बिल्हणस्य काव्यकला
बिह्लणकाव्यं सरसं सरलं च। काव्ये वैदर्भी रीति:। माधुर्यव्यञ्जिका ललिता रचना च वैदर्भी नूनम्। प्रसादगुणोऽपि बहुत्र। साधारणोक्तया सर्वमेव काव्यं काव्यसाहित्ये निजविशेषं पुष्णाति, किन्तु आहवमल्लस्य मृत्यु:, मदमत्तस्य सोमेश्वरस्याऽनीति:, वर्षादिवर्णनमत्युत्तम्।
काश्चिदुक्तयो यथा-
'प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रम: श्लाघ्यतम: पदानाम्।
अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि।।’ १/१५
कल्याणनगरकामिनीवर्णनं यथा-
अविस्मृतत्र्यम्बकनेत्रपावक: स्मर: स्मितेन्दीवरदीर्घचक्षुषाम्।
विलासपीयूषनिधानकुम्भयोर्न यत्र वासं कुचयोर्विमुञ्चति।। २/१९
विक्रमगर्भावस्थायां मातुर्वर्णनम्-
निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयो: सुधा।
यदुत्पलश्यामलमाननं तयो: सलाञ्छनच्छायमिव व्यराजत।। २/६३
सोमेश्वरस्य मदो यथा-
'मदिरेव नरेन्द्रश्रीस्तस्याभून्मदकारणम्।
न विवेद परिभ्रष्टं यदशेषं यशोऽशुकम्।। ४/९८
स जातु जातुषीं मेने मन्ये नरपतिश्रियम्।
एतद्गलनभीत्येव क्षात्रं तेजो यदत्यजत्।। ४/१०४’
मलयानिलानां दक्षिणत: प्रयाणकल्पना-
'कृतकोपा: पवनाशनानां निवासदानादिव पन्नगानाम्।
विनिर्ययुश्चन्दनशैलकुञ्जादाशामुदीचीं प्रति गन्धवाहा:।।’ ७/५
वसन्ते रवेरुत्तरदिग्गमनम्-
'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्।।’ ७/६
नायिकाया नेत्रे-
'मृगी सम्बन्धिनी दृष्टिरसौ यदि न सुभ्रुव:।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कुत:।।’ ८/७२
सन्ध्यावर्णनम्-
'भानुमानपरदिग्वनिताश्चुम्बति स्म मुखमुद्गतराग:।
पद्मिनी किमु करोति वराकी मीलिताम्बुरुहनेत्रपुटाऽभूत्।।’ ११/९
कान्ताकचैर्बर्हिबर्हपराभवो यथा-
'द्विषन्ति राजीवमुखि स्वजीवितं ध्रुवं मयूरास्तव निर्जिता: कचै:।
भवन्ति यद्वासवत्तापसम्मुखा: शिलीमुखप्राप्तिसमुत्सुका इव।।’ १३/२७
हेमन्ते पद्मिनीदाहो यथा-
'मद्वैरिण: कठोरांशोरियं प्रणयभूरिति।
रोषादेव तुषारेण निरदह्यत पद्मिनी।।’ १६/१४
नायिकास्तनौ-
'कुम्भौ सदम्भौ करिणां कलशौ मन्दकोशलौ।
चक्रवाकौ वराकौ च तदीयकुचयो: पुर:।।’ ८/४६
'मुखेन्दुचन्द्रिकापूरप्लाव्यमानौ पुन: पुन:।
शीतभीताविवान्योऽन्यं तस्या: पीडयत: स्तनौ।।’ ८/४७
'सा धारयत्यधीराक्षी दुर्बहं स्तनमण्डलम्।
गर्वपर्वतमारूढश्चित्रं कुसुमकार्मुक:।।’ ८/९
वलयावलि:-
'कृशाङ्गया: कुचभारेण दूरमुत्सारितौ भुजौ।
वहत: कलहायेव वाचालां वलयावलिम्।।’ ८/६३
'अस्त्यप्रतिस्वमाधेयं स्तनद्वन्द्वस्य दूषणम्।
स्फुरतां कञ्चुकानां यन्नायात्यावरधीयताम्।।’
