महामहोपाध्यायश्रीगोकुलनाथविरचितं
शिवशतकम्
विद्यावतीसुतरमाकान्तप्रणीतया पदार्थप्रकाशिकाख्यव्याख्ययाभाषानुवादेन च सनाथितम् रमाकान्तपाण्डेयप्रणीता
पदार्थप्रकाशिका
महाविद्यो मातर्निगमरसपानेऽतिनिपुणो
जगत्यां विख्यातश्शिवशतककृद्गोकुलकवि:।
अयं तस्य ग्रन्थे लिखति नवटीकां तव पदं
रमाकान्तो ध्यायन् विमलवसने! वर्धय धियम्।।१।।
नितान्तं गूढेयं दृढकुचतटा गोकुलगवी
न तस्या आभोगे प्रभवति रसं पातुमखिलम्।
सुतस्ते कान्तोऽसौ जननि! मृदुवक्त्रो मृदुकल:
न किं त्रस्तं पुत्रं दिशसि शिवतन्त्रं विधिसुते!।।२।।
यस्य वाच:परिस्पन्दे शिवोऽपि स्पन्दते स्वयम्।
गोकुलं तं कविं वन्दे सर्वशास्त्रविशारदम्।।३।।
मान्यो मनीषिणां राधावल्लभो यो विराजते।
गुरुं तं नौमि विद्यासु गतिर्येन प्रवर्तिता।।४।।
रमाकान्तेन बद्धेयं पदार्थानां प्रकाशिका।
गोकुलस्य कवेर्वाचामर्थजातं प्रकाशयेत्।।५।।
(१)
विततविविधसम्प्रदायशाख -
व्यतिकरवेष्टितमूर्तये नमोऽस्तु।
बहुतरजगदण्डबीजपूर-
प्रसवफलेग्रहिपादपाय तुभ्यम्।।
अन्वय:-विततविविधसम्प्रदायशाखव्यतिकरवेष्टितमूर्तये बहुतरजगदण्ड- बीजपूरप्रसवफलेग्रहिपादपाय तुभ्यं नम: अस्तु।
पदार्थप्रकाशिका - काव्यं न केवलं यश:प्रभृतिप्राप्तयेऽपितु शिवेतर-निवारणपुरस्सरं स्वेष्टार्चनद्वारा तत्परमपुरुषार्थभूतमोक्षप्राप्तयेऽपि भवति। शिवेतरक्षतिरिति कथनेन नित्यसुखात्मकस्य भगवत्सङ्गतिरूपमोक्षस्य लाभ एव फलतो मनीषिणां काव्यशास्त्रविदामभिमत:। स च मोक्षलाभ: शतकस्तोत्रादिपाठेन सम्भवत्येवेति पुराणादिप्रमाणसिद्धम्। अतश्च शतशलोकेषु स्वेष्टं शिवं स्तोतुकामस्तत्रभवान् सर्वतन्त्रस्वतन्त्रो महामहोपाध्यायो गोकुलनाथो वक्ति- विततेति- विततविविधसम्प्रदायशाखव्यतिकरवेष्टितमूर्तये, सम्प्रदाया एव शाखा इति सम्प्रदायशाखा:, वितता व्याप्ता विस्तृता वा विविधा अनेका: सम्प्रदायशाखा यस्य स विततविविधसम्प्रदायशाख:, भगवान् वेद:। तेषां वेदानां व्यतिकरेण समूहेन, ऋगादिवेदैस्तेषां शाखाभिश्च वेष्टिता आच्छादिता मूर्तिर्यस्य स विततविविधसम्प्रदायशाखव्यतिकरवेष्टितमूर्ति:, तस्मै। वेदस्य विविधशाखाभि: प्रशाखाभिश्च वर्णविषयत्वेन अङ्गीकृतशरीरायेत्यर्थ:। शाखाशब्दोऽत्र समस्तामपि वैदिकवाङ्मयीं सृष्टिमात्मसात्करोति। बहुतरजगदण्डबीजपूरप्रसवफलेग्रहिपादपाय, बहुतराणां जगदण्डानां ब्रह्माण्डानां बीजपूराणां बीजकोशानां प्रसवे जनने फलेग्रहिपादपाय सफलवृक्षाय। 'स्यादबन्ध्य: फलेग्रहि:’ इत्यमर:। तुभ्यं वेदब्राह्मणारण्यकोपनिषदादि-ग्रन्थप्रतिपाद्याय नानाब्रह्माण्डानां जननहेतुभूतानि यानि बीजानि तेषां धारकाय फलवते वृक्षाय नमोऽस्तु। तादृशवृक्षस्यैकस्मिन्नेव फलेऽसंख्यब्रह्माण्डबीजानि सन्ति। का कथा विविधशाखाप्रशाखालग्नफलानाम्।
वस्तुतोऽत्र सम्प्रदायशाखा इत्येवोचित: पाठ: प्रतिभाति। वैदिकतान्त्रिकादिषु वैष्णवानां शैवानां वा सर्वास्वपि सम्प्रदायशाखासु शिवस्य प्राधान्यात्। तथात्वे न केवलं वैदिकसम्प्रदायशाखा अपितु तद्भिन्ना अपि विवक्षिता इति बोद्ध्यम्। अमृतोदये 'विषमनिगमकाननान्तशाखा’ इति पाठ:।
पुष्पिताग्रावृत्तम्। तथा च तल्लक्षणम्-
''अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’’।।१।।
अनुवाद - विविध सम्प्रदायों के रूप में जिनकी शाखाएं फैली हैं उन वेदों के समूह से जिनकी मूर्ति आच्छादित है, अनेक ब्रह्माण्डों के बीजकोशों के प्रसव में सफल पादप (वृक्ष) उस शिव को मेरा नमस्कार है।
(२)
न धरणिसलिलानला न वायु-
र्न खमत एव न खानि नापि वर्ष्म।
न समयककुभौ न चिन्न चित्तं
पुरुषपुरन्दर! पूरुषस्तवास्मि।।
अन्वय: - हे पुरुषपुरन्दर! (अहम्) धरणिसलिलानला न, वायु: न, खं न, अत एव खानि अपि न, वर्ष्म न, समयककुभौ न, चित् न, चित्तं न (अस्मि), (अहं) तव पूरुष: अस्मि।
पदार्थप्रकाशिका - न धरणीति- हे पुरुषपुरन्दर! पुरुषेषु पुरन्दर: श्रेष्ठ: पुरुषपुरन्दर:, तस्य सम्बोधने। 'पुरुषस्त्वात्मनि नरे पुन्नागे च’ इति हैम:। धरणिसलिलानला, धरणिश्च सलिलं च अनलश्चेति धरणिसलिलानला:, पृथ्वीजलाग्नय:। न, नास्मि। अहं गन्धरहितत्वात् पृथ्वी नास्मि, शीतस्पर्शवत्त्वाभावात् जलं नास्मि, उष्णवत्त्वाभावाद् अग्निरपि नास्मि। न वायु:, स्पर्शरहितत्वान्न पवन: अस्मि। खम् आकाश: अपि नास्मि, अशब्दगुणवत्त्वात्। अत एव पञ्चभूतगुणानां ग्राहकत्वाभावात् न खानि इन्द्रियाणि। 'खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्’ इति मेदिनी। इन्द्रियाणि अपि नास्मीत्यर्थ:। इन्द्रियाणि पृथिव्यादिगुणानां ग्राहकाणि भवन्ति। न अहं तथेति भाव:। वर्ष्म शरीरं न, शरीरस्य पञ्चभूतविकारत्वात्। अथवा अहं त्वदंशभूतोऽविनश्वर आत्मा, अतो न शरीरम्, तद्विनाशित्वात्। 'वर्ष्म देहप्रमाणयो:’ इत्यमर:। समयककुभौ समयश्च ककुप् चेति समयककुभौ। कालदिशावित्यर्थ:। न, नास्मि। चित् न, ज्ञानं चैतन्यं चेतना वा नास्मि। चित्तं मनश्च नास्मि। अहं तु तव शिवस्य पूरुष: त्वदंशभूतश्चैतन्योऽस्मि। त्वं पुरुषपुरन्दरोऽहं पुन: सामान्यपुरुष इत्यहं तव दासो वा। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन:’ इत्यमर:। 'बुद्धिर्मनीषा धिषणा धी: प्रज्ञा शेमुषी मति:। प्रज्ञोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्ति-चेतना:’ इत्यमर:। अहं धरणिप्रभृति न भवामि। केवलं तव दास: सेवको वास्मीत्यभिप्राय:। अथवा त्वदंशभूतश्चेतनोऽस्मीति विवक्षा।
अनुवाद - हे पुरुष श्रेष्ठ! मैं पृथ्वी, जल या अग्नि नहीं हूँ, मैं वायु और आकाश भी नहीं हूँ। अत एव इन्द्रिय और शरीर भी नहीं हूँ क्योंकि इन्द्रिय पृथ्वी आदि पञ्चभूतों के गन्ध आदि गुणों के ग्राहक होते हैं तथा शरीर पञ्चभूतों का विकार और नश्वर है। मैं आत्मा होने के कारण शरीर और इन्द्रिय से भिन्न हूँ। मैं काल और दिशा भी नहीं हूँ। बुद्धि और मन भी नहीं हूँ। मैं तुम्हारे अंश से उत्पन्न चेतन हूँ।
(३)
अविरतपरिवृत्तदण्डकाष्ठा-
कुलमतुलव्यतिवर्तमानवेगम्।
भ्रमयसि जगदण्डगोलमाला-
कलशकलापकुलाल! कालचक्रम्।।
अन्वय: - हे जगदण्डगोलमालाकलशकलापकुलाल! (त्वम्) अविरतपरिवृत्तदण्डकाष्ठाकुलम् अतुलव्यतिवर्तमानवेगं कालचक्रं भ्रमयसि।
पदार्थप्रकाशिका-अविरतेति-हे जगदण्डगोलमालाकलशकलापकुलाल! हे जगदण्डानां ब्रह्माण्डानां गोला: मण्डलानि जगदण्डगोला:, तेषां माला: पङ्क्तय:। 'माला तु पङ्क्तौ पुष्पादिदामनि’ इति हैम:। ता जगदण्डगोलमाला एव कलशकलापा: घटसमूहा:, तेषां कुलाल: कुम्भकार:, स्रष्टेति यावत्। तस्य सम्बोधने। ब्रह्माण्डमण्डलपङ्क्तिरूपकलशसमूहानां कर्त:! 'कलापो भूषणे बर्हे तूणीरे संहतेऽपि च’ इत्यमर:। तादृश हे कुलाल! त्वम् अविरतपरिवृत्त-दण्डकाष्ठाकुलम्, अविरतं सततं परिवर्त्तेन गतिशीलेन दण्डकाष्ठेन आकुलं व्याकुलम्। अतुलव्यतिवर्तमानवेगम्, अतुलोऽनुपमो व्यतिवर्तमानोऽतिशयवान् वेग: यस्य तादृशं कालचक्रं काल एव चक्रं तद् भ्रमयसि गतिमत् करोषीत्यर्थ:। कुलालो यथा कलशादीनां निर्माणं दण्डकाष्ठेन वर्धितवेगेन चक्रेण करोति तथैव शिवोऽपि विविधब्रह्माण्डानां सृष्ट्यै दण्डकाष्ठाभ्यां दिक्कालाभ्यां कालचक्रं भ्रमयति। 'दण्डो यमे मानभेदे लगुडे दमसैन्ययो:’ इति विश्व:। 'काष्ठा दारुहरिद्रायां कालमानप्रकर्षयो:। स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्’ इति मेदिनी। दिक्कालाभ्यामित्यर्थ:। काल एव तस्य कुलालचक्रम्। तस्यैव गत्या बहुतरब्रह्माण्डानामुत्पत्तिरित्यर्थ:। शिवपक्षे दण्डकाष्ठाशब्द: कालस्य दिशश्च वाचक: कुलालपक्षे च काष्ठदण्डस्येति विशेष:।
अनुवाद - हे ब्रह्माण्ड मण्डलों के समूह रूप कलश समूहों के कुलाल! तुम लगातार घुमाये गये दण्डकाष्ठ से व्याकुल अपूर्व और अतिशय वेग से युक्त कालचक्र को गतिमान् करते हो।
(४)
भुवनपुटकुटीरहट्टयन्त्र-
भ्रमणसहध्रुवतर्कुत: क्रमेण।
सृजसि समयसूत्रमत्र माया-
मयपटवानविधानतन्तुवाय:।।
अन्वय: - मायामयपटवानविधानतन्तुवाय: (त्वम्) भुवनपुटकुटी-रहट्टयन्त्रभ्रमणसहध्रुवतर्कुत: अत्र समयसूत्रं सृजसि।
पदार्थप्रकाशिका - भुवनेति - मायामयपटवानविधानतन्तुवाय:, मायामयस्य पटस्य वानविधाने सीवनविधाने, वयननियम इति यावत्। तन्तुवाय: कुविन्द:। 'वानं शुष्कफले शुष्के सीवने गमने कटे। जलसम्प्लुतवातोर्मिसुरङ्गासौरभेषु च’ इति हैम:। 'तन्तुवाय: कुविन्द:’ इति चामर:। मायायुक्तवस्त्रवयननियम-कुविन्द इत्यर्थ:। शिव एव मायाप्रपञ्चात्मकं वस्त्रं सीव्यतीति यावत्। भुवनपुटकुटीरहट्टयन्त्रभ्रमणसहध्रुवतर्कुत:, भुवनानां पुटानि भुवनपुटानि, ब्रह्माण्डानीति यावत्। तान्येव कुटीराणि लघुगृहाणि। तेषु भुवनपुटकुटीरेषु हट्टयन्त्रस्य वयनयन्त्रविशेषस्य (करघा इति भाषायाम्) भ्रमणं य: सहते स ध्रुवो ध्रुवनामक: सूक्ष्मो नक्षत्रविशेष एव तर्कु: (तकली इति भाषा) तस्मात्। पञ्चम्यर्थे तसिल्। अत्र जगति समयसूत्रं कालरूपं सूत्रं सृजसि घटयसि। शास्त्रेषु काल एव समेषां कारणं निरूपितम्। शिव: तं कालं सृजति, तेन च सर्गविधानमिति भाव:।
अनुवाद - मायामय वस्त्र को बुनने का विधान करने वाले जुलाहे तुम भुवनरूप कुटीरों के मध्य करघों को चलाते हो तथा उस करघे के भ्रमण को सहन कर सकने वाले ध्रुव रूप तकली से समयसूत्र का सृजन करते हो।
(५)
निगमवनवनस्पते! प्रसूषे
कति जगदण्डमयान्युदुम्बराणि।
दधति बहलजन्तुजालमन्त:
पुनरपि तानि लयं त्वयि प्रयान्ति।।
अन्वय: - हे निगमवनवनस्पते! कति जगदण्डमयानि उदुम्बराणि प्रसूषे। तानि अन्त: बहलजन्तुजालं दधति। पुनरपि त्वयि लयं प्रयान्ति।
