प्रत्यनीकेऽपि-
'निजमौक्तिकसम्पदां रदानां सहवासेन परां मुदं ददानाम्।
विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते।।’
अस्तु. एवंविधानि सर्वाण्यपि प्रमाणानि ख्रि. दशमशताब्दीतो न प्राक्तनान्यत एव मन्ये नैतेषां सङ्ग्रहाय प्रयतितं गोडेमहोदयेन। गवेषणाविभागस्य राजनियमानुसारं श्रीयुत पी. के गोडेमहोदयो दशमशताब्दीत: प्राक्तनं किञ्चित्साहित्यसम्बन्धिप्रमाणमपेक्षते। किन्तु सर्वेषामेव साहित्यानुशीलकानां सविधे न भवति सुविधा प्राचीनपुस्तकानां शिलालेखादीनां च। अतिविस्तृतमपि संस्कृतसाहित्यमिदमियद्विकीर्णं गुप्तप्रायं च यदस्य नोपलभ्यन्ते सर्वे ग्रन्था:। किन्तु तत्तद्देशगवेषणासु साम्प्रतमपि प्रतिदिनं ग्रन्थास्तु नवनवा: प्राप्यन्त एव। एवं परिस्थितौ 'साहित्यसेविनो न दातुं’ शक्नुवन्ति प्रमाणम् एतावन्मात्रेणैव चूडान्तनिर्णये न वयं सत्यसिद्धान्तमधिगन्तुं शक्नुम:। एन. एन. दासगुप्तमहोदयस्यानुसारं 'कस्तूरीतिलकम्’ इत्यादीनि 'कृष्णाकर्णामृतादीनां यदा प्राप्यन्ते प्रमाणानि, 'ब्रह्मवैवर्तपुराणा’ दीनामपि दत्तैव प्रमाणसूचना कैश्चित्, तदा एतेषां पुराणादीनामेव अर्वाचीनत्वकल्पनोद्योग: सोऽयं मार्गान्तरमेव संवृत्तम्।
भवद्भि: स्वयमेव स्वीकृतं पूर्वम्- 'भारतस्य हिन्दूराज्यानि दशमशताब्दीपर्यन्तं वैदेशिकानामाक्रमणात्सुरक्षितान्यासन्। अरब-पर्शियादिषु च नासाभूषणसत्ताप्रमाणानि दशमशताब्दीत: परस्ताद्भावीनि’ एवं । परिस्थितौ (नवमशताब्द्यां नासाभूषणप्रचारस्य भारते सिद्धतया) नासाभूषणमिदमार्यप्रथेत्येव पर्यवसानमुचितं प्रतीयते।
श्रीमद्भि: स्वयं विद्यापतिविल्हणस्य समयात् (१०८० ई.) पूर्वपर्यन्तं नासाभूषणप्रथाया एतस्या एतावान्प्रचार: समर्थितो यदेका राजकुमार्यपि महामहत्यां स्वयंवरसभायामपि धारयति तदिदमाभरणं महता गौरवेण। तस्मिन्काले सेयं प्रथाऽभिनवप्रचरितासीत्, अथवा तदिदं यवनानामनुकरणमित्यपि न कथञ्चिच्छक्यं स्वीकर्तुम्। भारतीयार्याणां स समयस्तादृग्दार्ढ्यमयोऽभूद्यत्र हि निजमर्यादाया उपरि प्राणानां बलिरपि स्वीकृतोऽभू त्तेषाम्। विशेषतश्च प्राचीनरूढीनां स्वभावादेव दृढपक्षपातिनि स्त्रीसमाजे तु निजप्रथाया उपरि कियानाग्रह: स्यात्तस्मिन्समये, कियच्च वैमुख्यं भवेद्वैदेशिकरीतिभ्य इति हि स्वयमेवानुमातुं शक्यम्। सुदृढशिक्षायामपि नार्य इमा: पुरुषाणामपेक्षया स्वभावादेवाऽऽग्रहिला भवन्ति प्राचीनप्रथानाम्। भारतीयासु सामाजिकप्रथासु यदिदं परिवर्तनमालोक्यते साम्प्रतं तदिदमुपविंशानां वर्षाणां घटनेति परिज्ञायेत विचारेण । ततश्च सहस्राधिकवत्सरेभ्य: पुरातनो धार्मिकदृढता तु साम्प्रतमनुमानसीमानमप्यतिक्रामति।
साम्प्रतमपि नवनवे वेषविन्यासे नूतनीषु प्रथासु चात्मसमर्पणं कृतवत्य: स्त्रियो नवीनसभ्यतानुगामिषु कुटुम्बेष्वेवालोक्येरन्, नैतस्मिन् समाजे। विमृश्यतामिदानीम्, प्राचीनार्यप्रथानां प्राणपणेनापि संरक्षकस्य करहाटनरेन्द्रस्य राजपरिवारे, तत्रापि च महिलासु, काचिदनार्यरीतिरेव किम्, म्लेच्छानां प्रथा काचित्तत्कालमेव प्रचलिता स्यादिति किं बुद्धिगम्यं कस्यचित्? अत एव विद्यापतिबिह्लणसामयिका सेयं नासाभूषणप्रथा यदि म्लेच्छरीति: साधयितुमिष्यते चेत्तदर्थं शतद्विशतवर्षेभ्य: पूर्वं म्लेच्छानां समाजे एतस्या: प्रचार: प्रमाणनीय: स्यात्। किन्तु यदा नेदम्, विद्यापतिबिह्लणसदृशाश्च प्रामाणिका आर्यमहाकवयस्तामेतां प्रथामार्यमर्यादासंरक्षकेषु राजपरिवारेष्वपि चिरप्रचलिता दर्शयन्ति तदा नासालंकरणमिदं म्लेच्छानां रीतिरिति न कथञ्चिन्मानयितुमुचितम्।
श्रीमत: सविधे दक्षिणभारतादपि, यद्धि म्लेच्छानामाक्रमणाद् भूयस्तरां संरक्षितमासीत् के. वी. रङ्गस्वामी अय्यङ्गारमहोदयोऽपि सूचयति यत् 'ट्रावन्कोरराज्यस्य पाषाणचित्रेषु शलाकाकारं नासाभूषणामालोकितं मया’ स्वयं चापि तामेतां प्रथां प्राचीनामेवाभिमन्यते, तदा पूर्वोक्तपुराणस्य 'कृष्णकर्णामृतस्य’ च प्रमाणानि तान्येकत्र कृत्वा विचार्यतां निभृतं यदेकसहस्रवर्षेभ्योऽपि महाकवेर्बिल्हणस्य समये धार्मिकराजपरिवारेष्वपि प्राचीनप्रवाहरूपेण प्रचलिता सेयं प्रथा न किं पुरातनी? दशमशताब्द्यां प्रविष्टेभ्यो यवनेभ्य एव किं गृहीता?
अवशिष्यते साम्प्रतममरकोषस्य विमर्श:। किन्तु तस्मिनन्यान्येऽप्यावश्यका विषया न दृश्यन्ते ये ह्यासन्नपि तस्मिन्समये समाजे प्रचलिता:। अमरकोषे न प्रचलित इत्येतावन्मात्रेण चेत्काचिद् गवेषणा प्रमाणीक्रियते तर्हि बहुषु विषयेषु रूपान्तरं स्यात्। लेखप्रसङ्गे लेखनस्यैव विषयो गृह्यताम्। अमरकोषे न क्वचित् 'कागजस्य’ नाम 'पत्र’ शब्दश्चतु:स्थानेषु तत्र गृहीत: । एकार्थ: पल्लव: - पत्रं पलाशं छदनम्। इत्यादि। द्वितीयस्थाने पक्षिणां पक्षोऽर्थ:। 'पत्रं पतत्रं च तनूरुहम्’ इति। तृतीयस्थाने वाहनम्- 'यानं युग्यं च धोरणम्’ इति । चतुर्थस्थाने नानार्थानामेकत्र करणस्य प्रकरणेऽपि - 'पत्रं वाहनपक्षयो:’ इत्यादिना 'वाहनपक्षयो:’ एवार्थयो: स्मरणं कृतम्। किन्तु राज्यव्यवहारास्तदापि प्राचलन्नेव। परस्परं पत्रलेखप्रचार: प्रमाणित एव तस्मिन्समये। स्वयमयममरसिंह एव राज्ञ एकस्य (विक्रमस्य) नवरत्नेषु परिगणित:। अपि राज्यव्यवहारा अमी निर्वाह्येरन् विना लेखनम्?
यत्किञ्चिदस्तु। नासाभूषणस्य सम्बन्धे वर्तमानकालिकमिदमन्वेषणम्, ममापि चेदं विनीतनिवेदनं स्थापितमेवं पाठकानां पुरत:। एतन्निर्णयविषये साम्प्रतमभिज्ञगणा एव प्रमाणमित्यलम्।
काव्यलक्षणं तद्विषये विभिन्नमतानि च
संसारेऽस्मिन् मानवसभ्यताप्रवर्तकानामार्याणां वेद-उपनिषत्-स्मृत्यादिभिर्ग्रन्थैर्यथा सर्वतो महत्त्वं स्थापितमभूत्, तथा भारतीयै: काव्यैरपि आर्याणां गौरवं भूमण्डले सर्वतो विख्यातमभूत्। न केवलं भारतवासिन एव, अपि तु पारेसमुद्रवासिन: पाश्चात्य पण्डिता अपि महाकविकालिदासादीनां काव्यै: प्रभाविता: सन्ति। एतेषां काव्यानां विवेचनार्थं, काव्यानामेषां निर्माणार्थं च साहित्यशास्त्रस्याऽविर्भावोऽभवत्। पूर्वकाले साहित्यशास्त्रमिदम् अलङ्कारनाम्ना प्रसिद्धमभूत्। यतस्तस्मिन् समये सहृदयानामाकर्षकतया अलङ्कारा एव काव्येषु प्रधानतामलभन्त। किन्तु काव्यानां मीमांसापरेऽस्मिन् साहित्यशास्त्रे प्रारम्भत: प्रभृति अद्यपर्यन्तं काव्यानां विषये अतीव गम्भीरमालोचनमभूत्। यथा यथा च मार्मिकमालोचनमभूत् तथा तथैव साहित्यशास्त्रस्याऽस्य उत्तरोत्तरं वृद्धिरभूत्। साहित्यशास्त्रस्य तत्त्वसमृद्ध्या च काव्येऽपि उत्तरोत्तरं चमत्कारवृद्धिरभूत्। यतो हि साहित्यशास्त्रे गम्भीरमालोचनमेव जीवितस्थानीयमुक्तं कोविदै:। यथा हि सुप्रसिद्धमिदम्-
''सङ्गीतमथ साहित्यं सरस्वत्या: स्तनद्वयम्।
एकमापातमधुरमन्यदालोचनाऽमृतम्।।’’ इति।
अनेन साहित्यशास्त्रेण आलोचनां कृत्वा काव्येषु कीदृशं साररूपममृतं निस्सारितमिति भवतां पुरस्तान्निवेद्यते-
काव्यस्य स्वरूपम्
सर्वत: पूर्वं काव्यसम्बन्धी विचार: अग्निपुराणे प्राप्यते। तत्र हि काव्यस्वरूपमुक्तं सङ्क्षेपात् - ''वाक्यमिष्टार्थव्यवच्छिन्ना पदावली’’ 'काव्यम्’। अर्थात् य: किलाऽस्माकं विवक्षितोऽर्थो भवति, तस्य ईदृशैपदै: प्रकाशनं भवेद् येषु पदेषु आवश्यकतातोऽधिको विस्तारो न भवेत्। न च अर्थबोधविषये काचिन्न्यूनतैव भवेत्। तथा च अभीष्टार्थबोधक: पदसमूह एव काव्यमिति अग्निपुराणसम्मतं काव्यलक्षणम्।
एतदनन्तरम् अलङ्काराचार्येषु सर्वत: पुरातनेन दण्डिना काव्यादर्शे काव्यस्वरूपं विचारितम्। किन्तु वामनोऽपि अग्निपुराणसम्मतमेव काव्यलक्षणं स्वीचकार तस्य मते काव्यस्य शरीरमस्ति- 'इष्टार्थव्यवच्छिन्ना पदावली।’ अर्थात् अभीष्टार्थबोधक: पदसमूह एव काव्यम्। अत्र इदं दृढतया सर्वैरवधेयं स्यात् यत् सर्वत: प्रथमम् आरम्भे स्वरूपमासीत् ''पदावली काव्यम्’’ इति। अर्थात् अभीष्टार्थबोधक: शब्दसमूह एव काव्यनाम्ना व्यवहिृयते स्म।
एतदनन्तरम् आलङ्कारिकमूर्धन्यस्य रुद्रटस्य काव्यसम्बन्धी विचारोऽस्माकं सम्मुखमायाति। तेन हि विस्तृत्य काव्यस्वरूपं प्रकटीकृतं यत् ''शब्दस्य पद्यस्य वा स्वरूपे पदसङ्घटनारूपं यत्काव्यं कविरुपस्थापयति, तेनाऽस्माकं हृदये कविवर्णित: अर्थोऽपि हि चमत्कारजनकेन रूपेण उपतिष्ठति। अर्थात् अभीष्टार्थबोधिका पदावली यथाऽस्माकं हृदये उपतिष्ठति, तथा चमत्काररूपेण संघटित: अर्थोऽपि अस्माकं हृदये समागच्छति। यतोहि चमत्कारेण पदसमूहो यथा कविना संघटित:, तथा तेषां पदानामर्थोऽपि च तेन कविनैव संघटित:। ततश्च ''शब्दश्च अर्थश्चेति शब्दार्थौ काव्यम्’’ इति रुद्रट: काव्यस्वरूपमाह। इत आरभ्यैव शब्देन सह अर्थस्यापि काव्यकोटिभुक्तत्वं प्राचलत्, इति न विस्मर्तव्यं प्राज्ञै:।