त्रिवली-
'दरिद्रमुदरं दृष्टा चक्रे लावण्यपूर्णयो:।
पन्थानं स्तनयोस्तस्यास्त्रिवली विषमं विधि:।।’ ८/३७
कङ्कणम्-
'गौराङ्ग्या भुजलावण्यमीलितं हेमकङ्कणम्।
कण्ठाश्लेषे वयस्याभि: काठिन्यादन्वमीयत।।’ ८/५७
नेत्रे-
'श्रूयतां कौतुकं सोऽपि स्मर: शृङ्गारिणां गुरु:।
अमुष्या: शिष्यतामेति श्रवणोन्मुखयोर्दृशो:।।’ ८/७३
दोलाविलासेषु कान्तानां या मुधरिमा स साक्षान्मनसिजेनैव वर्णयितुं शक्यो न
कविना।
'सौन्दर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्ललास।
यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभू:।।७/२०
यथा वा -
'प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकपल्लवानाम्।
मनोरथानामपि यन्न गम्यं तद्द्रष्टुमापु: सुदृशां युवान:।।’ ७/२२
परलोकगतस्य राज्ञ: कृते विलापोक्ति:-
'दिग्गजास्त्यजत स्वैरक्रीडाविहरणाऽऽदरम्।
सम्भूय भूय: सर्वेऽपि धारयन्तु धरामिमाम्।।
बाहुराहवमल्लस्य सुवर्णस्तम्भविभ्रम:।
पुरन्दरधुरां धर्तुं धात्रा व्यवहित: कृत:।।’ ४/७५,७६
'पद्मे! पद्माकरानेव पुन: सद्मत्वमानय।
अयं त्वया पतिभ्रंशसन्तापोऽन्यत्र: दु:सह:।।’ ४/७९
शोकग्रस्तस्य विधातारं प्रत्युपालम्भ:-
'अपूर्व: कोऽपि दुर्मेधा: शङ्के वेधी: समुत्थित:।
पुराणक्लेशनिष्पन्नां स्वकृतिं नाशयेत्कथम्।।’ ४/८१
'विधास्यति कथं धाता सर्गरत्नं तथा विधम्।
कथं वा संघटिष्यन्ते तादृशा: परमाणव:।।’ ४/८४
राज्ञो विजययात्रया समुद्रादीनां क्षोभवर्णनं यथा-
'अन्विष्यन्मरणोपायं दु:खात्तत्सैन्यलुण्ठित:।
कालकूटं हरग्रस्तं शुशोच पयसां निधि:।।’ ४/१६
'शिलाभि: करटिक्षुण्णश्रीखण्डस्यन्दपाण्डुभि:।
मलयस्तद्वलक्षोभादस्थिशेष इवाभवत्।।’ ४/१०
उभयपार्श्वे निष्पीडनादेव कटे: कृशता, यथा-
'स्तनौ भारार्पणव्यग्रौ, काञ्ची कलकलोन्मुखी।
कस्यां दिशि न मध्यस्य तस्या: काश्यं सहेतुकम्।।’ ८/४०
शोभावर्णने भङ्गया प्रेाक्ति:-
'लम्भिता: कदलीस्तम्भास्तदूरुभ्यां पराभवम्।
अत्यन्तमृदुभिर्लब्धो जडै: क्व जयडिण्डिम:।।’ ८/१५
दोलारूढलोलाक्षदर्शने नेत्रयोर्द्विकोशमार्गभ्रमणस्येव श्रम:-
'समुद्वहन्त्योस्तदथायताक्षीदोलाविलोलाननमार्गसख्यम्।
दृशो: क्षितीन्द्रस्य गतागताभ्यां गव्यूतिमात्रं भ्रमणं बभूव।।’ १०/३६
श्रीहर्षस्य (नैषधचरितनिर्मातु:) यथा कल्पना क्वचिल्लोकसीमानमुल्लङ्घयति, तथा बिह्लणस्यापि-
'न राजकपिभिरदृश्यतोर्वी स्तनद्वयेनाधिकमुन्नतेन।
हंसास्तुलाकोटिनिनादकृष्टा: पुण्यै: पदन्यासपदं न जाता:।।’
'तन्नितम्बस्य निन्दन्ति वृद्धिं परिजनाङ्गना:।
काञ्चीनवनवग्रन्थिग्रथनेन कदर्थिता:।।’ ८/२१
