अपि नासाभूषणमिदमासां यवनजातीनां सहवासादनुकृतम्?
(नवीनगवेषणा)
नासिकालङ्कारोऽयमार्यमहिलानां शृङ्गारस्याऽनुपमं वस्तु। सीमन्तिनीनां सौन्दर्यसागरोऽनेन समुद्वेलितो भवतीत्येव केवलं न, अपितु सौभाग्यवतीनां सौभाग्यस्यापि तदेतत्प्राधानतममाभरणम्। नासिका हि मुखसौन्दर्यस्य यथा प्रधानतमं केन्द्रं तथा सम्मानराजधान्या अपि सेयमभेद्यतमं दुर्गम्। एतस्या भङ्गे सम्मानस्याऽप्यवसानमवसीयते। नासिकाच्छेदो यथा ह्यमङ्गलं तथा न्यक्कारस्यापि पराकाष्ठा। समाजे स्वनासिकासंरक्षणं परिगण्यत इव परमपुरुषार्थ:। नासिकाच्छेदेन विरूपमुखां शूर्पणखां निबन्ध्नन् भगवान् वाल्मीकिर्लङ्काया अपि विनाशशङ्कामङ्कुरयामास।
किं वा विस्तरेण भूयसा। अन्येषामवयवानामुत्तमाङ्गता भवेद् भूतल एव प्रसिद्धिं गता नाम, किं तु लोकभाषायामिदमङ्गं साक्षात् 'नाक’ नाम्नैव प्रख्यायते। अङ्गेषु यथा नासिकाया: प्रधानाऽऽसिका तथैव तस्या भूषणमपि भूषणानामखिलानां भूषणम्। 'नथ’ इति ख्यातस्य नासिकालङ्करणस्य हि सौभाग्यभूषणेषु विशेषतो महत्त्वं नाम। नवयुगेनानेन नासिकातो 'नथ’मपनीय तत्स्थाने 'लवङ्ग’ 'नासामणि’ 'नासामौक्तिका’ दीनि कामं निवेशितानि किन्तु प्राचीनपुरन्ध्रीभि: साम्प्रतमपि सौभाग्यभूषणेषु 'नथाय’ एव निमन्त्रणं दीयते न नाम नासामौक्तिकादिभ्य:। शिक्षिता: सन्त्वर्द्धशिक्षिता वा, किन्तु येषु परिवारेषु साम्प्रतमपि धार्मिकदृशा प्राचीनप्रथानां समादरस्तेष्वद्यपि 'चतुर्थी’ प्रभृतिषु सौभाग्यमहोत्सवेषु कामं स्वल्पकालायैव किं न भवेत्परं नासामौक्तिकादीनां स्थाने 'नथम्’ विनिधायैव विधीयते गौरीपूजा सौभाग्यवतीभि:।
एतावद्दीर्घभूमिकया मुखबन्धस्येदमेवाकूतं यन्नवीनमिदं युगं नासाभूषणस्यास्य गौरवमुरीकर्तुं सर्वथा विप्रतीपम्। प्राचीनकालादारभ्याऽद्यावध्यपि काममभ्युपगतं भवेन्महत्त्वं नासिकाया: किं तु तदीयभूषणस्यास्य गौरवं न तत्स्वरूपे स्वीकर्तुमिष्यते साम्प्रतम्। प्रचीनप्रथापक्षपातिन: पुरुषा: प्राचामाचार्याणां समयादेव नासिकालङ्कारायाऽस्मै सौभाग्यभूषणस्य महत्त्वमर्पयन्ति स्म, किं तु सामयिकी 'गवेषणा’ निर्णयति यदेतस्या: प्रथाया गुरवो यवना:। काममधुना भवन्तो न केवलमिदं सौभाग्यभूषणमेव, अपि तु साक्षात्सौभाग्यदेवतामेव किं नाऽभ्युपगच्छन्तु किन्तु सामयिका विद्वांसो गवेषणानिकषे निर्णयन्ति यत्सेयं नासावेधप्रथा प्रचलिता तावद्यवनानां संसर्गात्। ''कामं कुतोऽप्यनुवृत्ता स्यात्किन्तु साम्प्रतमियमस्माकं धार्मिकी प्रथा संवृत्ता’’ इत्याग्रहेण काममात्मीयीक्रियतां श्रीमद्भि: किन्त्वार्याणामिदं प्रातिस्विकं धनमिति
यदस्यामासीदात्मीयत्वगौरवम्, आस्माकीनमिदं विज्ञानमित्यासीद् हृदये योऽयमुत्साह:, अवश्यं किल तत्र महीयानाघात:। वयं सामयिकाविष्कारेभ्यो यथाऽपरिचितास्तथा सामाजिकगवेषणानामप्यनभिज्ञा: प्राय: सम्पद्यामहे। यदा तु नवयुगचाकचक्यमोहिताया जनताया: श्रद्धा नवनवगवेषणासु दृढं विनिबद्धा भवति तदनन्तरं वयं जागृम:। किन्त्वेकदा प्रवृत्त: प्रवाहो न शक्य: सहसा विनिरोद्धुम्। अत एव तथ्यबोधनाय बहुतरं प्रयतमाना अपि न तद्विषये लब्धसम्माना भवाम:।
वक्ष्यमाणाया नासाभूषणविषयकगवेषणाया: प्रारम्भिकमितिवृत्तं त्वेवम्-
श्रीमान् पी. के. गोडे M.A. महोदय आङ्गलभाषायां यथा विद्वांस्तथा संस्कृतसाहित्येऽप्यभिनिविष्ट:। पुण्यपत्तने भाण्डारकरप्राच्यगवेषणाविभागस्य (भाण्डारकर ओरिएंटल रिसर्च इन्स्टिटयूट, पूना) सोऽयं व्यवस्थापक:। पुण्यपत्तनीयनगरनिरीक्षणसमित्या अध्यक्षेण संलापप्रसङ्ग नासावेधप्रथाया अस्या विरोधे बहुतरमुदीरितमेकदा। सिद्धान्तरूपेण सोऽयं निर्णीतवान्-'हिन्दुनारीभिर्नासाभूषणमिदमेकान्ततो हेयम्, अनेन हि मालिन्यमुपयान्ती नासिका स्वास्थ्येऽपि समुद्भावयति वैगुण्यम्’।
