<
"मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा’’
आमुखलक्षणं यथा-
''नटीविदूषको वापि पारिपार्श्विक एव वा।
सूत्रधारेण सहिता: संलापं यत्र कुर्वते।।
चित्रैर्वाक्यै: स्वकार्योत्थै: प्रस्तुताक्षेपिभिर्मिथ:।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा।।’’
अत्र संसारनाटके तु मुखसन्धिपरिज्ञानायापेक्ष्यमाणो बीजोपक्षेपसमय एव न परिज्ञायते संसारस्यानादिप्रवाहवृत्तत्वात्, एवं समाधिपरिपाकभवसार्वज्ञ्य-स्वरूपाऽनुभूतिरूपा च प्रस्तावनाऽत्रान्त एव जायत इत्यभिप्राय:। श्रुतिरपि क्वचित् 'पश्य देवस्य काव्यम्’ इत्युक्त्वा जगत् काव्यत्वेनोपदिशति।
अनुवाद - तुम वेदों के कवि हो। तुमने आमुख में ही अन्त होने वाले नाटक प्रबन्ध की रचना की है। इसमें अनेक बार समाप्त होने वाले विशाल अंक हैं। अत: उन अङ्कों के अन्त में अनेक बार नटसमूहों के बाहर चले जाने से इसका रंगमञ्च खाली हो जाता है और इसकी मुखसन्धि का पता नहीं चलता।
(५५)
भ्रमयसि जगतस्त्वमेव संज्ञा-
परिचयसंस्कृतिरूपवेदनाभि:।
सदसदतदपोढवस्तुचिन्ता-
कृतिरिति कल्पयसे विवेकवेद्यम्।।
अन्वय: - त्वमेव जगत: संज्ञापरिचयसंस्कृतिरूपवेदनाभि: भ्रमयसि इति सदसदतदपोढवस्तुचिन्ताकृति: (त्वं) इति विवेकवेद्यं कल्पयसे।
पदार्थप्रकाशिका- भ्रमयसीति - त्वं शिव एव जगत: संसारस्य संज्ञापरिचयसंस्कृतिरूपवेदनाभि:, संज्ञापरिचयेन नामज्ञानेन संस्कृत्या संस्कारेण रूपस्य अर्थस्य वेदनया बोधेन च भ्रमयसि भ्रममुत्पादयसि। सदसदतदपोढ-वस्तुचिन्ताकृति:, सदसत् कार्यकारणभावरूपं यद् अतद् अविद्या अज्ञानं वा तेन अपोढं पृथक्कृतं यद् वस्तु परमसत्ता तस्य वस्तुन: चिन्ताबोध: आकृति: आकारो यस्य स तादृश: त्वमसि इति अस्मात् कारणात् विवेकवेद्यं कल्पयसे सृजसि। वेद्यमिति भावे ण्यत्।
अनुवाद - तुम ही संसार के संज्ञा परिचय, संस्कार तथा रूप की वेदनाओं (ज्ञान)से भ्रमित करते हो। तुम कार्यकारण रूप अविद्या से व्यावृत्त ज्ञानस्वरूप (वस्तु)परमसत्ता हो अत: तुम विवेक को उत्पन्न करते हो।
(५६)
त्वममृतविषयप्रवेशभूमौ
भवसि दृश: पथि यस्य स द्वितीयम्।
जगति न परिपश्यतीति जिह्मा
स्मरहर! दृष्टिविषाधिका गतिस्ते।।
अन्वय: - हे स्मरहर! अमृतविषयप्रवेशभूमौ यस्य दृश: पथि त्वं भवसि स जगति द्वितीयं न परिपश्यति इति दृष्टिविषाधिका जिह्मा ते गति: (विद्यते)।
पदार्थप्रकाशिका - त्वमिति- हे स्मरहर! कामहर्त:! अमृतविषय-प्रवेशभूमौ अमृतविषयस्य अमृतनिधानस्थानभूतस्य मोक्षस्य प्रवेशभूमौ द्वारदेशे विद्यमान: भवान् यस्य प्राणिन: दृश: नेत्रस्य पथि मार्गे भवसि विद्यसे स प्राणी जगति संसारे द्वितीयं त्वदतिरिक्तं न परिपश्यति इति। स संसारे सर्वत्र त्वामेव पश्यति न किमप्यन्यदिति भाव:। इति हेतो: दृष्टिविषात् दर्शनमात्रेणान्यस्य दाहकात् दृष्टिविषनाम्ना प्रथितात् सर्पादपि जिह्मा कुटिला तव गति:। अस्तीति शेष:। दृष्टिविषाधिका दृष्टौ नेत्रे विषं यस्य स दृष्टिविष:, सर्पविशेष:। ततोऽधिका आधिक्यं प्राप्ता जिह्मा कुटिला ते गति:। दृष्टिविष: सर्पो यं पश्यति स तस्य विषेण दग्धो भवति। तं न कोऽपि पश्यति। मोक्षद्वारि स्थितं त्वां दृष्ट्वा जीव: शीघ्रमेव मुक्तिं प्राप्रोतीति दृष्टिविषाधिका शिवस्य गतिरिति भाव:। सर्पपक्षे स्मरहरशब्द: स्मरणशक्तिहर्तु: सर्पस्य बोधक:। 'जिह्मस्तु कुटिलेऽलसे’ इत्यमर:। काव्यमालासंस्करणे 'अमृत’ इति सम्बोधनपदम्।
अनुवाद - हे स्मरहर! मोक्षद्वार प्रवेशभूमि में तुम जिसके दृष्टिपथ पर होते हो वह संसार में दूसरे को नहीं देखता। दृष्टिविष (सर्पविशेष) से अधिक कुटिल तुम्हारी गति है। दृष्टिविष सर्प जिसे देख लेता है, वह तत्काल दग्ध हो जाने के कारण दूसरे को नहीं देखता।
(५७)
द्रुहिणभवनपद्मबीजमाला-
मणिपरिवर्तनतत्परात्मनस्ते।
ग्रसितुमखिलमेव जन्तुजातं
विजनयतो विदिता विडालवृत्ति:।।
अन्वय: - द्रुहिण-भवन-पद्मबीज-मालामणि-परिवर्तन-तत्परात्मन: ते अखिलम् एव जन्तुजातं ग्रसितुं विजनयत: विडालवृत्ति: विदिता (अस्ति)।
पदार्थप्रकाशिका - द्रुहिणेति- द्रुहिण-भवन-पद्मबीज-मालामणि-परिवर्तन- तत्परात्मन:, द्रुहिणभवनानि ब्रह्माण्डानि एव पद्मबीजानि कमलबीजानि तेषां मालाया: स्रज: मणीनाम् अक्षानां परिवर्तने परिचालने तत्पर आत्मा यस्य स, तस्य। 'धाताब्जयोनिर्द्रुहिणो विरिञ्चि: कमलासन:’ इत्यमर:। तादृशस्य ते शिवस्य अखिलं सम्पूर्णं जन्तुजातं प्राणिजातं ग्रसितुं भक्षयितुं विजनयत: समग्रमपि भुवनं जनरहितं कुर्वतस्ते विडालवृत्ति: मार्जारस्वभाव: विदिता प्रसिद्धा। अस्तीति शेष:। विडालो यथा स्वशावकान् खादति तथैव त्वमपि स्वजन्यं जगत् संहरसि एकान्तस्थानं प्राप्तुं नैकान् विष्णून् ब्रह्मणश्च जनयन् संहरसि। यथा विडाल: स्वभोज्यं मूषकादि ग्रसितुं कुत्रचिन्निलीय तिष्ठति तथैव ब्रह्माण्डमालाक्षपरिवर्तन-व्याजेन तत्रैव निलीनस्य त इयं निखिलं प्राणिजातं ग्रसितुं विडालवृत्तिरस्ति। सा चेयं प्रसिद्धा। 'ओतुर्विडालो मार्जारो वृषदंशक आखुभुक्’ इत्यमर:।
अनुवाद - तुम ब्रह्माण्डरूपी पद्मबीजों से बनी माला के दानों को फेरने में तत्पर रहते हो। इस कार्य से तुम समस्त प्राणियों को झपटने के लिए सभी भुवनों को विजन (जनरहित) करते हो। तुम्हारी यह विडालवृत्ति प्रसिद्ध है।
(५८)
अपरिमितकृतेर्निराश्रयस्य
भ्रमरहितस्य निरस्तचेष्टितस्य।
दृषदुदरदरीषु दर्दुराणां
घटनपटोस्तव कीदृशं शरीरम्।।
अन्वय: - अपरिमितकृते: निराश्रयस्य भ्रमरहितस्य निरस्तचेष्टितस्य दृषदुदरदरीषु दर्दुराणां घटनपटो: तव शरीरं कीदृशम् (अस्ति)?।
पदार्थप्रकाशिका - अपरिमितेति- अपरिमिता विशाला कृति: रचना यस्य स अपरिमितकृतिस्तस्य, निराश्रयस्य आश्रयरहितस्य। शिवस्य सर्वव्यापकत्वात् तस्य निराश्रयत्वम्। भ्रमरहितस्य गतभ्रमस्य, सर्वज्ञानाधारत्वाद् भ्रमराहित्यम्। निरस्तचेष्टितस्य निरस्तानि चेष्टितानि यस्य तस्य दृषदुदरदरीषु दृषदां शिलानाम् उदरे मध्ये विद्यमाना दरी गुहा दृषदुदरदरी, तासु। 'पाषाणप्रस्तरग्रावोपलाश्मान: शिला दृषत्’ इत्यमर:। 'दरी तु कन्दरो वास्त्री’ इत्यमर:। दर्दुराणां भेकानां घटने निर्माणे पटुश्चतुरस्तस्य। 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयो:’ इत्यमर:। तव शिवस्य शरीरं देहरचना कीदृशम् किम्प्रकारकम्। अस्तीति शेष:।
अनुवाद - तुम्हारी रचना अतिविशाल है। तुम निराश्रय हो, भ्रमरहित हो, चेष्टारहित हो, शिलाओं के मध्य विद्यमान गुफाओं में, जहाँ जीवन की कोई आशा नही होती, तुम मण्डूकों की रचना कर देते हो, ऐसे हे शिव! तुम्हारा शरीर कैसा है?।
(५९)
भुवनभवनभासनप्रदीप!
न्यपतदसौ त्वयि चेतनापतङ्गी।
क्षणमधिकमदीप्यत ज्वलन्ती
पुनरजहात्प्रथमामपि स्वसत्ताम्।
अन्वय: - हे भुवनभवनभासनप्रदीप! असौ चेतनापतङ्गी त्वयि न्यपतत्। क्षणम् अधिकं ज्वलन्ती अदीप्यत। पुन: प्रथमाम् अपि स्वसत्ताम् अजहात्।
पदार्थप्रकाशिका - भुवनेति- हे भुवनभवनभासनप्रदीप! भुवनं लोक एव भवनम्, तस्य भासने प्रदीप:, भुवनभवनभासनप्रदीपस्तत्सम्बोधने। भुवनभवनानां प्रकाशके प्रदीपे त्वयि असौ चेतनापतङ्गी चेतना बुद्धिरेव पतङ्गी सा न्यपतत्। पतनानन्तरं च क्षणम् अधिकं निमेषाधिकं कालं तस्मिन्नेव दीपे ज्वलन्ती अदीप्यत स्वशरीरदाहद्वारा प्रकाशवृद्धिमकरोत्। पुन: प्रथमां जीवद्दशायां प्राप्तां स्वसत्तां स्वस्थितिम् अजहात् अत्यजत्।
अनुवाद - हे भुवन रूपी भवन के प्रकाशक दीप! तुम में यह चेतना रूपी पतङ्गी गिरी, वह क्षण भर जलती हुई प्रकाशित हुई। तदनन्तर उसने अपनी पूर्व सत्ता को त्याग दिया।
(६०)
ध्रुवमियमपवर्गरात्रिसन्ध्या
भवति यतस्त्वयि निर्भरोऽनुराग:।
रुचिमय! चरमोऽयमञ्जलिस्ते
ननु नचिराद्भविता भवानदृश्य:।।
अन्वय: - ध्रुवम् इयम् अपवर्गरात्रिसन्ध्या भवति। यत: त्वयि निर्भर: अनुराग: (अस्ति)। हे रुचिमय! अयं ते चरम: अञ्जलि:। ननु भवान् नचिराद् अदृश्य: भविता।
पदार्थप्रकाशिका - ध्रुवमियमिति- ध्रुवम् निश्चयेन इयम् अपवर्गरात्रिसन्ध्या अपवर्गरात्रे: मोक्षनिशाया: सन्ध्या प्रदोषकाल: भवति जायते। यत: यस्मात् कारणात् त्वयि शिवे मम निर्भर: अत्यधिकस्तीव्रो च अनुरागो विद्यते। हे रुचिमय! हे कान्तिमय! मम अयं पुरो विद्यमानस्तव समक्षे पुटत्वेन संस्थापितो वा चरमोऽन्तिम: अञ्जलि: हस्तपुटं प्रणामाञ्जलिर्वा। ते तुभ्यं शिवाय। वर्तत इति शेष:। ननु न चिरात् शीघ्रं भवान् अपि अदृश्य: भविता भविष्यति। अपिना मुक्तोऽहमपीत्यर्थ:। रात्रौ यथा सूर्यो न दृश्यते तथा जाते मोक्षे दृग्दृश्यसम्बन्धाभावे न परमात्मा भासत इति भाव:।
अनुवाद - निश्चय ही यह मोक्षरात्रि की सन्ध्या हो रही है। तुम में मेरा अत्यधिक अनुराग है। हे कान्तिमय! यह चरम अञ्जलि तुम्हें समर्पित होगी। शीघ्र ही आप भी अदृश्य हो जाएँगे। मुक्त हो जाने पर मैं तो अदृश्य हो ही जाऊँगा साथ ही आप भी मेरे लिये अदृश्य हो जाएँगे। मेरे मुक्त होने पर द्रष्टा और दृश्य का भाव ही समाप्त हो जायेगा।
(६१)
यदपि तव वशे ममेन्द्रियाणि
श्रुतिविषयावधिवर्तमानदृष्टे:।
मुखमसि जगतस्तथापि नाथ!