'अपर्याप्तभुजाऽऽयाम: सखेदोऽस्या: सखीजन:।
श्रोण्यां कथञ्चित्कुरुते रशनादामबन्धनम्।।’ ८/१९
कल्पनाप्रवाहे वहतां कवीनां रूपवर्णनमपि विरूपमिव दृश्यते क्वचिद्। यथा बिल्हणस्य-
' नाभिसङ्गेन गौराङ्गया: शोभते रमिमञ्जरी।
कन्दर्पहेमकटकीलाक्षाधारेव निर्गता।।’ ८/२६
रोमालीवर्णने कल्पनासामञ्जस्यं यथा-
'लिखन्त्या: कामसाम्राज्यशासनं यौवनश्रिय:।
गलितेव मषीधारा रोमाली नाभिगोलकात्।।’ ८/३९
गोलकपदं त्वत्रापि वैरूप्यमिवोपस्थापयति। अन्यायन्यकाश्मीरकाणां 'लटमवनिता’ इत्यादिप्रयोगवत् 'लटमश्रू:’ इति प्रयुङ्क्ते बिल्हण:-
'तस्या: पदनखश्रेणि: शोभते लटमभ्रुव:’ ८/६
प्रसादगुण सौन्दर्येऽपि वर्णमैत्रीयभयं वर्णनं स्थाने स्थाने। यथा-
'अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम्।
अङ्गीकरोति तन्वङ्गी सा विलासमयं वय:।।’ ८/५
साहित्यदर्पणाद्युदाहरणेषु यथा प्रसिद्धम्-
'मल्लिकामुकुले भाति गुञ्जन् मत्तमधुव्रत:।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव।।’ इति
'कुचद्वये चकोराक्षी चिबुकप्रान्तचुम्बिनि।
नार्मोक्तिषु न शक्नोति स्थातुं लज्जानताना।।’ ८
तदनुहारिवर्णनं यथा-
'लग्नद्विरेफ ध्वनिपूर्यमाणं वासन्तिकाया: कुसुमं नवीनम्।
आसादयामास वसन्तमासजन्मोत्सवे मङ्गलशङ्खलीलाम्।। ’ ७/४१
विपिनस्थलीनां कान्तो वसन्तो वर्णित एव पूर्वैर्यत्र वक्राणि पलाशानि नखक्षतानीवाऽराजन्त। यथा कालिदासस्य-
'बालेन्दुवक्राण्यविकासभावाद्वभु: पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्।।
किन्तु वनस्थलीनां बालको वसन्त इति सुमधुरमाह बिल्हण:-
'नवीनदन्तोद्गमसुन्दरेण वासन्तिकाकुड्मल निर्गमेन।
उत्सङ्गीसङ्गी विपिनस्थलीनां बाली वसन्त: किमपि व्यराजत्।।’ ७/३४
सोऽयमर्थोऽस्मत्पूर्वजैर्व्रजभाषाकवितायामपि सम्यगाबद्धो यथा-
'डार दुमपालक: बिछौना नव पल्लव के
सुमन झगूला तेई तन छबि भारी दै।
पवन झलावैं केकी कीर बहरावैं मिलि
कोकिल हरखि हुलरावैं कर तारी दै।
पुहुप पराग सो उतार करैं राईलोन
कुञ्जकली-नायिका लतानि सिर सारी है
मदननरेस जू को बालक बसन्त ताहि
प्रातहि खिलावत गुलाब चटकारी दै।।’
साम्प्रतिका देशाभिमानिन: समालोचयन्ति यत्संस्कृतविदुषां हृदि नाभिमानो निजदेशस्य, न च सम्मानो जन्मभूमे:। किन्तु वराकास्ते न परिचिता: प्राचीनसाहित्यस्य। निजकृतिभिरार्यावर्तमिमं चिरायाऽमरीकुर्वन्त: संस्कृतकवयो मञ्चमारुह्य न केवलं मौखिकवार्ताभिरेव, अपितु आचन्द्रतारकं स्मरणीयेषु निजकाव्येषु निजजन्मभूमेरभिमानं तथा चित्रयामासुर्यथा समग्रमपि शिक्षितं जगत्तेषां देशाभिमानस्य सम्पद्येत सर्वदैव साक्षि। विद्यापतिर्बिल्हणं स्थाने स्थाने निजदेशस्य काश्मीरस्य प्राकृतशोभासौभाग्यकवितागुम्फ गौरवं च साभिमानमुपन्यस्यति-