साधारणी सेयं घटना पी. के. गोडे-महोदयस्यावधानमित आकृष्टवती प्रोद्भावितवती च प्रश्नं हृदि-'किमियमेतादृशी सामान्या प्रथा यत्सहसैव समाजादपसारयितुं शक्या? यदीयमैतिहासिकी पुरातनी च, तत: कथमेतस्या आग्रह: समाजादपनेय:’। अयमेतद्विषयकाण्यैतिहासिकप्रमाणानि समुद्यत: सङ्ग्रहीतुम्। यान्यपि प्रमाणान्यलभ्यन्त तान्यपूर्णानि विकीर्णस्वरूपाणि च, निबन्धेऽस्मिन्नुचितक्रमेण विन्यस्तुमहमायते।
वयमेतस्या: शैल्यास्तथाऽभ्यस्ता: समभवाम यथा नास्या: समुद्भवोपरिलक्ष्यमेवा-स्माकमभूत्, किन्तु वैदेशिकानामवधानं सर्वत: प्रथममेतस्या उपरि सप्तदशअष्टादशशताब्द्योर-जायत। 'ईस्ट इण्डिया संघ’ (कम्पनी) स्य स्थापनोत्तरं लैफ्टिनेंट मूरो य: किल विद्वानन्वेषकश्चासीत् टीपूविरोधे परशुरामभाऊ पटवर्द्धनायाऽलिखत्-'हिन्दुजाते: स्त्रियो नासिकायामेकं कुण्डलं मणिं वा परिदधति यद्धि
'नथ’ नाम्रा व्यपदिश्यते। यूरोपवासिन: कामं किमप्यालपन्तु किन्तु सुन्दरे मुखे प्रवर्द्धतेऽनेन शोभा। यदि तद्यथास्थानं भवेद्विन्यस्तम्’।
टेवर्नियर: पारस्ययात्रापुस्तके (पर्शियन ट्रेवल्स) लिलेख-'अरब-नारीणां नासिकामध्यं केवलं भूषाधारणायैव भवति यत्र ता लघु कुण्डलमेकं दधति। कदाचित्तु तन्महदायासमपि भवति यत्र संहताङ्गुलि: करोऽपि निविशते।’ एवमेव 'प्रशियायात्रा’ पुस्तके (ट्रेवल्स इन प्रशिया, भाग 1पृ. 230) 'हैन्बे’ ऽप्यवर्णयत्, किन्तु तत्सौन्दर्यादपरिचित: प्रशियावासिनीनां नासावेधप्रथां नाभिनन्दति समादरदृशा।
प्रमाणमन्विष्यतां दृष्टौ स्पष्टमिदमवभासते यदेतस्या: प्रथाया लिखितं प्रमाणं सर्वत: प्रथममरबदेशे लभ्यते। भारतवर्षे त्वेतस्य प्रचार:, साहित्येऽमुष्य वर्णनम्, शिल्पकलायामे-तस्याऽवस्थानं भारतेतिहासे तदोपलभ्यते यदा मोगलानां प्रारभ्यते शासनसमय:। यद्यपि वैदेशिकगवेषितान्यन्यान्यपि सन्ति प्रमाणानि (यथा 'कस्टम्स् ऑफ मुसल्मान्स आफ् इण्डिया’ पुस्तके 'मोहर्रम’ याचकानां वर्णनम्, नासाभूषणभूषितानां स्त्रीणां तत्र परिभ्रमणम्, सम्मानितव्यक्तेर्नाम्ना निजशिशूनां 'नथी’ निधानमित्यादि) किन्तु तान्यपि मोगलकाल एवान्तर्भवन्ति।
यस्मिन् काले तदिदमन्विष्यमाणमासीद्दैवयोगात्तस्मिन्नेव समये 'बनारस हिन्दुविश्वविद्यालयस्य’ पत्रे (भागो 2, पृ. 399-422, सन् 1918) डा. आल्तेकर: प्राकटयत् 'हिन्दूस्त्रीणामाभूषणानि वस्त्राणि च’ इति शीर्षकं निबन्धम्। किन्तु सोऽपि नासावेधप्रथां वैदेशिकीमेव साधयति। अयं किल तन्निबन्धस्य सारभाग:-
''1. नासाभूषणमवश्यं सौभाग्यस्य चिह्नम्, किन्तु नाट्यशास्त्रे (23 अध्याये) महिलाभरणानां या सूची दत्ता, न तस्यामेतदुल्लेख:। 2. संस्कृतस्य कवयो लेखकाश्च नास्य भूषणस्य परिचयमावहन्ति। 3. 'चूड़ामणि’ कुण्डल-ललन्तिकाकाञ्चीकटक-नूपुरादिवत् संस्कृतभाषायां नास्य कृते किञ्चिन्नामधेयम्। 4. 'नथ, नथिया, नथ्या, नथांग’ इत्यादय: शब्दा देशीयभाषाया:, नैतेषां संस्कृतेन प्राकृतेन वा कश्चित्सम्बन्ध:। अयं शब्द: 'नाथ’ (पशोर्वशीकरणाय या नासारज्जु:) पदादपभ्रष्ट:। 5. उदयगिरि:, भुवनेश्वर: (उडीसा), बुद्धगया (पटना), [भुरहुट (क्च॥क्र॥ञ्ज ), सांची, मथुरा (यू. पी.), तक्षशिला (टेक्सिला, पञ्जाब), ] अजण्टा, बादामी, यलोरा, मद्रासप्रान्तस्य अमरौती आदिस्थानानां चित्रकलासु स्त्रीणामन्यान्यप्रकाराण्याभरणान्यवाप्यन्ते, न तावन्नासाभूषणम्। 6. सर्वत: प्रथमं 'जगन्नाथपुरी-राजपुत्रप्रान्तयो:’ चित्रकलायां नासाभूषणमुपात्तम्। सैषा चित्रशैली मोगलशासनकालिकी। 7. तदेतै: सिध्यति यन्नासाभरणं मोहम्मदेभ्योऽनुकृतम्। महदिदं चित्रं यद्वैदेशिकी सेयं प्रथा सौभाग्यस्यावश्यकतममङ्गं कथङ्कारं वा संवृत्ता?’’
