्दिरं भाति हि यस्याः कालिदासमहममहितम्
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
10
पक्षप्रहारैश्चञ्चुश्लेषैः गुटरगुटरगूँकारैः
मानैरनुधावनैरथो मदनाज्ञापालनचारैः।
द्वाभ्यां तथा तृतीयस्योत्सारणैर्यत्र सव्यूहः
अश्मभ्योऽपि हि प्रेमकलामुपदिशति कपोतसमूहः।।
विक्रमकीर्तिमन्दिरं तद्यस्या अक्षय्यं वित्तम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
11
हरसिद्धिं योगेश्वरसदनं मङ्गलनाथं रम्यं
भर्तृहरेर्गह्वरं, चाश्रमं सान्दीपनेः पवित्रम्।
ज्येष्ठगणेशं, पञ्चमुखं हनुमन्तं भवभयहरणम्
दर्शनीयमथ नानातत्त्वं यस्यां विस्मयकरणम्।।
वीक्ष्य भवति नहि कस्य मनो रे! श्रद्धा-विस्मयभरितम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
12
यत्रागत्य निवर्तितुमिच्छति नैवागन्तुकलोकः
श्रावं श्रावं यस्या गाथां तृप्तिं याति न लोकः।
स्मारं स्मारं यस्या विभवं भवति विस्मितो लोकः
पायं पायं यस्या शोभां माद्यति सर्वो लोकः।
यस्या विरहो जनयति मोहं, व्यथयति दृढमपि चित्तम्।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
13
विहरति विहसति विलसति नृत्यति या मानसे न केषाम्?
सुखयति मदयति रमयति रसयति या मानसं न केषाम्?
सरला सरसा मुग्धोदारा या राजते समेषाम्।
शुभदा सुखदा वरदादरदा या राजते समेषाम्।
सर्वशुक्लया वाग्देव्या खलु यत्र समोदं हसितम्।।
उज्जयिनीयं जयति विशाला बुधजनवन्द्या नित्यम्।।
(रचनातिथिः ३१-११-१९८२, उज्जयिन्याम्)
राजस्थानम्
यद्विदुषां वीराणां धनिनां श्रमिकाणां च निधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।
1
शिलादेवि - गलताजी - बालाजी - श्रीनाथद्वारैः।
एकलिङ्ग - पुष्कर - कौलायत - करणी - रामद्वारैः।।
रामधाम - रणछोड़ - साँभरा - सर्वेश्वर - जयकारैः।
श्रीद्वारकाधीश - लोहार्गल - प्रभृतितीर्थपरिवारैः।।
त्रिविधतापतप्तेभ्यो नित्यं यद्ददाति शमदानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
2
बप्पारावल - राणासाँगा - गोरा - बादल - वीरैः।
सिंहप्रताप - सदृशरणवीरैः सन्धापालनधीरैः।।
दुर्गावती - पद्मिनी - हाडीरानी - विश्रुतवृत्तैः।
अङ्गीकृतसुव्रतजौहरनारीणां दिव्यसुचरितैः।।
यद्विदधाति जगज्जनतायाश्चारित्र्यस्योत्थानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
3
डिङ्गल - पिङ्गल - वयणसगाई - काष्ठपुत्तलीनृत्यैः।
रत्नपरीक्षा - प्रस्तरखण्डन - ढोला - मारू - वृत्तैः।।
अणुविस्फोटपरीक्षण - पुस्तकगृह-परमाणुविकासैः।
आर्हत - वैदिक - धर्मप्रचारैर्विविधकलानां हासैः।।
यद्ददाति तैस्तैश्च विशेषैर्निजवैभवप्रमाणम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
4
तप्ते यन्मरुदेशे मधुरा ‘मत्तीराः’ रसपूर्णाः।
यस्य ‘राबड़ी’ लोकप्रसिद्धा आस्वादैरापूर्णा।।
यन्मरुभाषाबद्धवाङ्मयं शोधकमोदविधायि।
दुग्धसारशष्कुलीसेवनं यस्य च तृप्तिविधायि।।
यन्मालिन्या बीकानेर्याः सिद्धं तुलाविधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
5
‘अस्मि प्रेमप्रमत्ताहं मम पीडां वेद न कश्चित्’।
‘गिरिधराग्रतो नर्तिष्यामि, रोत्स्यति मां नहि कश्चित्’।।
‘मम तु केवलं गिरिधरगोपो नान्यः कोऽपि जगत्याम्’।
इत्येवं वचसा मनसा कर्मणा रताया भक्त्याम्।।
अमृतं कृत्वा विषं पिबन्त्या यन्मीरायाः स्थानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
6
घघरा - कञ्चुक, बिन्दुशाटिका - गोटावृतवसनानाम्।
कटक-बोरला-नूपुर- नथली-वलयाङ्गद-रशनानाम्।।
टड्डे - वाटे - बँगड़ी - कङ्गन-चूड़ा - हथफूलानाम्।
टीका-झुमका-हँसली-टिकली-कटिका-रमझोलानाम्।।