'सहोदरा: कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासा:।
न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोह:।।’ १/२१
'काव्यं येभ्य: प्रकृतिसुभगं निर्गतं कुङ्कुमं च
च्छायोत्कर्षाद्भवति जगतां वल्लभं दुर्लभं च।
यस्मिन्नन्त: स्थितवति जगत्सारभूते प्रयाता:
काश्मीरास्ते नियतमुरगाधीशरक्षास्पदत्वम्।।’ १८/१६
निजजन्मभूमे: 'खोनमुखग्रामस्य’ गौरवं साभिमानोत्कर्षमाह-
'बू्रमतस्य प्रथमवसतेरद्भुतानां कथानां
किं श्रीकण्ठश्वशुरशिरवरिक्रोडलीलाललाम्र:।
एको भाग: प्रकृतिसुभगं कङ्कुमं यस्य सूते
द्राक्षामन्य: सरससरयूपुण्ड्रकच्छेदपाण्डुम्।।’ १८/७२
काश्मीरककवितागुम्फ नस्य मृद्वीकागुच्छकस्य च पीयूषसाम्यं सूचयन् सुललितमाह स:-
'मन्ये मन्थाचल विदलितान्निर्गता दुग्धसिन्धो-
र्भूत्वा यस्मिन्नमृतलहरी सत्कवीनां वचांसि।
प्रेमाकूतं कुवलयदृशां शीकरै: पूरयन्ती
द्राक्षाखण्डेष्वमृतकिरणा पाण्डुषु स्थैर्यमाप।।’ १८/७
संस्कृतसरस्वत्या: का कथा, काश्मीरेषु हिन्दीभाषाविदोऽपि सम्प्रति विरलायन्ते, अन्यथा 'पण्डिते’ ह्युपाधिमात्रमण्डिता: काश्मीरकब्राह्मणा यवनभाषायाम् (उर्दू) यवनलिप्यामेव चात्मानमवलिप्तं कलयन्ति, तेष्वेष काश्मीरेषु पुरुषास्तु दूरत: स्त्रीणामपि संस्कृतभाषा प्राकृतभाषा च जन्मभाषावत्प्रतिगृहमासीदिति सगर्वाभिमानमुल्लिखति बिह्लण:-
'ब्रूम: सारस्वतकुल भुव: किं निधे: कौतुकानां
तस्याऽनेकाद्भुतगुणकथा कीर्णकर्णामृतस्य।
यत्र स्त्रीणामपि किमपरं जन्मभाषावदेव
प्रत्यावासं विलसति वच: संस्कृतं प्राकृतं च।।’ १८/६
किं बहुनां, कायस्थानां कुटिलां लिपिं सोऽयं प्रत्यक्षं निन्दति। किञ्च नवीनमिदं कौतूहलमुत्पादयति यत् काश्मीरक कविभिर्यान्येतानि राजचरितान्यङ्कितानि कवितानिबन्धेषु, न तानि बन्दिनामिव केवलं स्तुतिकाव्यानि नूनम्। प्रत्यक्षस्तुतिपाठका: केवलं गायका एव पुरा आसन्, न केऽपि कवय इति साभिमानोद्रेकमात्मन: कविताया उत्कर्षं ध्वनयति सोऽयम्-
'नो कायस्थै: कुटिललिपिभिर्नो विटैश्चाटुदक्षै-
र्न प्रत्यक्षस्तवनपटुभिर्लुण्ठिता गायकैश्च।
देवागारद्विजगुरुगृहाण्येव यत्सङ्गृहीता
याता लक्ष्मीर्निजचपलता दोषशुद्ध्यर्थिनीव।।’ १८/४२
कालिदासादिप्राचीनकवीनामपेक्षयापि क्वचित्क्वचिद्विषये विशेषाभिमानमावहति बिह्लणो नूनम्। अस्मत्प्रबन्धानामेव मार्मिकपरीक्षका: सुतरां विरला इति भूयस्तरामभिमानोक्तिम् आह स:-
'रसध्वनेरध्वनि ये चरन्ति सङ्क्रान्तवक्रोक्तिरहस्यमुद्रा:।
तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषा: शुकवाक्यपाठम्।।’ १/२२
कालिदास: सविनयं यत्र निजकाव्यपरीक्षां प्रार्थयते-
'तं सन्त: श्रोतुमर्हन्ति सदसद्व्यक्तिहेतव:।
हेम्न: संलक्ष्यते ह्यग्नौ विशुद्धि: श्यमिकाऽपि वा।।’ इत्यादि,
तत्र हि सगर्वविभासो बिह्लणस्य वाग्विलास:-
'अलौकिकोल्लेखसमर्पणेन विदग्धचेत: कषपट्टिकासु।
परीक्षितं काव्यसुवर्णमेतल्लोकस्य कण्ठाभरणत्वमेतु।।’ १/२४
मम कृतयो निकषपरीक्षोत्तरं मार्मिकाणां निधिस्थानापन्ना एव भवितार इति परीक्षात: पूर्वमेव स्थिरीकुर्वन्नाह बिल्हण:-
'उल्लेखलीलाघटनापटूनां सचेतसां वैकटिकोपमानाम्।
विचारशाणोपलपट्टिकासु मत्सूक्तिरत्नानि निधीभवन्तु।।’ १/१९
रसध्वनिपूर्णवक्रोक्ति काव्यरचनागर्वं स्वमुखत एव केवलं न प्रकटीकृतवान्बिल्हणो यावत्स्थाने स्थाने कार्यरूपेऽपि तं परिणमितवान्। यथा हि विक्रमस्य वीर्यमभिव्यज्यते पाटवेन-
'चोलान्त: पुरगेहेषु सिंहानां तस्य बाहुना।
लोललाङ्गूलददण्डानां द्वाररक्षा समर्पिता।। ४/२५
चिन्तया दुर्बलं देहं द्रविडो यत्पलायित:।
सङ्कटार्दिदरीद्वारप्रवेशे बह्वमन्यत।। ४/२६
दृश्यन्तेऽद्यापि तद्भीतिविद्रुतानां द्रुमालिषु।
अलकाश्चोलकान्तानां कर्पूरतिलकाङ्किता:।।’ ४/२७ इत्यादि।
अतएव नैषधसदृशान्यपि काव्यानि निजालोचनानिकषे 'विसङ्कुलानि’ साधितवान् पण्डितराजो जगन्नाथो भूयस्सु स्थलेष्वलङ्कृतकाव्योदारणेषु बिह्लणसूक्तीरेव सन्तोषत: समालोचितवान्। यथा-निदर्शनायाम्-
'तत्पादनखरत्नानां यदलक्तकमार्जनम्।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो:।।’ ८/९
उत्पे्रक्षायाम्-
'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ता:।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि।।’ १/११९
अस्तु-एवमादिसामर्थ्योपबृंहितां गर्विष्ठमनोवृत्तिं चित्रयन् बिल्हणप्रशस्तिविषयक: 'सुभाषितरत्नभाण्डागारे’पि श्लोक एक: प्राप्यते-
'बिन्दुद्वन्द्वतरङ्गिताग्रसरणि: कर्ता, शिरोबिन्दुकं
कर्मेति प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नम:।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरा-
मुल्लेखै: कवयन्ति बिह्लणकविस्तेष्वेव सन्नह्यते।।’
बिह्लणस्य ग्रन्थौ
बिह्लणस्यास्य द्वावेव प्रबन्धावुपलब्धौ पञ्चाशिका च विक्रमाङ्कचरिते च। पञ्चाशिकाया: पञ्चाशत्स्वपि पद्येषु, आद्ये 'अद्यापि’ इति विद्यते। चेदयं कथानक: सत्यस्तर्हि प्राणोत्क्रमणकाले न कस्यापि शृङ्गारविलासे मनो भवति। लेशतोऽप्युद्वेजकशून्ये मनसि मनसिजोद्गमो भवतीति साहित्यविदो विदु:। किन्तु 'अन्ते स्मरामि’ इति निमीलनवेलायामपि प्रणयविकास: कविताविलासश्च महाधृतेर्बिल्हणस्यैवातिशय:। अस्या: पञ्चाशिकाया अन्तिम: श्लोको ह्यबालवृद्धं प्रसिद्ध: प्रसेधयति पञ्चाशिकामेनाम्। यथा हि-