गोविन्दाचार्यलिखित 'सङ्ग्रहसौदामिन्याम्’ (सन् 1740) सङ्गीतशास्त्रीयरागाणामेका सूची, तत्र हि नासाभूषणस्य विषये सेयं पंक्तिरालोक्यते-
'नासिकाभूषणीमेलान्नासामणिरजायत।’
व्याकरणाद्यनुसारमिदं कीदृशमपि भवेत् किन्तु नासामणेरर्थो नासिकायां विधृतो मणि:, स चोपमाविधया रागस्य कृते ग्रन्थकर्त्रा प्रयुक्त:।
'पर्णालपर्वतग्रहणाख्यान’ नामकं काव्यं यद्धि छत्रपतिशिवाजिन: सैनिकद्वारा कोल्हापुरसमीपवर्ति 'पन्हाल’ नामकदुर्गस्य विजये व्यरच्यता तस्मिन् 'प्रतापगढ’ प्रतिष्ठित-भवानीदेव्या वर्णनमस्ति यत्र भवानीपरिधृतस्य नासाभूषणस्याप्येवमुल्लेख:-
'नासामुक्ताफलं यस्या दन्तोष्ठद्युतिपाटलम्।
दध्रे शुकाऽऽस्यसंसक्त-पक्वदाडिमबीजताम्।।’
एस्. एम्. दिवेकर: काव्यस्यास्य प्रकाशक: सम्पादकश्च। स हि रचनामिमां सन् 1673 कालिकीं मनुते। किन्तु शिवाजीसमये नासाभूषणमिदं तदाराध्याया भवानीदेव्या अपि पवित्रतमेऽङ्गे स्थानमलभतेत्यनेन सिध्यति।
रघुनाथपण्डितेन महाराष्ट्ररराजस्य शिवाजिन: कृते 'राज्यव्यवहारकोष:’ व्यरच्यत, तस्मिन्नधोलिखितं पद्यं नासाभरणस्य विषये प्राप्तम्। देशभाषाविमिश्राऽस्य रचनाशैल्यपि विनोदजननी। तथा हि-
'नासामणिर्नथो, मुक्ताफलं मोती, फुलीति तु।
नासापुष्पं बाहुमणिर्बाजूबन्धाभिधायक:।।’ (कार्यस्थानवर्ग:)
हंसमिथ्यूरचिते 'हंसविलासे’ऽपि (सन् 1738) 'अलङ्करणीपकर’ वर्गोऽस्ति, तस्मिन्नपि नासाभूषणस्यायं प्रसङ्ग:-
''लसन्मौक्तिकयुगलोल्लसिताभि: अरूणरत्नरुचिराभि: नासाभूषाभि: नासिका: परिष्कृत्य’’।
'कांगडा’ प्रान्तीयचित्राणि यानि हि साम्प्रतं कलिकातास्थ-विचित्रवस्त्वागारे (म्यूजियम ऽवस्थितानि तेष्वपि ब्रह्मादिदेवतानामृषीणां च सन्ति चित्राणि। एषु भगवती पार्वती त्रयाणां चतुर्णां वा मौक्तिकानां 'नथ’ भूषणं दधती प्राप्यते। इदं चित्रमेकेन राजपुत्रेण (क्षत्रियेण) अंकितम्। एवमेव योधपुरप्राप्तस्य हस्तलिखितश्रीमद्भागवतस्य चित्रेष्वपि (सन् 1611) मौक्तिकमण्डितं 'नथ’-भूषणं दधतीनां सीमन्तिनीनामालेख्यानि सन्ति। सर टामस रो-सहचरेण एडवर्ड टेरीनाम्नापि 1616-19 तमख्रिष्टीयवत्सरेषु भारतवर्षयात्रा व्यधायि, तत्रापि माहम्मद-महिलानां नासासु नासाभूषणस्य वर्णनमवाप्यते। मि. मोतीचन्द्रेणापि दक्षिणभारतीयप्राचीनचित्रेषु स्त्रीणामन्यान्यभूषणै: सह नासाभूषणस्याप्युल्लेखो व्यधायि।
सप्तदशशताब्दीत: पूर्वं षोडशशताब्द्यामपि नासाभूषणस्य सम्बन्धे प्राप्यते प्रमाणम्। हस्तलिखिता किरातार्जुनीयस्यैका टीका या एकानाथभट्टेन 1483 ख्रिष्टाब्दे लिखिता तस्यामपि द्वित्रमौक्तिकानां 'नथ’ भूषणं धारयन्ती भगवती सरस्वती चित्रिता। कतिपयवत्सरेभ्य: पूर्वं ट्रावनकोरराज्ये षोडशशताब्दीलिखितानि कानिचित्स्त्रीणां चित्राण्यधिगतानि, तेष्वपि 1, 3 संख्याङ्किते फलके (प्लेट) नासाभूषणधारिणीनां रमणीनां चित्राणि। एतानि हि चित्राणि जीर्णतमस्य राजभवनस्य भित्तावुत्कीर्णान्यासन्।
दक्षिणभारते चतुर्दशशताब्द्यां नासाभूषणसत्तासूचकं प्रमाणं तिरूवाम्बादीतीर्थस्य पद्मनाभस्वामिनो मन्दिरस्य भित्तावुत्कीर्णेभ्यश्चित्रेभ्य: समवाप्यते। अत्र हि स्त्रीणामेक: 'सङ्गीतसंघ:’ चित्रित: तस्मिन् वामनासायां 'नथ’ भूषणं धारयन्त्य: सन्ति बह्वयो नार्य: [4 संख्याक: फलक: ट्रावन्कोरराजकीयगवेषणाविभागस्य विवरणम्]।
