<
अकालजलद!
1
अकालजलद! त्वया किमिति निन्द्यमाचर्यते?
कृषीवलपरिश्रमः कथमहो त्वया नाश्यते?
निपात्य करकाचयं परिणतेषु सस्येषु हा
त्वया किमिति तुद्यते वद पयोद! पृथ्वीमनः।।
2
निदाघतपनज्वलद्वसुधया यदाकारित-
स्तदा त्वमगमः क्वचिद्वसुमती त्वया शोषिता।
यदा च वसुधासुतैः श्रमभरैः प्रयासैर्निजै-
ररक्षि कृषिसन्ततिर्विषमहो त्वया पातितम्।।
3
महाराजतशोभिनः परिणताः सुगोधूमकाः
यवाः कणिशालिनश्चणकसर्षपाश्चाहताः।
श्रमेण परिपालिता कृषिलता त्वया मर्दिता
धिगस्तु तव जीवनं! चरति यद्भवे वैशसम्।।
4
कृषीवलगणैः समैः कृषिफलं सदा पोषितुं
वृतस्त्वमसि रक्षकस्त्वमभवस्तु हा भक्षकः!
सुकालमवलोक्य नो समभवत्तवावर्षणम्
मुधाद्य तव दुःसहा वद वदान्यता कीदृशी।।
5
कृषीवलगणास्त्वया विषद! वञ्चिता लुण्ठिता-
स्तथापि कृषिदेवता भवसि कैर्गुणैर्ब्रूहि रे।
अकारणमिदं त्वया किमिति वैरमाविष्कृतम्
कलङ्कितमहो कथं प्रकुरुषे स्वकीयं यशः।।
6
यथासमयमस्तु ते जलद! गर्जनं वर्षणम्
यथासमयमस्तु ते समुदयस्तथा विश्रमः।
जगज्जनसुरञ्जनो भव न वै जगत्त्रासकः
परोपकरणव्रतं वृणु पयोद! कल्याणदम्।।
(रचनातिथिः १३-१५.३.१९८८)
स्वागतं पयोद! ते
गर्जनेन वर्षणेन ते धरा प्रमोदते।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
1
हे सुकालवारिमुक्! त्वया धरा सुतर्पिता
हे पयोद! चातकास्त्वया भृशं सुहर्षिताः
केकिनां गणस्त्वया मुदा वनेषु नर्त्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
2
वीतवर्षशोषकृत् यदाधुना त्वमागतः
भूमनःस्थतापराशिरत्ययं द्रुतं गतः
मानसे मुदो न मान्ति दर्शनाज्जनस्य ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
3
मार्जितार्स्त्रुटीर्विलोक्य ते प्रमोदमेम्यहम्
हर्षितान् वनस्पतीन् विलोक्य मोदमेम्यहम्
सर्वतः प्रसन्नता जनाननेषु विद्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
4
नूतनाः सुपादपाः प्रमोदिता सुवल्लरी
उच्छलत्सुविभ्रमा तरङ्गितास्ति निर्झरी
पक्षिणश्च नीडनिर्मितिं द्रुतं प्रकुर्वते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
5
क्षेत्रकर्षणेन बीजवापकर्मणा द्रुतं
कर्षकैः सभार्यकैः स्वधर्मपालनं कृतं
श्रावणेऽथ भाद्रकेऽपि ते दयां भजन्तु ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
6
अङ्गणेषु गेहपृष्ठकेषु वा वनान्तरे
वीथिकासु वारिपूरितासु वापि चत्वरे।
प्रावृषोऽभिषेकमर्भका मुदा प्रकुर्वते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
7
दोलया मनोविनोदमाचरन्ति बालिकाः
तीव्रगामिनो गृहं प्रयान्ति पश्य पान्थकाः
उत्कया बलाकया मनोरथः स्व पूर्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
8
‘तोयदेन पूरिता मनोरथाः समे हि नो
वारिदेन दारितं सुदीर्घसङ्कटं हि नो’
ग्रामवासिभिश्च नागरैर्मुदाद्य कथ्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
9
पक्षिणश्चतुष्पदाः सरीसृपाः पयश्चराः
मोदमाप्नुवन्ति कान्तिमाप्नुवन्ति भूधराः
फुल्लितैः कदम्बकैः सुहास एष कीर्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
10
क्लिन्नवस्त्रयोषितो महर्षिमानभञ्जिकाः
धार्यते भुवा मुदा हरीतिमा सुशाटिका
रामणीयकं नवं चं किं न वाद्य दृश्यते?
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
11
दर्दुराः प्रमोदिताः सुहंसकाः पलायिताः
पद्मनाशगर्विताः शिलीन्ध्रकाः समुद्गताः
द्वन्द्व एव जीवनं नु! चिन्तयाऽलमत्र ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
12
तावता जलेन सिञ्च वारिवाह! मेदिनीम्
यावता न याति सा दशां स्वजीवखेदिनीम्
प्लावनं भवेत्क्वचिन्न चातिवर्षणेन ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
13
शस्त्रवह्नितापशामको भवेः पयोद हे!
द्वेषवह्नितापशामको भवेः पयोद हे!
शान्तिरस्तु सौख्यमस्तु सीकरैः पयोद!ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
14
मोदमेतु मेदिनी प्रमोदमेतु मानवः।
नो कदापि बाधतां भुवं कुशोषदानवः।।
अन्नमस्तु, दुग्धमस्तु, विद्युदस्तु केन१ ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
(रचनातिथिः १५-७-१९८८)
नेहरुं तं स्मरामो वयं सादरम्
1
जङ्गले मङ्गलं येन सम्पादितं
येन सङ्कीर्णवृत्तिस्सदा न्यक्कृता।
शत्रवो येन मित्रीकृताः स्वस्मितै-
र्नेहरुं तं स्मरामो वयं सादरम्।।
2
व्यावृतास्याः समस्याः समाधाय यो
जागरामास देशस्य भूत्यै सदा।
पालयामास यो देशसेवाव्रतं
नेहरुं तं स्मरामो वयं सादरम्।।
3
पूजयामास नो दर्पिणो दम्भिन-
श्चिन्तयामास यो दीननॄणां हितम्।
मार्गयामास देशोन्नतेर्यस्सृतिं
नेहरुं तं स्मरामो वयं सादरम्।।
4
यस्य कोपोऽपि नॄणां प्रियः सम्मतो
यस्य संस्पर्शमाप्तुं नरा उत्सुकाः।
भाषितुं येन साकं जगत्सस्पृहं
नेहरुं तं स्मरामो वयं सादरम्।।
5
गूढगम्भीरचित्तोऽपि हासप्रियो
यश्च तेजो दधानोऽपि शान्तिप्रदः।
यश्च पारम्परीणोऽपि नव्यो बभौ
नेहरुं तं स्मरामो वयं सादरम्।।
6
सर्वधर्मादरः सद्गुणान्वेषणम्
शान्तिरौदार्यमाध्यात्मिकं चिन्तनम्।
नव्यविज्ञानमार्गश्च यत्रावसन्
नेहरुं तं स्मरामो वयं सादरम्।।
7
येन विश्वस्य मञ्चे समुद्घोषितो
विश्वबन्धुत्वमन्त्रो जगत्पावनः।
शान्तिदूतश्च लोके सदा यो मतो
नेहरुं तं स्मरामो वयं सादरम्।।
8
योऽलिखद् ग्रन्थरत्नानि नैकानि, यो
योजना भारतस्योन्नतेर्निर्ममे।
देववाणी च गङ्गा च येनादृते
नेहरुं तं स्मरामो वयं सादरम्।।
9
यस्य ताटस्थ्यनीतिः प्रसिद्धिं गता
पञ्चशीलेन यः सर्वपूज्यो बभौ।
पाटलश्रीः प्रिया यस्य चात्यन्तिकी
नेहरुं तं स्मरामो वयं सारदम्।।
10
यः पितृव्यः प्रियो बालकानां मतो
यः प्रजातन्त्ररक्षाभटः सम्मतः।
राजलक्ष्मीप्रियो यश्च वाणीप्रियो
नेहरुं तं स्मरामो वयं सादरम्।।
11
यः कलाकाव्यसङ्गीतकृद्धृत्स्थितो
यः पुरातत्त्वसाहित्यवीक्षापरः।
कालसीमा न यं म्लानतां प्रापयेत्
नेहरुं तं स्मरामो वयं सादरम्।।
12
‘एतदाप्तं मया, लभ्यमेतन्मया
नाशयिष्यामि तं, स्फोटयिष्यामि तम्।’
ईदृशी नेतृवृत्तिर्न यस्य प्रिया
नेहरुं तं स्मरामो वयं सादरम्।।
13
‘सन्तु सर्वत्र सर्वे सदा नन्दिताः,
युद्धदावानलो नैव लोकं दहेत्।’
स्वप्नदर्शी य इत्थं सदाजागरीत्
नेहरुं तं स्मरामो वयं सादरम्।।
14
अद्य देशे यदौदार्यमालोक्यते
तत्र तस्यास्ति दृश्या शुभा भूमिका।
भाति मे भारतं यस्य दिव्यैर्गुणै-
र्नेहरुं तं स्मरामो वयं सादरम्।।
(रचनातिथिः १४-११-१९८८)
जाबालिपुरं चल!