श्रुतिमुकुरेण विना न वेदितासे।
अन्वय: - हे नाथ! यदपि श्रुतिविषयावधिवर्तमानदृष्टे: मम इन्द्रियाणि तव वशे (सन्ति)। (त्वं) जगत: मुखम् असि तथापि श्रुतिमुकुरेण विना न वेदितासे।
पदार्थप्रकाशिका - यदपीति- हे नाथ! हे स्वामिन्! यदपि श्रुतिविषयावधिवर्तमानदृष्टे: श्रुते: विषया: श्रुतिविषया:, श्रुतिविषया एव अवधि: सीमा श्रुतिविषयावधिस्तत्र वर्तमाना विद्यमाना दृष्टिर्यस्य स:, तस्य तव शिवस्य मम इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वशे सन्ति। त्वं शिव: जगत: संसारस्य मुखं वक्त्रम् असि तथापि श्रुतिमुकुरेण विना वेददर्पणेन विना न वेदितासे। वेदयतेर्लुटि। ज्ञापयितुं न शक्यस इत्यर्थ:।
अनुवाद - हे नाथ! यद्यपि तेरी दृष्टि श्रुतिविषयों की सीमा तक है और मेरी इन्द्रियाँ तुम्हारे वश में हैं। तुम जगत् के मुख हो तथापि श्रुतिरूपी दर्पण के बिना तुम्हें नहीं जाना जा सकता।
(६२)
मतिधनमितरे सुदीर्घनिद्रा-
प्रवणधियस्त्वयि निक्षिपन्त्यतन्त्रे।
उपहरणसुसञ्चितो न जातु
व्ययमुपगच्छति चेतनानिधिस्ते।।
अन्वय: - इतरे सुदीर्घनिद्राप्रवणधिय: अतन्त्रे त्वयि मतिधनं निक्षिपन्ति। उपहरणसञ्चित: ते चेतनानिधि: न जातु व्ययम् उपगच्छति।
पदार्थप्रकाशिका - मतिधनमिति- इतरे अपरे सुदीर्घनिद्राप्रवणधिय: सुदीर्घा चासौ निद्रा सुदीर्घनिद्रा, तत्र प्रवणा सुदीर्घनिद्राप्रवणा, सुदीर्घनिद्राप्रवणा धीर्येषां ते, सुदीर्घनिद्राप्रवणधिय:। तादृशा इतरे जनास्त्वयि अतन्त्रे नियमरहिते। स्वतन्त्र इति यावत्। मतिधनं बुद्धिवैभवं निक्षिपन्ति अर्पयन्ति। उपहरणसञ्चित: उपहरणेन ग्रहणेन दानप्राप्त्या वा सञ्चित एकत्रीकृतस्ते चेतनानिधि: चेतनाया ज्ञानस्य निधि: कोष: जातु कदाचिदपि न व्ययम् उपगच्छति, समाप्तिं न एतीति भाव:। 'बुद्धिर्मनीषाधिषणा धी: प्रज्ञा शेमुषी मति:। प्रेक्षोपलब्धिश्चि-त्संवित्प्रतिपज्ज्ञप्ति-चेतना:’ इत्यमर:। 'निधिर्ना शेवधि:’ इत्यमर:।
काव्यमालासंस्करणे 'सुदीर्घनिद्राप्रणव’ इति पाठ:। अस्माभिस्तु 'प्रवण’ इति पाठ: स्वीकृत:। अमृतोदये तु 'निक्षिपन्त्यन्द्रे’ इति पाठ:।
अनुवाद - सुदीर्घनिद्रा में प्रवणबुद्धि वाले दूसरे लोग नियम रहित स्वतन्त्र तुझ शिव में अपने बुद्धिधन को समर्पित करते हैं। उन्हीं समर्पित बुद्धियों को ग्रहण करके या भेट मंय प्राप्त करके एकत्र किया गया तुम्हारी चेतना का खजाना कभी भी समाप्त नहीं होता।
(६३)
क्वचिदपि विषमे त्वया वियुज्य
स्थितिमनवाप्य चिरस्य संसरामि।
भवगिरिसरिदस्मि चित्समुद्र!
स्वमपि जहामि तदा लभे यदि त्वाम्।।
अन्वय: - क्वचित् विषमे अपि त्वया वियुज्य स्थितिम् अनवाप्य चिरात् संसरामि। हे चित्समुद्र! (अहं) भवगिरिसरित् अस्मि। यदि त्वां लभे तदा स्वम् अपि जहामि।
पदार्थप्रकाशिका - क्वचिदिति- क्वचित् विषमे समतारहितप्रदेशे त्वया शिवेन वियुज्य वियुक्तिं लब्ध्वा स्थितिं स्थैर्यम् अनवाप्य अप्राप्य चिरात् चिरकालात् संसरामि गच्छामि। 'क्षीणे पुण्ये मृत्युलोकं विशन्ति’ इति पूर्वं पुण्यपरिपाकात् परमात्मसङ्गं समवाप्यापि पुन: पुण्यक्षीणतावशात् त्वया वियुक्तोऽभवम्। हे चित्समुद्र! चेतनाजलधे! अहं भवगिरिसरित् भव एव गिरि: पर्वतस्तस्य सरिन्नदी अस्मि। अतस्तत्र त्वया वियुक्त: सातत्येन प्रवहामि। न कदापि शान्तिं लभे। यदि त्वां चित्समुद्ररूपं शिवं लभे प्राप्रोमि तदा सपद्येव त्वत्प्राप्त्यनन्तरं त्वद्रूपो भूत्वा स्वं निजं भवनदीस्वरूपं जहामि त्यजामि। समुद्रे गत्वा नदी अपि समुद्र एव भवति। नदीत्वेन तदनन्तरं तस्या: सत्ता न भवति। अतश्चित्समुद्ररूपं त्वां शिवमवाप्य अहमपि शिवरूप एव भवामीति भाव:।
अनुवाद - मैं कहीं विषम स्थल में तुमसे वियुक्त हुआ हूँ। कहीं स्थिर न हो पाने के कारण चिरकाल से तुम से बिछुड़ (अनेक योनियों जन्म-मृत्यु ग्रहण) कर संसरण कर रहा हूँ। हे चित्समुद्र! मैं संसाररूपी पर्वत की नदी हूँ। यदि तुम्हें पा जाऊँ तो अपने स्वरूप को भी छोड़ दूँ।
(६४)
भगवति नियते विदूरयात्रा-
सहचरि! संसरणाध्वनोऽयमन्त:।
जरति! विरम नि:सहासि संवि-
न्नगरमत: परमद्वयोपभोग्यम्।।
अन्वय: - हे विदूरयात्रासहचरि! हे भगवति नियते! अयं संसरणाध्वन: अन्त: (अस्ति)। हे जरति! (त्वं) नि:सहा असि, विरम। अत: अद्वयोपभोग्यं संविन्नगरम् (भवति)।
पदार्थप्रकाशिका - भगवतीति- हे विदूरयात्रासहचरि! विदूरयात्रायां संसारदशायां सहचरि! सङ्गिनि! हे भगवति नियते! हे भगवति भवितव्यते! वा। 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि:’ इत्यमर:। अयं पुरतो विद्यमान:, संसरणाध्वन:, संसरणस्य गमनस्य अध्वा मार्ग: संसरणाध्वा, तस्य। संसारसंसरणमार्गस्येत्यर्थ:। 'अयनं वर्त्म मार्गाध्वपन्थान: पदवी सृति:। सरणि: पद्धति: पद्या वर्तन्येकपदीति च’ इत्यमर:। अन्त: नाश:। अस्तीति शेष:। एतदनन्तरं संसारमार्गस्य गतिर्नास्तीत्यर्थ:। 'अन्त: स्वरूपे निकटे प्रान्ते निश्चयनाशयो:’ इति हैम:। हे जरति! हे वृद्धे! भवितव्यते नियते वा, भवसंसरणाध्वनोऽन्ते नियतेर्निर्बलत्वात् जरतीति पदेन व्यपदेश:। त्वं नि:सहा असि, विरम, निवर्तस्व। अत: परं संविन्नगरम्, संविदो नगरम्, ज्ञानपुरम्। तद् अद्वयोपभोग्यम् एकाकिना एव भोग्ययोग्यम्। भवतीति शेष:। तत्र नियतेस्तव गतिर्नास्ति। भगवत: कृपया सम्प्रति भवमार्गस्य विनाशो जात:। मया मोक्षो लब्ध:। नियतिस्त्वं वृद्धत्वं प्राप्तवती। अतोऽत्र विरम, संसारं गच्छ। संविन्नगरं ज्ञाननगरं, मोक्षनगरमिति यावत्। द्वाभ्यां बहुभिर्वा भोगयोग्यं न भवति। तत्र जीव एकाकी गच्छतीति भाव:।
अनुवाद - हे संसारयात्रा की सहचरि! भगवति भवितव्यते! यह संसार में भटकाने वाले मार्ग का अन्त है। हे वृद्धे नियते! अब रुको और वापस जाओ। तुम नि:सह हो। संवित् नगर (मोक्षनगर) अकेले ही भोगयोग्य होता है।
(६५)
विलिखतु कथमक्षराणि भाले
स विधिरदृष्टपदार्थलेखदक्ष:।
मम हि मिलितमक्षपादपाद-
प्रणिपतनेन ललाटसीम्रि चक्षु:।।
अन्वय: - अदृष्टपदार्थलेखदक्ष: स विधि: मम भाले अक्षराणि कथं विलिखतु। मम हि अक्षपादपादप्रणिपतनेन ललाटसीम्नि चक्षु: मिलितम्।
पदार्थप्रकाशिका - विलिखत्विति- अदृष्टपदार्थलेखदक्ष: अदृष्टानाम् अनागतानां पश्चाद्भाविपदार्थानां लेखे निबन्धने दक्ष: चतुर: स विधि: ब्रह्मा मम भाले मस्तके भालपट्टके वा अक्षराणि भाग्याक्षराणि कथं विलिखतु टीकेत। मम हि अक्षपादपादप्रणिपतनेन अक्षपादस्य गौतमस्य न्यायसूत्रकर्तु: पादयो: प्रणिपतनेन प्रणतिकरणेन ललाटसीम्नि भालावधौ चक्षु: नेत्रं मिलितं प्राप्तम्। अक्षपादस्य गौतममुने: पदेऽक्षि आसीदिति काचन किंवदन्ती लोके प्रसृता। तामेवाश्रित्येह वदति। अक्षपादस्य पादयो: प्रणिपतनेन तस्य पादे विद्यमानमक्षि मया लब्धम्। इदानीमहं मम भाग्यपट्टे लिखितानि भाग्याक्षराणि पठितुं शक्नोमीति भाव:। स हि गौतममुनि: स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्यमिति प्रतिज्ञाय पश्चाद् व्यासेन प्रसादित: पादे नेत्रं प्रकाश्य तस्य व्यासमुनेर्दर्शनं कृतवानिति पौराणिकी कथा। गौतमो नाम प्रमाण-प्रमेयादि-षोडशपदार्थज्ञानेन मोक्षप्राप्तिरिति सिद्धान्तयति। अज्ञाते भाग्याक्षरे कथं मोक्षोपलब्धिरिति तच्छास्त्रपठनेन लब्धपदार्थज्ञानस्य मम भाग्ये नूनमज्ञातपदार्थलेखदक्षो विधि: न किमपि लेखितुं शक्नोतीत्याशय:। विधिरदृष्टपदार्थलेखदक्षो भवति। स हि भाले यल्लिखति तत्कालान्तरे फलति। अहञ्च मुनेरक्षपादस्य सेवया भालचक्षु: प्राप्तवानस्मीति भालेऽदृष्टपदार्थलेखस्य अवसर एव नाऽस्ति। स्थानाभावात् स लेखितुं न पारयिष्यति। अथवा तल्लिखितमहं पठिष्यामीति भाव:। यद्वा अक्षपादस्य पादयो: प्रणिपतनेन तत्प्रणीतशास्त्रस्याध्ययनेन तृतीयं ज्ञानरूपं भालचक्षु: प्राप्तवानस्मीति, विवक्षति। अमृतोदये तु-
'मिलति नयनमक्षपादपाद-
प्रणिपतनेन ललाटसीम्नि यस्य।
विधिरपि पुरुषस्य तस्य भाले्र
लिखितुमदृष्टलिपिं कुत: क्षमेत।।’ इति पाठ:।।६५।।
अनुवाद - अदृष्ट पदार्थों के लेखन में चतुर वह ब्रह्मा मेरे भाल पर भाग्याक्षर कैसे लिख सकेगा? अक्षपाद (गौतममुनि) के पैरों पर गिरने से मेरी ललाट सीमा में आँख प्राप्त हो गयी है।
(६६)
उडुनि मयि रवे! प्रकाशलेशं
व्यवधिवशादपरीक्षितो न्यधासी:।
तमपहरसि सन्निकर्षमेत्य
त्वदुपरि तर्हि निजं वपुस्त्यजामि।।
अन्वय: - हे रवे! अपरीक्षित: (त्वम्) उडुनि मयि व्यवधिवशात् प्रकाशलेशं न्यधासी:। सन्निकर्षम् एत्य तम् अपहरसि (चेत्) तर्हि (अहं) निजवपु: त्वदुपरि त्यजामि।
पदार्थप्रकाशिका - उडुनीति- हे रवे! हे सूर्य! अपरीक्षित: अकृतपरीक्षण: त्वम् उडुनि नक्षत्रे जीवरूपे वा मयि व्यवधिवशात् व्यवधानकारणात्, अहं त्वत्तोऽतिदूरेऽस्मीति हेतो: प्रकाशलेशं प्रकाशकणं न्यधासी: न्यपा:, पायितवानसीति भाव:। 'धेट् पाने’ इति धातो: लुङि, अन्तर्भावितणिचि रूपम्। धृतवानिति भाव:। धातूनामनेकार्थत्वात् धारणे निक्षेपे वा धेट्। 'स्त्रियां मात्रात्रुटी पुंसि लवलेशकणाणव:’ इत्यमर:। सन्निकर्षं सङ्गतिम् एत्य प्राप्य तं प्रकाशलेशम् अपहरसि दूरीकरोषि चेत् तर्हि अहं नक्षत्रं निजवपु: स्वशरीरं त्यजामि जहामि। नक्षत्रभूतोऽहं त्वत्प्रकाशेनैव प्रकाशितोऽस्मि। तव सङ्गत्या तद्दूरीभवति तर्हि मम शरीरविनाशोऽवश्यम्भावीति। यतो हि मयि तवैव प्रकाशलेशो विद्यते। नाहं स्वप्रकाश:। त्वादृशप्रकाशस्य सङ्गतावप्यसमर्थ:। अथवा मयि जीवे परमात्मन: प्रकाशो वर्तत इति तव सङ्गत्या स प्रकाशस्त्वय्येव विलीनतां गमिष्यतीति त्वद्रूपताप्राप्त्यनन्तरं मम स्वत्वं स्वयं गमिष्यतीति भाव:। अमृतोदये तु 'न्यधासी: इत्यत्र व्यतारी:’ इति पाठ:।
अनुवाद - हे सूर्य! अपरीक्षित होकर भी तुमने व्यवधान (अतिदूर होने) के कारण मुझ नक्षत्र में प्रकाशलेश डाला है। कभी सामीप्य पाकर अगर तुम उस प्रकाशलेश का अपहरण करोगे तो मैं अपना शरीर तुम पर छोड़ दूँगा।