पदार्थप्रकाशिका - निगमेति- हे निगमवनवनस्पते! निगमा वेदा एव वनानि अरण्यानि निगमवनानि तेषां वनस्पति: अदृष्टपुष्प: फलप्रदो वृक्षविशेष उदुम्बरादि:। निगमवनस्पति:, तस्य सम्बोधने। वेदारण्यस्य अदृष्टपुष्प: फलप्रदवृक्ष इत्यर्थ:। कति अनेकानि जगदण्डमयानि ब्रह्माण्डमयानि उदुम्बराणि उदुम्बरफलानि। 'उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके’ इत्यमर:। उदुम्बरशब्दस्य नपुंसके प्रयोगात्तस्य फलान्येव शब्देनाऽनेनाभीष्टानि। उदुम्बरफलान्येव अन्तर्जन्तुजालं दधति, न वृक्ष:। प्रसूषे जनयसि। तानि उदुम्बराणि उदुम्बरफलानि अन्त: स्वमध्ये बहलानां विविधानां जन्तूनां, सूक्ष्मकीटसदृशानां प्राणिनामिति यावत्, जालं समूहं दधति धारयन्ति। पुनश्च तानि त्वयि शिव एव लयं विनाशं प्रयान्ति प्राप्नुवन्ति। त्वां प्राप्य त्वद्रूपा एव भवन्तीत्यर्थ:।
अनुवाद - हे निगमवन के वनस्पति! तुम कितने ही ब्रह्माण्डमय उदुम्बरों को उत्पन्न करते हो। वे उदुम्बर अपने भीतर बहुतर जन्तु जालों को धारण करते हैं और तुम में ही समा जाते हैं।
(६)
बहुतरजगदण्डभारभर्तु-
र्नहि महिमानमहं तवाऽवयामि।
मशक इव शलाटुगर्भजन्मा
विटपबृहत्त्वमुदुम्बरद्रुमस्य।।
अन्वय: - अहं बहुतरजगदण्डभारभर्तु: तव महिमानं शलाटुगर्भजन्मा मशक: इव उदुम्बरद्रुमस्य विटपबृहत्त्वम् नहि अवयामि।
पदार्थप्रकाशिका - बहुतरेति - अहं गोकुलनाथोपाध्यायस्तव दास: जीवो वा बहुतरजगदण्डभारभर्तु: बहुतराणां जगदण्डानां ब्रह्माण्डानां भारस्य भर्तु: धारयितुस्तव शिवस्य महिमानं प्रभावं नहि अवयामि, न जानामि। अवपूर्वको याधातु:। न अवगच्छामीत्यर्थ:। कथमिव न जानामि? शलाटुगर्भजन्मा शलाटु: उदुम्बरफलम्, तस्य गर्भाल्लब्धं जन्म येन स शलाटुगर्भजन्मा मशक: कीटविशेष: उदुम्बरद्रुमस्य यज्ञवृक्षस्य विटपबृहत्त्वं शाखानां विशालताम्, इव। यथा उदुम्बरफलाल्लब्धजनि: कीटस्तद्वृक्षस्य स्वकारणभूतस्य शाखाविशालतां विस्तारं वा न वेत्ति तथैव अहमपि तव महिमानं न वेद्मीत्यर्थ:। शलाटु: अपक्वं फलमित्यमर:। अत्र पुन: अर्थवशात्तस्य फलमात्रे लक्षणा। उदुम्बरप्रसङ्गे पठितत्वादुम्बरफलरूपोऽर्थ:।
अनुवाद - अनेक ब्रह्माण्डों के भार को धारण करने वाले शिव! मैं तुम्हारी महिमा को उसी प्रकार नहीं जानता जैसे उदुम्बर के फल से जन्म लेने वाला कीट उस उदुम्बर वृक्ष की शाखाओं की विशालता को नहीं जान पाता।
(७)
प्रविशति मम चित्तवेश्म सर्वे-
न्द्रियविकल: श्रुतिशिष्यमाणवर्त्मा।
विधिगृहतिलबिन्दुजालबर्ही
गलितवपु: प्रपितामह: प्रजानाम्।।
अन्वय: - सर्वेन्द्रियविकल: श्रुतिशिष्यमाणवर्त्मा विधिगृहतिल-बिन्दुजालबर्ही गलितवपु: प्रजानां प्रपितामह: मम चित्तवेश्म प्रविशति।
पदार्थप्रकाशिका - प्रविशतीति - सर्वेन्द्रियविकल: ज्ञानकर्मेन्द्रियरहित:, श्रुतिशिष्यमाणवर्त्मा श्रुतिभि: शिष्यमाणम् अवशिष्टं वर्त्म यस्य, स:। श्रुतिभिरप्यज्ञात इति यावत्। तथा च श्रीमद्भागवते - ''निषेधशेषो जयतादशेष’’ इत्युक्त्वा निषेधमुखेन भगवत: स्वरूपमीरितम्। शिवमहिम्नस्तोत्रेऽपि- ''अतीत: पन्थानं तव च महिमा वाङ्मनसयोरतद्व्यावृत्या यं चकितमभिधत्ते श्रुतिरपि।’’ इत्युक्त्वा शिवस्य श्रुतिशिष्यमाणतोक्ता। अत: श्रुतिरपि ते तत्त्वं न जानाति क्वाहं लौकिक: प्राणीत्यर्थ:। विधिगृहतिलबिन्दुजालबर्ही, विधिगृहाणि ब्रह्माण्डानि एव तिलाकारबिन्दुजालानि यस्य स बर्ही तिलमयूर:। मयूरपिच्छे हि तिलाकारबिन्दुजालं प्रसिद्धम्। शब्दकल्पद्रुमे तिलमयूरशब्द इदं स्पष्टम्। गलितवपु: शरीररहित: प्रजानां प्रपितामह:, पितामह: ब्रह्मा, शिव: ब्रह्मणोऽपि जनक इति स प्रपितामह: मम चित्तवेश्म मनोभवनं प्रविशति आगच्छति। अमृतोदये तु-
ब्रह्माण्डबिन्दुतिलजालवहो विहीन:
सर्वेन्द्रियविकलकर्मशरीरबन्ध:
हृद्वेश्म मे प्रविशति श्रुतिदेशितेन
मार्गेण कोऽपि जगतीप्रपितामहोऽसौ।। इति पाठ:।।-
अनुवाद - ज्ञानेन्द्रियों तथा कर्मेन्द्रियों से रहित, श्रुतियों के द्वारा भी अज्ञात, ब्रह्माण्ड रूपी तिलसदृश बिन्दुओं को धारण करने वाला मयूर, शरीररहित, प्रजाओं का प्रपितामह (शिव) मेरे चित्तरूपी घर में प्रवेश करता है।
(८)
विगलितवपुषं विकारवार्ता-
रहितमनिन्द्रियमक्रियं पुराणम्।
त्वमसि तदिति चेतनाविशेषं
निजपितरं निगमा: प्रबोधयन्ति।।
अन्वय: - निगमा: विगलितवपुषं विकारवार्तारहितम् अनिन्द्रियम् अक्रियं पुराणं निजपितरं 'तत् त्वमसि’ इति चेतनाविशेषं प्रबोधयन्ति।
पदार्थप्रकाशिका - विगलितेति - निगमा: वेदा: विगलितवपुषं शरीरहितं, विकारवार्तारहितं कामक्रोधादिविकारशून्यम्, जन्मादिषड्-विकाररहितम्, अनिन्द्रियम् इन्द्रियेभ्यो रहितम्, अक्रियं क्रियाशून्यं पुराणं सनातनं निजपितरं निजजन्मदातारं 'तत्त्वमसि’ इति महावाक्येन चेतनाविशेषरूपेण प्रबोधयन्ति, भागत्यागलक्षणया जहदजहल्लक्षणया वा कथयन्ति। तादृशश्चेतनाविशेषस्त्वमेवा-ऽसि न कश्चिदन्य इत्यर्थ:। अथवा तादृशं चैतन्यघनं तत् ब्रह्म त्वं जीवोऽसि इत्येवं निगमास्त्वां परमात्मभिन्नं वदन्ति। अमृतोदये तु-
विगलदवयवं विकारमात्रा-
रहितमनिन्द्रियमक्रियं पुराणम्।
त्वमसि तदिति चेतनामयं मा-
मुपनिषदोऽपि बत प्रमोहयन्ति।। इति पाठ:।
अनुवाद - वेद अपने पुराण पिता को शरीररहित, विकारवार्ता से रहित, इन्द्रियों से रहित और क्रियारहित बताते हैं। वे 'तत्त्वमसि’ इस महावाक्य से चेतनाविशेष के रूप में अपने उस पिता का अभिधान करते हैं। हे शिव! तुम वही ('तत्त्वमसि’ इस महावाक्य से बोध्य) चेतनाविशेष हो।
(९)
जगदिदमुपदीपयत्यविद्या-
तिमिररिपौ त्वयि न स्वमप्यवैमि।
प्रतपति तपनातपे तपर्तौ
भजति यदान्ध्यमसावुलूकलोक:।।
अन्वय: - अविद्यातिमिररिपौ त्वयि इदं जगत् उपदीपयति (सति) स्वम् अपि न अवैमि। यत् तपर्तौ तपनातपे प्रतपति (सति) असौ उलूकलोक: आन्ध्यं भजति।
पदार्थप्रकाशिका - जगदीति - अविद्यातिमिररिपौ अविद्या एव तिमिरम् अन्धकार:, अज्ञानमिति यावत्। तस्य अविद्यातिमिरस्य रिपु: शत्रु:, अविद्यातिमिररिपु: तस्मिन्, अविद्यातिमिररिपौ, अज्ञानान्धकारविनाशके त्वयि शिवे इदं ममाधारभूतं जगत् मायामोहात्मकं संसारम् उपदीपयति प्रकाशयति सत्यपि स्वं न अवैमि, न प्रत्यभिजानामि। त्वादृशेऽज्ञानान्धकारविनाशके संसारमुपदीपयत्यपि अहं स्वं स्वरूपं नावगच्छामि। यत् यस्माद्धेतो: तपर्तौ ग्रीष्मकाले तपनस्य सूर्यस्य आतपे घर्मे प्रतपति सति भृशं प्रकाशयति सति उलूकलोक: आन्ध्यम् अन्धत्वं नेत्रज्योतीराहित्यं भजति सेवते। 'भानुर्हंस: सहस्रांशुस्तपन: सविता रवि:’ इत्यमर:। ग्रीष्मर्तौ यदा भानु: प्रचण्डं तपति तदा तस्यैव प्रकाशस्य आधिक्यादुलूकलोकोऽन्धो जायते। तथैवाहं सांसारिकस्त्वया प्रदीपितं जगद्दृष्ट्वाऽपि स्वं न अवगच्छामीत्याशय:। निदर्शनाऽलङ्कार:। अमृतोदये तु- 'जगदिदमुपजीवयत्यविद्या’ इत्यादि पाठ:।
अनुवाद - तुम अविद्या रूपी अन्धकार के शत्रु हो। तुम्हारे द्वारा यह जगत् प्रकाशित किया जा रहा है तथापि मैं अपने को नहीं पहचान पा रहा। ग्रीष्म ऋतु में सूर्य का प्रचण्ड ताप होने पर भी यह उलूकलोक अन्धत्व को प्राप्त हो जाता है।
(१०)
विषमनिगमकाननान्तशाखा-
ततिषु निलीय परान्निरीक्षमाण:।
परिणतिविदलज्जगत्कपित्थ-
ग्रसनकपे! सुचिरान्निरूपितोऽसि।।
अन्वय: - हे परिणतिविदलज्जगत्कपित्थग्रसनकपे! विषमनिगम-काननान्तशाखाततिषु निलीय परान् निरीक्षमाण: (त्वं) सुचिरात् निरूपित: असि।
पदार्थप्रकाशिका - विषमनिगमेति - हे परिणतिविदल-ज्जगत्कपित्थग्रसनकपे! परिणत्या परिणामेन विदलत: खण्डीभवतो जगद्रूपस्य कपित्थस्य फलविशेषस्य ग्रसनकपि: भक्षणवानर:, तस्य सम्बोधने। हे परिणामेन खण्डीभवत: संसाररूपकपित्थफलस्य भक्षणशीलवानर! त्वं विषमं दुरूहं यत् निगमकाननं वेदारण्यं तस्य अन्तशाखाततिषु अन्तर्वर्तिविटपश्रेणीषु निलीय अन्तरितो भूत्वा, आत्मानमाच्छाद्य परान् अन्यान् जीवान् निरीक्षमाण: पश्यन् सुचिरात् चिरकालात् निरूपित: दृष्ट: असि, ज्ञातोऽसि। त्वं दुरूहवेदारण्यान्तर्वर्तिविटपपंक्तिषु अन्तरितो भूत्वा परान् पश्यसीति बहुकालानन्तरं ज्ञातोऽसि। यद्वा परिणतिविदल-ज्जगत्कपित्थग्रसनकपे! इत्यत्र 'कपि:’ इति प्रथमान्तपाठ:, न सम्बोधनम्। तथात्वे सुचिरात् तादृशकपि: निरूपितोऽसीत्यर्थयोजना।
अनुवाद - हे परिणाम से खण्ड खण्ड हो रहे संसाररूपी कपित्थ फल को खाने वाले वानर! तुम दुरूह वेदरूपी जंगल के अन्दर शाखावलियों में छिपकर दूसरों (जीवों)को देखते हो, यह तथ्य बहुत समय के बाद ज्ञात हुआ है।
(११)
सकलमपि मया स्वकर्मबीजं
त्वयि वृषवाह! समर्पयाम्बभूवे।
तव मम च न चेत्फलं प्रसूते
कथमधुनाऽप्यहमेव दोषभूमि:।।
अन्वय: - हे वृषवाह! मया सकलम् अपि स्वकर्मबीजं त्वयि समर्पयाम्बभूवे। तव मम च फलं न प्रसूते चेत्, अधुना अपि अहम् एव कथं दोषभूमि: अस्मि।
पदार्थप्रकाशिका - सकलमपीति- हे वृषवाह! हे वृषभवाहन शिव! मया शिवशतककर्त्रा गोकुलनाथेन जीवेन वा सकलं समग्रम् अपि पुण्यापुण्यजनकं स्वकर्मबीजं स्वशुभाशुभकर्मणां बीजं त्वयि शिवे समर्पयाम्बभूवे समर्पितं बभूव। त्वयि समर्पितं तद् बीजं तव शिवस्य मम ग्रन्थकर्तु: गोकुलनाथस्य आत्मनो वा फलं परिणामं न प्रसूते, न जनयति चेत्, अधुना स्वकर्मबीजसमर्पणानन्तरम् अहमेव कथं दोषभूमि: दोषाणाम् आधारोऽस्मि। भगवच्चरणे समर्पितानि कर्मबीजानि भगवत: कृते फलं न जनयन्ति न वा भक्तस्य कृत एव, तथापि तज्जन्यफलेन भक्त एव दोषाणामाधारो भवति न भगवानित्यभिप्राय:। वस्तुतस्तु भगवति कर्मबीजसमर्पणात् शुभाशुभफलैर्मुक्तिर्भवति। तथा चोक्तं श्रीमद्भगवद्गीतायाम्-
यत्करोषि यदश्नाषि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै:। (९-२७-२८)
भगवत: कृष्णस्य उक्त्याऽनया ममापि शुभाशुभफलैर्मुक्ति: स्यादेव।
अनुवाद - हे वृषभवाहन शिव! मैंने अपने समस्त शुभ और अशुभ कर्मों के बीज तुझ में समर्पित कर दिये हैं। उन बीजों से यदि तुम्हारे और मेरे, दोनों के लिये परिणाम की उत्पत्ति नहीं हो रही, तो फिर अब मैं ही क्यों दोषभूमि माना जा रहा हूँ।
(१२)
नट इव वशगो भवामि यासा-
महमपहस्तितसर्वभूतपूर्व:।
प्रकृतिचरितनाट्यसूत्रधार !
