भारतस्य जनता समीक्षते
को नु देशगरिमाणमीहते
को नु भारत-सुखानि काङ्क्षति।
को रिरक्षिषति राष्ट्रियैकताम्
भारतस्य जनता समीक्षते।।१।।
के ब्रुवन्ति किमु किं च कुर्वते
प्राप्य शक्तिमथ को न माद्यति।
वञ्चयन्ति मतदायकान्न के
भारतस्य जनता समीक्षते।।२।।
कोऽस्ति राष्ट्रहितसाधने रतः
कश्च राष्ट्रपरिवञ्चने रतः।
केन कस्य किल कर्म किं कृतम्
भारतस्य जनता समीक्षते।।३।।
कश्च केन किमिति प्रसाद्यते
कश्च केन किमिति प्रतार्यते।
कोऽस्ति कस्य प्रणिधिः क्व कीदृशो
भारतस्य जनता समीक्षते।।४।।
आत्मतन्त्रमिदमाप्तमस्ति यत्
त्यक्तसर्वविधसौख्यसाधनैः।
तस्य रक्षणकृते नु के क्षमाः
भारतस्य जनता समीक्षते।।५।।
कैः कृतं च किल देशखण्डनं
कैः क्रियेत पुनरस्य मण्डनम्।
कः करोति खलु दण्ड्यदण्डनं
भारतस्य जनता समीक्षते।।६।।
कोऽपवञ्चनपरोऽस्ति नायकः
कश्च मुग्धजनताप्रतारकः।
कश्च सर्वजन-ताप-हारकः
भारतस्य जनता समीक्षते।।७।।
को विरागमुपयाति शासनात्
कोऽतिरागमुपयाति चासने।
धूर्त उच्चपदवीं कथं गतो
भारतस्य जनता समीक्षते।।८।।
कः कियान् पवनयात्रितां गतः
कः कियान् विषधरैर्वृतः स्थितः।
को जहाति शठतां न कर्हिचिद्
भारतस्य जनता समीक्षते।।९।।
नन्नमीति कतमं जनं च कः
कश्चिखादिषति जानतं धनम्।
को जिघृक्षति कथं मतं नृणां
भारतस्य जनता निरीक्षते।।१०।।
किं किमस्ति किल काकचेष्टितं
किं किमस्ति किल गृध्रचेष्टितम्।
किं किमस्ति परवञ्चनावचो
भारतस्य जनता समीक्षते।।११।।
कृष्णवित्तविपुलार्जने रताः
के च सन्ति मलिनाशया जनाः।
के हरन्ति जनता - धनं खलाः
भारतस्य जनता समीक्षते।।१२।।
देशलुण्ठनमहाव्रतस्थितान्
लक्षकोटिधनवञ्चनाचणान्।
धर्मकञ्चुकधराँश्च राक्षसान्
भारतस्य जनता निरीक्षते।।१३।।
कः करोति शठपादचुम्बनं
सूचनां ददति के च शत्रवे।
मन्वते च किल के भुवं प्रसूं
भारतस्य जनता निरीक्षते।।१४।।
गूढशत्रुप्रतिवेशिनः कथं
नित्यमेव प्रविशन्ति भारतम्।
स्वास्थ्यनाशकरणार्थमस्य वै
भारतस्य जनता समीक्षते।।१५।।
भ्रष्टकृत्यमथ ये निरन्तरं
निर्भयेन मनसा प्रकुर्वते।
तानपि प्रखरदुःखदारिता
भारतस्य जनता समीक्षते।।१६।।
पित्र्यरिक्थमिव राष्ट्रियं धनं
वीतचिन्त उदरे करोति कः।
श्रव्यदृश्यविविधप्रमाणकैः
भारतस्य जनता समीक्षते।।१७।।
जातिजन्यरिपुताप्रसारणे
कस्य वै रुचिरिहास्ति जाग्रती।
कश्च वञ्चनपरः सभागृहे
भारतस्य जनता समीक्षते।।१८।।
को नु साम्प्रतमिहास्ति भारते
देशसौख्यहितसाधने रतः।
आगते तु चयने विवेकिनी
भारतस्य जनता परीक्षते।।१९।।
को जितेन्द्रिय इहास्ति नायकः
केन भारतहितं च साध्यते।
केन राष्ट्रगरिमा विवर्ध्यते
भारतस्य जनता प्रतीक्षते।।२०।।
आततायिपवनाशनाशनो
वैनतेय इह कोऽस्ति नायकः।
राष्ट्रशत्रुपरिपातनोत्सुको
भारतस्य जनता प्रतीक्षते।।२१।।
स्युः कदात्र किल पूजिता गुणाः
नैव लिङ्गमथ नो वयो नृणाम्।
राष्ट्ररक्षणपरैकमानसा
भारतस्य जनता प्रतीक्षते।।२२।।
कोऽधुना भरतभूसुसेवया
धन्यमात्मजननं विधास्यति।
पूरयिष्यति च को ममेहितं
भारतस्य जनता प्रतीक्षते।।२३।।
नार्तपीडनमिहास्तु कुत्रचित्
नाप्युपद्रवपरम्परा स्फुरेत्।
नैव वञ्चकजयः प्रतिष्ठताम्
भारतस्य जनता समीहते।।२४।।
नास्तु कश्चिदिह रोगपीडितः
नास्तु कश्चिदिह चाप्यशिक्षितः।
नात्र वृत्तिरहितोऽस्तु कश्चन
भारतस्य जनता समीहते।।२५।।
यस्य जन्म भरतावनौ भवेत्
तस्य तस्य भरणं भवेद् ध्रुवम्।
वृत्तिकष्टमिह कोऽपि नाप्नुयाद्
भारतस्य जनता समीहते।।२६।।
आततायिकृतदुष्कृतिर्जनं
बाधयेन्नहि कदापि भारते।
कर्मठत्वमभिवर्धतां नृणां
भारतस्य जनता समीहते।।२७।।
नापराधिजनसुप्रतिष्ठता
नापि तस्करजनानुमोदनम्।
नैव देशहितखण्डनं भवेद्
भारतस्य जनता समीहते।।२८।।
सत्यमेव जयतान्न चानृतम्
आर्जवं जयतु नैव दुष्टता।
वीरता जयतु राष्ट्ररक्षिणी
भारतस्य जनता समीहते।।२९।।
राष्ट्रमस्तु सुखशान्तिपूरितं
राष्ट्रमस्तु सुदृढं सुरक्षितम्।
राष्ट्रमस्तु सुयशःसमृद्धिमत्
भारतस्य जनता समीहते।।३०।।
(रचनातिथिः २४-१२-२००१)
किं कुर्यात्
कृते यत्नेऽपि नो सिद्धिर्भवति चेत्कोऽत्र किं कुर्यात्।
विरुद्धे भागधेये कर्म कुर्वाणोऽपि किं कुर्यात्?।।१।।
‘विलिण्टाइन’ दिने छात्राः कुसुमहस्ता गताः पार्के।
वराकोऽध्यापको गत्वापि कक्षे ब्रूहि किं कुर्यात्।।२।।
गृहादचलं भवन्तं द्रष्टुकामोऽहं यथाकालम्।
परं मार्गेऽमिलज्जामो विलम्बे कोऽत्र किं कुर्यात्।।३।।
गृहाच्चलितः समयतोऽहं परं मध्येपथं रुद्धः।
‘विलम्बादागतोऽस्मी’ति क्षमायाच्ञापि किं कुर्यात्।।४।।
उपस्थितिपञ्जिकास्ते द्वारि चारक्षी लगुडहस्तः।
तथापि त्वं त्वदीयैस्ताड्यसे चेत्कोऽत्र किं कुर्यात्।।५।।
भवति साक्षात्कृतिर्विद्यागृहे त्वं चोत्तमश्रेणिः।
न पूर्वेद्युस्त्वया दृष्टो विशेषज्ञोऽपि किं कुर्यात्।।६।।
श्रुतो धर्मः, कृता सन्ध्या, श्रिते चाभ्यासवैराग्ये।
जहाति च नैव चाञ्चल्यं मनः किल कोऽत्र किं कुर्यात्।।७।।
अहं यां चिन्तयाम्यनिशं विना यां नो लभे निद्राम्।
न सा दूरध्वनौ सुलभा, जनोऽयं मित्र! किं कुर्यात्।।८।।
प्रिया भार्या त्वमसि, वदसि प्रियं प्रियमण्डने, पत्यै।
न चेत्समयेऽशनं दत्से पतिस्ते ब्रूहि किं कुर्यात्।।९।।
वधूः श्वसुरालयादपमानिता गच्छति पितुर्गेहे।
पितुर्गेहेऽपि नो सौख्यं भजति चेत्सात्र किं कुर्यात्?।।१०।।
महामात्योऽटलोऽध्यक्षो मुशर्रफ चागरानगरे।
शिखरवार्तावसाने निष्फलौ! कः कोऽत्र किं कुर्यात्?।।११।।
‘मृतो वा जीवितो वापेक्ष्यते न्यायाय लादेनः।’
प्रतिज्ञायापि नो लभते बुशस्तं चेत्स किं कुर्यात्!।।१२।।
कृते विविधे प्रपञ्चेऽपि प्रकामं बहुमतं नाप्तम्।
इदानीं वञ्चनाचुञ्चुर्दलाध्यक्षोऽपि किं कुर्यात्!।।१३।।
इमे प्रतिपक्षिणो भूत्वा समायाता वृकाः सदने।
परं तत्रैकतां प्राप्ता ऋजुर्मेषोऽत्र किं कुर्यात्!।।१४।।
इमे बहुनायका रथिनो रथं विमता यदारूढाः।
निनीषुस्तं प्रमुखसारथिरयं विवशो नु किं कुर्यात्?।।१५।।
मतं दत्तं त्वया किल यत्तु तद्युक्तं परं भ्रातः।
ददासि न चेत्त्वमुत्कोचं तदा नेतापि किं कुर्यात्?।।१६।।
अरण्ये रोदनं कुरुषे बधिरकर्णे जपसि बन्धो!