डा. आल्तेकरमहोदयेनोल्लिखितं यत् संस्कृतभाषायां नासाभूषणस्य कृते न किञ्चिन्नामधेयमिति। किन्तु सैषा प्राचीनां न्यूनता नवीनै: संस्कृतलेखकै: 'नासामौक्तिक-नासामुक्ताफल,-नासामणि’-प्रभृतिशब्दान् घटयद्भिरपनीता। शार्ङ्गधरपद्धति-सुभाषितरत्न-भाण्डागारयोर्यानि नासाभूषणपद्यानि सङ्गृहीतानि तेष्वेतानि नामान्युपलभ्येरन्नन्वेषकै:-
नासामौक्तिकमबले किमधरबिम्बेन विद्रुमं कुरुषे।
दृष्ट्या गुञ्जाबीजं शिव शिव भूयस्तदेव हसितेन ।।१।।
श्लेष्मागारे वसतिर्जाताऽस्माकं तदत्र मायात।
आन्दोलनच्छलादिह निवारयन्तीव मौक्तिकानि विटान्।।२।।
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन।
अनङ्गसञ्जीवनदृष्टिशक्तिर्मुखामृतं ते पिबतीव चन्द्र:।।३।।
आकाशत्पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं
पश्चाद्दु:सहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकम्।
वाले बालकुरङ्गलोचनयुगे घोरं तप: सञ्चर-
न्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया।।४।।
अस्या: कामनिवासरम्यभवनं वस्त्रं विलोक्यादरा-
न्निश्चित्येव सुधाकरं प्रियतमं भूमीगतं शोभनम्।
नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी
मन्ये तद्विरहासहिष्णुहृदया तत्सन्निधिं सेवते।।५।।
'शार्ङ्गधरपद्धतौ’ परिशिष्टभागे-
'अस्या: कुशेशयदृश: शशिशुभ्रशुभ्रं नासाग्रवर्ति नवमौक्तिकमाचकास्ति।।’
'मुक्ताफलं शशिसमस्य मुखस्य तस्या हेमोर्मिकान्तगतमञ्चति नासिकान्ते।।’
'आश्यानतामुपगतोऽस्य रुचा चकास्ति नासाग्रमौक्तिकमिषादमृतस्य बिन्दु:।।
इति श्रीबकस्य।
इत्यादिरूपमप्युपलभ्यते नासाभूषणग्रहणम्।
षोडशशृङ्गारा: सर्वेभ्य: श्रूयन्ते, तेष्वपि नासाभूषणमिदमस्ति-
'आदौ मञ्जनचीरहारतिलकं नेत्राञ्जनं कुण्डले
नासामौक्तिककेशपाशरचना सत्कञ्चुकं नूपुरौ।
सौगन्ध्यं करकङ्कणं चरणयो रागो रणन्मेखला
ताम्बूलं करदर्पणं चतुरता शृङ्गारका: षोडश।।’
पूर्वोक्तेषु भाण्डागारस्थपद्येषु 'सुधामयोऽपि.’ इत्यादि पद्यं शार्ङ्गधरपद्धतावपि ३३०५ संख्यायां दत्तम्। तत्र हि 'वैद्यनाथस्य’ इति कर्तुर्निर्देश:। वैद्यनाथस्य च समय: १३६३ त: १२५८ तमख्रिष्टाब्दमध्यग:, यतो हि तदिदं पद्यं भगदत्तजह्लणस्य 'सूक्तिमुक्तावलावपि’ वैद्यनाथनाम्ना सङ्गृहीतम्। लक्ष्मीदेवस्य पुत्रो जह्लण: कृ ष्णराजस्यासीदमात्य:। कृष्णराजश्च १२४७ तमे ख्रिष्टाब्दे राज्यसिंहासनमधितष्ठौ। एतदमात्यस्य जह्लणस्य कृते भानुनाम्ना वैद्येन ११७९ तमशकसंवत्सरे [सन् १२५८] सूक्तिमुक्तावलि: [सुभाषितावलिर्वा] सङ्गृहीता-
'शाकेऽङ्काद्रीश्वरपरिमिते वत्सरे पिङ्गलाख्ये
चैत्रे मासि प्रतिपदि तिथौ वासरे सप्तसप्ते:।
पृथ्वीं शासत्यतुलमहसा यादवे कृष्णराजे
जह्लस्यार्थे व्यरचि भिषजा भानुना सेयमिष्टा।।’
सूक्तिमुक्तावलेरारम्भिकेषु ४१ पद्येषु जह्लणस्य वंशावलिर्दत्ता, यस्या: समुल्लेखेन नात्र सम्बन्ध:। किन्तु १२५८ तमे शाकसंवत्सरे सङ्गृहीतात् 'सुधामयोऽपि.’ इति वैद्यनाथस्य पद्यात्। तथा निम्ने निर्दिश्यमानेभ्यस्त्रिभ्य: पद्येभ्यश्चाविभ्रान्तं सिध्यति यदेतत्समयपर्यन्तमार्यमहिलानां नासाभूषणस्य साहित्येऽपि सुप्रसिद्धिरासीत्। पद्यत्रयं च यथा-
पुण्डरीकमिवाऽऽभाति नासावंशगमौक्तिकम्।
कुचसिंहासनस्थस्य सारभूपस्य सुभ्रुव:।।
