<
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य
1
गङ्गा कलिन्दतनया च सरस्वती च
यं नैजपुण्यसलिलैः परिपावयन्ति।
तत्राप यो निजजनिं प्रथिते प्रयागे
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
2
प्राभावयन्मदनमोहनमालवीयो
लाला च लाजपतरायसुधीवरो यम्।
भक्तं व्यधाच्च यमहो प्रथितः पटेल-
स्तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
3
सप्रूपनामसमलङ्कृतप्राड्विवाकाद्
वाक्कीलतां समभजत् प्रथमं ततश्च।
नाभाख्यराज्यविधिमन्त्रिपदं गतो य-
स्तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।३।।
4
काङ्ग्रेसकार्यसमितेरभवत् कराञ्च्याम्
उत्साहपूरितमनाः प्रथमं सदस्यः।
अध्यक्षतामनु गतश्च दलस्य तस्य
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।४।।
5
यूपीविधानसदसश्च भवन्नियन्ता
लेभे यशोऽतिविमलं विपुलं मनस्वी।
संसत्सदस्यपदवीमपि रूढवान् य-
स्तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
6
तत्याज यो हि पदवीं विधिमन्त्रिसञ्ज्ञां
काङ्ग्रेससञ्ज्ञकदलस्य च मुख्यतां वा।
तत्याज किन्तु न हि यो निजराष्ट्रभाषां
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
7
राजर्षिमान्यपदवी यमवाप्य जाता
धन्या मनोज्ञभरतावनिरत्नभूतम्।
हिन्दीप्रचारमकरन्दमधुव्रतस्य
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
8
यो राष्ट्रभक्तिपरिपूरितमानसः सन्
कारागृहस्य बहुकष्टततिं विषेहे।
दुःखे सुखे च किल यः स्थितप्रज्ञ आसीत्
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
9
हं हो यदाद्य खलु भारतभूमिभागे
संदृश्यते निजगिरः परितो ह्युपेक्षा।
प्रासङ्गिकत्वमयते स्मरणं यदीयं
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
10
यं श्रद्धयार्चितुमिदं भवनं वरेण्यं
निर्मापितं बुधवरैर्विविधैः सुयत्नैः
स्मर्यास्ति यस्य निजराष्ट्रगिरः सपर्या
तस्य स्मृतिर्विजयते पुरुषोत्तमस्य।।
(रचनातिथिः १४-९-१९९६)
स्वतन्त्रतायाः स्वर्णजयन्ती
1
देशभक्तिभावितचित्तान् सादरं नमन्ती।
स्वातन्त्र्याहववीरभटान् सादरं स्मरन्ती।
देशवासिनां चिन्तनधारां पुरो नयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
2
यैर्देशस्य कृते समर्पितं निजसर्वस्वम्।
दर्शितवन्तो ये चाङ्ग्लेभ्यः पराक्रमं स्वम्।
तान् स्मारयति स्वतन्त्रतायाः स्वर्णजयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
3
क्रान्तिकारिणां तपस्विनां वै विविधतपस्याः।
हुतात्मभिर्याः कृता देशमातुर्वरिवस्याः।
ता अर्चयति स्वतन्त्रतायाः स्वर्णजयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
4
अहह! खण्डिता भारतभूमिर्नः सञ्जाता।
प्रादुर्भूता अत्याचारा दुष्टोत्पाताः।
स्मारयतीदं स्वतन्त्रतायाः स्वर्णजयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
5
देशे क्रमशो जातो बहुविधनव्यविकाशः।
किञ्च दृश्यते हन्त! चतुर्दिग् विविधविनाशः।
बोधयतीदं स्वतन्त्रतायाः स्वर्णजयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
6
रक्तदायिनो नाम्ना, कृत्यै रक्तपायिनः।
देशसेविनो नाम्ना, कृत्यैर्देशभक्षिणः।
पदे पदे विवशा विवशा दृक्पथं नयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
7
दूरे भवताद् देशाद् दुष्टो भ्रष्टाचारः।
दूरे भवताद् देशान्निन्द्योत्कोचाचारः।
निर्दिशतीदं स्वतन्त्रतायाः स्वर्णजयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
8
रक्षत देशं मनसा वचसा किञ्च कर्मणा।
सीमान्तेषु भवत सज्जा आवृता वर्मणा।
आह्वयतीदं स्वतन्त्रतायाः स्वर्णजयन्ती।
सम्प्राप्तेयं स्वतन्त्रतायाः स्वर्णजयन्ती।।
(रचनातिथिः १५-८-१९९६)
लोकतन्त्रेऽस्मिन्
अकल्प्यं किं न घटते
भावगम्ये लोकतन्त्रेऽस्मिन्।
भवति किं, किं भविष्यति वा
न जाने लोकतन्त्रेऽस्मिन्।।१।।
महामात्यत्रयं दृष्टम्
मुहुर्निर्वाचनं घुष्टम्।
अहो स्वातन्त्र्यहेमाब्दे
किमेतल्लोकतन्त्रेऽस्मिन्।।२।।
मयूरव्यालशालूराः
स्वकीयं काङ्क्षितं लब्धुम्।
स्थिता एकत्रा गतवैरा
महिष्ठे लोकतन्त्रेऽस्मिन्।।३।।
विडाला मूषकैस्साकं
वृका हरिणैस्समं मैत्रीम्।
प्रकुर्वाणा विलोक्यन्ते
पदार्थं लोकतन्त्रेऽस्मिन्।।४।।
समीहितसिद्धये श्लिष्टाः
सुताः कुन्त्याश्च गान्धार्याः।
महाभारतकथेयं
काप्यपूर्वा लोकतन्त्रेऽस्मिन्।।५।।
अहो हैयङ्गवीनं सख्य-
मिच्छत्यग्निना साकम्।
कदल्या मित्रता दृष्टा
बदर्या लोकतन्त्रेऽस्मिन्।।६।।
इमे काका उलूकैः सार्ध-
मिच्छन्ति स्वसम्बन्धम्।
तितउना वारिमैत्रीं पश्य
बन्धो! लोकतन्त्रेऽस्मिन्।।७।।
तमस्तेजश्च मित्रे स्तः
हयानां सैरिभैः सख्यम्।
अजव्याघ्रौ सखायौ स्तः
प्रकृष्टे लोकतन्त्रेऽस्मिन्।।८।।
विधुन्तुदचन्द्रयोः प्रीतिः
पयोजम्बीरयोः प्रीतिः।
अजानां कौटिकैः प्रीति-
र्विलोक्या लोकतन्त्रेऽस्मिन्।।९।।
तमस्तेजो दिनं रात्रिः
सुधा विषमन्धता दृष्टिः।
अहो पर्यायतां प्राप्ता
विरुद्धा लोकतन्त्रेऽस्मिन्।।१०।।
शृणुध्वं रे सुबद्धं भक्ष्य
भक्षकसख्यमिह लोके।
विपत्तेः कारणं नास्ते
सुपूज्ये लोकतन्त्रेऽस्मिन्।।११।।
अयं योऽस्त्यस्मदाशानां
प्रतीकः प्रतिनिधिः सदने।
स आशामस्मदीयां
पूरयति नो लोकतन्त्रेऽस्मिन्।।१२।।
किमपि कर्तुं तथाऽकर्तुं
तथा चैवान्यथा कर्तुम्।
विदूषकसन्निभो नेता
प्रभुर्वै लोकतन्त्रेऽस्मिन्।।१३।।
मतं यल्लोकतन्त्रं
शासनं नॄणां नृभिर्नृभ्यः।
विलीनं तत्क्व सञ्जातं
प्रचण्डे लोकतन्त्रेऽस्मिन्।।१४।।
क्वचिच्चास्त्रीभवति सदने
ध्वनेर्विस्तारकं यन्त्रम्।
सदस्याः कान्दिशीका हन्त!