पठितवानसि बहून् ग्रन्थान्, त्वदर्थं कोऽपि किं कुर्यात्!।।१७।।
गृहीत्वा पाटलं पुष्पं वसन्तो द्वारि सम्प्राप्तः।
मनसि किल पत्राशातनमस्ति, मधुमासोऽत्र किं कुर्यात्!।।१८।।
कवी रात्रौ लिखति कविताममरकोशं मुहुः पश्यन्।
न च श्रोतास्य शृणुते पद्यबन्धं सोऽत्र किं कुर्यात्!।।१९।।
कृते यत्नेऽपि मुद्रणदोषतो मुक्तिर्न यदि लभ्या।
तदाक्षरयोजकः सम्पादको वा मित्र! किं कुर्यात्!।।२०।।
अहं शस्त्रास्त्रसम्पन्नो भटः सीमासु तिष्ठामि।
न चादेशं लभे युद्धस्य, शौर्यं मेऽत्र किं कुर्यात्?।।२१।।
मदीयौ द्वौ सखायौ हस्तमेलनमद्य नो कुरुतः।
तयोर्मैत्रीं दिदृक्षुश्चेज्जनोऽयं ब्रूहि किं कुर्यात्?।।२२।।
ययोरशनं कुलं शीलं तथा कर्माणि भिद्यन्ते।
तयोर्मैत्रीं विवाहं चेच्छसि त्वं? कोऽत्र किं कुर्यात्।।२३।।
स्वराष्ट्रस्य प्रगतिमिच्छन्ति कवयोऽध्यापका वीराः।
भटा उद्योगिनः श्रमिणः, कुनेता किन्तु किं कुर्यात्!।।२४।।
यदास्माभिश्चिताः प्रभवो मलीमसकर्म कुर्वाणाः।
मुहुर्गायन् ‘स्वभारतभां’ रमाकान्तोऽपि किं कुर्यात्।।२५।।
(रचनातिथिः १६.२.२००२)
वन्दे कविपरम्पराम्
भूतभव्यभवद्वृत्तं लोककल्याणहेतवे।
निबध्नन्तीं सुवृत्तेषु वन्दे कविपरम्पराम्।।१।।
संस्कृते प्राकृते काव्यमपभ्रंशे तथानिशम्।
कुर्वतीं लोकसंस्कृत्यै वन्दे कविपरम्पराम्।।२।।
कौञ्चद्वन्द्ववियोगोत्थं शोकं श्लोकीचकार यः।
रामायणस्य कर्तारं वाल्मीकिं तं नमाम्यहम्।।३।।
वर्तितव्यं सदास्माभी रामवन्नो दशास्यवत्।
प्रेरयन्तं जनानित्थमादिकाव्यकरं भजे।।४।।
जयं वा भारतं वापि महाभारतमेव वा।
येनाकारि कवीशेन तं वन्देऽहं नताननः।।५।।
कालिदासोऽश्वघोषश्च भारविर्भट्टिरेव च।
कुमारदासो माघश्च रत्नाकरकविस्तथा।।६।।
श्रीहर्षः कविराजश्च भर्तृपूर्वो हरिस्तथा।
पण्डितेन्द्रो जगन्नाथोऽप्पय्यदीक्षितपण्डितः।।७।।
नीलकण्ठो दीक्षितश्च कवयोऽन्ये यशस्विनः।
नाट्यकारास्तथान्ये ये गद्यकारास्तथा च ये।।८।।
भाससौमिल्लसदृशा भवभूतिनिभास्तथा।
मुरारि-हर्षदेवाद्याः भट्टनारायणादयः।।९।।
दण्डिबाणसुबन्ध्वाद्या अम्बिकादत्तसन्निभाः।
तानहं सादरं वन्दे सरस्वत्याः उपासकान्।।१०।।
तुलसी-सूर-कम्बाद्याः भाषाणां कवयस्तथा।
गीतिकारास्तथा गेयपद्यकारा अलोभिनः।।११।।
ये चास्मद्युगे जाता वाणीपूजनतत्पराः।
विख्याताश्चाप्यविख्याताः गैर्वाणीकवयो बुधाः।।१२।।
मञ्जुनाथादयो ब्रह्मानन्दशुक्लादयस्तथा।
श्रीनिवासरथो रेवाप्रसादः श्रीसनातनः।।१३।।
शुक्ला रमेशचन्द्राश्च परमानन्दशास्त्रिणः।
विशुद्धानन्दमिश्रश्च आर. वी. जोशि-सञ्ज्ञकः।।१४।।
करणोत्तररामश्च केशवो माधवस्तथा।
वर्णेकरः श्यामदेवः पाराशरकुलोद्भवः।।१५।।
शिवप्रसादो नलिनी क्षमा पुष्पा मनुस्तथा।
शङ्करोत्तरदेवश्च प्रशस्यश्च परीक्षितः।।१६।।
मिश्रोऽभिराजराजेन्द्रः श्रीराधावल्लभस्तथा।
कृष्णकान्त उमाकान्तो विष्णुकान्तस्तथा ‘मणिः’।।१७।।
जनार्दनप्रसादः श्रीत्रिपाठी भास्करस्तथा।
ज्ञानोपनामा श्री बच्चूलालो मुक्तकपण्डितः।।१८।।
सत्यव्रतो देवदत्तो हरिदत्तश्च दीपकः।
सीतानाथस्तथाचार्यो हरेकृष्णश्च कौशलः।।१९।।
इच्छारामद्विवेदी च प्रणवोपाह्वसत्कविः।
अन्ये च समकालीना रससिद्धाः कवीश्वराः।।२०।।
तथार्वाचीनकवयो रङ्गनाथेन कीर्तिताः।
ये रताः काव्यनिर्माणेऽद्यत्वे संस्कृतसाधकाः।।२१।।
प्रसिद्धा अप्रसिद्धा वा दूरस्था निकटस्थिताः।
छन्दोमुक्तं सुवृत्तं वा काव्यं नूत्नं सृजन्ति ये।।२२।।
तानहं सादरं वन्दे कविवंशशुभाङ्कुरान्।
पुराणीं तरुणीं दैवीं वाचं ये समुपासते।।२३।।
श्रीवाल्मीकिसमारब्धां कालिदासादिमध्यमाम्।
इदानीन्तनपर्यन्तां वन्दे कविपरम्पराम्।।२४।।
(रचनातिथिः १४.१२.२००२)
कविसम्मेलन-प्रस्तावना
दारुब्रह्मजगन्नाथं श्रीसुभद्राबलान्वितम्।
चन्द्रभागां च कोणार्कं गिरिं धवलपूर्वकम्।।१।।
लिङ्गराजं महेशानं गौरी-केदारमन्दिरम्।
दुग्धकुण्डं च मुक्तेशं सिद्धेश्वरमथो प्रभुम्।।२।।
नन्दनं काननं चैवोदयपूर्वगिरेर्गुहाम्।
खण्डोत्तरगिरिं चैव जयगोपालमन्दिरम्।।३।।
चिलिकासरोवरं चैव विश्वविद्यागृहाणि च।
बालेश्वरं तथा पारादीपं हीराकुडं तथा।।४।।
श्रीविहारं तथा वाणीविहारं ज्ञानदायकम्।
गौरीकुमारब्रह्माणं केशवं च दिगम्बरम्।।५।।
सुन्दरराजनामानं कविप्रेष्ठांस्तथापरान्।
प्रेम्णाङ्के दधतीं वन्देऽहमुत्कलवसुन्धराम्।।६।।
हरे कृष्ण! त्वमायाहि कवीनां मानदो भव।
कविसम्मेलनं प्राच्यविद्यासम्मेलने शृणु।।७।।
इदानीं भारतस्याहं कविकर्मरतान् बुधान्।
आवाहयामि सङ्क्षिप्तकाव्यपाठाय सादरम्।।८।।
अल्पाक्षरमसन्दिग्धं रसपूर्णं च सारवत्।
काव्यं विजयतां तत्रभवतां प्रेरणाप्रदम्।।९।।
चन्द्रकान्तरमाकान्तौ शुक्लौ धन्यौ शुभोदयात्।
यत्कवीन् सहृदश्चेमौ वन्देते मञ्चमास्थितौ।।१०।।
(रचनातिथिः १५.१२.२००२)
श्रावणमासे
काले वर्षति पर्जन्योऽयं श्रावणमासे।
हरिता हरिता हृष्यति भूमिः श्रावणमासे।।१।।
जाता सुखदा वृष्टिरैषमः श्रावणमासे।
अहो समेषां दृष्टिः प्रीता श्रावणमासे।।२।।
शाद्वलशाटी धृता पृथिव्या श्रावणमासे।
वासकसज्जा वसुधा जाता श्रावणमासे।।३।।
गर्जति मेघो हृष्यति धरणी श्रावणमासे।
वर्षति देवो तृप्यति पृथ्वी श्रावणमासे।।४।।
इष्टा वृष्टिः सुखयति कं नो श्रावणमासे।
कांक्षति वेदो भवतु सुवृष्टिः श्रावणमासे।।५।।
चिरकालादागता सुवृष्टिः श्रावणमासे।
अन्नं वर्षति वर्षति कनकं श्रावणमासे।।६।।
राजस्थाने वृष्टिर्जाता श्रावणमासे।
गुर्जरराज्ये वृष्टिर्जाता श्रावणमासे।।७।।
अखिलभारते वृष्टिर्जाता श्रावणमासे।
धरा मोदते पुलकितचित्ता श्रावणमासे।।८।।
कज्जलकृष्णा नता नीरदाः श्रावणमासे।
दात्यूहा अतितरां नन्दिताः श्रावणमासे।।९।।
राष्ट्रसमृद्धिं कुरुते मेघः श्रावणमासे।
वृष्टिर्नॄणां पुष्टिदायिनी श्रावणमासे।।१०।।
हरिततृणैरावृता मेदिनी श्रावणमासे।
पयसो वृद्धिर्भवति पशूनां श्रावणमासे।।११।।
आतपत्रतां याता मेघाः श्रावणमासे।
छायागुप्ता जना नन्दिताः श्रावणमासे।।१२।।
शालां यान्ति क्लिन्ना बालाः श्रावणमासे।
मशकमक्षिकादष्टा लोकाः श्रावणमासे।।१३।।
तीजनागपञ्चमी श्रावणी श्रावणमासे।
दोलान्दोलनमथ शिवपूजा श्रावणमासे।।१४।।
घेवरचीलापूपभक्षणं श्रावणमासे।
क्षीरसूत्रिकाभोजनमपि वै श्रावणमासे।।१५।।
रसा रसवती राष्ट्रे जाता श्रावणमासे।
धान्यरोपणं काले जातं श्रावणमासे।।१६।।
स्नान्ति पल्वले पश्य महिष्यः श्रावणमासे।
उड्डीयन्ते नभसि बलाकाः श्रावणमासे।।१७।।
दोलारोहणगीतगायनं श्रावणमासे।
नभसि पतंगा उड्डीयन्ते श्रावणमासे।।१८।।
सुजला सुफला शस्यवृता भूः श्रावणमासे।
राष्ट्रसमृद्धिं तनुते मेघः श्रावणमासे।।१९।।
बालाः वर्षातोये स्नान्ति श्रावणमासे।
अवलोक्यते चतुर्दिक् सुषमा श्रावणमासे।।२०।।
नीडे स्थित्वा लवो मोदते श्रावणमासे।
वर्षाक्लिनः कपिः कुप्यति श्रावणमासे।।२१।।
हन्त विरहिणी रोदिति रहसि श्रावणमासे।
निन्दति मेघं सुखिनां सुखदं श्रावणमासे।।२२।।
रिम झिम् रिम झिम् वर्षति कन्दः श्रावणमासे।
गृहमायान्ति प्रवासिनो वै श्रावणमासे।।२३।।
भगिनी भ्रात्रे रक्षां दत्ते श्रावणमासे।
भ्राता स्वस्त्रे स्नेहं दत्ते श्रावणमासे।।२४।।
सञ्चितमन्नं पिपीलिकाभिः श्रावणमासे।
वर्षास्नानं गजाः कुर्वते श्रावणमासे।।२५।।
स्थलीपयोवृद्धिर्वै जाता श्रावणमासे।
गावो मुदिता विहगा मुदिताः श्रावणमासे।।२६।।
चातुर्मास्यं विदधति सन्तः श्रावणमासे।
तुलसीदासजयन्ती मान्या श्रावणमासे।।२७।।
पयसा भरिता वीथ्यो रथ्याः श्रावणमासे।
प्रशासनं पिशुनयन्ति नाल्यः श्रावणमासे।।२८।।
जलप्लाविता मार्गा जाताः श्रावणमासे।
मनश्चञ्चलं जातं पुंसां श्रावणमासे।।२९।।
सर्वेभ्यो घेवरं रोचते श्रावणमासे।
रजः प्रशान्तं सहिमो वायुः श्रावणमासे।।३०।।
श्लिष्यति वृक्षं लता प्रमत्ता श्रावणमासे।
मेघविदारणवृत्तं भयदं श्रावणमासे।।३१।।
यमुना शुद्ध्यति पयःप्रवाहैः श्रावणमासे।
सोलन-दिल्ल्योः कवयो मिलिताः श्रावणमासे।।३२।।
संस्कृतदिवसो मुदा मान्यते श्रावणमासे।
धैर्यधुरीणा जाता विकलाः श्रावणमासे।।३३।।
छत्रं नीत्वा यान्ति युवत्यः श्रावणमासे।
मैट्रोमार्गो ह्यग्रे सरति श्रावणमासे।।३४।।
निर्वाचनदर्शिनः सक्रियाः श्रावणमासे।
भग्ना मार्गा धारासारैः श्रावणमासे।।३५।।
ट्रैफिकजामो दृश्यो दिल्ल्यां श्रावणमासे।
श्रीवास्तवमतिरिता विशुद्धिं श्रावणमासे।।३६।।
प्रविशति संसदि कृतकसांसदः श्रावणमासे।
अमरनाथहिमलिंगदर्शनं श्रावणमासे।।३७।।
जलघटधरशिवगणपदयात्रा श्रावणमासे।
भरिता पयसा पश्य तटाकाः श्रावणमासे।।३८।।
आशा मुदिता गता निराशा श्रावणमासे।
मदयन्तीरञ्जनं हस्तयोः श्रावणमासे।।३९।।