(६७)
भवपथपथिकोऽस्मि वाटपाट
च्चर! मिलितोऽसि विलुण्ठ्य सम्पदो मे।
अहमपि भवदन्तरं प्रविश्य
ध्रुवमचिरेण हरामि ते विभूती:।।
अन्वय: - हे वाटपाटच्चर! (अहं) भवपथिक: अस्मि। (त्वं च) मे सम्पद: विलुण्ठ्य मिलित: असि। अहम् अपि भवदन्तरं प्रविश्य अचिरेण ध्रुवं ते विभूती: हरामि।
पदार्थप्रकाशिका - भवपथेति- हे वाटपाटच्चर! वाटस्य मार्गस्य पाटच्चर! चौर! 'चौरैकागारिकस्तेनदस्युतस्करमोषका:। प्रतिरोधिपयस्कन्दिपाटच्चर-मलिम्लुचा:’ इत्यमर:। अहं भवस्य संसारमार्गस्य पथिकोऽस्मि। त्वं च शिवो मे सम्पद: सांसारिकसम्पत्तीर्विलुण्ठ्य मिलित: प्राप्तोऽसि। अहं जीवोऽपि भवदन्तरं भवतोऽन्तरं हृदयं प्रविश्य अथवा त्वद्रूपो भूत्वा अचिरेण शीघ्रं ध्रुवं निश्चयेन ते विभूती: सम्पद ऐश्वर्यं हरामि नयामि। दूरीकरोमीति यावत्। 'विभूतिरैश्वर्यमणिमादिकमष्टधा’ इत्यमर:। भवमार्गे मिलितस्त्वं मम सांसारिकं सर्वस्वं हृतवानसि। सम्प्रति त्वदन्तरं प्रविष्टोऽहं त्वद्रूपतां गतोऽस्मीति तव विभूतयो ममापि सुखाय भविष्यन्तीति भाव:।
अनुवाद - हे मार्ग के चौर! मैं भवपथिक हूँ। तुम मेरी सांसारिक सम्पत्तियों को लूट कर मिले हो। अब मैं भी तुम्हारे अन्दर प्रवेश करके शीघ्र ही निश्चित रूप से तुम्हारी विभूतियों का हरण करूँगा।
(६८)
श्रुतिरसि पुरुषार्थसन्निबद्ध-
स्तव चरणे प्रथमे विरौमि वत्स:।
अमरगवि! स दोग्धि कस्य हेतो-
रमृतमभोक्तरि पूर्तिभाजि भाण्डे।।
अन्वय: - (त्वं) श्रुति: असि। तव प्रथमे चरणे पुरुषार्थसन्निबद्ध: वत्स: विरौमि। हे अमरगवि! स अभोक्तरि पूर्तिभाजिभाण्डे कस्य हेतो: अमृतं दोग्धि।
पदार्थप्रकाशिका - श्रुतिरसीति- हे शिव! त्वं शिव: श्रुति: वेदस्वरूपोऽसि। तव वेदस्वरूपस्य शिवस्य प्रथमे आद्ये कर्मकाण्डरूपे चरणे पादे पुरुषार्थसन्निबद्ध: पुरुषार्थेन धर्मादिना बद्ध: अहं वत्स: वत्सरूपो जीवो विरौमि हम्बारवमुच्चारयामि। 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्’ इति मेदिनी। हे अमरगवि! हे नित्यवाणि! स मादृशो जीव: अभोक्तरि भोक्तुरभावे पूर्तिभाजि भाण्डे पूर्तिं पूर्णतां भजत इति पूर्तिभाक् तादृशे भाण्डे पात्रे कस्य हेतो: कस्मात् कारणात् अमृतं दुग्धं वस्तुतो मोक्षं दोग्धि प्रपूरयति। वस्तुतो जीवोऽपि शिवस्वरूपत्वेन भोक्ता नास्ति। पात्रमपि शिवस्वरूपत्वेन पूर्णमेव वर्तते। यदा कश्चन भोक्ता भवति पात्रं च रिक्तं भवति तदैवाऽमृतस्य दोहनं समीचीनमिति भाव:। 'अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते। अयाचिते च मोक्षे च ना धन्वन्तरिदेवयो:’ इति मेदिनी। काव्यमालासंस्करणे 'चरमे’ इति पाठ:। मया तु 'चरणे’ इति पाठ: स्वीकृत:। अमृतोदये तु-
जननि तव पुमर्था एव पादा: प्रथन्ते
प्रथमचरणबद्धो निर्भरं रौमि वत्स:।
चरमचरणमूलप्रस्नुतां स्तन्यधारा-
ममरगवि! कदा ते मुक्तबन्ध: पिबेयम्।।
इति पाठ:। अयमेव वस्तुत: स्वीकारयोग्य:।।६८।।
अनुवाद - तुम श्रुति हो। तुम्हारे प्रथम चरण में पुरुषार्थ से बँधा हुआ मैं बछड़ा हम्बारव कर रहा हूँ। हे अमरवाणि! वह (जीव) भोक्ता के अभाव और पात्र के पूर्ण होने पर अमृत का दोहन किसके लिये करे।
(६९)
शिव! तव मम चान्तरालभूमौ
विविधविधां व्यवधां व्यधाद्विधाता।
तदपि हि पिहितोऽहमेव भित्ति-
र्भवति वृति: सदनस्य नाजिरस्य।।
अन्वय: - हे शिव! विधाता तव मम च अन्तरालभूमौ विविधविधां व्यवधां व्यधात्। तदपि अहमेव पिहित:। हि भित्ति: सदनस्य वृति: भवति न अजिरस्य।
पदार्थप्रकाशिका - शिवेति- हे शिव! विधाता सृष्टिकर्ता ब्रह्मा, तव शिवस्य मम जीवस्य च अन्तरालभूमौ अभ्यन्तरभूमौ। 'अभ्यन्तरं त्वन्तरालम्’ इत्यमर:। विविधविधां विविधप्रकारिकां व्यवधाम् अन्तर्धां व्यधात्, अकरोत्। 'अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्। अपिधान-तिरोधान-पिधाना-च्छादनानि च’ इत्यमर:। तदपि तथापि ताभिर्व्यवधाभि: अहमेव पिहित: आवृत: न भवान् शिव:। हि भित्ति: सदनस्य वृति: आवरणं भवति न अजिरस्य प्राङ्गणस्य तव। भित्तिनाशे गृहाकाशो महाकाशेऽन्तर्भवति तथैव मायाहानौ जीवपरमात्मनो: एैक्यं फलतीति भाव:।
अनुवाद - हे शिव! विधाता ने तुम्हारे और मेरे बीच अनेक प्रकार के व्यवधान बना दिये हैं। फिर भी वह भित्ति मुझे ही आवृत करती है आपको नहीं। दीवार का घेरा घर को घेरता है आंगन को नहीं।
(७०)
अवधिरुपरराम भूर्विभक्ता
प्रभवसि गूढमतिर्न मां प्रहर्तुम्।
तदहमहमिकाहृदेकशेषा-
वधिरधुना ध्रुवमावयोर्विमर्द:।।
अन्वय: - अवधि: उपरराम। भू: विभक्ता। गूढमति: (त्वं) मां प्रहर्तुं न प्रभवसि। तत् अधुना आवयो: अहमहमिकाहृत् एकशेषावधि: विमर्द: ध्रुवम् (अस्ति)।
पदार्थप्रकाशिका - अवधिरिति- अवधि: सीमा, मायेति यावत्। उपरराम विनष्टा। प्रलयकालेऽस्मिन् भू: पृथ्वी विभक्ता। गूढमति: त्वं मां प्रहर्तुं दण्डयितुं न प्रभवसि। तत् तस्मात् कारणात् अधुना सम्प्रति आवयो: शिवगोकुलनाथयो: ब्रह्मजीवयोर्वा अहमहमिकाहृत् अहमहमिकां परस्पराहङ्कारं हरतीति अहमहमिकाहृत्। 'अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कार:’ इत्यमर:। एकशेषावधि: एकशेषोऽवधिर्यस्य स एकशेषावधि:। आवयो: एको भवान् शिव एव यस्मिन् शेषो भविष्यति न तु जीवरूपोऽहम्। तादृशो विमर्दो मर्दनं कुट्टनं ध्रुवं निश्चितम्। अस्तीतिशेष:। प्रलयकाले जीवस्य त्वदू्रपताप्राप्ते: एक एव आवयो: शिष्यत इति भाव:। अमृतोदये तु-
व्यवधिरुपरराम भूर्विविक्ता
प्रभवसि गूढगतिर्न मां प्रहर्तुम्।
तदिह भवतु तावदेकशेषा-
परविलयावधिरावयोर्विमर्द:।। इति पाठ:।।७०।।
अनुवाद - अवधि समाप्त हो चुकी है। पृथ्वी विभक्त हो गयी है। गूढमति तुम मुझ पर प्रहार नहीं कर पा रहे। अब हम दोनों की अहमहमिका को दूर करने वाला विमर्दन होगा, जिसमें (तुझ और मुझ मे से) एक ही शेष रहेगा।
(७१)
न धरणिरुपरि प्रयाति नाऽध:
पतति न च प्लवते न बम्भ्रमीति।
न च दिवि वसति स्वशक्तियोगा-
दपि तु भवानचलास्थिरत्वहेतु:।।
अन्वय: - धरणि: स्वशक्तियोगात् उपरि न प्रयाति, अध: न पतति, न प्लवते, न बम्भ्रमीति, न च दिवि वसति, अपि तु भवान् (तस्या:) अचलास्थिरत्वहेतु: (अस्ति)।
पदार्थप्रकाशिका - न धरणीति- धरणि: पृथ्वी स्वशक्तियोगात् स्वस्या: शक्तेर्योगात् उपरि न प्रयाति, न गच्छति, अध: अधस्तलं न पतति, न प्लवते, न तरति न बम्भ्रमीति, न अतिशयेन भ्रमति, न च दिवि आकाशे वसति निवसति इति। सा स्वशक्त्या किमपि कर्तुं न क्षमा। भवान् शिव एव अचलास्थिरत्वहेतु: अचलाया: पृथिव्या: स्थिरत्वस्य हेतु: कारणम्। पृथिव्या: स्थिरत्वस्य कारणं त्वमेवेति भाव:।
अनुवाद - यह पृथ्वी अपनी शक्ति के कारण ऊपर नहीं जाती, नीचे नहीं गिरती, तैरती नहीं, अत्यधिक भ्रमण नहीं करती और स्वर्ग में नहीं रहती है। आप शिव ही इसअचला (पृथ्वी) के स्थिरत्व के कारण हैं।
(७२)
अविषमचतुरस्रषड्विभागां
न सृजसि कन्दुकनिस्तलां न सूषे।
घटयसि पृथिवीमिमां स्वचक्र -
भ्रमणकुलाल! विशालदर्पणाभाम्।।
अन्वय: - हे स्वचक्रभ्रमणकुलाल! इमां पृथ्वीं अविषमचतुरस्रषड्विभागां न सृजसि। कन्दुकनिस्तलां न सूषे। (त्वम् इमां) विशालदर्पणाभां घटयसि।
पदार्थप्रकाशिका - अविषमेति- हे स्वचक्रभ्रमणकुलाल! स्वचक्रस्य कालचक्रस्य भ्रमणे भ्रामणे गत्युत्पादने कुलाल: कुम्भकारस्तत्सम्बोधने। त्वम् इमां पृथ्वीम् अविषमचतुरस्रषड्विभागाम्, अविषमा: समाश्चतुरस्राश्च षड्विभागा यस्यास्तादृशीं न सृजसि न रचयसि। कन्दुकनिस्तलां कुन्दुक इव निस्तलां वर्तुलां न सूषे न जनयसि। त्वम् इमां धरित्रीं विशालदर्पणाभां विशालश्चासौ दर्पण: विशालदर्पणस्तद्वत् आभा यस्यास्तादृशीं घटयसि सृजसि। अमृतोदये तु 'भचक्रभ्रमणकुलाल’ इति पाठ:।
अनुवाद - हे अपने चक्र का भ्रमण करने वाले कुलाल! तुम इस पृथ्वी को समान चतुरस्रों से युक्त छ: विभागों वाली नहीं बनाते। कन्दुक की तरह गोल भी नहीं बनाते। तुम इसे विशाल दर्पण के समान आभा वाली बनाते हो।
(७३)
पुरहर! परदृष्टिदोषशान्त्यै
कति जगदण्डकगण्डकान्बिभर्षि।
त्वदुपरि परिपातयन्ति दृष्टिं
विजहति सर्वमकिञ्चना भवन्ति।।
अन्वय: - हे पुरहर! परदृष्टिदोषशान्त्यै कति जगदण्डकगण्डकान् बिभर्षि। (सर्वे) त्वदुपरि दृष्टिं परिपातयन्ति। सर्वं विजहति (सति) अकिञ्चना भवन्ति।
पदार्थप्रकाशिका - पुरहरेति- हे पुरहर! परदृष्टिदोषशान्त्यै परेषां दृष्टिदोषस्य शान्त्यर्थम्। दृष्टिदोषात् मम पीडा न स्यादिति धिया कति जगदण्डकगण्डकान् ब्रह्माण्डानि बिभर्षि धारयसि। त्वं जगदण्डकगण्डकान् ब्रह्माण्डरूपगण्डकान् गोरोचनालिखितभूर्जपत्रगर्भान् परदृष्टिदोषबाधनाय बालकादीनां गले बद्ध्यमानान् वस्त्रग्रन्थिविशेषान् धारयसि तथापि सर्वे सांसारिकास्त्वदुपरि दृष्टिं परिपातयन्ति। सर्वे त्वां पश्यन्ति किन्तु त्वद्दर्शनेन सर्वस्य सांसारिकवस्तुन: परित्यागो भवति। अतस्त्वं परेषां स्वस्मिन् दोषवारणाय नैकानि ब्रह्माण्डानि धारयसि तत्र निलीय च तिष्ठसि। सर्वं विजहति परित्यजति सति सर्वे अकिञ्चना:, नास्ति किञ्चनो येषां तादृशा, दरिद्रा भवन्ति। अमृतोदये तु 'त्वदुपरि सहजप्रमोहदुष्टां कथमिव नाथ निपातयामि दृष्टिम्’ इति पाठ:।
अनुवाद - हे पुरहर! दूसरों के दृष्टिदोष से अपने को बचाने के लिये तुम कितने ही ब्रह्माण्डरूपी गण्डकों (बच्चों के गले में दृष्टिदोष से बचाने के लिये बाँधा जाने वाला गण्डा) को धारण करते हो। तथापि सभी तुम्हारे ऊपर दृष्टि डालते हैं किन्तु तुम्हारे दर्शन से समस्त सांसारिक भोगों के छूट जाने के कारण वे अकिञ्चन हो जाते हैं।
(७४)
परपुरमभिविश्य सर्वलोकं
भ्रमयसि सर्वदिनेषु भूतवर्ग:।
भवपितृवनवाटबोधिवृक्ष!