दृष्टा लोकतन्त्रेऽस्मिन्।।१५।।
अहो! युद्धाजिरं जातं
सभाभवनं तु नेतॄणाम्।
विधायक एव पण्याश्वी-
भवति हा! लोकतन्त्रेऽस्मिन्।।१६।।
कदाचिद्धावनं दलतः
कदाचिन्नूत्नदलघटनम्।
कदाप्यपवञ्चनाकाण्डं
विलोकय लोकतन्त्रेऽस्मिन्।।१७।।
करौ बद्ध्वा मुखे दत्वा
तृणं नत्वा शिरः स्वीयम्।
वृकाः काक्षन्ति मेषाणां
मतं बत लोकतन्त्रेऽस्मिन्।।१८।।
क्षणे रोषः क्षणे तोषः
क्षणे त्यागः क्षणे ग्रहणम्।
क्षणे निन्दा क्षणे स्तुतयो
मतार्थं लोकतन्त्रेऽस्मिन्।।१९।।
न कश्चित्कस्यचिन्मित्रं
न कश्चित्कस्यचिच्छत्रुः।
मतार्थं शात्रवं मैत्री
भवति भो! लोकतन्त्रेऽस्मिन्।।२०।।
क्वचिद्दानी क्वचिद्भिक्षुः
क्वचिच्छिष्टः क्वचिद्धृष्टः।
क्वचिद् ह्रीणोऽथ निर्लज्जो
मतार्थी लोकतन्त्रेऽस्मिन्।।२१।।
जनैर्दत्तं मतं यस्मै
प्रतार्यास्तेन ते जाताः।
स्वतन्त्रं भारतं किं किं
न पश्यति लोकतन्त्रेऽस्मिन्।।२२।।
अहो जनताजनार्दन-
पूजनं यस्यास्ति कर्तव्यम्।
स नेता वञ्चनं कुरुते
जनानां लोकतन्त्रेऽस्मिन्।।२३।।
अये म्याऊंकरोत्येषा
कथं मामेव मार्जारी।
मदीया पालिता यास्ते
कृतघ्ना लोकतन्त्रेऽस्मिन्।।२४।।
कलासाहित्यसङ्गीत-
प्रहीणो ना तृणं खादति।
पशूनां भागधेयं यद्
हरे! शृणु लोकतन्त्रेऽस्मिन्।।२५।।
वहन्तः स्वं ध्वजं चिह्नं
करौ बद्ध्वा मतं लब्धुम्।
वनीयक-कर्मनिष्णाता
भ्रमन्ते लोकतन्त्रेऽस्मिन्।।२६।।
कथं बन्धो मतं दास्यसि
भयं त्यक्त्वा स्वके क्षेत्रे।
वृतः पाटच्चरैर्मतदान-
केन्द्रे लोकतन्त्रेऽस्मिन्।।२७।।
विकासोऽप्यद्भुतो जातो
विनाशोऽप्यद्भुतो जातः।
प्रकाण्डा काण्डसन्तति-
रीक्ष्यते बत लोकतन्त्रेऽस्मिन्।।२८।।
अयोग्याः प्रोन्नतिं प्राप्ताः
सुयोग्या अवनतिं नीताः।
सतामपवञ्चनं प्रायो
विलोक्यं लोकतन्त्रेऽस्मिन्।।२९।।
कथं भो मन्यसे देशं
धनं पित्र्यं विभज्याद्यम्।
त्वया नेतः! कृता का वास्य
सेवा लोकतन्त्रेऽस्मिन्।।३०।।
मनस्यन्यद् वचस्यन्यत्
तथान्यत्कर्मणि स्वीये।
दधानः प्रायशो लोकस्य
नेता लोकतन्त्रेऽस्मिन्।।३१।।
कुतो निजसंस्कृतेश्चिन्ता
कुतो देशस्य वा चिन्ता।
पदस्थाश्चिन्तयन्ति स्वां
समृद्धिं लोकतन्त्रेऽस्मिन्।।३२।।
विदूषककर्म कुर्वाणा
जनान् ये वञ्चयन्त्यनिशम्।
त एवाद्यासते मान्या-
स्तथाप्ता लोकतन्त्रेऽस्मिन्।।३३।।
‘जयो मे दक्षिणे हस्ते
जयो मे वामहस्ते च।’
दलं हित्वा भणति चतुरः
प्रवीरो लोकतन्त्रेऽस्मिन्।।३४।।
सरस्वत्या मरालो
लुञ्च्यते लक्ष्म्या उलूकेन।
पिका मौनं भजन्ते
काकभीता लोकतन्त्रेऽस्मिन्।।३५।।
बलात्कारा नृहत्या
बम्बविस्फोटास्तथा दाहाः।
अहो दैनन्दिनी वार्ताऽ
स्मदीये लोकतन्त्रेऽस्मिन्।।३६।।
इयं देवी प्रतारण-चातुरी
भ्रष्टावने दक्षा।
मता नृपनीतिसञ्ज्ञा
वन्दनीया लोकतन्त्रेऽस्मिन्।।३७।।
पुनस्ते मे मतं काङ्क्षन्ति
यैरेवास्मि परिमुषितः।
अहो! निर्लज्जतेयं कीदृशी
ननु लोकतन्त्रेऽस्मिन्।।३८।।
मतं मे काङ्क्षमाणा ये
पुनर्मे द्वारि सम्प्राप्ताः।
कथं तेषां प्रियं कुर्याम्
न जाने लोकतन्त्रेऽस्मिन्।।३९।।
शकाराणां विकारा
जृम्भमाणा नित्यमीक्ष्यन्ते।
विपन्नाश्चारुदत्ताः
किञ्च धूता लोकतन्त्रेऽस्मिन्।।४०।।
महर्घत्वं निधायाङ्के
सरत्यग्रे नवं वर्षम्।
शुभेच्छा मामकीनाः स्यु-
र्भवद्भयो लोकतन्त्रेऽस्मिन्।।४१।।
कटूक्तीः प्रत्यहं कुर्वे
समीक्षाः प्रत्यहं कुर्वे।
न रिङ्गति कस्यचित्कर्णे
ऽपि यूका लोकतन्त्रेऽस्मिन्।।४२।।
महाकाव्यान्यपेक्ष्यन्ते
यदीयं सद्यशो गातुम्।
मदीयैः सीमितैः शब्दै-
र्भवति किं लोकतन्त्रेऽस्मिन्।।४३।।
प्रसिद्धिं लम्भिताः खल-
नायकाः खलु नायकत्वेन।
विपयर्यमीदृशं त्वं
पश्य बन्धो! लोकतन्त्रेऽस्मिन्।।४४।।
इदं दाहात्मकं तेजः
सुगूढं यन्नृणामन्तः।
मदान्धाः! कि न पश्यत रे?
वदत भो लोकतन्त्रेऽस्मिन्।।४५।।
(रचनातिथिः २०.१.१९९८)
भारतस्य विजयोऽयम्
1
“क्रुद्धं हिंसाबलं जितं किल सत्याहिंसाबलतः।
आङ्ग्लशासनं खलूच्चाटितं भारतस्य विजयोऽयम्।।
2
पञ्चषष्टितम (१९६५) वर्षेऽस्माकं पश्चिमोत्तरे वीराः।
पदचर्यया गता लाहौरं, भारतस्य विजयोऽयम्।।
3
एकसप्ततौ दिसम्बरे किलं नवतिसहस्रं पाकाः।
बद्धा निरागसां हन्तारो, भारतस्य विजयोऽयम्।।
4
वारद्वयं पोखरणगर्भे ह्यणुविस्पफोटपरीक्षा।
स्वीयसाधनैः सफला जाता, भारतस्य विजयोऽयम्।।
5
अग्निनागप्रभृतीन्यस्त्राणि प्रोद्भासन्तेऽस्माकम्।
तर्जयन्ति वैरिणः प्रतिपलं, भारतस्य विजयोऽयम्।।
6
अवतारिता युद्धपोताः सागरवक्षसि सोत्साहम्।
आत्मरक्षणं विदधति वीराः, भारतस्य विजयोऽयम्।।
7
मा चिन्तां कुरु रमाकान्त! सागरे वियति भूपृष्ठे।
निस्तन्द्रा जाग्रति वीरास्ते, भारतस्य विजयोऽयम्।।
8
द्रासबटालिकककसरमश्कोभागा अस्मद्वीरैः।
यथा रक्षिता शत्रोर्हस्तात्, भारतस्य विजयोऽयम्।।
9
भातृभूमिरक्षार्थं वीराः वीरगतिं लब्ध्वा यत्।
रविमण्डलभेदनं चक्रिरे भारतस्य विजयोऽयम्।।
10
वायुसैनिका धरासैनिका सन्नायका भटानाम्।
स्थास्यन्तीमे सदा प्रणम्या भारतस्य विजयोऽयम्।।”
11
‘‘भ्रातश्चिन्तां नो कुर्वेऽहं किन्तु कामयेऽप्यन्यत्।
पश्य कीदृशो मया काम्यते भारतस्य विजयोऽयम्।।
12
भ्रष्टाचारो महार्घता आतङ्कवाद उत्कोचः।