हरितशाटिका लसति शरीरे श्रावणमासे।
खे कौ के सैनिका जाग्रति श्रावणमासे।।४०।।
कृषका व्यापारिणः प्रसन्नाः श्रावणमासे।
कर्मकराणां मनः प्रसन्नं श्रावणमासे।।४१।।
छात्राणामामोदो दृश्यः श्रावणमासे।
बन्धो भवति सुवृष्टिरैषमः श्रावणमासे।।४२।।
खगमृगजलचरमनुजा हृष्टाः श्रावणमासे।
अवलोक्यते चतुर्दिक् सुषमा श्रावणमासे।।४३।।
दुर्दिनमास्ते सुदिनं बन्धो! श्रावणमासे।
सन्तु विवादाः कलहाः शान्ताः श्रावणमासे।।४४।।
सौराज्यं स्याद्देशे भगवन्! श्रावणमासे।
रमाकान्तकविताविर्भूता श्रावणमासे।।४५।।
बालानपि सुखयतु कवितैषा श्रावणमासे।
श्रावणमासे श्रावणमासे श्रावणमासे।।४६।।
श्रावणमासे श्रावणमासे श्रावणमासे।।
(रचनातिथिः ११.८.२००३)
किं कुर्यात् (२)
न विद्युन्नो हसन्ती भामिनी नापि प्रिया पार्श्वे।
तुषारेऽयं जनः शून्ये च तापे मित्र! किं कुर्यात्।।१।।
‘मयेयं चालिता मेट्रो-सुगन्त्री जनमनोहर्त्री।’
हसति नेतुर्वचः श्रुत्वा जनो, नेताऽत्र किं कुर्यात्।।२।।
न युद्धं नापि शान्तिर्नैव मैत्री नापि शत्रुत्वम्।
न संवादो न मीनं चावयोः कः कोऽत्र किं कुर्यात्।।३।।
अहो ग्रीष्मे न पेयं शीतलं त्वयका सुलभ्येत।
न चोष्णं भोजनं शिशिरे धनं ते ब्रूहि किं कुर्यात्।।४।।
त्वया नेतृब्रुवाः संसेविताः स्वीयाध्ययनकाले।
तृतीयश्रेणिमापन्नस्य ते वद कोऽत्र किं कुर्यात्।।५।।
न शौचं नापि चाचारो न सत्यं येषु विद्येत।
सखे! तेषां सपर्या मे व्रतम्, मे कोऽपि किं कुर्यात्।।६।।
इदं निर्वाचनं प्राप्तं पुनष्टिकटेच्छवोऽद्यत्वे।
दलाद्दलमाविशन्त्येते, अमीषां कोऽत्र किं कुर्यात्।।७।।
‘धनाद्धर्मं ततः सुख’ मित्ययं सिद्धान्त उच्छिन्नः।
‘धनाट्टिकटं ततः सत्ता’ धुना मे कोऽपि किं कुर्यात्।।८।।
अयं सद्दाम आस्ते पञ्जरे बद्धो यथा सिंहः।
प्रवर्धन्तेऽस्य रिपवो तांश्च पश्यन्नेष किं कुर्यात्।।९।।
सदा यो वर्धयन्नातंकवादं शासनं ह्यकरोत्।
शरव्यः सोऽद्य जातस्तस्य रोदिति, कोऽस्य किं कुर्यात्।।१०।।
(रचनातिथिः १७.१.२००३, १४.१.२००४)
यानावरोधो दुस्त्यजः, शकटावरोधो दुस्त्यजः
लाजवन्तीगार्डनं स्यात्स्यादथो धौलाकुआँ।
स्याच्च वा मायापुरी यानावरोधो दुस्त्यजः।।
शकटावरोधो दुस्त्यजः।।१।।
आइ.टी.ओ. स्यादथो शाहेदरा वाथो भवेत्।
शक्तिनगरं वा भवेद् यानावरोधो दुस्त्यजः।।२।।
काररूढो वा भवेत् स्कूटरसुरूढो वा भवेत्।
स्याच्च वा वाहनपटुः, यानावरोधो दुस्त्यजः।।३।।
जनपथो वा स्यादथो राज्ञां पथो वा स्यादयम्।
अस्तु सी.पी. चक्रकं यानावरोधो दुस्त्यजः।।४।।
भानुजासेतुर्भवेद्वा नौइडामार्गोऽथवा।
मालचामार्गोऽथवा यानावरोधो दुस्त्यजः।।५।।
रा.म.लों चक्रं भवतु वा स्यादथोऽप्याश्रमधरा।
स्याच्च दिल्लीस्टेशनं यानावरोधो दुस्त्यजः।।६।।
रक्तचापचिकित्सया को लाभ आस्ते मित्र ते।
लभ्यते स्वप्नेऽपि यदि यानावरोधो दुस्त्यजः।।७।।
ब्रूहि गत्वा प्रेयसी त्वं क्रोधरक्तेक्षणमुखीम्।
‘मां क्षमस्व विलम्बिनं यानावरोधो दुस्त्यजः’।।८।।
भोः प्रियामिलनोत्सुका नीत्वा करे चलभाषकम्।
सत्वरं पद्भ्यां ब्रजत, यानावरोधो दुस्त्यजः।।९।।
साम्प्रतं निश्चीयते मयका विना भ्रान्तिं सखे।
यामि पद्भ्यामेव यदि यानावरोधो दुस्त्यजः।।१०।।
(रचनातिथिः १५.१.२००४)
विलसितं नियतं नियतेरिदम्
भुवि जले पवने गगनेऽनले
भवति यद्धि विपर्यय-ताण्डवम्।
अघटितं घटते सहसा च यत्
विलसितं नियतं नियतेरिदम्।। १।।
सकलभूमितले बहुमानितो
यदपमानमसौ लभते पुमान्।
यदपमानित एष सुमानितो
विलसितं नियतं नियतेरिदम्।। २।।
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम्।
मतिमतां सततं च दरिद्रता
विलसितं नियतं नियतेरिदम्।। ३।।
विधिविधानयुतं बहु कर्म वै
सफलतां न हि याति यदा नृणाम्।
वदति हन्त! जनो विवशस्तदा
विलसितं नियतं नियतेरिदम्।। ४।।
सहजशत्रुरपीह भवेत्सखा
सहजमित्रमथो रिपुतां गतः।
व्रजति बन्दिगृहं जनपूजितो
विलसितं नियतं नियतेरिदम्।। ५।।
स्वपिति पन्नगतल्पगतो हरिः
हिमगिरिं श्रयते च दिगम्बरः।
अमृतमेव विषं भवति क्वचित्
विलसितं नियतं नियतेरिदम्।। ६।।
नियतिचक्रमथोऽनुसरत्यदः
सकलविश्वमवश्यमनारतम्।
नियतिनाटकमीक्षितुमागताः
वयमिमे सकलाः भुवने जनाः।। ७।।
(रचनातिथिः ११.२.२००६)
निर्वाचने प्राप्ते
1
अपूर्वं पश्य दृश्यं हे सखे निर्वाचने प्राप्ते।
सहजशत्रुः परं मित्रं भवति निर्वाचने प्राप्ते।।१।।
विरुद्धानां सुमैत्री जायते निर्वाचने प्राप्ते।
समीकरणं नवं नूत्नं भवति निर्वाचने प्राप्ते।।२।।
नमुचिशक्रौ तथा सुन्दोपसुन्दौ वज्रभूमिधरौ।
अजाकण्ठीरवौ सुहृदौ सखे! निर्वाचने प्राप्ते।।३।।
मयूरव्यालशालूरा गले लग्नाः प्रसीदन्ति।
समेषां लाभ आयत्यां ध्रुवो निर्वाचने प्राप्ते।।४।।
‘न वैरं शाम्यते वैरेण’ ‘मैत्री सन्नृणां पुण्या’।
भवति सत्त्वावतरणं मानसे निर्वाचने प्राप्ते।।५।।
इयं जनतास्ति पाञ्चाली विवस्त्रैषा भवेन्नूनम्।
अतो दुःशासना ऐक्यं गता निर्वाचने प्राप्ते।।६।।
अहं गोमायुरस्मि त्वं च गृध्रो दूरदृष्टिरसि।
अयं भक्ष्योऽस्ति बालो नः सखे निर्वाचने प्राप्ते।।७।।
सदा वातानुकूलितसौधभवनैः परिचिताः सर्वे।
वयं मार्गे भ्रमामो हे प्रभो! निर्वाचने प्राप्ते।।८।।
अये कवयः! कुरुध्वं काव्यमिह किन्तु क्षमध्वं नः।
वयं वै व्यापृता मतयाचने निर्वाचने प्राप्ते।।९।।
इमे दर्शकसमूहाः लोभनीया नूनमस्माभिः।
वयं पारंगता नाट्ये सखे। निर्वाचने प्राप्ते।।१०।।
पशुभ्यो दीयतां किञ्चित्तृणं पूर्वं विना शंकाम्।
इमे बलिकर्मयोग्या वै मखे निर्वाचने प्राप्ते।।११।।
2
चलच्चित्राभिनेतारोऽभिनेत्र्यो बहुमतं लब्धुं
दलाध्यक्षैः सबहुमानं सदस्यत्वेन गृह्यन्ते।
शिखण्डी भीष्मजयहेतो दलैरन्विष्यते यत्नात्
अघट्यं घटयितुं शक्यं सखे निर्वाचने प्राप्ते।।१।।
इमे श्याला असौ भ्राता पितृव्या मातुला एते
निशीथे कुर्वते सम्मिल्य सग्धिं ये सपीतिं वा।
त एवाह्नि प्रतारयितुं जनान् निजभाषणैर्धूर्ता
इमे परिपन्थिनो जाता सखे निर्वाचने प्राप्ते।।२।।
कदाचिद् ये सहजरिपवो ह्यभूवन् तेऽद्य सानन्दं
गले लग्नाः सहजमित्रत्वमाप्ता गद्गदायन्ते।
कथंकारं भवेदस्मज्जयो ध्रुवमित्यमुं स्वार्थं
प्रपूरयितुं भवति यत्नः परो निर्वाचने प्राप्ते।।३।।
इयं नेत्री पदारूढा जनान् पृच्छति सुखं दुःखम्
अयं नेता रथारूढः प्रयातो दिग्विजयकामः।
तयोल्का पातितानेनापि वज्रः पातितो वाग्भिः
अहो वाचां विलासो दृश्यते निर्वाचने प्राप्ते।।४।।
न जाने को जितः स्यात्कोऽथवा विजितो भवेन्नेता
न जाने कः स्थितः स्याच्छासनासन्द्यां सुपुण्यात्मा।
इयं चिन्ता विधेया नैव सम्प्रति हे सखे त्वयका
तवाधिकृतिस्तु कर्मणि नो फले निर्वाचने प्राप्ते।।५।।
(रचनातिथिः १३.३.२००४)
पोलकहालस्थ-टर्नरहाउसवातायनात्
त्रयोदशविश्वसंस्कृतसम्मेलनमुपस्थातुमहं
९.७.२००६ तमायां तारिकायाम्
एडिनबरा-नगरं सम्प्राप्तः।
पोलकहॉल्स-परिसरे वर्तमाने टर्नरहाउसे
५१८ तमे कक्षे मया स्थातव्यमासीत्।
अहं तत्रैव निवसामि।
कक्षे स्वच्छकाचमयं एकं प्रशस्तं वातायनमस्ति
यन्मह्यम् विविधानि दृश्यानि स्पष्टं दर्शयति
दृश्यानि-सम्मेलने नवागतानामतिथिविदुषाम्
ये कक्षकुञ्जिकां गृहीत्वा स्वसम्भारेण सह कक्षं गच्छन्ति।
दृश्यानि - युवतीनां -
याः स्वदेहयष्टेस्तनूकरणार्थं धावनं कुर्वन्ति।
दृश्यानि - यूनां ये स्वस्थ्यरक्षणार्थं
द्विचक्रिकारोहणव्यायामं कुर्वन्ति।
दृश्यानि - यूनां छात्राणां
ये स्वसहपाठिनीभिस्सह
सोल्लासं विनोदं परिहासं च कुर्वाणाः
स्वकक्षान् प्रति निवर्तन्ते।
दृश्यानि - तरूणां ये वायुना स्पृष्टाः सानन्दमान्दोल्यन्ते
दृश्यानि - मित्राणां ये काष्ठासन्दिकासु स्थित्वा मनोविनोदं कुर्वन्ति।
दृश्यानि - बेयर्ड-ली-प्रभृतिभवनानां
यत्र संस्कृतकवयः श्रीनिवासरथ-राजेन्द्रमिश्र- इच्छारामद्विवेद- ‘प्रणव’ प्रभृतयः तिष्ठन्ति।
दृश्यानि - घनानां -
ये आकाशमाच्छाद्य
अधोवर्तिषु प्राणिषु छत्रमिव तानयन्ति।
दृश्यानि - दूरस्थपर्वतमालायाः -
या क्षितिजं जनयति।
दृश्यानि - पक्षिणां
ये आकाशे उत्पत्य
विश्रामार्थं भवनपृष्ठेषु वृक्षशाखासु च तिष्ठन्ति।
दृश्यानि - विश्वस्य संस्कृतविदुषां -
ये विश्वमेकनीडं मन्वानाः सङ्गच्छन्ते संवदन्ते च।
(रचनातिथिः १०.७.२००६)
मम तथा विहगदम्पत्योर्विदेशयात्रा
विदेशयात्रार्थं मया सहसा निमन्त्रणं प्राप्तम्।
मया एकाकिनैव प्रवसितव्यमासीत्,
यतो हि मम पत्नी तत्र निमन्त्रिता नासीत्।
मम गृहाङ्गणस्थबिल्ववृक्षे
प्रायो नित्यमेव विहगदम्पती आगत्य
मधुरं ध्वनिं कुरुतः।
पत्नीं सान्त्वयमानस्य मे वचांसि श्रुत्वा
पुंपक्षी मामपृच्छत्
‘‘अपि मां सह नेष्यसि?’’