प्रलयनिशासु निलीय सेवते त्वाम्।।
अन्वय: - परपुरम् अभिविश्य सर्वदिनेषु सर्वलोकं भ्रमयसि। हे भवपितृवनवाटबोधिवृक्ष! भूतवर्ग: प्रलयनिशासु निलीय त्वां सेवते।
पदार्थप्रकाशिका - परपुरमिति- परपुरं परेषां नगरम्। प्राणिनां हृद्देश इति यावत्। तथा चोक्तं श्रीमद्भगवद्गीतायाम्-
ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।।१८.६१।।
अभिविश्य प्रविश्य सर्वदिनेषु सर्वेषु दिवसेषु सर्वलोकं भ्रमयसि भ्रमयुक्तं भ्रमणशीलं वा करोषि। भवपितृवनवाटबोधिवृक्ष! संसाराख्यपितृवनस्य श्मशानभूमे: वाटस्य मार्गस्य बोधिवृक्ष! अश्वत्थवृक्ष! 'बोधिद्रुमश्चलदल: पिप्पल: कुञ्जराशन:। अश्वत्थे’ इत्यमर:। 'श्मशानं स्यात् पितृवनम्’ इत्यमर:। 'वाट: पथश्च मार्गश्च’ इति त्रिकाण्डशेष:। भूतवर्ग: भूतानां समूह: प्रलयनिशासु प्रलयरात्रिषु निलीय निलीनो भूत्वा। परमाणुरूपेणेति यावत्। त्वां सेवते भजते। यद्वा नानायोनिषु भ्रमञ्जीवोऽन्ते त्वय्येव विश्राम्यति।
अनुवाद - तुम दूसरे के नगर में (प्राणियों के हृदय में) घुस कर प्रत्येक दिन सभी लोकों को भ्रमित करते हो या भ्रमणशील बनाते हो। हे संसार रूपी श्मशान मार्ग के पीपलवृक्ष! प्रलयरात्रि में भूतवर्ग तुम्हारे आश्रित होकर तुम्हारी सेवा करता है।
(७५)
ग्रहगृहसरसीरुहस्य राहु-
भ्रमरविमर्दसहार्ककर्णिकस्य।
भ्रमणमिदमभिव्यनक्ति लीलां
तव घटितां ध्रुवनालघट्टनाय।।
अन्वय: - राहुभ्रमरविमर्दसहार्ककर्णिकस्य ग्रहगृहसरसीरुहस्य इदं भ्रमणं ध्रुवनालघट्टनाय घटितां तव लीलाम् अभिव्यनक्ति।
पदार्थप्रकाशिका - ग्रहगृहेति- ग्रहगृहसरसीरुहस्य ग्रहाणां नक्षत्राणां गृहं ग्रहगृहम्, ग्रहगृहस्य सरसीरुह: कमलम्, तस्य। 'सहस्रपत्रं कमलं शतपत्रं कुशेशयम्। पङ्केरुहं तामरसं सारसं सरसीरुहम्’ इत्यमर:। राहुभ्रमरविमर्दसहार्क-कर्णिकस्य राहुरेव भ्रमर: राहुभ्रमर:, तस्य विमर्दं पीडां सहते इति राहुभ्रमरविमर्दसहा, अर्क एव कर्णिका पद्मबीजकोशी अर्ककर्णिका, राहुभ्रमरविमर्दसहा अर्ककर्णिका यस्य स, तस्य राहुरूपद्विरेफपीडासह: सूर्यरूप: य: पद्मबीजकोशस्तस्य। इदं जगत्प्रसिद्धं यद् भ्रमणं पृथिवीपरिक्रमणं विद्यते तद् ध्रुवनालघट्टनाय, ध्रुवोऽवधि:। ध्रुवरूपस्य नालस्य काण्डस्य घट्टनाय मेलनाय घटितां जायमानां तव शिवस्य लीलां विलासक्रियामभिव्यनक्ति प्रकटयति। 'लीला विलासक्रिययो:’ इत्यमर:। ग्रहगणस्य पृथ्वीमण्डलमभितो भ्रमणं तदवधिकाण्डेन योगाय जायमानां तव लीलामभिव्यनक्तीत्यर्थ:। 'कर्णिका कर्णभूषणे। करिहस्ताङ्गुलौ पद्मबीजकोश्याम्’ इत्यमर:। अमृतोदये तु 'नियतिपवनवेगघट्टितानि त्वयि करुणाकमलाकरे भ्रमन्ति’ इति पाठ:।
अनुवाद - राहुरूप भ्रमर की पीड़ा को सहने वाले सूर्यरूप पद्मबीजकोशी (कमल के अन्दर विद्यमान बीजकोश) से युक्त ग्रहरूप कमल का यह प्रसिद्ध भ्रमण उसके ध्रुवरूप नाल से उसे मिलाने के लिए घटित तेरी लीला को अभिव्यक्त करता है।
(७६)
सकलगुणगणो ममोर्णनाभे-
र्विलयमुपैति वितायते च भूय:।
पटुजनजडतापहारहेतो!
क्षणमपि न क्षमसे क्षयं गुणानाम्।।
अन्वय: - मम उर्णनाभे: सकलगुणगण: विलयम् उपैति भूय: वितायते च। हे पटुजनजडतापहारहेतो! गुणानां क्षयं क्षणम् अपि न क्षमसे।
पदार्थप्रकाशिका - सकलगुणेति- मम मदीय: उर्णनाभे: लूताया:। 'लूता स्त्री तन्तुवायोर्णनाभमर्कटका: समा:’ इत्यमर:। सकलगुणगण: सकलानां गुणानां तन्तूनां गण: समूह: विलयं विनाशम् उपैति प्राप्नोति। भूय: पुन: वितायते विस्तीर्यते च। पटुजनजडतापहारहेतो! पटुजनानां विज्ञानां जडताया मूर्खताया अपहारहेतो अपहरणकारणगुणानां क्षयं विनाशं क्षणं निमिषमपि न सहसे न सोढुं शक्नोषि। काव्यमालासंस्करणे 'हेतो:’ इति पाठ:। अमृतोदये तु-
'सपदि गुणगणोऽयमूर्णनाभे-
र्विलयमुपैति वितायते च भूय:।
जनजडिमभिदा पटु: पटस्तु
क्षणमपि न क्षमते क्षयं गुणानाम्’ इति पाठ:।।७६।।
अनुवाद - मुझ उर्णनाभि (मकड़ी) के समस्त गुण समूह विलय को प्राप्त होते हैं और पुन: विस्तार प्राप्त करते हैं। विज्ञजनों की मूर्खता के अपहारक हेतु (शिव) गुणों का विनाश तुम क्षण भर भी नहीं सह पाते।
(७७)
न खलु विघटिता: पुनर्घटन्ते
न च घटिता: स्थिरसङ्गतां श्रयन्ते।
पिपतिषुमवशं रुजन्ति वंश्या-
स्तटतरुमाप इवापगागणस्य।।
अन्वय: - न खलु विघटिता: पुन: घटन्ते। न च घटिता: स्थिरसङ्गतां श्रयन्ते। वंश्या: अवशं पिपतिषुं तटतरुम् आपगागणस्य आप: इव रुजन्ति।
पदार्थप्रकाशिका: - न खल्विति- न खलु विघटिता: विनष्टा: पुन: घटन्ते। न च घटिता: सृष्टा पदार्था: स्थिरसङ्गतां विनाशराहित्यं श्रयन्ते। तेऽपि विनाशं लभन्त एव। वंश्या: वंशे भवा जना अवशं निर्बलं पिपतिषुं पतनेच्छुं तटतरुम् आपगागणस्य नदीसमूहस्य आप: जलानीव रुजन्ति पीडयन्ति। यथा पतनशीलं तटस्थितं वृक्षं नदीजलानि पीडयन्ति तथा वंशे भवा: पुत्रपौत्रादयोऽवशं निर्बलं जनं पीडयन्तीत्यभिप्राय:।
अनुवाद - विनष्ट पदार्थों को पुन: नहीं रचा जाता। रचे हुए पदार्थ भी स्थिर नहीं होते। निर्बल को उसके वंशजन पतनशील तटतरु को नदीसमूह के जल की भाँति पीडित करते हैं।
(७८)
विगतविपरिलोपदृष्टि पश्यन्
वशयसि यां पुरुषप्रकाण्ड! मायाम्।
प्रकृतिचपलया तया विकारै-
र्बहुविधवर्णिकया वशीकृतोऽस्मि।।
अन्वय: - हे पुरुषप्रकाण्ड! विगतविपरिलोपदृष्टि पश्यन् यां मायां वशयसि, प्रकृतिचपलया बहुविधवर्णिकया तया वशीकृत: अस्मि।
पदार्थप्रकाशिका - विगतेति- हे पुरुषप्रकाण्ड! पुरुषेषु प्रकाण्डम् श्रेष्ठस्तत्सम्बोधने। विगतविपरिलोपदृष्टि विगतो विपरिलोपो यस्या: सा विगतविपरिलोपा, तादृशी दृष्टिर्यस्मिन् तद्यथा स्यात्तथा, नित्यप्रबुद्धदृष्ट्येत्यर्थ:। पश्यन् यां मायाम् अविद्यां वशयसि वशीकरोषि, प्रकृतिचपलया स्वभावचञ्चलया, बहुविधवर्णिकया अनेकप्रकारकैर्वर्णैर्विभूषितया विविधवेषधारिण्या नट्या तया मायया वशीकृतोऽस्मि। तया स्वमायापाशे निगडितोऽस्मि।
अनुवाद - हे पुरुषश्रेष्ठ! नित्यप्रबुद्ध दृष्टि से देखते हुए तुम जिस माया को वश में करते हो, उस स्वभाव-चंचल और अनेक प्रकार के वर्णों या वेषों से युक्त माया नटी द्वारा मैं वशीकृत किया गया हूँ।
(७९)
प्रकृतिचपलपीलुबीजवर्गे
दलति खगोलकुशूलविप्रकीर्णम्।
अघटितमितरेतरेण कल्प-
क्षयरजनौ समचीकलस्त्वमेक:।।
अन्वय: - एक: त्वं कल्पक्षयरजनौ प्रकृतिचपलपीलुबीजवर्गे दलति (सति) इतरेतरेण अघटितं खगोलकुशूलविप्रकीर्णं समचीकल:।
पदार्थप्रकाशिका - प्रकृतिचपलेति- एक: त्वं शिव: कल्पक्षयरजनौ प्रलयरात्रौ प्रकृतिचपलपीलुबीजवर्गे प्रकृत्या स्वभावेन चपलाश्चञ्चला पीलव: परमाणव एव बीजानि। पृथिव्यादिभूतपरमाणव इत्यर्थ:। तेषां वर्ग: समूहस्तस्मिन्। स्वभावेन चपलानां गतिशीलानां परमाणुरूपाणां बीजानां समूहे दलति सति विनश्यति सति, इतरेतरेण अन्योन्येन अघटितं असङ्गतं, पृथक् पृथक् एकैकशो वेति यावत्। खगोलकुशूलविप्रकीर्णम्, खगोलरूपे आकाशमण्डलरूपे कुशूले पात्रविशेषे विप्रकीर्णं व्याप्तं प्रसृतं विकीर्णं वा। क्रियाविशेषणमिदम्। समचीकल: सङ्कलनमकार्षी:। कल संख्यान इति धातो: णिचि लुङि रूपम्। अमृतोदये तु-
'प्रकृतिचपलपीलुबीजवर्गं
दलितखगोलकुसूलविप्रकीर्णम्।
अघटितमितरेतरेण कल्प-
प्रशमदिने समचीकलस्त्वमेक:।।’ इति पाठ:।।७९।।
अनुवाद - तुमने अकेले ही प्रलय की रात में प्रकृति से चंचल परमाणु रूप बीजों के समूह के छिन्न भिन्न हो जाने पर, अपने गोलरूपी पात्र में बिखरे हुए परमाणुओं को एक एक करके संकलित किया।
(८०)
स्वपुटपटलमभ्यजीर्यदाशा
वृतिरदलन्निरवाद्रविप्रदीप:।
प्रलयमवनिवास्त्वगात्तथापि
क्व जगदगारगृहस्थ! निश्यवात्सी:।।
अन्वय: - हे जगदगारगृहस्थ! स्वपुटपटलम् अभ्यजीर्यत्, आशावृति: अदलत्, रविप्रदीप: निरवात्, अवनिवास्तु प्रलयम् अगात् तथापि (त्वं) निशि क्व अवात्सी:?