'ललाटे लोलाक्ष्यास्तिलकमिषधारी विधुरयं
स्वमापूर्णं वाञ्छन्नधरसुधया देवहितकृत्।
अतो नासाग्रेऽसौ तदुपहतये मौक्तिकमिषात्
स्फुटं दैत्यामात्योऽधरशशभृतोरन्तरं गत:।।
'तस्या वदनचन्द्रस्य कान्तिरन्यैव जायते।
कलङ्कतुलनां धत्ते यत्र नासाग्रमौक्तिकम्।।’
त्रयोदशशताब्द्यामपि-आर्यमहिलासु नासाभूषणप्रचारस्य प्रमाणं महानुभाव’-जाते: प्राचीनपुस्तकात् 'लीलाचरित्रात्’ उपलभ्यते, यत्र हि एतत्सम्प्रदायप्रवर्तकस्य चक्रधरस्य जीवनचरितमावर्णितम्। अत्र हि महाराष्ट्रभाषामयमेकं वाक्यं देव्या महालसाया: सम्बन्धेऽस्ति-
''कांकर्णे: कलाविया सोनयाची तानवडें भँवरिया भांगु: टीला नाँकी मोंती’’
अत्र हि 'नांकी मोती’ इत्यविकलं संस्कृतस्य 'नासाग्रमुक्ताफलम्’। अनेनापि सिध्यति यन्न केवलमार्यमहिलास्वेव, अपि तु महालसादेव्या अप्यङ्गे तदिदमाभूषणमासीत्तस्मिन् काले। एतस्मात्पूर्वम्-११ शताब्द्यामपि नासाभूषणप्रचारस्य प्रमाणं मि. एन् एन् दासगुप्तमहोदय: [कार्तिकमासस्य 'प्रवासी’ वङ्ग संवत् १३४१, पृ १०९] लक्ष्मणदैशिकरचित 'शारदातिलके’ ददाति। तत्र हि आन्ध्र (तैलङ्ग) महिलामेकामावर्णयता ग्रन्थकारेण प्रोक्तम्-यस्या: किल नासाभूषणस्य (नथ) मौक्तिकं श्वासेनाऽऽकम्पते’। प्रो. विंटरनीज कृतस्य 'भारतीयसाहित्येतिहास’स्य प्रथमभाग पृष्ठ ६०४ त: [कलकत्ता यूनीवरसिटी, १९२७] प्रमाणयति मि. एन् एन् दासगुप्तमहोदयो यत् 'शारदातिलकम्’ एकादशशताब्द्या रचनेति।
श्रीमत: पी. के. गोडेमहोदयस्य कथनमस्ति यत् 'शारदातिलकम्’ न मया विलोकितं नापि च तन्मे प्राप्यम्। किन्तु श्रीमतो दासगुप्तस्य कथनानुसारमहमङ्गीकरोमि यत् ११ शताब्द्यां नासाभूषणस्य प्रचार: सम्भवीति। यतो हि विन्सेंट स्मिथ: (आक्सफोर्ड हिस्ट्री आफ् इण्डिया, संवत् १९२८, पृष्ठ १९०) कथयति यत् दशमशताब्द्या अवसानपर्यन्तं भारतस्य हिन्दुराज्येषु नाभूद्विदेशीयानामाक्रमणम्। भारतस्य सीमनि सर्वत: प्रथममाक्रमणं सुबुक्तगीनेन ९८६-७ तमे ख्रिष्टीयसंवत्सरे कृतम्। भारते नासाभूषणप्रचारस्य प्रमाणं तु दशमशताब्दीपर्यन्तस्य कालस्याऽवाप्यते। प्रशियाऽरबप्रान्ते नासाभूषणप्रचारस्य प्रमाणानि एतदनन्तरकालिकानि। ततश्च आरव्यदेशीया: प्रशियाप्रान्तीयाश्च विपश्चितो निजसाहित्यद्वारा दशमशताब्दीत: पूर्वं स्वदेशे नासाभूषणप्रचारं न यावत्साधयेयुस्तावन्नेदं सिद्धान्तयितुं शक्यते यन्नासाभूषणस्य प्रचारो यवनेभ्य: समजनीति।
मि. दासगुप्तमहोदयो लिखति यत् वल्लभदेवविरचिताया: 'सुभाषितावल्या:’ 27 संख्याकं 'नासाग्रे नवमौक्तिकम्.’ इत्यादिपद्यं यस्मिन्नासाभूषणस्य निर्देशोऽस्ति, बिल्वमङ्गलकृते 'कृष्णकर्णामृते’ ऽपि प्राप्यते। लीलाशुकोपनामको बिल्वमङ्गलश्च नवमशताब्दीजात:। अस्तु इत: परस्तादप्यस्य काले स्वीकृतेऽपि तदिदं नि:सङ्कोचं सिध्यति यद् भारतीयेतिहासस्य हिन्दुकाले नासाभूषणस्यासीत्प्रचार इति। भारतीयेतिहासस्य हिन्दुकालो दशमशताब्द्या सह समाप्यते, यदा हि सर्वप्रथममाक्रमणं भारतसीमनि सुबुक्तगीनेन व्यधायि। बिल्वमङ्गलस्य सम्बन्धो यदि नवमशताब्द्या सह साध्यते ततस्तदीयपद्येन निर्भ्रान्तमिदं सिध्यति यन्नासाभूषणमिदमार्याणां वस्तु। माहम्मदप्रचारिता सेयं प्रथेति वादिनां मतं निर्मूलम्।