मयोक्तम्
‘‘बन्धो! विदेशयात्रार्थं काचिद् व्यवस्थास्ति।
प्रथमं तव यात्रार्थम् अनुमतिरपेक्ष्यते,
ततश्च धनमपि।
यतो हि सहगामिनां पशुपक्षिणामपि कृते
यात्राशुल्कं दीयते।
सीमाशुल्कं दीयते।
कदाचित् प्रवेशस्यानुमतिरेव नो लभ्यते।
प्रसभं परावर्तनमपि कस्यचिद् यात्रिणो भवति।
अतो न मामेवंविधेन प्रश्नेन
धर्मसङ्कटे पातयितुमर्हसि।’’
पक्षी स्वप्रेयस्या सह आकाशे उत्पतितः।
मया बहु कर्तव्यमासीत्
गन्तव्यदेशे प्रवेशार्थमनुमतिर्गृहीतव्यासीत्
यात्रापत्रं क्रेतव्यमासीत्,
यात्रायाः पुष्टिः करणीयासीत्,
वैदेशिकमुद्रा क्रेतव्या आसीत्,
अनुमतभारानुसारमेव वस्त्रादिकं नेतव्यमासीत्।
विदेशयात्रिभिर्यदपि अनुष्ठातुमपेक्ष्यते
तत्सर्वं करणीयमासीत्।
मया तत्सर्वमपि कृतम्।
निर्दिष्टायां तिथावहं विदेशं प्रविष्टः।
यत्र ममावासस्य व्यवस्थासीत्
तस्य भवनस्य पार्श्वेऽप्येको वृक्षो मयावलोकितः।
सहसैव मया स विहङ्गमः
स्व प्रेयस्या सह तत्रावलोकितः।
विहगदम्पती तत्र दृष्ट्वाहमाश्चर्यचकितोऽभूवम्।
मां तथाभूतं दृष्ट्वा तावूचतुः
‘‘अलं चिन्तया,
उपचारेण वा।
आवयोरशनस्य वासस्य च कृते
त्वया नायासितव्यम्।’’
अहं मनाग् लज्जित इवासम्।
मां तथा वीक्ष्य
विहङ्गमः पुनरेवमाह
‘‘मित्र! दैन्यं मा स्म गमः।
त्वं मनुष्यः सन् विवश आसीः।
त्वं सीमाबद्धोऽसि।
अस्माकं मुक्ताकाशयात्रायां
कस्यापि देशस्य सीमा
अवरोधं नोपस्थापयति।
त्वं मामत्रानेतुमसमर्थ आसीः।
अहं तु
मम प्रेयस्या सह
तव कुशलं प्रष्टुमत्रागमने समर्थोऽस्मि।
तवेयं यात्रा सफला भवतु।’’
मया
स्वकैमरायन्त्रेण
विहगदम्पत्योश्छविरङ्किता
यतो हि
मत्कृते
इयं स्मरणीयासीत्।
(रचनातिथिः १०.७.२००६)
अपहृतविमाने
अस्माकं विमानं गन्तव्यस्थलं प्रति उड्डीयते
किंतु सहसैव चत्वारो युवानः
करे आग्नेयास्त्रं धृत्वा
उच्चैरुद्घोषयन्ति
यदस्माकं विमानमपह्रियते।
कुत्र वयं गच्छामः
इति न कोऽपि यात्री जानाति।
विमानं क्वचिदवतरति
विमानस्यापहर्तारो यात्रिणस्तर्जयन्त आज्ञापयन्ति-
‘‘सर्वे अधोमुखा अधोदृष्टयश्च भूत्वां तूष्णीं तिष्ठन्तु’’
सर्वे तथा कुर्वन्ति।
अहमप्यधोमुखस्तिष्ठामि
सहसैव
मत्पार्श्ववर्तिस्थानादेको यात्री एकेनापहर्त्रा नीयते
अहं चिन्तयामि -
किं कारणमस्य नीयमानस्य?
तदैवोच्चैरुद्घोषयन्नपहर्ता सर्वान् यात्रिणो दिशति
‘‘सर्वे अधोमुखा मनाक् ऊर्ध्वमवलोकयत
अयं यात्री
अधोमुखोऽधोदृष्टिश्च सन् विमाने नातिष्ठत्।
अयमस्मान् वञ्चयितुकाम आसीत्।
अतोऽस्मै पुरस्कारः प्रदीयते।’’
एवमुक्त्वा छुरिकया स यात्री व्यापादितस्तेन क्रूरेण।
पुनः सोऽपहर्तागर्जत्
“यः कोऽप्यस्माकमादेशमुल्लङ्घयिष्यति
तस्येयमेव दशा भविष्यति।”
ततश्च सर्वेऽपि यात्रिणोऽनुक्ता अपि
अधोमुखा अधोदृष्टयश्च सञ्जाताः।
अहमपि तथैव आसम्।
मम मनसि कापि कल्पनोदिता
“यदि नाम सर्वेऽपि यात्रिणः
सहसोत्थाय
एतानपहर्तॄन् निग्रहीतुं
बद्धपरिकरा भवेयुस्तदा
प्रथमं केचिन्मरिष्यन्ति
किन्तु अन्ततो गत्वा
तेषां जयो भविष्यति
इमे चापहर्तार आतङ्किनो
जीविता एव विधिहस्ते पतिष्यन्ति।’
अस्मादृशः कश्चनापरोऽप्यधोमुखः
एवं चिन्तयन् स्यात्।
किन्तु सर्वं तदवस्थमेवासीत्
वयं चिन्तयितुमेव क्षमाः
नास्माकं कर्मण्यधिकारः।
आतङ्किनश्च स्वमनोगतं कर्म कुर्वन्ति
चिन्तने न तेषां विश्वासः।।
(रचनातिथिः १०.७.२००६)
मातरं प्रति पुत्रस्य जङ्गमभाषसन्देशः
हलो हलो मातः
(नमो नमः)
इदानीमेव रेलयाने
भीषणो विस्फोटो जातः
बहवो मृताः,
तव स्नुषापि
मां विहाय
दिवं गता
अहमपि क्षताङ्गः, अधिकं न जीविष्यामि
बहुरुधिरं प्रवहति
तव एकमासीयः पौत्रः
दिष्ट्या जीवति
इदानीमेव मया सह परिचितः एकः सज्जनः
तव पौत्रं त्वत्सकाशं प्रापयिष्यति
इदानीमपि सज्जनाः सन्त्येव
त्वया तु जीवितव्यमेव
पौत्रस्य लालनार्थम्
नवाङ्कुरोऽयं तव वंशस्य।
पुत्रशोके मर्तुं त्वं स्वतन्त्रा नासि
नमो नमः।
(रचनातिथिः १२.७.२००६)
कवि-सहृदय-संवादः
यदहं विवक्षामि
तत् त्वं न शुश्रूषसे।
यत् तुभ्यं रोचते
तदहं वक्तुं न पारये।
बन्धो,
कवि - श्रोतृ - हृदय - संवादः
कथं भवतात्।
(रचनातिथिः १४.४.२००६)
एडिनबरा – नगरोत्तमे
तैस्तैर्विशेषैर्भूषितम्
एडिनबरा - नगरोत्तमम्।
मानवीयपुरुषार्थस्य गाथा गायत्
प्रकृतिदेव्याः प्रसादेन लसितं सत्
अद्य राजतेतराम्
कयाचिदनवद्यया प्रत्यग्रया शोभया।
अद्य एडिनबरानगरोत्तमे
संस्कृतस्य पञ्चदिवसीयं
विश्वसम्मेलनं पूर्णतां याति,
‘वसुधैव कुटुम्बकम्’ इत्यस्य
सन्देशवाक्यस्य गूढार्थोऽत्र
स्पष्टीभवति।
भवतु एकनीडं विश्वम्
परस्परमेलने बाधा
विलोपं गच्छन्तु
सर्वे विश्वकल्याणाय प्रयतन्ताम्।
(रचनातिथिः १४.७.२००६)
श्रव्येषु दृश्येषु च माध्यमेषु
स्वचित्र-वार्तानवलोकखिन्नः।
स्वाध्यायनिष्ठः श्रमसत्यसेवी
कश्चित्सुतः स्वं पितरं जगाद।।१।।
पुत्र उवाच-
“पितः कदाचिन्मम नाम-चित्रयोः
प्रकाशनं वृत्तदलेषु नाभवत्।
न चापि चर्चा मम दूरदर्शने
न कारणं तत्र मयावगम्यते।।२।।
यथा त्वयाहं विनयान्वितः कृत-
स्तथैव नित्यं सममाचराम्यहम्।
‘श्रमेण सत्येन च सिद्धिराप्यते’
दृढा ममास्था वचसीह वर्तते।।३।।
अपापठं शास्त्रचयं दिवानिशम्
अजेजयं विज्ञसभानु नैकदा।
अजोहवं यज्ञमहं यथाविधि
यशस्यमास्ते न तथापि मे कृतम्।।४।।
ग्रन्थाः प्रणीताः कतिचिन्मया पितः
पन्था सतां वै मयकानुशीलितः।
कन्था गृहीता निज कार्यसिद्धये
मन्थान एवास्मि सुशास्त्रसिन्धवे।।५।।
अवाप्नुवम् वै विविधाः प्रतिष्ठिताः
पुरस्कृतीश्छात्रसभासु नैकदा।
तथापि मे नाम विलोक्यते क्वचित्
न वृत्तपत्रे न च दूरदर्शने।।६।।
अनक्षरा ये सहचारिणो मम
प्रकाशितास्ते विविधे हि माध्यमे।
अयं सुतस्ते विनयोज्ज्वलोऽपि सन्
नितान्तमेकान्ततमःसु सीदति।।७।।
दिगम्बरप्रायविलासिनीनां
चित्राणि नित्यं प्रविलोक्य पत्रे।
विद्यापराणां खलु मादृशानां
सन्तापवृद्धिर्भवतीह नूनम्।।८।।
वने मयूरस्य हि नर्तनेन
न लाभ आस्ते जगतीह कोऽपि।
यशो न लब्धं न च कीर्तिराप्ता
धिगस्तु मे जीवनमप्रतिष्ठम्।।९।।
कमप्युपायं दिश तात येन मे
यशो दिगन्तावधिगामि जायताम्।
वदन्त्यखण्डाभिरुचिं यशस्यथो
स्वभावसिद्धं महतां सुलक्षणम्।।’’१०।।
इतीरयित्वा सुत आत्ततातपाद्
उदश्रु तस्थौ कतिचित् क्षणानि वै।
उपस्थिते संशयकल्मषे ध्रुवं
पितैव पुत्रस्य पथप्रदर्शकः।।११।।
निशम्य पुत्रस्य निवेदनं पिता
चलोऽचलोऽभूत्पविताडितो यथा।
पुनश्च तं बोधयितुं कुलाङ्कुरं
स लोककालज्ञ उवाच मर्मवित्।।१२।।
पितोवाच-
“सुवर्णपुष्पां पृथिवीं जयन्ति ये
न तेष्विदानीं कृतविद्य इष्यते।
यशोऽधिगन्तुं सुखलिप्सया वा
न सौम्य ते सन्ति गुणाः क्षमा मनाक्।।१३।।
अधीतिबोधाचरणप्रचारणै-
स्त्वया स्वविद्यापरिपोषणं कृतम्।
अनेन न स्यात्किमपि प्रकाशनं
उदन्तपत्रेऽथ च दूरदर्शने।।१४।।
न ते सकाशे धनमस्ति तादृशं