एतदुत्तरं साहित्यशास्त्रे सुप्रथितस्य वामनस्य काव्यसम्बन्धी विचार: समुपगच्छति। अयमपि कविना संघटितौ शब्दार्थौ एव काव्यतया स्वीकरोति। किन्तु एतयो: शब्दार्थयोर्मध्ये चमत्कारकता अपेक्षिता। यावत्कालं शब्दार्थयोर्मध्ये कापि आकर्षकता न भवेत् तावत्कालं कोऽपि सहृदय: काव्यं श्रोतुमभिमुखो न भवेत्। ततश्च शब्दार्थयोर्मध्ये चमत्कारोत्पादनार्थं गुणोलङ्कारौ संयोजनीयौ। शब्दार्थयोर्दोषाश्च दूरीकरणीया:। वामनेन प्रोक्तं निजसूत्रेषु- ''सौन्दर्यमलङ्कार:। स हि दोषगुणालङ्कारहानादानाभ्याम्।’’ अर्थात् दोषाणां हानेन (त्यागेन), गुणालङ्काराणां च आदानेन स: अलङ्कार: अर्थात् सौन्दर्यं भवति। ततश्च ''दोषहीनौ गुणालङ्कारसंस्कृतौ शब्दार्थौ काव्यम्’’ इति वामनसम्मतं काव्यलक्षणं सिद्धयति।
एतदनन्तरं साहित्यशास्त्रेऽस्मिन् युगान्तरं प्रवर्तते। एतद्युगप्रवृत्ते: पूर्वं काव्ये चमत्कारजनकं तत्त्वं गुणालङ्कारौ आस्ताम्। किन्तु आनन्दवर्द्धननामाचार्येण मार्मिकीमालोचनां कृत्वा एतत्तत्त्वमन्विष्टं यत् केवलं सुन्दरशब्दार्थसंघटनेनैव काव्ये चमत्कारोत्पत्तिर्न भवति। किन्तु अन्येषां शास्त्राणमपेक्षया कविसंघटितयो: शब्दार्थयोर्मध्ये एको महान् विशेषोऽस्ति, स हि व्यङ्ग्यार्थरूप:। यावत्कालं ध्वनिपर्यायो व्यङ्ग्यार्था न भवति तावत् काव्ये वास्तवश्चमत्कारो नाऽऽविर्भवति। आनन्दवर्धनाचार्यस्य ग्रन्थे ध्वन्यालोके ध्वनेर्निरूपणमेव प्रधानो विषय:। किन्तु प्रसङ्गाऽऽपतितैस्तेषामक्षरै: प्रतीयते यत् तेऽपि- ''शब्दार्थशरीरं तावत् काव्यम्’’ इति स्वीकुर्वन्ति।
एतदुत्तरं साहित्ये सुप्रस्थितस्य भोजराजस्य काव्यविचार: सम्मुखमुपैति। तस्याऽपि 'सरस्वती कण्ठाभरणे’
''निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम्।
रसान्वितं कवि: कुर्वन् कीर्तिं प्रीतिं च विन्दति।।’’
इति लक्षणेन स्पष्टं प्रतीयते यद् भोजराजोऽपि शब्दार्थयोरेव काव्यत्वमङ्गीकरोति। यत: स हि 'रसान्वितम्’ इति काव्यस्य विशेषणमाह। रसस्य च सम्बन्ध: साक्षात् अर्थेनैवाऽस्ति। एवमेव अलङ्कारा अपि शब्दे अर्थे चेत्युभयत्र तिष्ठन्ति। ततश्च भोजोऽपि शब्दार्थयोरेव काव्यत्वं स्वीकरोतीति निश्चेतव्यं भवति।
एतदुत्तरं सर्वजगत्प्रसिद्धस्य आलङ्कारिकशिरोमणेर्मम्मटाचार्यस्य सुप्रसिद्धं काव्यलक्षणं सम्मुखमागच्छति। एष हि वामनसम्मतं ''दोषहीनौ गुणालङ्कारसंस्कृतौ शब्दार्थौ काव्यम्’’ इत्येव काव्यस्वरूपं स्वीकरोति। किन्तु एतन्मते अलङ्काराणां नित्यं वर्तमानता नाऽवश्यकी। यदि कुत्रचित् अलङ्कारा: स्पष्टं न प्रतीयेरन्, तत्रापि काव्यत्वस्य हानिर्न भवति। अत एव - ''तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुन: क्वापि’’ इति मम्मटसम्मतं काव्यलक्षणम्। अर्थात् दोषरहितौ गुणसहितौ, प्राय: सालङ्कारौ, कुत्रचित्तु अस्पष्टालङ्कारौ अपि शब्दार्थौ काव्यं भवत:। मम्मटस्येदं तात्पर्यं यत् सहृदयानामाकर्षणार्थं शब्दार्थयोर्मध्ये कश्चिच्चमत्कार आवश्यक: ततश्च यत्र अलङ्कार: स्पष्टं न प्रतीयते यथा ''य: कौमारहर: स एव हि वर:’’ अत्र स्पष्टो न कश्चिदलङ्कार:। किन्तु विप्रलम्भशृङ्गारस्य: स्फुटत्वात् रसकृतश्चमत्कार: सहृदयानाकर्षतीति अस्य काव्यत्वे न काचिद् बाधा।
एतदग्रे पीयूषवर्षेत्युपाधिधारिण: चन्द्रालोककारस्य जयदेवस्य काव्यलक्षणं समागच्छति। जयदेवात्पूर्ववर्तिभिरालङ्कारिकै: शब्दार्थयो: शोभाकारका ये ये धर्मा: प्रकाशितास्ते ते सर्वेऽपि महाभागेनानेन निजकाव्यलक्षणे निर्दिष्टा:। अत एव विविधविशेषणविशिष्टं सुदीर्घमेतन्निर्मितं लक्षणमस्ति। यथा- ''निर्दोषा लक्षणवती सरीतिर्गुणभूषणा। सालङ्काररसाऽनेकवृत्तिर्वाक् काव्यनाम भाक्।’’ अर्थात् निर्दोषत्वादिविशेषणविशिष्टा वाक् अर्थात् शब्दार्थौ काव्यम्, इति।
एतस्मात्परम्- साहित्यदर्पणकारस्य विश्वनाथस्य काव्यलक्षणमस्माकं विचारार्थमुपतिष्ठति। मया हि प्रारम्भे अलङ्काराऽपरपर्यायस्य साहित्यशास्त्रस्य सोऽयं विशेष: सूचितोऽस्ति यत् साहित्ये यावत्किल मार्मिकमालेाचनं भवति तावदेव साहित्ये उत्तरोत्तरामृतस्याऽऽविर्भावो भवति। एतदनुसारं साहित्येऽस्मिन् आनन्दवर्धनाचार्येण वस्तु-अलङ्कार-रसेति त्रिविधो ध्वनि: काव्यस्यात्मा स्वीकृत:। मम्मटभट्टादिभिश्चालङ्कारिकै: काव्यलङ्कारादिषु स्वीयेषु ग्रन्थेषु एतेषां त्रिविधानामपि व्यङ्ग्यानां चमत्कारकतया जीवितस्थानीयत्वं स्थापितम्। किन्तु उत्तरोत्तरं मार्मिकाऽऽलोचनप्रक्रियया शनै: शनैर्गभीरगवेषणायां जातायां त्रिविधानामपि व्यङ्ग्यानां मध्ये चरमव्यङ्ग्यस्य रसस्यैव काव्ये चमत्काराधायकत्वं सिद्धमभूत्। अतएव विश्वनाथेन काव्यलक्षणं निर्धारितं यत् ''वाक्यं रसात्मकं काव्यमिति।’’ अर्थात् सर्वेषु व्यङ्गयेषु प्रधानभूतो रसो यस्मिन् चमत्कारकतया जीवनाधायको भवति तादृशं वाक्यं काव्यमित्युच्यते।
काव्ये रसस्य आत्मत्वं (जीवनाधायकत्वम्) साहित्यदर्पणेनैव प्रथमतया साधितमिति सर्वत: प्रसिद्धि:। किन्तु एतस्मात्पूर्वं केशवमिश्रेण ''अलङ्कारशेखरे’’ तदिदमुद्धृतं यत्- ''अलङ्कारसूत्रकारो भगवान् शौद्धोदनि: काव्यस्वरूपमेवमाह- ''काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत्।’’ अर्थात् यस्मिन् वाक्ये रस:, आदिमदग्राह्या: अलङ्काराश्च भवन्ति, तत्काव्यम्। अलङ्कारसूत्रकारस्य मतेन यस्मिन् काव्ये चमत्कारजननाय रसो भवेत्, तदभावे अलङ्कारो वा भवेत्, तद् द्विविधमपि ''काव्य’’ पदं बोध्यं भवति। साहित्यदर्पणकारेण तु केवलस्य अलङ्कारस्य सत्तायां काव्यत्वं न स्वीकृतम्। अत एव ''रसादिमद्वाक्यं’’ एतद् गतेन आदिशब्देन 'भावारसाभासादयो गृहीता:।’ ततश्च रस-भाव-रसाभासादयो यस्मिन् वाक्ये चमत्कारकारका भवन्ति तादृशं वाक्यं काव्यमिति विश्वनाथेन काव्यलक्षणं प्रसेधितम्।
काव्यलक्षणस्य विमर्श:
अग्रिपुराणमारभ्य साहित्यदर्पणपर्यन्तं सर्वैरेव आलङ्कारिकै: काव्यस्वरूपं विचारितम्। प्रारम्भे येन शब्दसमूहेन अभीष्टार्थस्य अर्थात् लोकानामाह्लादकस्य मनोरमस्याऽर्थस्य प्रतीतिर्भवति तादृश: पदसमूह: काव्यम्, इत्यासीत् काव्यलक्षणम्। तत: क्रमेण विचारक्षेत्रस्य विस्तार: अभूत् यत्-काव्यत्वेन स्वीकृत: स पदसमूह: केवलं मनोरमस्य अर्थस्य प्रतिपादक एव न भवेत्, अपितु तस्मिन् पदसमूहेऽपि मनोरमता अपेक्ष्यते। ततश्च रमणीयस्य अर्थस्य प्रतिपादको मनोरम: शब्दसमूह: काव्यम्, इति विस्तार: प्रारब्ध:। शब्दसमूहस्य मनोरमता च सुन्दररूपेण शब्दानां सङ्ग्रथनम् अर्थात् कुत्रचित् एकरूपाणाम्, एक स्थानिकानामक्षराणां विन्यासेन श्रवणयो: सुखोत्पादनम्, कुत्रचित्स्वरव्यञ्जनयोरेकाकारतया चमत्कारोत्पादनम्, क्वचित् आपातत: पदमेकमिव दृश्यते, किन्तु विचारे कृते अर्थभेदो भवेदिति विस्मयोत्पादनम्। क्वचिद् दीर्घसमासता, क्वचित् असमस्तानि पदानि पृथक् पृथक् सङ्घटितानि भवेयुरित्यादिरूपेण पदानां गुम्फ नस्य प्रकारोऽपि यत्र चमत्कारोत्पादक: स्यात् इति पदरचनापि यत्र मनोरमा स्यात्। तथा च सौन्दर्यपूर्णस्य अर्थस्य सौन्दर्यपूर्णं वर्णनमेव लोकानामाकर्षकतया काव्यत्वेन स्वीकृतमभूत्। तथा च सार: सिध्यति यत् प्रारम्भे केवलं शब्दसमूहस्य काव्यता आसीत्। किन्तु अग्रे गत्वा मनोरमस्य अर्थस्य मनोरमं वर्णनं काव्यमिति रूपेण शब्दार्थयोरुभयोरेव काव्यत्वं प्राचलत्।
रसगङ्गाधरस्य काव्यलक्षणम्
एतावति समये काव्यग्रन्थानां लोकप्रियता सर्वत्र व्याप्ताऽभवत्। 'यस्य पदगुम्फनस्य श्रवणे कृते हृदये आनन्दोद्बोधो भवेत् तादृशी शब्दसंघटना काव्यम्’ इति सर्वत: प्रसिद्धिरभूत्। तथा च-चमत्कार-आह्लाद-आनन्द- हर्ष-प्रमोदाद्यनेकपर्याय: प्रसन्नताविशेष: काव्यस्य जीवितस्थानीय: सर्वत: स्वीकृतोऽभवत्। अत एव प्राकृतभाषायामपि ''उक्तिविसेसो कव्वी भाषा जा होइ सा होइ’’ इति प्रसिद्धमभूत्। तत एव च सर्वैरेव ऐकमत्येन निर्धारितम् - 'काव्ये सारश्चमत्कार:’ इति।
एवं काव्यस्य तद्गतगुणानां च सर्वत: परिचयस्य प्रख्यातेश्चानन्तरं सर्वशास्त्रविषयकपाण्डित्यसम्पन्नतया वस्तुत: 'पण्डितराज’ पदार्हस्य जगन्नाथस्य समय: समुपतिष्ठति। पण्डितराजो जगन्नाथो मार्मिकस्तार्किक:, सुदृढो वैयाकरण:, तत्त्वविचारशाली दार्शनिकश्चासीत्। एतस्य समयात्पूर्वं साहित्यशास्त्रे ये ये काव्यविषयविचारका अभवंस्ते ते, तस्मिन् समये प्रचलितया सरलसुबोधया शैल्या काव्यलक्षणं कृतवन्त:। अपरत:-साहित्यविषये पण्डितानां या या आलोचना: क्रमक्रमेण प्रवृत्ता आसन् ता: पण्डितराजस्य समये अतितमां मर्मस्पर्शिन्य: समभवन्। यतो हि यथा यथाऽस्मिन् विषये नानापण्डितानां नानाविधा मतय: प्रावर्तन्त तथा तथा अन्तस्तलस्पर्शिनी विचारणा प्रवृत्ताऽभूत्। पण्डितराजस्य च समय: सोऽभूद् यस्मिन् भारतीयपण्डितसमाजमध्ये नव्यन्यायस्य विजय: पूर्णतया समभवत्। समये तस्मिन् एकैकमप्यक्षरं तर्कस्य सुदृढतमां विचारणामनुभूय कस्मिंश्चिल्लक्षणे प्रविशति स्म। अत एव काव्यस्य लक्षणानि यानि पुरातनैरालङ्कारिकै: कृतानि, तेषु अतितमां मार्मिकविचारणाया: सोऽयमासीत्समय:।