'अद्यापि नोज्झति हर: किल कालकूटं
कूर्मो बिभर्ति धरणी खलु पृष्ठभागे।
अम्भोनिधिर्वहति दु:सहवाडवाग्नि-
मङ्गीकृतं सुकृतिन: परिपालयन्ति।।’
बिल्हणकाव्यम्
काव्यमालात्रयोदशगुच्छके 'बिल्हणकाव्यम्’ इति कृतशीर्षकं पुस्कमेकमवाप्तम्। ग्रन्थोऽयं नाम्नात्रयं बिह्लणकृति:, किन्तु काव्ये तृतीयपुरुषरूपेण बिह्लणस्य वर्णनम्। च्युतसंस्कृतिदोषोऽत्र स्थाने स्थाने। विद्यासुन्दरा 'दिकाव्यानामपि- 'नीतानि नाशं जनकात्मजार्थे दशाननानि’ इत्यादिपद्यान्यप्यत्रोपलभ्यन्ते। कानिचित्पद्यानि परस्ताद्भाविनां कवीनामप्यत्रोपलब्धानि ततश्च काव्यमिदं केनचिदन्येनैव सङ्गृहीतम्, न बिल्हणेनेति बलादेव निश्चेतव्यं भवति।
बिह्लणस्य शशिकलायाश्चाख्यानकमस्त्यस्मिन्नपि काव्ये। आसीद् गुर्जरे महिलपत्तनम्। तत्रत्यो राजा निजसुताया: पाठनार्थं पण्डितमेकं प्रतीक्षते स्म। तत्रत्यो राजपुरोहित: काश्मीरकवेर्बिल्हणस्य परिचयं कारयामास राज्ञा। पाण्डित्यप्रीतो राजा बिह्लणमध्यापकं चकार निजसुताया:। अतएव 'स्तोकै:श्रमै: शशिकला विदुषी बभूव।’ ततो बिह्लण: कामशास्त्रमध्यापयामास। सा 'पूर्वजन्मपत्नी’ कामशास्त्रं पठन्त्येवाऽनुरक्ता, अत एव बभूव द्वयोर्गान्धर्वविवाह:।
बिल्हणकाव्यस्यैकस्मिन् प्रतिपुस्तके घटनाया: स्वरूपमेवमुपलब्धं यद् राजा बिह्लणस्य हस्ते निजपुत्र्या हस्तं समर्प्य 'अध्याप्यतामियम्’ इति सस्नेहं प्रार्थयते। अत एव शिष्याध्यापकयोर्मध्ये कृताऽवगुण्ठनम्। किन्त्वेकस्मिन्पुस्तके शशिकला अवगुण्ठनवती, शिष्याध्यापकयोर्मध्यतो 'जवनिका’ विलम्बते। एकदा बिह्लणो बभाषे-
'जातं सुजन्म विफलं भुवने नलिन्या दृष्टं यया न विमलं तुहिनांशुबिम्बम्।
यावच्छ्रुतं सुवचनं सुकवेस्तदित्त्थं किञ्चिद्विहस्य तुहिनांशुकला बभाषे।।’
चन्द्रकला-
'दृष्टानि कोकमिथुनानि भवन्ति, यैश्च
सूर्यांशुभिर्जगदिदं निखिलार्थमेति।
सम्पूर्णतापि शशिन: किल निष्फलैव
दृष्टा यया न नलिनी परिपूर्णरूपा।।’
एतदनन्तरं द्वयोर्मेलनम्। बिह्लणस्याध्यापकत्वे समभूद्राजपुरोहितो वराक: प्रतिभू:। अत एव तदिदं रहस्यं परिज्ञाय सुतरां न्यषेधद्राजपुरोहित:। परं प्रणयप्रवणो बिह्लणो नेदमकार्षीत्कर्णे रहस्यमिदमवगतं राज्ञा। शूलारोपणस्याज्ञा प्रादीयत राज्ञा प्रकुपितेन। बिह्लणे दयमाना: शूलारोपका: ईष्टदेवं स्मर्तुमसूचयन् बिल्हणम्। बिह्लणेनोक्तं मे इष्टदेव: शशिकला। अत एव तस्मिन्नैव समये पञ्चाशिकाया