क्षमं हि यत् पत्रकृतां सुमेलने।
न चैव विज्ञापनदातृयोग्यता
कथं यशः स्यात्तव पुत्र माध्यमे।।१५।।
तथापि ते चेतसि वृत्तपत्रके
स्वचित्रवीक्षासुमनोरथो दृढः।
विहाय विद्याजनितं स्वगौरवम्
उपायमङ्गीकुरु मन्मुखोद्गतम्।।१६।।
अशिष्टतां तानय शिष्टमण्डले
प्रदर्शने तोलय हस्तमात्मनः।
स्वदस्व कामं मदिरां सकोकिनां
तदास्तु चर्चा तव वृत्तपत्रके।।१७।।
बलात्कृतिं त्वं चर दानवोचिताम्
पुनश्च हत्यां कुरुतादनागसाम्।
तथा च कृत्वापहृतीर्धनी भव
तदास्तु चर्चा तव वृत्तपत्राके।।१८।।
सुतानुजाभ्यां सह दुष्कृतिं कुरु
न लज्जितस्त्वं भव कैमरान्तिके।
स्वदेशनिन्दां कुरु वा सडिण्डिमं
तदास्तु चर्चा तव पुत्र माध्यमे।।१९।।
गृहीतशस्त्रो व्रज दस्युतामथो
शताधिकब्राह्मणमारणोद्यतः।
भव त्वमातङ्ककृतां वशंवदः
तदास्तु चर्चा तव पुत्र माध्यमे।।२०।।
विमान-रेलादिषु वाहनेषु
विस्फोट्य बम्बं तरलं कठोरम्।
गृहाण तस्योत्तरदायितां त्वम्
उदन्तपत्रेऽस्तु तव प्रकाशः।।२१।।
भव त्वमेकः प्रथितोऽथ तस्करो
भवाथ नेता जनताप्रवञ्चकः।
द्विष त्वमाहो चरितं महात्मनाम्
तदास्तु चर्चा तव पुत्र माध्यमे।।२२।।
घोटालकेतिप्रथिताभिधानकैः
त्वं चेत्प्रसिद्धोऽसि धनापवञ्चनैः।
पुत्र! प्रसिद्धिर्ध्रुवमेव ते भवेत्
वृत्तान्तपत्रेषु च दूरदर्शने।।२३।।
अथो लिख त्वं सुत! पुस्तकं नवं
प्रमाणपुष्टं न भवेत्त्वयापि यत्।
मुखेऽन्यदास्तामपरं च लेखने
तदास्तु चर्चा तव पुत्र माध्यमे।।२४।।
वन्ध्यासुतोद्वाह-नभःप्रसून-
ध्वाङ्क्षद्विजाली-शशशृङ्गरम्यैः।
वृत्तैः सुपूर्णं लिख पुस्तकं त्वम्
उदन्तपत्रेऽस्तु तव प्रकाशः।।२५।।
आरोपमारोपय लेखनैः स्वैर्
अत्युच्चकार्यालय-धुर्यवर्गे।
चित्तेऽन्यदास्तां वदने च तेऽन्यद्
ध्रुवास्तु चर्चा तव वृत्तपत्रे।।२६।।
निलम्बितः स्याः स्वदलात्कदाचन
तदा विपक्षस्थितनेतृभिः सह।
विभीषणत्वं प्रतिपालयेर्यदि
तदास्तु चर्चा तव पुत्र माध्यमे।।२७।।
समस्तवंशस्य विनाशकारको
नृशंसजीवो भव वित्तलोलुपः।
वधूप्रदाही भव यौतुकेच्छया
तदास्तु चर्चा तव पुत्र माध्यमे।।२८।।
विनानुमत्या प्रविशाथवा स्वकैः
सुहृद्भिरित्वा सह कारयात्रिभिः।
प्रधानमन्त्र्यादिनिवासनस्थलीम्
तदास्तु चर्चा तव पुत्र माध्यमे।।२९।।
यदि त्वमारुह्य नभःस्पृशं गृहं
स्वकर्णमूले निदधेर्भुशुण्डिकाम्।
ततश्च कोलाहलमातनोषि चेत्
तदास्तु चर्चा तव पुत्र माध्यमे।।३०।।
पदातियात्रा-धरना-प्रदर्शनैः
ससूचनं पुत्तलिकाप्रदाहनैः।
अभोजनोद्घोषणया च निश्चितं
तवास्तु चर्चा किल दूरदर्शने।।३१।।
अथात्मदाहं कुरु चत्वरे त्वं
मृत्तैलपात्रस्य विरेचनेन।
निर्वाचने वा टिकटं गृहाण
तदास्तु चर्चा तव वृत्तपत्रे।।३२।।
विलोक्य यन्त्रैर्बुलडोजराख्यै-
र्निपात्यमानानि गृहाणि दिष्ट्या।
लुठंस्तदग्रे किलं सावधानं
प्रकाशितः स्यास्त्वमु माध्यमेषु।।३३।।
उत्कोचलीला-तिमिरार्थसञ्चय-
स्वदेशसम्बन्धिरहस्यविक्रयैः।
तवास्तु कीर्तिश्च यशश्च सत्वरम्
उदन्तपत्रेऽथ च दूरदर्शने।।३४।।
धर्माद्धनं लब्धुमथोपदेशको
धर्मध्वजी त्वं भव नाट्यकोविदः।
विशालचन्द्रातपमध्यसंस्थितः
प्रसारणं त्वं पटलेषु लप्स्यसे।।३५।।
स्वदेश-देशान्तर-विश्वविद्या-
प्रमाणपत्राङ्कदलानि मिथ्या।
विक्रीय यद्यर्जयसीह वित्तं
ध्रुवास्तु चर्चा तव माध्यमेषु।।३६।।
अजानता वा किल जानताथवा-
पराधसाहस्रमहर्निशं त्वया।
यदि क्रियेतात्मज! तर्हि निश्चितं
तवास्तु चर्चा किल दूरदर्शने।।३७।।
श्रीदेहलीनगरपश्चिमदिग्विभागे
डिस्ट्रिक्ट सेण्टरमिति प्रथितं यदास्ते।
तत्तुङ्गशृङ्गमधिरुह्य पतेरधश्चेच्
चर्चा तदा तव भवेत्सुत माध्यमेषु।।३८।।
अवाच्यवाच्यं यदि चान्यदास्तां
तव स्मृतौ कष्टकरं जनानाम्।
उदन्तपत्रे ‘कवरेज’ माप्तुम्
अये सुत! द्रागनुतिष्ठ तत्तत्।।३९।।
उक्तेष्वनेकेषु कमप्युपायं
गृहाण सद्यो मम सौम्य पुत्रक!
सन्देहशङ्काम्बुधितारणाय
पोतीभवेदेष सुनिश्चितं मे।।४०।।
उदन्तपत्रेषु सुकर्मकारिणां
यदा कदा चित्रमपि प्रकाश्यते।
परन्त्वयं योग उपस्थितस्तदा
यदा जलप्लावनजादिसङ्कटम्।।४१।।
यद्यप्यनेकविदुषामपि नामचर्चा
सञ्चारमाध्यमगताक्षिपथं प्रयाति।
सा द्वित्रिपङ्क्तिभिरथो मरणे च तेषां
तस्मात्त्यज त्वमयि पुत्रक! वैदुषीं स्वाम्।।४२।।
यद् दुर्लभं हि कथितं नरजन्म लोके
पुस्त्वं ततश्च वसुधामरता सविद्या।
तद्ध्यद्य नास्ति विदुषे हितकारि वाक्यं
तस्माद् भजस्व सुत लौकिकतां यशस्याम्।।४३।।
अनुक्तमप्यहूति पण्डितो जनः
कृतानि पुत्रैरकृतानि पूर्वजैः।
अतः स्वबुद्ध्यापि मयोदितेतरं
यशस्यमर्थ्यं च सदा समाचर।।४४।।
उपेक्षया ते सुखमान्तरं भवेद्
उदन्तपत्रस्य, तथापि ते स्पृहा।
स्वचित्रचर्चाद्यवलोकनाय चेद्
गुरूपदिष्टं द्रुतमेव सेव्यताम्।।४५।।
करोति कश्चिद्यदि पत्रकारितां
सखा त्वदीयस्तदुपास्यतामयम्।
क्षुतं गतं किञ्च विलोकितं तव
स वृत्तपत्रेषु प्रकाशयिष्यति।।४६।।’’
(रचनातिथिः १४.८.२००७)
(ब्रह्मचारि-पञ्चदशी)
त्रिलोक्यां वसुधा धन्या तस्यां भारतमेदिनी।
हरियाणावनी तस्यां शाकाहारैः सुपुष्टिदा।।१।।
सात्त्विकं भोजनं यस्यां दुग्धाहारसमन्वितम्।
कृषिकर्मपराणां वै नृणामस्ति परं प्रियम्।।२।।
तत्र ‘जीन्दा’ भिधानेन ख्याते जनपदे स्थितः।
इंगराहाभिधो ग्रामः पुण्यग्रामविभूषितः।।३।।
तत्र कौशिकगोत्रीयः कृषिकर्मपरः सुधीः।
गौडो ‘मोहनलालो’ऽभूद्विप्रवंशावतंसकः।।४।।
‘भागवन्ती’ति विख्याता तस्य पत्नी पतिव्रता।
चन्द्राहिग्रहभूम्यब्दे (१९८१ वि.) सा सुपुत्रमजीजनत्।।५।।
‘दुनीचन्दे’ति बालोऽयं दीक्षागुरुमहात्मना।
पश्चाद् गङ्गास्वरूपेण नामान्तरमनीयत।।६।।
योऽसावाजीवनं तप्त्वा तपो ब्रह्मण्यलीयत।
तं देवेन्द्रस्वरूपाख्यं स्मरामि ब्रह्मचारिणम्।।७।।
आस्थावान् पुत्रो योऽभवद्भागवन्त्याः
दीक्षां प्राप्तो गङ्गास्वरूपाद्गुरोर्यः।
यस्योपाख्यासीद् ब्रह्मचारीति पूता
सन्तं तं देवेन्द्रस्वरूपं स्मरामि।।८।।
जातो मोहनलालनामजनकाद्यो भागवन्त्यां दुनी-
चन्देति प्रथितोऽभवत्सुचरितो यः शैशवे भक्तिमान्।
दीक्षादेशिकदत्तनाममहितो देवेन्द्रतां योऽगमत्
सोऽयं ब्रह्मपदं गतो विजयते श्री ब्रह्मचारी कृती।।९।।
भाले श्रीखण्डलेपं वपुषि हिमनिभं शुभ्रवस्त्रं दधानः
कण्ठे रुद्राक्षमालां स्मितमतिविमलं चाधरे कञ्जनेत्रः।
अन्नक्षेत्रादिसंस्था अतिकुशलतया चालयन् जीवने स्वे
श्रीदेवेन्द्रस्वरूपः परहितनिरतः स्मर्यते ब्रह्मचारी।।१०।।
यस्यां वेदोपवेदस्मृतिनिवहपुराणेतिहासा निबद्धाः
वेदाङ्गानि प्रसिद्धान्युपनिषद उत श्रव्यदृश्यप्रबन्धः।
तां गैर्वाणीं प्रशस्यां सकलजनमनःप्रीतिदां सेवमानः
श्रीदेवेन्द्रस्वरूपः परहितनिरतः स्मर्यते ब्रह्मचारी।।११।।
आहर्ता यः क्रतूनामतिविनययुतो भोजको ब्राह्मणानां
सत्कर्ता पण्डितानामतिकुशलमतिर्दीनदुःखार्तिहर्ता।
कुम्भे गङ्गास्वरूपं निजशुभचरितैः प्रीणयन् यः प्रयागे