यदा ह्येकमात्रेऽस्मिन्पद्य एव सर्वं निर्भरं भवति तदाऽस्य पद्यस्य पूर्णपरामर्श: साम्प्रतमत्यावश्यक: सम्पन्न:। डा. पीटर्सन-सम्पादितायां 'सुभाषितावल्याम्’ 27 संख्याकं तदिदं पद्यमेवमस्ति-
'कस्तूरीतिलकं ललाटफलके वक्ष:स्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलिं
बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणि:।।’
किन्तु वयमालोकयामो यत् डा. एस्. के. दे महोदयेन टीका-टिप्पणीयुक्तं यत्संस्करणं 'कृष्णकर्णामृतस्य’ साम्प्रतमेव प्रकाशितं तस्य मूलकवितायां नेदं पद्यम्। 'पायल्लयस्य’ सूरे: कृष्णकर्णामृतस्य (दक्षिणभारतीय-संस्करणम्) द्वितीयतृतीयाश्वासयो: परिशिष्टश्लोकेषु तदिदमुपलभ्यते, यत्र हि नासाभूषणस्य सम्बन्धे तदिदमपि पद्यमवाप्यते-
'मौलौ मायूरबर्हं मृगमदतिलकं चारुलालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम्।
हारो मन्दारमाला परिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुत: पातु पीताम्बरो व:।।
पूज्यतम: श्रीमांश्चैतन्य: कृष्णकर्णामृतं दक्षिणपश्चिमभारतादानीतवान् वङ्गदेशे। तद्धि केवलमेकशतकस्य पुस्तकम्। वङ्गसम्प्रदायस्य परम्परा द्वयोरनयोराश्वासयो: सम्बन्धे न किञ्चिज्जानाति। एवं परिस्थितौ द्वयोरनयो: शतकयो: सम्बन्धे ये हि केवलं दक्षिणभारतीय-संस्करण एवाप्येते, शङ्कासम्भव: स्वाभाविक:। किञ्च पायल्लयसूरिर्मल्लिनाथमप्युल्लिखति यो हि चतुर्दशशताब्दीजात:। एवमवस्थितौ केवलमेकमात्रेणानेनैव पद्येन नेदमभ्युपगन्तुं सुकरं यद्विदेशीयाक्रमणत: पूर्वं नासाभूषणस्यासीद् भारते प्रचार इति। प्रत्युत माहम्मदकालात्प्राक्तन्यां चित्रकलायां नासाभूषणस्यानवाप्तिर्बलादस्मान् विवशीकरोति यत्सेयं प्रथा हिन्दुकाला-त्परस्ताद्भाविनीति।
आम्, एकादशशताब्द्यां नासाभूषणस्य प्रमाणं महाकवेर्बिह्लणादप्यवाप्यते। डा. बुल्हरस्य मतेन 'विक्रमाङ्कदेवचरितम्’ विद्यापतिबिह्लणेन एकादशशताब्द्या अष्टमेंऽशे निर्मितम्। अत्र हि करहाटराजकुमार्याश्चन्द्रलेखाया: स्वयंवरवर्णनमतितमां रोचकम्। तत्रैवाष्टमे सर्गे नासाभूषणस्याप्येवं वर्णनम्-
नासावंशविनिर्मुक्त-मुक्ताफलसनाभिना।
भाति भालतलस्थेन बालचन्दनबिन्दुना।।
'नासावंशविनिर्मुक्तमुक्ताफल’ पदं जह्लणस्य 'सूक्तिमुक्तावले:’ (स. 1258) निम्नलिखितं पद्यमपि स्मारयति-
'पुण्डरीकमिवाभाति नासावंशगमौक्तिकम्’
अनेन हि स्पष्टं सिध्यति यत् 1080 तमे ख्रिष्टसंवत्सरे, यदा हि बिह्लणेन
काव्यमिदमारचितं तदा भारतीयार्यमहिलासु नासाभूषणस्यासीत्प्रचुरं प्रचार:।
एतद्विषयकमेवैकं मनोरञ्जकं प्रमाणं शङ्कराचार्यग्रन्थादप्युपलभ्यते। तत्पद्यं यस्मिन्प्रसङ्गस्यास्य वर्णनं दृश्यते, 'त्रिपुरसुन्दरीमानसपूजास्तोत्र’ स्यान्तर्गतम्। यथा-
मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
दैवाद् भार्गवजीवमध्यगरवेर्लक्ष्मीमध: कुर्वतीम्।
उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम्।।