निर्धनता यदि पराजिताः स्युर्भारतस्य विजयोऽयम्।।
13
वृत्तिहीनता विघटनवृत्तिर्जनतामूढीकारः।
जिताः पूर्णतो यदि, पूर्णः स्याद्भारतस्य विजयोऽयम्।।
14
यदि च विदूषकनिभा नायका जनतां नो लुण्ठेयुः।
धर्मजातिभाषाविभेदतो भारतस्य विजयोऽयम्।।
15
बाह्यमान्तरं प्रदूषणं नो नागरिकान् बाधेत।
अभयं यदि तेषां हृदि विलसेद्भारतस्य विजयोऽयम्।।
16
शिक्षा स्वास्थ्यं क्रीडाभ्यासो देशभक्तिरविचलिता।
सम्पूर्णेषु जनेषु भवेद्यदि भारतस्य विजयोऽयम्।।
17
क्षेत्रेषु स्यात्सस्यबहुलता कारक्षेषूत्पादः।
प्रतिहस्तं स्याद्वृत्तियुक्तता, भारतस्य विजयोऽयम्।।
18
पठतु जनो यां कामपि भाषां किन्तु राष्ट्रभाषां प्रति।
नैवोपेक्षां यदा धारयेत्, भारतस्य विजयोऽयम्।।
19
विज्ञानं साहित्यं वाणिज्यं कृषिशिल्पोद्योगाः।
आध्यात्म्यं कलाश्च जृम्भन्ताम्, भारतस्य विजयोऽयम्।।
20
वेषभूषयोपासनपद्धत्याशनेन संस्कारैः।
भिन्ना अप्येकतां भजेयुर्भारतस्य विजयोऽयम्।।
21
स्वतन्त्रतां यः कामयते सम्पूर्णजगद्देशानाम्।
सदा वर्धताम् सदा राजताम् भारतस्य विजयोऽयम्।।’’
(इयं रचना दिल्ली-संस्कृत-हिन्दी-सिन्धी -पञ्जाब्युर्द्वकादमीभिः दिल्लीस्थे ‘शाह-आडिटोरियमे’-त्यभिधे सभाभवने १६-१२-१९९८ तारिकायां समायोजिते ‘विजय-दिवसे’ पठितासीत्)
(रचनातिथिः १६-१२-१९९८, ८-१० पद्यानि ४.७.१९९९)
प्रणम्याः कारगिलवीराः
जयन्त्येतेऽस्मदीया गौरवाङ्काः कारगिलवीराः।
समर्च्या आसतेऽस्माकं प्रणम्याः कारगिलवीराः।।१।।
मई-षड्विंशदिवसादैषमो मासद्वयं यावत्।
अघोषित-पाक-रण-जयिनोऽभि नन्द्याः कारगिलवीराः।।२।।
अकस्मात्प्राविशन्नस्मद्गृहे गूढप्रवेशा ये।
स्वदेशात्तान् बहिष्कर्तुं प्रचेलुः कारगिलवीराः।।३।।
परित्राणाय साधूनां विनाशार्थं च दुष्टानाम्।
समारम्भं द्रुतं चक्रुः प्रणम्याः कारगिलवीराः।।४।।
बटालिग्-द्रास-मश्को-ककसरक्षेत्रेषु लीनानाम्।
रिपूणां दुर्दशां चक्रुः समिद्धाः कारगिलवीराः।।५।।
जुबर-थारू-कुकुरथाङ्-तुर्तुकाख्येभ्योऽद्रिशिखरेभ्यः।
तुलालिङ्गात्तथा शत्रूनतौत्सुः कारगिलवीराः।।६।।
दिशन्तो दुर्विपाकं पाककितवानां प्रयाणैः स्वैः।
जगर्जुर्दुर्गमक्षेत्रे कृतान्ताः कारगिलवीराः।।७।।
अवाक्षुस्ते शतघ्नीः स्वीयहस्तैरेव सोत्साहम्।
ववर्षुर्भीषणान् बम्बान् रिपूपरि कारगिलवीराः।।८।।
ममन्थुस्ते रिपून् सर्वान् निलीनान् गूढभागेषु।
स्वदेशस्य प्रतिष्ठां ते ररक्षुः कारगिलवीराः।।९।।
भुशुण्डीनां शतघ्नीनां भयङ्करगोलकापातैः।
रिपूनुच्चाटयामासुः प्रवीराः कारगिलवीराः।।१०।।
अरीन् विद्रावयामासुः शठान् शिक्षापयामासुः।
खलान् प्रध्वंसयामासुः प्रणम्याः कारगिलवीराः।।११।।
ध्वजः शार्दूलशिखरे स्वस्त्रीवर्णः स्थापितो यैर्यैः।
समे ते सन्ति सर्वेषां प्रणम्याः कारगिलवीराः।।१२।।
हनीफुद्दीनसौरवकालियाहूजास्तथा चान्ये।
महोत्साहा रवेर्मण्डलमभिन्दन् कारगिलवीराः।।१३।।
रणे क्षतविक्षताङ्गा अप्यदम्योत्साहपरिपूर्णाः।
जिगीषापूरितात्मानः प्रचण्डाः कारगिलवीराः।।१४।।
अहो ये मातृभूमे रक्षणार्थं स्वीयसर्वस्वम्।
बलिं चक्रुः कथं ते विस्मृताः स्युः कारगिलवीराः।।१५।।
जनन्यै जन्मभूम्यै त्यक्तसर्वस्वा रणक्षेत्रे।
हुतात्मानो न वन्द्याः कस्य शतशः कारगिलवीराः।।१६।।
समस्तं भारतं ह्येकत्वसूत्रे बाधयाञ्चक्रुः।
बलिं कृत्वा स्वदेशार्थं स्वदेहान् कारगिलवीराः।।१७।।
प्रधानामात्य आस्तामस्तु वा साधारणो लोकः।
कृतज्ञः सन् नमति युष्मान् प्रणम्याः कारगिलवीराः!।।१८।।
‘द्रुतं विजयाभियानं सिद्ध मित्यत्रास्ति को हेतुः?
इहोत्तरमास्त उपयुक्तं ‘प्रवीराः कारगिलवीराः’।।१९।।
शृणुध्वं पाकनेतारः शृणुध्वं पाकबलपतयः।
यदीच्छथ शं तदा नो कोपनीयाः कारगिलवीराः।।२०।।
इमे नकुला मयूरा वैनतेयाः पाकनागानाम्।
इमे पञ्चानना द्विषतां द्विपानां कारगिलवीराः।।२१।।
शृणुध्वं निस्त्रपा आतङ्कवादप्रेरिताः मूढाः।
इमे जाग्रति दिवानक्तं सशस्त्राः कारगिलवीराः।।२२।।
उदन्वद्भूधराकाशेषु नित्यं देशरक्षार्थम्।
इमे तिष्ठन्ति सन्नद्धा विनिद्राः कारगिलवीराः।।२३।।
‘अविश्वस्ते न विश्वासो विधेयो जातुचिद्विदुषा’।
दिशन्तीदं भरतभूनायकाः! किल कारगिलवीराः।।२४।।
‘शठे शाठ्यं विधेयं’ ‘दुर्जनः शाम्येन्न चोपकृतैः’।
‘वधार्हश्चाततायी’-वेदयन्ते कारगिलवीराः।।२५।।
रमाकान्त! त्वया चान्यैः कवीन्द्रैरीडिताः काव्यैः।
सदा स्थास्यन्ति पूजार्हा अमर्त्या कारगिलवीराः।।२६।।
षड्विंशदिवसारब्धे शान्ते षड्विंशके दिने।
विजयाख्याभियाने ये दर्शितस्वपराक्रमाः।।१।।
चतुःशताधिका वीरा हुतात्मानो यशस्विनः।
जेतारश्च रिपूणां ये, क्षताङ्गा ये भटोद्भटाः।।२।।
शत्रून् कारगिलक्षेत्राधित्यकोपत्यकासु ये।
गतासून् कान्दिशीकाँश्च चक्रिरे रणभैरवाः।।३।।
तेषां कीर्तिं ककुब्व्याप्तां षड्विंशत्या पदां गिरन्।
विधत्ते लेखनीं धन्यां रमाकान्तो ‘रमालये’।।४।।
(रचनापूर्तितिथिः २६-७-१९९९)
योऽयं कृतः शपथस्त्वया
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
यदिदं प्रतिज्ञातं त्वया तस्याशयं जानासि किम्?
1
कर्तुं यथा सरलस्तथा शपथो न निर्वोढुं सखे!
शपथस्य निर्वाहो भवति कण्टकपथानुसृतिः सखे!