निर्माणम्। गुणग्राहकाणां दर्शकश्रावकाणां बभूव प्रगाढप्रीतेरुपरि विस्मयश्च विषादश्च। असूच्यत राज्ञे सर्वाऽपि परिस्थिति:। राजमहिष्या अपि समदीयत सूचनाऽन्त:पुरमहिलाभि:। समसूच्यत चन्द्रकलाया अपि प्राणत्यागेच्छाराजमहिष्यै। प्रासादात्पतित्वा राजकुमारी प्राणान्विसृजेदिति। अवर्ण्यत नितरामुभयो: प्रीति:। राज्ञी द्वयो: प्रणयं जानती हत्याकाण्डादकम्पत। सा सर्वमिदं राज्ञे निवेदयामास। राजा पुरोहितादिभिर्मन्त्रणां विदधौ। अन्ते राजपुरोहितादीनां परामर्शेन अपराधक्षमोत्तरं समभूद् द्वयोर्विवाह:। निजं गौरवमभिरक्षता भूभृता समदीप्यन्त शतं ग्रामा:, भूयस्तमं हस्तितुरगादियौतकजातं च।
प्रतीयते यत् श्रुताया: प्राचीनाख्यायिकाया उपरि कस्यचित्कवे: सेयं कृति: निर्माणकालस्य कर्त्रादेश्च न किञ्चिद्ववर्णनम्। अन्यान्यपुस्तकानां प्राप्तिघटनाऽपि काव्यमालायां प्रायो निरदिश्यत तत्सम्पादकमहाभागेन। किन्तु तदिदं पुस्तकं कुत: समवाप्तमिति न किञ्चिन्निर्दिष्टं तत्रापि। बिह्लणविषये घटनाया अमुष्या: सन्निवेशमुत्प्रेक्षमाणै: सेयमपि किंवदन्ती समुद्धृतास्तीति जाने। आख्यायिकायां प्रोक्तं बिह्लणाय शतग्रामप्रदानमपि न घटते। एवं चेत्कर्णाटादि दक्षिणप्रान्तेषु किमित्याहिण्डेत कवि:? स्वयमेव धनाधीशो भूत्वा कवीनां कल्पवृक्ष: कुतो न स्यात्?
ऐतिहासिकं विवरणम्
'बम्बई गजेटियर’ इत्यनेन तथा गवेषणायुक्तकैर्ज्ञायते यच्चालुक्यवंशीया: प्रावर्द्धन्त भारतस्य दक्षिणप्रान्ते। द्वे शाखे तावद्वंशस्यास्य-पूर्वकालिकी उत्तरकालिकी च। पूर्वस्या राजधानी वातापिपुरम् (बादामी) (बीजापुरप्रान्ते)। एतच्छाखाया: प्रथमो राजा जयसिंह: (ख्रिष्टीयषष्ठशतके)। सर्वेषामन्तिम: कीर्तिवर्मा (द्वितीय:)। ख्रिष्टस्य ७४७ तमे वर्षे शाखाया अस्या: समाप्ति:। एतच्छाखायां सर्वत: प्रतापी द्वितीय: पुलकेशी, यो हि कान्यकुब्जेशं हर्षं पराजिज्ञे। सार्वभौमगौरवं चायमुपलेभे। ९० सहस्रग्रामाधिपति:, अस्यैव शासनकाले चीनदेशीयो ह्यान्साङ्गो भारतमुपेत:। अनेन हि पुलकेशीमहत्त्वं विस्तृत्य वर्णितम्। अस्या: शाखाया: सक्षमो राजा विक्रमादित्य: (प्रथम:)। अस्य राजत्वे वंशस्य शाखा गुर्जरदेशस्य अनहिलपट्टने स्थापिता। जयसिंहराजस्तत्रत्य: प्रथमो राजा। गुर्जरदेशेऽस्य वंशस्य द्वित्रा: शाखा: समभवन्। अष्टमशतके चान्त:। ख्रिष्टीय ७५३ तमवर्षत: पूर्वकालिकश्चालुक्यानामधिकारो राष्ट्रकूटराजेन दन्तिदुर्गेण हृत:। एतदनन्तरं महाराष्ट्रे राष्ट्रकूटसत्ता प्रसृता।