पदार्थप्रकाशिका - स्वपुटेति- हे जगदगारगृहस्थ! जगदेव अगारं गृहम्, तस्मिन् तिष्ठतीति जगदगारगृहस्थस्तत्सम्बोधने। 'निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम्’ इति वाचस्पति:। स्वपुटपटलम् अभ्यजीर्यत् आशावृति:, स्वस्य निजस्य पुटपटलं सम्पुटसमूह: अभ्यजीर्यत् जीर्णमभवत्। आशावृति: दिग्रूपा भित्ति: अदलत्, विदीर्णा अभवत्। रविप्रदीप: रविरूपो जगतां प्रदीप: निरवात् प्रकाशरहितोऽभवत्। अवनिवास्तु पृथ्वीभवनं प्रलयं विनाशम् अगात्। तथापि निशि प्रलयरात्रौ त्वं कुत्र अवात्सी: निवासं कृतवानभू:।
अनुवाद - हे जगत् रूपी घर के गृहस्थ! तेरा पुटपटल जीर्ण हुआ। दिशाओं की दीवार नष्ट हो गयी, सूर्यदीप बुझ गया, पृथ्वीभवन प्रलय को प्राप्त हो गया, फिर भी इस प्रलयरात्रि में तुम कहाँ रहे।
(८१)
प्रसरति विषयेषु येषु राग:
परिणमते विरतेषु तेषु शोक:।
त्वयि रुचिरुचिता नितान्तकान्ते
गुणपरिपाकशुचामगोचरोऽसि।।
अन्वय: - येषु विषयेषु राग: प्रसरति तेषु विरतेषु शोक: परिणमते। नितान्तकान्ते त्वयि रुचि: उचिता। (त्वं) गुणपरिपाकशुचाम् अगोचर: असि।
पदार्थप्रकाशिका - प्रसरतीति- संसारे येषु विषयेषु सांसारिकभोगेषु रागोऽनुराग: प्रसरति वर्धते तेषु विरतेषु विनष्टेषु शोक: परिणमते जायते। नितान्तकान्ते नित्यसुन्दरे। कमु कान्ताविति धातो: क्त:। 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्। कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्’ इत्यमर:। त्वयि शिवे रुचि: प्रीतिरभिलाषो वोचिता, औचित्यं भजत इति भाव:। 'रुचि: स्त्री दीप्तिशोभायामभिष्वङ्गाभिलाषयो:’ इति मेदिनी। त्वं शिव: गुणपरिपाकशुचाम्, गुणानां परिपाका: परिणामा: या: शुच: शोका: तेषाम्। अगोचर: असि। गोचरो दृष्टिविषयो न भवसि। त्वयि न गुणपरिणामा: शोका: इति भाव:। सांसारिकपदार्थेषु प्रीति: दु:खं जनयति। त्वं नितान्तकान्तोऽसीति त्वय्येवाभिलाष उचित:। त्वयि ये प्रीतिं भजन्ते तेषां त्वं सर्वथा गोचरो भवसीत्यर्थ:। अमृतोदये तु 'रुचिपरिपाकशुचाम्’ इति पाठ:।
अनुवाद - लोक में जिन विषयों में अनुराग वृद्धि प्राप्त करता है उन विषयों के नष्ट हो जाने पर शोक होता है। नितान्तमनोहर तुझ शिव में ही अभिलाष रखना उचित है। तुम गुणजन्य शोकों के अगोचर ही रहते हो।
(८२)
प्रतिगृहमतिथिर्गृहीतदण्डो
धृतजगदण्डकमण्डलुप्रकाण्ड:।
भुवनवहन! पात्रमात्रशेषं
सतृणमिदं जगदत्ति कालभिक्षु:।।
अन्वय: - हे भुवनवहन! गृहीतदण्ड: धृतजगदण्डकमण्डलुप्रकाण्ड: कालभिक्षु: अतिथि: पात्रमात्रशेषम् इदं जगत् सतृणम् अत्ति।
पदार्थप्रकाशिका - प्रतिगृहमिति- हे भुवनवहन! भुवनवाहन! भुवनस्य संसारस्य वहनकर्त:! गृहीतदण्ड: गृहीतो दण्डोऽनेन तादृश:, धृतजगदण्ड-कमण्डलुप्रकाण्ड: कमण्डलुश्चासौ प्रकाण्डं श्रेष्ठश्चेति कमण्डलुप्रकाण्डम्, जगदण्डमेव कमण्डलुप्रकाण्डमिति जगदण्डमण्डलुप्रकाण्डम्, धृतं जगदण्ड-कमण्डलुप्रकाण्डं येन स: धृतजगदण्डकमण्डलुप्रकाण्ड:, कालभिक्षु: काल एव भिक्षु: संन्यासी कालभिक्षु: अतिथि: पात्रमात्रशेषं पात्रमात्रोपयुक्तम् इदं सर्वं जगत् सतृणं तृणमप्यपरित्यज्य सम्पूर्णम् अत्ति खादति। कालभिक्षुमुखान्न किमप्यवशिष्यत इति भाव:। अमृतोदये तु 'भुवनभरणपात्रमात्रशेषं मसृणमिदम्’ इति पाठ:।
अनुवाद - हे भुवनवहन! दण्डधारी, ब्रह्माण्डरूपी श्रेष्ठ कमण्डलु को धारण करने वाला, कालभिक्षु अतिथि पात्रमात्र में आने वाले इस जगत् को बिना कुछ छोड़े खा रहा है।
(८३)
प्रसभनिविशमानकालसर्प-
प्रतिहतनिर्गमने स्वगोलनीडे।
बहुविधगतयो विविक्तजाया-
सुतजननीतनव: खगा भ्रमन्ति।।
अन्वय: - प्रसभनिविशमानकालसर्पप्रतिहतनिर्गमने स्वगोलनीडे बहुविधगतय: विविक्तजायासुतजननीतनव: खगा: भ्रमन्ति।
पदार्थप्रकाशिका - प्रसभेति- प्रसभनिविशमानकालसर्पप्रतिहतनिर्गमने, प्रसभं बलात् निविशमानेन प्रविशताऽनेन कालसर्पेण प्रतिहतम् अवरुद्धं निर्गमनं बहिर्गमनं यस्मात् तत् प्रसभनिविशमानकालसर्पनिर्गमनम्, तस्मिन्। 'प्रसभं तु बलात्कारो हठ’ इत्यमर:। स्वगोलनीडे, गोल: ब्रह्माण्डमण्डलम्। स्वगोल एव नीडं कुलायस्तस्मिन्। 'कुलायो नीडमस्त्रियाम्’ इत्यमर:। बहुविधगतय: बहुविधा अनेकप्रकारा वार्षिकमासिकपाक्षिकादिगतिर्येषां ते बहुविधगतय:। भयाद् रक्षार्थमितस्ततो भ्रमणशीला उड्डयमाना वा। विविक्तजायासुतजननीतनव: जाया च सुतश्च जननी च तनुश्चेति जायासुतजननीतनव:, विविक्ता: पृथग्भूता: जायासुतजननीतनव: येषां तादृशा खगा: पक्षिण: नक्षत्राणि वा भ्रमन्ति, भ्रमणं कुर्वन्ति। 'तनु: काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशे’ इति हैम:। 'विविक्तं त्रिष्वसम्पृक्ते रह:पूतविवेकिषु’ इति मेदिनी। बलात् नीडे प्रविष्टं कालसर्पं दृष्ट्वा खगा इतस्तत: पलायन्त इत्यर्थ:। अत्र जाया सुत: जननी तनुश्च इति परिगणितम्। जाया स्त्री, चन्द्रस्य नक्षत्ररूपा: स्त्रिय: कालसर्पस्य प्रवेशात् क्वचिदन्यत्र वियुक्ता:। केषाञ्चित् खगानां पुत्रा: वियुक्ता:। यथा सूर्यस्य सुत: शनि:, चन्द्रस्य च बुध: उभावपि वियुक्तौ। कस्यचिन्नक्षत्रस्य माता वियुक्ता। यथा मङ्गलस्य माता पृथ्वी ततो वियुक्ता। कस्यचित्तनु: शरीरं वियुक्तम्। यथा राहुकेत्वो: अन्योन्यतनू वियुक्ते जाते एवं कालसर्परूपो मृत्यु: प्रलयकालावरुद्धे खगोले नक्षत्राणि पीडयतीत्यर्थ:।
अनुवाद - (प्रलय काल में) पक्षियों (नक्षत्रों) के घर में कालसर्प बलात् घुस गया है। उसने उन पक्षियों के मार्ग को रोक दिया है। अपने ब्रह्माण्ड मण्डल रूप घोसले में अनेक प्रकार की गतियों से युक्त पक्षी (नक्षत्र) उड़ रहे हैं। उनके पत्नी (चन्द्र की नक्षत्र रूप पत्नियाँ), पुत्र (सूर्य का पुत्र शनि तथा चन्द्र का पुत्र बुध), माता (मङ्गल की माता पृथ्वी) तथा शरीर (राहु और केतु का शरीर) उनसे दूर हो गये हैं।
(८४)
अभिलषितमथानुचिन्तितं यो
हृदयगुहाशयित: शृणोत्यकर्ण:।
तमिममवचनं च वाग्मिनं च
प्रभवति मन्त्रयितुं त्रयी भुजङ्गम्।।
अन्वय: - हृदयगुहाशयित: अकर्ण: य: अभिलषितम् अथ अनुचिन्तितं च शृणोति। त्रयी वाग्मिनम् अवचनं च तम् इमम् भुजङ्गं मन्त्रयितुं प्रभवति।
पदार्थप्रकाशिका - अभिलषितमिति- हृदयगुहाशयित:, हृदयमेव गुहा तत्र शयित: सुप्त:, हृदयगह्वरे सुप्त: कृतशयनो वेत्यर्थ:। अकर्ण: कर्णरहितो य: अभिलषितं मनश्चिन्तितम् अथ च अनुचिन्तितं मनसि विचारितं च शृणोति श्रवणविषयं करोति। हृदयस्थितो योऽसौ परमात्मा स: अभिलषितं विचारितं वा सर्वमपि अकर्ण: सन् शृणोति। परमात्मा अचक्षु: सन् पश्यति अकर्ण: संश्च शृणोति। तथा च श्रुति: 'पश्यत्यचक्षु: स शृणोत्यकर्ण:’। तादृश: स: भुजङ्ग: परमात्मा त्रय्या एव बोधयितुं शक्यते। अवचनं मौनं वाग्मिनं वाक्चतुरं, तमिमं हृदये सुप्तं परमात्मानं वेदवाक्येनैव अनुकूलयितुं शक्यत इत्यर्थ:। अथवा भुजङ्ग: सर्प: सोऽपि त्रय्या मन्त्रेण अनुकूलयितुं शक्यो भवति।
अनुवाद - वह परमात्मा कानरहित है तथा हृदयगुहा में सोया हुआ है। वह मन में विचारे गये तथा मन में सोचे गये विषय को सुनता है, उस मौन और वाक्चतुर भुजंग (परमात्मा या सर्प) को समझाने में (उसका बोध कराने में) त्रयी (वेद या मंत्र) समर्थ होती है।
(८५)
परिपिबति पयो भवाध्वनीन-
स्तनयकराज्जननीपयोधराच्च।
व्यपगतमधुना तदाशयाऽपि
प्रसभवशादयमाशय: शुशोष।।
अन्वय: - भवाध्वनीन: जननीपयोधरात् तनयकरात् च पय: परिपिबति। अयम् आशय: व्यपगतमधुना तदाशया अपि प्रसभवशात् शुशोष।
पदार्थप्रकाशिका - परिपिबतीति- भवाध्वनीन: कर्मवशात् भवस्य संसारस्य अध्वनीन: पान्थ: प्रथमं जननीपयोधरात् जनन्या: मातु: पयोधरात् स्तनात्, अनन्तरं च तनयकरात् पुत्रस्य हस्तात् पय: दुग्धं जलं वा परिपिबति। अयम् आशय: चेत:। आशयश्चेत इति शब्दकल्पद्रुम:। व्यपगतमधुना व्यपगतं नष्टं मधु यस्य तद् व्यपगतमधु तेन व्यपगतमधुना कर्मपरिपाकरहितेन तदाशया तस्य नानायोनिषु भ्रमणकाले पीतस्य पयस आशया तृष्णया। आशा तृष्णेति शब्दकल्पद्रुम:। प्रसभवशात् बलात् करणात् अयमाशय: कर्मगणजलाशय: शुशोष शोषितो बभूव।
अनुवाद - यह चित्त संसारपथ का राही है। यह माता के स्तन और पुत्र के हाँथ से पय (दूध और जल) पीता है। कर्मसंचय नष्ट हो जाने के कारण जिसका आस्वाद समाप्त हो गया है, ऐसे पय (दूध या जल) की आशा में यह आशय (कर्मसञ्चय रूप जलाशय) सूख गया।
(८६)
स्तनकलशमुखेन वा जनन्या-
स्तनयकराङ्गुलिमध्यकुल्यया च।
चपल! पिब पयांसि यावदायु-
र्भवति न चेतसि चेतनासमुद्र:।।
अन्वय: - हे चपल! जनन्या: स्तनकलशमुखेन तनयकराङ्गुलि-मध्यकुल्यया च यावदायु: पयांसि पिब। चेतसि चेतनासमुद्र: न भवति।
पदार्थप्रकाशिका - स्तनेति- हे चपल! हे चञ्चल! कलशमुखेन पयोधरघटवक्त्रेण तनयकराङ्गुलिमध्यकुल्यया तनयस्य पुत्रस्य कराङ्गुलीनां मध्यकुल्यया मध्यवर्तिन्या अञ्जलिकृतनद्या यावदायु: आजीवनं पय: दुग्धं जलं वा पिब, पानं कुरु। यावत् चेतसि मनसि चेतनासमुद्र:, चेतना एव समुद्र: न भवति। येषां कर्मणां फलरूपेण त्वं शैशवे मातु: स्तनात् दुग्धं तथा च मृत्यो: अनन्तरं पुत्रस्य कराङ्गुल्यो: मध्यवर्तिन्या कुल्यया जलं पीतवानसि, मृत्योरनन्तरं तर्पणं प्राप्तवानसि। तत् यावत् जीवनं वर्तते तावत् पिब सम्प्रति कर्मक्षयकारणात् स चेतनासमुद्र: शुष्क: सञ्जात:। अनन्तरं प्राप्ते मोक्षे तस्य पानं न भविष्यतीत्यर्थ:।