त्यक्त्वा सुमान्यालिङ्गसे कटुकण्टकान्, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
2
व्यालीवदनचुम्बनमिदं करवालधारालेहनम्
क्षुरधारया पदमित्रता मधुराशया गरलाशनम्
त्यक्त्वा सुखदतल्पं सखे! भूमौ स्वपिषि, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
3
शपथं विधाय सखे! त्वया हस्तौ निगडबद्धौ कृतौ
शपथं विधाय सखे! त्वया पादौ निगडबद्धौ कृतौ
बद्धोऽसि वचसा कर्मणा मनसा त्वमिति, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
4
नो लप्स्यसे निद्रां निशायां नापि दिवसे निर्वृतिम्
चिन्ताप्रतान्तविलोचनां त्वं द्रक्ष्यसि स्वामाकृतिम्
आमन्त्रिातास्ते या विपत्तस्याः फलं जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
5
शपथस्य पूर्त्यर्थं त्वया पेयं भवेद्गरलं मुदा
शपथस्य पूर्त्यर्थं त्वयाध्यवसाय आराध्यः सदा
शपथस्य पूर्त्यर्थं त्वयार्प्यं जीवनं, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
6
ज्यायान् कनीयान् वा भवेच्छपथो गृहीतो मानवैः
तद्रक्षणार्थं लौहचणकाश्चर्वणीया मानवैः
शपथान्मनाक् प्रचलन्ति नो सत्यव्रताः, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
7
यैः पूरितः शपथो निजस्ते लोकवन्द्याः सम्मताः
यैः पूरितः शपथो नरा इतिहासपुरुषास्ते मताः
शपथस्य भेत्ता कथ्यते जीवन्मृतो, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
8
शपथो न कर्गलखण्डलिखितायास्तु पङ्क्तेर्वाचनम्
शपथोऽस्ति पीडासन्ततेरानन्दसहितं पाचनम्
शपथोऽस्ति मनसः कर्गले स्वात्माङ्कनं, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
9
शपथो न केवलमस्ति वाण्या वर्णमात्रोच्चारणम्
शपथस्तु बन्धो! कथ्यते पञ्चाग्नितपसो धारणम्
होतव्य आत्मा मानवैस्तत्पूर्तये, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
10
मनसाथ वचसा कर्मणा भिन्ना भवन्ति न ये जनाः
सम्मानभाजनतां जगति ते यान्ति सर्वेषां जनाः
क्षतवाग्जनो निन्द्यो भवति लोके, सखे! जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
11
शपथेन बद्धा नो जना निजलाभचिन्तां कुर्वते
न हि ते स्वशपथापेक्षया निजजीवनं बहु मन्वते
स्नेहं दयां सौख्यं न ते गणयन्ति, भण जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
12
लोभेन भयतः कामतो वा यो निजं शपथं त्यजेत्
शपथेन साकं स हि पुमान् निजजीवनं न हि किं त्यजेत्!
शपथस्य रक्षा ह्यात्मजयतो जायते, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
13
विस्मृत्य शपथं ये जनाश्चातुर्यखेलां तन्वते
चिन्वन्ति ते कामं धनं, न हि ते यशः किल चिन्वते
सम्भावितस्याकीर्तिरतिमृत्युर्भवति, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
14
ये वञ्चयन्त्यनिशं जनान् शपथं गृहीत्वा मानवाः
आत्मानमथ सर्वेश्वरं जानन्ति नो ते मानवाः
मिथ्याव्रतानां लुप्यते तेजो मुखाज्जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
15
अधुना यदा शपथः कृतस्त्वयका तदायं रक्ष्यताम्
प्रत्यक्षरं शपथस्य बन्धो! रक्षणीयं, रक्ष्यताम्
उच्चैः स्वरेणास्मत्पुरो यदवादि तज्जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
16
सम्प्रति शपथरक्षार्थमात्मा पीडनीयो रे! त्वया
विस्मृत्य निजसौख्यं सखे! लोकः समाराध्यस्त्वया
ईशः शपथकाले त्वया साक्षीकृतो जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
17
रक्ष प्रतिज्ञामात्मनो वर्धय तपः स्वं प्रत्यहम्
शपथं हि पूरय शुद्धमनसा, ते हितं कथयाम्यहम्
सम्पूर्य शपथं लप्स्यसे सुयशः स्थिरं, जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
18
रक्ष्येत शपथस्तावकोऽक्षरशो मयेदं काम्यते
सोढ्वापि कष्टं सफलतां विन्देति बन्धो! काम्यते
नैवोत्सहे त्वां भग्नशपथं द्रष्टुमिति जानासि किम्?
योऽयं कृतः शपथस्त्वया तस्यार्थमपि जानासि किम्?
(रचनातिथिः १३-१०-१९९९ रात्रौ ८-०० वादनतः १२-०० वादनं यावत् निशीथे दिल्ली-शिमला मार्गे)
भावसन्धिः
विमानं नीतवन्तस्ते विना काठिन्यमस्माकम्
‘अमृतसर’-वायुयानस्थानके तैलं गृहीतं तैः।
पुनर्व्यापादितो रूपेनकतियालो नृशंसैस्तै-
र्वयं विवशाः स्थिता गेहे, विलोक्यैतद्भृशं दूये।।१।।
अथो दुबईं गतैस्तैर्मोचिताः किल यात्रिणः केचित्
तदनु कन्धारभूमौ व्यूहरचना तैः कृता सम्यक्।
दिनान्यष्टौ स्थितैस्तैस्तत्र, यद्यत्काङ्क्षितं तत्तत्
गृहीतं शासनात्सर्वं, विलोक्यैतद् भृशं दूये।।२।।
विमाने ये स्थितास्ते यात्रिणो निजगेहमायाताः
प्रसन्नोऽहं, मुखान्मृत्योर्विमुक्तास्तेऽहमिति मन्ये।
परं विज्ञाय मुक्तिं क्रूरकर्मातङ्किनां त्वरितां
शिरोऽवनतं मदीयं ग्लानितोऽहं मानसे दूये।।३।।
न दूयेऽहं रुजो वित्तस्य नाशाद् बन्धुनाशाद्वा
न दूयेऽहं सभायां मेऽपमानान्मित्राघाताद्वा।
न दूये पुत्राशाठ्याद्वाप्युपेक्षायाः स्वजायायाः
परं राष्ट्रस्य वैवश्यं विलोक्याहं भृशं दूये।।४।।
स धन्यो राष्ट्रपतिपूर्वः कृती शंकर दयालो यो
जहौ प्राणान् विवशताग्लानिनाट्यप्रेक्षणात्पूर्वम्।
ह हा रचना वराकी नष्टपतिका कां गतिं यास्यति
दशां श्रुत्वा तदीयां हे प्रभो! चित्ते भृशं दूये।।५।।
सहस्राब्द्याः शताब्द्या वान्तिमं वर्ष शुभं भूयात्
जगत्यातङ्कवादोन्मूलनस्यारम्भ उद्भूयात्।
न देशस्यास्य महिमा स्वाभिमानो वा तिरोभूयात्
तथा भूयात् प्रयत्नो येन नैवाहं पुनर्दूये।।६।।
ज्वलतु चलितेन्धनोऽग्निः पन्नगः स्वीयां फणां कुरुतात्
स्वमहिमानं विजानीयाद्विवशतादष्टदेशोऽयम्।
‘स्वराष्टे जागृयामे’ तीदमस्माभिस्सदा स्मार्यं
न चेन्नो वञ्चयेत्कश्चित्तदा नेत्थं पुनर्दूये।।७।।
(रचनातिथिः १.१.२००० ई.)
योऽयमातङ्कवादः
योऽयमातङ्कवादः खलानां खलः
पूजितो मुह्यमानो जगद् बाधते।
आयतौ नैव कीर्तिं जयं चाप्नुया-
न्नूतने वत्सरे वो भवेन्मङ्गलम्।।
(रचनातिथिः १५.१.२०००)
त्वं चन्दनमसि हे प्रभो!