तं देवेन्द्रस्वरूपं परहितनिरतं ब्रह्मलीनं स्मरामि।।१२।।
कण्ठे यः कालकूटं शिरसि सुरधुनीं शीतभानुं च भाले
व्यालं वक्षःकपाटे गिरिवरतनयां वामभागे दधानः।
सोऽयं यस्येष्टदेवस्त्रिपुरविजयकृद्विश्वरूपः शिवोऽभूत्
तं देवेन्द्रस्वरूपं परहितनिरतं ब्रह्मलीनं स्मरामि।।१३।।
शम्भोरंशावतारो दशमुखनगरीदाहको ब्रह्मचारी
सीताशोकापहारी गिरिवरशिखरस्थौषधावापकारी।
श्रीमान् धीमान् हनूमान् रघुपतिहृदयो यस्य चाराध्य आसीत्
तं देवेन्द्रस्वरूपं परहितनिरतं ब्रह्मलीनं स्मरामि।।१४।।
यद्यप्यासीत्स्वयं यो नियतमखपरो जङ्गमं तीर्थमेव
श्रद्धास्थासम्परीतः परमतिमहितस्तीर्थयात्रां स चक्रे।
गायत्रीजञ्जपूको जगदतिविमलः स्वैश्चरित्रैः पुनानः
श्रीदेवेन्द्रस्वरूपः परहितनिरतः स्मर्यते ब्रह्मचारी।।१५।।
(रचनातिथिः ७.९.२००६)
सुनेतृभिः कर्मकरैः कृषाणैः
सुसैनिकैर्नित्यमतन्द्रितैश्च।
सुशिक्षयोद्योगगृहैर्बुधैश्च
स्वतन्त्रदेशः सुतरां विभाति।।१।।
स्वतन्त्रनिर्वाचनसाधनेन
यथापराधं ध्रुवदण्डनेन।
सुनिश्चितेनाथ च पोषणेन
स्वतन्त्रदेशः सुतरां विभाति।।२।।
विकासकार्यैरथ वृत्तिदानैः
सुशास्त्रशस्त्राश्रमकौशलैश्च।
कलाविकासेन च देशभक्त्या
स्वतन्त्रदेशः सुतरां विभाति।।३।।
न वृत्तिकष्टैर्न च जातिवादै-
र्न धर्मविद्वेषकरैश्च कार्यैः।
न देशनिन्दाकरनिन्द्यकृत्यैः
स्वतन्त्रदेशः सुतरां विभाति।।४।।
अतः प्रयत्नेन सुरक्षणीयः
सदा स्वकार्यैः परिपोषणीयः।
स्वतन्त्रतारक्षणदक्षनॄणां
स्वतन्त्रदेशः सुतरां विभाति।।५।।
(रचनातिथिः २५.०१.२००७)
निठारी-निष्ठुरोदन्तः पुनर्नो भारते भूयात्।
मनुजता लज्जिता नैवं पुनर्मे भारते भूयात्।।१।।
यथावाच्यं यथाश्राव्यं यथाकल्प्यं कृतं दुष्टैः।
महल्लज्जास्पदं तन्नो पुनर्मे भारते भूयात्।।२।।
न कंसेनासमञ्जेनाथ न द्रोणात्मजेनापि।
तथाचरितं यथाभ्यां, तत्पुनर्नो भारते भूयात्।।३।।
‘इयं लघ्वीव घटनास्ते, धनं स्वीकृत्य तूष्णीं भव।’
इतीदृशमुक्तिशाठ्यं नो पुनर्मे भारते भूयात्।।४।।
न भूखण्डैरनुग्रहराशिभिर्वा शाम्यते नो यः।
स आत्मजशोकदाहो नो पुनर्मे भारते भूयात्।।५।।
शिशूनां विंशतेरधिकं पिशाचानां शरव्यमभूत्।
कुकृत्यं हीदृशं भूयोऽपि नो मे भारते भूयात्।।६।।
पुरा दुष्कर्म तदनु व्याहतिस्तदनु द्विधाकरणम्।
ततो नालाप्रवाहो नो पुनर्मे भारते भूयात्।।७।।
गृहे वस्त्रे तथान्ने सति यदीमे दुष्कृतिं कुर्युः।
तदैषां नारकीयाणां जनिर्नो भारते भूयात्।।८।।
इमे यदि धनबलेनादण्डिता दुष्टाश्चरिष्यन्ति।
सुशासनमेव नो दृश्यं तदा मे भारते भूयात्।।९।।
परेशांशो मनुष्यो हन्त विहितो राक्षसो येन।
असौ हिंसारसोद्रेकः पुनर्नो भारते भूयात्।।१०।।
न शालायां गता न क्रीडिता नाप्ता विकासं ये।
शिशूनां हन्त तेषां वैशसं नो भारते भूयात्।।११।।
‘परित्राणाय साधूनां’ विभागः स्थापितो येषाम्।
अकर्मण्यत्वमेतेषां पुनर्नो भारते भूयात्।।१२।।
निठारी-मुक्तसर-हत्यासु लिप्तानां पिशाचानाम्।
अवश्यं दण्डनं स्यान्नो क्षमैषां भारते भूयात्।।१३।।
न कोऽप्यस्मिन्प्रकरणे राजनीतिं क्रीडतान्नेता।
न कोऽप्यपराधिनां पक्षी समस्ते भारते भूयात्।।१४।।
यथा परुदैषमश्च श्रूयते ध्वनिरस्य काण्डस्य।
तथा कस्यापि काण्डस्य ध्वनिर्नो भारते भूयात्।।१५।।
इमे शिशवो हि लुधियाना-गुरुद्वारेषु याचन्ते।
निठारी-मुक्तसर-काण्डं पुनर्नो भारते भूयात्।।१६।।
(रचनातिथिः १८.१.२००७)
कार्तिर्के कृष्णपक्षे कुहूशर्वरी
दीपमालेति कृत्वा समामन्यते।
तत्र लक्ष्मीः समाराध्यते मानवैः
राजतां दीपमालेयमालोकिनी
मान्यतां दीपमालेयमालोकिनी।१।।
श्रीः समाराधिता स्यान्मनुष्यैः समै-
र्नाशिता स्यादलक्ष्मीः समेषां गृहे।
जीवनं कर्मठं स्यात्समेषां सदा
मान्यतां दीपमालेयमालोकिनी।। २।। राजतां......
दुःखदारिद्र्यरोगप्रवृद्धं तमो
नैव कुत्रापि दृश्येत भूमौ प्रभो!
सन्तु सर्वत्र सर्वे सदानन्दिताः
राजतां दीपमालेयमालोकिनी।। ३।। मान्यतां......
भ्रातृभावेन सत्यश्रमाभ्यां तथा
लोकसेवाव्रतं पाल्यतां मानवैः।
अन्धकारं निराशाप्रसूतं दृढं
ध्वंसयेद्दीपमालेयमालोकिनी।। ४।। मान्यतां......
मानसे मानसे नित्यमाशामयै-
र्दीपकैः सुप्रकाशः सदा कीर्यताम्।
द्वेषमुत्सार्य प्रेमव्रतं पाल्यतां
मान्यतां दीपमालेयमालोकिनी।। ५।। राजतां......
क्षुद्रभावान् भृशं तर्जयन्ती नृणाम्
सौमनस्यं तथौदार्यमातन्वती।
अन्धकारात्प्रकाशं नयन्ती जगत्
राजतां दीपमालेयमालोकिनी।। ६।। मान्यतां......
स्वर्ण-दुर्वर्ण-रत्नैस्तथा धातुभिः
सर्वनॄणां समृद्धिः सदा जायताम्।
अन्नवासोगृहै कार्यवृत्त्या जनान्
मोदयेद्दीपमालेयमालोकिनी।। ७।। मान्यतां......
सन्ततं यत्तमोऽज्ञानरूपं क्षितौ
ध्वंसयेद्दीपमाला तदालोकिनी।
दुःखदारिद्र्यमस्त्यन्धकारः परो
नाशयेद्दीपमाला तमालोकिनी।। ८।। राजतां.......
कर्षकैरात्मघाताः क्रियन्ते हहा
तत्सुताः पीडिताः क्रन्दनं कुर्वते।
तान् समृद्धया श्रिया किञ्च पुष्ट्या भृशं
सान्त्वयेद्दीपमालेयमालोकिनी।। ९।। मान्यतां........
ये बुभुक्षा-पिपासार्दिता मानवाः,
भैक्ष्यवृत्तिं श्रिता दीनदीनाः स्थिताः।
अन्नपानादिना कार्यवृत्त्या च तान्
पालयेद्दीपमालेयमालोकिनी।। १०।। राजतां......
यद्बलात्कार-हिंसा-वधूदाहजं
यच्च नव्यापराधप्रसूतं तमः।
क्रोधलोभोद्भवं कामजं यत्तमो
लोपयेद्दीपमाला तदालोकिनी।। ११।। मान्यतां......
लोकसंमूढतायास्तमश्चातुरी-
पूरितैर्नेतृभिस्तन्यते यत् क्षितौ।
तत्तमो दारयेन्नैजदीप्रप्रभा-
लोकनैर्दीपमालेयमालोकिनी।। १२।। मान्यतां.....
आत्मघाताक्रमैर्बम्बविस्फोटनैः
क्रूरकृत्यैश्च यैर्यैर्जगत्त्रास्यते।
भद्रमार्गं च तांस्तान् सकारात्मकं
दर्शयेद्दीपमालेयमालोकिनी।। १३।। राजतां......
मार्गयेन्मङ्गलं सर्वनॄणां कृते
सर्वहृद्भ्यो निराशाश्च निःसारयेत्।
अर्थयेद्वै समृद्धिं समेषां नृणां
राजतां दीपमालेयमालोकिनी।। १४।। मान्यतां....
घ्रापयेद्वै सुगन्ध्ं जनान् सर्वदा
श्रावयेद् भद्रभद्रांश्च शब्दान् जनान्।
दर्शयेद् भद्रभद्राणि दृश्यानि नॄन्
उल्लसेद्दीपमालेयमालोकिनी।। १५।। राजतां.....
गापयेद् भद्रगीतानि लक्ष्म्या जनैः
दापयेत् मङ्गलाशाः समेभ्यः समैः।
हापयेदन्धकारं दुराशाकृतं
दीपकैर्दीपमालेयमालोकिनी।। १६।। मान्यतां....
नोऽपघाता जनान् बाधयेयुः क्षितौ
आसुरी शक्तिरास्तां न चोत्कर्षिणी।
दम्भदर्पाभिमानोन्नतिर्नो भवेद्
उल्लसेद्दीपमालेयमालोकिनी।। १७।। राजतां.....
अस्तु लक्ष्म्याः प्रसादः समेषां कृते
कोऽपि रोगी दरिद्रो न दीनो भवेत्।
कायिकीं वाचिकीं मानसीं स्वस्थतां
वर्धयेद्दीपमालेयमालोकिनी।। १८।। राजतां.....
अस्तु कारुण्यलक्ष्मीः प्रसन्ना शुभा
आत्मतन्त्र्यस्य लक्ष्मीः प्रसन्ना भवेत्।
साहसश्रीः प्रसन्ना जनान् प्रीणयेत्
मान्यतां दीपमालेयमालोकिनी।। १९।। राजतां.....