किञ्च-पण्डितराजस्य योऽयं ग्रन्थ: साहित्यविषयकविचाराय प्रवृत्तस्तस्य नाम पण्डितराजेन निर्दिष्टं 'काव्यमीमांसा’ इति। अस्यां हि काव्यसम्बन्धिनां विषयाणामतिगभीरतमा आलोचना ग्रन्थकर्त्रा प्रतिज्ञाता। स हि भूमिकायां वदति यत् मननसमुद्रस्य गभीरतमे अन्तस्तले प्रविश्य अतितमां क्लेशेन दुर्लभमणिसदृशोऽयं ग्रन्थो मया लोके आविर्भावित:। ततश्चास्मिन् ग्रन्थे काव्यविषयिणी प्रकामं मार्मिकी आलोचना कृताऽस्तीति सुस्पष्टम्। सेयमालोचना तर्कशास्त्रस्य प्रगाढं पाण्डित्यं पुरस्कृत्य प्रवृत्ता, इत्यपि न वक्तव्यं पण्डितपुरन्दराणां पुरत:। यतो हि स समयो नव्यन्यायस्य पूर्णप्रचारमयोऽभूद् भारतवर्षे।
अन्यशास्त्रीया: पण्डिता: साहित्यशास्त्रं सरलतमम्, नव्यन्यायस्य सुदृढविचारेण रहितमिति कृत्वा उपेक्षया तदेतदालोचयन्ति स्म। किन्तु अलङ्कारशास्त्रस्य महत्त्वस्थापक: सोऽयं पण्डितराजो नैतामवहेलां सहते स्म। अत एवाऽनेन पण्डितराजेन समये प्रगाढतया प्रसृतस्य नव्यन्यायस्य सरणिमवलम्ब्य काव्यमीमांसापरनामा सोऽयं ग्रन्थस्तादृशेन सन्नाहेन प्रणीतो यथा नाऽत्र साधारणपण्डितानाम् आलोचनाचञ्चा: प्रवेशस्याऽवकाश:। प्रोक्तं हि मया सरलाटीकाया: परिसमाप्तौ -
''पुरा प्रविश्याऽत्र निजप्रसङ्गादन्ये व्यजृम्भन्त बुधा: कदाचित्।
अद्याऽनया पण्डितराजशक्त्या त्वसाधि साहित्यमभेददुर्गम्।।’’
अतएव काव्यलक्षणेऽपि स्वसमये प्रगाढतया प्रसृतस्य नव्यन्यायस्य शैली परिगृहीता। तार्किका यथा एकैकं पदमतितमां विचारपूर्वकं विन्यस्यन्ति, तथा अत्र प्रत्येकं पदमतिमीमांसापूर्वकं स्थापितम्। यावती अत्र आकाङ्क्षाऽस्ति तदपेक्षया न न्यूनम्, नापि चाऽधिकं किञ्चित्पदं विन्यस्तम्। यावदेव सङ्क्षेपो भवेत्तावदेव पाण्डित्यमपि महद् भवेत्, इत्यभूत्तस्मिन् समये स्पर्द्धा। नव्यन्यायेन प्रगुणितमतयो वैयाकरणा:। यथा- ''अर्द्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते’’ इत्याहुस्तथा तामेव प्रत्येकाक्षरसङ्क्षेपवाहिनीं ग्रन्थनिर्माणशैलीमादाय प्रवृत्त: पण्डितराज:। अत एव अग्निपुराणमारभ्य पण्डितराजस्य समयं यावत् ये ये आलङ्कारिका: काव्यलक्षणं प्रणीतवन्तस्तानि सर्वाणि आलोचनाचक्रे संस्थाप्य पूर्णेन विवेकेन, अतीव मार्मिकतया च, स्वं काव्यलक्षणं प्रणीतवान्।
काव्यस्य कालिदासादिवत् कीर्ति:, अलौकिक: आनन्द:, स्वगुरो:, स्वाश्रयस्य राजादे:, स्वसेव्यस्य देवतादे:, प्रसादनादीनि अनेकानि प्रयोजनानि सन्ति ईदृशस्य काव्यस्य तत्त्वबोधनं काव्यनिर्मातु: कवे:, तथा तदिदं काव्यं बुध्वा आनन्दप्राप्तेरिच्छुकस्य सहृदयस्य च आवश्यकमस्तीति तस्य लक्षणमाह पण्डितराज:-पूर्वेषां रीत्या तदिदं काव्यं गुणालङ्कारादिभिर्विशिष्टं भवति। ततश्च गुणालङ्कारादिकाणां विशेषणानां विशेष्यं तत् काव्यं किंस्वरूपमस्तीति बोधनाय पण्डितराज: काव्ये लक्षणं निर्दिशति-'रमणीयार्थप्रतिपादकशब्द: काव्यम्’ इति।
पूर्वाचार्यकृतलक्षणानाम् आलोचना
दीर्घां भूमिकां विस्तृत्य मया पूर्वमिदमेव निवेदितमासीत्, यत् तस्मिन् समये प्रसृतां नव्यन्यायशैलीमाश्रित्य पूर्वेषामलङ्कारिकाणां विचारस्य निष्कर्षस्वरूपं स्वलक्षणं स्थापितं पण्डितराजेन। अग्निपुराणमारभ्य साहित्यदर्पणकारं यावत् सर्वेषां लक्षणकाराणां तात्पर्यमिदमासीद् ''सौन्दर्यपूर्णस्याऽर्थस्य सौन्दर्यपूर्णं वर्णनं काव्यमस्ति’’ इति। तस्य सारतया पण्डितराजेन निर्दिष्टं यद् रमणीयस्य अर्थात् अलौकिकाह्लादजनकतया सौन्दर्यपूर्णस्य अर्थस्य प्रतिपादक: य: शब्द: (शब्दसमूह:, वाक्यम्, पदै:सन्दृब्धं वर्णनम्) स एव काव्यम्, इति। ततश्च ''अभीष्टार्थस्य बोधिका पदावली काव्यम्’’ इति अग्निपुराणस्य। ''इष्टार्थव्यवच्छिन्ना पदावली काव्यम्’’ इति दण्डिन:। ''गुणालङ्कारसंस्कृतौ शब्दार्थौ काव्यम्’’ इति वामनस्य। 'शब्दार्थशरीरं काव्यम्’, इति आनन्दवर्धनाचार्यस्य। ''सगुणौ निर्दोषौ शब्दार्थौ काव्यम्’’ इति मम्मटभट्टस्य। इति सर्वेषामेव पूर्वाचार्याणां लक्षणस्य तत्त्वमस्मिन् लक्षणे सन्निविष्टम्। यत: अलौकिकानन्दजनकस्य अर्थस्य बोधको य: शब्दसमूहो भवेत् स हि अवश्यं सौन्दर्यपूर्णो भवेत्। शब्दे सौन्दर्यं च साहित्यपरिभाषितैर्गुणालङ्कारादिभिरेव भवति। ततश्च अलौकिकाह्लादजनकत्वेन सौन्दर्येपूर्णे य: अर्थ:, तादृशार्थस्य प्रतिपादक: शब्दसमूहोऽपि गुणालङ्कारैर्विशिष्टतया सौन्दर्यपूर्ण: अवश्यं भवेदेव। एवं च ''सौन्दर्यपूर्णस्य अर्थस्य सौन्दर्यपूर्णवर्णनं काव्यम्’’ इति प्राचीनाचार्यैर्यो लक्षणस्य सार: सूचित:, स ह्यस्मिन् लक्षणे स्पष्टतया समाविष्ट इति सुस्पष्टमेव भवेत्प्रतिभावताम्।
रमणायार्थप्रतिपादकेत्यादिलक्षणस्य विशदा व्याख्या त्वेवम्-रमणीयो य: अर्थ:, तस्य प्रतिपादक: (बोधक:) य: शब्द: अर्थात् शब्दसमूह:, यतो ह्येकस्य शब्दस्य संज्ञा काव्यमिति न भवति ततश्च तादृश: शब्दसमूह: काव्यम्। अर्थे रमणीयता च- लोके अननुभूयमानो य आनन्द:, तादृशानन्दस्य जनकं यद् ज्ञानं तादृशज्ञानविषयता। ततश्च अलौकिकाह्लादजनकं यज्ज्ञानम् अर्थाद् भावना (अर्थस्य पुन: पुनरनुसन्धानम्) तादृशभावनाया विषयीभूतो योऽर्थ: तस्य प्रतिपादक: (बोधक:) शब्दसमूह: काव्यमिति फ लितम्। आह्लादे अलौकिकता विशेषणदानस्य प्रयोजनमस्ति यत्- 'पुत्रस्ते जात:, अपारां धनसम्पत्तिं ते दास्यामि’ इत्यादिभि: शब्दैरपि आनन्दो भवति। ततश्च इदमपि काव्यपदवाच्यं भवेत्। किन्तु सोऽयमानन्दो लौकिक:। अस्मदभीष्टया कविकल्पनया प्रसूतो नास्ति। एवं च लोकोत्तराह्लादजनकस्य ज्ञानस्य गोचरीभूतो योऽर्थ:, तादृशार्थप्रतिपादकशब्दसमूह: काव्यमिति सर्वनिष्कृष्टं लक्षणम्। एतस्य विशदा व्याख्या-अलौकिकाह्लादापरनाम्न: चमत्कारस्य जनिका या भावना, तादृशभावना विषयीभूतो योऽर्थ:, तत्प्रतिपादक: शब्दसमूह: काव्यम्।
अत्र शङ्का भवति। यत् एक: ईदृश: शब्दसमूहोऽस्ति यस्मिन् धारावाहिकरूपेण अर्थात् सामान्यप्रवाहरूपेण आह्लादजनिकाऽपि भावना अस्ति, तथा तद्विरुद्धा आह्लादस्य अजनिकाऽपि भावना अस्ति। ततश्च धारावाहिकरूपेण अयं शब्दसमूह: चमत्कारजनकभावनाविषयकस्य अर्थस्य प्रतिपादको जात:। अत: अस्यापि काव्यत्वं भवेत्। अत: एतस्या अतिव्याप्ते: निरासाय लक्षणस्य द्वितीय: प्रकार: पण्डितराजेन सूच्यते यत् - ''यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वं काव्यत्वम्। अर्थाद् येन यैर्वा शब्दैरूपस्थापितस्य (अर्थात् यादृशशब्दानुपूर्वी प्रतिपादितस्य) अर्थस्य भावनया (पुन: पुनरनुसन्धानेन) चेतसि चमत्कारजननं भवति, तादृशचमत्कारजनकताया अवच्छेदकं तादृशानुपूर्वीमत्त्वमेव काव्यत्वं भवति। अर्थात् यादृशी शब्दानुपूर्वी (शब्दपरम्पराम्) श्रुत्वा अलौकिकचमत्कारजनिका भावाना उद्भवति, तादृशानुपूर्वी विशिष्ट: शब्दसमूह एव काव्यं भवति। ततश्च यत्र सम्पूर्णया आनुपूर्व्या चमत्कारजनिका भावना न भवति ,किन्तु धारावाहिकरूपेण तद्भिन्ना अचमत्कारजनिका अपि भावना तादृशस्थलस्य वारणं जातम्।
इदानीं नैयायिकशैल्या लघुभूतं काव्यलक्षणमाह- 'स्वविशिष्टजनकतावच्छेदकार्थ प्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव काव्यतत्त्वम्।’ एतस्य साधारणभाषायामयं सार:- यत् सर्वेषां चमत्काराणामवच्छेदकं (असाधारणधर्म:) य चमत्कारत्वम्, तद्विशिष्टत्वेन काव्यत्वम्। तत् चमत्कारत्ववत्त्वं च स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण बोध्यम्। यतो हि स्वं चमत्कारत्वं, तादृशचमत्कारत्वविशिष्टा विषयतासम्बन्धावच्छिन्ना अर्थनिष्ठा या भावनानिष्ठजनकतावच्छेदकता, तद्रूपेण संसर्गेण, इत्याशय:। सर्वस्य लक्षणस्यायं निष्कर्ष:- ''यादृशशब्दानुपूर्व्या: (शब्दपरम्पराया:) पुन: पुनरनुसन्धानात्मकेन भावनाविशेषेण चमत्कारापरपर्यास्य अलौकिकानन्दस्य जननं भवति, तादृशशब्दानुपूर्वीमत्त्वं काव्यत्वम्।
लक्षणस्य मूलाक्षराणि
''रमणीयार्थप्रतिपादक: शब्द: (अर्थात् शब्दसमूह:) काव्यम्’’ इति न विस्मरणीयम्।