अनुवाद - हे चंचल! (कर्मफलों के कारण) जननी के स्तनकलश के मुख से अथवा पुत्र के करांगुलियों से बनी मध्य कुल्या से आजीवन दूध या जल पियो। (कर्मक्षय हो जाने के बाद) मन में विद्यमान यह चेतनासमुद्र नहीं रहेगा, सूख जायेगा।
(८७)
विधिवशमिलितो भवाध्वयात्रां
हरसि जगत्तिलपेषतैलिकोऽसि।
न तव पशुपते! विदन्ति पाशं
पिहितदृश: पशव: परिभ्रमन्ति।।८७।।
अन्वय: - विधिवशमिलित: भवाध्वयात्रां हरसि। (त्वं) जगत्तिलपेषतैलिक: असि। हे पशुपते! पिहितदृश: पशव:परिभ्रमन्ति (किन्तु) तव पाशं न विदन्ति।
पदार्थप्रकाशिका - विधिवशेति- विधिवशमिलित: भाग्यवशात् संयोगाद् वा प्राप्त: त्वं भवाध्वयात्रां भवस्य संसारस्य अध्वयात्रां मार्गगमनं हरसि दूरीकरोषि। त्वं जगत्तिलपेषतैलिक: जगदू्रपाणि यानि तिलानि तेषां पेषणतैलिक: असि वर्तसे। यथा संयोगात् मार्गे मिलितस्तैलिक: जनानामध्वयात्रां हरति। तद्दर्शनमशुभं मत्वा जना गमनात् विरमन्ति तथैव त्वमपि संसारयात्रां हरसीति भाव:। हे पशुपते! पिहितदृश: पिहितानि दृशो येषां ते पिहितदृश:, तादृशा: पशव: जीवा: तव शिवस्य पाशं जालं न विदन्ति। ते तु तव लीलया केवलं भ्रमन्ति। यथा तैलिक: वृषभस्य अक्षिणि पटं बद्ध्वा तमहर्निशमेकस्मिन्नेव स्थले भ्रामयति। स च वृषभस्तद्बन्धनं न जानाति। तद्वत्तव लीलया पिहितदृश: प्राणिन: भवे भ्रमन्ति। ते लीलापाशं न जानन्ति। यथा तैलिकपाशेन एकस्मिन्नेव लघुस्थले भ्रमन् तैलिकवृषभोऽन्यत्र गन्तुं न शक्नोति तथैव त्वन्मायामोहिता: नानायोनिषु भ्रमन्त: प्राणिनोऽपीति भाव:।
अनुवाद - संयोग से राह में मिल जाने पर तुम संसार की यात्रा को दूर कर देते हो। तुम संसार रूपी तिल को पेरने वाले तेली हो। (जैसे मार्ग में तेली को देखकर लोग अपशकुन मानते हुए अपनी यात्रा स्वयं रोक देते हैं वैसे संसार की यात्रा में राह में मिलकर तुम उस यात्रा को समाप्त कर देते हो।) हे पशुपते! (माया द्वारा) जिनकी आँख बन्द कर दी गयी है, ऐसे पशु (प्राणी) तेरे पाश को नहीं जानते। केवल नाना योनियों में घूमते हैं।
(८८)
मयि फलकधिया त्वया कियत्य:
प्रतिकृतयो लिखितास्तथा विलुप्ता:।
विरम बत निसर्गनिर्मलस्य
प्रमृज रजो मम पश्य दर्पणोऽस्मि।।
अन्वय: - त्वया फलकधिया मयि कियत्य: प्रतिकृतय: लिखिता: तथा विलुप्ता:। बत विरम। निसर्गनिर्मलस्य मम रज: प्रमृज। पश्य, अहं दर्पण: अस्मि।
पदार्थप्रकाशिका - मयीति- त्वया शिवेन फलकधिया फलकस्य चित्रलेखपटस्य बुद्ध्या। अहम् आत्मा फलक: चित्रलेखनपट्ट: अस्मीति धिया बुद्ध्या कियत्य: बहव्य: प्रतिकृतय: शरीरप्रतिरूपाणि चित्राणि लिखिता: उट्टङ्किता:। आत्मानं मां चित्रफलकं मत्वा मयि बहूनि चित्राणि लिखितान्यभवन्। तेनैव मम तत्तद्योनौ जनिर्मरणं चाभवदिति स्मारयति। तासु काश्चन विलुप्ता: नष्टास्तेषां स्मृतिरेव नास्ति। पूर्वपूर्वयोनिस्मरणस्य पश्चादसम्भवात्। बत खेदे। सम्प्रति चित्रलेखनात् विरम। निसर्गनिर्मलस्य स्वभावेन पवित्रस्य मम रजो दोषान् प्रमृज दूरीकुरु। मां पश्य। अहं दर्पण: अस्मि। सर्वविधदोषरहितत्वात् अहमात्मा दर्पण इव निर्मलोऽस्मीति त्वं मयि तव प्रतिच्छविं द्रष्टुं शक्नोषीति भाव:। अमृतोदये तु तृतीयचरणे 'रजसि विगलिते विभूतियोगात्’ इति पाठ:।
अनुवाद - तुमने फलक (चित्रफलक) समझ कर मुझ में कितनी ही प्रतिकृतियों को लिख दिया। उनमें से बहुत विलुप्त हो गयी। अब रुको। मुझ निसर्गनिर्मल आत्मा की धूल को साफ करके देखो, मैं दर्पण हूँ (तुम्हे अपना प्रतिबिम्ब दिखाई पड़ेगा)।
(८९)
क्षितिबिलपतितं जरायुपेशी-
स्थगितमथाण्डसमुद्गके निगूढम्।
अविवृतमपि धातुसञ्चयं ते
भव! भवता हृतविग्रहो हरामि।।
अन्वय: - हे भव! भवता हृतविग्रह: क्षितिबिलपतितं जरायुपेशीस्थगितम् अथ अण्डसमुद्गके निगूढम् अविवृतम् अपि ते धातुसञ्चयं हरामि।
पदार्थप्रकाशिका - क्षितिबिलेति- हे भव! हे शिव! भवता हृतविग्रह: हृत: दूरीकृत: विग्रह: शरीरं मूर्तिर्वा यस्य स तादृशोऽहं क्षितिबिलपतितं क्षिति: पृथ्वी एव बिलं रन्ध्रस्तत्र पतितम्। 'बिलं रन्ध्रे गुहायां च’ इति हैम:। जरायुपेशीस्थगितम्, जरायो: गर्भाशयस्य पेश्यां स्थगितम् आच्छादितम्। 'पेशी कोषोद्विहीनेऽण्डम्’ इत्यमर:। अथ च अण्डसमुद्गके अण्डमेव समुद्गकं 'सन्दूक दोना वा इति भाषायाम्’ निगूढं स्थगितम् अविवृतम् अस्फुटितम् अपि ते धातुसञ्चयं श्लेष्मादि रसरक्तादि हरामि वहामि।
अनुवाद - हे भव! तुम्हारे द्वारा मेरे विग्रह का हरण कर लिया गया है तथापि मैं पृथ्वी के रन्ध्र में पड़ा हुआ, गर्भाशय की पेशी से आच्छादित, अण्डे की सन्दूक में बन्द और अस्फुट होकर भी तुम्हारे ही धातुसंचय (रस, रक्त, मज्जा आदि) को वहन करता हूँ।
(९०)
परिमितसुखदं कषायपाकं
विरसतरं विषयान्तरं विहाय।
निरवधिमधुरे समे समन्ता-
त्त्वयि पुरुषोत्तम! विश्रमोऽस्तु वाचाम्।।
अन्वय: - हे पुरुषोत्तम! परिमितसुखदं कषायपाकं विरसतरं विषयान्तरं विहाय समन्तात् समं निरवधिमधुरे त्वयि वाचां विश्रम: अस्तु।
पदार्थप्रकाशिका - परिमितेति- परिमितं स्वल्पं सुखं ददातीति परिमितसुखदं तत्, कषायपाकं कषायो दु:खद एव पाक: परिणामो यस्य तद् विरसतरं च विषयान्तरं त्वदतिरिक्तं संसारे यत्किमपि अस्वादुतत्त्वं वर्तते तत्सर्वं विहाय परित्यज्य समन्तात् सर्वत: समे समाने भेदादिरहिते निरवधिमधुरे अनन्तमाधुर्योपेते त्वयि शिवे मम गोकुलनाथकवे: वाचां वाणीनां विश्रम: विराम: अस्तु भवतु। सांसारिकं सर्वं विहाय त्वयि शिव एव मम वाणी विश्रमं लभेत इति भाव:। अमृतोदये तु 'निरवधिविबुधे समे समन्तात्त्वयि पुरुषोत्तम चित्तविभ्रमोऽस्तु’ इति पाठ:।
अनुवाद - हे पुरुषोत्तम! परिमित सुख देने वाले, कषायपाक, अत्यधिक विरस अन्य विषयों को छोड़कर सर्वत: सम और असीम मधुर तुझ में मेरी वाणी विश्राम प्राप्त करे।
(९१)
अपगतपदपाटवोऽपि गर्भा-
दुपनिषदामधुनोत्थित: प्रबन्ध:।
जनयतु तव कौतुकं कलेन
प्रतिपदविस्खलितेन जल्पितेन।।
अन्वय: - अपगतपदपाटव: अपि अधुना उपनिषदां गर्भात् उत्थित: प्रबन्ध: प्रतिपदविस्खलितेन कलेन जल्पितेन तव कौतुकं जनयतु।
पदार्थप्रकाशिका - अपगतेति- अपगतपदपाटव: अपगतं निरस्तीभूतं पदानां पाटवं चातुर्यं यस्य तादृश:। अधुना उपनिषदां वेदान्तानां गर्भात् अन्त:स्थलात् उत्थित: समुत्पन्न: प्रबन्ध: शिवशतकरूपो वाक्यबन्ध:, प्रतिपदविस्खलितेन प्रतिपदं विशृंखलितं यस्मिंस्तत्तादृशं तेन कलेन जल्पितेन मधुराव्यक्तेन स्वरेण तव शिवस्य कौतुकं कुतूहलं जनयतु उत्पादयतु। यद्वा उपनिषदां गर्भात् सपद्येव लब्धजनिरयम् अपगतपदपाटव: पादविन्यासेऽप्रवीण: अयं मम प्रबन्धरूप: शिशु: प्रतिपदं विस्खलितेन पतन्नितस्ततश्चलनेन जल्पितेन स्वरेण च तव कौतुकं जनयत्वित्यर्थ:।
अनुवाद - यद्यपि मेरे इस प्रबन्ध में पदपटुत्व नहीं है तथापि यह अभी ही उपनिषदों के गर्भ से निकला है। ऐसा मेरा यह प्रबन्ध (रूप शिशु) प्रतिपद विस्खलन से युक्त मधुर भाषण से तुम में कुतूहल उत्पन्न करे।
(९२)
प्रकृतिमलिनमृक्षलक्षलिक्षा-
चयचितमम्बरचीवरं वसानम्।
प्रकटितबृहदण्डमत्रपं त्वां
पुरुषमुदीक्ष्य हसामि चोल्लसामि।।
अन्वय: - प्रकृतिमलिनम् ऋक्षलक्षलिक्षाचयचितम् अम्बरचीवरं वसानं प्रकृटितबृहदण्डम् अत्रपं त्वां पुरुषम् उदीक्ष्य हसामि च उल्लसामि च।
पदार्थप्रकाशिका - प्रकृतीति - शिवं वृद्धत्वेन परिकल्प्य वदति- प्रकृतिमलिनं प्रकृत्या कलुषितम्, स्वभावेन मलिनवर्णम्। अथवा प्रकृत्या मायया मलिनम्। यद्वा प्रकृतिमलिनमित्यम्बरचीवरस्य विशेषणम्। अम्बरस्य श्यामत्वेन प्रकृतिमलिनत्वम्। ऋक्षलक्षलिक्षाचयचितम् ऋक्षाणां नक्षत्राणां लक्षं तदेव लिक्षाचय: यूकाण्डसमूहस्तेन चितं व्याप्तम् अम्बरचीवरं आकाशवस्त्रखण्डं परिदधानम्, असंख्यलघुनक्षत्रलिक्षाव्याप्तमाकाशमेव चीवरत्वेन वस्त्रत्वेन परिदधानमित्यर्थ:। प्रकटितबृहदण्डम्, विश्वबृहदण्डस्य प्रकटयितारम्, अत्रपं निर्लज्जं, तादृशं त्वां पुरुषम् उदीक्ष्य दृष्ट्वा हसामि उल्लसामि च। ''ऋक्ष: पर्वतभेदे स्याद्भल्लूके शोणके पुमानावेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम्’’ इति मेदिनी। भवान् मलिन:, नानानक्षत्रलिक्षाचयमम्बरमेव भवतो वस्त्रम्, बृहदण्डं भवान् प्रकटितवानथ च लज्जारहितोऽपीति सर्वं त्वयि पुराणपुरुषे दृष्ट्वा हसन्नहमानन्दमनुभवामि। अथवा लक्षलिक्षा: लक्षसंख्याकानि यूकाण्डानि ताभिश्चितं व्याप्तं अनावरणक्षमं वस्त्रं दधानम्, निर्लज्जं विशालाण्डकोशं जरन्तं पुरुषं दृष्ट्वा हसामि।
अनुवाद - तुम स्वभाव से मलिन हो, लाखों छोटे नक्षत्रों के समूह रूप लिक्षा वाले आकाशवस्त्र को (अथवा लाखों लीख और चीलरों से भरे कपड़े को) धारण करते हो, तुमने विशालतम अण्ड (ब्रह्माण्ड या अण्डकोश) को प्रकट किया है, लज्जा रहित हो, ऐसे तुझ पुरुष (पुराणपुरुष या बूढ़े) को देखकर मैं हँसता हूँ और प्रसन्न होता हूँ।
(९३)
व्यरमदवसर: स यत्र कर्म-
प्रकरमकार्षममर्त्यलेह्यलोभात्।
न पुनरपि पिबामि सोमपात्रा-
मृतदधि राहुविडालपीतशेषम्।।
अन्वय: - अमर्त्यलेह्यलोभात् यत्र कर्मप्रकरम् अकार्षं स: अवसर: व्यरमत्। पुन: अपि राहुविडालपीतशेषं सोमपात्रामृतदधि न पिबामि।