जाबालिपुरं चल रमाकान्त! जाबालिपुरम्!
आकारयति त्वामभिवन्द्यं जाबालिपुरम्।।ध्रुवकम्।।
शङ्करशशिलेखावारिविन्दुरखिलौघहरो
बहुवीचिविवर्तावर्तयुता नर्मदा बभौ।
नर्मदा स्वयौवनमधिजगाम यस्मिन्स्थाने
तत्स्थानं ‘भेडाघाट’-पदप्रथितं च बभौ।।
जगदागन्तुकलोचनावलीपश्यतोहरं
स्फटिकाश्मशिलारमणीयविभाविस्तारकरम्।
तं भेडाघट्टं निकषा यद् रारार्ष्ट्रि सदा
तन्नगरं चल हे रमाकान्त! जाबालिपुरम्।।
जाबालिपुरं चल............।।१।।
जाबालिमुनेः साधनास्थलं पूतं प्रथितम्
अर्जुनपलाशसहकारप्रभृतिपादपलसितम्।
देशस्य कृते सर्वस्वहोतृभिः संवलितम्
आयुधनिर्मित्या भारतसैनिकबलप्रदम्।।
दुग्धप्रदातृपशुधनपरिपालककृषकयुतम्
दुर्गावत्याः विक्रमगाथाभिः परिलसितम्।
नरसिंहमन्दिरं धत्ते यत्कलुषापहरम्
शङ्करगाथाभिर्भवति च यद्रोमाञ्चकरम्।।
जाबालिपुरं चल............।।२।।
‘कृष्णायन’- कृद्द्वारकाप्रसादमिश्रलसितम्
श्रीहीरालालजैनकृतशोधमयूखसितम्।
हरिशंकरपरसाई - व्यङ्ग्योक्तिविलासयुतम्
चौहानसुभद्रा-राष्ट्रगीति - गरिमप्रथितम्।।
श्रीप्रभुदयाल-गोविन्ददास-साधनाङ्कितम्
श्रीकृष्णकान्त-राजेन्द्र-प्रभृतिविद्वल्लसितम्।
रामेश्वरशुक्लाञ्चल - नवरचनाप्रभाधरं
पुष्पा-लीना-चित्रा-कर्तृत्वविकासकरम्।।
जाबालिपुरं चल............।।३।।
योऽवन्तिसुन्दरीं परिणिनाय मुदितेन हृदा
अनुसन्दधते यं विश्वविपश्चिद्गणा मुदा।
येन ग्रथिता कर्पूरमञ्जरी नाटयकृतिः
श्रद्धासुमानि यस्मै ददाति विद्वज्जगती।
अथ विद्धशालभञ्जिकोदयं यस्मात्प्राप्ता
यस्यास्ति काव्यमीमांसानाम्नी कृतिराप्ता।।
रामायणमथ भारतं बालपूर्वं हि यस्य
मान्यं प्रबन्धषट्कं च विबुधसंसारस्य।
यस्मिन् वाणी व्यलसन्मुदिता वारम्वारम्
तं राजशेखरं यत्स्मरति प्रियकाव्यकरम्।।
जाबालिपुरं चल............।।४।।
चल कविसमवायं पश्य तत्र सहृदयमहितम्
मध्यप्रदेशसंस्कृताकादमीसन्निहितम्।
रेवाप्रसाद-कमलेशदत्त-कृति-संवलितम्
बच्चूलालावस्थिनो गजलगीतैर्लसितम्।।
श्रीश्रीनिवासरथमन्द्रघोषनवगानयुतम्
कविपुंस्कोकिलराजेन्द्रमिश्रकलगानयुतम्।
श्रीरहसबिहारीप्रभृतिकविप्रतिभादूतम्
भास्कराचार्यसञ्चालनकौशलसम्पूतम्।
पठ कवितां त्वमपि स्वीयां तत्र यथावसरम्
जाबालिपुरं चल रमाकान्त! जाबालिपुरम्।।
जाबालिपुरं चल............।।५।।
मा भूस्तेजापःक्षेपघृणितघटनाऽत्र पुरे
स्यादत्र सदा शुभसौख्यसमृद्धिरतीव पुरे।
संस्काराणां धानीयं विलसतुतरां सदा
जागर्तु मनीषा जगदुद्धारायात्र सदा।
धत्तामिदं पुरं कलासाहितीगरिमाणम्
योगिनीमन्दिरं वितरतु जगते कल्याणम्।
प्रार्थय शुद्धेन हृदा जगदीशं सृष्टिकरम्
मोदतां वर्धतां राजतां च जाबालिपुरम्।।
जाबालिपुरं चल............।।६।।
(रचनातिथिः २२-१२-१९८८)
एकं सद् बहुधा विलोक्यते भारतम्!
एकं सद् बहुधा विलोक्यते भारतम्।
बहुधा सच्चैकं विराजते भारतम्।
एकमखण्डमभिन्नमस्ति मे भारतम्।
रम्यमस्ति सुरवन्द्यमस्ति मे भारतम्।।१।।
एकं सद्...........।
यदि पादेऽस्य कदापि निविशते कण्टकम्
निखिलतनौ पीडनं भवति मर्मान्तकम्।
यदि वेदना शिरसि समुदेति ध्रुवं तदा
व्यथते सकलतनौ मे निखिलं भारतम्।।२।।
एकं सद्...........।
भिन्नमस्तु भाषाभूषासु पदे पदे
भिन्नमस्तु लोकाचारेषु पदे पदे।
भिन्नमस्तु पूजापद्धतिषु पदे पदे
आत्मन्येकमभिन्नमस्ति मे भारतम्।।३।।
एकं सद्...........।
कोटिकोटिजनताचेतस्सु विराजितम्।
नित्यनवीनोत्सवपर्वावलि - राजितम्।
विश्वबन्धुता - जिजीविषा - विस्तारकम्।
जगतो हृदयं जयति जगति मे भारतम्।।४।।
एकं सद्...........।
वीक्ष्य समृद्धिं यन्त्रोद्योगाणां भृशम्।
वीक्ष्य समृद्धिं कृषिसम्पत्त्या वा भृशम्।
वीक्ष्य समृद्धिं ज्ञानकलादीनां भृशम्,
मोमुदीति मनसा निखिलं मे भारतम्।।५।।
एकं सद्...........।
यदा व्योम्नि सागरे शैलशृङ्गेषु वा,
विकटकर्दमे मरौ विजनविपिनेषु वा।
सावधानभटनिवहो रक्षति जन्मगां
गर्वमेति विपुलं निखिलं मे भारतम्।।६।।
एकं सद्...........।
क्वापि पतति सङ्कटे प्रजातन्त्रं यदा,
अवरुध्यते जनानां कण्ठो वा यदा।
सर्वातङ्कभयाशङ्काः परिहृत्य वै,
गर्जति सकलं समुज्ज्वलं मे भारतम्।।७।।
एकं सद्...........।
क्वापि भवति कुलवधूदाहपापं यदा,
रक्ष्यभक्षणं दुर्बलघातो वा यदा।
क्वापि भवति यदि हिंसाक्रीडा दुःखदा,
रोरुदीति करुणं सकलं मे भारतम्।।८।।
एकं सद्...........।
आशां वृणुते नैव निराशां भारतम्,
सद्गुणमेव स्मरति न दोषं भारतम्।
कलहविवादान् शमयति लोके भारतम्,
शान्तिं जगति तनोति शुभं मे भारतम्।।९।।
एकं सद्...........।
यत्र यत्र सत्यं ऋजुता समुदारता,
यत्र यत्र करुणा श्रमपरता वीरता।
यत्राहिंसा - त्याग - विवेक - सहिष्णुताः,
तत्र तत्र विलसति सुतरां मे भारतम्।।१०।।
एकं सद्...........।
केवलशासनतन्त्रं नो मे भारतम्,
केवलमवनी गृहसम्पन्नो भारतम्।
कोटिकोटिजनतपःश्रमौ मे भारतम्,
सङ्गच्छध्वं संवदध्वमिति भारतम्।।११।।
एकं सद्...........।
(रचनातिथिः ३१-१-१९८९)
उत्तरमङ्गलम्
मित्र! लब्धा मया ते शुभाः कामना-
स्तत्कृतेऽहं कृतज्ञो भवन् भूरिशः।
स्वास्थ्यदं मोददं कीर्तिदं सौख्यदं
नूतनं वत्सरं ते शुभं कामये।।१।।
यत्र गेहे वसेर्यत्र वीथ्यां वसे-
र्ग्रामके वा नगर्यां वसेस्त्वं सखे।
वैमनस्याग्निरुग्रो न तत्र ज्वले-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।२।।
येन मार्गेण यात्रा भवेत्तावकी
तत्र पुष्पाणि नित्यं हसेयुः सखे!