इदानीं मननसमुद्रे अन्तर्निमज्ज्य काव्यविषयिणी कीदृशी मीमांसा (अर्थात् मार्मिकता) फलितराजेन उद्भाविता, तस्या: परिचयो गृह्यताम्। प्राचीनैराचार्यै: यानि काव्यलक्षणानि दर्शितानि, तेषु बहवो दोषा: सन्ति। प्रथमतस्तु- आलङ्कारिकशिरोमणिना श्रीमता मम्मटभट्टेन ''शब्दार्थौ काव्यम्’’ इत्युक्त्वा शब्दश्च अर्थश्चेति द्वयोरेव काव्यत्वं लक्षणे प्रतिपादितं, तदेतन्न घटते। प्रमाणाभावात्। ''काव्यं श्रुतम्, काव्यमुच्चै: पठ्यते, काव्यादर्श: अवगम्यते’’ इत्यादि व्यवहार: सर्वजनेषु प्रसिद्ध:। सोऽयं व्यवहार: शब्दस्य काव्यत्वे एव सङ्गच्छते। यतो हि, श्रवणं शब्दस्य भवति। पठनमपि (व्यक्तवाचनमपि) शब्दस्यैव भवेन्न अर्थस्य। 'काव्यात् अर्थ: अवगम्यते’ इत्युक्तौ काव्यं च अर्थश्चेति द्वयमपि पृथगिति प्रतीतिर्भवति। अन्यथा अर्थस्यापि काव्यत्वे 'अर्थात् अर्थ: अवगम्यते’ इत्यर्थबोधे असङ्गति: प्रसज्येत्। ततश्च शब्दस्यैव काव्यत्वं वक्तव्यम्, न शब्दार्थयो:। लक्षणया शब्दमात्रे काव्यत्वव्यवहारो निर्वाहणीय इत्यपि न सम्भवति। यदि पूर्वं शब्दार्थयुगले काव्यशब्दव्यवहारस्य किञ्चित्प्रमाणं स्यात्तर्हि युगलमध्ये, एकस्य कृते लक्षणा भवेत्। किन्तु व्यवहार: शब्दे एव काव्यत्वस्य प्रवृत्तिं बोधयति, तत: कथं लक्षणाया: प्रसङ्ग:?
ननु ''शब्दार्थौ काव्यम्’’ इति प्रकाशकारेण स्वग्रन्थे प्रोक्तम्। अतएव मम्मटोक्ति: सेयं शब्दरूपा प्रमाणम्, इत्यपि न शक्यते वक्तुम्। यतो हि 'शब्दार्थौ काव्यम्’ एतद्विचारे एव तु संशय: समापतित:। ततो विमतस्य आचार्यस्य वाक्येन निर्णय: कथं समुचित: स्यात्? एवमेव-उपरि प्रदर्शिताभिरूपमतिभि: वेदपुराणादिनामपि लक्षणं शब्दमात्रे एव विश्राम्यति अर्थाद् वेदपुराणादीनां शब्दानुपूर्वी एव वेद: पुराणं चेति।
कतिपये 'आस्वादोद्बोधकत्वं काव्यत्वम्’ इत्याहु:। अर्थात् आस्वादस्य रसस्य उद्बोधकम् (आत्मानन्दस्य जागरणकारकम्) काव्यपदवाच्यम्। एतदपि लक्षणं न सम्भवति। यतो हि आस्वादस्य रसस्य उद्बोधका: वसन्तहिन्दोलप्रभृतयो रागा अपि भवन्ति। स्वीकृतं चैतद् ध्वनिकारादिभिरपि। एवमेव नाट्यस्य अङ्गानि नृत्य-गीत-वाद्यानि सर्वाण्येव रसस्योद् बोधकानि। ततश्च तान्यपि काव्यपदवाच्यानि भविष्यन्ति। तानि चमत्काराधायकानि किन्तु न काव्यानि अत: शब्दे, अर्थे च काव्यत्वसङ्ग्रहार्थं यत् 'आस्वादद्बोधकत्वं’ लक्षणं कैश्चित्कृतं तदपि परास्तम्। किञ्च-शब्दस्य अर्थस्य चेत्युभयो: काव्यत्वस्वीकारे-अयमपि प्रश्न: प्रोद्भवति यत् 'मिलितौ शब्दार्थौ काव्यम्’, अथवा 'शब्द: अर्थश्च पृथक्-पृथक् काव्यम्?’ यदि मिलितयो: शब्दार्थयो: काव्यत्वं, तर्हि श्लोकस्य वाक्यं (शब्द:) काव्यपदवाच्यं न भवेत्। यतो हि एक: एक: इति मिलित्वा द्वे भवत:। ततश्च द्वि-पर्याप्तं काव्यत्वम्, एकस्मिन् शब्दे अर्थे वा न सम्भवेत्। यदि तु प्रत्येकस्मिन् शब्दे अर्थे च पृथक् काव्यत्वं, तर्हि एकस्मिन् पद्ये शब्दस्य अर्थस्य पृथक्तया 'काव्यद्वयमिदम्’ इति व्यवहार: प्रसज्येत। तस्मात् 'शब्द: काव्यम्’। न तु शब्दार्थैा।
शब्दार्थयोरुभयोरेव काव्यत्वसमर्थनाय नागेशभट्टमहोदयेनात्र प्रोक्तं यत् ''यथा काव्यं श्रुतं, काव्यं पठितमिति लोके व्यवहार:, तथा 'काव्यं बुद्धम्? इत्यपि व्यवहार:। बोधश्च अर्थस्यैव भवति, न तु शब्दस्य। तस्मात् शब्दार्थयोरुभयोरेव काव्यत्वं स्वीकार्यम्। किञ्च वेदपुराणत्वमपि न केवलं शब्दमात्रस्य, अपि तु शब्दार्थयोर्द्वयोरेव। अतएव 'तदधीते तद्वेद’ इति पाणिनि सूत्रस्य भाष्ये 'य: अधीते (पठति), यश्च 'वेद’ जानाति, सोऽपि वैदिक: वैयाकरणो वा भवति। अर्थस्यापि काव्यत्वे द्वितीया आपत्ति: सेयम्, यत् द्वयोरपि काव्यत्वे, 'एको न द्वौ’ इति बोधे, प्रत्येकस्य काव्यत्वं न स्यात् इति। अत्र लक्षणया प्रत्येकमपि काव्यत्वं भवेदिति, शब्दार्थयोर्द्वयोरपि काव्यत्वे न कोऽपि दोष:’’ इति।
एतदपि न किञ्चित्। ''रमणीयार्थप्रतिपादक: शब्द: काव्यम्’’ इत्युक्तौ अर्थोऽपि शब्देन सह आगच्छति। अतस्तस्यापि बोधविषये अन्वय: सम्भवत्येव। ततश्च 'तदधीते तद्वेद’ इत्यादौ अर्थस्यापि सङ्ग्रहे भाष्योक्ति: सङ्गच्छते एव। किञ्च-शब्दार्थयोर्द्वयोरेव काव्यत्वं स्वीकृत्य- 'लक्षणया प्रत्येकस्य काव्यत्वं भविष्यति’ इति समाधानमपि परास्तम्। यतो हि ''शब्दार्थयुगले काव्यशब्दाशक्तेर्दृढतरप्रमाणकाभावान्न लक्षणा’’ इति पूर्वमुक्त मेव। तत: कथं लक्षणा? 'काव्यं बुद्धम्’ इति व्यवहारस्तु-शब्देन सह तत्सहकृत: अर्थोऽपि गौणतया समागच्छति। न किल काव्यरूप: शब्द: दुन्दुभिप्रभृतीनां शब्दवत् अव्यक्तौ नाद:। ततश्च प्रधानतया काव्यत्वं शब्दस्यैव, तत्सहकृततया अर्थश्चापि सङ्गृह्यते इति ग्रन्थाशय:।
लक्षणो हि मुखत: शब्दनिवेशेऽपि, शब्दस्य रमणीयार्थप्रतिपादकता विशेषणदानात् स शब्दो रमणीयार्थहितो गृह्यते। ततश्च शब्दस्य अर्थस्य चेति द्वयोरपि काव्यता स्वत: सिध्यति। लक्षणे शब्दस्यैव निवेशे कारणं तु-काव्ये निर्मिते: (अर्थाद् गुम्फनस्य) साक्षाद् विषय: सुललितसन्निवेषे विशेषशालितया माधुर्योद्बोधको विशिष्ट: शब्द एव। शब्दस्य अर्थस्तु न कविना निर्मियते। स तु अनादिप्रवाहात् ईश्वरेच्छारूपस्तस्य स्वाभाविक एव। ततश्च कालिदासेन निर्मितं रघुवंशमित्युक्तौ- 'वागर्थाविव संपृक्तौ’-इत्याद्यारभ्य 'भर्तुरव्याहताज्ञा’ इति पर्यन्त: कालिदासकृत: शब्दगुम्फ एव श्रोतृणां बुद्धौ उपारोहित। पार्वतीपरमेश्वरवन्दनरूप: शब्दानामर्थस्तु तेन गुम्फेन सह स्वयमेव समायाति। तथा च ''रघुवंशनिर्माणम्’’ इत्यस्यार्थ:- ''वागर्थाविव सम्पृक्तौ’’ -इत्याद्यारभ्य 'भर्तुरव्याहताज्ञा’ इति पर्यन्तस्य पदगुम्फनस्य निर्माणम्। अर्थात् अनादिशक्त्या स्वयमुपतिष्ठत्येवेति मुखतो नोच्यते केनचित्। एवं स्थितौ 'रमणीयस्य अर्थस्य प्रतिपादक: शब्दा:’ इति कथने अर्थस्य सङ्ग्रह: तत एव सिध्यति। ''शब्दार्थौ काव्यम्’’ इति अर्थस्य निवेशमकृत्वा लक्षणे केवलशब्दस्य स्थापनं तु तर्कपाण्डित्याभिमानिनां कृते-तर्कपद्धत्या सुदृढसंक्षिप्तलक्षणनिर्माणपाटवमेव।एवं च मननजलधेरन्तस्तलं प्रविष्टस्य पण्डितराजस्य लक्षणं किञ्चिन्मननं कृत्वैव बोधगम्यं भवेत्, न उपरित: परामर्शमात्रेण। तथा च शब्द: काव्यमित्युक्तावपि अर्थसहित: शब्द: काव्यकोटौ स्वयमुपतिष्ठतीति पण्डितराजस्य तात्पर्यम्।
एवं किल प्रधानतया शब्दमेव निर्दिशत: परममार्मिकस्य पण्डितराजस्य निगूढं तात्पर्यमिदमस्ति यत्काव्ये शब्दसौष्ठवविषये विशेषतो यतनीयम् कविना। अर्थस्तु मधुरशब्दसन्निवेशस्वयमुपस्थास्यत्येव यतो हि काव्यमिदं कान्तासम्मितोपदेश: परिगण्यते। येषां विनेयानां प्रभुसम्मितवेदादिषु साम्मुख्यं न भवति, तेऽपि काव्यस्य मधुरतया आकृष्टा: सन्तो गुडजिह्विकया 'रामादिवद् वर्तितव्यं न रावणादिवत्’ इत्यादिकमुपदेशं गृह्णयु:। इदानीं द्रष्टव्यं यत् श्रोतृणां समाहरणार्थं कवे: काव्ये सर्वत: पूर्वं शब्द एव कर्णगोचरो भवति, वा? ततश्च मधुरशब्दशय्यया अभिमुखीभूत: श्रोता काव्यं शृणोति तद्- गतानुपदेशांश्च गृह्णातीति वस्तुस्थिति:। एवं च ''विनेयानामभिमुखीकरणार्थं कविसंरम्भगोचरस्य शब्दस्यैव प्राधान्यम्’’, इति सूचनाय लक्षणे 'शब्द: काव्यम्’ इति पण्डितराजेन निबद्धम्।
किञ्च-अत्र काव्यानां प्रचारसूचकम् अन्यदपि ऐतिहासिकं रहस्यमस्ति। पण्डितराजस्य समयं यावत् काव्येषु भूयस्तमामुत्त्थानपतनान्यभूवन्। पूर्वमलङ्काराणां प्राधान्यमभ्युपगतं प्राचीनैर्भामहादिभिरालङ्कारिकै:। ततो ध्वनेराविर्भाव:। ततो वस्तु अलङ्काररस-इति त्रिविधानामपि ध्वनीनां काव्ये जीवितस्थानीयत्वं घोषितमभूत्। एतदनन्तरं रसस्यैव आत्मत्वप्रख्याति:। किन्तु प्रारम्भत: प्रभृति रसयुगपर्यन्तं सर्वस्याऽपि काव्यस्य मुखभागे शब्दस्य प्राधान्येन सन्निवेशो न केनचिदालङ्कारिकेण प्रतिरुद्ध:। यतो हि आपातत: काव्यस्य शब्दं श्रुत्वैव सहृदया: समाकृष्टा भवन्ति। यदि सर्वत: प्रथमकर्णयोरुपगते तस्मिन् शब्दे एव मनोहरता न भवेत्तर्हि वेद-धर्मशास्त्रादिभ्यो विमुखीभूय समागता विनेया: कथमभिमुखीभूता भवेयु:? अतएव वेद-पुराणप्रभृतीनारभ्य सर्वस्मिन्नपि साहित्ये विशिष्टस्य शब्दस्यैव प्राधान्यं सुस्थिरमभूत्।
एतद्ग्रन्थनिर्मातु: पण्डितराजस्य साहित्यनिर्माणसमय: सोऽयमस्ति यस्मिन् मोगलसम्राज: शाहजहांनस्याऽऽसीद् भारते शासनम्। पण्डितराजोऽपि ''दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वय:’’, 'दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थ:’ इत्यादिना तत्सामयिकीं परिस्थितिं सूचयामास। शाहजहांनस्य समयं यावत् संस्कृतसाहित्यं तु पूर्णतया परिनिष्ठितमभूदेव, किन्तु हिन्दीपर्यायक-वज्रभाषासाहित्यमपि परमां प्रौढिं प्रापत्। तस्मिन्नेव समये 'सतसई’ निर्माता बिहारी, कुलपतिमिश्रादयो व्रजभाषाकवय: स्वकीयेन कवितापाटवेन राजसंस्थानेषु असाधारणीं प्रतिष्ठां प्रापु:। संस्कृतभाषाया: साम्राज्यसूर्य: तस्मिन् समये पूर्णमध्याह्नमनुभूय अवतरणोन्मुख इवाऽभवत्। व्रजभाषासाहित्यं च जनानामनुरागभाजनमभूत्। तत्सामयिका: सहृदया:, कवीनामाश्रयदातारो राजानश्च व्रजभाषाकाव्यैरेव प्रसन्ना अभूवन्। व्रजभाषानिबद्धेषु तेषु काव्येषु च अर्थस्य चमत्कारे सत्यपि आपातत: शब्दानामेव सौन्दर्यं सहृदयानाचकर्ष। यथा विहारिणो दोहापद्यम्-