भगवत्यै नासाभूषणसमर्पणार्थमुपगुम्फितं पद्यमिदमतिचमत्कारककल्पनापूर्णम्। 'नथ’रूपेऽस्मिन्नाभरणे मुक्तायुगस्य मध्येऽरुणवर्णमेकं रत्नं तथा प्रतीयते यथा शुक्लवर्णयोर्भार्गव (मङ्गल) जीव (बृहस्पति) योर्मध्ये अरुणवर्णो रविर्भवेत्। उत्सिक्तस्य शोभागर्विष्ठस्य अधरबिम्बस्य कान्तिपूरैर्मौक्तिके अपि यत्र भौम (मङ्गल)-रूपतां धारयत:। मुक्तायुगेन उद्भासितां मध्यगतारुणरत्नरुचिराम्, अत एव मङ्गलबृहस्पत्योर्मध्यगामिन: सूर्यस्यापि शोभां बिडम्बयन्तीम्। रक्तस्याधरोष्ठस्य कान्तिपूरैर्मौक्ति अपि यत्राऽरुणवर्णतया भौमग्रहशोभां धारयत:, ईदृशीमिमां नासाविभूषां गृहाणेत्याशय:। [अत्र डा. बेल्वालकरस्यानुरोधेन पी. के. गोडे महोदयेन 'मुक्तामुगोद्भासिताम्’ इत्येव पाठ: स्थापित:, मुग, मूंग, मुद्गेत्यादिश्चार्थश्चिकीर्षित:। किन्तु ग्रन्थकर्तुर्मुक्तायुगेत्येव पाठे तात्पर्यम्। यतो हि 'मध्यस्थ’ पदस्य तदैव स्वारस्यं मुक्ताद्वयस्य मध्ये अरुणरत्नं स्यादत एव सेयं पाठो न मार्मिकाणां मनस्तोषायेत्यलं भूयसा]
डा. बेल्वलकर: (Belwalkar) त्रिपुरसुन्दरीस्तोत्रं 210 संख्यकेषु तेषु स्तोत्रेष्वन्तर्भावयति यानि किल आद्यभगवच्छङ्कराचार्यकृतानि न स्वीक्रियन्ते। यदि कश्चिदाद्यशङ्कराचार्यकृतमिदं स्तोत्रं साधयेत्तर्हि-'आर्यशासनकालेऽपि नासाभूषणस्य भारतेऽभूत्प्रचार:’ इति शक्यं स्वीकर्तुं किन्तु यावदिदं न प्रमाणीक्रियते तावत्कारणन्तरैरिदमेव स्वीकर्तुं विवशा: स्मो यन्नासाभूषणमिदं यवनसहवासादेवानुवृत्तमिति। अमरसिंहो निजरचितेऽमरकोषे (अष्टमशताब्द्याम्) मनुष्यवर्गे आभूषणानामेकां सूचीं प्रददाति, न तेषु नासाभूषणस्य नाम। ततोऽपि सुस्पष्टीभवति यन्नासीन्नासाभूषणस्य प्रचारोऽमरसिंहसमये।
पी. के. गोडे महोदयो निजनिबन्धस्योपसंहारे कोष्ठकचक्रमेकं दत्तवान् यत्र एकादशशताब्द्या बिह्लणसामयिकं प्रमाणमारभ्य, अष्टादशशताब्द्या: 'कानूने इस्लाम्’ पर्यन्तस्य प्रमाणानि नासाभूषणप्रचारविषये एकत्र कृतवान् येन हि पाठकानां प्रकृतार्थपरिज्ञाने सौकर्यं भवेत्।
एतन्निबन्धस्य नि:शेषीकरणोत्तरं डा. ककतीमहोदय: पी. के गोडे-महाभागस्य सविधे सूचनां प्राहिणोद्यत् 'आसामदेशीयचित्रकलायामपि नासाभूषणस्य न किञ्चिदुपलभ्यते प्रमाणम्’ किन्तु पूनास्थभाण्डारकरीयगवेषणालयस्थो मि जी. एन्. श्रीगोडेकरो विष्णुशास्त्री चिपलूणकरद्वारा 'चित्रशाला, पूनात:’ प्रकाशितायां 'निबन्धमालायाम्’ उद्धृतेऽविदितनाम्न: कस्यचन कवे: पद्येऽपि दृष्टिमाकृष्टवान् यत्र नासाभूषणप्रसङ्ग: सङ्गृहीतोऽस्ति। यथा-
इन्दीवराक्ष्या: स्फुटविद्रमौष्ठ्या: सङ्केतमुद्दिश्य वने चरन्त्या:।
चौरा: समस्ताभरणानि हृत्वा नासामणिं नापहरन्ति चित्रम्।।
पद्यमिदं सुभाषितभाण्डागारेऽपि सङ्गृहीतं किन्तु तत्रापि निर्मातुर्नाम न निर्दिष्टम्।
रायबहादुर: के. वी. रङ्गस्वामी अय्यङ्गार, एम. ए. महाशय: सूचनां प्रैषयद् गोडेमहोदयसविधे-''दक्षिणभारते त्रिप्रकारकाणि नासाभूषणानि प्रचरितानि। एकं भ्रमच्छलाकाकारम् ('पेचनुमा’) यद्धि नासारन्ध्रे प्रवेश्यते। एतस्य संज्ञा 'मोकूं खूटी’ अर्थात् नासाशङ्कु:। विवाहिता: स्त्रियो द्वयोरपि नासिकयोरिदं धारयन्ति, कुमार्यस्तु केवलमेकत:। 'बुलाक, नथ’ इति प्रथितयो: प्रकारयोस्तु नाधिक: प्रचार:, नामनिर्देशेन प्रतीयते चापि यदिदं प्रकारद्वयमुत्तरभारतादेवेहानुगतमिति।
आश्चर्यं यत्प्राचीनमन्दिरादीनां शिल्पे नास्योपलभ्यते चिह्नम् कदाचित् नासाभूषणसदृशस्य सूक्ष्मवस्तुन: पाषाणोपरि क्षोदनकाठिन्यमत्र कारणं स्यात्। किन्तु शङ्कुशलाकाकारं नासालङ्कारमहं दृष्टवानस्मि ट्रावन्कोरराज्यस्य पाषाणशिल्पकलायाम्। अत एव मम विचारोऽस्ति यन्नासाभूषणस्यास्य प्रचारो भारते प्राचीन एवास्तीति’’