(सन्तरविदासस्य ‘प्रभु जी, तुम चन्दन हम पानी’ तिपद्यस्य ‘दोहा’च्छन्दसि संस्कृतकाव्यानुवादः)
त्वं चन्दनमसि हे प्रभो जलमहमस्मि परेश।
प्रत्यङ्गं तव सुरभिणा सुरभितमिदमखिलेश।।१।।
त्वमसि नीरदोऽहं प्रभो वनमयूर आभामि।
अहं चकोरो लालसश्चन्द्रं त्वां पश्यामि।।२।।
त्वं दीपोऽहं वर्तिका तव तेजसा विभामि।
त्वं मुक्ताफलमसि विभो सूत्रमहं चाभामि।।३।।
अहं सुवर्णष्टङ्कणस्त्वं विभासि परमेश।
त्वं स्वामी मम, चाहमपि दासस्ते दीनेश।।४।।
रविदासः कुरुते मुदा भक्तिमिमां जगदीश।
रटति नाम तव निर्मलं नक्तन्दिवमयमीश।।५।।
(रचनातिथिः १३-२-२०००)
‘तुरीनो’ स्मृतिसपादशतकम्
(एकादशविश्वसंस्कृतसम्मेलनसपादशतकम्)
वैश्वमत्यद्भुतं सांस्कृतं मेलनं
रुद्रसंख्यं ‘तुरीनो’ नगर्यां शुभम्।
यत्समायोजितं प्राच्यविद्याधरै-
स्तत्सहस्राब्दमाङ्गल्यदं जायताम्।।१।।
‘आइ.ए.एस.एसे’ ति संस्था तथा
‘चेस्मियो’ सञ्ज्ञकं शोधसंस्थानकम्।
यन्मिलित्वा समायोजितं चक्रतु-
स्तज्जगद्विज्ञसन्तोषदं कल्पताम्।।२।।
क्रैस्तवर्षे नभोशून्यखाक्ष्यङ्किते
एप्रिलाख्ये शुभे मासि षड्भिर्दिनैः।
शम्भुनेत्रात्मिकायास्तिथेरावसो
र्योजितं मेलनं को न चित्ते स्मरेत्।।३।।
खैष्टे वर्षे शून्यखाकाशनेत्रे
एप्रिल्मासेऽथो तृतीये दिनाङ्के।
‘इन्कौण्ट्रा’-संस्थासभागारमध्ये
संसद् भव्याभूत् ‘तुरीनो’ नगर्याम्।।४।।
‘पो’ सञ्ज्ञाया यत्र नद्याः प्रवाहे
केचिल्लग्ना नौविहारे युवानः।
नद्यास्तोयं पक्षिणः संपिबन्तः
सम्मोदं स्वं कूजितैर्व्यञ्जयन्ति।।५।।
रम्याः स्वच्छा वृक्षपङ्क्तिप्रसन्नाः
मार्गा दृष्टाश्चत्वरैर्भ्राजमानाः।
आरामाश्चालोकिता यत्र यूनोः
प्रेमक्रीडा नैव बाधां लभन्ते।।६।।
तत्रत्यो यो गीतसङ्गीतमार्ग-
स्तत्रालोक्यं कोमलत्वं स्वरेषु।
उद्वेगं नो यान्ति पौराः स्मितास्याः
कार्कश्यं नो दृश्यते तत्स्वभावे।।७।।
‘आस्कर् बोत्तो’ सञ्ज्ञको विज्ञधुर्यः
‘चैस्म्यो’ संस्थाध्यक्षवर्यः सुचेताः।
‘इन्कौण्ट्रा’-संस्थासभागारमध्ये
सम्मेलायाः श्रीगणेशं चकार।।८।।
‘‘तेन प्रोक्तं - संस्कृतज्ञानराशि-
र्धत्ते नूनं सार्वभौमीं प्रतिष्ठाम्।
चेतःशान्तेः सम्प्रसाराय सर्वै-
राराध्यास्ते सर्वदा देववाणी”।।९।।
‘विला ग्वालिनो’-सञ्ज्ञके रम्यरम्येऽ
तिथीनां गृहे वास आकल्पितो यैः।
हिमाच्छादितामाल्प्स शृङ्गावलीं ते
समोदं स्वकक्षादपश्यन् बुधेन्द्राः।।१०।।
‘विला ग्वालिनो’-स्वागतास्थानमध्ये
नियुक्ताः प्रसन्नानना या युवत्यः।
विदूरागतेभ्यो बुधेभ्यः समास्ता
ददुः पूर्णसाह्यं, कथं विस्मृताः स्युः।।११।।
‘तुरीनो’ नगर्यां समायोजितं विश्व-
गीर्वाणवाण्या यदेकादशं तत्।
सुसम्मेलनं नूतनायाः शताब्द्याः
सहस्राब्दिकायाश्च भद्रं वितन्यात्।।१२।।
इहागत्य विश्वस्य विद्वद्वरेण्यैः
स्वपत्राणि वैदुष्यवन्त्यर्पितानि।
समुत्कृष्टपद्यैः समृद्धं च काव्यं
प्रगीतं कवीनां गणैरात्मनीनम्।।१३।।
‘आइ.ए.एस्.एस्.-संस्था-ध्यक्षो वाग्मी तथा सुकविः।
ग्रन्थानां विविधानां, कर्ता विनयोज्ज्वलः शोधी।।१४।।
रामकरणशर्माख्यो विबुधो विश्वश्रुतस्तत्र।
अध्यक्षीयं भाषणमकरोदयार्याभिरारभ्य।।१५।।
तेन प्रोक्तं स्वीयेऽध्यक्षीये भाषणे स्पष्टम्।
प्रासङ्गिकीयमास्ते संस्कृतभाषाऽधुनापि सर्वेषाम्।।१६।।
इयमपनयत्यविनयं पर्यावरणं तथा रक्षति।
सर्वभूतहितनिरतान् जनानियं द्रष्टुमभिलषति।।१७।।
षड्दिवसीये ह्यस्मिन् व्यवस्थयायोजिते सम्यक्।
सम्मेलने बुधानां विचारसम्मर्शयज्ञोऽभूत्।।१८।।
केचित्पेठुः पत्राण्यथ केचिद्भाषणं चक्रुः।
कार्यक्रमञ्च केचिद्दृश्यश्रव्यात्मकं प्रददुः।।१९।।
चौडनपुरमुक्तेश्वरमन्दिरमभिलक्ष्य फलियोजा।
‘सी.डी.रोम’-प्रस्तुतिमकरोज्ज्ञानाभिवृद्धयर्थम्।।२०।।
महाभारतसम्बद्धं सीडीरोममदर्शयत्।
प्रश्नैः परिवृतोऽनेकैर्विद्वान् धडफळेभिधः।।२१।।
‘विला ग्वालिनो’-सञ्ज्ञेऽतिथ्यावासे महारम्ये।
‘कोन्वेग्नो’-‘पीमोण्टे’-‘गुवालिनो’ ‘सञ्ज्ञ-हॉलेषु’।।२२।।
सत्राण्यचलन् षोडश विविधान् विषयान् समालम्ब्य।
विविधदेशविबुधानामाध्यक्ष्ये षट्सु दिवसेषु।।२३।।
अप्रेलस्य तृतीयेऽह्न्यपराह्ने वादनत्रयतः।
‘हालगुआलीनवि’ वै प्रथमं सामान्यसत्रमभूत्।।२४।।
संस्कृतभाषाविषये संस्कृतसाहित्यविषये च।
पत्राण्यपठन् विबुधा आध्यक्ष्ये रामकरणस्य।।२५।।
सञ्चालकत्वमूरीकृतवान् शुक्लो रमाकान्तः।
सत्रारम्भे कृतवान् यो वाणी-वन्दनां पद्यैः।।२६।।
‘जीन् माइकेल डिलायर्’ ‘गरज़िल्ली एंरिका’ ‘पी.के.’।
हरिमूर्ति र्देवक्यथ पत्राण्यपठन् मुदा तत्र।।२७।।
स्वामी श्रीशिवमूर्तिर्विद्वान् आनन्दगुरुगेऽथ।
नारायणसमतानी मञ्जुलिकाघोषविदुषी च।।२८।।
शशी तिवारी वेमेनः सिद्धार्था सुन्दरी तथा।
सुरेशश्चाथ गोस्वामी पटेलो गौतमस्तथा।।२९।।
पत्रापाठे निजान् प्रश्नान् टिप्पणीश्च पृथक्-पृथक्।
अकुर्वन् येन सत्रस्य महिमासीत् सुवर्द्धितः।।३०।।
‘देववाण्याः’ प्रसिद्धास्ते दिल्ल्यां हि परिषच्छुभा३१।
मुखंपत्रं श्रुतं तस्या अस्त्यर्वाचीनसंस्कृतम्।।३१।।
तस्य पत्रस्य पूर्वेषामङ्कानां सुप्रदर्शनी।
‘ग्वालिनो’ सञ्ज्ञहॉलस्य प्रवेशद्वारि सज्जिता।।३२।।
‘आस्कर् बोत्तो’-महाभागस्तस्या उद्घाटनं शुभम्।
अप्रेलस्य चतुर्थेऽह्नि कृतवान् विबुधोत्तमः।।३३।।
अस्मिन्नवसरे श्रीमान् ‘गोल्डमैन’-बुधोत्तमः३२।
पत्रिका-नूतनाङ्कस्याकरोल्लोकार्पणं मुदा।।३४।।
स्वहस्ताक्षरितं पत्रं सोऽदान्मह्यं, मयापि च।