''नभलाली चाली निसा चटकाली धुनि कीन।
रति पाली आली अनत आये वनमाली न।।’’
''रे गायन! गायन चतुर ये गायनपरवीन।
ये गाहक करवीन के, लै बैठ्यो कर बीन।।’’
यथा वा, तदुत्तरभावी भारतसुप्रसिद्ध: पद्माकर:-
कूलन में केलि में कछारन में, कुञ्जन मे,
क्यारिन में कलित कलीन किलकन्त है।
कहै 'पद्माकर’ परागन में पौन हूँ में,
पातन में पिक में पलासन पगंत है।
द्वार में दिसान में दुनी में देस देसन में
देखो दीप दीपन दिपत दिगन्त है
वीथिन में व्रज में नवेलिन में बेलिन में
बनन में बागन में बगर्यो बसन्त है।। १।।
मनन जलधेरन्तस्तलं प्रविश्य तत्त्वसमाहरणपण्डित: पण्डितराज: साहित्यस्य सर्वां प्रगतिं पूर्वाऽपरत: सम्यक् समीक्षाञ्चक्रे । शब्दसौष्ठवं प्रति सहृदयानां स्वाभाविकमनुरागं नासौ अपलपितुं समर्थो बभूव। प्रत्यक्षमयमनुभूतवान्-यत् काव्यं शृण्वन् सहृदय: पूर्वं शब्दसौन्दर्येणैवाकृष्टो भवति। पूर्वेऽपि कवय: शब्दमाधुर्य परम्परागत: प्राशंसन्।
''अविदितगुणाऽपि सत्कविभणिति: कर्णेषु वमति मधुधाराम्।
अनधिगतपरिमलापि हि हरति दृशं मालती माला।। १।।’’
ततश्च सर्वशास्त्रेषु प्रगाढपण्डितस्य, तथा काव्यरचनायामपि दिगन्तविश्रान्तकीर्ते: पण्डितराजस्य काव्यरचनासमये शब्दसौष्ठवं प्रति यदि समाकृष्टं भवेन्मानसं तर्हि नेदमाश्चर्यम्। यतो हि-अर्थचमत्कारं पूर्णतया प्रकटयन्नपि सोऽयं निजपद्येषु कञ्चित् शब्दचमत्कारमवश्यं दर्शयामास। एतस्य शिखरिणीछन्दस्तु प्रसिद्धमेव-
'यदन्त: खेलन्तो बहुलतरसन्तोषभरिता
न का का नाकाधीश्वर नगरसाकाङ्क्षमनस:।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु न:।। १।।’
विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा नयनरमणीया तव तनु:।
अयं हि न्यक्कारो जननि मनुजश्रवणयो-
र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकल:।। २।।
किन्तु अन्यान्यपि पद्यानि शब्दसौन्दर्ययुक्तान्येव भवन्ति। यथा हि मालभारिणी-
''नितरां हितयाऽद्य निद्रया मे बत यामे चरमे निवेदिताया:।
सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाह:।। १।।
कुसुमानि शरा, मृणालजालान्यपि कालायसकर्कशान्यभूवन्।
सुदृशो दहनायते स्म राका, भवनाऽऽकाशमयथाऽभवत्पयोधि:।। २।।’’
शार्दूलविक्रीडितम्-
''वलाद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-।
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीश: स्मरेत्।।’’
इन्द्रवज्रा-
''तीरे तरुण्या वदनं सरसं नीरे सरोजं च मिलद्विकासम्।
आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालि किशोरमाला।।’’
उपेन्द्रवज्रा-
'अवश्यमाकाङ्क्षितकृष्णवत्र्मा भीषो महात्माऽजनि माघतुल्यं।।’
अनुष्टुप्-
''गुञ्जापुञ्जधर: पायादपायादिह कोऽपि व:।’’
किं बहुना। पण्डितराजस्य कविताप्रवाहे तत्समयप्रचलित: शब्दप्रवाह एव केवलं नाऽगच्छत्। कुत्रचित्कुत्रचित् अर्थोऽपि व्रजभाषासाहित्यमनुहरते। यथा-
विहारिण: पद्यम्-
'छिप्पौ छबीलो मुख लसै नीले आँचल चीर।
मनौ कलानिधि झलमलै कालिन्दी के नीर।।’
पण्डितराजस्य गङ्गाधरे पद्यमस्ति-
'नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनाया:।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्क:।।’
एतद्धि विहारिपद्येन अविकलं संवदते। अन्यकवीनां रचनागन्धं मनसाऽपि परिहरन्, नितान्तमभिमानशाली पण्डितराज:, तत्सामयिकस्य भाषाकवे: पद्यच्छायां इच्छया अनुचकार, अथवा सामयिक: प्रभावो यदृच्छयाऽस्य रचनायामागच्छत्? इति अन्वेषणशीला: पण्डितमहाभागा एव गवेषयन्तु। किन्तु सामयिको युगप्रवाह: सर्वथाऽनुल्लङ्घनीयो भवतीत्येव मे कथनस्य तात्पर्यम्।
ततश्च प्रारभतोऽद्यावधि सर्वामपि साहित्यस्य परिसीमां दृष्टवान् मार्मिक: पण्डितराजो मननसमुद्रे निमज्ज्य रसगङ्गाधरनाम्नीमिमां काव्यमीमांसां विरचयामास। अतएव काव्यलक्षणे अर्थस्य समावेशार्थं पण्डितराजेन विचारो न कृत: स्यात्, इति को वा विचारशीलो वक्तुं पारयेत्। किन्तु तार्किकम्मन्यानां संक्षिप्त-सुदृढलक्षणनिर्माणगर्वं खर्वं कुर्वन् सुदृढ-संक्षिप्तं लक्षणं निबबन्ध- 'रमणीयार्थप्रतिपादक शब्द: काव्यम्’ इति।
यत्किञ्चित्काव्यं शब्दत: शृण्वतां पाठकमहाभागानाम् अर्थचमत्कारस्तु पुरस्तादनुभवगम्यो भवेदेव, किन्तु कर्णाभ्यां श्रुतमात्रैव सुन्दरशब्दशय्या सहृदयानाकर्षतीति वर्णिका (बानगी) रूपेण नवीनानि पद्यानि कानिचित् सम्मुखमुपस्थापयामि। एवंविधरचनाविषये काश्यादिषु सुप्रसिद्धेषु संस्कृतसाहित्यकेन्द्रेषु काव्यगतसौष्ठवविषयमवलम्ब्य पूर्णो विमर्श: समभूत्। विचारोत्तरं रचनामार्मिकैरनुगृहीता सेयं रचना प्रमोदप्रकटनरूपपुरस्कारेण। अस्तु, कविता सेयम्-
मूर्द्धनि मनोज्ञमणिमञ्जुलमुकुटधारी कुन्तलकलापमनोहारी मुखपद्धतौ
चञ्चलानुकारी कटिदेशे भाति पीतपटो मोदमुपयाति गोपनारी जनसंहतौ।
मञ्जुनाथ दारुणदवौघपरिहारी सतां भक्तजनमानसविहारी साधुसङ्गतौ
मनसि मुनीनामपि मन्दमन्दचारी चिरात् सोऽयं सुखकारी मे मुरारी रमतां मतौ।।
भूरुहा वहन्ते मञ्जुमञ्जरीर्भजन्ते चारुवल्लरीर्मदन्ते मधुपायिनोऽद्य मानस
रम्यामारभन्ते मञ्जुपम्पापुलिनान्ते चरा: सुभगसमीरा: संजुषन्ते रसिका रसे।
काकली: श्रयन्ते युवकोकिलाविलासभृतो बाणा: संरभन्ते कुसुमेषोरपि नीरसे
प्रणतिरियं ते वच्मि भूय: कान्त किन्ते ननु विरहिदुरवन्ते किं वसन्ते गन्तुमीहसे।।
मानवसमाजे सभ्यताया: साधयित्री सेयममितमगाधज्ञानराशिजनयित्रीयम्
विश्वमण्डलेऽस्मिन्नखिलेऽपि प्रभवित्री बभौ भरतभगीरथादिभूपोद्भावयित्रीयम्।
श्रीमद्रामकृष्णपदपङ्कजै: पवित्रीकृता भीमप्रमुखानां धर्मधीराणां सवित्रीयम्
वीराणां वरित्री चिन्तनीयचरितानां चारुचेतसि चरित्री भाति भारतधरित्रीयम्।।
एवं च-अर्थ चमत्कारो पूर्णतया सत्यपि पदगुम्फने सुललितशब्दसौन्दर्यं बलादिव सहृदयानां हृदयमाकर्षतीति सर्वसम्मत्या सिद्धो निष्कर्ष:। एतां सर्वां साहित्यपरिस्थितिम् असाधरणेन मननेन सुदृढीकुर्वन् पण्डितराज: स्वीये काव्यलक्षणे रमणीयमर्थं प्रथमत एव निर्दिशन्नपि तर्कपाण्डित्यप्रकटनाय सुदृढ-संक्षिप्तं लक्षणं निबबन्ध-'रमणीयार्थ प्रतिपादक शब्द: काव्यम्’।
एतद्विरुद्धं 'शब्दार्थौ काव्यम्’ इति यत् प्राचीनानां काव्यलक्षणमासीत् तस्य समर्थनं स्वर्गवासिभि: काशीस्थैर्महामहोपाध्यायै: पण्डित श्रीगङ्गाधरशास्त्रिमहाभागैरक्रियत। प्रोक्तं च तैर्यत् ''शब्दमात्रस्य काव्यत्वे तु शब्दमात्रगतानां दोषगुणालङ्कारध्वनीनां निरूपणौचित्येन, अर्थगतानां तेषां निरूपणस्य उन्मत्तप्रलापत्वापत्ति:’’ इत्यादि।
एवमेव 'हिन्दी रसगङ्गाधर’ नाम्ना रसगङ्गाधरस्य हिन्दीटीकां कुर्वद्भिश्चतुर्वेदिमहाभागैर्यत् ''शब्द: काव्यम्’’ इति पण्डितराजस्य काव्यलक्षणं समालोचितम्। प्रोक्तं च यत्- ''मम विचारे अलौकिकाह्लादजनकयो: शब्दार्थयोरेव काव्यत्वं युज्यते, न केवलस्य शब्दस्य। अन्यथा दृश्यकाव्यभेदकरणमप्यसङ्गतं स्यात्। यतो हि दर्शने अर्था एव आगच्छन्ति, न शब्दा:। एवमेव अर्थालङ्कारनिरूपणमपि तदैव सार्थकं स्यात्। अन्यथा शब्दमात्रस्यैव काव्यत्वे अर्थालङ्काराणां साहित्ये निरूपणं व्यर्थं स्यात्।’’ इत्यादि।
किन्तु-अत्र मार्मिकविचारस्याऽऽवश्यकता। पण्डितराजस्य लक्षणमस्ति -रमणीयस्य अर्थस्य प्रतिपादको य: शब्द:, तत्काव्यम्। ततश्च काव्यत्वेन स्वीकृतो य: शब्द:, शब्दसमूहो वा भवेत्तेन सह अर्थोऽप्यवश्यमागच्छति न हि सोऽयं शब्दो ढक्कामृदङ्गादिशब्दवत् अव्यक्त: (अनर्थक:)। ततश्च- 'अलौकिकाह्लादजनकस्य अर्थस्य प्रतिपादक: शब्द: काव्यम्’ इति मुखत: अर्थमपि निर्दिशता पण्डितराजेन प्रतिपक्षिभिरुद्भाविता: दृश्यकाव्य-अर्थालङ्कारविषयका दोषा: कथमपि न प्रसज्ज्यन्ते। इदं हि स्थूलममस्ति। यतो हि विश्वनाथकृतस्य काव्यलक्षणस्य खण्डनं कुर्वता स्वयमेव प्रोक्तं पण्डितराजेन यत् 'वस्तु-अलङ्कारप्रधानानां काव्यनामकाव्यत्वं स्यात्’ इति। 'मननसागरे निमज्ज्य रसगङ्गाधरनामा मणिर्मयालोके उद्भावित:’ इति विचारसागरस्य तलस्पर्शाभिमानी पण्डितराज: सुस्पष्टं दृश्यमानामिमामापत्तिं न कथञ्चित्पश्येदिति किं सुसम्भवम्?