विच्छित्त्या भरितं यत्तनुते चारुत्वस्य वितानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
7
कज्जलकलितललितनयनानां मँहदीरक्तकराणाम्।
धृतविविधाभूषणवसनानां लोकरीतिपरकाणाम्।।
दूर्वालङ्कृतकरकमलानामर्चनगीतपराणाम्।
बालानां सौभाग्यवतीनां धृतमस्तककलशानाम्।।
उपचारैर्विविधैर्विलसति यस्मिन् गणगौरविधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
8
मुरकी - कमरी - पगड़ी - धोती - धौड़ीपादत्राणैः।
लसिता यस्य जना शोभन्ते नित्यं श्मश्रूत्थानैः।।
अश्मखण्डने मूर्तिविरचने शोभनगृहनिर्माणे।
यस्य श्रमिका नित्यं निरता मार्गाणां च विधाने।।
प्रकृतिकोपदलिता अपि नित्यं विदधति देशोत्थानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
9
गिरिधरशर्मचतुर्वेदोपमविद्वद्रत्नैर्लसितम्।
मञ्जुनाथमथुरानाथोपमकविवरवैभवलसितम्।।
बाँकीदास - सूर्यमल्लागरचन्दयशोभिर्लसितम्।
काँकर- झाबरमल्ल-सबा-रांगेय-गुलेरी-लसितम्।।
विद्याधरमहितं यद् धत्ते ज्ञानमथो विज्ञानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
10
हल्दीघाटी - चेतकशौर्यं स्मारं स्मारं यस्य।
अर्बुदलोकोत्तरसौन्दर्यं दर्शं दर्शं यस्य।।
अगणितवीराणां कलगाथाः श्रावं श्रावं यस्य।
अभिनवकुल्याजलसञ्चारं लोकं लोकं यस्य।।
अवसन्नस्यापि जनस्य मनो लभतेऽद्भुतमुत्थानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
11
क्षणे क्षणे या नवतां धत्ते कणे कणे कलगानम्।
गृहे गृहे या कमलां धत्ते पदे पदे सम्मानम्।।
दिनं दिनं या पर्व विधत्ते जनं जनं सोल्लासम्।
नयने नयने लीलां धत्तेऽधरेऽधरे च सुहासम्।।
एवम्भूता पाटलनगरी यस्यानन्दनिधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
12
पवनप्रासादेन वैद्यविदुषां नैपुण्यविलासैः।
चन्द्रप्रतोल्या चतुष्पथैरथ रम्योपवनविलासैः।।
चित्रविचित्रनामपट्टैरापणिकोदारसुमार्गैः
आगन्तूनां वित्तहराणामापणिकानां भागैः।।
लसिता यज्जयपुरी विधत्ते वृद्धं जनं युवानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
13
घर्मच्छायापीतश्यामा क्वाप्यरावली रम्या।
क्वापि कुरङ्गाली चलचरणा रोमन्थिनी विलोक्या।।
क्रमेलकानां क्वचिदपि मानवकार्यार्थं सहयोगः।
दृश्यः क्वचिदपि गोण्डवणानां रूपस्वरसंयोगः।।
यस्मिन् दृश्यं क्वापि नृत्यगीतानां मधुरविधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
14
दिलवाड़ा-गोविन्द-बिहारी-मन्दिराणि दिव्यानि।
राजसमन्दं बालसमन्दं स्थानान्यथ भव्यानि।।
आमेरे बीकानेरे जैसलमेरे दुर्गाणि।
जोधपुरोदयपुरामेर - जल - झील - काच - महलानि।।
श्वेतरक्तपाषाणानथ धत्ते यत्ताम्रनिधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
15
अर्थिकामपूरणं विधत्ते यत्र गरीबनवाजः।
भूमण्डले समस्ते व्याप्तो यद्व्यापारिसमाजः।।
यस्य श्रमिका जगत्प्रसिद्धाः सत्वरकर्मविधाने।
यस्य च धनिका जगत्प्रसिद्धाः धर्मार्थं धनदाने।।
रणाङ्गणे यद्वीरस्तनुते ह्यनुपमशौर्यवितानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
16
असमयवृष्टिं दुर्भिक्षं वा भूमेरूषरतां वा।
वह्निवातभूकम्पावर्षणजनितानुपद्रवान् वा।।
पेयजलाभावं पशुचाराभावं वस्त्राभावम्।
समुचितशिक्षावसराभावं वृत्तिनिश्चयाभावम्।।
जेतुं यतते श्रमबलतो यन्नित्योत्साहनिधानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
17
यद्वर्णयितुं यज्ज्ञापयितुं शब्दास्तिष्ठन्त्यल्पाः।
यस्य द्रष्टुं वैभवमखिलं ह्यपेक्षिता वै कल्पाः।।
यस्य सरो (झील)-वापिका-सागरान् को वा मातुं शक्तः?
विजयस्तम्भं यस्य चोन्नतं को विस्मर्तुं शक्तः?