कण्टको न स्पृशेत्ते पदं कोमलं
नूतने वत्सरे ते भवेन्मङ्गलम्।।३।।
कुत्र चिन्तात्र लोके न संदृश्यते
कुत्र वा दुःखशोकादयो न स्थिताः?
त्वकृते किन्तु तिष्ठन्त्वदृश्या इमे
नूतने वत्सरे ते भवेन्मङ्गलम्।।४।।
यत्र देशेऽस्ति वासः, सखे तावक-
स्तत्र कर्त्तव्यशून्यो न कश्चिद्भवेत्।
स्युः प्रजातन्त्ररक्षापरास्तन्नरा
नूतने वत्सरे ते भवेन्मङ्गलम्।।५।।
उष्यते यत्र राष्ट्रे त्वयाहर्निशं
तत्र कार्यं चिकीर्षुर्यदि स्याज्जनः।
प्राप्नुयात् कार्यवृत्तिं तदा स ध्रुवं
नूतने वत्सरे ते भवेन्मङ्गलम्।।६।।
ज्ञातमस्त्येव मे, त्वं हि सामाजिकं
वीक्ष्य वैषम्यमाप्नोषि तापं सखे!
आयतावीदृशी ते दशा नो भवे-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।७।।
वृत्तपत्रेषु नित्यं बलात्कारिणां
निन्द्यपैशाचकृत्यानि न त्वं पठेः!
नापि हत्यापहारादि-गाथा नवा
नूतने वत्सरे ते भवेन्मङ्गलम्।।८।।
प्रोन्नतिर्दुजनानां सतां दुर्गति-
र्वृत्तिकष्टार्दितानां च यूनां गतिः।
नो दुनोतु त्वदीयं द्रुतं मानसं
नूतने वत्सरे ते भवेन्मङ्गलम्।।९।।
नैव वध्वाः न पत्युर्न वा कस्यचि-
ज्जीवितप्राणिनो दाहमाकर्णयेः!
नैव दारिद्रयपीडा जनान् बाधये-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।१०।।
लोलुपा नायकास्सन्तु देशे नहि
स्वाधिकारात्प्रमता न चापि प्रजाः।
स्वैरिणो नो भवेयुस्तथा शासका
नूतने वत्सरे ते भवेन्मङ्गलम्।।११।।
मुग्धलोकं सखे! वञ्चनाचुञ्चवो
गृध्रगोमायवो वञ्चयेयुर्नहि।
क्षेमदे शान्तिदे हर्षदे श्रीप्रदे
नूतने वत्सरे ते भवेन्मङ्गलम्।।१२।।
देवववाणीमुपेक्ष्य प्रभाभासुरां
येऽवनत्या गता अन्धकूपे नराः।
तेऽपि गृह्णन्तु शिक्षां सखे! सत्वरं
नूतने वत्सरे ते भवेन्मङ्गलम्।।१३।।
दैन्यहीनं दयापूर्णमाशान्वितं
जीवनं कर्मठं ते सदा राजताम्।
त्वं सुखीः स्याः, लभस्व प्रियं काङ्क्षितं
नूतने वत्सरे ते भवेन्मङ्गलम्।।१४।।
ये जना आसते ते कुटुम्बे सखे!
ते प्रसन्नास्समर्था लसेयुस्सदा।
विश्वमेकं कुटुम्बं च ते राजताम्
नूतने वत्सरे ते भवेन्मङ्गलम्।।१५।।
अत्र लोके सतो रक्षितुं सर्वदा
दुष्कृतीः हर्तुमुत्साहिनस्स्युर्नराः।
निर्मितिर्नूतना स्यात्सदा शङ्करी
नूतने वत्सरे ते भवेन्मङ्गलम्।।१६।।
नैव याचे धनं, स्वर्गमेवाथवै-
काकिनस्ते न सौख्यं सखे! कामये।
सन्तु सर्वत्र सर्वे सदा नन्दिता
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।१७।।
सन्तु बाला युवानोऽथ वृद्धास्समे
निर्भयाः कर्मठा लोकसेवापराः।
आदरः कस्यचित्खण्डितो नो भवे-
नूतने वत्सरे ते भवेन्मङ्गलम्।।१८।।
सत्यनिष्ठा जयेल्लेखनी निर्भया
निर्भया वाग् जयेल्लोकसंरक्षिणी।
साधुभावस्तथा ज्ञानपूतो जये-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।१९।।
आर्तरक्षार्थमस्त्राणि शस्त्राणि वै
सन्तु, नैव प्रहर्तुं तथानागसि।
कण्टकानां च लोकस्य लोपो भवे-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।२०।।
येषु चित्तेषु दावानलो भीषणो
द्वेषभावस्य जागर्ति धूधूत्करः।
जागृयात्तेषु वासन्तिकी श्रीः शुभा
नूतने वत्सरे ते भवेन्मङ्गलम्।।२१।।
नूतना नूतना येऽपराधाः खलै-
र्नित्यमाविष्क्रियन्ते जगद् बाधितुम्।
ते समुन्मूलिताः स्युः समाजाद् द्रुतं
नूतने वत्सरे ते भवेन्मङ्गलम्।।२२।।
वारिवाहः सुकाले समागच्छतात्
सन्तु गावश्च पुष्टाः सवत्साः समाः।
शं स्वकार्येषु लग्नाः समे प्राप्नुयु-
र्नूतने वत्सरे ते भवेन्मङ्गलम्।।२३।।
क्षेत्रकेष्वन्नमुत्पादितं स्याद्बहू-
द्योगशालास्वथोत्पादवृद्धिर्भवेत्।
सन्तु सत्यश्रमाभ्यां समाः सिद्धयो
नूतने वत्सरे ते भवेन्मङ्गलम्।।२४।।
नैव पश्येदभद्रं नरश्चक्षुषा
नैव चाकर्णयेद्वाप्यभद्रं क्वचित्।
नैव वाचा भणेद्वाक्यमुद्वेजकं
नूतने वत्सरे ते भवेन्मङ्गलम्।।२५।।
स्वस्थपुष्टं समेषां शरीरं लसे-
न्मानसं शैवसङ्कल्पपूतं भवेत्।
सच्चिदानन्द आत्मा स्वरूपं भजे-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।२६।।
वाचि विद्या, करे कर्म, दृष्टौ दया
पादयोश्च प्रकृष्टा गती राजताम्।
सुप्रवृत्तेन्द्रियैस्तोषमीयुर्जना
नूतने वत्सरे ते भवेन्मङ्गलम्।।२७।।
ये बुभुक्षाहता वस्त्रहीनाश्च ये
सन्ति पादातमार्गे शयानाश्च ये।
अन्नवस्त्राश्रयान् प्राप्नुयुस्ते द्रुतं
नूतने वत्सरे ते भवेन्मङ्गलम्।।२८।।
धर्मभाषाविवादा लभेरन् शमं
दुष्कृतिर्लुप्यताम् सत्कृतिर्वर्धताम्।
नित्यमौदार्यभावो जयेत्क्षुद्रताम्
नूतने वत्सरे ते भवेन्मङ्गलम्।।२९।।
आधयो व्याधयोऽकालमृत्युस्तथा
पीडयेयुर्न लोकं श्रमाराधकम्।
कर्म कुर्वञ्छताब्दं नरो जीवता-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।३०।।
यत्र साहित्य-सङ्गीत-पूजा भवेत्
सत्कलाशिल्पशास्त्रार्चना वा भवेत्।
तत्र विघ्नो न कश्चित्समुत्पाद्यताम्
नूतने वत्सरे ते भवेन्मङ्गलम्।।३१।।
सात्त्विका राजसास्तामसाः प्राणिनोऽ
न्योन्यमाश्रित्य कल्याणिनस्स्युस्सदा।
वाचि चित्ते च कार्ये सदेकं वसे-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।३२।।
प्रेमभङ्गो न कस्यापि लोके भवेत्
प्रेमिणो विप्रयुक्ता मिलेयुर्मुदा।
स्युः स्मितास्याः समे फुल्लपद्मोपमा
नूतने वत्सरे ते भवेन्मङ्गलम्।।३३।।
पीडिता येऽप्यभावैर्मनःक्लेशिभि-
स्ते जयेयुः समस्तानभावान्नराः।
निष्फला नैव कस्यापि काङ्क्षा भवे-
न्नूतने वत्सरे ते भवेन्मङ्गलम्।।३४।।
शैशवं लालितं वार्धकं पूजितं
यौवनं भोगतृप्तं हसेत्सर्वदा।
त्याग-भोगौ भवेतां सखायौ सदा
नूतने वत्सरे ते भवेन्मङ्गलम्।।३५।।
येऽपि चिन्तासहस्त्रै परीताः जनाः
सन्ति पीतानना लुप्तहासस्मिताः।
सन्तु रक्ताननाः पूर्णकामाश्च ते
नूतने वत्सरे ते भवेन्मङ्गलम्।।३६।।
जीवनं विश्वसम्पद् बुधैरुच्यते
तच्च विश्वस्य सेवार्थमेवार्प्यताम्।
सद्विवेकः क्रियात्तस्य रक्षां सदा
नूतने वत्सरे ते भवेन्मङ्गलम्।।३७।।
पर्वतानां वनानां नदीस्रोतसां
निर्झराणामृतूनां दिशां प्राणिनाम्।
वारिधीनां च चेतः सदा प्रीयताम्
नूतने वत्सरे ते भवेन्मङ्गलम्।।३८।।
खे जले कौ च वायौ तथा तेजसि
स्रग्विणी शान्तिराप्नोतु नित्यं जयम्।
क्रान्तिरेयात्परं रक्तपातं विना
नूतने वत्सरे ते भवेन्मङ्गलम्।।३९।।
तावको देश आस्तां सदा रक्षित-
स्तावकं विश्वमास्तां सदा रक्षितम्।
तावकी कीर्तिरास्तां सदा रक्षिता
नूतने वत्सरे ते भवेन्मङ्गलम्।।४०।।
स्वाभिमानोऽस्तु ते सर्वदाः रक्षित-
स्तावकी स्यात्प्रतिज्ञा सदा रक्षिता।
तावकं स्यात्तपो रक्षितं सर्वतो
नूतने वत्सरे ते भवेन्मङ्गलम्।।४१।।
त्वं हि विश्वेश्वरं विश्व आलोकये-
र्भूर्भुवः स्वः प्रसन्ना भवेयुश्च ते।
प्रीयतां ते रमाकान्त आजीवनं
नूतने वत्सरे ते भवेन्मङ्गलम्।।४२।।
कामना मे वशे पूरणं तद्वशे!