ततश्च यदा 'शब्दार्थौ काव्यम्’ इति सम्मतं, तदा 'शब्द: काव्यम्’ इति कथनस्य इदमेव तात्पर्यं यत्पण्डितराजे नवीनन्यायस्य धुरन्धरान् सूचयति यद् भवन्त: अतिसंक्षेपेण भूय: अर्थस्य (अव्याप्ति-अतिव्याप्तिरहितम्) सङ्ग्राहकं लक्षणं परमोत्तमिति साभिमानं मन्यन्ते। इदानीं 'रमणीयार्थप्रतिपादक: शब्द: काव्यम्’ इति मम लक्षणे 'रमणीयार्थप्रतिपादकोक्त्या’ अर्थस्याऽपि सङ्ग्रह: स्वतो भवत्येव। ततश्च भवत्स्वीकृतसंक्षेपपद्धत्या 'रमणीयार्थप्रतिपादक: शब्द: काव्यम्’ इत्युक्तावपि अर्थसहितस्य शब्दस्य काव्यत्वं सिध्येत्येव। किं मुधा शब्दाडम्बरवर्धनेन? एवं च तर्कव्याकरणाफक्किका पण्डितानां प्रातिद्वन्द्व्यदर्शनार्थमेव तथा संक्षिप्तं लक्षणं 'रमणीयार्थप्रतिपादक: शब्द: काव्यमिति स्थापितं पण्डितराजेन।’
मुखत: शब्दमेव निर्दिशत: पण्डितराजस्य तात्पर्यं काव्ये शब्दस्यैव प्राधान्यं, कविसंरम्भगोचरत्वं चेति पूर्वं सूचितवानेवाऽस्मि। न त्वनेन विनिगमनीयं यत् पण्डितराज: शब्दमात्रप्राधान्यवादी। वस्तुतो रमणीयतापदार्थं विवृण्वता तेन यद् व्याख्यातं तद् व्यापकतया काव्यास्वादप्रक्रियां विशदीकरोति। रमणीयता लोकोत्तरमाह्लादं जनयतो ज्ञानास्यानुभवो भवति। किं च तल्लोकोत्तरत्वम्? चमत्कारस्यानुभव:। येन पुन: पुनस्तत्र प्रवृत्ति: स्यादित्यादिना विवेचनेनेदं प्रथमतया मानसीं प्रक्रियां प्रकटीकुर्वाणेन पण्डितराजेन सारभूतं काव्यसौन्दर्यास्वादव्याख्यानं प्रतिपिपादयिषितं येन सार्वदैशिक: सार्वकालिकी च काव्यास्वादव्याख्याविमर्श: सम्पद्यते, पाश्चात्यानां पारसीकानां वा काव्यानामपि, सङ्गीतादीनां कलानामपीति दरमुकुलितलोचनं विदां कुर्वन्तु सहृदया:।
रसस्वरूपं विभिन्ना रससिद्धान्ताश्च
(जगन्नाथप्रदर्शितदिशा)
अयं मनुष्यो यदाऽस्मिन् संसारे उत्पद्यते तदा शरीरेण साकम् अस्य अन्त:करणमपि समुत्पद्यते। ततश्च हृदयसहित: सोऽयं मनुष्यो नानाभावाननुभवति कदाचित् केनचित्सह प्रीतिं करोति, कदाचित् कस्यचन वस्तुनो नाशे शोकमनुभवति, कदाचिच्च कस्यचन वस्तुनो लाभाय वीरतां प्रदर्शयन् उद्यमेऽस्मिन् उत्साहमनुभवति। एतेषां रति-शोक-उत्साहादीनां भावानां संस्कारास्तस्य मनुष्यस्य हृदये वासनारूपेण अङ्किता भवन्ति। एते हि चित्तवृत्तिरूपा मनोभावा: साहित्ये स्थूलगणनया 'त्रयस्त्रिंशत्’ परिगणिता:। यद्यपि- 'मात्सर्य-उद्वेग-ईर्ष्या-विवेक-विनयादय: अन्येऽपि भावा: सन्ति, ये तत्तस्थलेषु प्राय: सवैरेव जनैरनुभूयन्ते। किन्तु अन्ये ते सर्वे भावा भरतमुनिपरिगणितेषु एष्वेव भावेषु अन्तर्भवन्ति। यथा- मात्सर्यम् असूयायाम् उद्वेग: त्रासे, ईर्ष्या अमर्षे, विवेक: मतौ, विनयो लज्जायामन्तर्भवितुं शक्नोति। ततश्च मुनिवचनानुरोधात् प्रमुखप्रमुखा इमे त्रयस्त्रिंशदेव भावा: साहित्ये परिगण्यन्ते।
एतेषु त्रयस्त्रिंशद्भावेषु रतिहासशोकादय: अष्टौ भावा: प्रमुखा: सन्ति, ये हि तथा प्रबला: सन्ति, यत् विरुद्धै: अविरुद्धैश्चापि अन्यान्यैर्भावैरभिभूता न भवन्ति। एतेषां प्रभावो हृदयात्सहसा नाऽपगच्छति। अत एव एते अष्टौ भावा: स्थयिभावा इत्युच्यन्ते। केषाञ्चिन्मते नाट्ये अनभिनीयमानोऽपि नवम: एको निर्वेदोऽप्यस्ति स्थायिभाव:। एते रतिहासाद्या नव भावा मनुष्यस्य हृदयपटले वासनारूपेण सुस्थिरतया स्थिता भवन्ति। स्वानुकूलां स्थितिं प्राप्य एते समये समये जागृता भवन्ति। यथा मार्गे गच्छतामस्माकं यदि कश्चिद् वृथैव आक्रोशम्, आघातादिकं वा करोति, तर्हि वासनारूपेण स्थित: स क्रोधो जागरूको भवति। एते वासनारूपेण स्थिता रत्यादय: स्थायिभावा यदा स्वत: प्रकाशमानेन आत्मन: स्वरूपेण आत्मानन्देन सह अनुभूयमाना (अर्थात् स्थायिभावोऽपि आस्वादगोचरोभवति, तथा आत्मानन्दोऽपि) भवन्ति तदा साहित्ये परिभाषितस्य रसस्य रूपे परिणमन्ति।
'सत्-चित्-आनन्देति’ आत्मन: स्वरूपं सर्वत: प्रख्यातम्। एषु आत्मन: प्रधानरूपम् आनन्द: अज्ञानकृतेन आवरणेन आच्छादितस्तिष्ठति। यावत्कालं च आत्मन: स्वस्वरूपस्य आनन्दस्य, रतिहासादिभि: स्थायीभावै: सह एककाले अनुभवगोचरता न भवति तावद् वासनारूपाणां रत्यादीनामनुभवो न भवति। ततश्च साहित्यशास्त्रे स्वीकृतेन विभाव- अनुभाव-सञ्चारिणां संयोगेन (अभिव्यञ्जनाख्येन व्यापारेण) तत् अज्ञानकृतमावरणं दूरे भवति। तत्प्रभावेण आत्मानन्दाऽनुभवकर्तु: 'परिमितिप्रमातृभाव:’ (अल्पज्ञता) विनश्यति। सांसारिको भेदभावश्च विलुप्यते। ततश्च तन्मयीभूत: स: अनुभवकर्ता आत्मानन्दसहितस्य रतिहासादिरूपस्य स्थायिभावस्य अनुभवं करोति। आत्मानन्देन सह अनुभूयमान: स स्थायिभाव एव साहित्यशास्त्रे ''रस:’’ इत्याख्यायते।
रतिहासशोकादे: स्थायिभावस्य कारणानि साहित्येऽस्मिन् 'विभाव’ पदेन उच्यन्ते। कारणं च द्विविधम्, आलम्बनम् उद्दीपनं च। यथा शृङ्गाररसे-रतिरूपस्य स्थायिभावस्य उत्पादिका शकुन्तला आलम्बनकारणम्, चन्द्रोदय-वसन्त-उद्यानादीनि उद्दीपनकारणम्। रते: अनुभवकर्तु: दुष्यन्तस्य विरह चेष्टादीनि कार्याणि अनुभावा:। तथा रतिरूपेण स्थायिभावेन सह स्वप्रेमपात्रस्य (शकुन्तलादे:) प्राप्त्यर्थं क्रियमाणा: चिन्ता-व्रीडा-विषादादय: सहकारिण: व्यभिचारि (सञ्चारि) शब्देनोच्यन्ते।
कोऽसौ रस इति प्राकृतिकगवेषणा
इदमत्र तत्त्वं यत्- 'रसो’ यथा श्रव्यकाव्ये अनुभूयते तथैव दृश्यकाव्येऽपीति वास्तवी परिस्थिति:। किन्तु दृश्यकाव्ये (नाटकादिरूपकेषु) नायक-नायिका-विदूषकादीनां पात्राणां द्वारा कथानकस्य स्वसमक्षम् अभिनीयमानतया, काव्यस्य समग्रं चरित्रं चक्षुषोरग्रे सुस्फुटमुपस्थितं भवति। ततश्च तदिदं प्रत्यक्षी कुर्वत: साधारणस्यापि जनस्य रसानुभव: स्पष्टतया प्रतीतिगम्यो भवति। श्रव्यकाव्ये तु नायकनायिकादीनां सर्वापि चरित्रसामग्री केवलं मानसी (आन्तरिकी) भवति, न चक्षुर्गम्या। तत्र हि निर्मलान्त:करणा बुद्धिमन्त एव तत्त्वग्रहणे समर्था भवन्ति। ततश्च सर्वबोध्यरूपेण रसस्य स्वरूपं हृदयङ्गमं कारयितुं दृश्यकाव्यमवलम्ब्यैव रस विषयकविवेचनमत्र कृतम्।
ततश्च नाटके (दृश्यकाव्ये) येन वस्तुना आनन्द: प्राप्यसे स: ''रस्यते आस्वाद्यते असौ रस:’’ इति व्युत्पत्त्या दृश्य काव्यस्य आत्मभूत: जीवातुभूत: रस:।
१. तत्र 'कोऽसौ रस:’ इति प्राकृतिकरूपेण प्रथमगवेषणायाम्-यदा वयं नाटकं पश्यामस्तदा अभिनयं कुर्वन्तं नटं दृष्ट्वा, अस्माकं प्रेमालम्बनस्य (तत् स्त्री वा स्यात्पुरुषो वा) स्मरणं भवति। वारं वारं च नाटके नटेन कृतात् अभिनयात् तस्यैव अस्मत्प्रेमालम्बनस्य अनुसन्धानं, स्मरणं भवति। तादृशेन स्मरणेन चेतसि आनन्दस्याविर्भावो भवति। अत एव रतिहासादे: (अमर्षस्य, उत्साहादेर्वा) आलम्बनरूप: स विभाव एव आनन्दरूपत्वाद् 'रस:’ इति रससम्प्रदायस्याविर्भाव:।
२. यदि आलम्बनविभाव एव आनन्दायक: स्यात्तर्हि अभिनयरहितदशायाम् (अर्थाद् यदा स नट: दुष्यन्तादेरभिनयं न करोति, किन्तु गृहकार्यलग्न:, पठने वा व्यापृत:) तदा तं दृष्ट्वा अस्माकं न तादृश आनन्दोद्गम:। किन्तु यदा स दुष्यन्तादेर्वेषभूषाचेष्टादिकं करोति ,तदैवाऽऽनन्दाऽवाप्ति:।। ततश्च विचारपरम्परया लोकै: स्थिरीकृतं यत्- ''वारं वारं भाव्यमाना: आलम्बनस्य चेष्टा: (अनुभावा:)’’, अर्थात् अङ्गानां विक्षेपणम्, मुखादेर्नानापरिस्थितय: एव आनन्दजनकत्वात् रसरूपा:।
३. पूर्वम् उक्तवानस्मि यत्-साहित्ये यथा यथा गभीरमालोचनं क्रियते तथा तथा तादृशगभीराऽऽलोचनेन आनन्दाऽवाप्तिर्भवति।