नानादेशसमायातानां विहगानां यत्स्थानम्।
जयति मनोज्ञं राज्यललामं तदिदं राजस्थानम्।।
(रचनातिथिः १३-४-१९८३)
अहं स्वतन्त्रता भणामि
अहं स्वतन्त्रता भणामि मद्वचो निशम्यताम्।
निधाय मानसे च तद् यथोचितं विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
1
मदर्चनाकृते शिरांस्युपायनीकृतानि यैः,
धनं वपुस्तथा मनः सहर्षमर्पितानि यैः।
अवापुरात्मवक्षसि ज्वलद्भुशुण्डिगोलिकाः,
गतास्त एव मे जना सदैव वन्दनीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
2
भवद्भिरन्तरिक्षगा जनाः स्वदेश ईक्षिताः,
भवद्भिराततायिनाशकारिणोऽपि दीक्षिताः।
कृतं भवद्भिरेशियाद्व्यशीतिखेलयोजनम्,
तदेतदर्थमद्य मे शुभेहितं प्रगृह्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
3
भवद्भिरद्य दृश्यते यथार्थिकी समुन्नतिः,
भवद्भिरद्य दृश्यते नवा च या विनिर्मितिः।
भवद्भिरद्य यः स्वतन्त्रतारसो निपीयते,
तदेतदात्मजीवने चिरं चिराय धार्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
4
शुभाः हि कामनाः भवत्कृते समर्पयाम्यहम्,
समुन्नतिं सुखं च वः सदैव चिन्तयाम्यहम्।
परन्तु वर्तमानया विचित्रकाललीलया,
मनाग् विचिन्तिता यदेव वच्मि तन्निशम्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
5
मया न कल्पितं कदापि दुर्बलाभिशोषणं
मया न कल्पितं कदापि दुर्जनाभिपोषणम्।
मया न कल्पितं कदापि सज्जनावमाननम्
सहेऽखिलं च तद् यथा सहै न तद्विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
6
विलोकयामि वृत्तिहीनतामहं यदा यदा,
विलोकयामि नीतिहीनतामहं यदा यदा।
नतानना गतासुका भवाम्यहं तदा तदा,
इयं दशा न मेऽस्तु येन तत्सदा विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
7
यदा यदा शृणोम्यहं वधूविदाहपातकम्,
यद यदा शृणोम्यहं बलात्कृतिं विहिंसनम्।
तदा तदा भवाम्यरुन्तुदव्यथाप्रपीडिता,
इयं व्यथा प्रणाशमेतु येन, तद्विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
8
स्वदेशवासिभिः स्वदेशवासिनां विहिंसनम्,
पृथक्त्वभावपोषणं स्वदेशदेहदारणम्।
अधीतिपण्यविक्रयं करप्रदातृनिःस्वतां,
विलोक्य यां शुचं गतास्मि सा द्रुतं विलोप्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
9
जलं न लभ्यते तथा, यथा सुरा पदे-पदे,
वचांसि सन्ति भूरिशो न हि क्रियाः पदे-पदे।
पुनश्च भेदभावना प्रवर्त्यते पदे-पदे,
इदं दशा समर्थनं किमर्हतीति चिन्त्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
10
दलाद् दले पलायनं, प्रवञ्चनां क्षणे क्षणे
प्रतारणं जने जने, विहिंसनं पणे पणे।
विलोक्य रोगदायकं विमिश्रणं कणे कणे,
गतास्मि यां शुचं हि सा द्रुतं द्रुतं विलोप्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
11
अयोग्यता पदोन्नता, सुयोग्यता पदच्युता,
अमोघलाभकारिणी मता च चाटुकारिता।
इयं स्थितिर्विलोक्यते यदा, तदा मम स्थितिः,
सुपुष्टतां भजेत्कथं? भवद्भिरेव कथ्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
12
क्वचिद्विलाससाधनैर्विमण्डिता विलासिनः,
क्वचित्क्षुधाप्रपीडिता वसन्ति देशवासिनः।
क्वचित्पयस्विनी धनस्य कुत्राचिच्च निःस्वता,
इयं दशा विलोपमेतु येन तद्विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
13
कथं पदातिमार्ग एव शेरते हि कार्मिकाः,
कथं च धर्मनाम्नि सर्वमाचरन्ति धार्मिकाः।
कथं च देहविक्रयो विधीयते सुयोजितम्
इदं निरीक्ष्य मानसे समीक्षणं विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
14
अहं स्मरामि कष्टपद्धतिं पुरानृणां यदा,
अहं भवामि गद्गदाभिमानसंयुता तदा।
विलोक्य किन्तु वर्तमाननेतृलाभकाङ्क्षितां,
व्रजान्यहं मुदं ह्यथो शुचं? स्वयं विचार्यताम्।।
अहं स्वतन्त्रता भणामि...................।।
15
धनस्य वा श्रमस्य वा न कृच्छ्रतास्ति भारते
समस्तधातवो मिलन्ति भारते प्रभारते।
उदेति या यदा-कदा तथापि बुद्धिहीनता
न सा कदाप्युदेतु येन तत्सदा विधीयताम्।।
अहं स्वतन्त्रता भणामि...................।।
16
न निर्धनो न निर्बलो जनोऽत्र कोऽपि जायताम्,
न कस्यचित्समादरो विखण्डितश्च जायताम्।
निजावलम्बनं जने जने सदा प्रवर्धताम्,
जनो जनोऽस्य भारतस्य मोदताम्, प्रमोदताम्।।
अहं स्वतन्त्रता भणामि...................।।
(रचनातिथिः १५-८-१९८३)
रौति ते भारतम्!
कश्चिदुवाच -
किं रमाकान्त! नित्यं त्वया भण्यते
‘भाति मे भारतं भाति मे भारतम्।’
किं न पश्यस्येनेकैरभावैर्युतं
रौति ते भारतं रौति ते भारतम्।।१।।
कुत्रचिद्दीर्घपङ्क्तिस्थिता मानवाः
यापयन्ति स्वकालं प्रतीक्षापराः।
मोचयन्ति स्वनिःश्वासराशीनहो!