हस्ताक्षराणि लब्धानि विदुषां तत्र वर्तिनाम्।।३५।।
डाक्टर आर. के शर्मा ऽकरोदध्यक्षतां तदा।
वेङ्कटाचल आचार्योऽन्यं ग्रन्थमुदमीलयत्।।३६।।
श्रीजगन्नाथसम्बद्धं सुप्रभातं तथैव च।
स्तोत्राण्यन्यानि राजन्ते यस्मिंश्चेतोहराणि वै।।३७।।
यः श्री. सुन्दरराजेन प्रणीतो ग्रन्थ उत्तमः।
पूर्वं प्रकाशितः पत्रेऽनन्तरं पुस्तकाकृतौ।।३८।।
इयं प्रदर्शनी पञ्च दिवसाँस्तत्र संस्थिता।
अप्रेलस्याष्टमेऽह्नीयम् उपसंहारमागता।।३९।।
तस्मिन्नवसरे श्रीमान् आस्कर् बोत्तोमहाशयः।
स्वीकृत्य पत्रनूत्नाङ्कं हस्तं मेलितवान् मया३६।।४०।।
स्वच्छे ‘हॉल गुआलीनो’-महाकक्षे दिनद्वयम्।
कविसम्मेलनं जातं हर्षदातृ सचेतसाम्।।४१।।
रामकरणशर्माणः किञ्च श्रीवेंकटाचलास्तत्र।
श्रीराममूर्तिसहिता अध्यक्षपदं ह्यलञ्चक्रुः।।४२।।
चतुर्थ-सप्तमदिनयोरप्रेलस्योक्तप्रेक्षणागारे।
अहमासं संयोजक इतरे कवयोऽभवँश्च सहभाजः।।४३।।
तत्र श्रीहरिदत्तो बैङ्काकेऽभ्यागताचार्यः।
पाण्डेयौम्प्रकाशः पेरिसपुर्याश्च सम्प्राप्तः।।४४।।
कौशल्या वल्ली च जम्मूनगरात्समायाता।
भुवनेश्वरनगराच्छ्रीप्रफुल्लमिश्रस्तथा प्राप्तः।।४५।।
दुर्गभिलाईवासी महेश शर्मा महोत्साहः।
भुवनेश्वरवास्तव्यो गोपीनाथो महापात्रः।।४६।।
अक्लूजकरोऽशोकः कैनेडादेशतः प्राप्तः।
उज्जयिनीकविपरिवृढ आचार्यः श्रीनिवासरथः।।४७।।
मौहम्मद इसराइल खानः पाण्डेय आर् एसः।
कर्णावतीनिवासी श्रीमान् गौतमपटेलश्च।।४८।।
दिल्लीतः सम्प्राप्तः पाण्डेयाचार्य आर.के. युवकः।
‘शोधप्रभा’ प्रकाशन-सम्पादनकार्यसंलग्नः।।४९।।
न्यूयार्कात्सम्प्राप्ता योगज्ञा भारती देवी।
शर्मा श्रीरामकरण आचार्यो राममूर्तिश्च।।५०।।
वी. वेङ्कटाचलाख्यो दार्शनिकः कविरथाचार्यः।
सिद्धार्थसुन्दरी च कवितापाठं मुदा चक्रुः।।५१।।
मया ‘भाति मे भारत’ मिति काव्यात्त्रीणि पद्यानि।
‘उत्तरमङ्गल’ नाम्नी रचना चैवांशतः पठिता।।५२।।
प्रथमं कविसम्मेलन - सत्रं यस्मिन् दिने पूर्णम्।
तस्मिन् दिवसेऽजायत वैक्रमनवरात्रप्रारम्भः।।५३।।
विजयनाम-संवत्सर-प्रवृत्तिमभिलक्ष्य कविवर्यैः।
शुभकामनाः प्रदत्ताः सर्वेभ्यः पूतभावेन।।५४।।
अप्रैलगिरिसंख्येऽह्नि (७.४.२०००) काव्यपाठोपवेशने।
जोशी किरीट आसीद्वै विशिष्टातिथिमानभाक्।।५५।।
श्रीनिवासरथश्चासीत् प्रमुखः काव्यपाठकः।
‘तदेव गगनं’ सिद्धो यस्यास्ते काव्यसङ्ग्रहः।।५६।।
अशोकाक्लूजकरनामा कनाडादेशतः प्राप्तः।
युवकविद्याव्रती कविताम् पपाठ क्रोडसङ्णकात्५५।।५७।।
अध्यक्षासन्दिका जुष्टा श्रीमद्भिर्धैर्यशालिभिः।
करणोत्तररामैश्च शर्मभिः कवितल्लजैः।।५८।।
यद्यपि कविसम्मेलनमासीन्नो कार्यसूचिस्थम्।
आयोजितं तथापि त्वरितेन प्रावधानेन।।५९।।
श्रीरामकरणशर्मा, विक्टर ओगस्तिनी तथा चान्ये।
ऑस्करबोत्तोप्रभृतय आसन् साहाय्यकर्तारः।।६०।।
संयोजनसञ्चालनकर्मणि शुक्लो रमाकान्तः।
नियोजितोऽयं सकलैः कविवाणीवन्दितां यातः।।६१।।
दिनद्वये मध्यान्तरवेलायां योजिते ह्यस्मिन्।
अष्टादश किल रचनाः पठिताः कविभिर्मुदोत्फुल्लैः।।६२।।
आयत्यामपि भूयात्कविगोष्ठी पूर्वसूचनया।
एष प्रस्तावोऽभूत् कार्यसमित्यां तुरीनोपुरि।।६३।।
अप्रेलपञ्चमेऽह्नि द्रष्टुं नगरं वयं याताः।
चर्च-चतुष्पथ-सङ्ग्रहगेह-विपणिकाः समैर्दृष्टाः।।६४।।
तस्मिन्नेव दिनाङ्केऽभूदर्पितं मानपुस्तकम्।
ग्रेगरी एम. बोन्गार्डलेविनाय महात्मने।।६५।।
‘इण्डोलोजिका तौरीनेन्सिया’ नाम विश्रुतम्।
‘आइ. ए.एस्.एस्.’ संस्थायाः मुखपत्रं विराजते।।६६।।
त्रयोविंश-चतुर्विंश-संख्याकौ तस्य नूतनौ।
संयुक्ताङ्कौ प्रसिद्धौ यौ तौ जातौ मानपुस्तकम्।।६७।।
अप्रेल-षष्ठदिवसे दृष्टा वेनीसिया नगरी।
पाण्डेयद्वय-शुक्ल-त्रिपाठि-गोस्वामिभिर्गत्वा।।६८।।
‘वेनिस’ इति या चाङ्ग्लैरुच्चार्या, सा पुरी रम्या।
केवलजलपरिवहनं, तत्रास्ते साधनं गतागतयोः।।६९।।
‘सेन्मार्क स्क्वायरं’ दृष्टं, चर्चं बासिलिकं तथा।
विस्रब्धानां कपोतानां क्रीडा दृष्टा मनोहरा।।७०।।
तेभ्यः कणा मया दत्ता वेष्टितस्तैरहं मुदा।
केचिच्छिरसि सम्प्राप्ताः केचित्स्कन्धे परे करे।।७१।।
सुरेशचन्द्रगोस्वामी दिल्लीवासी तदा मम।
छव्यङ्कनं विधायादात् मह्यं चित्रमनन्तरम्।।७२।।
बालकाः बालिकास्तत्र किशोराश्च किशोरिकाः।
युवानोऽथ युवत्यश्च प्रौढ-वृद्धा विलोकिताः।।७३।।
सर्वे सर्वाश्च गौरेण वर्णेन श्रियमागताः।
श्यामैर्नेत्रैस्तथा केशैः शोभिता हृदयस्पृशः।।७४।।
भोजनाभूषणादीनां यास्तत्रापणिकाः स्थिताः।
आगन्तुकानां पुटकात् बलाल्लीराः हरन्ति ताः।।७५।।
निवृत्य रेलयानेन तस्मिन्नेव दिने वयम्।
तुरीनोनगरं प्राप्ता निशीथे शीतभाविते।।७६।।
सप्तम्यामाप्रेल्यां ‘गुआलिनो’ सञ्ज्ञके सभाभवने।
ब्रोकिंग्टन्नाध्यक्ष्ये मयापि पठितं स्वकं पत्रम्६७।।७७।।
श्रीमद्भागवतस्था नववर्णीयैर्युताः पादैः।
अनुष्टुभो हि विमृष्टा सोदाहरणं मया तत्र।।७८।।
रामकरणशर्मान्ये विद्वांसश्चात्र पत्रे स्वाः।
सट्टिप्पणीरकुर्वन् पप्रच्छुर्मां तथा प्रश्नान्।।७९।।
एषु बुधेषु श्रीमानक्लूजकरस्तथा च पाण्डेयः।
रामसुरेशो गोपीनाथमहापात्र इति मुख्याः६८।।८०।।
अष्टमेऽथ दिनाङ्केऽभूत्पूर्तिसत्रं सुयोजितम्।
महाकक्षे ‘गुआलीनो हॉल-सञ्ज्ञे मनोरमे।।८१।।
‘हॉल गुआलीनो-’ भूर्धन्यास्ते यत्र सफलं सत्।
एकादशं हि वैश्वं संस्कृत-सम्मेलनं पूर्णम्।।८२।।