ईह आशायुतः कामनापूरणम्।
शारदाया रमायाः प्रसादोऽस्तु ते
नूतने वत्सरे ते भवेन्मङ्गलम्।।४३।।
नूतनं वत्सरं वीक्ष्य सम्प्रेषिता
यैरनेकैः सुहृद्भिः शुभाः कामनाः।
त्वद्दलेनैव तेषां कृतेऽपि ब्रुवे
‘नूतने वत्सरे वो भवेन्मङ्गलम्’।।४४।।
यन्मया नोदितं यच्च काम्यं त्वया
यच्च पथ्यं भवेन्मङ्गलाधायकम्।
तत्सुलभ्यं भवेत्त्वत्कृते सत्वरम्
नूतने वत्सरे ते भवेन्मङ्गलम्।।४५।।
वक्तुमास्ते सखे! भूरि मन्मानसे
किन्तु वीक्ष्य त्वदीयामतिव्यापृतिम्।
पत्रमत्रैव सम्पूर्णतां प्रापये
नूतने वत्सरे ते भवेन्मङ्गलम्।।४६।।
(रचनातिथिः १५-१-१९९०)
वदत नेतारो मनाक्
किं कुरुथ किं वा करिष्यथ वदत नेतारो मनाक्।
किं मनसि वो वर्तते भो भणत नेतारो मनाक्।।१।।ध्रुङ्क्ष।।
‘अद्य युष्माकं प्रयासैर्देशगौरवमेधते।’
कश्चिदपि वक्तुं किमिच्छति चिन्तयध्वं रे मनाक्।।२।।
धर्मजातिग्रामभाषावर्णभेदोद्दीपनैः।
कीदृशं कृशरं पचध्वे वदत नेतारो मनाक्।।३।।
जनमनस्सु द्वेषवह्निर्वः प्रयासैर्ज्वालितः।
किमुचितं भवदीयकृत्यं वदत नेतारो मनाक्।।४।।
छिन्नमुद्यानं भवद्भिः पुष्पगन्धाढयं महत्।
दूयते न च मानसं वो हन्त! नेतारो मनाक्।।५।।
नाशितं जनजीवनं पितृसद्मतां नीताः पुरः।
कारिताः शालाश्च काराः किं न लज्जध्वे मनाक्।।६।।
रेलयानानां निरसनैर्निग्रहैश्च निरागसाम्।
किं भवति किं वा भविष्यति? वदत नेतारो मनाक्।।७।।
यैर्न दीपाली व्यलोकि स्वदितमथ न च यौवनम्।
वैशसात् तेषां न शङ्कध्वे कथं क्रूरा मनाक्।।८।।
यौवनं प्रज्वाल्यते, प्रतिभा सतामवहेल्यते।
जनमतं समुपेक्ष्यते, भद्रा बिभिथ चेतसि मनाक्।।९।।
नैव काशी नैव मथुरा नाप्ययोध्या नो पुरी।
नैव चोज्जयिनी विधत्ते वो भयं चेतसि मनाक्।।१०।।
नृषु नृषु च विद्वेषभावो रोपितो निजभाषणैः।
येऽप्यवाच्या भवदुदन्ता नोद्गिरति तान् कापि वाक्।।११।।
सौमनस्याधारभूतां भरतवसुधां नित्यशः।
कालकूटमयीं कुरुध्वे, किं न शङ्कध्वे मनाक्।।१२।।
नित्यमेव क्रूरतानृतछद्मभेदाराधकाः।
कां गतिं यूय गमिष्यथ वदत नेतारो मनाक्।।१३।।
स्फोटयथ शासथ’-नियमतः खण्डयथ राष्ट्रैकताम्।
कुत्र गच्छथ कुत्र यास्यथ? वदत नेतारो मनाक्।।१४।।
यद्यदाचरथ स्वदेशीये जनेऽत्र प्रत्यहम्।
किं तदाचरितं कदाचित् आङ्ग्लकुटिलैरपि मनाक्।।१५।।
देशसेवां कर्तुमागच्छथ कुरुथ यादृच्छिकम्।
व्यवहृतिः केयं स्फुरति वश्चिन्तयध्वं रे मनाक्।।१६।।
निर्धना निर्धनतरास्तैस्तैरभावैः क्लेशिताः।
आढयता नवनूतना वो वन्दनीया किं मनाक्।।१७।।
क्लिश्यते दुष्यति च शुष्यति भिक्षते रोदिति जनः।
अत्थ पिबथ स्वपिथ हृष्यथ! किं न लज्जध्वे मनाक्।।१८।।
वीक्ष्य देशे कुव्यवस्थां वृत्तिकष्टं हिंसनम्।
निस्त्रपाः क्रन्दथ हसथ वा? वदत नेतारो मनाक्।।१९।।
वस्त्रराहित्यं कुपोषणमत्र वापि महार्घता।
नित्यमग्रे किमिति धावति? वदत नेतारो मनाक्।।२०।।
नो कृषध्वे किन्तु कृषकाणां भवन्तो नायकाः।
वीक्ष्य युष्मान् किं प्रसीदति कोऽपि सन्ना भुवि मनाक्।।२१।।
अर्थयन्तारोऽपि यूयं धर्मगुरुगुरवस्तथा।
काममोक्षविचारका अपि! बिभिथ रे चेतसि मनाक्।।२२।।
उपचिताः खलु यैर्भवन्तस्ते भवद्भिर्लुण्ठिताः।
रे प्रजातन्त्रस्य हन्तारो बिभिथ लोकान्मनाक्।।२३।।
लुञ्चिता न्यायालया जनता वराकी लुञ्चिता।
किमपरं भो लुञ्चयिष्यथ वदत नेतारो मनाक्।।२४।।
अहह! सज्जनता भवद्भिर्लुण्ठिता व्यापादिता!।
लोकयथ भो लोकयथ कीर्तिं स्व नेतारो मनाक्।।२५।।
देशसेवा लुण्ठनापर्यायभूता वो मते।
किं न पश्यथ नैजचरितं? वदत नेतारो मनाक्।।२६।।
विश्ववन्द्यं शान्तिदूतं चैकनीडं यत्सताम्।
भारतं तत्कथं लुञ्चथ, वदत नेतारो मनाक्।।२७।।
भङ्क्थ चित्तं भङ्क्थ वित्तं भङ्क्थ विश्वासं नृणाम्।
किं न नैजं भङ्क्थ गर्धं वदत नेतारो मनाक्।।२८।।
चोरयथ जनसौमनस्यं चोरयथ जनजीवनम्।
चोरयिष्यध्वे स्वकीयं भ्रष्टकृत्यं किं मनाक्।।२९।।
किन्नु परवञ्चनविधिज्ञा मातृभूपरितापकाः।
नरकरचनापाटवं वो नो दुनोति मनो मनाक्।।३०।।
यत्र यत्रालोक्यते शान्तिर्भवद्भी रक्षिता।
उप्यते कलहस्य बीजं तत्र, जिह्रीथ न मनाक्।।३१।।
गिरथ कोषं गिरथ पदवीं गिरथ सर्वं सुविधया।
किं स्वतृष्णामपि गरिष्यथ? वदत नेतारो मनाक्।।३२।।
तनुथ देशे सङ्कटं कलहं तथातङ्कं स्वतः।
किं न तनुथ स्वीयचेतसि राष्ट्रभक्तिं रे मनाक्।।३३।।
चिन्तयथ नित्यं स्वकीयं हितमपरिमितमेव रे।
चिन्तयध्वं देशहितमपि लोलुपा यूयं मनाक्।।३४।।
युष्मदीयैर्नित्यकृत्यै राष्ट्रदेवी लज्जिता।
निस्त्रपा जीवथ न मज्जथ चुलुकवारिणि रे मनाक्।।३५।।
हिंसयासत्येन पैशुन्येन भवतां जीविका।
कोऽपि सम्बन्धोऽस्ति किं सत्यश्रमाभ्यां वो मनाक्।।३६।।
सन्ति ये लालाटिका आस्थाननलिनीका बकाः।
कुत्र युष्मान् पातयेयुश्चिन्तयध्वं रे मनाक्।।३७।।
पादयोः प्रणिपत्य घोणाघर्षणं कृत्वा मुहुः।
याचितं यन्मे मतं तस्यादरं रक्षत मनाक्।।३८।।
दूरदर्शनतन्त्रतो लब्ध्वा विभुत्वं प्रत्यहम्।
भाष्यते यदनर्गलं रे वित्थ तस्यार्थं मनाक्।।३९।।
मनसि वचसि च कर्मणि प्रविरुध्यते यैः प्रतिपलम्।
सन्ति सन्तो वै कियन्तो वोऽतिरिच्य वदत मनाक्।।४०।।
नैककविभिर्नवपुराणैर्यस्य महिमा गीयते।
भारतं तत्किं न रक्षथ, वदत नेतारो मनाक्।।४१।।
यस्य रक्षायै भटा उत्साहिनः खे भुवि जले।
यूयमपि तद्देशरक्षार्थं कुरुत यत्नान् मनाक्।।४२।।