यैर्व्यथामाप्नुवद् रौति ते भारतम्।।२।।
रेलयानेषु भिक्षापरान् बालकान्
अङ्गहीनानवस्त्रान् दयोत्पादकान्।
गालिभिः पोषितान् न्यक्कृतैस्तोषितान्
वीक्ष्य चिन्तामयं रौति ते भारतम्।।३।।
वृत्तपत्रेषु नित्यं बलात्कारिणां
निन्द्यपैशाचकृत्यानि पश्यत् पठत्।
किञ्च हत्यापहारादिगाथा वहत्
रौति ते भारतं रौति ते भारतम्।।४।।
क्वाप्यशिक्षातमोभिर्वृतं कष्टदैः
क्वापि रोगैः परीतं महादारुणैः।
नित्यमुत्कोचलीलाविलासैर्युतं
रौति ते भारतं रौति ते भारतम्।।५।।
यौतुकप्रेप्सुभिर्लोलुपैर्निन्दितै-
र्मर्त्यरूपे स्थितै राक्षसैः कौटिकैः।
दह्यमाना वधूर्वीक्ष्य दुःखेन हा
रौति ते भारतं रौति ते भारतम्।।६।।
देहपण्याजिरे नूपुराकर्णनैः
पारवश्याङ्कितैर्नृत्यकृत्यैस्तथा।
येन दारिद्र्यगाथोच्चकैर्गीयते
तद् व्यथापूरितं रौति ते भारतम्।।७।।

यत्र रक्षाभटैः रक्षणीयो हतो
यत्र गोप्ता न गोप्यं क्षमो रक्षितुम्।
यत्र सन्तो मता दस्यवो हिंसका
रौति तद् भारतं रौति तद् भारतम्।।८।।
उच्चशिक्षां समाप्यापि वृत्त्यर्जने
न क्षमो जायते यत्र यूनां गणः।
यत्र कुत्रापि वृत्त्यर्थमाहिण्डते
रौति तद् भारतं रौति तद् भारतम्।।९।।
हा कराधानकर्ताधिकारी स्वयं
यत्र धत्ते स्वगेहे विना सूचनाम्।
कृष्णवित्तं तथा स्वर्णभाण्डं महद्
रौति तद् भारतं रौति तद् भारतम्।।१०।।
कार्यरोधैस्तथा हिंसकान्दोलनैः
चाटुकारप्रणीतैर्वृथा भाषणैः।
ईश्वरम्मन्यमानैरहो दम्भिभी
रौति ते भारतं रौति ते भारतम्।।११।।
उग्रकृत्यैर्नरैर्यत्र मध्येपथं
पूर्वसेनापतिर्हन्यते गोलिभिः।
यत्र चार्ता भिषग्भिर्बलाद्दूष्यते
निन्द्यकृत्यान्वितं रौति तद् भारतम्।।१२।।
यत्र यूनां नवैर्मादकैर्वस्तुभिः
क्षीयते शक्तिरोजस्तथा लुप्यते?
यत्र दृश्या युवानो जराजर्जरा
रौति तद् भारतं रौति तद् भारतम्।।१३।।
कर्हिचिद्विश्वबन्धुत्वमुद्घोषयत्
पावयद्विश्ववन्द्यैश्चरित्रैर्जगत्।
यत्तदेवाद्य विद्वेषहिंसाप्लुतं
रौति ते भारतं रौति ते भारतम्।।१४।।
कर्षकेभ्यो यदान्नं भवेद् दुर्लभं
कार्मिकेभ्यश्च गेहं यदा दुर्लभम्।
वस्त्रकृद्भ्यश्च वस्त्रं यदा दुर्लभं
तर्हि नूनं हहा! रौति ते भारतम्।।१५।।
कर्गले राष्ट्रभाषास्ति नो भाषणे
संस्कृतं स्तूयते, नैव तत्सेव्यते।
स्वीयपादे कुठारः स्वयं पात्यते
वीक्ष्य सर्वं ध्रुवं रौति ते भारतम्।।१६।।
रमाकान्त उवाच -
यत्त्वया कीर्त्यते दोषजातं सखे!
तन्मया सूचितं ह्येकपद्ये पुरा।
दोषवर्जं मया सद्गुणाः सञ्चिता-
स्तेन प्रोक्तं मया ‘भाति मे भारतम्’।।१७।।
कीर्तनेनैव वा क्रन्दनेनैव वा
लोपमेष्यन्ति दोषा न देशस्य वै।
तेन सर्वै क्रियन्तां सदा सुक्रियाः
येन भातु प्रसन्नं सदा भारतम्।।१८।।
लोलुपा नायका नैव सन्त्वत्र भोः
सन्तु कर्तव्यशून्या न चापि प्रजाः।
देशसेवां मिलित्वा कुरुध्वं समे
येन भूयोऽपि भासेत नो भारतम्।।१९।।
(रचनातिथिः १२-१०-१९८५)
राष्ट्रदेवते! कथं नु पूजनं करोमि ते?
ब्रूहि देवते! समर्चनं कथं करोमि ते?।।१।।
उग्रताविहिंसनोत्थचीत्कृतीः शृणोमि चेत्
राष्ट्रदेवते! कथं नु कीर्तनं करोमि ते।।२।।
यावदाननानि हर्षफुल्लतां न चाप्नुयुः
ब्रूहि देवते! सुमार्पणं कथं करोमि ते।।३।।
दन्दशूकवेष्टितं हि कार्यतन्त्रमस्ति चेत्
चन्दनं कथं समर्पयामि राष्ट्रदेवते।।४।।
वीक्ष्य कर्दमावृता हि कोटि-कोटिवीथिकाः
राष्ट्रदेवते! कथं सुगन्धमर्पयामि ते।।५।।
सौमनस्यसूत्रगुम्फिता न चेत्स्थिता जनाः
राष्ट्रदेवते! कथं सुमाल्यमर्पयामि ते।।६।।
(राष्ट्रदेवते! कथं नु हारमर्पयामि ते।।)
पेयवारि दृश्यते यदा च वै सुदुर्लभं
स्नानवारि पावनं समर्पयामि किं नु ते।।७।।
हा! वधूप्रदाहचीत्कृतीर्निशम्य नित्यशः
स्तोत्रमापठामि ते कथं नु राष्ट्रदेवते!।।८।।
द्वेषकृत्प्रभञ्जनो हि यावदेति नो शमं
दीपकं कथं प्रदर्शयामि राष्ट्रदेवते!।।९।।
एकलोऽपि वीक्ष्यतेऽन्नपीडितो मया यदि