कोऽपि न स्याज्जगत्यां बुभुक्षापरः
कोऽपि न स्याज्जगत्यां च वृत्तिं विना।
कोऽपि न स्याच्च दीनोऽथ भीतः क्षितौ
मान्यतां दीपमालेयमालोकिनी।। २०।। राजतां.....
सन्तु सर्वे समेषां सहायाः सदा
वैरभावं परित्यज्य मैत्रीं श्रिताः।
स्युर्नरोऽन्योऽन्यमाङ्गल्यरक्षापरा
मान्यतां दीपमालेयमालोकिनी।। २१।। राजतां......
स्युः प्रजातन्त्ररक्षापरा मानवा
मानवा रक्षिताः स्युर्जगत्यां सदा।
प्राणिमात्रे दयावान्नरो जायताम्
मान्यतां दीपमालेयमालोकिनी।। २२।। राजतां......
यत्र यत्रान्धकारस्य सत्ता भवेत्
तत्र तत्र प्रकाशो जयेत् कान्तिदः।
स्यान्निराशा जिता नित्यमेवाशया
मान्यतां दीपमालेयमालोकिनी।। २३।। राजतां......
मानसे मानसे भावना पावनी
स्यान्न चित्तेऽस्तु कस्यापि दुर्भावना।
सौमनस्यं तथा भ्रातृभावं नृणाम्
वर्धयेद्दीपमालेयमालोकिनी।। २४।। मान्यतां......
(रचनातिथिः ८.११.२००७)
पश्यन् पृथ्वीं गगनपथतो रामसीतामिषेण
शृण्वन् केकाममितसुखदां षड्जसंवादिनीं च।
वैचित्र्यं भूगतमति मुदा वर्णयन् मेघदूते
कालातीतः कविकुलगुरू राजतां कालिदासः।।
काले काले भवतु सुखदा वृष्टिरस्मद्धरायाम्
सर्वो दुर्गं तरतु सकलो भद्रमाप्नोतु लोकः।
इत्थं काङ्क्षन् सकलजनतामङ्गलं स्वीयकाव्ये
चित्ते चित्ते कविकुलगुरू राजतां कालिदासः।।
एकत्रास्ते भरतजननी विप्रलब्धा स्वभर्त्रा
तेजोमूर्तिर्लवकुशसुताऽन्यत्र सीता विभाति।
सिञ्चन्त्यास्तेऽपरत इह सा पादपान् शैलकन्या
रम्यैः काव्यैः कविकुलगुरू राजतां कालिदासः।।
साक्षाद् दृश्यं प्रणतसुखदं वन्दमानोऽष्टमूर्तिम्
ग्रथ्नन् काव्ये शुभहिमनगं कीर्तयन् रामसेतुम्।
गृह्णन् पक्षं सकलजनताशाठ्यहीनप्रवृत्तेः
अस्मत्पूज्यः कविकुलगुरू राजतां कालिदासः।।
(रचनातिथिः १७.१.२००८)
प्रिय इति कांग्रेसदलं वामदलं शत्रुरिति च यं मनुते।
परमाण्वनुबन्धोऽसौ दले दले स्फूर्तिमातनुते।।१।।
केचित्काङ्क्षन्ति जनाः समर्थनेनास्य शासने भागम्।
केचिद्देशहितार्थं समर्थनं चास्य कुर्वन्ति।।२।।
कश्चित्पतनं काङ्क्षति दलस्य सत्ताधिरूढस्य।
शक्तिपरीक्षणकाले सदने, पश्यन् दिवास्वप्नम्।।३।।
‘त्वं यासि? याहि, कश्चित् प्रियं विधातुं ममायास्यति।’
रुष्टान् वामदलीयानित्युक्त्वा नानुनयतीयम्।।४।।
रिपवो जाताः सुहृदः, सुहृदो जातास्तथा रिपवः।
परमाण्वनुबन्ध! कृतो भवता कोऽयं चमत्कारः।।५।।
आरुषिहत्याकाण्डं महर्घतातङ्कवादश्च।
तव सम्मुखे प्रयातास्तूष्णीम्भावं च खर्वत्वम्।।६।।
वृत्तपत्रमुखपृष्ठे प्रमुखस्त्वं दूरदर्शने चैव।
अणोरणीयान् महतो भासि महीयांस्तथाद्यत्वे।।७।।
परमाण्वनुबन्धे त्वय्युदिते सञ्चारमाध्यमाकाशे।
बालीवुड-हालीवुड-शेयरवार्ताः क्व तिष्ठन्ति।?।।८।।
अपहृति-दुष्कृति-हत्योकोचक्रीडा-समाचाराः।
त्वयि तिष्ठति पठ्यन्ते परमाण्वनुबन्ध नो कैरपि।।९।।
मनमोहन-बुशयोस्त्वं यशःपताकास्वरूपोऽसि।
पश्यामस्त्वां रक्षति सदने कः को महावीरः।।१०।।
(रचनातिथिः १४.७.२००८)
परमाण्वनुबन्ध जितं बाणर्षिनयन (२७५) मतावाप्त्या।
भवता, रूप्यककोटिः प्रदर्शिता सदनपटले च।। १।।
श्रीसोमनाथनामा लोकसभाध्यक्षपदमलङ्कुर्वन्।
स्वाशीतिवयसि सहते स्वदलान्निष्कासनं भवत्कृपया।। २।।
निष्कासिताः स्वदलतो विभीषणाः सप्त ते कृपया।
स्वगृहे प्रस्तरपातं प्रदर्शनं ते सहन्तेऽद्य।। ३।।
कश्चिन्मन्त्रिपदाशाविमोहितो नयति कालं स्वम्।
‘आशा हि बलवती’ति स्मरणं सूक्तेर्हि कुर्वाणः।। ४।।
कस्याश्चिच्चाकाङ्क्षा प्रधानमन्त्र्यासनं लब्धुम्।
हन्त! न सफलीभूता परमाण्वनुबन्ध! ते कृपया।। ५।।
ये चेदानीं यावच्छासनसञ्चालका मता आसन्।
क्रोधक्षोभविमूढास्ते निर्वीर्या इवाभान्ति।। ६।।
प्रतीयते त्वन्मार्गो निष्कण्टक एव सञ्जातः।
अधुना त्वां को रोत्स्यति सदनेऽथ बहिश्च हे बन्धो।। ७।।
तैस्तैर्दलैर्न किं किं वाचिकमाङ्कमथाहार्यम्।
नाट्यं तथा च सात्त्विकमाचरितं त्वामपाकर्तुम्।। ८।।
किन्त्वासीत्ते भाग्यं प्रबलमतस्ते जयो जातः।
साम्ना दानात् भेदाद् विरोधिनो निष्प्रभा जाताः।। ९।।
तमसो नो ज्योतिर्नय विद्युच्छक्तिं प्रयच्छ देशाय।
यथा प्रसिद्धिं नीतस्तथैव सिद्धो भवान् भवतात्।। १०।।
त्वमसि चिरञ्जीवी वै मा भूयाः ‘एनरान’वद् बन्धो!
स्वप्नान् यान् दर्शितवाँस्तान् पूरय शुद्धमनसा त्वम्।। ११।।
अस्माकं नेतारो यूरेनियमाश्रितं यदीच्छन्ति।
परमाणुतापगेहं पूरय तेषां मनोरथं बन्धो।। १२।।
अस्मद्देशे प्रचुरा थोरियमस्योपलब्धिरस्ति परम्।
तदाश्रितं तापगृहं ते निर्मातुं न हीहन्ते।। १३।।
अधुना त्वमेव सूर्यः सोमः पवनश्च तेषामसि।
बुश-मनमोहन-काले स्वीयां पुष्टिं भवान् कुरुतात्।। १४।।
चटका स्वर्णस्यासीदस्ति भविष्यति च भारतभूः।
त्वत्कृपयाऽन्ये देशा अस्याः स्वर्णं जिघृक्षन्ति।। १५।।
(रचनातिथिः २४.७.२००८)
विद्वांसः सम्मिलिता धर्मक्षेत्रे कुरुक्षेत्रे।
समुपासितुं प्रयासैर्निजैर्निजैः प्राच्यविद्यामिह।। १।।
एकनीडमिव जातं धर्मक्षेत्रं कुरुक्षेत्रम्।
नाना-स्थान-समागत-विद्वत्कविभिर्द्विजैर्लसितम्।। २।।
चतुस्त्रिंशदब्दानां पूर्तौ सम्मेलनं पुनरपि।
अत्रायोजितमास्ते वन्द्यायाः प्राच्यविद्यायाः।। ३।।
प्राच्यां विद्यां पठिता अद्यत्वे मार्जनी-कर्म।
कृत्वा भोजनमाप्तुं समुत्सुकाः कर्णपुरनगरे।। ४।।
शास्त्री-विद्यावारिधिसदृशोपाधिभरलङ्कृता विबुधः।
जठराग्नेः पूर्त्यर्थं बहुकर-कर्माप्तये सोत्काः।। ५।।
विनयाधान-सुरक्षा-भरणात्मककर्म नो कुरुते।
केन्द्रीयं प्रान्तीयं शासनमद्यात्मरक्षणायोत्कम्।। ६।।
प्राच्यसुविद्याधारी समुचितवृत्त्यात्मनिर्वाहम्।
कर्तुं लभतामवसरमित्यर्थमुपाय आराध्यः।। ७।।
सम्मेलनमिदमुचितां दिशं प्रदर्शयतु देशाय।
नो दुर्गता भवेयुर्यथाप्तविद्या युवानो वै।। ८।।
(रचनातिथिः २७.७.२००८, कुरुक्षेत्रे)
कुरुक्षेत्रमशकस्य स्नेहः किमिव प्रकाशनीयः स्यात्।
यः सद्य एव दूरादागतमतिथिं परिष्वजते।। १।।
कौशल-सी.डी.एसो जयतान्मे मित्रमुत्तमं युवकः।
येनास्मि रक्षितोऽहं मशकानां दंशतो रात्रौ।। २।।
(रचनातिथिः २९.७.२००८)
नाना-प्रसून-कलिकासु मुदा मिलिन्दः
कृष्णोऽपि रक्त-मनसा भ्रमिमातनोति।
सत्यं वदन्ति कवयो ‘नहि चञ्चलानां
काऽपि स्थितिः सुरुचिरा भवतीह लोके’।।१।।
एकां निपीय सरसां सुरसाञ्च रम्यां
भूयो भ्रमन् कुसुमिता समुपैति वल्लीम्।
तृप्तिं न पश्यति तथाऽपि क्वचिन् मिलिन्दः
स्वीयां रतिं प्रशिथिलां प्रदिशन् वराकः।।२।।
वृत्तिः स्थिरा न भवति क्वचिदत्र लोके
दुर्वासना-कलित-चञ्चल-मानसानाम्।
पश्याऽधुना नव-रसां कलिकां पिबन्तो
हा हन्त! तूर्णमपरां भ्रमरा भजन्ते।।३।।
दुर्वृत्त-रीति-कलिता विषयाऽनुरक्ताः
सक्ताः परत्र न कदापि सुखं लभन्ते।
एते हि चञ्चल-हृदो ननु चञ्चरीका
नैकां भजन्ति कलिकां परितो भ्रमन्तः।।४।।
विश्वास एव नहि चञ्चल-सौहृदानाम्
अत्युत्तमेष्वपि गुणेषु जनैर्विधेयः।
एकां विहाय रसगन्ध-युतां सुरम्यां
मूढाः पिबन्ति कलिकामपरां मिलिन्दाः।।५।।
सर्वत्र सम्मद-विनोद-रसाऽभिमृष्टा
धृष्टा भ्रमन्ति मधुपाः कलिका-कुलेषु।
एकां नवामपि रसाऽऽप्लुत-काम्य-कायाम्
मूढाः पिबन्ति कलिकामपरां मिलिन्दाः।।६।।
कस्याऽप्यमी न हि भवन्ति चलस्वभावाः
भावाऽवबोध-विधुरा मधुरा जगत्याम्।
यस्मादिमामभिनवामपि काम्यवर्णाम्
एते निपीय कलिकां भ्रमराः प्रयान्ति।।७।।
जानन्त्यमी पर-गुणं मधुपा न मत्ता
आस्वादिताऽभिनव-सौरभ-पुष्प-लाभाः।
एकां विहाय कलिकामपरां भजन्तः
पुष्णन्ति निन्दित-चरित्र-ततिं स्वकीयाम्।।८।।
‘‘पीत्वा रसं नव-सुधा-मधुरं मदीयं
कुत्र प्रयासि? वद सत्यमये मिलिन्द!