येऽप्यपश्यन्नैकतायामेकतां भारतभुवि।
भवत तेष्वपि भो कृपालव आत्मपूर्वजनृषु मनाक्।।४३।।
‘यातु देशो ह्यन्धकूपे रक्षितं स्यान्मे मतम्।’
इति विचारपरम्परां स्वां त्यजत नेतारो मनाक्।।४४।।
चिनुथ यूयं पूर्वजानां दुर्गुणानेव, क्षणम्।
सद्गुणानपि किन्तु तेषां चिनुथ नेतारो मनाक्।।४५।।
किं तुदध्वे राष्ट्रदेवं किं तुदथ देशावनिम्।
संस्कृतिं नः किं तुदध्वे वदत नेतारो मनाक्।।४६।।
किं कृतघ्नैर्लप्स्यते कीर्तिर्यशो वा निस्त्रपैः।
मनसि चिन्तयथ क्वचिद् एकान्त आसीना मनाक्।।४७।।
शासनासन्दीमवाप्य व्रजत नो गर्वं क्षणम्।
आगते विपरीतकाले कोऽपि रक्षति किं मनाक्।।४८।।
ये समागच्छन्ति भङ्क्तुं वोऽभिमानं द्वारि वः।
किं नु शक्ष्यथ रोद्धुमेतान्? वदत नेतारो मनाक्।।४९।।
किरथ जनसम्मर्दं निरागसमात्मनोऽहङ्कारतः।
किमिति तच्छक्तिं करिष्यथ वदत नेतारो मनाक्।।५०।।
ध्वसितुं मे भारतं यूयं स्थिता यदि तत्पराः।
निश्चितं यूयं विनङ्क्ष्यथ, सावधाना रे मनाक्।।५१।।
प्राक्तना नेतार आसंस्त्यागशीलाः प्रायशः।
अद्यतननेतार आध्वे तत्सदृक्षाः किं मनाक्।।५२।।
ते मृता अपि पूजनीया यैर्हि देशः सेवितः।
जीविता अपि किन्तु यूयं पूजनीयाः किं मनाक्।।५३।।
भारभूता मातृभूमेर्यूयमेतन्मे मतम्।
अत्र किं ब्रूते मनो वो वदत नेतारो मनाक्।।५४।।
अद्य युष्माकं सुकृत्यैर्नित्यनूतनशोभनैः!
लोक्यते यद्दिग्दिगन्तं तद्यशः पश्यत मनाक्।।५५।।
ये कविम्मन्या यशो वो दूषयन्ति धिगस्तु तान्।
न्याय्यमार्गान्न स्वकीयात् प्रविचलत धीरा मनाक्।।५६।।
उपकृतं बहु तत्र किं कथ्येत जीवत रे चिरम्।
कुत्र वो दिव्यं यशः स्वल्पाक्षरा क्व च मेऽत्र वाक्।।५७।।
(रचनातिथिः २९-१०-१९९०)
किं जीवनं ते!
मनसि चिन्तय सखे! किं जीवनं ते!
रहसि शीलय सखे! किं जीवनं ते!
न वा स्वार्थः परार्थो नापि बन्धो!
त्वया चेत्साध्यते, किं जीवनं ते! ।।१।।
न साहित्यं, न सङ्गीतं, कला वा
न रासिक्यं च ते, किं जीवनं ते! ।।२।।
न दाक्षिण्यं, न सौशील्यं, न कीर्तिः
न सेवा, नो दया, किं जीवनं ते! ।।३।।
विपदि धैर्यं, तथाभ्युदये क्षमा नो
न वा युधि विक्रमः, किं जीवनं ते! ।।४।।
गुरोः पित्रोर्न चरणा वन्दिताश्चेत्
अहङ्कारात्त्वया, किं जीवनं ते! ।।५।।
न कश्चित्प्रेमबन्धे त्वामबध्नात्
वृथाजीविन् सखे! किं जीवनं ते! ।।६।।
त्वया यदि शासनासन्दीमवाप्य
न लोको रञ्जितः, किं जीवनं ते! ।।७।।
अहो दैनन्दिनी मतयाचना ते
वनीयक नेतृवर! किं जीवनं ते! ।।८।।
न निःश्वसितं, न रुदितं, मूर्च्छितं नो
प्रियाविरहे त्वया, किं जीवनं ते! ।।९।।
वियोगे ते जनो नो कोऽपि खिन्नः
न योगे प्रीतिमान्, किं जीवनं ते! ।।१०।।
मनोभावो न निर्द्वन्द्वं प्रकटितः
कपटचारिंस्त्वया, किं जीवनं ते! ।।११।।
विषामृतयोर्विवेकं नैव कर्तुम्
त्वमीशश्चेत्तदा किं जीवनं ते! ।।१२।।
न दुष्टास्तर्जिताः स्वीयेन महसा
न सन्तो मानिताः, किं जीवनं ते! ।।१३।।
करालः काल इव नाभासि चेत्त्वम्
कुकृत्यानां कृते, किं जीवनं ते! ।।१४।।
त्वया स्वान्तःसुखार्थं देववाणी
न पठिता, न श्रुता, किं जीवनं ते! ।।१५।।
प्रभुः कर्ता च भर्ता चैव हर्ता
न चेदाराधितः, किं जीवनं ते! ।।१६।।
निपीतं नैव मधु प्रेम्णः कदाचित्
विरस मृल्लोष्ठ रे! किं जीवनं ते! ।।१७।।
न रसिता रसवशात्त्वत्पार्श्वमाप्ता
रहसि काचित्त्वया, किं जीवनं ते! ।।१८।।
वृथा चन्द्रो वृथा मधुयामिनीयम्
न पार्श्वे ते प्रिया, किं जीवनं ते! ।।१९।।
स्वदेशः सेवितो न प्राणपणतः
विकत्थन धूर्त रे, किं जीवनं ते! ।।२०।।
मुखे मधु ते मनसि ते कालकूटः
तृणावृत कूप रे! किं जीवनं ते! ।।२१।।
कृतघ्नत्वं कदाचारः पिशुनता
इमे त्वद्बान्धवाः, किं जीवनं ते! ।।२२।।
स्वयं नष्टः परान्नाशयसि नित्यम्
व्यसनशतशालिनः किं जीवनं ते! ।।२३।।
क्षणे रुष्टः क्षणे तुष्टः सखे! त्वम्
अहो चलचित्त रे! किं जीवनं ते! ।।२४।।
मुखे ते मक्षिकाः कुर्वन्ति भिन्-भिन्
न चोड्डययसि रे! किं जीवनं ते! ।।२५।।
सुरक्षितमस्ति नो पदमपि पलार्थम्
अहो मन्त्रिप्रवर! किं जीवनं ते! ।।२६।।
प्रदर्शन - गालिका - कार्यावरोधैः
अहो प्राचार्यवर! किं जीवनं ते! ।।२७।।
प्रकृत्यङ्के न ते क्रीडा बभूव
सदा हर्म्यस्थ रे! किं जीवनं ते! ।।२८।।
न दुग्धं माहिषं व्यायामिनस्ते
(पयो गव्यं न चेद् व्यायामिनस्ते)
सुलभमास्तेऽन्वहं! किं जीवनं ते! ।।२९।।
न चेत् पार्श्वे सखे ते स्वास्थ्यवित्तम्
धनैरेतैरलं, किं जीवनं ते! ।।३०।।
उपायैस्तैश्च तैर्धृतमपि मनस्ते
प्रियां नोपैति चेत् किं जीवनं ते! ।।३१।।
उपालम्भो न चानुनयोऽपि तुभ्यं
अहो प्रणयिन् युवक! किं जीवनं ते! ।।३२।।
तवागमने तथा गमने न चर्चा
वराक प्राघुणिक! किं जीवनं ते! ।।३३।।
परोक्षे शत्रुभिर्मित्रैस्तटस्थैः
न चेच्छ्लाघ्योऽसि रे, किं जीवनं ते! ।।३४।।
अयं श्रोता न बोधति भाषणं ते
अनर्गलजल्पिनः किं जीवनं ते! ।।३५।।
न दीनाः सेविताः शुद्धेन मनसा
कुनेतॄन्! सेवसे, किं जीवनं ते! ।।३६।।
न माता जन्मभूर्बन्धो! मता चेत्
किमेतेनायुषा, किं जीवनं ते! ।।३७।।
न दृष्टं भारतं स्निग्धेन मनसा।
अहो विश्वभ्रमिन्! किं जीवनं ते! ।।३८।।
कृपेशस्याशिषो यदि वा गुरूणाम्
न लब्धा जीवने, किं जीवनं ते! ।।३९।।
त्वयार्वाचीनसंस्कृतमपि न पठितम्?