राष्ट्रदेवते! कथं नु भोज्यमर्पयामि ते!।।१०।।
वर्धते धनं हि, किन्तु निर्धनेषु तन्न चेत्
राष्ट्रदेवते! कथं नु दक्षिणां ददामि ते।।११।।
मिष्टमर्पितं पुरैव ‘भाति भारतं’ हि ते।
यन्मया कटूक्तमत्र तत्क्षमस्व देवते!।।१२।।
(रचनातिथिः २९-१२-१९८५)
1
अभिमानधना विनयोपेता
शालीना भारतजनताहम्।
कुलिशादपि कठिना कुसुमादपि
सुकुमारा भारतजनताहम्।।
2
निवसामि समस्ते संसारे
मन्ये च कुटुम्बं वसुन्धराम्।
प्रेयः श्रेयश्च चिनोम्युभयं
सुविवेका भारतजनताहम्।।
3
विज्ञानधनाहं ज्ञानधना
साहित्यकला-सङ्गीतपरा।
अध्यात्मसुधातटिनी-स्नानैः
परिपूता भारतजनताहम्।।
4
प्रस्तरखण्डेषु मयोत्कीर्णा
मूर्तयः सजीवा भाषन्ते।
दिग्विजयिन्यो मे कलाः सन्ति
सहृदयास्मि भारतजनताहम्।।
5
मम गीतैर्मुग्धं समं जगत्
मम नृत्यैर्मुग्धं समं जगत्।
मम काव्यैर्मुग्धं समं जगद्
रसभरिता भारतजनताहम्।।५।।
6
उत्सवप्रियाहं श्रमप्रिया
पदयात्रा - देशाटन - प्रिया।।
लोकक्रीडासक्ता वर्धे-
ऽतिथिदेवा भारतजनताहम्।।
7
कल्पनातीतदुःखानां वा
सौख्यानां वापि पराः काष्ठा।
समभावतया सोढुं शक्ता
समबुद्धिर्भारतजनताहम् ।।
8
कृत्वा भूमण्डलपर्यटनं
यं देशं स्वर्गं मनुते ना।
तस्यैव नृपस्तस्यैव प्रजा
ऋजुचरिता भारतजनताहम्।।
9
नाहं भ्रमेऽस्मि नाहं मोहे
विश्वं भ्रान्त्वा तथ्यं वदामि।
प्रेरणां जगन्मत्तो लभते
धृतिशीला भारतजनताहम्।।
10
विश्वस्मिन् जगति गताहमस्मि
विश्वस्मिन् जगति सदा दृश्ये।
विश्वस्मिन् जगति करोमि कर्म
कर्मण्या भारतजनताहम्।।
11
लङ्घिताः पर्वता अवरुद्धा
नद्यः प्रपूरिता जलाशयाः।
सिक्ता मरवश्च यया बहुधा
महिता सा भारतजनताहम्।।
12
किं किं न तपस्तप्तं हि मया
स्वातन्त्र्यदेवताराधनाय?
किं किं न सहे तद्रक्षार्थं
श्रमशीला भारतजनताहम्।।
13
ये मह्यं गालीर्ददुस्तथाऽ-
कुर्वन्नपकारं मम नित्यम्।
जितवती तानहं तपोबलै-
र्गम्भीरा भारतजनताहम्।।१३।।
14
दारिद्रयदुःखदावाग्निदग्ध-
देहापि नो म्रिये ह्यद्यावधि।
साहस-जिजीविषा-कर्मठता-
पुत्तलिका भारतजनताहम्।।
15
दम्भोलिसन्निभा अपि विपदोऽ
नायासमेव सर्वा हि सहे।
विषपानपरापि स्मितवदना
सर्वंसहभारतजनताहम् ।।
16
आयातु यातु लक्ष्मीः स्तुवन्तु
निन्दन्तु नीतिनिपुणाः कामम्।
उच्चावचमार्गे गच्छन्ती
सोत्साहा भारतजनताहम्।।
17
अण्वस्त्रनिर्मितिर्नो कठिना
मम कृते तथापि न तामीहे।
वास्तविकी हेतिरहिंसा मे
निर्भीका भारतजनताहम्।।
18
सङ्गणकयन्त्रजालोऽपि मेऽस्तु
भौतिक्युन्नतिरपि मे तथास्तु।
जीवनरसश्च मा शुष्को भू-
दितिकामा भारतजनताहम्।।
19
आक्रमणं नैव करोमि कदा-
प्याक्रमणं नैव कदापि सहे।
आर्जवं न मे मूर्खत्वमस्ति
दृढकवचा भारतजनताहम्।।
20
मैत्री मे सहजा प्रकृतिरस्ति
नो दुर्बलतायाः पर्यायः।
मित्रस्य चक्षुषा संसारं
पश्यन्ती भारतजनताहम्।।
21
ज्वालामुखिनं गिरिमारूढं
परमाणुदैत्यविकलितचित्तम्।
अधुनापि जगच्छान्तिं ब्रूते
या सैषा भारतजनताहम्।।
22
विद्वांसो वीराः शिल्पकराः
श्रमिणः सन्तः किं किं न मेऽस्ति।
स्यादत्र न गृहभेदनपाप-
मितिकामा भारतजनताहम्।।
23
अपि सहे बलात्कारान् हत्या
अपहृतीस्तथा तस्करवृत्तीः।
नो सहे किन्तु देशस्य भङ्ग-
मुन्निद्रा भारतजनताहम्।।
24
नग्ना बुभुक्षिता निर्गेहा
सत्यपि जीवामि बहोः कालात्।
जीविष्यामि च कल्पान्तमहं
मृत्युञ्जय - भारतजनताहम् ।।
25
जिह्वां मे कीलयितुं शक्तः
कः कोऽत्र जगति मातुर्जातः।
वाणी विहरति मे सदोज्ज्वला
गर्जन्ती भारतजनताहम् ।।
26
नक्राश्रुजलं जाने सम्यग्
जाने च गृध्रगोमायुगिरम्।
जाने करटक-दमनक-चरितं
हृदयज्ञा भारतजनताहम्।।
27
तस्करा हिंसका गेहभिदो
मूढाश्च सन्तु मयि यदा कदा।
ते किन्तु नैव परिभाषा मे
समुदारा भारतजनताहम्।।
28
दृप्तानामङ्कुशतां भजामि,
नम्राणां रक्षकतां भजामि।
दुष्टानां शिक्षकतां भजामि
लोकज्ञा भारतजनताहम्।।
29
शासनासन्दिकामधिरोढुं
प्रतिनिधयो मे कुर्वन्ति न किम्?