भ्रमयसि मामियतीषु भूमिकासु।।
अन्वय: - हे प्रकृतिचरितनाट्यसूत्रधार! माम् इयतीषु भूमिकासु भ्रमयसि यासाम् अपहस्तितसर्वभूतपूर्व: (अहम्) नट इव वशग: भवामि।
पदार्थप्रकाशिका - नटेति- हे प्रकृतिचरितनाट्यसूत्रधार! प्रकृत्या: मायाया: चरितम् एव नाट्यं प्रकृतिचरितनाट्यम्, प्रकृतिचरितनाट्यस्य जन्ममरणादिकस्य सूत्रधार:, तस्य सम्बोधने। हे मायाचरितनाट्यस्य प्रधाननट! मां जीवं गोकुलनाथं वा इयतीषु एतावतीषु भूमिकासु भ्रमयसि परिवर्तयसि यासां भूमिकानाम् अपहस्तितसर्वभूतपूर्व: अपहस्तितं समर्पितं सर्वं भूतपूर्वं संसारदशायां प्राप्तं शुभाशुभं कर्म येन स:, तादृशोऽहं नट इव शैलूष इव वशग: वशीभूतो भवामि। यथा नटो विभिन्ना दुष्यन्तादिभूमिका निर्वहन् तद्गतचित्तो भवति। स्वकीयं सर्वस्वं विस्मृत्य स: 'अहमेव दुष्यन्त’ इत्यादि स्मरति तद्वदस्यां संसारदशायां विविधभूमिकासु त्वया भ्रामितोऽहं तासां सर्वासां भूमिकानां वशंवदो भवामीत्याशय:। 'कोऽहम्’ इति ज्ञानं न मम भवति। वस्तुतो नैता वास्तविकभूमिका अपित्वारोपिता एवेत्यर्थ:। काव्यमालासंस्करणे तु 'प्रकृतिनाट्यसूत्रधार’ इति पाठ:। तथात्वे छन्दोभङ्ग:।
अनुवाद - हे प्रकृतिनाट्य के सूत्रधार शिव! तुम मुझे इतनी भूमिकाओं में घुमाते हो कि पहले ही (संसारदशा में) सब कुछ तुझे समर्पित कर चुकने वाला मैं नट की तरह उन भूमिकाओं के वश में हो जाता हूँ। (जैसे नट उन उन भूमिकाओं में जाकर तन्मय हो जाता है, वह अपने को राम, दुष्यन्त आदि ही समझता है, उसी प्रकार मैं भी उन सांसारिक भूमिकाओं में जाकर अपनी वास्तविकता को भूल जाता हूँ और उस भूमिका को ही वास्तविक समझ लेता हूँ)।
(१३)
भवदभिरुचितासु मे क्रियासु
व्यवहरतोऽनुदिनं हिताहितासु।
जनननिधनबन्धमोचनेषु
प्रभुरसि भूतपते! तवाऽस्मि दास:।।
अन्वय: - हे भूतपते! (त्वं) भवदभिरुचितासु हिताहितासु क्रियासु अनुदिनं व्यवहरत: मे जनननिधनबन्धमोचनेषु प्रभु: असि। (अहं) तव दास: अस्मि।
पदार्थप्रकाशिका - भवदिति - हे भूतपते! भूतानां संसारे उत्पन्नानां पति: स्वामी भूतपतिस्तत्सम्बोधने। हे स्वामिन्! भवदभिरुचितासु भवत: शिवस्य अभिरुचितासु समीहितासु हिताहितासु हितसाधिकासु अहितकारिणीषु च क्रियासु सांसारिकव्यवहारेषु अनुदिनं प्रत्यहं व्यवहरत: व्यवहारं कुर्वत: मे मम जीवस्य ग्रन्थकर्तुर्वा जनननिधनबन्धमोचनेषु जननं जन्म निधनं मृत्युश्चेति जनननिधने ते जनननिधन एव बन्धे बन्धने तयोर्मोचनेषु स्वसन्निधिप्रदानेन मोक्षदानेन जन्ममरणबन्धनमोक्षेषु प्रभु: समर्थ: असि भवसि। अहं तव दासोऽस्मि भवांश्च मम स्वामीति। स्वामिन: कर्तव्यं दासस्य रक्षणं भवति। मुक्तेरनन्तरमपि यदा कदापि पुण्यस्य क्षीणतावशान्मर्त्यशरीरप्राप्तिर्भवेत्तदा सर्वदा त्वया मम जन्ममरणराहित्यं विधेयमेव। जन्मजन्मान्तरीयतादृशबन्धस्य मोक्षणेनेति विवक्षया मोचनेष्वित्यत्र बहुवचनप्रयोग:। न केवलमस्मिञ्जन्मनि जन्मान्तरेष्वपि त्वया तथाचरणीयमिति भाव:।
अनुवाद - हे भूतपते! शिव! मैं रोज तुम्हारे द्वारा चाही गयी हितात्मक और अहितात्मक क्रियाओं में व्यवहार कर रहा हूँ। तुम मेरे जन्म-मरण रूप बन्धन को खोलने में समर्थ हो। मैं तुम्हारा दास हूँ।
(१४)
भवदभिमतमेव सेवमानो
हितमहितं च तथा वृथाऽस्मि बद्ध:।
तदपि कतममाश्रये शरण्यं
बत परवानितर: पतिस्त्वमेव।।
अन्वय: - भवदभिमतम् एव हितम् अहितं च सेवमान: (अहम्) तथा वृथा बद्ध: अस्मि। बत तदपि कतमं शरण्यम् आश्रये। इतर: परवान् (अस्ति) त्वम् एव पति: (असि)।
पदार्थप्रकाशिका - भवदिति- हे भूतपते! भवदभिमतमेव भवदिष्टमेव हितं जन्म अहितं मृत्युं च, अथवा हितं पुण्यं अहितं पापं च सेवमानो भजमान: अहं तथा जन्ममृत्युबन्धने वृथा व्यर्थमेव बद्ध: अस्मि। मम हिताहितक्रियाणां तवाभिमतत्वान्नाऽहं बन्धनयोग्योऽपितु मुक्तियोग्य एव। बत इति खेदार्थकमव्ययम्। तदपि तस्माद्धेतो: अपि कतमं शरण्यं शरणप्रदम् आश्रये। इतरस्त्वद्भिन्न: सर्व: परवान् परतन्त्रो वर्तते। त्वं शिव एव पति: स्वामी। अन्ये सर्वेऽपि ब्रह्मप्रभृतयो देवास्त्वत्परतन्त्रा:। त्वमेव समेषां स्वामीति अहं त्वामेव शरणं प्रपद्य इति भाव:।
अनुवाद - हे शिव! मैं आपके द्वारा वाञ्छित हित और अहित का सेवन करता हूँ, अत: आपके द्वारा जन्म और मृत्यु के बन्धन में व्यर्थ ही बाँधा गया हूँ। अब मैं किसकी शरण में जाऊँ। सभी तो तुम्हारे परतन्त्र हैं। एक तुम ही स्वामी हो।
(१५)
वरमुपहसनीयवर्णकोऽयं
विविधविकारविडम्बितस्वरूप:।
तदपि कृतकहासमात्रहेतो-
र्विरम निवारय नि:सहोऽस्मि मायाम्।।
अन्वय: - विविधविकारविडम्बितस्वरूप: अयम् उपहसनीयवर्णक: वरम्। तदपि कृतकहासमात्रहेतो: विरम। (अहं) नि:सह: अस्मि। (अत:) मायां निवारय।
पदार्थप्रकाशिका - वरमिति- विविधविकारविडम्बितस्वरूप: विविधैर्विकारैर्मायाप्रपञ्चादिभिर्विडम्बितमनुकृतं हासप्रधानतां प्रापितं स्वरूपं यस्य तादृशोऽयं मद्रूप: उपहसनीयवर्णक उपहासपात्रभूतो वर्णकश्चारण: नटो वा वरम्। 'वर्णकश्चारण’ इति शब्दकल्पद्रुम:। मायाप्रपञ्चादिभि: संसारेऽस्मिन् नाना योनिषु विविधानि रूपाणि धृत्वा जनानामनुरञ्जकभूतश्चारणरूपो नटरूपो वा जनो वर्ते इत्येव श्रेष्ठम्। तदपि मत्कृतरूपानुकृत्यादि, कृतकहासमात्रहेतो: कृत्रिमहासमात्रस्य हेतुरस्ति न वास्तविकमतस्ततो विरम विरामं कुरु। अहं नि:सहस्तव मायां सोढुमसमर्थोऽस्मि। अत: स्वीयां मायां निवारय, दूरीकुरु। अमृतोदये 'उपहसनीय वर्णिकोऽहम्’ इति पाठ:।।१५।।
अनुवाद - अनेक विकारों से अनुकृत (हास को प्राप्त कराये गये) स्वरूप वाला, उपहास का पात्र चारणरूप (नट) मैं श्रेष्ठ हूँ। वस्तुत: मेरे द्वारा की गयी यह रूप की अनुकृति कृत्रिमहास की कारण मात्र है, अत: इससे विराम लो। मै तुम्हारी माया को सहन कर पाने में असमर्थ हूँ। इसलिए उसे दूर करो।
(१६)
क्व जगति कतमाह्नि कस्य हेतो-
रहमिह बद्ध इति त्वमेव वेत्थ।
स्वमपि यदि न चेतये न च त्वं
मम करुणामय! तत्र कोऽपराध:।।
अन्वय: - हे करुणामय! अहम् इह जगति क्व कस्य हेतो: कतमाह्नि बद्ध:, इति त्वम् एव वेत्थ। यदि (अहम्) स्वम् अपि न चेतये, न च त्वां (चेतये) तत्र मम क: अपराध: (अस्ति)।
पदार्थप्रकाशिका - क्व जगतीति- हे करुणामय! दयामय! करुणापूरितहृदय इति यावत्। अहं जीव: इह अस्मिन् जगति संसारे क्व कस्मिन् स्थाने, कस्य हेतो: कस्य कर्मण: कारणात् कतमाह्नि कस्मिन् दिवसे बद्ध: निबद्ध: अस्मि इति तु त्वमेव वेत्थ जानासि, नाहं वराको जीव:। हे प्रभो! यदि नाम अहं जीव: स्वं स्वकीयम् आत्मस्वरूपं न चेतये, न परिचिनोमि न च त्वां शिवं परिचिनोमि तदा तत्र मम दीनस्य कोऽपराध:? न कोऽपीत्यर्थ:। तत्तु तव मायाया एव लीला। अमृतोदये 'कुजगति’ इति पाठ:।
अनुवाद - हे करुणामय! मैं इस संसार में कहाँ किस कारण कितने दिन के लिये बाँधा गया हूँ, यह तुम ही जानते हो। प्रभो! यदि मैं स्वयं को नहीं जानता तथा तुम्हें भी नहीं जानता तो उसमें मेरा क्या अपराध है?।
(१७)
अविदितगतिना प्रमादनिद्रा -
मुषितमति: कितव! त्वयाऽस्मि बद्ध:।
कथमपि मम दृष्टिवर्त्मवर्ती
भव पथतस्करबन्धने प्रभु: स्या:।।
अन्वय: - हे कितव! अविदितगतिना त्वया प्रमादनिद्रामुषितमति: (अहं) बद्ध: अस्मि। कथम् अपि मम दृष्टिवर्त्मवर्ती भव। पथतस्करबन्धने च प्रभु: स्या:।
पदार्थप्रकाशिका - अविदितेति- हे कितव! वञ्चक! 'कितवो धूर्तवन्मत्ते वञ्चके कनकाह्वये’ इति विश्व:। अविदितगतिना त्वया, अविदिता गतिर्यस्य स अविदितगतिस्तेन त्वया शिवेन। तव गतिं न कोऽपि जानातीति त्वमविदितगतिरसि। प्रमादनिद्रामुषितमति: प्रमाद एव निद्रा प्रमादनिद्रा प्रमादनिद्रया मुषिता चोरिता दूरीकृता वा मति: ज्ञानं यस्य स प्रमादनिद्रामुषितमतिस्तादृशोऽहं बद्धोऽस्मि, जन्ममरणबन्धने निगडितोऽस्मीति भाव:। वस्तुतो नाहं सांसारिकं दु:खं सुखं वेच्छामि, किन्तु प्रमादनिद्रया त्वत्स्वरूपस्मरणरूपकर्मणो विरतोऽहं त्वया मम समीहाज्ञानं विनैव संसारेऽस्मिन् बद्धोऽभवम्। अत: सम्प्रति कथम् अपि केन प्रकारेण अपि दृष्टिवर्त्मवर्ती नेत्रमार्गवर्ती प्रत्यक्षं भव तथा च मम पथि विद्यमानानां तस्कराणां मायामोहादिरूपचौराणां बन्धने प्रभु: स्या:। मम नेत्रपथवर्ती भूत्वा मम भगवदाराधनादिमार्गे विद्यमानानां तस्कराणामपाकरणे समर्थो भव। भगवतो दर्शनमात्रेणैव मायामोहादीनां विनाशो भवतीति तद्दर्शनमेव तदपाकरणे सामर्थ्य भजत इति भक्तस्य तद्दर्शनाभिलाष:। अमृतोदये तु 'भवतस्कर! बन्धने’ इति पाठ:।
अनुवाद - हे छलिये! अज्ञात होते हुए तुमने प्रमादनिद्रा के द्वारा अज्ञानी बनाए गये मुझ (जीव) को (सांसारिक बन्धनों में) बाँध दिया। किसी प्रकार मुझे दर्शन दो और मेरे मार्ग में विद्यमान (माया मोह आदि) तस्करों को बाँधने में समर्थ बनो।
(१८)
बहुविधभवभूमिकाभिराभि-
र्नटयसि नाथ! यथा तथा नटामि।
कृपण! गमयिता भवानविद्या-
जवनिकयाऽन्तरित:कियन्त्यहानि।।
अन्वय: - हे नाथ! आभि: बहुविधभवभूमिकाभि: यथा नटयसि तथा नटामि। हे कृपण! भवान् अविद्याजवनिकया अन्तरित: कियन्ति अहानि गमयिता।
पदार्थप्रकाशिका - बहुविधेति - हे नाथ! हे स्वामिन्! आभि: मया सह विद्यमानाभि:, बहुविधभवभूमिकाभि: बहुविधाभि: भवस्य संसारस्य भूमिकाभि:, अथवा भवस्य शिवस्य भूमिकाभि:। एता भूमिका: शिवस्य माययैवोत्पादिता इति तत्सम्बन्धिन्य एव। यथा येन प्रकारेण नटयसि नटनार्थं प्रेरयसि तथा नटामि नटवदाचारणं करोमि। हे कृपण! हे भक्तवत्सल! भवान् अविद्याजवनिकया अविद्या एव जवनिका तया अन्तरित: निलीन: कियन्ति अहानि दिनानि गमयिता। हे भक्तवत्सल! शिव! भवान् सांसारिकेऽस्मिन्नाटकेऽविद्याजवनिकया निलीन: सन् कियन्ति दिनानि गमयिष्यति। कदाचित्तु त्वद्दर्शनं प्राप्स्याम्येवेति भाव:।
अनुवाद - हे स्वामिन्! इन अनेक प्रकार की भूमिकाओं में तुम जैसा नचाते हो मैं वैसा नाचता हूँ। हे भक्तवत्सल! तुम अविद्या के पर्दे की आड़ में छिप कर कितने दिन बिताओगे।
(१९)
वपसि विगतभोगभाग्य! दूरा -
न्मयि वृषवाह! तवाहमुर्वरास्मि।
स्वपदमुपदधासि यत्र तस्मिन्
भवति कडङ्गर एव कर्मबीजम्।।
अन्वय: - हे विगतभोगभाग्य! अहं तव उर्वरा अस्मि। (त्वं च) मयि दूरात् वपसि। हे वृषवाह! यत्र स्वपदम् उपदधासि तस्मिन् कर्मबीजम् एव कडङ्गर: भवति।
पदार्थप्रकाशिका - वपसीति - विगतभोगभाग्य! विगतानि भोगस्य भाग्यानि यस्य स विगतभोगभाग्य:, तस्य सम्बोधने। तादृश हे शिव! अहं तव उर्वरा भूमि: अस्मि। 'उर्वरा सर्वसस्याढ्या’ इत्यमर:। त्वं च मयि जीवरूपभूमौ दूरात् कर्मबीजं वपसि। न तु समीपात्, यतोहि हे वृषवाह! हे वृषभवाहन! शिव! पक्षे कृषक! यत्र यस्मिन् स्थाने त्वं स्वपदम् उपदधासि तस्मिन् स्थाने कर्मबीजम् एव कडङ्गरो भवति। कडङ्गरो धान्यतुष:। तस्मिन्न भवत्यङ्कुरोत्पादनस्य शक्ति:। कडङ्गरशब्दस्तुषार्थे शब्दकल्पद्रुमादौ पठित:।
ज्ञानस्वरूप: शिवो यस्मिन् स्वं पदं दधाति तस्मिन् कर्मबीजं फलोत्पादनेऽसमर्थं सद् बुसतुल्यं भवति। कर्मबीजं दग्धं भवतीति भाव:। उक्तञ्च श्रीमद्भगवद्गीतायाम्- 'ज्ञानाग्रिदग्धकर्माणं तमाहु: पण्डितं बुधा’ इति। रामरक्षास्तोत्रेऽपि 'भर्जनं भवबीजानाम्’ इत्युक्तम्। श्रीमद्भागवते रासपञ्चाध्याय्याम्-
'न हि मय्यावेशितधियां काम: कामाय कल्पते।
भर्जिता क्वथिता धाना प्रायो बीजाय नेष्यते’।। इति।
अत: शिवस्य चरणन्यासेन कर्मबीजानामपि कडङ्गरत्वमुक्तम्। शिवस्य पदन्यासेन बीजस्यापि तुषीभावात् तस्य विगतभोगभाग्यत्वं कथितम्। अमृतोदये तु 'यदि विरहितभोगभाग्य दूराद्वयसि वृषाङ्क तदा फलानि सूते’ इति पाठ:।।
अनुवाद - हे भोगभाग्यरहित! शिव! मैं तुम्हारी उर्वराभूमि हूँ। तुम दूर से मुझ पर बीज बोते हो। हे वृषभवाहन! तुम जहाँ पैर रख देते हो वहाँ कर्मबीज भी भूसी (धान की तुष) बन जाता है।
(२०)
प्रभवति मतये पदप्रबन्धो
न तव निरत्यय! नित्यचेतनस्य।
न भजसि करुणामत: पुरारे!