न दूर्वालोकिता? किं जीवनं ते! ।।४०।।
रमाकान्तोऽभिराजो वा रथो वा
श्रुतो यदि न त्वया, किं जीवनं ते! ।।४१।।
(रचनातिथिः २९-३-१९९१)
ब्रूहि जगन्नाथस्वामिन्!
1
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्!
किं वा भवितान्यद् ब्रूहि जगन्नाथस्वामिन्! ।।
2
माला भूता व्याली जीवनलीलान्तकरी
प्रणतिर्भूता प्रहृतिर्जनविश्वासान्तकरी
कुसुमानि कुर्वते कालदूततां निःशङ्कम्
अनृतं सत्यं तर्जयति जगन्नाथस्वामिन्!
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
3
ये शुभ्रकञ्चुका अवलोक्यन्ते नेतारः
प्रायशः प्रजातन्त्रस्य सन्ति ते हन्तारः
पूजादीपा गृहदाहकारिणो दीप्यन्ते
रक्षकाः सन्ति भक्षका जगन्नाथस्वामिन्।
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
4
जीवनं विश्वसम्पद्बुधजनैः पुरा कथितं
दृश्यते भीषितं पदे पदे मथितं क्वथितम्
अवहेल्यन्ते सज्जनाः दुर्जनैः पदे-पदे
दूयते मनस्ते किं न जगन्नाथस्वामिन्?
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
5
या विश्वबन्धुता साभिमानमुद्घुष्टासीत्
महिमानमहिंसा या च जगति भजमानासीत्
यः सत्यपरिश्रमजयो गीयते स्मास्माभिः
क्वासौ विलीयते ब्रूहि जगन्नाथस्वामिन्!
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
6
दीनाश्च नाद्य नारायणतां गमिता लोके
नार्यश्च नैव पूज्यन्ते तव भक्तैर्लोके
किं किं दर्शयसि प्रभो जगद्बीभत्सदशां
कुरु कृपां सपदि संसृतौ जगन्नाथस्वामिन्!
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
7
अमृतं विषायते, भारायते तथा ज्ञानं
वरदानं शापायते तमिस्रायते दिनम्
पोतो मरुभूमीयति सेवा लुण्ठना मता
वार्ता युद्धीयति कथं जगन्नाथस्वामिन्!
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
8
हे विश्वरूप! नैजं रूपं किं नो पश्यसि
हे दीनदयालो! दीनजनान् किं नो पश्यसि?
हे सर्वव्यापक! किं सहसे सर्वस्य शुचं
कुरु नः सत्पथगानाशु जगन्नाथस्वामिन्!
किं भवति जगति ते ब्रूहि जगन्नाथस्वामिन्! ।।
(रचनातिथिः ६-६-१९९१)
वन्दनीयास्ते!
इयं स्वर्गाधिका मे मातृभूमिर्वन्दनीयास्ते।
परं यास्या दशाद्यत्वे, कथय किं वन्दनीयास्ते? ।।१।।
चतुर्दिक् दृश्यते यासौ प्रगतिरभिनन्दनीयास्ते।
चतुर्दिक् दुःस्थितिर्यालोक्यते, किं वन्दनीयास्ते? ।।२।।
जना ये भारतं पुष्णन्ति, नित्यं वन्दनीयास्ते।
अथो तत्पांसुलं कुर्वन्ति ये, किं वन्दनीयास्ते? ।।३।।
जना एकत्वसूत्रे यैर्निबद्धा वन्दनीयास्ते।
जनान् ये योधयन्ति प्रत्यहं किं वन्दनीयास्ते ।।४।।
अभिघ्नन्तो रिपून् युद्धे चलन्तो वीरगत्याग्रे।
दिवं ये देशरक्षार्थं प्रयाता वन्दनीयास्ते ।।५।।
न ये देशस्य किन्तु स्वीयवंशस्यैव दारिद्र्यम्।
अपाकर्तुं यतन्ते नेतृवर्या वन्दनीयास्ते?।।६।।
अतस्मिंस्तस्य बुद्धिं ये दधाना वन्दनीयास्ते।
पुनर्ये तत्र तद्बुद्धिं दधति, नो वन्दनीयास्ते?।।७।।
नहि प्रत्यक्षमनुमानं न शाब्दं नेषदुपमानम्।
प्रमाणं मन्यते या सा मतिः किं वन्दनीयास्ते? ।।८।।
चिरान्निटिले य आसीत् स्थापितः केनापि साहङ्कृति।
कलङ्को मार्जितोऽसौ यैर्न केषां वन्दनीयास्ते ।।९।।
करामलकं न पश्यन्ती खपुष्पं चैव पश्यन्ती।
असौ लोकोत्तरा दृष्टिः सखे! ते वन्दनीयास्ते? ।।१०।।
पुरा दुर्भावनादीप्तिस्ततः सद्भावनायात्रा!
इयं नीतिर्मता येषां जना नो वन्दनीयास्ते ।।११।।
प्रजासु प्रत्यहं कलहं विवर्धयसे स्वपोषार्थम्!