तां प्राप्य केऽपि यां विस्मरन्ति
मुग्धा सा भारतजनताहम्।।
30
मुग्धा त्वहमस्मि परं दृप्तान्
लेहयामि धूलिं निजौजसा।
जनतन्त्रपद्धतेर्गुडाकेश-
गोप्त्री खलु भारतजनताहम्।।
31
भारतभूमेरुत्पन्नाह-
मस्याञ्च विलीये सामोदम्।
सेविष्ये ह्येनामाजीवन-
मतिहृष्टा भारतजनताहम्।।
32
मोदे प्रगतिं दर्शं दर्शं
वैज्ञानिकीं च भौतिकीं, परम्।
दूयेऽद्यत्वे लोकं लोकं
शठचरितं भारतजनताहम्।।
33
दारिद्रचं वृत्तेर्न्यूनत्वं
सर्वमप्युपेक्षे काममहम्।
नोपेक्षे किन्तु सतां पीडां
करुणार्द्रा भारतजनताहम्।।
34
आचरति दुर्जनो नीचकर्म
यत्तसर्वं जाने, जाने।
प्राप्नोमि तथापि न निष्ठुरतां
करुणार्द्रा भारतजनताहम्।।
35
देशे निरागसां संहारं,
लुण्ठनं सतां च वधूदाहान्।
श्रावं श्रावं दर्शं दर्शं
व्यथमाना भारतजनताहम्।।
36
पश्यामि यदा कुटिलैः क्लृप्तां
मूढैश्च कृतां विघटनसरणिम्।
विलपामि तदा खिन्ना खिन्ना,
चिन्ताकुलभारतजनताहम् ।।
37
अभिसन्धि-धार्मिकोन्माद-भैक्ष्य-
शारीरपण्य-मिश्रणदोषैः।
अस्वास्थ्यकरैश्च प्रदूषणै-
रतिविकला भारतजनताहम्।।
38
पश्यामि यदा मलिनां गङ्गां
सरितोऽन्या अग्निमथोद्गिरतीः।
तासां पवित्रतां शीतलतां
चेच्छन्ती भारतजनताहम् ।।
39
स्वीयैरपराधैः ह्रीणाहं
स्वीयैर्दोषैरतिखिन्नाहम् ।
एकतां कामये नित्यं स्वां
जगदीश्वर! भारतजनताहम्।।
40
युवकात्मघात - मादकपदार्थ-
सेवनोत्कोच - दुर्बलघाताः ।
नो सन्तु मदीये देशेऽस्मि
न्नितिकामा भारतजनताहम्।।
41
अविरुद्धान् वापि विरुद्धान् वा-
प्येकस्मिन् सूत्रे स्थापयितुम्।
किं किं न मया क्रियते लोके
यत्नस्था भारतजनताहम्।।
42
ये दृश्या मयि दोषा नैकेऽ-
रुन्तुदा अवाच्याः कष्टकराः।
कामये विलोपं वै तेषा-
मतिशीघ्रं भारतजनताहम्।।
43
आक्रमिणो लुण्ठक-सङ्घाता
आगता येऽपि मयि गता लयम्।
विविधाप्येका विलसामि सदा
बहुवर्णा भारतजनताहम्।।
44
अभितः परितः समया निकषा
मां यद्घटते तत्प्रेक्षेऽहम्।
सर्वस्य कृते खलु सज्जा या-
सावहिता भारतजनताहम्।।
45
सागरे वियति धरणीपृष्ठे
भूधरशृङ्गेषु वनेषु मरौ ।
निजमातृभूमिरक्षणदक्षा
जितनिद्रा भारतजनताहम्।।
46
क्षेत्रेषु खलेषु तथा चैवम्
उद्योगगृहेषु कुटीरेषु ।
नित्यं समृद्धिमुत्पादयामि
निस्तन्द्रा भारतजनताहम्।।
47
नेतॄणां वार्तां नो करोमि
निजवार्तामेव परं भणामि।
आराध्यदैवतं मे भारत-
माराधक - भारतजनताहम्।।
48
किं किं स्मरामि किं विस्मरामि,
किं किं लिखामि किं किं पठामि!
किं वा गायामि निजां गाथाम्
अविकत्थनभारतजनताहम् ।।
49
जलबुद्बुदसङ्काशाः कति नो
संस्कृतयो लुप्ताः संसारे।
गङ्गाप्रवाह इव सनातनी
गतिशीला भारतजनताहम्।।
50
अथवा किं बहुना रमाकान्त!
संक्षिप्ततया तथ्यं भणामि।
हरिमेव जगज्जगदेव हरिं
पश्यन्ती भारतजनताहम्।।
51
परतन्त्रो मा भूत्क्त्वापि कोऽपि
सर्वः सर्वत्र सदा नन्दतु।
जगतः स्वतन्त्रतामिच्छन्ती
मोदे खलु भारतजनताहम्।।
52
रथ-रमाकान्त-राजेन्द्रमिश्र-
कवितालहरीः पायं पायम्।
विस्मरति सुधाधारामपि या
रसिका सा भारतजनताहम्।।
53
यत्कथितमस्ति तत्सत्यमस्ति
अपि कश्चित्तन्मिथ्याकरोति?