मम कृपणै: परिदेवितप्रपञ्चै:।।
अन्वय: - हे निरत्यय! मम पदप्रबन्ध: नित्यचेतनस्य तव मतये न प्रभवति। हे पुरारे! अत: (मम) कृपणै: परिदेवितप्रपञ्चै: (त्वं) करुणां न भजसि।
पदार्थप्रकाशिका - प्रभवतीति- हे निरत्यय! अत्ययात् निर्गत: निरत्यय:, तत्सम्बोधनम्। शिव! मम गोकुलनाथस्य अयं शिवशतकरूप: पदप्रबन्ध: नित्यचेतनस्य तव शिवस्य मतये ज्ञानाय न प्रभवति। हे पुरारे! अत: वराकस्य मम कृपणै: करुणापूर्णै: परिदेवितप्रपञ्चै: विलापविस्तरै: त्वं करुणां न भजसि, न करोषि। निर्णयसागरीयसंस्करणे 'सत:’ इत्यत्र 'सतो’ इति पाठ: प्रश्रचिह्नेन सह दत्त:। अमृतोदये तु 'न भजसि करुणामतोऽतोऽसुरारे’ इति पाठ:।
अनुवाद - हे अविनाशिन्! मेरा यह पदप्रबन्ध तुझ नित्यचेतन के ज्ञान के लिये उपयुक्त नहीं है। हे पुरारे! मुझ बेचारे के करुण रोदन प्रपञ्च से भी तुझे करुणा नहीं होती।
(२१)
सरसमपि वरं न भोक्तुमीहे
हर! मम शम्बलसञ्चयं गृहाण।
उपदिश कतरद्धि दूरयात्रा-
श्रमशमनं भववर्त्मनोऽवसानम्।।
अन्वय: - हे हर! सरसं वरम् अपि शम्बलसञ्चयं न भोक्तुम् ईहे (इति) गृहाण। कतरद्धि दूरयात्राश्रमशमनं मम भववर्त्मन: अवसानम् (इति) उपदिश।
पदार्थप्रकाशिका - सरसेति - हे हर! सरसं रससहितं वरं श्रेष्ठमपि शम्बलसञ्चयं पाथेयराशिं भोग्यकर्मफलं भोक्तुं न ईहे, न इच्छामि। ''कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम्। सङ्गमं शतमानार्मशम्बलाव्ययताण्डवम्’’ इत्यमर:। इति गृहाण स्वीकुरु। कतरद्धि दूरयात्राश्रमशमनं, दूरयात्राया: श्रमस्य श्रान्ते: शमनं शान्ते: साधकं मम भववर्त्मन: संसारमार्गस्य अवसानम् अन्त: कुत्र भवितेति, तदुपदिश, कथय। अमृतोदये तु 'सुरसमपि विदूरयात्रा’ इति पाठ:।
अनुवाद - हे शिव! इस श्रेष्ठ और सरस पाथेयराशि (भोग्यकर्म) का उपभोग मैं नहीं करना चाहता। अत: इसे स्वीकार करो। मेरी इस दूरयात्रा के श्रम का शमन इस सांसारिक मार्ग की समाप्ति से ही होगा। अत: इस सांसारिकमार्ग का अन्त कहाँ है, यह बताओ।
(२२)
मम भवपथिकस्य कर्मभोग्यं
प्रलयनिशि त्वमवेक्षथा: शयालो:।
त्वयि सकलमकिञ्चनो बुभूषु:
प्रहरकवेतनमेतदर्पयामि।।
अन्वय: - भवपथिकस्य प्रलयनिशि शयालो: मम भोग्यं कर्म त्वम् अवेक्षथा:। अकिञ्चनो बुभूषु: (अहं) त्वयि एतत् सकलं प्रहरकवेतनम् अर्पयामि।
पदार्थप्रकाशिका - ममेति- भवपथिकस्य संसाराध्वगस्य प्रलयनिशि प्रलयरात्रौ शयालो: निद्रालो:। 'स्वप्रक् शयालुर्निद्रालु:’ इत्यमर:। मम जीवस्य भोग्यं कर्म त्वं शिव: अवेक्षथा:, पश्ये:, पश्यसीति भाव:। अकिञ्चन:, नास्ति किञ्चन यस्य तादृशो बुभूषु: कर्मादिरहितो भवितुमिच्छु: अहमेतत् सकलं मम कर्मजातं त्वयि शिवे प्रहरकवेतनम् अर्पयामि, ददामि। इदानीं मत्सविधे कर्माण्येवावशिष्यन्ते यैरहं भवेऽस्मिन्नानायोनिषु पर्यटन्नस्मि। तत्सर्वं त्वयि शिवे प्रहरकवेतनत्वेन समर्प्य अकिञ्चनतां प्राप्तुमिच्छामि। अकिञ्चनो द्रव्यादिरहितो दरिद्र:। अत्र पुन: कर्मादीन्येव द्रव्याणि। अमृतोदये तु 'त्वमपालय:’ इति पाठ:।
अनुवाद - मैं संसारमार्ग का पथिक हूँ और प्रलयरात्रि में सोने का इच्छुक हूँ। तुम मेरे भोग्य कर्मों को देखते हो। अब मैं अकिञ्चन होना चाहता हूँ। अत: यह सब (अपना कर्मजात) तुम्हें प्रहरकवेतन (प्रहरी के पारश्रमिक) के रूप में समर्पित कर रहा हूँ।
(२३)
श्रुतिजनक ! रटत्यसौ कुमारी
तव दुहिता बहिरेत्य नेति नेति।
व्यवहित! निकटस्थितेऽपि तस्मा-
त्त्वयि मिलितेऽपि ममातिथे: क्व भोग:।।
अन्वय: - हे श्रुतिजनक! असौ तव कुमारी दुहिता बहि: एत्य नेति नेति रटति। हे व्यवहित! तस्मात् निकटस्थिते अपि त्वयि मिलिते अपि अतिथे: मम भोग: क्व?।
पदार्थप्रकाशिका - श्रुतिजनकेति - हे श्रुतिजनक! श्रुतीनां वेदानां जनक!, ईश्वरस्य नि:श्वासभूतत्वात् शिव एव वेदानां जनक इति भाव:। असौ तव श्रुतिरूपा कुमारी दुहिता प्रथमवयस्का कन्या। 'कन्या कुमारी’ इत्यमर:। 'सुता तु दुहिता पुत्री’ इति त्रिकाण्डशेष:। बहि: द्वारम् आगत्य, इन्द्रियगोचरतां प्राप्य नेति नेति रटति, मम पिता गृहे नास्तीति वदति। साऽपि तव स्वरूपं न जानातीति हेतो: नेति नेतीति कृत्वा निषेधति। तथा च बृहदारण्यके- अथात आदेशो नेति नेति (४.४.२२)। उपनिषत्सु बहुत्र निषेधमुखेन ब्रह्म प्रतिपादितम्- यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। तथा च केनोपनिषदि- तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। प्रसङ्गेऽस्मिन् नैके मन्त्रा: निषेधमुखेन ब्रह्मस्वरूपं प्रतिपादयन्ति। हे व्यवहित! व्यवधानविशिष्ट! तस्मात् कारणात् तव स्वरूपव्यवहितत्वात् निकटस्थिते समीपस्थिते अपि मिलिते प्राप्ते अपि त्वयि शिवे, अतिथे: मम भोग: आस्वाद: क्व? न क्वापीत्यर्थ:। अतिथेरागमनस्य तिथि: कालो वा न भवति। अहमागत्य तव सविधे उषित्वा त्वयि मिलित्वा चापि तव स्वरूपं ज्ञातुं न पारयिष्यामि। यतो हि तव स्वरूपं व्यवधानयुक्तं वर्ततेऽथ च श्रुतिरूपा ते पुत्री अपि तन्न जानातीति। अतो ममातिथेर्भोगोऽसम्भवी। पुन: संसारे ममागमनं ध्रुवमित्यभिप्राय:।
अनुवाद - हे श्रुतिजनक! यह तुम्हारी श्रुति रूपी पुत्री बाहर आकर 'नेति नेति’ रट रही है। इसलिए हे व्यवधानयुक्त शिव! तुम्हारे पास होने या तुम में मिल जाने पर भी (तुम्हारे व्यवधानयुक्त होने के कारण) मुझ अतिथि का भोग कहाँ?।
(२४)
अपरिमितविभागभूमिरेक-
स्त्वमसि ततो जगदण्डबिन्दुरासीत्।
इति भुवनभरैकधुर्य! जाने
दश ककुभो गणितक्रमेण सिद्धा:।।
अन्वय: - हे भुवनभरैकधुर्य! एक: त्वम् अपरिमितविभागभूमि: असि। तत: जगदण्डबिन्दु: आसीत् इति गणितक्रमेण सिद्धा: दश ककुभ: (सन्तीति) जाने।
पदार्थप्रकाशिका - अपरिमितमिति - हे भुवनभरैकधुर्य! धुरं धारयतीति धुर्य:। भुवनानां भरस्य एको धुर्य: भुवनभरैकधुर्यस्तत्सम्बोधने। भुवनभरस्य धुरन्धरवृषभ! 'धूर्वहे धुर्यधौरेयधुरीणा: सधुरन्धरा:’ इत्यमर:। एक: एकाकी त्वम् अपरिमितविभागभूमि: अपरिमितविभागानां घटपटद्वित्वादीनां विभागस्य आधारोऽसि। तत: तस्मात् परं जगदण्डबिन्दु: ब्रह्माण्डकण: आसीत् इति गणितक्रमेण सिद्धा: दशककुभ: दिश: जाने। 'दिशस्तु ककुभ: काष्ठा आशाश्च हरितश्च ता:’ इत्यमर:। प्रथमं त्वमसि तदनन्तरमन्यानि तत्त्वानि। एवं गणनाक्रमेण दश दिशो जाने। अमृतोदये तु 'तदिति दशविधा दिशामधीश त्वदवतरा’ इति पाठ:।
अनुवाद - हे भुवनभार को अकेले ही धारण करने वाले वृषभ! एकमात्र तुम ही असीम विभाग के आधार हो! उसके बाद ब्रह्माण्ड बिन्दु था। इस प्रकार मैं गणितक्रम से सिद्ध दश दिशाओं को जानता हूँ।
(२५)
कथय क इति दिग्विपर्ययेऽपि
प्रभवति गन्तुमत: क्व संसरेयम्।
भव! भवपथिकस्य कोऽप्यपूर्व-
स्त्वमहमिति प्रसृतो मम प्रमोह:।।
अन्वय: - हे भव! दिग्विपर्यये अपि गन्तुं क: प्रभवति? अत: क्व संसरेयम् इति कथय। भवपथिकस्य मम कोऽपि अपूर्व: 'त्वमहम्’ इति प्रमोह: प्रसृत: (अस्ति)।
पदार्थप्रकाशिका - कथयेति- हे भव! हे शिव! दिग्वपर्यये दिशां विपर्यय: दिग्विपर्ययस्तस्मिन् दिग्भ्रमे सतीत्यर्थ:। गन्तुं चलितुं क: प्रभवति। दिग्भ्रमे सत्यभीष्टमार्गे गन्तुं न कोऽपि प्रभवतीत्याशय:। अत: अस्मात् मायामयसंसारात् क्व कुत्र संसरेयं गच्छेयमिति कथय उपदिश। भवपथिकस्य संसाराध्वगस्य मायामोहादिव्याप्तमनसो मम कोऽपि कश्चन अपूर्व: त्वमहम् 'त्वमेव ब्रह्म एव अहं जीव’ इत्यात्मक: प्रमोहोऽज्ञानं चित्तविभ्रम: प्रसृतो व्याप्त:। अस्तीति शेष:। संसारे निवसतो मायामोहाद्याच्छादितान्त:करणस्य मे कश्चन 'त्वमहम्’ त्वं ब्रह्म एव अहं जीव इति भेदात्मको मोह: व्याप्तोऽस्ति। अत: क्व गच्छामीति त्वमेव वदेत्याशय:। अमृतोदये तु-
दिगपदिशविपर्ययोऽपि पुंसा-
मभिमतसंसरणक्रियां रुणद्धि।
मम तु भवकदध्वगस्य कोऽपि
त्वमहमिति प्रथितो महान्प्रमोह:।। इति पाठ:।।२५।।
अनुवाद - हे शिव! दिग्भ्रम हो जाने पर कोई कैसे चल सकता है। अत: कहाँ जाऊँ, यह बताओ। मुझ संसार के पथिक को कोई अपूर्व 'तुम ब्रह्म ही मैं जीव हूँ’ (तुझ ब्रह्म को ही जीव समझने) जैसा (भेदात्मक) प्रमोह हो गया है।
(२६)
मयि परमविभौ विशुद्धसत्त्वे
यदिह शरीरतदात्मतामधासी:।
निगमपुरुष! तत्प्रतिक्रियायै
त्वयि निदधामि समस्तवस्त्वभेदम्।।
अन्वय: - हे निगमपुरुष! यत् इह परमविभौ विशुद्धसत्त्वे मयि शरीरतदात्मताम् अधासी:, तत्प्रतिक्रियायै त्वयि समस्तवस्त्वभेदं निदधामि।
पदार्थप्रकाशिका - मयि परमेति- हे निगमपुरुष! वेदपुरुष! यत् यस्मात् कारणात् इह संसारे परमविभौ, परमश्चासौ विभुश्चेति परमविभुस्तस्मिन्, सर्वव्यापिनि विशुद्धसत्त्वे विशुद्धात्मनि मयि शरीरतदात्मतां शरीराभिन्नताम्। तदात्मता तादात्म्यम्। तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वम्। अधासी:। 'धेट् पाने’ इति धातोरन्तर्भावितणिचि लुङि रूपम्। पायितवानसीत्यर्थ:। तत्प्रतिक्रियायै तस्य प्रतीकाराय अहं त्वयि शिवे समस्तवस्त्वभेदं समस्तद्रव्याणाम् अभिन्नतां निदधामि, निर्धारयामि। त्वयि समस्तवस्तुतादात्म्यं तदात्मतां वा पश्यामीति भाव:। वस्तुतो भेद एव वास्तविक:। अभेदस्त्वारोपित एव। यथा शरीरभिन्न आत्मा तथैव समस्तवस्तुभिन्न: शिव:। किन्तु हे शिव! अहं परमविभु: विशुद्धसत्त्वश्चात्माऽस्मि। तथापि मयि त्वया शरीरेण अभेदोऽध्यस्त:। अत एव तत्प्रतीकाराय अहमपि शिवे त्वयि समस्तसांसारिकवस्तूनामभेदं पश्यामि। सर्वत्र मम शिवबुद्धिरेव वर्तत इत्यर्थ:। अमृतोदये तु 'शरीरतदात्मतामधास्त्वम्’ इति पाठ:।
अनुवाद - हे निगमपुरुष! तुमने इस संसार मे सर्वव्यापी और विशुद्धसत्त्व मुझ आत्मा में शरीर से अभिन्नता अध्यस्त किया है। अत: उसकी प्रतिक्रिया के लिये मैं तुम में संसार की समस्त वस्तुओं का अभेद निर्धारित करता हूँ। समस्त सांसारिक वस्तुओं में मेरी शिव बुद्धि है।
(२७)
निबिडजडतदात्मताप्रमोहं
विमलयति त्वदभेदविभ्रमो माम्।
प्रकृतिमुपनयन्ति वारिधानीं
कतकरजांसि रजोऽन्तरापकर्षात्।।
अन्वय: - त्वदभेदविभ्रम: निबिडजडतदात्मताप्रमोहं मां विमलयति। कतकरजांसि रजोऽन्तरापकर्षात् वारिधानीं प्रकृतिम् उपनयन्ति।
पदार्थप्रकाशिका - निबिडेति- त्वदभेदविभ्रम: त्वद्विषयकोऽभिन्नताया अभेदस्य वा विपर्यय:, त्वया शिवेन सह जीवस्य मम अभेदो वर्तत इत्यात्मको विभ्रम इत्यर्थ:। वस्तुतो जीव: परमात्मभिन्नो भवति तथापि अहं परमात्मनि स्वाभेदं पश्यामि। निबिडजडतदात्मताप्रमोहं मां, निबिडो घनो जडतदात्मताया अभेदस्य प्रमोहो यस्य स:, तादृशं मां विमलयति निर्मलमतिं करोति। तदेव दृष्टान्तेन समर्थयति- कतकरजांसि निर्मल्या: परागा रजोऽन्तरापकर्षात् अन्येषां रजसाम् अपकर्षणात् वारिधानीं जलाशयं प्रकृतिं स्वभावमुपनयन्ति प्रापयन्ति। लक्षणया वारिधानीपदेन जलस्य बोध:। कतकक्षुपस्य परागा आविलमपि जलं तत्र पतितानामन्येषां रजसामपकर्षं कृत्वा निर्मलं कुर्वन्तीति लोकप्रसिद्धि:।अमृतोदये तु 'शमितजडतदात्मता’ इति पाठ:।
अनुवाद - तुमसे अभिन्न होने का यह विपर्यय सघन और कठोर तदात्मता (अभिन्नता) के प्रमोह से मुझे निर्मल करता है। निर्मली (एक विशेष पौधा) के पराग अन्य रजों को दूर कर जलाशय को शुद्ध करके उसे उसका प्राकृतिक स्वरूप (निर्मलता) प्रदान करते हैं।
(२८)
पुरि पुरि विहरामहे भ्रमन्त:
पुरहर! पश्यसि भोगवञ्चितोऽस्मान्।
किमिति न विहरेम नाथवन्तो
वयमितरे त्वमनाथ एक एव।।
अन्वय: - हे पुरहर! (वयं) पुरि पुरि भ्रमन्त: विहरामहे। भोगवञ्चित: त्वम् (अस्मान्) पश्यसि। (भवत:) इतरे वयं नाथवन्त: किमिति न विहरेम? त्वम् एक एव अनाथ: (असि)।
पदार्थप्रकाशिका - पुरीति - हे पुरहर! हे त्रिपुरहर! वयं वराका जीवा पुरि पुरि नगरे नगरे भ्रमन्त: नानायोनिषु भ्रमणं कुर्वन्तो विहरामहे, विहारं कुर्म:। अथवा स्वकर्मानुसारेण विविधयोनिषु भ्रमाम:। भोगवञ्चित: भोगेभ्य: सांसारिकसुखदु:खेभ्यो वञ्चितो दूरीभूतस्त्वम् अस्मान् भोगासक्तान् पश्यसि विलोकयसि। तथा चाह श्रुतिरपि-
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते।
तयोरेक: पिप्पलं स्वाद्वदत्ति
अनश्र्नन्नेकोऽभिचाकसीति।।
भवत: शिवात् इतरे भिन्ना वयं सांसारिका नाथवन्त: स्म:। तर्हि किमिति न विहरेम। त्वं शिव एक एव अनाथोऽसि। त्वया सह अन्य: कश्चन सजातीयो नास्ति। अतो न तव विहारयोग्यता। त्वं समेषां नाथो न तव कश्चन नाथ इत्यभिप्राय:।