मयार्वाचीनसंस्कृतपत्र-पूर्वाङ्का यथालब्धाः।
समार्प्यन्ताशुकरभट्टाय विदुषे सादरं तत्र।।८३।।
समापनसत्रकाले राममूर्तिः कुलपतिस्तस्मै।
ददौ सम्मानपत्रं विश्व-विद्यागेहपक्षाद्वै।।८४।।
पठितवान् सादरं सम्मानपत्रं तत्र हरिदत्तः।
प्रयागस्थस्तथाद्यत्वेऽतिथिर्बैंकाक आचार्यः।।८५।।
ततः सामूहिकं छव्यङ्कनं समवेतविबुधानाम्।
‘गुआलीनो विला’ पृष्ठेऽभवत् सूर्यातपालोके।।८६।।
तदाल्पसपर्वतश्रेणी हिमाछन्ना बभौ नूनम्।
सरस्वत्याः शुभं हासं सृजन्ती विद्वदालोके।।८७।।
ततः परं ‘बारबरा’ युवत्या
प्रदर्शिता नो नगरस्य शोभा।
उद्यान-दुर्गादिविलोकनेन
हृष्टा वयं प्रेमरसाभिभूताः।।८८।।
ततः परेद्युर्नवमे दिनाङ्के
गता समस्तातिथयः स्वदेशम्।
निधाय चेतस्सु मधुस्मृतिं वै
सम्मेलनस्यास्य मनोहरस्य।।८९।।
एवञ्चेतालियादेशे ‘तुरीनो’ नगरे मुदा।
विश्वं संस्कृतमाहात्म्यादेकनीडमिवाभवत्।।९०।।
द्विशताधिकविद्वांसः, समवेता मेलने ह्यस्मिन्।
येषां नामग्रहणे स्थानं किल बह्वपेक्ष्येत।।९१।।
ओगस्तीनी विक्टरस्तत्परः सन्
साचिव्यं श्री आस्करस्याकरोद्यः।
प्रादादस्मभ्यं समस्तं हि साह्यं
तस्याभारं मानसे धारयामः।।९२।।
‘विला गुआलिनो’ स्थानात् अप्रेलनवमे दिने।
‘तुरीनो’ व्योमयानानां पत्तनं वयमागताः।।९३।।
अस्मान् नीत्वा समायाता शिष्टा या किल सुन्दरी।
‘लौरिदाना’ भिधा, तस्यै धन्यवादान् ददाम्यहम्।।९४।।
सा प्रसन्नानना तन्वी कर्तव्यकुशला तथा।
सखीभिः सहिता साह्यमस्मभ्यं सततं ददौ।।९५।।
तस्यै तस्याः सखिभ्यश्चाशीर्वादान् वितराम्यहम्।
यत्र यत्र वसेयुस्ताः सर्वसौख्यमवाप्नुयुः।।९६।।
‘एमेनुएला’ नवयौवनश्रीः
स्वकार्यदक्षा ह्यथ ‘लौरिदाना’।
साहाय्यकर्त्री किल ‘पावला’ च
विस्मर्तुमेता न कदापि शक्याः।।९७।।
अस्मत्कक्षस्वच्छतापादयित्री
या शालीना सुन्दरी रम्यरूपा।
हस्ते ‘मोबाईल-फोनं’ दधाना
साऽपि स्मर्यागन्तुकैर्नूनमास्ते।।९८।।
‘एयरफ्रांस’ सञ्ज्ञेन विमानेन वयं तदा।
‘चार्ल्स डी गॉल’ सञ्ज्ञं वै प्राप्ताः पेरिसपत्तनम्।।९९।।
‘ईफल टावर’ नामा प्रथितो ह्यभ्रंल्लिहः स्तम्भः।
युगलकिशोरेण तथा शशिना साकं मया दृष्टः।।१००।।
दृष्टा स्वतन्त्रतायाः प्रतिमा विश्वश्रुताऽस्माभिः।
‘सेन’ नदीतीरस्था, न्यूयार्केऽप्यस्ति तादृशी मूर्तिः।।१०१।।
‘ईफल टावर’-पार्के सामूहिकचित्रमभवन्नः।
‘नौएडा’-गुप्तकृतं नूनमसौ धन्यवादार्हः।।१०२।।
आङ्ग्लीं भाषां पेरिसवासी नो वदति कश्चिदपि।
अनुमानेनैव वयं तेषां फ्रेंञ्चं तु जानीमः।।१०३।।
अस्माकं सारथिरपि फ्रेंचं वदति स्म नो आङ्ग्लीम्।
किन्त्विङ्गतैः समस्तं कार्यमभूत्सिद्धमस्माकम्।।१०४।।
‘एयरइण्डियायान’ मारुह्याथ विलम्बतः।
दिल्लीं प्राप्तः समित्रोऽहमप्रेलदशमे दिने।।१०५।।
‘मातास्माकं धरणी सर्वत्रैवाश्रयोऽस्माकम्।
तस्याः स्वास्थ्यं नष्टं वयं कुपुत्राश्चिकीर्षामः।।१०६।।
भ्रष्टाचार-कुपोषण-पर्यावरणप्रदूषणप्रभृति।
कृत्वा वयं कुकार्यं मातुः क्लेशं सदा कुर्मः।।१०७।।
मा कश्चिदपि धरित्र्याः क्लेशं वर्धिष्णुरस्तु कुत्रापि।’
इत्यनया भावनया दिल्लीभूमिं ववन्देऽहम्।।१०८।।
तस्मिन्नेव दिने (१०.४.२०००) मम
पौत्र्याः प्रथमं तु जन्मदिनमासीत्।
निजपित्रा साकं सा-
प्यानेतुं मां समायाता।।१०९।।
पुत्रान् पौत्रीं जायां दृष्ट्वा हर्षं जगामाहम्।
पाण्डेयैः सहितोऽहं ‘रमालयं’ प्राप्तवान् सपदि।।११०।।
स्मारं स्मारमिदं किल सम्मेलनमस्म्यहं सुखितः।
स्मरणीयमिदं स्थास्यति मन्येऽन्येषां बुधानामपि।।१११।।
नगरभ्रमणं भोजनमावासः पत्रपरिपठनम्।
वार्तालापश्चर्चा सर्वं सिद्धं ‘तुरीनो’ पुरि।।११२।।
पूर्णं विवरणमास्ते दातुमशक्यं मयैकेन।
यतो हि नोपातिष्ठम् सर्वेष्वपि सत्रकक्षेषु।।११३।।
विद्वान्सः प्रार्थ्यन्ते वैशद्याल्लेखितुं तत्तत्।
सम्मेलनस्य वृत्तं साक्षाद्विहितं हि तैर्यद्यत्।।११४।।
भारद्वाजोपाह्वा कमला विदुषी लिलेख गद्येन।
सम्मेलनस्य वृत्तं प्रकाशितं भवति तच्चात्र’।।११५।।
शशी तिवारी पाण्डेय आर.के. सञ्ज्ञकस्तथा।
दृष्टं श्रुतं समाश्रित्य वृत्तं गद्ये लिलेखतुः।।११६।।
यात्रायै ‘यू.जी.सी.’ प्रतिशुश्रावानुदानं मे।
आयोगस्य तदर्थं वहामि कार्तज्ज्ञमाभारी।।११७।।
ये ये जना याश्च युवत्य आसन्
व्यस्ता प्रबन्धे खलु मेलनस्य।
तेषाञ्च तासाञ्च भवन्तु लोके
मनोरथा लब्धफलाः सदैव।।११८।।
सर्वे भवन्तु सुखिनः सर्वे स्वस्थास्तथा सन्तु।
सर्वे संस्कृतरुचयः सर्वे किल पूर्णकामाः स्युः।।११९।।
द्वादशं मेलनं वैश्वं हेलसिङ्क्यां हि सांस्कृतम्।
त्रिवर्षानन्तरं भूयादेवमेव शुचिस्मृति।।१२०।।
वैक्रमेऽद्रिशराकाशनेत्रै विजयवत्सरे।
चैत्रै मासि सिते पक्षे नवम्यां बुधवासरे।।१२१।।
क्रैस्तविंशशताब्द्याश्च सहस्त्राब्द्यास्तथान्तिमे८६।
द्विसहस्रतमे वर्षेऽप्रेलस्य द्वादशे दिने।।१२२।।
‘रमालये’ रमाकान्तः निवसन् रमया सह।
सपादशतकं चक्रे ‘तुरीनोस्मृति’ सञ्ज्ञकम्।।१२३।।
नास्ते वर्णनविच्छित्तिर्नैवाप्यत्रास्त्यलङ्कृतिः।
किन्तु साक्षात्कृतं वस्तु स्मरणीयमिहास्ति नः।।१२४।।
इदं विवरणं सत्यमत्युक्तिरहितं शिवम्।
पद्यरूपस्थितं भूयात् तोषार्थं संस्कृतात्मनाम्।।१२५।।
(रचनातिथिः १२.४.२०००)
महाकुम्भे
अपूर्वं दृश्यते दृश्यं प्रयागीये महाकुम्भे।
नृणामास्था जलधिरूपा प्रविष्टास्ते महाकुम्भे।।१।।
सहस्राब्द्याः शताब्द्या नूत्नवर्षस्याथवारम्भे।
जगत्स्नाति त्रिवेण्याः पावने सलिले महाकुम्भे।।२।।