श्रद्धेयं वचनं व्याहरामि
प्रामाणिकभारतजनताहम् ।।
(रचना तिथिः १५-७-१९८६)
फिलाडेल्फिया
‘पेनसिल्वानिया’-विश्वविद्यालये
सांस्कृतं विश्वसम्मेलनं षष्ठकम्।
योजयन्ती, लसन्ती बुधानां गणैः
राजते रम्यरूपा फिलाडेल्फिया।।१।।
यत्र ‘दाण्डेकरो’ऽध्यक्षवक्तव्यदः
सम्यगुन्मील्य चार्वाक्तनं संस्कृतम्।
एडविन् गैरियो-हस्तकञ्जेऽर्पयत्
राजते शोभना सा फिलाडेल्फिया।।२।।
मण्डनो बेण्डरो रामकर्णझ्स्तथा
भास्कराचार्य-रेवाप्रसादादयः।
आप्नुवन् यत्र पत्रेषु विज्ञादरं
राजते सा सुरम्या फिलाडेल्फिया।।३।।
नैन्सिनेल्बेडिया सुन्दरी यत्र मां
श्रावयित्वा ‘घनानन्द’-काव्यं वरम्।
दिव्य आनन्दसिन्धौ मुदास्नापयत्
राजते शोभना सा फिलाडेल्फिया।।४।।
यत्र ‘हैरीसन’-प्रेक्षणागारके
विश्वगीर्वाणवाणीकवीनां सभाम्।
योजयित्वा रमाकान्त आस्ते सुखी
राजते शोभना सा फिलाडेल्फिया।।५।।
मण्डनाध्यक्षसम्भाषणालङ्कृतं
रामकर्णस्य वाग्भिः समुद्घाटितम्।
काव्यसम्मेलनं वीक्ष्य मोदं गता
राजते रम्यरूपा फिलाडेल्फिया।।६।।
आर.वी. जोशि-सत्यव्रतावार.के.-
शर्म-कौठेकरौ श्रीरमाचौधुरी।
भास्कराद्याश्च यत्रापठन् स्वाः कृतीः
राजते शोभना सा फिलाडेल्फिया।।७।।
‘भाति मे भारतं’यत्र काव्यं मया
सस्वरं श्रावितं श्रोतृवृन्दप्रियम्।
तत्स्वरैर्मोहिता मोहितेवास्ति या
राजते सा सुरूपा फिलाडेल्फिया।।८।।
श्रीहरेरामकृष्णाश्रमेऽमेरिका-
देशजैर्भक्तवर्यैश्च यस्यां बुधाः।
स्वागतेनार्चिता वैष्णवेनाध्वना
राजते शोभना सा फिलाडेल्फिया।।९।।

अङ्कितैतिह्यगाथाभि रालोकिनी
शोभिताभ्रंल्लिहैरालयैः सर्वतः।
स्वच्छता-शान्ति-विद्या-प्रकाशैर्युता
राजते रम्यरूपा फिलाडेल्फिया।।१०।।
या पुराणी नवीना पुरी विद्यते
या प्रजातन्त्रघोषावनी विद्यते।
नित्यमेव प्रकृत्या विलासैर्युता
राजते सा सुरम्या फिलाडेल्फिया।।११।।
यत्र रिङ्गत्तरं ‘डलेवर्’ नदी
यत्र ‘शोमेनि’सञ्ज्ञं च यूनां गृहम्।
मेपलैश्चैष्टनड्वृक्षकैः शोभिता
राजते शोभना सा फिलाडेल्फिया।।१२।।
सङ्ग्रहागार मास्ते यदीयं श्रुतं
यत्र सङ्गीतगोष्ठी समायोज्यत।
सप्ततन्त्रीस्वरैर्झङ्कृता मोहकैः
राजते सा सुरम्या फिलाडेल्फिया।।१३।।
भारतीयक्लबेनातिथीनां भृशं
स्वागतं यत्र कृत्वा मनो निर्जितम्।
या हि ‘बन्धुप्रिया’संस्कृते, साङ्गले
राजते रम्यरूपा फिलाडेल्फिया।।१४।।
यत्र चागन्तुकानां मनोरञ्जने
सन्नियुक्ता अभिज्ञा जना आसते।
या पुराणाङ्कवीथीं मुदा रक्षति
राजते सा सुयत्ना फिलाडेल्फिया।।१५।।
यां प्रजातन्त्ररक्षाव्रती श्रीयुतो
बेञ्जमिन्फकलिन् - सञ्ज्ञकश्चिन्तकः।
स्वीयवासेन लब्धप्रतिष्ठां व्यधात्
राजते शोभना सा फिलाडेल्फिया।।१६।।
या नभश्चुम्बिभिः काचशृङ्गारिभि-
र्नैकखण्डैर्वणिक्कर्मगेहैर्युता।
या ‘डलेवर्’ - नदीवीचिभिर्लालिता
राजते सा सुरम्या फिलाडेल्फिया।।१७।।
वित्तपत्रस्य कर्तुं समाशोधनं
यत्र बैंकस्य पृष्ठात्समुड्डीयते।
‘हेलिकोप्टर्’-विमानं विलम्बं हरद्
राजते सा सुदक्षा फिलाडेल्फिया।।१८।।
यत्र यूनां मुखे शोभते यौवनं
यत्र निश्चिन्तता मानसे क्रीडति।
यत्र घण्टा प्रजातन्त्रसद्घोषिणी
राजते शोभना सा फिलाडेल्फिया।।१९।।
ऊरुवक्षोनितम्बश्रियां विभ्रमैः
राजमार्गे प्रधावन्ति रम्भोरवः।
रक्षितुं स्वं शरीरं कृशं यत्र सा
राजते रम्यरूपा फिलाडेल्फिया।।२०।।
भारतीयाञ्जनान् भारतीयाः कला
वाङ्मयं भारतीयं समाश्रित्य वै।
यत्र संशोधनं कुर्वते शोधका
राजते सा सुधन्या फिलाडेल्फिया।।२१।।
सिन्धु - भोग्यङ्क-विश्वेश-खृष्टाब्दके
मासि चाक्टूबरे सप्तदश्यां तिथौ।
यत्र चागत्य सृष्टा मयेयं कृती
राजते नित्यमेषा फिलाडेल्फिया।।२२।।
(रचनातिथिः १७.१०.१९८4)
क्रूरहृदय मेघ! कथं सुप्यते त्वया?