पदार्थप्रकाशिका - व्यरमदिति- अमर्त्यलेह्यलोभात् अमर्त्यम् अमृतमेव लेह्यं तस्य लोभात् यत्र यस्मिन् स्थाने कर्मप्रकरं यागसमूहानामनुष्ठानमकार्षं स: अवसर: कालो व्यरमत्, गत:। इदानीं मया मोक्षो लब्ध:। पुन: अपि राहुविडालपीतशेषं राहुरेव विडाल: मार्जारस्तेन पीतशेषं सोमपात्रामृतदधि सोमपात्रस्य अमृतमेव दधि दधिवद्घनीभूतत्वात् तन्न पिबामि।
अनुवाद - अमृत रूप चाटने योग्य पदार्थ की लालच से जिसमें यज्ञ समूहों का अनुष्ठान किया था, वह समय बीत गया। (अब मैं मुक्त हो गया हूँ) अब फिर से राहुरूप विडाल के पीने से शेष बचे सोमपात्र के अमृत रूप दही को नहीं पी रहा।
(९४)
स्वयमयमवलेढि होतुराज्यं
तदनु तमाशयते सुधाम्बुबिन्दून्।
अजनि तु जननीपयस्तृषार्ति-
क्षयमवमुञ्चति याज्यमिज्यवर्ग:।।
अन्वय: - अयं स्वयं होतु: आज्यम् अवलेढि। तदनु तं सुधाम्बुबिन्दून् आशयते। (अयं) तृषार्तिक्षयं जननीपय: अजनि। इज्यवर्ग: तु याज्यम् अवमुञ्चति।
पदार्थप्रकाशिका - स्वयमयमिति- अयं शिव: स्वयं होतु: हवनकर्तु: आज्यं घृतम् अवलेढि, होतु: हवनार्थं सञ्चितस्य घृतस्य लेहनं करोति। तदनु लेहनानन्तरं तं होतारं सुधाम्बुबिन्दून् अमृजलकणान् आशयते भोजयति। अयं शिव एव स्वयं तृषार्तिक्षयं तृषोऽर्तेस्तृट्पीडाया क्षयं विनाशकारि जननीपय: जनन्या दुग्धम् अजनि संवृत्तम् इति कृत्वा इज्यवर्ग: पूजकसमूह: याज्यं यागम् अवमुञ्चति परित्यजति। जननीदुग्धेनैव तृषार्तिक्षयान्न इज्यवर्गो यागाय समुत्सुको भवतीति भाव:।
अनुवाद - यह (शिव) स्वयं होता के घी को चाटता है तदनन्तर उसे सुधारूपी जलबिन्दु का पान कराता है। यह शिव ही तृषा की पीड़ा को नष्ट करने वाला जननीदुग्ध बन गया। अत: पूजकवर्ग याग को छोड़ रहा है।
(९५)
भ्रमयसि नवधा खमण्डलानि
द्रढयसि सप्तपुटानि भूतधात्र्या:।
उपदिशसि च षड्गतीर्ग्रहाणां
ध्रुवमसि तद्ध्रुवयोरपि ध्रुवस्त्वम्।।
अन्वय: - खमण्डलानि नवधा भ्रमयसि। भूतधात्र्या: सप्तपुटानि द्रढयसि। ग्रहाणां षड्गती: च उपदिशसि। तत् त्वं ध्रुवयो: अपि ध्रुव: असि (इति) ध्रुवम्।
पदार्थप्रकाशिका - भ्रमयसीति- खमण्डलानि आकाशस्थितानि नक्षत्रादि-मण्डलानि नवधा नवप्रकारेण भ्रमयसि। सूर्यचन्द्रभौमबुधगुरुप्रभृति-ग्रहरूपेण सञ्चारयसि। खशब्द आकाशवाचकस्तथापि लक्षणयाऽत्र नक्षत्रमण्डलं बोधयति। विभुरूपस्याकाशस्य नवधात्वाभावात्। अथवा 'खमण्डलानि’ इत्यत्र भमण्डलानीति पाठ:। नवधाभमण्डलं यथा-
नक्षत्रत्रयवर्गैराग्रेयाद्यैर्व्यवस्थितैर्नवधा,
भारतवर्षे मध्यप्रागादिविभाजिता देशा:। (बृहत्संहिता)
यद्वा - एवं पृथक्मानवदेवजैवपत्रार्क्षसौरेन्दवसावनानि।
ब्राह्मं च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजै: स्वमानात्।। (कालाध्याये, ३२)
भूतधात्र्या: भूतानि धरतीति, भूतानां धात्री भूतधात्री तस्या:। पृथिव्या इत्यर्थ:। 'भूतधात्री पृथ्वीति त्रिकाण्डशेष:। सप्तपुटानि, पृथिव्यास्तले विद्यमानान् सप्तलोकान् दृढीकरोषि, दृढतरं विदधासि। तानि च सप्तपुटानि सन्ति-
दध्रो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्य:।
स्वादूदकान्तर्वडवानलोऽसौ पाताललोका: पृथ्वीपुटानि।।
अथवा 'सप्तपुटानि’ इत्यत्र 'सप्तपुराणि’ इति पाठ:। तानि च सप्तपुराणि-
लवणजलधिरादौ दुग्धसिन्धुश्च तस्माद-
मृतरश्मि: श्रीश्च यस्माद् बभूव।
महितचरणपद्म: पद्मजन्मादिदेवै-
र्वसति सकलवासो वासुदेवश्च यत्र।।
अथवा अतलवितलादय: पृथिव्या अधोभागे विद्यमाना: सप्तलोका:, तान्।
ग्रहाणां षड्गती: वसन्तादिषडृतुरूपा गती: उपदिशसि शिक्षयसि। ज्योतिषशास्त्रे ग्रहाणां वक्रातिवक्रादिगतय: प्रसिद्धास्ता: अष्टधा। अन्या अपि पञ्चधा गतयोऽतिशीघ्रशीघ्रादय:। न तत्र गतीनां नवत्वमिति ऋतुरूपेण व्याख्यातमिह। तत् तस्मात् कारणात् त्वं ध्रुवयो: अपि ध्रुव: असि इति ध्रुवम् निश्चितम्। ध्रुवयो: याम्यसौम्ययोर्ज्योतिषशास्त्रोक्तयो:। तथा च भुवनकोशे-
सौम्यं ध्रुवं मेरुगता: खमध्ये
याम्यं च दैत्या निजमस्तकोर्ध्वे।
सव्यापसव्यं भ्रमदृक्षचक्रं
विलोकयन्ति क्षितिजप्रसक्तम्।।
त्वं शिव एव सर्वमेतत्करोषि। न त्वदतिरिक्त: कश्चन कर्तेति भाव:।
अनुवाद - तुम नवप्रकार से नक्षत्रमण्डल को घुमाते हो। पृथ्वी के दधि, घृत आदि धातुओं या अतल वितल आदि लोकों को दृढ़ करते हो। ग्रहों की छ: गतियों (ऋतुओं) का उपदेश देते हो। इस प्रकार तुम याम्य और सौम्य ध्रुवों के भी ध्रुव हो यह निश्चित है।
(९६)
गुणमपि तव निर्गुणत्वपक्षे
गमयति दोषकुलाकुल: प्रबन्ध:।
मलिनयति नवेन्दुसुन्दराणि
स्फटिकशिलाशकलानि काचसङ्ग:।।
अन्वय: - दोषकुलाकुल: प्रबन्ध: तव गुणम् अपि निर्गुणत्वपक्षे गमयति। काचसङ्ग: नवेन्दुसुन्दराणि स्फटिकशिलाशकलानि मलिनयति।।९६।।
पदार्थप्रकाशिका - गुणमपीति- दोषकुलाकुल: दोषाणां कुल: समूहस्तेन आकुल: व्याप्त: प्रबन्ध: मम शिवशतकरूप: काव्यप्रबन्ध: तव गुणमपि पुरुषोत्तमस्य तव गुणसमूहमपि निर्गुणत्वपक्षे रूपादिरहितत्वपक्षे एव गमयति, योजयति। दोषकुलाकुल: काचसङ्ग: काचस्य सङ्गति: नवेन्दुसुन्दराणि अभिनवचन्द्रमनोहराणि स्फटिकशिलाशकलानि स्फटिकशिलाया: खण्डानि मलिनयति मलिनीकरोति। मादृशस्य साधारणजीवस्य अयं प्रबन्ध: त्वां निर्गुणमेव प्रतिपादयति। काव्यमालासंस्करणे 'दोषकुलाकुलम्’ इति पाठ:।
अनुवाद - दोषों से युक्त मेरा यह प्रबन्ध तुम्हारे गुणों को भी निर्गुण बनाता है। काँच की संगति से नवीन चन्द्रमा के समान सुन्दर स्फटिकशिला के टुकड़े भी गन्दे हो जाते हैं।
(९७)
किमपि निविशते प्रकाशराशौ
त्वयि यमुनेव रवौ विधाविवाङ्क:।
असिततनुचतुर्भुजस्वरूपं
यदवतरा हृदयं हरन्ति रामा:।।
अन्वय: - किमपि असिततनुचतुर्भुजस्वरूपं प्रकाशराशौ त्वयि रवौ यमुना इव, विधौ अङ्क: इव निविशते। रामा: यदवतरा: हृदयं हरन्ति।
पदार्थप्रकाशिका - किमपीति- अनिर्वचनीयम् असिततनुचतुर्भुज-स्वरूपम् अश्वेतशरीरं विष्णुस्वरूपं प्रकाशराशौ प्रकाशस्य राशिस्तस्मिन् त्वयि शिवे। रवौ सूर्ये यमुना इव, विधौ चन्द्रे अङ्क: मृगाङ्ग इव निविशते, प्रविशति। रामा मत्स्यनृसिंहरामकृष्णादिविविधरूपत्वेन लीलाया दुरवगाहतया वक्रा: वल्गवो रमणीया वा, यदवतरा: यस्य चतुर्भुजस्य विष्णो: मत्स्यादयोऽवतारा: स्त्रियोऽथवा परशुरामप्रभृतयो रामपदवाच्या हृदयं भक्तानां मनो हरन्ति कर्षन्ति। परमात्मनि किमपि श्यामं चतुर्भुजं च कालीकृष्णादिशरीरं प्रविशदिव प्रतिभाति मे, यस्या: काल्या अवतारभूता: रामा: स्त्रिय: कृष्णस्य चावतारभूता: सर्वानानन्दयन्ति। उपासकै: परमे ब्रह्मण्यध्यस्त: कालीविग्रह: कृष्णविग्रहो वा ध्यातव्य इत्युपदेशोऽत्र दत्त:। अथवा गृहीतनानावतारो हरिरपि तवैवांश इति भाव:। अंशस्यांशिनि प्रवेश उचित एव। निर्णयसागरीयसंस्करणे 'यदरतराल’ इति प्रश्नचिह्नाङ्कित: पाठ:। अमृतोदयमुपजीव्य अत्र 'यदवतरा’ इति पाठं मत्वा कथञ्चिदर्थयोजना कृता।
अनुवाद - अनिर्वचनीय असिततनु चतुर्भुजस्वरूप विष्णु तुझ शिव रूप प्रकाश राशि में प्रविष्ट हो रहा है तथा सूर्य में यमुना की तरह तथा चन्द्र में अङ्क की तरह एकीभूत हो रहा है। उस विष्णु के विविध रमणीय अवतार भक्तों के हृदयों को हर लेते हैं।
(९८)
इदमपरपुरं तदेव यस्मि-
न्नसकृदहर्निरगान्निशि प्रविश्य।
विगलितवरणाद्बहिर्विहीनात्
कथमधुना सदनादितो निरीयाम्।।
अन्वय: - इदं तदेव अपरपुरं (वर्तते) यस्मिन् असकृत् निशि प्रविश्य अह: निरगात्। अधुना विगलितवरणात् बहि: विहीनात् इत: सदनात् कथं निरीयाम्।
पदार्थप्रकाशिका - इदमिति- इदं मत्पुरो विद्यमानं तदेव अपरपुरम् अपरमन्यत् पुरं नगरं वर्तते यस्मिन् असकृत् बहुबारं निशि रात्रौ प्रविश्य अह: दिवसो निरगात्। निरुपसर्गपूर्वकात् इण् गतौ धातोर्लुङि। 'इणो गा लुङि’ इति गादेशे रूपम्। विगलितवरणात् विगलित: वरण: प्राकार: यस्य तत् विगलितवरणम्, तस्मात्। 'प्राकारो वरण: साल’ इत्यमर:। बहि: विहीनात् बहिर्द्वाररहितात् इत: सदनात् भवनात् कथं निरीयाम् गच्छेयम्। जीवो हि सुषुप्तिकाले निर्वाणलभ्यसुखसजातीयं निर्वृतिनामकं सुखमासाद्य जातायां सुषुप्ते: समाप्तौ पुन: संसारं प्रविशति स तादृश एवार्थोऽत्र विवक्षित:।
अनुवाद - यह वही दूसरा नगर है जिसमें अनेक बार रात में प्रवेश करके दिन चला गया। अब प्राकाररहित तथा द्वारदेश रहित इस भवन से कैसे निकलूँ।
(९९)
यदभिलपसि पुद्गलानजीवा-
स्रववरनिर्जरजीवबन्धमोक्षान्।
नयसि च यदनावृतान्विहङ्ग-
प्रकृतिमतस्तदुपास्यसे जिनेन्द्र:।।
अन्वय: - यत् पुद्गलान् अजीवास्रववरनिर्जरजीवबन्धमोक्षान् अभिलपसि, यत् च अनावृतान् विहङ्गप्रकृतिं नयसि, अत: तत् जिनेन्द्र: उपास्यसे।