इयं वृत्तिः सखे नेतस्त्वदीया वन्दनीयास्ते ।।१२।।
अहिंसाचत्वरे हिंसा, सहिष्णुत्वाजिरे द्वेषः।
क्वचिद् गृहयुद्धघोषः, किं दशेयं वन्दनीयास्ते? ।।१३।।
अहो राष्ट्रध्वजं गणतन्त्रदिवसं ये बहिष्कुर्युः।
किमेते भारतीयाः? भारतीयैर्वन्दनीयास्ते? ।।१४।।
प्रियं सत्यं हितं सारं वचो या वक्ति सा वाणी।
न ते वन्द्या, परं विपरीतवक्त्री वन्दनीयास्ते? ।।१५।।
यमेवारुह्य यात्रां कुर्वते पारं प्रयातुं तम्।
प्लवं विच्छेत्तुकामा बालिशा ये, वन्दनीयास्ते? ।।१६।।
चतुर्दिक् दन्दशूका निर्भयाः फूत्कुर्वते लोके।
गरुत्मन्! मौनवृत्तिस्ते किमेषा वन्दनीयास्ते? ।।१७।।
परीते वह्निना देशे ज्वलति धूधूधधग्धगिति।
असौ तूष्णीकता ते किं मनागपि वन्दनीयास्ते? ।।१८।।
न जाने केन सन्दीप्तात्र हिंसा ताण्डवं कुरुते।
करे धृत्वा करं ये संस्थिताः, किं वन्दनीयास्ते? ।।१९।।
इयं हिंसासुरी व्याप्नोति हा! देशं समस्तं मे।
इयं दैनन्दिनी शोच्या स्थितिः किं वन्दनीयास्ते? ।।२०।।
उपद्रविणां कृते शस्त्रास्त्रसङ्तोऽन्यदेशीयः।
कथं देशे प्रविष्टः? किं सुरक्षा वन्दनीयास्ते? ।।२१।।
उपद्रविभिः कृता निर्दोषनॄणां जीवतां दाहाः।
इमे रुधिरप्रवाहाः किं प्रशासक! वन्दनीयास्ते? ।।२२।।
रमन्ते साङ्ख्यपुरुषाभा जनाः स्वासन्दिकायां ये।
अकर्तारश्च पश्यन्तोऽखिलं, नो वन्दनीयास्ते ।।२३।।
जनं विनिपात्य दुर्घोरेऽसुरक्षावह्निकुण्डे ये।
सुरक्षामण्डले गुप्ता रमन्ते, वन्दनीयास्ते? ।।२४।।
क्वचिद्ये धर्मनिरपेक्षाः क्वचिद्धर्मस्य वक्तारः।
क्वचिद्धर्मावतारा नायका नो वन्दनीयास्ते? ।।२५।।
‘कथं निर्वाचने भाविन्यहं विजयी भवामी’ति।
इदं येषां परं लक्ष्यं, न केषां वन्दनीयास्ते! ।।२६।।
पदं मद्यं धनं मानं यशो लब्धुं मृषा ब्रुवते।
वराका ‘बुद्धिजीवी’ सञ्ज्ञका ये, वन्दनीयास्ते! ।।२७।।
तिलं ताडं, समुद्रं गोष्पदं, मेरुं कणं कर्तुम्।
समर्था आसते ये सूचनादाः, वन्दनीयास्ते! ।।२८।।
अहिंसा सत्यमुपकारः श्रमः प्रेमा मतो धर्मः।
अतो ये सन्ति निरपेक्षा इदानीं वन्दनीयास्ते! ।।२९।।
यया नीत्या समे सद्भावसूत्रे गुम्फिता न स्युः।
असौ नीतिः किमस्माकं समेषां वन्दनीयास्ते? ।।३०।।
नरे शठतां दधाना सत्कृतिं दूरे प्रकुर्वाणा।
इयं या राजनीतिर्दूरतो मे वन्दनीयास्ते! ।।३१।।
इमे प्राक्पादयोः पतितास्तदनु ये पृष्ठमांसादाः।
खला मशका इवासृक्चूषका नो वन्दनीयास्ते! ।।३२।।
यदीच्छसि भद्र! भद्रं दुर्जनान् वन्दस्व नित्यं त्वम्।
अरे! ये सज्जनास्ते सज्जनाः, किं वन्दनीयास्ते! ।।३३।।
प्रजाशिक्षासुरक्षाभरणरूपं स्वीयकर्तव्यम्।
न पालयितुं समर्थाः शासकाः, किं वन्दनीयास्ते? ।।३४।।
क्वचिद्वित्तीयघोटालाः, क्वचित्क्रयविक्रयोत्कोचाः।
क्वचिच्चान्ये ह्यवाच्या येऽप्युदन्ता वन्दनीयास्ते?।।३५।।
कदाचित्खाडकूचर्चा कदाचिज्जङ्गजूचर्चा।
इयं या दुर्दशालोक्या किमेषा वन्दनीयास्ते? ।।३६।।
न यद्दातुं समर्थस्तत्कृते कुरुषे प्रतिज्ञां त्वम्!
अपूर्या किं प्रतिज्ञा तावकीना वन्दनीयास्ते? ।।३७।।
अहो पूजास्थलं निर्मासि, पूजां नैव कुरुषे त्वम्!
कथय भक्तप्रवर! ते भक्तिरेषा वन्दनीयास्ते? ।।३८।।
ययोद्गिरतो विषं स्वस्मिन्निमान् कुम्भीनसान् सहसे!
अये चन्दनतरो! सैषा धृतिस्ते वन्दनीयास्ते। ।।३९।।
अये पञ्चानन! त्वां कुक्कुरोऽयं प्रत्यहं निन्दति।
सहानेन त्वदीया मित्रता किं वन्दनीयास्ते? ।।४०।।
कवेर्व्याजोक्तिरन्योक्तिः स्वभावोक्तिश्च वक्रोक्तिः।
अनुक्त्वा किञ्चिदपि सर्वं भणन्ती वन्दनीयास्ते।। ।।४१।।
जना देशस्य रक्षार्थं तथा विश्वस्य कुशलार्थम्।
यतन्ते ये न निजकृत्यैः, कथय किं वन्दनीयास्ते? ।।४२।।
नरा नार्योऽबलाः सबलाः कनिष्ठा मध्यमा ज्येष्ठाः।
स्वदेशं ये न वन्दन्ते मताः किं वन्दनीयास्ते? ।।४३।।
स्वदेशं निन्दयन्तो विश्वबन्धुत्वस्य वक्तारः।
फलं काङ्क्षन्ति ये मूलं विना, नो वन्दनीयास्ते! ।।४४।।
यजन्ते ये विधानोक्तैः स्वकर्मभिरात्मजन्मभुवम्।
नराः कुत्रापि निवसन्तो न केषां वन्दनीयास्ते? ।।४५।।
बुधा वीराः कृषाणाः कार्मिका उद्योगिनः कवयः।
कालाकाराः स्वदेशोन्नायका ये वन्दनीयास्ते। ।।४६।।
निबद्धास्ताडिता निहता तथा विकलाङ्तां याताः।
जना ये देशरक्षार्थं, न केषां वन्दनीयास्ते? ।।४७।।
जना ये मातृभूमेर्वन्दनार्थं वन्दिनो जाताः।
स्मितास्याः कालपाशं ये चुचुम्बुर्वन्दनीयास्ते! ।।४८।।
अये मे मातृभूमे! ते महिम्नो रक्षणार्थं ये।
बलिं चक्रुः स्वसर्वस्वं, न केषां वन्दनीयास्ते? ।।४९।।
जननि! ये त्वां नराः क्षतविक्षतां कर्तुं समीहन्ते।
कृतघ्नाः कस्य वा पापीयसो वद वन्दनीयास्ते? ।।५०।।
अयं स्वातन्त्र्यसहकारः सदा सफलः समृद्धः स्यात्!
स्वरक्तैः सेचितोऽयं यैर्न केषां वन्दनीयास्ते? ।।५१।।
रमाकान्त! व्यथां देशस्य विश्वस्याथ निजकृत्यैः।
जना ये वर्धयन्ति प्रत्यहं किं वन्दनीयास्ते? ।।५२।।
न शब्दो नैव चार्थो न ध्वनिर्नैवास्त्वलङ्कारः।
तथापीयं कवे! कविता त्वदीया वन्दनीयास्ते! ।।५३।।
(रचनापूर्तितिथिः १४.१.१९९३ ई.)