अनुवाद - हे त्रिपुरहर! हम नगर नगर में भ्रमण करके विहार कर रहे हैं (अथवा अपने भोग के अनुसार प्राप्त नाना योनियों में भटक रहे हैं)। भोगों (सांसारिक सुखों और दु:खों) से वंचित होकर तुम हमें देख रहे हो। आपसे भिन्न हम नाथवान् हैं क्योंकि तुम हमारे नाथ हो, अत: क्यों न विहार करें। एक तुमही अनाथ (सबके स्वामी) हो। विहार के लिये किसी सजातीय का होना आवश्यक है। तुम अकेले कैसे भ्रमण कर सकते हो।
(२९)
स्वपिषि न परकर्मसु प्रसक्त:
परमुपभोजयतस्तव क्व भोग:।
परचरितमवैषि निर्निमेष:
प्रकृतिदरिद्र! न कोऽपि पश्यति त्वाम्।।
अन्वय: - परकर्मसु प्रसक्त: (त्वं) न स्वपिषि। परम् उपभोजयत: तव भोग: क्व? निर्निमेष: (त्वं) परचरितम् अवैषि। हे प्रकृतिदरिद्र! त्वां कोऽपि न पश्यति।
पदार्थप्रकाशिका - स्वपिषीति- परकर्मसु परेषां सांसारिकाणां कर्मसु भोगेषु प्रसक्तोऽनुषक्त आसक्तो वा त्वं न स्वपिषि। त्वं शयनं न करोषि। जागरित: सन् सदैव सांसारिकान् पश्यसीत्यर्थ:। परम् अन्यं जीवम् उपभोजयत: उपभोगं कारयत: तव भोग: सांसारिकसुखदु:खानुभव: क्व, कुत्र? अस्तीति शेष:। त्वं परचरितम् अवैषि परेषां सांसारिकाणाम् आचरितं जानासि। हे प्रकृतिदरिद्र! स्वभावरहित! 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयो:। योनौ लिङ्गे पौरवर्गे’ इति मेदिनी। रूपादिरहितत्वात् त्वां कोऽपि न पश्यति। रूपादिमहत्तत्त्वयुक्तस्यैव प्रत्यक्षं भवति न सूक्ष्मस्य। सूक्ष्मस्वभावात्त्वां न कोऽपि द्रष्टुं शक्नोतीत्यर्थ:।
अनुवाद - दूसरों के कर्मभोग में लगे होने के कारण तुम सोते नहीं। दूसरों को भोग प्रदान करने के कारण तुम्हारा कोई भोग नहीं है। तुम दूसरों के चरित्र को जानते हो किन्तु हे प्रकृतिदरिद्र! तुम्हें कोई नहीं देखता।
(३०)
प्रकृतिचटुल! सूक्ष्मभूतशेषे
प्रकृतिविकारनिकोचभाजि काले।
अविरतपरिवृत्तिखेदखिन्ने
स्वपिति जने प्रतिबुध्यसे त्वमेक:।।
अन्वय: - हे प्रकृतिचटुल! सूक्ष्मभूतशेषे प्रकृतिविकारनिकोचभाजिकाले अवितरतपरिवृत्तिखेदखिन्ने जने स्वपिति (सति) एक: त्वं प्रतिबुध्यसे।
पदार्थप्रकाशिका - प्रकृतीति- हे प्रकृतिचटुल! प्रकृत्या स्वभावेन चञ्चल! सूक्ष्मभूतशेषे सूक्ष्माणि परमाणुरूपाणि भूतानि पृथ्व्यप्तेज:प्रभृतिभूतानि शेषाणि यस्मिन् स: सूक्ष्मभूतशेषस्तस्मिन्। प्रकृतिविकारनिकोचभाजि काले, प्रकृतेर्विकारा: प्रकृतिविकारास्तेषां निकोचं सङ्कोचं भजत इति प्रकृतिविकार-निकोचभाक्, तस्मिन् प्रकृतिविकारनिकोचभाजि काले समये। प्रलयकाल इत्यर्थ:। अविरतपरिवृत्तिखेदखिन्ने अविरतं सततं परिवृत्ति: नानायोनिषु परिभ्रमणं, तस्या: परिवृत्ते: खेदेन श्रमेण खिन्नस्तस्मिन्। सततं नानायोनिषु परिभ्रमणखेदेन श्रान्ते जने आत्मनि स्वपिति सति निद्रां गते सति एक: एकाकी त्वं शिव एव प्रतिबुध्यसे जागरितो भूयसे। प्रलयकाले यदा प्रकृते: सर्वेऽपि विकारा: सङ्कोचं प्राप्रुवन्ति, आत्मा च नानायोनिषु भ्रमन् श्रान्तो भूत्वा शेते, तस्मिन् काले त्वमेक एव प्रतिबुध्यस इति भाव:।
नैयायिकमते प्रलयकाले पृथिव्यादिभूतानि परमाणुरूपेण अवशिष्यन्ते। अन्ये प्रकृतिविकारा: सङ्कोचं प्राप्नुवन्ति। तदानीं महेश्वर एव जागरितो भवति। तस्यैव सिसृक्षया परमाणुभि: पुन: सर्गविधानं भवतीत्याकरग्रन्थेषु स्पष्टम्।
अनुवाद - हे स्वभावचंचल! शिव! जब पञ्चभूत भी परमाणु रूप में ही शेष रहते हैं, प्रकृति के समस्त विकार संकोच को प्राप्त हो जाते हैं, तथा नाना योनियों में भ्रमण करते रहने से श्रान्त होकर आत्मा भी सो जाता है, ऐसे समय में तुम अकेले ही जागते हो (अन्य ब्रह्मा आदि सभी देवता सो जाते हैं)।
(३१)
प्रलयदहनदग्धशेषपीलु-
प्रकरशिलोञ्छपवित्रवृत्तिरादौ।
घटयसि भुवनानि तेषु जीव-
प्रकृतिचलै: परमाणुभि: शरीरम्।।
अन्वय: - प्रलयदहनदग्धशेषपीलुप्रकरशिलोञ्छपवित्रवृत्ति: (त्वम्) आदौ जीवप्रकृतिचलै: परमाणुभि: भुवनानि, तेषु च शरीरं घटयसि।
पदार्थप्रकाशिका - प्रलयेति- प्रलय एव दहन: अग्नि: प्रलयदहनस्तत्र दग्धशेषा ये पीलुप्रकरा: परमाणुपुञ्जास्तेषां शिलोञ्छनम् एकत्रीकरणमेव पवित्रा वृत्ति: जीविका यस्य स: प्रलयदहनदग्धशेषपीलुप्रकरशिलोञ्छपवित्रवृत्ति:। 'उञ्छ: कणश आदाने कणिशाद्यर्जनं शिलम्’ इति यादव:। 'हिरण्यरेता हुतभुग् दहनो हव्यवाहन:’ इत्यमर:। 'ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्। मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्।’ 'ऋतामृताभ्यां जीवेत्तु’ इत्युक्त्वा मनुस्मृतावपि शिलोञ्छस्य पवित्रवृत्तित्वं प्रतिपादितम्। तादृशस्त्वं शिव आदौ सर्गादौ प्रथमं जीवप्रकृतिचलै: प्राणिस्वभावेन अदृष्टेन वा गतिमद्भि: परमाणुभि: पीलुभि: भुवनानि अतलवितलसुतलादिचतुर्दशभुवनानि, तेषु च भुवनेषु शरीरं घटयसि, रचयसि। प्राणिनामदृष्टवशात् परमेश्वरस्य शरीरपरिग्रहो भवति। तथा च श्रुति:- 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्’ इति श्रुतेर्भगवतोऽदृष्टस्य प्रतिषेधान्न तस्य स्वीयमदृष्टम्।
काणादानां नैयायिकानां च मतमाश्रित्येह सर्गप्रक्रिया सङ्केतिता। सा चेयं प्रक्रिया प्रशस्तपादभाष्यादौ विस्तरेण द्रष्टव्या।
अनुवाद - प्रलयरूप अग्नि से दग्ध होकर शेष बचे (पृथ्वी, जल, वायु आदि भूतों के) परमाणुपुंजों के एकत्रीकरण रूप पवित्र जीविका वाले तुम पहले जीवों के अदृष्ट से चंचल परमाणुओं से चतुर्दशभुवनों की रचना करते हो तदनन्तर उनमें शरीर उत्पन्न करते हो।
(३२)
जनशरण! शरीरिणां प्रवृत्तै:
करणगणैरुपलभ्यचेतनानाम्।
कतिचन जनुरन्तरानुभूति-
प्रसृमरवासनया स्मृती: प्रसूषे।।
अन्वय: - हे जनशरण! प्रवृत्तै: करणगणै: उपलभ्यचेतनानां शरीरिणां जनुरन्तरानुभूतिप्रसृमरवासनया कतिचन स्मृती: प्रसूषे।
पदार्थप्रकाशिका - जनेति- हे जनशरण! जनानां प्राणिनां शरण! प्रवृत्तै: क्रियाशीलै: करणगणै: इन्द्रियसमूहै: उपलभ्यचेतनानां प्राप्तचैतन्यानां शरीरिणां देहिनां जनुरन्तरानुभूतिप्रसृमरवासनया जन्मान्तरानुभवप्रवहणशीलवासनया कतिचन काश्चन स्मृती: प्रसूषे, जन्मान्तरस्मरणानि जनयसि। ताभिरेव पूर्वजन्मस्मृतिभि: प्राणिनां भोगप्रवृत्तिर्जायते। पूर्वपूर्वयोनिषु अनुभूता विषया आत्मनि संस्कारत्वेन भवन्त्यवस्थिता:। जन्मान्तरे पुन: प्राप्तायां तस्यां योनौ प्राणिन: तया पूर्वजन्मस्मृत्या तद्योनिस्वभावं प्राप्रुवन्तीति योगसूत्रभोजवृत्तिप्रभृतिषु ग्रन्थेषु भृशं प्रतिपादितम्। अभिनवभारत्याम् अभिनवगुप्तोऽपि ''जात एव जन्तुरीयतीभि: संविद्भि: परीतो भवति’’ इति निर्दिशति नाट्यशास्त्रे षष्ठेऽध्याये। प्राणिनां पूर्वजन्मस्मृतिं तत्तद्योनिस्वभावं त्वमुत्पादयसीति भाव:। अथवा क्रियाशीलै: करणगणै: इन्द्रियसमूहै: उपलब्धचेतनानाम् अनुमितचैतन्यानाम् शरीरिणां हिरण्यगर्भादीनाम् कतिचन अज्ञातसंख्यानि यानि जनुरन्तराणि जन्मान्तराणि तेषु या अनुभूतय: अनुभवलक्षणा वेदार्थविषया बुद्धय: ताभ्यो आम्नायस्मरणानि प्रसूषे जनयसि। प्रतिसर्गं हिरण्यगर्भादय: प्रणष्टमागमं स्मरन्ति, तत्रोद्बोधको भवति परमात्मैव- ''यो ब्रह्माणं विदधाति पूर्वं यो वेदाँश्च प्रहिणोति तस्मै’’ इति श्रुते:। श्रुतयोऽनादय:, सृष्ट्यादौ परमेश्वरस्ता: स्मृत्वा हिरण्यगर्भादिभ्य उपदिशति इति। काव्यमालासंस्करणे 'प्रसुप्तै:’ इति पाठ:।
अनुवाद - हे जनशरण! क्रियाशील इन्द्रिय समूहों से चेतना प्राप्त करने वाले शरीरधारियों में तुम जन्मान्तरों के अनुभवों से वासित वासना से कतिपय स्मृतियों को उत्पन्न करते हो। अथवा हिरण्यगर्भ आदि में पूर्वकल्पाधीत आगमों का स्मरण उत्पन्न करते हो।
(३३)
अतिशयितविबुद्धवत्पुराण:
स्मरति मुनिर्निगमं हिरण्यगर्भ:।
गगनपवनसन्निपातकर्ता
कथयसि वा करणानपेक्ष एव।।
अन्वय: - पुराण: हिरण्यगर्भ: मुनि: अतिशयितविबुद्धवत् निगमं स्मरति। गगनपवनसन्निपातकर्ता (त्वं) करणानपेक्ष एव वा कथयसि।
पदार्थप्रकाशिका - अतिशयितेति- पुराण: चिरन्तन: हिरण्यगर्भ: मुनि: ब्रह्मा प्रलयानन्तरम् अतिशयितविबुद्धवत् अतिशयत्यक्तनिद्रवत् निगमं वेदं स्मरति। प्रलयानन्तरं त्यक्तनिद्रो ब्रह्मा पुन: पूर्वकल्पाधीतान् वेदान् स्मरतीति पौराणिका वदन्ति। तथा चोक्तं श्रीमद्भागवते-
''प्राचोदिता येन पुरा सरस्वती
वितन्वताऽजस्य सती स्मृतिं हृदि।
स्वलक्षणा प्रादुरभूत् किलास्यत:
स मे स्वयम्भूर्भगवान् प्रसीदताम्।।’’
अथ वर्णोच्चारणे कण्ठादीनां कण्ठत्वादिरूपेणैव नापेक्षणीयत्वं किन्तु विलक्षणपवनव्योमसंयोगाय कण्ठादीनामपेक्षणीयत्वं स्वीक्रियते, स पुनरशरीरस्यापि तव प्रयत्नेन सम्भवतीति किमाम्नायप्रवर्त्तेने शरीरेणोपकर्त्तव्यं तमेतं पक्षमनुसृत्याह- वा अथवा गगनपवनसन्निपातकर्त्ता वर्णोच्चारणाय अपेक्षितस्य विलक्षणगगनपवनसंयोगस्य घटक: करणानपेक्ष: निरिन्द्रिय: एव हिरण्यगर्भादिभ्य: आगमम् कथयसि। नित्यज्ञानेच्छाप्रयत्नानां शरीरग्रहणानपेक्षया भगवतो निरिन्द्रियस्यापि वेदोपदेष्टृत्वमुपपन्नमेवेति भाव:। काव्यमाला संस्करणे 'कथमसि करुणानपेक्ष एव’ इति पाठ:। त्वं कथं करुणानपेक्ष एव दयारहित एव असि वर्तसे। न जाने कति प्रलयघटना मया दृष्टास्तथापि त्वं मम मुक्तिं न स्मरसि। गगनपवनयोर्मिश्रणं कठिनतरं विद्यते। तत्तु हे शिव! त्वं सम्पादयसि किन्तु भक्तजनानामस्माकं मुक्तिं न कल्पयसीति कथं करुणारहितोऽसीति तात्पर्यम्। 'अथ शयितविबुद्धवत्’ इति अमृतोदये पाठ:।
अनुवाद - पुराण हिरण्यगर्भ (ब्रह्मा) मुनि प्रलय के अनन्तर नींद से उठे हुए की तरह वेदों का पुन: स्मरण करता है। आकाश और वायु के मिश्रण जैसे कठिन कार्यों को करने वाले तुम इन्द्रियरहित ही वेदों का उपदेश करते हो। अथवा (अनेक प्रलय बीत जाने के बाद भी) करुणारहित हो। मेरी मुक्ति की बात याद नहीं करते।
(३४)
अथ कृतककलेवरद्वयेन
व्यवहरता च निदेशदायिना च।
अवगमितपदप्रवृत्तिमादौ
कवयसि लोकहिताय सम्प्रदायम्।।
अन्वय: - व्यवहरता अथ च निदेशदायिना च कृतककलेवरद्वयेन आदौ लोकहिताय अवगमितपदप्रवृत्तिं सम्प्रदायं कवयसि।
पदार्थप्रकाशिका -अथेति- व्यवहरता व्यवहारं कुर्वता कर्मकाण्डरूपेण अथ च निदेशदायिना च निवृत्तिकाण्डेन ज्ञानकाण्डेन वेति कृतकशरीरद्वयेन कृत्रिमदेहद्वयेन आदौ प्रथमं लोकहिताय सांसारिकाणां कल्याणाय अवगमितपदवृत्तिम् अवगमिता बोधिता पदानां प्रवृत्ति: यस्मिन् स: अवगमितपदप्रवृत्तिस्तं सम्प्रदायं परम्परां कवयसि प्रथयसि।
नैयायिकानां मते शब्दस्य कृतकत्वाद् वेदा अनित्या:। वेदस्य कर्मकाण्ड-ज्ञानकाण्डभेदाद् द्वैविध्यं परिकल्प्येह शिवस्यापि कृतकशरीरद्वयं कल्पितम्। शिव: व्यवहारयोग्येन कर्मकाण्डेन निदेशदायिना विध्यादिवाक्यात्मकशरीरेणादौ इच्छारूपां पदानां प्रवृत्तिं शक्तिं वा निर्धारयतीति प्रसिद्धो राद्धान्त:। स एव सङ्केतित: पद्येऽस्मिन्निति। अथवा आदौ सृष्टे:प्रारम्भे व्यवहरता मध्यमवृद्धरूपेण उत्तमवृद्धोक्तानुसारमनुतिष्ठता, निदेशदायिना उत्तमवृद्धरूपेणाज्ञाप्रदायिना च कृतकेन मायाकल्पितेन कलेवरद्वयेन उत्तमवृद्धमध्यमवृद्धरूपदेहद्वितयेन अवगमिता अनुभवगोचरतामापादिता पदानां प्रवृत्ति: अर्थै: सह शक्तिग्रह: येन तादृश: त्वम् लोकहिताय लोकानामामुष्मिकमैहिकं च श्रेय उपपादयितुम् वेदं कवयसि। शक्तेरीश्वरेच्छारूपत्वं नैयायिकमते। तच्चेदं तथ्यं साहित्यदर्पणादावपि स्फुटम्। अमृतोदये तु अथेत्यत्र 'ननु’ इति पाठ:।
अनुवाद: - व्यवहारयोग्य कर्मकाण्डरूप तथा निदेशात्मक ज्ञानकाण्डरूप अपने दोनो कृत्रिम शरीरों से अथवा सृष्टि के प्रारम्भ में उत्तमवृद्ध तथा मध्यमवृद्ध के रूप में व्यवहार करते हुए तुम पहले सांसारिकों के हित के लिये पदों की प्रवृत्ति के निर्धारक सम्प्रदायों की कल्पना करते हो।
(३५)
हितविधिकपटान्निसर्गमूढ-
प्रकृतिरसावहितान्निवर्तनीय:।
इति विषमतमेऽपि संविधाने
गणयतु कस्तव नाथ! कौशलानि।।
अन्वय: - हे नाथ! निसर्गमूढप्रकृति: असौ अहिताद् हितविधिकपटात् निवर्तनीय: इति विषमतमे अपि संविधाने तव कौशलानि क: गणयतु।