एतदनुसारम् विभावस्य-अनुभावस्य विचारोत्तरमपि निगूढं विचारे कृते आनन्दाऽवाप्तेर्मूलं न वास्तवतया प्राप्तम्। यतो हि कीदृशोऽपि चतुरो नट: पर्याप्ता: (पूर्णा:) शरीरचेष्टा:, नानाविधान् मुखविकारांश्च दर्शयेत् किन्तु येषां दुष्यन्तादीनामभिनयं नट: करोति, तेषामन्त:करणस्य चित्रं यदि दर्शकानां समक्षे न स चित्रयितुं प्रभवेत् तर्हि अनुभाव (चेष्टा) सहस्रेणापि दर्शकानां न आनन्दोद्भव:। किन्तु यदि यत्किञ्चिच्चेष्टयाऽपि प्रकृतस्य दुष्यन्तादेश्चित्तवृत्तिं चित्रयितुं स समर्थो भवेत् (अर्थात् लोकानां समक्षे स्पष्टमिदं प्रतीतं भवेद् यत् शकुन्तलाविरहे दुष्यन्त: एवं विकल:, एवमुत्कण्ठित:, एवं सन्तप्तश्चाभवत्) तदैव दर्शकानामानन्द:। ततश्च- ''पुन: पुनरनुसन्धीयमान: (भाव्यमान:) सञ्चारी एव रस:’’ इति समभूत्तत्त्वाऽऽविर्भाव:।
एतदनन्तरं पुनस्तत्त्वालोचनं साहित्येऽस्मिन् प्रवृत्तम्। तथा कृते सति दृष्टं यत्-कस्मिंश्चित् अभिनये विभाव-अनुभाव-सञ्चारिषु सर्वेषु यथावत्। वर्तमानेऽपि आनन्दाविर्भावो न भवति। किन्तु कुत्रचिद् विभावेनैव, कुत्रचित् अनुभावेन, क्वचित्तु सञ्चारिणैव आनन्दोद्गमो भवति। एतदुपरि गूढविचारे कृते निर्धारितं यत् त्रयाणां मध्ये विभाव:, अनुभाव: सञ्चारी वा य: कश्चित् चमत्कारकारी, लोकानामानन्दजनको भवति एव, आनन्दोत्पादकत्वाद् 'रस’ रूपो भवति। यदि तु एकोऽपि चमत्कारकारी न स्यात्तर्हि कोऽपि रसरूपतया न परिणमति।
एतदनन्तरं भावसञ्चारिभावानामपि शनै: शनैर्गवेषणमारब्धम्। उद्वेग-विवेक-मात्सर्यादयोऽन्येऽपि बहवो भावा अभूवन्, किन्तु तेषु ८ अथवा ९ भावा रत्यादय: प्रमुखा: सन्ति, येषां सम्पूर्णेऽपि नाट्ये सर्वत: प्रतीतिर्भवति। इमे भावा अन्यैर्भावै: अभिभूता न भवन्ति। प्रत्युत अन्ये भावा: , सेवका इव इमान् भावान् भूषयन्ति। ततश्च नाट्यमात्रे स्थिरत्वात् 'स्थायि भावा:’ इति प्रसिद्धा अभूवन्। अन्ये तु हर्ष-स्मृति-लज्जाद्या: कुत्रचित् प्रतीयन्ते, कुत्रचिन्न इति ते सामान्यत: सञ्चारिभावास्रयस्त्रिंशत् परिगणिता अभूवन्। उद्वेग-विवेक-मात्सर्यादय: एष्वेव अन्तर्गता अभूवन्निति नाट्याचार्यस्य मुनेर्भरतस्य त्रयस्त्रिंशदिति भावगणना सुस्थिरा भवति।
इत: परं स्थायिभावानां गवेषणानन्तरं, बहूनामभिनयानां दर्शनोत्तरं विचारशीलैर्मीमांसितं यत् पूर्ववर्णिता विभाव-अनुभाव-व्यभिचारिभावा: पृथक् पृथक्, अथवा सम्मिलिता सन्तोऽपि रसरूपेण न परिणमन्ति। यतो हि सर्वस्मिन् अपि अभिनये य: आनन्द: अस्माभिरनुभूयते, स: केवलं विभावानुभावसञ्चारिभि: न प्रतीयते। किन्तु तस्याऽऽनन्दस्य कारणमस्ति सा चित्तवृत्ति:, यस्य नाम रति-हास-शोकादि स्थायिभाव:। किन्तु रतिहासादयस्तदैव आनन्दरूपे परिणमन्ति यदा विभाव: (शकुन्तलादि:) रत्यादिरूपां चित्तवृत्तिम् उत्पादयति, अनुभावा: (चेष्टादय:) रतिरूपस्थायिन: सकाशात् उत्पद्यन्ते (अर्थात् स्थायिन: कार्याणि), चित्तादय: सञ्चारिणश्च तं रत्यादिस्थायिभावं परिपुष्टं कुर्वन्ति। ततश्च स्थायिभाव: सर्वेष्वेषु प्रमुख:, अन्ये उपकरणभूता:। किन्तु विभावादीनामेषां संयोगे सति स: रत्यादि: स्थायिभाव: रसरूप: सन् अस्मान् आनन्दयति।
सोऽयं परम्परात: प्रचलितो रसगवेषणात्मको विमर्शो, नाट्यशास्त्रस्य परमाचार्येण भरतमुनिना 'नाट्यशास्त्रे’ सूत्ररूपेण स्थिरीकृत:- ''विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति:’’ इति। एतदनन्तरं मीमांसकनैयायिकादयोऽनेके आचार्या: सूत्रस्याऽस्योपरि निजनिजान् विचारान् प्रकटय्य, अनेकेषां सम्प्रदायानां सृष्टिमकार्षु:। पठनपाठनादिषु सर्वत: प्रख्याते काव्यप्रकाशे सर्वत: प्रथम: सम्प्रदायो मीमांसकस्य भट्टलोल्लटस्य नाम्ना निर्दिष्ट:। तेन हि सूत्रस्यास्य व्याख्या कृता- 'कामिन्यादिभि: आलम्बनविभावै: रत्यादि: स्थायिभाव: उत्पाद्यते, उद्यानवसन्तादिभि: उद्दीपनविभावै: स उद्दीप्यते। कटाक्षादिभि: अनुभावै: स: प्रतीतियोग्य: क्रियते (यतो हि आश्रयस्य दुष्यन्तादे: चेष्टां दृष्ट्वा सर्वैरपि प्रतीयते यत् अस्य दुष्यन्तस्य शकुन्तलायां रति: अस्ति)। उत्कण्ठादय: सञ्चारिणश्च तं रतिभावं परिपुष्टं कुर्वन्ति। तथा च क्रमेण-जन्यजनकभावात्, गम्यगमकभावात्, पोष्यपोषकभावरूपात् च संयोगात् विभावानुभावसञ्चारिणां सम्बन्धात् स्थायिभावरूपस्य शृङ्गारादिरसस्य क्रमेण उत्पत्ति:, प्रतीति: पुष्टिश्च भवतीति तस्य तात्पर्यम्।
अस्मिन् मते-रसस्योत्पत्ति: दुष्यन्तादौ एव भवेद् यत: विभावादय: (शकुन्तलादय:) दुष्यन्तसम्बन्धिन एव। ततश्च अतत्सम्बन्धिभि: विभावादिभि: सामाजिकानां कथं रसोद्भव:। इति शङ्का मनसिकृत्य श्रीशङ्कुकस्य नाम्ना नैयायिकानां मतम्। तेषामनुसारम्- 'स्थायिनो रत्यादे: विभावादिभि: सह अनुमाप्य-अनुमापकभावरूपसम्बन्धात् रसस्य निष्पत्ति: अनुमिति: भवति’ इति।
यथा कुज्झटिकाव्याप्ते प्रदेशे धूमस्याऽभावेऽपि धूमसहचरितस्य वह्नेरनुमानं भवति। तथा नाट्यनिपुणस्य नटस्य चातुर्येण 'ममैवेते विभावादय:’ इति रूपेण प्रदर्शितै: (वास्तवतया नटे असद्भिरपि) विभावादिभिस्तन्नियता रति: अनुमीयते। यद्यपि लोके अनुमानेन न आनन्दो भवति, अपितु प्रत्यक्षेणैव। किन्तु नाट्यप्रदर्शितानां रति तद्विभावादिपरदार्थानामीदृशं सामर्थ्यं यत् अन्यानुमानस्थलाद्विलक्षणतया, अनुमीयमानाऽपि सा रति: सामाजिकान् आनन्दयति, इति तेषां मतस्य निष्कर्ष:।
श्रीशङ्कुकादीनां नैयायिकानां मते रसस्याऽनुमानं क्रियते तदिदं लोकप्रतीतितो विरुद्धम्। अनुमानेन न आनन्दोद्भव:, अपितु प्रत्यक्षेण। अत एव सांख्यशास्त्रानुसारेण भट्टनायकादीनां तदिदं मतम्-
शब्दस्य तिस्रो वृत्तय: (व्यापारा:) अभिधा,भावना, भोगश्च, इति। काव्ये नाट्ये वा-अभिधया शकुन्तलादिशब्दानां मुनिकन्यादिरर्थ:। ततो भावकत्वव्यापारेण अनुसन्धाने कृते काव्यवर्णितानां नायकनायिकादीनां दुष्यन्तशकुन्तलादित्वं निवृत्तं भवति। ते सामान्यतया पुरुष-रमणीत्वेन उपतिष्ठन्ति। ततश्च शकुन्तलादिषु परनारीत्वेन अगम्यात्वस्य या प्रतिबन्धिका-प्रतीतिरासीत्तस्या निवृत्तिर्जायते। तृतीयेन भोजकत्वव्यापारेण रजस्तमसो: आर्विभावो भवति। सत्त्वस्य च उद्रेको भवति। ततश्च सत्वजनित: चैतन्यरूप: आनन्द: (दु:खेभ्यो विश्रान्ति:, निवृत्ति:) जायते। तादृशेन साक्षात्कारेण (अनुभवेन) विषयीकृतो रत्यादि: स्थायिभावो रसरूपो भवति। अस्मिन् मते भावकत्वव्यापार एव नवीन: स्वीक्रियते। भोगस्तु व्यञ्जनास्थानीय:। यथा व्यञ्जनया अज्ञानावरणम् अपसार्य, भग्नावरणचिद्विशिष्टो रत्यादि:, रत्यवच्छिन्ना भग्नावरणा चिदेव वा रसत्वेन अनुभूयते, तथा भोजकत्वव्यापारेण सत्त्वोद्रेके सति नित्यचित्स्वभावनिर्वृत्तिरूपेण अनुभवेन विषयीकृतो रत्यादि: रसत्वेन स्वीक्रियते।
'नव्यास्तु’ इति शीर्षकेण अन्येषां विदुषां मतमुपतिष्ठति। एते कथयन्ति यत् काव्ये अथवा नाटके, शकुन्तलादिविभावानामभिधया ज्ञाने सति, व्यञ्जनावृत्त्या शकुन्तलादिषु विभावेषु दुष्यन्तादे: रति: अस्माभि: प्रतीयते। तदनन्तरं नाटकद्रष्टृणां सहृदयतारूपेण पुन: पुनरनुसन्धानरूपेण भावनाख्यदोषेण अस्माकमन्त:करणमज्ञानाच्छादितं भवति। तेन वयमात्मानं दुष्यन्तं भावयाम:। ततश्च कल्पितदुष्यन्तत्वाच्छादिते आत्मनि सदसद्विलक्षण: साक्षिमान: शकुन्तलादिरतिरूप: स्थायी उत्पद्यते (प्रतीयते)। प्रतीयमान: स रत्यादि: स्थायी एव रसो भवति। यथा अज्ञानावृते अन्त:करणे सति शुक्तौ रजतस्य प्रतीति:, तथा अज्ञानावृते अन्त:करणे स्थायिनो रत्यादे: प्रतीतिरिति नव्यानां मतम्।