मदीयकविते! कुरुष्व गानम्
सरस्वतीपादपद्मसेवा
यदीयमास्ते परं हि लक्ष्यम्।
बुधाग्रगाणामतन्द्रितानां
मदीयकविते! कुरुष्व गानम्।।१।।
कदापि वागर्थनाम येषां
प्रयुक्तमस्त्रं वृथा न हि स्यात्।
अलोकसामान्यसत्कवीनां
मदीयकविते! कुरुष्व गानम्।।२।।
स्वरश्रुतिग्रामरागबन्धै-
रपूर्वसृष्टेः सुसर्जकानाम्।
शुभाय सङ्गीतसाधकानां
मदीयकविते! कुरुष्व गानम्।।३।।
मृदाश्मना काष्ठखण्डकैर्वा
सृजन्ति ये नूतनां स्वजगतीम्।
यशस्विनां शिल्पिनां हि तेषां
मदीयकविते! कुरुष्व गानम्।।४।।
सुखं धनं स्नेहबन्धनानि
स्वदेशसौख्याय ये त्यजन्ति।
हुतात्मनां नित्यमेव तेषां
मदीयकविते! कुरुष्व गानम्।।५।।
परोपकारव्रतं पवित्रं
सदैव ये पालयन्ति हृष्टाः।
सुपूजितानां नृणां हि तेषां
मदीयकविते! कुरुष्व गानम्।।६।।
निजोपदेशैर्मनोऽन्धकारं
विधूय ये शिष्यसन्ततीनाम्।
जयन्ति, तेषां मुदा गुरूणां
मदीयकविते! कुरुष्व गानम्।।७।।
स्वतन्त्रतायज्ञदीक्षितानां
चिराय कारासु पीडितानाम्।
मृतिंवराणां नरोत्तमानां
मदीयकविते! कुरुष्व गानम्।।८।।
रिपोः करान्मोचयाम्बभूवुः
स्वमातरं भारतावनिं ये।
विशिष्य तेषां नृणां समेषां
मदीयकविते! कुरुष्व गानम्।।९।।
मनुष्यतां रक्षितुं स्वयत्नै-
रनुक्षणं शोधतत्पराणाम्।
प्रबुद्धवैज्ञानिकव्रजानां
मदीयकविते! कुरुष्व गानम्।।१०।।
सहस्रशीर्षं सहस्रहस्तं
सहस्रपादं जनं भजन्तः।
समुद्यमा ये लसन्ति तेषां
मदीयकविते! कुरुष्व गानम्।।११।।
विषह्य शीतोष्णवर्षकष्ट-
प्रकोपमप्यन्नदायकानाम्।
तपस्विनां क्षेत्रकर्षकाणां
मदीयकविते! कुरुष्व गानम्।।१२।।
उदन्वदाकाशपर्वतेषु
स्वदेशरक्षाव्रतस्थितानाम्।
रणोद्भटानां मुदा भटानां
मदीयकविते! कुरुष्व गानम्।।१३।।
विभिन्नखेलासु कीर्तिमानैः
स्वदेशसम्मानवर्धकानाम्।
जितेन्द्रियाणां प्रशस्ययूनां
मदीयकविते! कुरुष्व गानम्।।१४।।
प्रसन्नवक्त्राः सदासते ये
दरिद्रतायामपि प्रकामम्।
विशिष्य तेषां श्रमव्रतानां
मदीयकविते! कुरुष्व गानम्।।१५।।
स्वकीयचरितैर्मनस्सु पित्रोः
प्रकामसन्तोषदायका ये।
सुता जगद्भूषणानि, तेषां
मदीयकविते! कुरुष्व गानम्।।१६।।
असज्जनानां कुनायकानां
कृतघ्न - दुर्वृत्त - वञ्चकानाम्।
विहाय चर्चां, मनस्विनां त्वं
मदीयकविते! कुरुष्व गानम्।।१७।।
सदा प्रजातन्त्ररक्षकाणां
स्वकार्यनिर्वाहतत्पराणाम्।
प्रदर्शकानां सृतेरभीते-
मदीयकविते! कुरुष्व गानम्।।१८।।
स्वपाणिपल्लवमुदारकल्पं
न कुत्रचिद् ये प्रसारयन्ति।
नृणां सदायाचितव्रतानां
मदीयकविते! कुरुष्व गानम्।।१९।।
कुरीतयो वा कुनीतयो वा
जगत्यनिष्टं प्रपूरयन्त्यः।
विलोपिता यैः, सभक्ति तेषां
मदीयकविते! कुरुष्व गानम्।।२०।।
स्वकीयवर्णं स्वरं भविष्णुं
विधातुकामासि? तर्हि नूनम्।
तपोधनानां जगद्गुरूणां
मदीयकविते! कुरुष्व गानम्।।२१।।
‘सदैव सर्वे भवन्तु सुखिनः
सदैव सर्वे निरामयाः स्युः।’
मनोरथस्यास्य पोषकाणां
मदीयकविते! कुरुष्व गानम्।।२२।।
कुटुम्बमेकं जगद्विधातुं
जनाः सदा ये प्रयत्नशीलाः।
प्रहृष्य तेषां महात्मनां त्वं
मदीयकविते! कुरुष्व गानम्।।२३।।
यदीच्छसि त्वं जनिं स्वकीयां
सदर्थितां कर्तुमार्यशीले!
तदा महिम्नां स्वामातृभूमे-
र्मदीयकविते! कुरुष्व गानम्।।२४।।
अमन्दमानन्दमाप्तुकामा
परेशलीलाब्धिमौक्तिकानाम्।
कदाचिदेकान्तवासमाप्ता
मदीयकविते! कुरुष्व गानम्।।२५।।
(रचनातिथिः २६-१२-१९९३)
वन्द्यतां काऽपि सा शासनासन्दिका!
जन्मजन्मान्तरीयं स्वकीयं परं
वैरभावं परित्यजन्य यस्या वशात्।
एकतां यान्ति नेतार एकक्षणे
वन्द्यतां काऽपि सा शासनासन्दिका।।
‘वर्तमानार्थनीतिः परित्यज्यताम्’
नैकशो यैरिदं वाक्यमुद्घोषितम्।
तेऽपि यल्लीलया तां भणन्त्युत्तमां
वन्द्यतां काऽपि सा शासनासन्दिका।।
यां विधातुं करस्थां न किं किं कृतं
चातुरीभ्राजितैर्नेतृवर्यब्रुवैः।
यां समासाद्य विस्मर्यते तैर्जनो
वन्द्यतां काऽपि सा शासनासन्दिका।।
लक्षकोट्यर्बुदानामहो वञ्चनं
शान्तभावेन यां प्राप्य कर्तुं क्षमम्।
यां श्रितैश्छन्ददात्री प्रजा पीड्यते
वन्द्यतां काऽपि सा शासनासन्दिका।।
दूषणोद्घोषणं सद्गुणानां चये
सद्गुणोद्घोषणं दुर्गुणानां चये।
यत्प्रभावाद्विधातुं सुशक्यं भवेद्
वन्द्यतां काऽपि सा शासनासन्दिका।।
वञ्चनं मित्रघातस्तथा दस्युता
निस्त्रपत्वं कृतघ्नत्वमित्यादयः।
दुर्गुणाः वन्द्यतां यान्ति सद्यो यया
वन्द्यतां काऽपि सा शासनासन्दिका।।
धर्मकामार्थमोक्षोपदेशाकराः
सर्वविद्याचणाः सत्कलाचुञ्चवः।
अक्षरज्ञानशून्या अपि स्युर्यया
वन्द्यतां काऽपि सा शासनासन्दिका।।
देशसेवां विधातुं य आयान्त्यहो
तेऽन्यथाभावमाप्ता न किं कुर्वते।
यामधिष्ठातुकामा अधिष्ठाय वा
वन्द्यतां काऽपि सा शासनासन्दिका।।
यं स्वतन्त्रं विधातुं हुतं जीवनं
देशभक्तैरसंख्यैर्विलम्बं विना।
तस्य देशस्य चिन्ताऽपि हेया यया
वन्द्यतां काऽपि सा शासनासन्दिका।।
१०
पण्डितैर्योद्धृभिर्वाणिजैः कार्मिकैः
सर्वकैरेव याद्यत्व आराध्यते।
सर्वसौख्यप्रदात्री समेषां नृणां
वन्द्यतां काऽपि सा शासनासन्दिका।।
११
केनचिद् दृश्यतामस्मदीया दशा
स्थापिता मूर्ध्नि येऽस्माभिरुत्साहिभिः।
हन्त! तैरेव वञ्च्यामहे यद्वशात्
वन्द्यतां काऽपि सा शासनासन्दिका।।
(रचनातिथिः २६-६-१९९५)
तं सुभाषं स्मरामो वयं सादरम्
1
जानकीनाथपुत्रस्तथाधीतिमान्
तेजसः पुञ्ज आशैशवाद्यो बभौ।
मातृभूस्वास्थ्यसंवर्धनायागदं
तं सुभाषं स्मरामो वयं सादरम्।।
2
‘आइ सी एस’ साफल्यमाप्त्वाप्यहो
शासनासन्दिकानादरं योऽकरोत्।
मातृभूम्यर्चनं यस्य पुण्यव्रतं
तं सुभाषं स्मरामो वयं सादरम्।।
3
यस्य चाध्यक्षतायां मिलित्वा जनैः
‘पाटलीपुत्र-प्रस्ताव’ आक्षिप्यत।
नूतनान्दोलनं येन सञ्चालितं
तं सुभाषं स्मरामो वयं सादरम्।।
4
नैव दैन्यं न वा याचनाप्यार्जवं
नीतिरास्ते खलानां पुरः सन्नृणाम्।
शक्तिराराधनीयेति यस्यास्ति धी-
स्तं सुभाषं स्मरामो वयं सादरम्।।
5
येन चाज़ाद हिन्देति नाम्ना बलं
योजयित्वाद्भुतं कर्म सम्पादितम्।
वीरचेतोमयूराम्बुदं हर्षदं
तं सुभाषं स्मरामो वयं सादरम्।।
6
‘दीयतां मे स्वरक्तं भवद्भिस्समै-
रात्मतन्त्र्यं भवद्भ्यो मया दास्यते।’
आजुहावेति यो भारतीयान् जनान्
तं सुभाषं स्मरामो वयं सादरम्।।
7
यस्य चात्यन्तमोजःप्रदैर्भाषणैः
पारतन्त्र्यार्दिता भारतीया जनाः।
कर्तुमैच्छन् स्वदेशं स्वतन्त्रं द्रुतं
तं सुभाषं स्मरामो वयं सादरम्।।
8
‘एत दिल्ली’ मिति प्रोद्गता यस्य वाग्
भारतीयान् समुत्साहिनोऽकारयत्।
यं ग्रहीतुं न शक्तास्तथा चाङ्गलाः
तं सुभाषं स्मरामो वयं सादरम्।।
9
यस्य भक्तैरिदानीमपि स्मर्यते
जृम्भितं वीरभावस्य यस्याद्भुतम्।
योऽमरो राजते मातृभूमेः सुतः
तं सुभाषं स्मरामो वयं सादरम्।।
(रचनातिथिः १०-८-१९९६)