गर्ज्यते न तर्ज्यते न वृष्यते त्वया।
कोऽस्या अपराधोऽभूद् रोषमितो येन
मेदिन्यै जीवनं न दीयते त्वया।।१।।
क्रूरहृदय मेघ!
ग्लपयसि धरणीं नु हहा! शङ्कसे न भोः!
कर्तव्यमकृत्वा त्वं लज्जसे न भोः!
सर्वंसहवसुन्धरा तुद्यते त्वया।।२।।
क्रूरहृदय मेघ!
प्रथमे ह्याषाढदिने दृष्टो न त्वम्
श्रावणेऽथ भाद्रपदे वृष्टो न त्वम्
कार्यानेहसि वद क्व खेल्यते त्वया?।।३।।
क्रूरहृदय मेघ!
वसुधाहृदयं भिन्नं पश्य कीदृशम्
खगमृगगणवैवश्यं पश्य कीदृशम्।
अपि कर्षकदीनदशा लक्ष्यते त्वया?।।४।।
क्रूरहृदय मेघ!
आतपनिःश्वासान् हा! धरा मोमुचीति
रारटीति चातकः पिकश्च रोरुदीति
क्रन्दनं निशम्य मौनमास्यते त्वया!।।५।।
क्रूरहृदय मेघ!
पशुगण उद्विग्नमना हन्त बम्भ्रमीति
मीनगणः कासारे हन्त तात्रसीति
दुर्भिक्षं क्षाल्यते कथं न हा! त्वया?।।६।।
क्रूरहृदय मेघ!
तप्तानां त्वं शरणं कथ्यसे मुधा
पर्जन्यादन्नसम्भवो मतो मुधा
पुनरपि यदि तप्तजगत् ताप्यते त्वया।।७।।
क्रूरहृदय मेघ!
त्वय्यायत्तं कृषिफलमिति ये प्राहुः
किं ते कविकुलगुरवोऽनृतमेवाहुः?
किं तेषां कलकीर्तिर्दूष्यते त्वया!।।८।।
क्रूरहृदय मेघ!
दोला नो मल्हारं नापि कज्जली
नो कर्गलनौकैवर्तकसुमण्डली।
नो वर्षास्नानमभूत्, किं कृतं त्वया!।।९।।
क्रूरहृदय मेघ!
उद्याने सम्फुल्लं नीपसुमं नो
रम्या हरितालिकातृतीयापि च नो
सर्वमिदं वीक्ष्य कथं हृष्यते त्वया?।।१०।।
क्रूरहृदय मेघ!
किं तडिता सेवाव्रततो निवारितः?
आहोस्विच्छक्रेण त्वं निलम्बितः?
किं नातपतप्तवनं सेच्यते त्वया?।।११।।
क्रूरहृदय मेघ!
प्लावनं क्वचित्तथा क्वचित्त्ववर्षणम्
उभयथापि हन्यते त्वया तु कर्षणम्!
नो कथं विनाशतो विरम्यते त्वया।।१२।।
क्रूरहृदय मेघ!
स्वनियोगमशून्यं कुरु वर्ष सत्वरम्।
नर्तय शितिकण्ठगणं जलद! सत्वरम्।
चातककुशलं न कथं पृच्छ्यते त्वया?।।१३।।
क्रूरहृदय मेघ!
पादपेषु वल्लरीषु वर्ष वर्ष वर्ष
ग्रामनगरवीथिकासु वर्ष वर्ष वर्ष
नवजीवनमेतेभ्यो दीयतां त्वया।।१४।।
क्रूरहृदय मेघ!
पशुगणस्तृणानि गोचरेषु चञ्चुरीतु।
कर्षकोऽथ कार्मिको मुदं च बाभजीतु।
सान्त्व्यतां बलाकेयं साम्प्रतं त्वया।।१५।।
क्रूरहृदय मेघ!
अल्पय दारुणविपदं जीवखेदिनीम्
तर्पय धारासारैस्तप्तमेदिनीम्।
अपि नीरद! मे वचनं श्रूयते त्वया?।।१६।।
क्रूरहृदय मेघ!
अधिकं त्वां प्रेरयितुं नाहमुत्सहे
निह्रेकं ह्रेपयितुं नाहमुत्सहे।
स्तोकं बहु नैव किमिति गृह्यते त्वया?।।१७।।
क्रूरहृदय मेघ!
क्रूरहृदय मेघ! कथं
कुलिशहृदय मेघ! कथं
अयि निर्घृण मेघ! कथं सुप्यते त्वया?
गर्ज्यते न तर्ज्यते न वृष्यते त्वया?।।१८।।
क्रूरहृदय मेघ!
(रचनातिथिः ५-१०-१९८७)