एतदनन्तरं स्वल्पं भेदमादाय परे तु इत्यादीनि अन्यान्यपि मतानि रसगङ्गाधरे प्रतिपादितानि, येषां संख्य: एकादश: परिगण्यते। किन्तु प्रधानतया अभिनवगुप्तमम्मटभट्टादीनां मतानि प्रतिपादितानि। सर्वेषां च मतानुसारं 'विभावानुभावव्यभिचारिसंयोगाद् रस निष्पत्ति:’ इति भरतसूत्रस्य व्याख्यानं दर्शितं पण्डितराजेन।
पण्डितराजस्वीकृतं रसस्वरूपं, तद्व्याख्या च सेयं समुचितललितसन्निवेशचारूणा अर्थात् रसवर्णनोचितसुन्दरवर्णमयेन काव्येन उपस्थापितै:। रसानुभवकर्तु: सहृदयस्य सहृदयतावशात् प्रादुर्भूतस्य भावनाविशेषस्य माहात्म्येन 'इयं शकुन्तला दुष्यन्तस्य रमणी पत्नी’ इत्यादौ परिमितप्रमातृभावे दूरीभूते सति, मनसि आविर्भूतै:, अतएव लोकतो भिन्नतया अलौकिकै: साहित्ये विभावशब्दव्यपदेश्यै: शकुन्तलादिभि: आलम्बनकारणै:, चन्द्रिकादिभि: उद्दीपनकारणै:। एवं रसानुभवकर्तु: तन्मयीभावात् निजप्रेमालम्बनस्य विरहे सञ्जातै: अश्रुपातादिभि: कार्यै:, (अनुभावशब्द व्यपदेश्यै:)। तथा आलम्बनस्य विरहे समुद्भूतै: चिन्तादिभि: सहकारिभि: (साहित्ये व्यभिचारिसञ्चारिपदव्यपदेश्यै:) च। एतै: विभावानुभावसञ्चारिभि: त्रिभिरपि सम्भूय (अर्थात् रसव्यञ्जनाख्यस्य अलौकिकव्यापारस्य उत्पादनकार्ये सङ्गत्य) स: अलौकिक: व्यञ्जनाख्यो व्यापार: उद्भाव्यते प्रकटीक्रियते। तेन व्यञ्जनाख्यव्यापारेण आत्मन: स्वस्वरूपस्य आनन्दांशस्य आवरणम् अज्ञानं निवर्त्यते। ततश्च निवृत्तम् अज्ञानं यस्य ईदृशेन। अतएव परिमितप्रमातृभावं परित्यज्य अपरिमित-प्रमातृभावविशिष्टेन प्रमात्रा (रसानुभवकर्त्रा सामाजिकेन, कर्तृभूतेन) स्वस्वरूपम् (रसानुभवकर्तु: आत्मन: वास्तवं स्वं रूपम्) य: आनन्द:। (यतोहि आत्मा सत्-चित्-आनन्दस्वरूप:) तेन आनन्देन सह गोचरीक्रियमाण:, पूर्वतो वासनारूपेण स्थित: रत्यादिस्थायी रस:। अर्थात् यस्मिन् समये रत्यादिस्थायिभाव: अनुभूयते तस्मिन् समये, व्यञ्जनाख्येन अलौकिकव्यापारेण अज्ञानरूपस्य आवरणस्य निवृत्त्या आत्मस्वरूप: आनन्दोऽपि गोचरीक्रियते। ततश्च आत्मानन्देन सह गोचरीक्रियमाणो रत्यादिस्थायिभाव एव रस: इति पण्डितराजकृतलक्षणस्य आशय:।
पण्डितराजकृतलक्षणस्य विशेष:
पण्डितराजकृतस्यास्य लक्षणस्य विशेषस्त्विदमस्ति यदिदं प्रथमतया स मानवीयां मानसीं वृत्तिं विशिलष्यन् रसास्वादस्वरूपं विशदीकरोति। तस्याऽऽशयोऽयमेव यद् रसचर्वणायां य आनन्द: स किंस्वरूप इति जिज्ञास्यमाने तदिदमनुगन्तव्यं यत्सहृदयहृदये या भावप्रवणता संस्काररूपेण विराजते तद्बलाद् विभावादिचर्वणा गहनतया समुद्भवति, प्रथमतोऽन्त:करणे, तदनु रत्यादय: स्थायिभावाश्चित्स्वरूपस्याऽऽनन्दस्योपधात्वेन तत्सहचारिणो भवन्ति। तमुपगूहन्ति, ततश्च तत्तत्स्थाय्युपहिताऽऽनन्दद्वाराऽनुभूतिरर्थात् आनन्दानुभूतिरुपजायते। सा च किमाकारा? समाधाविव योगिन:। सर्वमिमं दर्शनानुगतं शब्दाटोपं लौकिकेनैकेन सुबोधेन वाक्यांशेन स्पष्टीकुर्वन् पण्डितराजो यद्वक्ति तत्कियत्सरलं सर्वजनबोध्यं चेति द्रक्ष्यन्ति भवन्त:। ''तन्मयीभवनमिति यावत्।’’ इदमेव हि रसानुभूतिर्यद् विभावादिचर्वणावशाच्चित्तवृत्तिस्तन्मया भवति। चित्तवृत्तिरिमन्त:करणवृत्तिरेवेत्यभ्युपगन्तव्यं स्यात्, मनसश्चित्तस्य बुद्धेश्चाऽन्त:करणत्वेनाभ्युपगमात्, किन्तु स्थाय्युपहितस्वरूपो य आनन्दांशोऽत्र विवक्षित: स नाऽन्त:करणवृत्तिरूप:। अलौकिकत्वात्तस्य। इत्थं च तादृशी तन्मयता यादृशी योगिनो भवति, रसस्य वास्तविकी मूर्त्रिरिति स्पष्टीकरणं पण्डितराजस्य प्रातिभं कौशलं व्यनक्ति।
सेयं तन्मयता ख्याति: सर्वविधं रसास्वादं व्याख्याति, सर्वविधं काव्यास्वादं प्रतिनिदधाति, सर्वविधं कलाऽऽस्वादमप्युपगूहतीति नापरोक्षं प्रेक्षावताम्। भग्नावरणाचिदेव रस इति विवृण्वन् पण्डितराजो रसस्य मौलं यत्स्वरूपं व्याख्याति तस्य त्रिकालाबाधितत्वं, सर्वदेशसङ्गतत्वं च स्फुटमेव। चित्तवृत्तेस्तन्मयीभवनमेवाद्वैतादिवेदान्तविधानां शब्देषु चिदंशआवरणभङ्गादिभिर्विविधै: पदैरभिव्यज्यते तेन। तन्मयीभवनं सर्वविधसौन्दर्यास्वादसाधारणमिति पण्डितराजस्य सुचिरमननमन्थनोद्गतनवनीतरूपम्। अत एव स मननतरितीर्णविद्यार्णव:।
अयं हि रसोऽलक्ष्यक्रमव्यङ्ग्य:। पानकरसन्यायेनाऽस्य सश्लिष्टा समन्विता च चर्वणा भवति किन्तु तत्तस्थाय्युपहितत्वादुपाधिभेदेन शृङ्गारादयोऽस्य भेदा उदाहृता: प्राग्भि:। अष्टावेव रसा नाट्येष्विति केचित्। अपरे नवरसानामनन्ति। नव्यास्तु भक्तिवात्सल्यादीनन्यानपि रसभेदानूचु:। सोऽयं विषयस्तेषु पाठ्यग्रन्थेषु सुशको द्रष्टुम् रसानामेषां काव्येषूपनिबन्धनं सुगृहीतनामधेयैर्बहुभि: कविभि: कृतमस्ति। पण्डितराजेनापि स्वनिर्मितैरेव पद्यैरुदाहृता: सर्वे रसभेदा:। अत्र निदर्शनविद्यया रसप्रभेदाऽऽधृतानि कतिपयानि मामकीनामनि पद्यानि प्रस्तुवनुपसंहरामि प्रबन्धमिमम्।
शृङ्गारो यथा
याता निजजनकनिकेतमपुयाता,पतिरुषति विदेशान् मति याता शपितोऽधुना।
श्वश्रूरियमन्धा, निशि शय्यायांनिमग्राभवेत्,देवरोऽपि कार्यप्रतिबन्धादयितोधुना।।
मञ्जुनाथ मेघमण्डलेन मेचकाभं नभो भवनेऽनेका न भो: सुस्था भयतोऽधुना।
क्षम्यतां दिनान्तसमयागत चतुर पान्थ विवशा नितान्तमहमावासे यतोऽधुना।।
अत्र स्वयं दूतिका नायिका सायंकालोपगतं कश्चित्पान्थं प्राप्य स्वाभिलाषं युक्त्या सूचयति। विभावानुभावा:, उत्कण्ठाचिन्तादय: सञ्चारिणश्च सर्वेऽपि सम्भूय, स्वयंदूतिकाया: पान्थालम्बनां रतिं व्यञ्जयन्तीति स्पष्टशृङ्गार:।
किन्तु यत्र विभाव:, केवलाऽनुभाव:, केवल: सञ्चारिभावा भवन्तित्तय: इतरद्वयस्य आक्षेपेण, विभावानुभावसञ्चारिणां त्रयाणां सहभावं सम्पाद्य शृङ्गाररसस्य अभिव्यञ्जनं स्वीकार्यम्। इति साहित्यकाराणां समय:।
केवलोऽनुभावो यथा-
नयनविलोक एव हृदयविलीनं प्रियं जानती न मौग्ध्याद् हृदयं च कुचबन्धुरम्।
ताम्यति नवीनरोमरेखया सहैव जातमेषा विदती न मानसस्य महदन्तरम्।।
सपदि सुसज्जसुखसदनेऽपि मञ्चगता मानसिकभावै: श्रिता पञ्चशरपञ्जरम्।
अधुनाऽनधीननवनायके निलीनमना दूयते नवीनमीननयना निरन्तरम्।।
अत्र हि अज्ञातयौवनाया मुग्धाया: प्रियानुरागे चेष्टादिकमेव प्रधानतया वर्ण्यन्ते। नायकरूपस्यालम्बनस्य, सञ्चारिणां च सुस्पष्टो न निर्देश:, इति प्रकरणवशात्तेषामाक्षेप: स्वतो भवति।
यथा वा- विरहिणी
कृशकरकञ्जशायिकोमलकपोलतला मुकुरमनञ्जनदृङ्मन्थरमवेक्षते
सदयसखीभिरुपनीतं वेषभूषादिकमुष्णमुच्छ्वसन्ती विपरीतं पर्यवेक्षते।
मञ्जुनाथ काञ्चनपिशङ्गदूनदेहलता मनुजगतागतेषु तमिव प्रतीक्षते
निबिडनिबद्धामेकवेणीमियमन्यमना वारं वारमेणी चलनयना निरीक्षते।।
अत्र विरहिण्या विषादेन स्थिति:, उष्णोच्छ्वासा:, प्रियतमस्य मार्गनिरीक्षणम्, जटीभूतकेशानां वारं वारमालोकनं चेत्यादय: अनुभावा एव प्रधानतया वर्णिता:। आलम्बनविभावसञ्चारिणौ च प्रकरणाद् आक्षेप्यौ।
केवलो विभावो यथा-
कज्जलमलिनजलवाहकनिबिडघटा गाहते गगनतटान्तमतिगहना
पुष्पितकदम्बवनवीथीगन्धवाहिनीयं वाति वायुलहरी समिद्ध कामदहना!
श्यामलजलदशतचञ्चला चमत्कुरुते निकषनिहितहेमरेखा रुचिवहना
नायकविरहपञ्चसायकविकलमना नेक्षते नवीनवधूरम्बरमसहना।।
अत्र विरहिण्या: कृते मेघाडम्बरादिरुद्दीपनविभाव एव प्रधानतया वर्ण्यते।