इमे नागा इमे वैरागिणः सङ्गमजले स्नातुम्।
महोत्साहास्तथान्ये साधवः प्राप्ता महाकुम्भे।।३।।
न केवलमागता भरतावनेर्विविधप्रदेशेभ्यः।
अपितु सम्पूर्णजगतो मानवाः प्राप्ता महाकुम्भे।।४।।
किमास्ते तद्ररहस्यं यज्जनान् योजयति भिन्नहृदः।
परीक्षन्ते समीक्षन्ते जगद्विज्ञा महाकुम्भे।।५।।
किमयमास्तेऽन्धविश्वासोऽथवास्था बद्धमूला यत्।
जनाः शिशिरे जले शीतेऽवगाहन्ते महाकुम्भे।।६।।
स्थितः सूर्यस्तथा चन्द्रो मकरराशौ गुरुर्मेषे।
वृषे वा, द्वादशाब्दानन्तरं स्नामो महाकुम्भे।।७।।
हरिद्वारे तथोज्जयिनीनगर्यां नासिकक्षेत्रे।
प्रयागे तीर्थराजे दृश्यते मेला महाकुम्भे।।८।।
विना विज्ञापनं नॄणां महासम्मर्द आगच्छन्।
मनोमोक्षं महानन्दं च लभतेऽयं महाकुम्भे।।९।।
अगच्छन्तः प्रयागं किञ्च न स्नात्वापि गङ्गायाम्।
पितुर्मातुर्गुरोः सेवापराः पूताः महाकुम्भे।।१०।।
अथो ये दूरतो गंगां स्मरन्तोऽहर्निशं लोकाः।
परोपकृतिव्रतस्थास्तेऽपि धन्या वै महाकुम्भे।।११।।
अहो मे राष्ट्रगरिमा येन जीवामो वयं सर्वे।
विभिन्ना एकतां याता मिलामो वै महाकुम्भे।।१२।।
किशोरा बालका वृद्धा युवानः स्नान्त्यथो प्रौढाः।
किशोर्यो बालिका वृद्धा युवत्यो वै महाकुम्भे।।१३।।
भवेद्राष्टं समृद्धं वञ्चकैः शून्यं प्रगतिपरकम्।
समस्तं विश्वमास्तामेकनीडं वै महाकुम्भे।।१४।।
प्रभुं परमेश्वरं विनतेन शिरसा प्रार्थयामो यत्।
समे सद्बुद्धिसत्कर्मान्विताः स्युर्वै महाकुम्भे।।१५।।
पुरातननूतनाभ्यामिह मिलित्वा साध्यते योगः।
भवन् मुग्धोऽवलोकय नूतनामाभां महाकुम्भे।।१६।।
रमाकान्तस्तु न प्राप्तस्त्रिवेण्याः सङ्गमक्षेत्रे।
परं लभतेऽनया गीत्याभिषेकायं महाकुम्भे।।१७।।
(रचनातिथिः १४-१-२००१)
मित्रतां कामये शात्रवं चाश्रये!
मित्रतां कामये शात्रवं चाश्रये,
पार्श्ववर्ती तवाहं सदा कूटधीः।
त्वद्गृहे त्वद्विरुद्धं भणाम्यप्रियम्
आतिथेय! त्वदीयोऽतिथिश्चास्म्यहम्।।१।।
शैशवे क्रीडितं यत्र गेहे मया,
मातुलो मेऽवसद् यत्र गेहे पुरा।
तद् गृहं द्रष्टुमत्युत्सुकश्चास्म्यहम्
नैव शान्त्याः कृतेऽस्म्युत्सुकः किन्त्वहम्।।२।।
न ह्युपेक्षे विवादास्पदानुद्धतान्
गेहविस्फोटकान् त्वद्गृहे भाषितुम्।
पूर्वमेतैः सहाहं वदिष्यामि भोः
त्वां ततोऽहं वदाम्यप्रियं वा प्रियम्।।३।।
वाचि चित्तेऽथ कार्ये न चैकोऽस्मि भो
दर्शनीयं स्थलं वीक्ष्य मोदं भजे।
भोजनं स्वादु तेऽहं करिष्ये परं
नैव संयुक्तघोषं करिष्याम्यहम्।।४।।
त्वद्गृहे यच्च सङ्गीतमायोज्यते
तत्स्वकर्णातिथीकर्तुमस्म्युत्सुकः।
किन्तु दातुं न पार्श्वे ममास्ते कणो
त्वत्सकाशाच्च सर्वं जिघृक्षाम्यहम्।।५।।
त्वद्व्यवस्थापिते सौधकक्षे सखे
रात्रिरेषा मया वै कथं नीयताम्।
दीयतां मेऽवकाशो विवक्षां स्वकां
येन शान्तां विधातुं क्षमः स्यामहम्।।६।।
अस्मि मार्जारिका सिंहगेहे स्थिता
गर्जनं कुर्वती म्याँउशब्दैः स्वकैः।
त्वं तु शान्तिं चिकीर्षुः सखे गेहयो-
स्तावकं श्रद्दधे नो वचः किन्त्वहम्।।७।।
आगतोऽहं गृहं ते सखे याचितुम्
उत्तमाङ्गं त्वदीयस्य गेहस्य वै।
दीयतां मह्यमेतद् यथा मद्गृहे
वर्धतां मे प्रतिष्ठा सुखी स्यामहम्।।८।।
त्वच्छिरो नास्ति ते, तत्र वादोऽस्ति भो
मामकस्तत्र चास्तेऽधिकारः परः।
दीयतां त्वच्छिरो मे, विवादो भवेद्
येन शान्तोऽथ मैत्रीं च पुष्णाम्यहम्।।९।।
त्वं त्वतीवासि रे निष्ठुरो मित्र मे,
नो शृणोषि त्वमीषन्ममाभाषितम्।
त्वं न दत्से यदा मे ममाकाङ्क्षितं
यामि नैजं गृहं रिक्तहस्तोऽप्यहम्।।१०।।
वर्तसे मेऽग्रजस्त्वं यतस्तत् सखे,
त्वं न किञ्चिद्वदेः त्वं शृणुष्वैव माम्।
अन्यथेमां परित्यज्य वार्तां सखे!
यामि नैजं गृहं वै निशीथेऽप्यहम्।।११।।
यामि हंहो कथङ्कारमस्माद् गृहाद्
रिक्तहस्तः स्वकं गेहमद्य प्रभो।
मर्षयिष्यन्ति मां नो जना मे गृहे
स्वाननं तान् कथं दर्शयिष्याम्यहम्।।१२।।
(रचनातिथिः १७.७-२००१)
आतङ्कवादस्य घोरताण्डवम्
एकविंशशताब्दीये प्रथमे किल वत्सरे।
सितम्बराभिधे मासे ह्येकादशदिने तथा।।१।।
अमेरिकायां न्यूयार्के मनहट्टनसंस्थिते।
विश्वव्यापारकेन्द्रस्थे ट्विन् टावर सञ्ज्ञके।।२।।
अभ्रंलिहे द्वे भवने शताभ्यधिकभूमिके।
आतङ्कवाददुर्मत्तराक्षसेन विनाशिते।।३।।
वाशिंग्टने स्थितं किञ्च ‘पेण्टागाने’ तिसञ्ज्ञकम्।
सुरक्षाभवनं ध्वस्तं विमानाक्रमणेन वै।।४।।
चिरादातङ्कपीडा यानुभूता भारतेन वै।
सानुभूता किलेदानीं पाश्चात्त्यै राष्ट्रनायकैः।।५।।
‘ओसामा-बिन-लादेन एतत् कार्यमकारयत्’।।
विश्वस्येत्यमरीकाया अध्यक्षः श्रीबुशाह्वयः।।६।।
तालिबानोपरि व्योममार्गादाक्रमणाय वै।
निजसैन्यं दिदेशाथ सहयोगिबलानि च।।७।।
अद्यत्वे काबुले चैव कन्दाहारे प्रवर्तते।
तालिबानीयसैन्येषु बम्बवर्षा दिवानिशम्।।८।।
अलकायदेगुल्मस्य प्रमुखो बिनलादनः।
अनिशं क्वापि लीनोऽपि बुशं शङ्कयते भृशम्।।९।।
परिणामो भवेत्कोऽस्याः स्थितेरिति न निश्चितम्।
कथावशेषे भवने तु स्मरणीये सदा हि मे।।१०।।
भवनद्वयस्य यच्चित्रम् मयाग्राहि गतेऽब्दके।
तदत्र दीयते चित्रं तत्स्मृत्यर्थं मयाधुना।।११।।
ये जनास्तत्र निधनं प्राप्तास्तेषाञ्च सद्गतिम्।
याचेऽहम् परमात्मानम् सृष्टिस्थितिलयप्रभुम्।।१२।।
आतङ्कवाद उच्छिन्नो जायताम् जगतीतलात्।
परित्राताः साधवः स्युर्दुष्कृतः स्युर्विनाशिताः।।१३।।
(रचनातिथिः १५-१०-२००१)