पदार्थप्रकाशिका - यदभिलपसीति- यत् यस्मात् कारणात् पुद्गलान् रूपादिमद्द्रव्याणि अजीवास्रववरनिर्जरजीवबन्धमोक्षान्, अजीवश्च आस्रवश्च वर: संवरश्च निर्जरश्च जीवश्च बन्धश्च मोक्षश्चेति अजीवास्रवरनिर्जर-जीवबन्धमोक्षास्तान्। जैननये जीवोऽजीव आस्रव: संवरो निर्जरा बन्धो मोक्षश्चेति सप्ततत्त्वानि स्वीकृतानि सन्ति। तत्र चेतनालक्षणो जीव:। चेतनारहितोऽजीव:। शुभाशुभकर्मागमद्वाररूप आस्रव:। आत्मकर्मणोरन्योन्यप्रदेशानुप्रवेशात्मको बन्ध:। आस्रवनिरोधलक्षण: संवर:। एकदेशकर्मसंक्षयलक्षणा निर्जरा। कृत्स्नकर्मवियोगलक्षणो मोक्ष:। तान्येव बन्धमोक्षयो: कारणानि अभिलपसि कथयसि। तत्त्वार्थसूत्रे स्पर्शरसगन्धवत्त्वं पुद्गललक्षणं निरूपितम्। अयं पुद्गल एव जीवस्य बन्धमोक्षकारणं तथापि नियमाचारादिभि: कर्मसंस्काररहितो जीवोऽनावृतान् पुद्गलान् प्राप्योर्ध्वगमनं करोति। आवरणरहिता जीवा मुक्ता उर्ध्वगतिं लभन्त इति भाव:। स एव सिद्धावस्थां प्राप्त: शुद्धचैतन्यस्वरूपो जीव: जिनेन्द्र इति शब्देनोच्यते। यत् यस्मात् कारणात् अनावृतान् पुद्गलान् प्राप्य जीवं विहङ्गप्रकृतिं नयसि, ऊर्ध्वगमनं कारयसि। अत: तत् तादृशस्त्वं जिनेन्द्र: शुद्धचैतन्यस्वरूपो जीव उपास्यसे पूज्यसे। निर्णयसागरीय संस्करणे 'पुङ्गलानजीवासुरवर’ इति पाठो लभ्यते। प्रकृते असुरशब्दस्यानुपयोगित्वमेव। जैनमते तादृशस्य कस्यचिदपि तत्त्वस्यानुल्लेखात्। 'असुर’ इत्यस्य स्थाने 'आस्रव’ इति पाठोऽत्र निर्दिष्ट:। वर: संवर इत्यर्थ:। छन्दोऽनुरोधात् समुपसर्गस्य परित्याग:।
अनुवाद - तुम पुद्गलों को अजीव, आस्रव, संवर, निर्जर, जीव, बन्ध और मोक्ष कहते हो। पुद्गलों से अनावृत शुद्ध संस्कारवान् जीव को विहंग स्वभाव प्राप्त कराते हो, इसलिए वह तुम जिनेन्द्र (शुद्ध चैतन्य जीव या वर्द्धमान महावीर आदि के) रूप में पूजे जाते हो।
(१००)
प्रकृतिरियमनश्वरस्वरूपा
सृजति महान्तमसौ यतो विकारम्।
अविकृतमपि पश्यत: सतस्ते
सह रमते ह्यनया सखा त्वदीय:।।
अन्वय: - इयम् प्रकृति: अनश्वररूपा (अस्ति) यत: असौ महान्तं विकारं सृजति। सत: ते अविकृतम् अपि पश्यत: त्वदीय: सखा हि अनया रमते।
पदार्थप्रकाशिका - प्रकृतिरिति- इयं प्रकृति: सांख्यशास्त्रसिद्धा साम्यावस्थापन्ना गुणत्रयात्मिका प्रकृति: माया अनश्वररूपा विनाशरहिता अस्ति। असौ प्रकृति: महान्तं विकारं महदादि सृजति। सत: नित्यस्य ते अविकृतं विकृतिरहितं स्वरूपं पश्यत:। अनादरे षष्ठी। पश्यन्तं त्वामनादृत्येति भाव:। त्वदीय: सखा जीवो हि अनया प्रकृत्या रमते रमणं कुरुते। सांख्यदर्शने प्रकृतिर्नित्यतत्त्वं वर्तते। गुणत्रयस्य साम्यं यावदस्यां भवति तावदियमव्यक्ता तिष्ठति। गुणवैषम्यविक्षोभेण प्रकृतिरियं सर्गे प्रवर्तते। अनन्तरं महदादीन्युत्पद्यन्ते। पुरुषोऽत्र प्रकृतिविकृत्यादितत्त्वभिन्न-श्चैतन्य:। जीवरूप: पुरुष:प्रकृतौ रमते। शिवस्तु स्वसखं रममाणं जीवं पश्यति। इदं 'द्वा सुपर्णा सयुजा सखाया’ इत्यादिश्रुतौ स्फुटम्।
अनुवाद - यह प्रकृति अनश्वररूपा है। यही महदादि विकारों की सृष्टि करती है। नित्य पुरुष (शिव) के अविकृत स्वरूप के देखते हुए तुम्हारा सखा (जीव) इस प्रकृति के साथ रमण करता है।
(१०१)
यदि मम सहसा तवाभिसारा-
त्कुलगुरुभिर्निगमैर्निवारिताऽसौ।
स्वयमभिसर तर्हि वाचमेनां
परपुरुषं निगमो न पश्यति त्वाम्।।
अन्वय: - कुलगुरुभि: तव निगमै: यदि असौ सहसा अभिसारात् निवारिता, तर्हि एनां मम वाचं स्वयम् अभिसर। परपुरुषं त्वां निगम: न पश्यति।
पदार्थप्रकाशिका - यदि ममेति- कुलगुरुभि: तव शिवस्य निगमै: वेदै: यदि असौ वाणी अभिसारात् अभिसरणात् निवारिता तर्हि मम एनां प्रबन्धरूपां वाचं स्वयम् अभिसर, परपुरुषं परं पुरुषं निर्गुणं निराकारं त्वां निगम: वेद: न पश्यति, अत एव 'नेति नेति’ इति कृत्वा तव स्वरूपं निषेधति।
अनुवाद - कुलगुरु तुम्हारे वेदों के द्वारा अगर मेरी यह वाणी तुम तक पहुँचने से रोक दी गयी है तो तुम मेरी इस वाणी का स्वयं अभिसरण करो। तुझ मेरे अभिसार परपुरुष को वेद नहीं देखते।
(१०२)
मम वचनजलानि कर्णशुक्तौ
तव पतितानि गतानि मौक्तिकत्वम्।
विगुणविलुलितानि लाजबुद्ध्या
रसयतु कुण्डलकुण्डलिप्रकाण्डम्।।
अन्वय: - कुण्डलकुण्डलिप्रकाण्डं तव कर्णशुक्तौ पतितानि मौक्तिकत्वं गतानि विगुणविलुलितानि मम वचनजलानि लाजबुद्ध्या रसयतु।
पदार्थप्रकाशिका - मम वचनेति- कुण्डलं कर्णाभूषणरूपो य: कुण्डली सर्प: स कुण्डलकुण्डली। स चासौ प्रकाण्डं चेति कुण्डलकुण्डलीप्रकाण्डम्। कुण्डलीभूत: श्रेष्ठ: सर्प इति यावत्। 'कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते’ इति मेदिनी। तव कर्णशुक्तौ, तव शिवस्य कर्ण एव शुक्तिस्तस्यां पतितानि मौक्तिकत्वं मुक्तारूपतां गतानि प्राप्तानि, विगुणविलुलितानि विगुणानि गुणरहितानि विलुलितानि इतस्ततो विकीर्णानि। मालापक्षे सूत्राभावे इतस्ततो विकीर्णानि। अर्थप्रतिपादने त्वत्स्वरूपप्रतिपादने वा असमर्थानीति भाव:। तादृशानि मम गोकुलनाथस्य यानि वचनजालानि वाक्यसमूहास्तानि लाजबुद्ध्या भृष्टधान्यबुद्ध्या। 'लावा’ इति भाषायाम्। शुक्तौ पतित्वा जलबिन्दवो मौक्तिकत्वं यान्तीति लोकप्रसिद्धि:। अत्र तव शिवस्य कर्णशुक्तौ पतितानि मम वचनजलानि मौक्तिकत्वं प्राप्तान्यभवन्। सूत्राभावे इतस्ततो विकीर्णानि तानि च भृष्टधान्यबुद्ध्या तव कुण्डलभूत: सर्प: आस्वादयतु।
अनुवाद - तुम्हारी कर्णशुक्ति में पड़ कर मेरे वचन मोती बन गये हैं। सूत्ररहित होने के कारण इधर उधर बिखरे हुए मेरे उन वचनमोतियों को लावा समझ कर आपके कान का कुण्डलभूत श्रेष्ठ सर्प आस्वादन करे।
(१०३)
अपटुभिरभिधित्सितार्थबुद्धा-
वनभिमतानपि बोधयद्भिरर्थान्।
पुरमथन! पराहतैरमीभि:
कथय कदा विहसिष्यसि प्रलापै:।।
अन्वय: - हे पुरमथन! अभिधित्सितार्थबुद्धौ अनभिमतान् अपि अर्थान् बोधयद्भि: पराहतै: अपटुभि: अमीभि: प्रलापै: कदा विहसिष्यसि (इति) कथय।।१०३।।
पदार्थप्रकाशिका - अपटुभिरिति- हे पुरमथन! त्रिपुरविनाशक! अभिधित्सितार्थबुद्धौ, अभिधित्सित: कथयितुमीप्सित: योऽर्थस्तस्य बुद्धौ ज्ञाने अनभिमतान् अनिष्टान् अपि अर्थान् पदार्थान् बोधयद्भि: अवगमयद्भि: पराहतै: परास्तै: व्याहतैर्वा अपटुभि: अप्रवीणै: अमीभिरुक्तै: मम प्रलापै: तव स्तुतिरूपैर्निरर्थकवचनै: कदा कस्मिन् काले विहसिष्यसीति कथय, वद।
अनुवाद - हे पुरमथन! विवक्षित अर्थों को कहने में असमर्थ तथा समर्थ न होने के कारण अनभिमत अर्थों का ज्ञान कराने वाले मेरे परास्त (व्याहत) चातुर्यरहित इन प्रलापों से कब हँसोगे, यह कहो।
(१०४)
न तव पुरि शिलादपुत्रवेत्र -
प्रततिनिरुद्धतया लभे प्रवेशम्।
शिवसहचरि! गौरि! गोपुरेभ्यो
बहिरुपविश्य वसामि नौमि च त्वाम्।।
अन्वय: - हे शिवसहचरि! गौरि! शिलादपुत्रवेत्रप्रततिनिरुद्धतया तव पुरि प्रवेशं न लभे। गोपुरेभ्य: बहि: उपविश्य वसामि त्वां नौमि च।
पदार्थप्रकाशिका - शिवसहचरीति- हे शिवसहचरि! गौरि! शिलादपुत्रवेत्रप्रततिनिरुद्धतया तस्य। शिलादपुत्रो नन्दी। तस्य पिता शिलादमुनिरासीदिति पुराणेषु प्रसिद्धम्। शब्दकल्पद्रुमेऽप्ययं 'शैलादि:’ कथित:। तथा च हरविजये- 'शैलादिना नतशिरस्सु निवेदितुषु (२.१८)’ इति स्थले नन्दी शिलादपुत्र: कथितष्टीकाकारेण। सोऽयं नन्दी प्रतिशिवमन्दिरं द्वारि प्रतिष्ठापितो भवतीति तेन वेत्राणां प्रततिभिर्यष्टिभि: व्रततिभिर्वा निरुद्धतया निरोधताकारणात् तव पुरि मन्दिरे प्रवेशं न लभे। गोपुरेभ्य: बहि: द्वारेभ्य: बहि: एव उपविश्य स्थित्वा वसामि भवामि। तव द्वाराद् दूरे स्थितो भूत्वा त्वां नौमि। तव कृपया भवतु शिवपुरे मम प्रवेश इति भाव:।
अनुवाद - हे शिवसहचरि! पार्वति शिलादपुत्र नन्दी की वेत्रयष्टियों से निरुद्ध होने के कारण मैं तुम्हारे पुर में प्रवेश नहीं कर पा रहा। अत: गोपुर द्वार के बाहर बैठ कर तुम्हें नमस्कार करता हूँ।
(१०५)
न दहति सगरान्वयं न पादात्
प्रभवति नाऽप्यलिकादुदेति चक्षु:।
न च किमपि शृणोति नेत्रवर्गो
मम कथमस्तु तव स्तवेऽधिकार:।।
।। इति महामहोपाध्यायश्रीगोकुलनाथविरचितं शिवशतकम्।।
अन्वय: - (मम) चक्षु: सगरान्वयं न दहति, न पादात् प्रभवति, नापि अलिकात् उदेति। नेत्रवर्ग: च किमपि न शृणोति। मम तव स्तवे कथम् अधिकार: अस्तु।
पदार्थप्रकाशिका - न दहतीति- चक्षु: मम नेत्रं सगरान्वयं सगरवंशजं न दहति। कपिल: सगरान्वयं ददाह। अत: नाहं कपिल: स तवोपासक आसीत्। मम नेत्रं तथा पादात् अपि न प्रभवति न उत्पद्यते। तवोपासकस्य अक्षपादमुनेरेव पादे नेत्रमासीत्। अलिकात् मस्तकात् अपि न उदेति। ''ललाटमलिकं गोधि:’’ इत्यमर:। शिवस्य शैवानां मस्तकान्नेत्रजनि: श्रूयते। मम तु तथा नास्ति। मम नेत्रवर्ग: नेत्रसमूह: किमपि न शृणोति। अतो नाहं शेषनाग:। तवोपासकानां तु तादृशा गुणा: श्रूयन्त इति तथात्वरहितत्वान्मम सामान्यपुरुषस्य तव स्तवे स्तुतौ अधिकार: कथं स्यात्। नाऽहं कपिल: गौतम: प्राप्तशिवस्वरूप: शैवो वाऽस्मि। अत: कुतस्तव स्तवेऽधिकार:, कपिलादय, एव तव स्तुतौ समर्था:। किञ्च ममेन्द्रियवर्ग: शक्तिरहित:, मूले नेत्रशब्दस्य इन्द्रियोपलक्षकत्वात्। अतोऽहं न तव स्तुतौ समर्थ इति भाव:।
।। इति विद्यावतीसुतरमाकान्तप्रणीता पदार्थप्रकाशिका शिवशतकटीका।।
अनुवाद - मेरी आँख सगर के पुत्रों को नहीं जलाती, पैर से भी उत्पन्न नहीं होती, मस्तक से उदित नहीं होती। मेरा नेत्रवर्ग कुछ सुनता भी नहीं, अत: तेरे स्तवन मे मेरा अधिकार कैसे हो।।१०५।।
नयन्ती सारल्यं शिवशतकवाचोऽतिकठिना:
दिशन्ती वैदग्ध्यं दिशि दिशि मुदा गोकुलकवे:।
हरन्ती सन्देहं विलसतु विनोदे मतिमताम्
पदार्थानां पुण्यं प्रथयतु सदेयं मम कृति:।।१।।
गोकुलस्य कृतौ बद्धा रमाकान्तेन श्रद्धया।
समर्प्यते शिवायैषा पदार्थानां प्रकाशिका।।२।।