पदार्थप्रकाशिका - हितविधीति- हे नाथ! हे स्वामिन्! निसर्गमूढप्रकृति: प्रकृत्या मूर्खस्वभाव: असौ जीवलोक: अहितात् अहितसाधनात् हितविधिकपटात् हितविधिरूपात् कपटात् छलात्, कर्मकाण्डादिति यावत्। निवर्तनीय: परावर्तनीय: इत्येवं विषमतमे अपि प्रतिकूलतमे अपि संविधाने वेदरूपे अनुष्ठाने तव शिवस्य कौशलानि नैपुण्यानि क: गणयतु विचारयतु। निसर्गत: मूढप्रकृतिरसौ जीव: हितविधिकपटरूपात् कर्मकाण्डात् निवर्तनीयोऽस्ति। विषमतमेऽस्मिन् तव वेदरूपे संविधाने कर्मकाण्ड: ज्ञानकाण्डश्चेत्युभयमपि वर्तते। तस्य च कर्मकाण्डस्य जीवलोके महान् समादरो दृश्यते। ज्ञानकाण्डे जीवानां न तथा प्रवृत्ति:। तत्र कर्मकाण्डोऽयं न वस्तुतो हितसाधकोऽतस्तस्माज्जीवं निवर्तय इति भाव:। अथवा यत्र हितमहितरूपेण अहितञ्च हितरूपेण भासते तादृशेऽपि संविधाने लोकचेष्टिते निसर्गमूढप्रकृति: स्वभावतो मूढचेष्ट: असौ लोक: हितविधिकपटात् 'एतत् कामयमान:, अनेन यजेतेत्यादिहितविधानव्याजात् अहितात् दुरुदर्कात् 'मा हिंस्यात्सर्वभूतानि’ इत्यादिश्रौतनिषेधविषयात् हिंसादेर्निवर्त्तनीय: निवारणीय इति । तव कौशलानि को गणयतु संख्यया परिच्छिनत्तु, त्वं सामान्यतो हिंसाप्रवृत्तं लोकं वैदिकहिंसामात्रस्य कर्त्तव्यतां बोधयन्तीभि: श्रुतिभि: प्रतार्य हितपथे नयसीति तव चातुर्यं गणयितुं न कोऽपि क्षमत इत्यर्थ:। 'प्रकृतिरसाविह तान्निवर्तनीय:’ इति अमृतोदये पाठ:।
अनुवाद - हे नाथ! प्रकृति से ही मूर्ख स्वभाव वाले इस जीवलोक को अहित के साधनभूत हितसाधक विधानरूप कर्मकाण्ड के छल से लौटाओ। तुम्हारे इस वेद रूपी विषमतम संविधान में तुम्हारी निपुणता को कौन जान सकता है? उस वेद में तुमने ज्ञान और कर्म दोनों का ही संविधान किया है।
(३६)
भवतु विधिरपूर्वकार्यतत्त्वा-
शयहितसाधनताभिधासु कश्चित्।
तदपि मुषितदोषमन्तरा त्वां
न भवितुमर्हति चोदना प्रमाणम्।।
अन्वय: - अपूर्वकार्यतत्त्वाशयहितसाधनताभिधासु कश्चिद् विधि: भवतु। तदपि त्वाम् अन्तरा चोदना मुषितदोषं प्रमाणं न भवितुमर्हति।
पदार्थप्रकाशिका - भवत्विति-विविधाचार्याणां मते विधे: स्वरूपं प्रतिपाद्य तस्य प्रामाण्ये शिवस्यैव प्रामाण्यं निर्धारयति। विधि: लिङर्थश्चोदना। अपूर्वकार्यतत्त्वाशयहितसाधनताभिधासु कश्चिदपि भवतु। आचार्याणां मतभेदेन विधिस्वरूपेऽपि मतभेदो विद्यते। केषाञ्चिदेकदेशिनां मते 'अपूर्वसङ्कल्पो विधि:’, प्राभाकराणां मते कार्यं विधि:। तत्र कार्यतत्त्वं कार्यता लिङो निरूढलक्षणा इत्यपि प्रभाकरमतानुयायिन: केचन वदन्ति। उदयनाचार्यमते तु आशय आप्ताभिप्राय एव लिङर्थ:। मिश्रानुयायिनस्तु इष्टसाधनतां लिङर्थं वदन्ति। कौमारिला: अभिधा लिङर्थ इति निर्धारयन्ति। एतेषु य: कोऽपि लिङर्थो भवतु। तदपि मुषितदोषं भ्रमप्रमादादि जीवदोषरहितं त्वामन्तरा विना चोदना प्रमाणं न भवितुमर्हति। सम्प्रदायप्रामाण्यार्थं त्वत्प्रत्यक्षप्रामाण्यमवश्यमेव अपेक्ष्यत इति भाव:।
अनुवाद - अपूर्व, कार्य, तत्त्व, आशय या हितसाधनता इनमें से किसी को भी (नाना आचार्यों के मातानुसार) विधि कहा जाय किन्तु तुम्हारे बिना वह विधिवाक्य या वेदवाक्य भी दोष रहित प्रमाण नहीं हो सकता।
(३७)
प्रभवति परमाप्त! यो दुरन्ता-
दपसरणाय हिते प्रवर्तनाय।
सह चरति चतुर्भिरर्थवादै-
र्निगमकवे! स तवैव सूक्तसार:।।
अन्वय: - हे परमाप्त! तव य: सूक्तसार: दुरन्तात् अपसरणाय हिते प्रवर्तनाय (च) प्रभवति। हे निगमकवे! स एव (सूक्तसार:) चतुर्भि: अर्थवादै: सह चरति।
पदार्थप्रकाशिका - प्रभवतीति- हे परमाप्त! परम उत्कृष्टश्चासौ आप्त: विश्वास्यवचनश्चेति परमाप्त:, तत्सम्बोधने। हे परमाप्त! परमात्मन्! तव सूक्तानां सुभाषितानां सार: तत्त्वं वेद: दुरन्तात् दु:खप्रदान्तात् दुर्विपाकात् अपसरणाय दूरीकरणाय हिते प्रवर्तनाय ब्रह्मज्ञानसम्पादनद्वारा मोक्षाय च प्रभवति समर्थो भवति। हे निगमकवे! निगमानां वेदानां निर्माणे चतुर! स एव सूक्तसार: चतुर्भि: अर्थवादै: त्वया सह चरति विलसति। विध्यर्थप्रशंसापरं प्राशस्त्यनिन्दान्यतरपरं वाक्यं चार्थवाद:। यथा वायुर्वै क्षेपिष्ठा देवतेत्यादि वाक्यम्। वायव्यं श्वेतमालभेत भूतिकामो, वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (कृष्णयजुर्वेद २.१.१) इत्यादौ वायुर्वै क्षेपिष्ठेत्याद्यर्थवादो हि वायव्यं श्वेतमालभेतेत्यादिविधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको याग: प्रशस्त इति प्रशंसयति। स च अर्थवाद: स्तुति: निन्दा परकृति: पुराकल्प इति चतुर्विध: (न्यायसूत्रम् २.१.६४)।
अनुवाद - हे परमाप्त! वेदरूप तुम्हारा सूक्तसार मोक्षादि की प्राप्ति कराने में समर्थ है। वह दुर्विपाकों से दूर करने और हित में प्रवर्तित करने में भी समर्थ है। हे निगमकवे! तुम्हारा वह सूक्तसार चार प्रकार के (स्तुति, निन्दा, परकृति और पुराकल्प) अर्थवादों के साथ सुशोभित होता है। (अनुष्ठेय विधि का विधान करता है)।
(३८)
अजिनमुसलवेदियूपशम्या-
दृषदुपलस्फ्यहवि:कपालशूर्पै:।
अथ गुरुयजमानगातृहोतृ-
प्रभृतिभिरध्वरकर्मसु त्वमिज्य:।।
अन्वय: - त्वम् अध्वरकर्मसु अजिन-मुसल-वेदि-यूप-शम्या-दृषद्-उपल-स्फय-हवि: कपालशूर्पै: अथ गुरु-यजमान-गातृ-होतृप्रभृतिभि: इज्य:(भवसि)।
पदार्थप्रकाशिका- अजिनेति- त्वं शिव: अध्वरकर्मसु यागेषु, अजिनं च मुसलं च वेदी च यूपश्च शम्या च दृषच्च उपलञ्च स्फयं च हविश्च कपालशूर्पश्च तै: अथ च गुरुश्च यजमानश्च गाता च उद्गाता च होता चेत्यादिभि: इज्य: पूज्य:। भवसीति शेष:। अजिनं मृगचर्म, शम्या मुसलाकारकाष्ठम्, स्फ्यं खड्गाकारं काष्ठम्। यज्ञेष्वेतेषां प्रयोगो भवतीति तद्विधिप्रतिपादकग्रन्थेषु विशेषो द्रष्टव्य:। 'दृषदुपलस्य कपालयूपै:’ इति अमृतोदये पाठ:।
अनुवाद- हे शिव! यज्ञकर्मो में तुम अजिन (मृगचर्म), मुसल, वेदी, यूप, शम्या (मुसलाकारकाष्ठ), दृषद् (सिलवट), उपल (लोढ़ा) स्फ्य (खड्गाकारकाष्ठ), हवि, कपालशूर्प और गुरु, यजमान, उद्गाता, होता आदि के द्वारा पूजे जाते हो।
(३९)
विकिरति परितो घनावलीव
श्रुतिरमृतानि तवाशयादुदस्य।
विलयमयमुपैति चित्समुद्र!
त्वयि जगतो निगमस्य चित्प्रवाह:।।
अन्वय :- हे चित्समुद्र! श्रुति: तव आशयात् अमृतानि उदस्य घनावली इव परित: विकिरति। जगत: निगमस्य अयं चित्प्रवाह: त्वयि विलयम् उपैति।
पदार्थप्रकाशिका - विकिरतीति- हे चित्समुद्र! चिदेव समुद्र:, चित्समुद्रस्तत्सम्बोधने। हे चेतनाजलधे! तव आशयात् हृदयात् अमृतानि सुधाधारा जलानि वा उदस्य निस्सार्य। उत्पूर्वकोऽस्धातु:। श्रुति: वेद: घनावली इव मेघपंक्तिर्यथा परितोऽभित: विकिरति वर्षति। जगत: निगमस्य, चैतन्यस्य वेदस्य अयं श्रुत्या कीर्ण: चित्प्रवाह: चेतनाया: सञ्चार: त्वयि शिवे विलयं शमनम् उपैति प्राप्नोति। यथा नदी समुद्रे विलयमुपैति तथा चिद्रूपप्रवाहस्त्वयि शिवे विलयं यातीति त्वं चित्समुद्रोऽसि। घनावली समुद्राज्जलानीव निगमस्तव हृदयात् अमृतानि निस्सार्य वर्षतीति तव समुद्रेण साम्यमिति भाव:। यथा घनावली समुद्रस्य हृदयात् अमृतं जलमुद्धृत्य सर्वतो वर्षति तया स्वकृतवर्षणद्वारा जनितश्च प्रवाहश्चरमे समुद्रे लीयते तथैव परमात्मन: हृदयात् श्रुति:स्मृतिफलानि स्वर्गादीनि समस्ते जगति विकिरति विस्तारयति। चरमे चेदं जगत् स्वकारणे परमात्मनि लीयते। उपमालङ्कार:।
अनुवाद- हे चेतनासमुद्र! तुम्हारे हृदय से अमृत (जल) निकाल कर श्रुति सर्वत्र मेघसमूह की भाँति वृष्टि करती है। चेतन निगम का यह प्रवाह तुझ शिव में ही विलीन होता है।
(४०)
अभिसरति परं परं पुरारे!
विषयमनेकमपास्य पूर्वपूर्वम्।
वरुणनिलयमापगेव यावद्
भजति भवन्तमसौ न चित्तवृत्ति:।।
अन्वय: - हे पुरारे! असौ चित्तवृत्ति: यावत् आपगा वरुणनिलयम् इव भवन्तं न भजति (तावत्) पूर्वपूर्वम् अनेकविषयम् अपास्य परं परं (विषयम्) अभिसरति।।
पदार्थप्रकाशिका - अभिसरतीति- हे पुरारे! असौ चित्तवृत्ति: मनोवृत्ति: यावत् यावत्कालम् आपगा नदी वरुणनिलयमिव वरुणालयं समुद्रमिव भवन्तं न भजति न सेवते। 'तरङ्गिणी शैवलिनी तटिनी हृदिनी धुनी। स्रोतस्वती द्वीपवती स्रवन्ती निम्नगाऽपगा’ इत्यमर:। तावत् तावत्कालं पूर्वपूर्वं पूर्वपूर्वकाले सञ्चितं प्राप्तं वा, अनेकविषयम् अनेकं विषयं कर्मभोगम् इन्द्रियार्थम् वा अपास्य परित्यज्य परं परं नवं नवं विषयं प्रति अप्राप्तं प्रति अभिसरति धावति। यावदियं चित्तवृत्तिस्त्वयि समुद्रे नदीव विलीना न भवति तावत् पूर्वपूर्वं विषयं परित्यज्य नवं नवं प्रति धावति। यथा समुद्रं प्राप्य नदी सर्वं स्वत्वं परित्यज्य तद्रूपा भवति, नदीसमुद्रयो: कश्चन भेदो न भवति। तथैव शिवे विलीना चित्तवृत्ति: शिवरूपैव जायते। तत: परं तस्यां भोगप्रवृत्ति: न भवतीत्यभिप्राय:। चित्तवृत्तीनां नदीरूपत्वं तु योगसूत्रे चर्चितमेव।
अनुवाद - हे पुरारे! यह चित्तवृत्ति जब तक नदी और समुद्र के समान आपसे नहीं मिल जाती तब तक पूर्व पूर्व विषयों को छोड़ कर नये नये विषयों के लिये अभिसरण करती है। जैसे समुद्र से मिल जाने पर नदी समुद्रमय हो जाती है। उसका पृथक् अस्तित्व नहीं रह जाता, उसी प्रकार शिव से मिल कर चित्तवृत्ति भी शिवमय हो जाती है। शिवरूपता प्राप्त होने के बाद उसे पृथक् भोग प्राप्त नहीं होता।
(४१)
गुणगणमपनीय चित्तकूपे
मम निगमै: सहसा निपातितोऽसि।
अमृतकलश! तिष्ठ तिष्ठ मन्ये
पुनरपि जीवनमुद्धरिष्यसे न:।।
अन्वय: - हे अमृतकलश! निगमै: गुणगणम् अपनीय (त्वं) सहसा मम चित्तकूपे निपातित: असि। तिष्ठ तिष्ठ। पुन: अपि न: जीवनम् उद्धरिष्यसे (इति) मन्ये।
पदार्थप्रकाशिका- गुणगणमिति- हे अमृतकलश! हे अमृतत्वप्रदायक शिव! निगमै: गुणगणं गुणानां गण: गुणगण: गुणानां समूह:, सत्त्वरजस्तमसां बुद्ध्यादीनां च संहतिरित्यर्थ:। पक्षे गुणगणं रज्जुराशि:। तमपनीय दूरीकृत्य निर्गुणभावेनेत्यर्थ:। सहसा अकस्मादेव मम गोकुलनाथस्य जीवस्य वा अज्ञानतमोवृत्ते चित्तकूपे चित्तमेव कूपं चित्तकूपं तस्मिन् निपातितोऽसि। चित्तवृत्तौ स्थापितोऽसि। तिष्ठ तिष्ठ। तत्रैव मम चित्तवृत्तौ भव। त्वया पुन: अपि नोऽस्माकं भक्तानां जीवनमुद्धरिष्यसे, अस्मज्जीवनस्य उद्धारस्त्वया भविष्यतीति मन्ये। जीवनशब्दोऽत्र प्राणस्य जलस्य च वाचक:। यथा रज्जुमपनीय कूपे पतितो घट: कूप एव तिष्ठति न जलमुद्धर्तुं समर्थो भवति तथैव उपनिषदादिभिनिर्गुणीकृत्य त्वं मम हृदये पातितोऽसीति। ''न तस्य अधिगतपरमार्थस्य प्राणा उत्क्रामन्ति तत्रैव समवलीयन्ते।’’ इति श्रुतेरिति तात्पर्यम्। घटपक्षे जीवनं जलमिति बोध्यम्।
अनुवाद - हे अमृतकलश! निगमों ने (मेरे चित्त के) गुण समूह को दूर करके, सत्त्व, रजस् और तमस् तथा बुद्धि आदि से रहित करके तुमको अकस्मात् मेरे (शुद्ध) चित्तरूपी कूप में डाल दिया है, अत: तुम मेरे चित्तकूप में ही रहो। तुम पुन: हमारे जीवन का उद्धार करोगे, यह मेरा मानना है।
(४२)
प्रथमसमयसङ्गमाय नैत-
ज्जगदुपजीवति केवलं भवन्तम्।
भवतु सततसन्तमन्तरा त्वां
कथमनिदम्प्रथमाऽपि वस्तुसत्ता।।
अन्वय: - एतत् जगत् भवन्तं केवलं प्रथमसमयसङ्गमाय न उपजीवति। सततसन्तं त्वाम् अन्तरा वस्तुसत्ता अपि कथम् अनिदम्प्रथमा भवतु।
पदार्थप्रकाशिका - प्रथमेति - एतत् इदं जगत् संसारो भवन्तं शिवं केवलं प्रथमसमयसङ्गमाय प्रथम: पूर्वो य: सङ्गमस्त्वया शिवेन सह मिलनं तस्मै। प्रलयानन्तरं प्रथमसृष्टिकाल एव त्वया सह सङ्गमो भवत्वित्येतदर्थं न उपजीवति, नाश्रयति। अपि तु सत्तायां जन्मान्तरे चापि सत्यावश्यके त्वद्दर्शनं निखिलमपि जगद् वाञ्छतीति तदर्थं त्वदाश्रयं स्वीकरोतीत्यर्थ:। सततसन्तं, सततम् अविरतम् आदौ मध्येऽन्ते वा सन् विद्यमान: सततसन् तं सततसन्तम्। त्रिष्वपि कालेष्वबाधितोपस्थितिकमित्यर्थ:। 'सन् साधौ धीरशस्तयो:। मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयो: स्त्रियाम्’ इति मेदिनी। त्रिकालाबाधितोपस्थितिकं त्वां शिवम् अन्तरा विना वस्तुसत्ता पदार्थविद्यमानता तदस्तित्वं वा, अपि कथं केन प्रकारेण अनिदम्प्रथमा न इदम्प्रथमं यस्यास्तादृशी भवतु अस्तु। भवत उपस्थिति: सततं वर्तत इति भवान् सततसन् नित्यो वा भवति। तादृशे त्वयि विद्यमाने सति कस्यचिदपि वस्तुन: सत्ता अनिदम्प्रथमा, यस्या: पूर्वं किमपि न विद्यत इत्येतादृशी कथं भवतु, न कथमपि भवितुमर्हतीत्याशय:। सर्वत: प्रथमं तव सत्ताऽस्ति तदनन्तरं चान्येषां पदार्थानामिति त्वत्पूर्विकैव वस्तुसत्ता भवितुमर्हतीति भाव:। अतो जगन्न प्रथमसमयसङ्गमायाऽपि तु भूयोभूयस्तव दर्शनाय त्वामाश्रयति। जगतोऽस्य सत्तापि त्वत्पूर्विकैव वर्तत इत्यर्थ:।
अनुवाद- यह संसार केवल जन्म के समय मिलने के लिये तुम्हारा आश्रय नहीं लेता। तुम तो तीनो कालों में विद्यमान रहते हो, अत: तुम्हारे बिना किसी वस्तु की सत्ता अनिदम्प्रथमा (जिसके पहले कुछ नहीं है) कैसे हो सकती है। तुम्हारी सततविद्यमानता के पश्चात् ही जगत् है। अत: प्रथमसमयसङ्गम (पहली बार मिलन मात्र) के लिये यह जगत् तुम्हारा आश्रय लेता है, यह कहना उचित नहीं। जगत् की सत्ता से पूर्व तुम्हारी सततसत्ता तो है ही।
(४३)
प्रवहपवनवेगघट्टितोऽपि
स्खलति न यज्जगदण्डपिण्डभार:।
लघुगुरुतुलनातुलाप्रकाण्ड!