'चम्पूभारत’ निर्माता कविरनन्तभट्ट: पञ्चदशशताब्द्यां जात:। सोऽपि भारतचम्प्वां नासाभूषणमिदं वर्णयति, सुमधुरं च वर्णयति-
अधिनासिकाशिखरमाकलितं नवमौक्तिकं नरपतेर्दुहितु:।
शुशुभे मुखाम्बुरुहमध्यचरस्मितहंसिकाजनितमण्डमिव।१
एस.पी. कॉलेज, पूना इत्यस्याध्यापको लड्डू (Laddu) महोदय: प्राचीनहिन्द्या: 'नकफूली’ शब्देऽवधानमाकृष्टवान् यो हि नागरीप्रचारिणीसभा, काशीत: प्रकाशिते 'ढोलामारू रा दूहा’ (पृ. 191) इत्यत्र समुपात्तोऽस्ति-
'सुन्दरी चोरे संग्रही, सब लीया सिणगार।
नकफूली लीधी नहीं, कहि सखि कवण विचार।।
भाषापद्यमिदं निबन्धमालायामुद्धृतेन अज्ञातनाम्न: कवे: पद्येनाऽविकलं संवदते। यथा-
इन्दीवराक्ष्या: स्फुटविद्रुमाक्ष्या: सङ्केतमुद्दिश्य वने चरन्त्या:।
चौरा: समस्ताभरणानि हृत्वा नासामणिं नापहरन्ति चित्रम्।।
द्वयोरेको भाव:। किन्तु निबन्धमालायां प्रहेलिकारूपेण केवलं प्रश्न एवोपनिबद्ध:, 'दूहा’ पुस्तके तु तस्योत्तरमपि 'दूहा’ पद्य एव मधुरमुपनिबद्धम्-
'अहर-रंग रत्तनु हुवई, मुख काजल मसि बन्न।
जाण्यउ गुञ्जाहल अछइ, तेण न ढूकड़ मन्न।।
१. नासिकाया अग्रभागे स्थापितं मौक्तिकं मुखरूपकमलस्य मध्यचरी या स्मितरूपा हंसी तया जनितमेकम् अण्डमिव शुशुभे।
सम्पादकस्य रामसिंहस्य मतेन 'ढोलमारू रा दूहा’ विक्रमसंवत् १०००-१६१८ (सन् ९४४-१५६२) काले रचितानि। सम्पादकस्य मतानुसारं ९४४ तम: ख्रिष्टवत्सर: कवितानायकस्य 'ढोला’ इत्यस्य समय: सम्भवति किन्तु किमत्र प्रमाणं यत्पुस्तक-मप्येतत्समकालिकमेवास्तीति? अत एव नासाभूषणस्याऽयं प्रसङ्गो भारतवर्षेऽस्मिन् १०००-१३९४ पर्यन्तस्य शक्य: साधयितुम्। दशमशताब्द्या: परतश्चात्र वैदेशिकानामाक्रमणान्युपक्रान्तानि। एवं च श्रीयुत पी. के. गोडे महोदयो निजगवेषणया निर्णयति यत्- इयं नासाभूषणप्रथा वैदेशिक्यति, मोगलानामागमनात्परं चास्या: समभूद् भारते प्रचार:’ इति।
सम्यक् भवेदेवम्। इष्टमेव पाठकैर्यद् बिह्लणसामयिकमेकादशशताब्द्या: प्रमाणमारभ्य अष्टादशशताब्द्या: 'कानूने इस्लाम’ पर्यन्तस्य यत्रतत्रोपलब्धानि यत्किञ्चिद्भाषामयान्यपि प्रमाणानि नासाभूषणविषये सङ्गृहीतानि गोडेमहाभागेन किन्तु न केवलमियन्त्येव प्रमाणानि। सन्ति संस्कृतसाहित्येऽन्यान्यपि। यथा शार्ङ्गधरपद्धति-सुभाषितभाण्डागारादिषु सङ्कलितानि तथाऽलङ्कारग्रन्थेष्वपि यत्र तत्रोदाहृतानि। यथा कुवलयानन्द एवाऽप्रस्तुतप्रशंसायाम्-
अङ्गासङ्गि मृणालकाण्डमयते भृङ्गावलीनां रुचं
नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद् गाहते।
दत्तेयं हिमबालुकापि कुचयोर्धत्ते क्षणं दीपतां
तप्ताय: पतिताम्बुवत्करतले धाराम्बु संलीयते।।
कस्येदं कियत्प्राचीनं चेति टीकादिद्वारा नास्मदादिभिर्निर्णेतुं शक्यम्। किन्तु नेदमप्पयदीक्षितस्य स्वनिर्नितम्। अपितु प्राचीनं, तस्मिन् काले साहित्ये सुप्रसिद्धं चेत्यत्र न संशय:। अत एव हि दीक्षितेन सङ्ग्रहीतुमवकाशोऽलभ्यत। स्वयं दीक्षितमहाभागेनापि नासाभूषणमिदं स्मृतम्। किं वा, इत: पूर्वभवेन चन्द्रालोककारेणैव वा उपनिबद्धं यथा तद्गुणे- 'पद्यरागायते नासामौक्तिकं तेऽधरत्विषा’ इति। रसगङ्गाधरे जगन्नाथपण्डित-राजोऽप्युपमायामुदाहृतवान्-
'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम्
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम्’।।