मालिन्यमेव वपुषो मनसश्च तेऽत्र
जानेऽधुने’’ति कलिका विललाप काऽपि।।९।।
‘‘गुञ्जन् मिलिन्द! परिचुम्बितवानसि त्वं
यामात्मनो रसिकता-प्रमुखैर्गुणौघैः।
तामेव सम्प्रति विहाय गतो यदन्याम्
किं वोचितं तव तथे’’ ति जगाद काऽपि।।१०।।
बालामसीम-रस-राशि-युतां जना ये
स्वीयैर्वचोभिरमितैः परिलोभयन्ति।
ते सत्यमेव परकीय-गुणाऽनभिज्ञा
निन्द्या भवन्ति सुचिराय मिलिन्द! विद्धि।।११।।
(रचनातिथिः १९६१)
आशा मरणासन्नं पुरुषं स्पृष्ट्वा जिजीविषुं कुरुते।
किंकर्तव्यविमूढं लक्ष्याप्त्यै प्रेरयत्याशा।।१।।
अन्धं तमो निराशा, दिनमणिराशा जगद्धात्री।
यत्रालोकं विकिरति तत्रोल्लासो नरीनृत्यति।।२।।
आशा धन्वनि मधुरं जलं पिपासाहरं भवति।
आशा महासमुद्रे पतितस्य कृते भवति पोतः।।३।।
‘‘आशा परमं दुःखं’’ भणितं येनास्ति नो स सुविवेकी।
नीरसजीवनभारं निराशलोका वहन्ति पृष्ठेन।।४।।
गिरिलङ्घनमतिकठिनं यदा विजानाति पर्वतारोही।
आशा तदा तदीयां द्रढयत्युत्साहभावनां त्वरितम्।।५।।
‘‘आगच्छत्यागच्छन्नास्ते प्रेयान् ममायास्यति।’’
इत्याशया विरहिणी नीरसरजनीं नयत्यखिलाम्।।६।।
‘‘सर्वोऽपि जनो यस्मिन् कार्यरतः स्वावलम्बी स्यात्।
कालः स नूनमायास्यत्या’’ शेयं सदा जयति।।७।।
‘‘अहमेव प्राथम्यं स्पर्धायां धावनस्य लप्स्ये वै।’’
क्रीडाङ्गणे प्रधावत्याशाकान्ताप्रचोदितो युवकः।।८।।
‘‘द्रष्टुं मामागच्छति सुरूपयुवकोऽद्य स्वीकरोतु स माम्’’।
इत्याशयाद्य सज्जा वरार्थिनी स्वेष्टदेवतां स्तौति।।९।।
‘‘भण भो गणक! कदा मे प्रेयान् गृह्णाति मे पाणिम्?’’
‘‘अग्रिमवर्षे’’ श्रुत्वोत्तरमाशापूरिता बाला।।१०।।
‘‘जाने, पराजितोऽहं पूर्वं निर्वाचने स्वचरितेन।
आयत्यां विजयी स्याम्’’ नेतारं प्रेरयत्याशा।।११।।
‘‘अनधिकृता नो वसतिर्निर्वाचन आगते नूनम्।
स्यादधिकृते’’ ति चित्ते लोका आशां सुपुष्णन्ति।।१२।।
‘‘देशो मे स्वातन्त्र्यं प्राप्स्यति नूनं बलिप्रदानेन।’’
इत्याशया हुतात्मा मृत्योः पाशं गले धृतवान्।।१३।।
‘‘मम मृत्युदण्ड आजीवनकारावासदण्डतामेष्यति।’’
इत्याशयापराधी काराकष्टं मुदा सहते।।१४।।
‘‘क्रोडे क्रीडिष्यति मे स्तनन्धयः पूरिते काले।’’
इत्याशया प्रसूः स्वं गर्भं पालयति नव मासान्।।१५।।
‘‘विद्यालये पठित्वा योग्यः सन् लप्स्यते वृत्तिम्।’’
इत्याशया पिता स्वं पुत्रं विद्यालयं नयति।।१६।।
‘‘दास्यत्ययं मुखाग्निं मेऽन्त्येष्ट्यां दुर्विनीतोऽपि।’’
इत्याशयास्य सहते सुतस्य जनकः कुचरितानि।।१७।।
‘‘काश्यां मरणान्मुक्तिर्मे भविते’’ त्याशया रोगी।
मरणोत्सवं स्वकीयं द्रष्टुं गङ्गातटे वसति।।१८।।
‘‘अशरणशरणो भगवान् मयि करुणां स्वां विधास्यती’’ त्याशा।
त्यक्ताशेषपरिग्रहमिमं जनं योजयति भक्त्याम्।।१९।।
‘‘श्रीवेङ्कटेशदर्शनमाप्त्वा सौख्यं प्रपद्येऽहम्।’’
इत्याशयैव भक्तो दीर्घाध्वानं विलङ्घयति।।२०।।
‘‘लप्स्यामहे ऽतिपुण्यं माघे गङ्गाजले स्नात्वा।’’
इत्याशयातिशैत्ये व्रजन्ति कुम्भे जनाः स्नातुम्।।२१।।
दिगम्बराः श्रमणा अपि तपन्ति घोरं तपोऽविरतम्।
कैवल्याशापूरितचित्ता गिरितुङ्गशृङ्गेषु।।२२।।
यश्च निराशीर्यतचित्तात्मास्ते कोऽपि लोकेऽस्मिन्।
सोऽपि परेशावाप्तेराशां नो त्यजति मुनिकल्पः।।२३।।
‘‘कुसुमलता निष्पत्रा कण्टकिनी नीरसा हन्त!
कदापि सरसा भविते’’ त्याशाश्वासयति रोलम्बम्।।२४।।
आत्मघातमिह कर्तुं सज्जीभूतं जनं निवारयितुम्।
धृत्वा किमपि सुरूपं द्रागेवाविर्भवत्याशा।।२५।।
‘‘आशा बलवत्यास्ते’’ व्यासोक्तमिदं वचोऽवधार्यं वै।
नैराश्यं कूहास्ते तद्भञ्जकरविरिहास्त्याशा।।२६।।
‘‘वर्ष्मणि वार्धक्यं ते!’’ ‘‘का हानिस्तेन मे भवति?
अहमुपदेष्टा नॄणां जातोऽहं न त्यजाम्याशाम्’’।।२७।।
‘‘आशा नाम नदी’’ति प्रोक्ता हरिणा, भवति सत्यम्।
किन्तु न तस्याः पारं कोऽपि जनो जगति यातोऽस्ति।।२८।।
अथ यद्याशासरितः पारं कोऽपीह गच्छति महायोगी।
अलौकिकः सोऽस्ति जनो लोकेनास्ते न तस्य सम्बन्धः।।२९।।
आशापाशशतैर्ये बद्धा नैवासते लोकाः।
लक्ष्यभ्रष्टा इव ते कर्तुं नो किमपि वाञ्छन्ति।।३०।।
यो जायते हताशो जिजीविषा तस्य जायते क्षीणा।
यो जायते निराशस्तस्योत्साहोऽपि तं त्यजति।।३१।।
दृष्ट्वा ज्वालामुखिनः स्फोटं भूकम्पताण्डवं दृष्ट्वा।
वह्नि-सुनामी-झञ्झोत्पातं दृष्ट्वापि नो बिभेत्याशा।।३२।।
सृष्टिस्थितिलयचक्रं सदातनं भ्रामयत्याशा।
सैवास्ते प्रभुमाया सैवास्ते जीवनालम्बः।।३३।।
‘‘वर्षचतुर्दशकालं नीत्वा विपिने ससीतसौमित्रिः।
आयास्यति मे तनयो रामोऽयोध्यां यथाकालम्’’।।३४।।
इत्याशयैव जीवति कौसल्या पतिविहीनापि।
साकं सुमित्रयाथो कैकेय्या तत्सुताभ्याञ्च।।३५।।(युग्मकम्)
‘‘दुःशासनस्य रुधिरं पास्यति भीमो यथाप्रतिज्ञातम्।’’
इत्याशयापमानं पीत्वा कालं नयति कृष्णा।।३६।।
‘‘नूनमयं जीविष्यति दिव्या वाग्भणितवत्येवम्।’’
पुण्डरीक-जीवातोराशां कुरुते महाश्वेता।।३७।।
कृच्छ्रं तपो विधेयं प्रेत्यानन्तं सुखं भवेद्येन।
क्षुद्रान् कामांस्त्यक्त्वा तपति तपो ब्राह्मणः कृच्छ्रम्।।३८।।
‘‘परलोको मे भवतात् सुखपूर्णः क्लेशलेशरहितश्च।’’
इत्याशया तपस्वी त्यजति समान् लौकिकान् कामान्।।३९।।
‘‘अजरामरवद्विद्योपासननिष्ठो लसिष्यामि।’’
इत्याशया स्वगेहे ग्रन्थान् विविधांश्चिनोत्ययं प्राज्ञः।।४०।।
‘‘वार्धक्ये मम रचना स्वान्तःसुखदायिनी भविता।’’
इत्याशया कविः स्वां कवितां ध्वन्यङ्कितां कुरुते।।४१।।
‘‘कश्चिच्छ्रोष्यति काव्यं मदुपज्ञं सहृदयश्रेष्ठः।’’
इत्याशयैव रचयति निर्णिद्रः सन् कविः काव्यम्।।४२।।
‘‘मय्युपरतेऽपि कश्चित्त्ववश्यमेषां फलानि खादिष्यति।’’
इत्याशयैव वृद्धः खर्जूरान् रोपयति विज्ञः।।४३।।
‘‘वर्षायास्यति काले क्षेत्रेष्वन्नं भवेत्प्रचुरम्।’’
इत्याशया निदाघं सहते कृषकः सपरिवारः।।४४।।
‘‘मम पितरौ मे भोजनमानेतुं प्रातरेव गतवन्तौ।
यथासमयमायास्यत’’- आशेयं खगसुतं हि पुष्णाति।।४५।।
‘‘अद्यालम्भ्यपमानं हन्त विपश्चित्सभामध्ये।
सम्मानो मे भविता भूयोऽपी’’यं जयत्याशा।।४६।।
आशा बन्धो वा स्यादाशा पाशोऽथवा भवतात्।
आस्तामाशा वायुर्वाशास्ते जीवनालम्बः।।४७।।
विफलीभूतैश्छात्रैः कदापि हेयास्ति नैवाशा।
आगामिनी परीक्षा तेभ्यो दास्यति समधिकाङ्कान्।।४८।।
‘‘जन्मदिनं मम सम्मानयितुं दूरादुपैति मे कान्तः।’’
इत्याशयाद्य तरुणी मुदिता मुदिता भ्रमति गेहे।।४९।।
ईश्वरकरुणावाप्तेराशा त्याज्या न मनुजेन।
आशा नो हातव्या स्वोत्कर्षस्याथ केनापि।।५०।।
क्षुद्राणां कामानां पूर्तेराशा न कर्तव्या।
किन्तूदात्तोद्देश्यप्राप्तेराशा तु करणीया।।५१।।
आशा स्पृशति जनं यं स हि मनुजः सुन्दरो भवति।
आशा त्यजति जनं यं तस्यास्ते जीवनं व्यर्थम्।।५२।।
आशा न परमदुःखं सुखार्जनस्यास्ति मूलमियम्।
छिन्ने मूले न स्यात् पत्रं पुष्पं तथा च फलम्।।५३।।
अहमस्म्याशावादी सास्ते मे प्रेरणादात्री।
नैवापयातु सा मे हृदयात्सञ्जीवनी शक्तिः।।५४।।
आशाभङ्गो मास्तां कस्यापि जनस्य परमेश्वर।
इति याचे त्वां विनतः आशां मे त्वं प्रभो पूरय।।५५।।
(रचनातिथिः २४.१२.२००८)