द्रढिमगुण: स भवद्गुणत्रयस्य।।
अन्वय: - हे लघुगुरुतुलनातुलाप्रकाण्ड! यत् प्रवहपवनवेगघट्टित: अपि जगदण्डपिण्डभार: न स्खलति, स भवद्गुणत्रयस्य द्रढिमगुण: वर्तते।
पदार्थप्रकाशिका- प्रवहेति- हे लघुगुरुतुलनातुलाप्रकाण्ड! लघु च गुरु चेति लघु गुरू, लघुगुर्वोस्तुलनातुलायां प्रकाण्डम्, लघुगुरुतुलना-तुलाप्रकाण्डम्, तत्सम्बोधने। इदं लघु वर्तत इदं च गुरु वर्तत इति तुलनायास्तुलायां परिमाणप्रमाणे दक्ष इति यावत्। यत् यस्मात् कारणात् प्रवहपवनवेगघट्टित: अपि, प्रकृष्टो वह: प्रवहस्तादृशो य: पवनस्तस्य वेगेन घट्टित: आहत: अपि। प्रवहो वायुभेद:। 'प्रवहस्तु बहिर्यात्रामातरिश्वप्रभेदयो:’ इति विश्व:। तीव्रगत्या प्रवहमानस्य वायो: वेगेन सङ्घट्टितोऽपीत्यर्थ:। जगदण्डपिण्डभार: जगदण्डम् एव ब्रह्माण्डम् एव पिण्ड: गोलकस्तस्य भार:, जगदण्डपिण्डभार:। न स्खलति उपरिष्टान्न पतति, स्वस्थनात् इतस्ततो वा न गच्छति, स भवद्गुणत्रयस्य भवत: शिवस्य गुणत्रयं सत्त्वरजस्तमांसीत्येते त्रयो गुणा:। अथवा गुणत्रयं रज्जुत्रयम्। तव सत्त्वादिगुणत्रयाणां द्रढिमगुणो दृढताया गुण: प्रभावोऽस्ति। अथवा गुणत्रयस्य रज्जुभिस्त्रिधा बन्धनस्य दार्ढ्यमस्ति। 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये त्यागशौर्यादिसत्त्वादिसन्ध्याद्या-वृत्तिरज्जुषु। शुक्लादावपि बुद्ध्यां च’ इति मेदिनी। भवान् शिव: पदार्थानां लघुगुरुतुलनातुलायां निपुणोऽस्ति। अतो भवद्बन्धननैपुण्यात् प्रकृष्टवेगवता पवनेन प्रघट्टितोऽपि ब्रह्माण्डपिण्डभारो यस्मिन् स्थाने भवता स्थापितोऽभूत्तत्रैव स्थितोऽस्ति। ततस्तस्य स्खलनं न भवति। नूनं सर्वमिदं भवतो सत्त्वादिगुणत्रयस्य रज्जुत्रयेण वा बन्धनस्य दृढतरो गुणो वर्तते इति भाव:।
अनुवाद - हे लघु और गुरु की माप करने वाले तराजू मे निपुण शिव! प्रचण्ड गतिवाले वायु से टकराकर भी जो यह ब्रह्माण्डपिण्ड का भार इधर उधर नहीं खिसक रहा, वह तुम्हारे त्रिगुण (सत् रजस् और तमस् रूप तीन गुणों या तीन रस्सियों) से बाँधने का दृढ़तम गुण है। तुमने इसे ऐसा बाँधा है कि अपने स्थान पर ही स्थिर है।
(४४)
त्वमखिलजगदीश! षड्भिरङ्गै-
रुपचितवेदमजीजन: षडङ्गम्।
कथय कथमसावुपैत्वसत्तां
सततसतो भवत: स्वत: प्रपञ्च:।।
अन्वय: - हे अखिलजगदीश! त्वं षडि्भ: अङ्गै: षडङ्गम् उपचितवेदम् अजीजन:। सततसत: भवत: असौ स्वत: प्रपञ्च: कथम् असत्ताम् उपैतु (इति) कथय।
पदार्थप्रकाशिका- त्वमखिलेति- हे अखिलजगदीश! अखिलस्य निखिलस्य जगत: संसारस्य, ब्रह्माण्डस्येति यावत्। ईश: स्वामी, तस्य सम्बोधने। त्वं षड्भि: अङ्गै: पादाच्छन्द: हस्ताभ्यां कल्पं चक्षुर्भ्यां ज्योतिषं श्रोतृभ्यां निरुक्तं नासिकाया: शिक्षाम्, मुखाच्च व्याकरणमिति पादादिषड्भिरङ्गै: षडङ्गं छन्द:कल्पादिषडङ्गोपेतम् उपचितवेदं विविधशाखाप्रशाखाभिरुपचितं विस्तृतं वेदम् अजीजन: उत्पादितवान्। तथा चैतत्तत्त्वं वर्णितं पाणिनीयशिक्षायाम्-
छन्द: पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते।।(४१-४२)
छन्द: प्रभृतीनां शिवस्य तत्तदङ्गजातत्वाद् वेदस्य तत्तदङ्गत्वेन व्यपदेश इति कवेराशय:। सततसत:, सततं नित्यं सत् विद्यमान: सततसत्, तस्य सततसत:, भवत: शिवस्य असौ वेदरूप: स्वत: प्रपञ्चस्त्वदतिरिक्तहेत्वजन्यो विस्तार:, कथं केन प्रकारेण असत्ताम् अविद्यमानताम् उपैतु गच्छतु दूरीभवत्विति कथय वद।
अनुवाद- हे समस्त जगत् के स्वामी! तुमने अपने पैर, हाथ, आँख, कान, नाक और मुख इन छ: अङ्गो से छन्द, कल्प, ज्योतिष, निरुक्त, शिक्षा और व्याकरण रूप छ: अङ्गो में विस्तृत वेद को उत्पन्न किया है। नित्य विद्यमान तुझ परमेश्वर का यह प्रपञ्च स्वत: असत्ता को भला कैसे प्राप्त हो सकता है?, यह कहो।
(४५)
विशकलितमनुव्रजन्निचित्य
स्थपतिरिव त्वमजीघट: प्रपञ्चम्।
विभुरसि न च युज्यसे विकारै-
स्त्वयि समवैतु कथं स भूतसर्ग:।।
अन्वय: - त्वं स्थपति: इव विशकलितं प्रपञ्चं निचित्य अनुव्रजन् अजीघट:। (त्वं) विभु: असि, विकारै: न युज्यसे, (अत:) भूतसर्ग: त्वयि कथं समवैतु।
पदार्थप्रकाशिका- विशकलितेति-स्थपति: इव स्थश्चासौ पतिश्चेति स्थपति:। 'स्थपति: कञ्चुकिन्यपि। जीवेष्टियाजके शिल्पिभेदे ना सत्तमे त्रिषु’ इति मेदिनी। 'कारुभेदो मुख्यतक्षा’ इति स्वामी। गृहनिर्माणपटु: शिल्पकार इत्यर्थ:। त्वं शिव: स्थपति: शिल्पी इव विशकलितम् इतस्ततो विकीर्णं प्रपञ्चं जगत्तत्त्वं निचित्य चित्वा, एकत्रीकृत्य। अनुव्रजन् तस्मिन्नेव अनुप्रविश्य अजीघट: सृष्टवानसि। यथा स्थपतिर्लोके यत्र तत्र विकीर्णानि तत्त्वानि संहृत्य शिल्पं रचयति तथैव त्वमपीतस्ततो विकीर्णानि परमाण्वादितत्त्वानि संहृत्य जगत्प्रपञ्चं सृष्टवानसीति भाव:। श्रुतिरप्याह- ''तत्सृष्ट्वा तदेव प्राविशत्’’। तथा च श्रीमद्भागवतेऽप्युक्तम्-
कालसंज्ञां तदा देवीं विभ्रच्छक्तिमुरुक्रम:।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत्।।
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्।
भिन्नं संयोजयामास सुप्तं कार्यं प्रबोधयन्।। (३.६.२,३)
जगत्सृष्ट्वा तत्रैवानुप्रविशसि तथापि न तव विकारसंस्पर्श:। विकारशब्देनाऽत्र षड्भावविकारा: जायते, अस्ति, विपरिणमते, वर्धते अपक्षीयते विनश्यतीति गृह्यन्ते। यतो हि त्वं विभु: व्यापकोऽसि, विकारैर्न युज्यसे, विकारैर्न स्पृश्यसे, अतोऽयं भूतसर्ग: भूतानां प्राणिनां सर्ग: सृष्टिस्त्वयि शिवे कथं समवैतु समवेतो भवतु, समवायेन तिष्ठत्वित्यर्थ:। भूतसर्गस्तु विकारैरेव समवेतो भवति। त्वं तु विकाररहितोऽसि। अतस्त्वयि भूतसर्गस्य समवेतत्वं न सम्भाव्यते। अत्र नैयायिकमतेन सृष्ट्युपादानत्वमुक्तम्। तथा हि वेदान्तिन: परमात्मानमेव जगदुपादानं मन्यन्ते, तदुक्तम्- 'रज्जौ भुजङ्गवद्यत्र विवरीवृत्यते जगत्’। विवर्ताधिष्ठानतया परमात्मनो जगदुपादानत्वं सिद्ध्यति। नैयायिकास्तन्न मन्यन्ते, ते हि ब्रह्मणो निमित्तत्वमेव स्वीकुर्वते, तेषां मते परमात्मन: सञ्जिहीर्षावशाद्विशकलिता भवन्ति परमाणव:, तत्र नित्येच्छाद्वारेणेश्वरो निमित्तमेव। सिसृक्षावशादसौ परमाणून् सञ्चित्य जगन्निर्माति तत्राप्यसौ कुलालवन्निमित्तमेव, समवायिकारणत्वं तु न कथमपि तस्य सिद्ध्यति। अमृतोदये तु 'विशकलितमणु’ इति पाठ:।
अनुवाद- तुम शिल्पकार की भाँति इधर उधर फैले हुए तत्त्वों को एकत्र करके जगत् की रचना करते हो और उसी में प्रविष्ट हो जाते हो। किन्तु तुम विभु (व्यापक) हो, विकारों से युक्त नहीं हो सकते। अत: यह भूतसर्ग तुम में कैसे समवेत हो।
(४६)
न जगदिदमहेतुतो न शून्या-
दवधिमतां कथमुद्भवोऽस्त्वकस्मात्।
प्रकृतिरियमधर्मधर्मरूपा
पुरुषगुण: कथमारभेत विश्वम्।।
अन्वय:- इदं जगत् अहेतुत: न (उद्भवेत्) शून्यात् न (उद्भवेत्)। (तर्हि) अवधिमताम् उद्भव: अकस्मात् कथम् अस्तु। पुरुषगुण: इयं अधर्म-धर्मरूपा प्रकृति: विश्वं कथम् आरभेत।
पदार्थप्रकाशिका - न जगदिदमिति- इदं पुरो विद्यमानं जगत् संसार: अहेतुत: कारणतारहितात् तत्त्वात् कथं केन प्रकारेण उद्भवेत्, उत्पद्येत। शून्यवादिनां शून्यात् न, शून्यादपि जगन्नोत्पद्येत। अवधिमतां गोर्गौरेवोत्पद्यतेऽश्वादश्व एवोत्पद्यत इति मर्यादाशालिनामुद्भव: उत्पत्ति: अकस्मादपि, सहसा कथमस्तु। किमपि कारणं तु तत्र स्यादेव। इयं सांख्यानां प्रकृति: अधर्मधर्मरूपा विद्यते, स पुरुषगुण: पुरुषाधीनास्ति। अतो न तादृशप्रकृत्या जगदुत्पत्ति: सम्भाव्यते। पुरुषगुण:, सांख्यानां मते पुरुष: कार्यकारणधर्मरहितो वर्ततेऽत: स कथं विश्वं महदादि आरभेत इत्यपि भाव:। सांख्यानां प्रकृति: पुरुषस्य गुण: गुणभाव: वर्तते। साम्यावस्थायां कार्यजननशक्तिरहितत्वाद् विक्षोभानन्तरं तज्जननसामर्थ्यात् पुरुषस्य धर्माधर्मयो: प्रवर्तकत्वाद्वा तद्धर्माधर्मरूपत्वम्।
न्यायमते पुरुषैरनुष्ठितानां कर्मणां शुभाशुभाऽदृष्टसंस्कारात्मकं फलं पुरुषस्यात्मनि गुणरूपेण जायमानं सदाफलोदयं पुरुषात्मनि तिष्ठति जाते च तत्फले नश्यति, तदेवादृष्टपदेन कथ्यते तच्च फलतो धर्माधर्मावेव, इति पुरुषगुणरूपा प्रकृति: स्वतन्त्रताविरहाद्विश्वं निर्मातुं न शक्रोति, पुरुषस्य विश्वनिर्मातृता तु न कस्याऽप्यभिमता, शून्यतोऽपि न शक्नोति जगदुत्पत्तुं प्रतिनियतमर्यादाभङ्गप्रसङ्गात्, विनैव किमपि कारणम् विश्वस्योत्पत्तिश्च न शक्यतेऽभ्युपगन्तुमित्यगत्या परमात्मा कारणत्वेन स्वीकत्तर्व्य एवेति।
अस्मिन् पद्ये सृष्टिप्रक्रियायाश्चत्वारो वादा: सन्ति निर्दिष्टा:। अहेतुत: इति पदेन निष्कारणतावादिनां पक्ष:, शून्यादिति पदेन बौद्धानां शून्यवाद:, 'अकस्मात्’ इति पदेन कस्यचिद् अकस्माद्वाद:, अन्ते च सत्कार्यवाद इति। सर्वेऽप्येते वादा अत्र निराकृता एव। वस्तुतस्तु शास्त्रेषु आरम्भवाद: परिणामवादो विवर्तवाद: संघातवादश्चेति सृष्टिप्रक्रियावादा: प्रसिद्धा: किन्तु स्वभाव-नियति-यदृच्छा-भूतादयो वादा अपि तत्र चर्चिता दृश्यन्त एव। स्वभावो हि हेत्वन्तरानपेक्षो वस्तुधर्मविशेष:। अस्मिन्मते स्वभाव एव सृष्टिकारणम्। यथा-
शिखिनश्चित्रयेत्को वा कोकिलान् क: प्रकूजयेत्।
स्वभावव्यतिरेकेण विद्यते नात्र कारणम्।।
सांख्यानां प्रकृतिरेव महदादीनां कारणं विद्यते। प्रकृतिशब्देनाऽत्र मूलप्रकृतिर्महदहङ्कारस्तन्मात्राश्च कथ्यन्ते। मूलप्रकृतिरेव महदादितत्त्वानि जनयति। सांख्ये महदादीनां विकृतित्वमपि निरूपितम्। वस्तुत इयं प्रकृतिर्धर्माधर्मरूपाऽस्ति। पुरुषसंयोगादेव प्रकृतिरियं महदादि जनयति। गुणत्रयस्य साम्यावस्थायामव्यक्ता सती नेयं कार्यजनने भवति क्षमेति विस्तरेण युक्तिदीपिकादौ प्रतिपादितम्। पुरुषस्तु प्रकृतिविकृतिभिन्न: कश्चन कार्यकारणधर्मरहित: सनातन: अतो नेदं महादादीनां कारणत्वं भजत इति न तेन सृष्टिर्भवितुमर्हतीति। अवधिस्तु सम्यग्दर्शनादिगुणजनितक्षयोपशम-निमित्तमवच्छिन्नविषयं ज्ञानमिति बौद्धा:।
अनुवाद - यह जगत् कारण के बिना उत्पन्न नहीं हो सकता। शून्यवादियों के शून्य से भी सृष्टि सम्भव नहीं। यह सृष्टि अकस्मात् भी उत्पन्न नहीं हो सकती। पुरुषाधीन रहने वाली धर्माधर्मरूपा प्रकृति विश्व की रचना कैसे कर सकती है। (नि:स्पृह पुरुष महदादि को कैसे उत्पन्न कर सकता है)।
(४७)
स्वपरपरिचयान्ध्यहेतुमेतं
शिव! भवदावरणीयमन्धकारम्।
शमयति जगदण्डबिन्दुवृन्दा-
म्बुद! भवदेकपदा विवेकविद्युत्।।
अन्वय: - हे शिव! हे जगदण्डबिन्दुवृन्दाम्बुद! भवदेकपदा विवेकविद्युत् स्वपरपरिचयान्ध्यहेतुम् एतं भवदावरणीयम् अन्धकारं शमयति।
पदार्थप्रकाशिका - स्वपरेति- हे शिव! हे शङ्कर! हे जगदण्डबिन्दु-वृन्दाम्बुद! ब्रह्माण्डबिन्दुसमूहजलद! जगदण्डमेव बिन्दु: जगदण्डबिन्दुस्तस्य वृन्दानां समूहानाम् अम्बुद: जलद:, तस्य सम्बोधने। ब्रह्माण्डबिन्दुसमूहानां वृष्टिकर्त: मेघ! स्वपरपरिचयान्ध्यहेतुम् स्वश्च परश्चेति स्वपरौ, निजोऽन्यश्चेत्यर्थ:। अयं मदीयोऽयं च परकीय इति परिचय एव भेदज्ञानमेव आन्ध्यहेतु: अन्धत्वस्य कारणम्। तमेतं मम हृदये विद्यमानं भवदावरणीयं भवान् शिव एव आवरणीयो यस्य तं भवत: आच्छादकम् अन्धकारं तम: अज्ञानं वा भवदेकपदा भवान् एव एकं पदं स्थानं यस्या: सा, विवेकविद्युत् विवेक एव विद्युत्, ब्रह्माण्डबिन्दुवृष्टिकारकस्य मेघस्य तव हृदये कृतपदेयं विवेकविद्युदेव स्वपरयोर्भेदात् समागतं त्वदाच्छादकमन्धकारं विनाशयति, अभेदबुद्धिञ्चोत्पाद्य त्वच्छरणं प्रापयतीति भाव:।
अनुवाद- हे शिव! ब्रह्माण्डबिन्दु समूहों की वर्षा करने वाले बादल! अपने और पराये (रूप भेद) का परिचय ही अन्धता (अज्ञान) का कारण है। आपको आवृत कर लेने वाले इस आवरणीय अन्धकार को एकमात्र आप में रहने वाली विवेक रूपी विद्युत् ही दूर करती है।
(४८)
स्मरसि कथमनन्यदेव! वृत्तां
प्रभवकथाविधुरां निजामवस्थाम्।
पुनरपि न चिराज्जनार्दन! त्वां
न परिचरिष्यति चेतनो द्वितीय:।।
अन्वय:- हे अनन्यदेव! जनार्दन! वृत्तां प्रभवकथाविधुरां निजाम् अवस्थां कथं न स्मरसि। चिरात् पुन: अपि त्वां द्वितीय: चेतन: न परिचरिष्यति।
पदार्थप्रकाशिका- स्मरसीति- हे अनन्यदेव! यस्मात् अन्यो देवो नास्तीति। त्वमेक एव ममोपास्य इति यावत्। हे जनार्दन ! हे जनरक्षक!, वृत्तां प्रसृतां प्रभवकथाविधुराम् उत्पत्तिकथारहितां निजां स्वीयाम् अवस्थां दशां कथं केन प्रकारेण न स्मरसि स्मृतिविषयीकरोषि। सृष्टिपूर्वकालिकीं स्वीयां दशां कथं न स्मरसि। सृष्टिप्राक्काले निखिलमपि विश्वं संहृत्य स्वरूपेऽवस्थितस्य ते प्रभुत्वं नासीत्। चिरात् चिरकालानन्तरं पुन: अपि प्रलयकाले सृष्टे: अवसाने त्वां शिवं द्वितीयश्चेतन: अपरश्चेतन: न परिचरिष्यति न सेविष्यत इति। उत्पत्यादिकथारहितं त्वामन्यश्चेतनो न परिचरिष्यतीति न। मद्रूपो द्वितीयश्चेतनो मुक्त: सन् परिचरिष्यत्येवेत्यभिप्राय:। पूर्वं सृष्ट्यादौ त्वमेकाकी आसी: पुनरपि तथैव भविष्यसीति भाव:। अमृतोदये तु 'स्मरसि कथमनन्यसाक्षिवृत्ताम्’ इति पाठ:।
अनुवाद- हे अनन्यदेव! हे जनार्दन! तुम अपूर्व रूप से प्रवृत्त, उत्त्पत्तिकथा से रहित अपनी अवस्था का स्मरण कैसे नहीं करते। प्रलय काल में सृष्टि का अवसान हो जाने पर पुन: दूसरा चेतन तुम्हारी सेवा नहीं करेगा, ऐसा नहीं। वह अवश्य ही तुम्हारी सेवा करेगा।
(४९)
निमिषपरिचितो हरे! समूलं
हरसि विशेषगुणव्रजं परस्य।
प्रथयसि खलतामिमामपूर्वां
कथयसि यद्विगुणत्वमात्मनोऽपि।।
अन्वय: - हे हरे! निमिषपरिचित: (त्वं) परस्य विशेषगुणव्रजं समूलं हरसि। इमाम् अपूर्वां खलतां प्रथयसि यत् आत्मन: अपि विगुणत्वं कथयसि।
पदार्थप्रकाशिका - निमिषेति- हे हरे! हरति दोषान् दूरीकरोतीति हरि:। हृञ् धातो: इ:। सम्बोधनपदम्। निमिषपरिचित: क्षणाय परिचित: स्मृत: त्वं परस्य प्राणिन: विशेषगुणव्रजं विशेषाणां गुणानां व्रजं समूहं, कामादिदोषान् समूलं मूलेन सहितं हरसि। क्षणं स्मृतस्त्वं सांसारिकप्राणिन: विपरीतगुणसमूहं रूपादिगुणान् वा समूलं विनाशयसि। तं च निर्मलान्त:करणं करोषि। 'क्षण द्वयं लव: प्रोक्तो निमेषस्तु लवद्वयम्’ इति विश्व:। त्वमिमां परविशेषगुणव्रजहरणरूपां खलतां दुष्टतां प्रथयसि विस्तारयसि। यत् यस्मात् कारणात् आत्मन: अपि स्वस्य शिवस्याऽपि विगुणत्वं विगतो गुणो यस्य स विगुण:, तस्य भावो विगुणत्वम् गुणरहितत्वं कथयसि वदसि। निदर्शयसीति यावत्। 'पिशुनो दुर्जन: खल’ इत्यमर:। क्षणपरिचितोऽपि खलो यथा परिचितस्य समग्रमपि धनादिकं हरति तथा क्षणपरिचितस्त्वं विशेषगुणसमूहं हरसि स्वस्य चापि गुणराहित्यं पिशुनयसि। भवान् प्राणिन: विशेषगुणसमूहान् हृत्वा तस्य निर्मलान्त:करणतां विस्तारयसि। दोषहरणरूपेयं खलता शिवैनैव क्रियते न केनचिदन्येनेति खलतेयमपूर्वा। निन्दया स्तुतिरिति व्याजस्तुति:। अमृतोदये तु 'अचिरपरिचितो’ इति पाठ:।
अनुवाद- हे हरे! (हरण करने वाले) क्षणमात्र के लिये परिचित होकर तुम प्राणी के विशेषगुणसमूहों का हरण कर लेते हो। हरण करने की तुम्हारी यह प्रवृत्ति अपूर्व है। क्योंकि तुम दोषों का हरण करके अपने गुणराहित्य का भी कथन करते हो।
(५०)
अलमवगलितेन्द्रियप्रवृत्ते-
स्तव जरत: पुरुषस्य जागरेण।
अयमहमधुना प्रबुध्यमान:
पुरुषविकारकरीं निहन्मि मायाम्।।
अन्वय : - जरत: तव अवगलितेन्द्रियप्रवृते: पुरुषस्य जागरेण अलम्। अयम् अधुना प्रबुध्यमान: अहं पुरुषविकारकरीं मायां निहन्मि।
पदार्थप्रकाशिका- अलमिति- जरत: वृद्धस्य तव शिवस्य अवगलितेन्द्रियप्रवृत्ते: इन्द्रियाणां प्रवृत्ति: इन्द्रियप्रवृत्ति:, अवगलिता विनष्टा इन्द्रियप्रवृत्ति: यस्य तादृशस्य पुरुषस्य तव जागरेण उद्बोधनेन अलम्। अयं सम्प्रति प्रबुध्यमान: संसारस्य असारतां य: ज्ञातवान् तादृशोऽहं जीव: पुरुषस्य विकारकरीं विकारोत्पादिकां मायां निहन्मि विनाशयामि। अथवा पुरुष इति सम्बोधनपदम्। हे पुरुष! विकारकरीमिति योजना। अमृतोदये तु 'प्रभवति दमनाय दोषदस्यो: सपदि मनागपि मादृशां प्रबोध:’ इति पाठ:।
अनुवाद - वृद्धत्व को प्राप्त हुए, विनष्ट हो रही इन्द्रिय प्रवृत्ति वाले तुझ पुरुष को जगाना व्यर्थ है। अब मैं जग गया हूँ और सांसारिक विकारों को उत्पन्न करने वाली पुरुष की माया को नष्ट कर रहा हूँ।
(५१)
असकृदनटदस्मिता नटी मे
निहितपदा मशके मतङ्गजे च।
ध्रुवमुपरि तवाधिरोक्ष्यतीयं
भव! महतोऽपि महानणोरणीयान्।।
अन्वय:- हे भव! मशके मतङ्गजे च निहितपदा मे अस्मिता नटी असकृत् अनटत्। ध्रुवं (त्वं) महत: अपि महान् अणो: अपि अणीयान् (असि)। इयं तव उपरि अधिरोक्ष्यति ।।५१।।
पदार्थप्रकाशिका - असकृदिति- हे भव! हे शिव! मशके कीटे मतङ्गजे गजे च निहितपदा निहितं पदं यया सा निहितपदा, तादृशी मे मम अस्मिता नटी अहङ्काररूपा नटी शैलूषी असकृत् अनेकवारम् अनटत्, नटनम् अकरोत्। मशकोऽहं मतङ्गजाऽहमित्येवं प्रकारेण व्यवस्यन्तीति बुद्धौ असकृत् अनटत्, नटनमकरोत्। ध्रुवं निश्चयेन त्वं महत: अपि महान् विशालतोऽपि विशाल:, अणो: अपि अणीयान् लघोरपि लघीयान् सूक्ष्मादïपि सूक्ष्म: असि। सा चेयं म अस्मिता नटी तव उपरि अधिरोक्ष्यतीव। ममाहङ्कृतिरियं त्वामपि आरोढुम् अतिक्रम्य भवितुं वाञ्छतीव। यद्यपि महतोऽपि महतो लघोरपि लघुतमस्य तवारोहणं न कथमपि सम्भाव्यते तथापीयं तथा कर्तुमुद्यता भवतीति भाव:। अथवा भवेति क्रियापदम्। तेन त्वं महतोऽपि महीयान् अणोरपि अणीयान् यदि भवसि तदा भव, कामं जायस्व मम अस्मिता त्वामधिरोक्ष्यत्येव। इयं हि सूक्ष्मे मशके महति गजे च कृतपदा विद्यते। 'मतङ्गजेन’ इति अमृतोदये पाठ:। तत्र 'भव’ इति क्रियापदम्।
अनुवाद- हे भव! मेरी अहंकृति रूपी नटी मशक सदृश तुच्छ प्राणियों तथा गजराज सदृश विशालतम प्राणियों पर पैर रख चुकी है। तुम बड़े से भी बड़े और छोटे से भी छोटे हो। अब मेरी यह अहंकृति तुम पर भी अधिरोहण करना चाहती है।
(५२)
विलयमुपजगाम चेदखण्ड -
स्त्वयि जरठो जगदण्डगुल्मपिण्ड:।
क्षपयसि तदपि क्षपामनिद्र:
कतिभिरसौ हि बुभूषति प्ररोहै:।।
अन्वय: - अखण्ड: जरठ: जगदण्डगुल्मपिण्ड: त्वयि विलयम् उपजगाम चेत्, तदपि अनिद्र: क्षपां क्षपयसि। हि असौ (जगदण्डगुल्मपिण्ड:) कतिभि: प्ररोहै: बुभूषति।
पदार्थप्रकाशिका- विलयेति- अखण्ड: खण्डरहित:, जरठ: कठोर:। 'जरठ: कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत्’ इति विश्व:। जगदण्डगुल्मपिण्ड: जगदण्डम् एव ब्रह्माण्डमï् एव गुल्मपिण्ड: वृक्षाणां संहतिर्मूर्तिर्वेत्यर्थ:। तादृशोऽयं जगदण्डगुल्मपिण्डस्त्वयि विलयं लयम् उपजगाम चेत्, तदपि तथापि अनिद्र: निद्रारहित: सन् क्षपां रजनीं क्षपयसि गमयसि। हि इत्यस्माद्धेतो: निश्चयेन अयं जगदण्डगुल्मपिण्ड: ब्रह्माण्डवृक्षप्रकर: कतिभिरनेकै: प्ररौहै: शाखाभि: बुभूषति भवितुमिच्छति। जगदण्डगुल्मपिण्डे त्वयि विलयं गते सति त्वं कुत्र शेषे। यतो हि त्वं तत्रैव जाग्रत् क्षपां क्षपयसि। अतो हेतोरयं बहुभि: प्ररोहै: भवितुमिच्छतीति भाव:।
अनुवाद- अखण्ड और कठोर ब्रह्माण्ड रूपी वृक्षों का यह पिण्ड यदि तुम में विलीन हो गया तब तुम बिना नींद लिए ही रात बिता दोगे। अत: ब्रह्माण्डवृक्षों का यह पिण्ड अनेक प्ररोहों से बढऩा चाहता है।
(५३)
विकिरति परदृष्टिवञ्चनाय
त्वदुपरि विष्टपसर्षपानविद्या।
तदपि निमिषमात्रनिर्गतोऽपि
प्रविशति भूतगणो भवन्तमेव।।
अन्वय: - अविद्या परदृष्टिवञ्चनाय त्वदुपरि विष्टपसर्षपान् विकिरति। तदपि निमिषमात्रनिर्गत: अपि भूतगण: भवन्तम् एव प्रविशति।
पदार्थप्रकाशिका- विकिरतीति- अविद्या अहम्प्रधाना मति:। अज्ञानमिति यावत्। 'अथाज्ञानमविद्याहम्मति: स्त्रियाम्’ इत्यमर:। परदृष्टिवञ्चनाय परेषां सांसारिकाणां दृष्टिवञ्चनाय दृष्टेराच्छादनाय त्वदुपरि शिवस्योपरि विष्टपसर्षपान् विष्टपानि लोका एव सर्षपास्तान्। 'अथो जगती लोको विष्टपं भुवनं जगत्’ इत्यमर:। विकिरति क्षिपति। तव माया परेषां दृष्टिवञ्चनाय त्वदुपरि लोकसर्षपान् क्षिपतीति भाव:। अतस्तैराच्छादितस्य ते न भवति प्राणिभि: साक्षात्कार:। तदपि तथापि कृतेऽपि लोकसर्षपनिक्षेपे निमिषमात्रनिर्गत: क्षणमात्राय क्षिप्तलोकसर्षपेभ्यो बहिरागतोऽपि भूतगण: भूतानां संसारे समुत्पन्नानां प्राणिनां समूह: भवन्तं शिवमेव प्रविशति। क्षणमात्रमपि मायातो बहिर्भूतो भूतगणो भवन्तमेव सेवत इति भाव:। अथवा त्वयि विलीनो भवति। भूतादिपरबाधानिवारणाय स्त्रीभि: बालकादौ सर्षपाणां निक्षेप: प्रसिद्ध:। अविद्यया ब्रह्माण्डसर्षपक्षेपेऽपि न निस्तार:। यत: शिवे भूतगणप्रवेशो भवत्येव, अत उपहासोऽयं शिवस्य। अमृतोदये तु 'किरति सकलभूतवञ्चनाय त्वदुपरि पिष्टपसर्षपानविद्या’ इति पाठ:।
अनुवाद - अविद्या दूसरों की दृष्टि से तुम्हें छिपाने के लिए तुम्हारे ऊपर छोटे छोटे लोक (माया) रूपी सर्षप फैला देती है। अत: तुम्हारा दर्शन नहीं हो पाता। फिर भी क्षणमात्र के लिए उससे निकल कर भूतसमूह तुम में निमिषमात्र में ही प्रविष्ट हो जाता है।
(५४)
असकृदुपरमद्भिरङ्कभेदै-
र्नटगणनिष्क्रमणाद्विविक्तरङ्ग:।
अविदितमुखसन्धिरामुखान्तो
निगमकवेस्तव नाटकप्रबन्ध:।।
अन्वय: - निगमकवे: तव आमुखान्त: नाटकप्रबन्ध: उपरमद्भि: अङ्कभेदै: असकृत् नटगणनिष्क्रमणात् विविक्तरङ्ग: अविदितमुखसन्धि: (वर्तते) ।
पदार्थप्रकाशिका - असकृदिति- निगमकवे: निगमानां कवे: साक्षात्कर्तुस्तव आमुखान्त: आमुखम् अन्तो यस्य तादृशो नाटकप्रबन्ध: नाट्यरचना, उपरमद्भि: अवसानं गच्छद्भि: अङ्कभेदै:, नटगणानां नटसमूहानाम् असकृत् बहुवारं निष्क्रमणात् बहिर्गमनात् विविक्तरङ्ग: विविक्त: विजनो रङ्गो मञ्च: यस्य तादृश:। नटहीनमञ्च इत्यर्थ:। 'विविक्तं त्रिष्वसम्पृक्ते रह: पूतविवेकिषु’ इति मेदिनी। अविदितमुखसन्धि: अविदितो मुखसन्धिर्यस्य तादृश:। बीजोपक्षेपकार्यारम्भाभ्यां मुखसन्धेर्ज्ञानं भवति। संसारोऽनादि:, अतो मुखसन्धिरज्ञात एव तिष्ठति। नाटकेषु प्रस्तावनादौ दृश्यत आमुखम्। अत्र समाधिलभ्यसार्वज्ञ्यस्वरूपानुभूतिरूपा प्रस्तावनाऽऽमुखमन्ते इति एतादृश:। अत्र श्लोके परमात्मा निगमकवित्वेन रूप्यते संसारश्च तन्निर्मितनाटकप्रबन्धरूपत्वेन। नाटके आमुखमङ्का नटा मुखादिसन्धयश्च भवन्ति। तस्य निर्वहणसन्धावेव भवति समाप्ति:। शिवकृतनाट्यप्रबन्धस्तु आमुखान्त एव वर्तते। अत्र सन्ति उपरमन्तोऽङ्कभेदा इति तैरङ्कभेदै: असकृन्नटानां बहिर्गमनादयं नाटकप्रबन्धो विविक्तरङ्गश्शून्यमञ्चोऽज्ञातमुखसन्धिश्च विद्यते। अत्र मुखसन्धेरेव ज्ञानं न भवति, का कथा प्रतिमुखादिसन्धिज्ञानस्येति भाव:। अत्र संसार: शिवकृतनाट्यप्रबन्धरूपेण वर्णित:। संसारनाटके प्रलये जीवरूपा नटा जगतोऽपसरन्तीति विविक्तता जायते रङ्गस्थलस्य। मुखसन्धिलक्षणं दशरूपके यथा-