महाराष्ट्रे राष्ट्रकूटसत्ता २०० वर्षाणि। एतदन्तराले चालुक्येषु न कोऽपि नामाङ्कितो बभूव भूपाल:। दशमशाताब्द्यां चालुक्यवंशीयस्तैलपो राष्ट्रकूटवंशजात् कक्कलराज्ञत: सार्वभौमत्वमाच्छिद्य उत्तरकालिकीं चालुक्यवंशीयां शाखां स्थापयामास। अस्यां हि सम्पूर्णा एकादश राजानो बभूवु:-
१. तैलय:
२. सत्याश्रय:
३. विक्रमादित्य: (१)
४. जयसिंह:
५. सोमेश्वर: (१) (उपनाम आहवमल्ल:)
६. सोमेश्वर: (२)
७. विक्रमादित्य: (२) (उपनाम विक्रमाङ्क:)
८. सामेश्वर: (३)
९. जगदेकमल्ल:।
१०. नूर्मडि तैलप:।
११. सोमेश्वर: (४)
अन्तिम: सोमेश्वर: ख्रिष्टीय ११८२ त: ११८९ तमवर्षपर्यन्तं राज्यं चकार। एतदनन्तरं दक्षिणप्रान्तस्य सार्वभौमत्वं यादववंशीयानां हस्तगतमभूत्।
विक्रमाङ्कोऽयमुत्तरकालिकचालुक्यशाखाया: सप्तमो राजा। अयं १०७६ तमख्रिष्टीयवत्सरत: ११२६ तमवर्षपर्यन्तं शशास राज्यम्। एतत्पितुर्नाम सोमेश्वर:, परं स आहवमल्लनाम्ना विख्यात:। एतदेव बिह्लणोऽपि लिलेख। केनचित् शिलालेखेन 'त्रैलोक्यमल्ल’ इत्युपाधिरपि परिज्ञायते। अयमेव कल्याणनगरीं वासयामास।
सोमेश्वरजयसिंहयोर्विषये बिह्लणेन यल्लिखितं तस्य भूयानंशस्ताम्रपत्रशिलालेखै: प्रमाणितो भवति। बिह्लणेन लिखितम्-'आलुपराजोऽपि अधीनतां स्वीचकार।’ तदिदमालुपनगरं अर्वाचीनम् 'अलुपै’ इत्यनुमीयते। 'अलुपै’ मलाबार समुद्रतटे एक: प्रान्त:।
विक्रमाङ्क: पञ्चाशद्वर्षाणि राज्यं शशास। स 'कालिविक्रम’ 'परमाडिराय’ 'परमर्द्दिदेव’ इत्युपाधीन् दधार। स हि शकसंवत्सरस्थाने निजसंवत्सरं प्रचारयितुमियेष परं न परिचचाल स:। यस्याश्चन्द्रलेखाया: स्वयंवरवर्णनं बिह्लणश्चकार तस्या: 'चन्दलदेवी’ति शिलालेखेषु नाम। सोऽयं विक्रमो विदुषामाश्रयदाता। बिह्लणातिरिक्ता अन्येऽपि महाविद्वांसोऽस्याश्रिता बभूवु:, येषु याज्ञ्यवल्क्यस्मृतिटीकाया मिताक्षराया: कर्ता विज्ञानेश्वरभट्टोऽपि बहूनां परिचित:। मिताक्षराया: समाप्तौ त्रीणि पद्यान्यनेन दत्तानि। यै:- 'जगति कल्याणसदृशं न नगरम्, विक्रमादित्यसमो न राजा, विज्ञानेश्वरसम: पण्डितो न। यावच्चन्द्रदिवाकरं विक्रमो जीवेत्। एष हि याचकेभ्य: स्वच्छन्दं धनं दत्ते। विष्णुं ध्यायति। अयं षड्रिपूनजयत्। पश्चिममारभ्य पूर्वसमुद्रान्ता: सर्वे राजानोऽस्याधीना:।’ 'इति नगर्या राज्ञश्च प्रशंसनमवगम्यते। ततश्च स्पष्टमनुमीयते यद् बिह्लण-विज्ञानेश्वरयोराश्रयप्रदातामहाप्रतापी विक्रमो विक्रमाङ्कान्नान्य:। एतत्सामयिका: २०० शिलालेखा:, ये बिह्लणसूचितमितिहासं समर्थयन्ते।
चरितकाव्यनिर्माणम्
पुरा संस्कृतप्रचारो देशे भूयानासीत्। अनेके विद्वांस: संस्कृतपारङ्गता: स्वयश: ख्यापयामासुर्दिग्दिगन्तरेषु। नानाविषयकान् ग्रन्थान्निर्माय देशस्यास्योपकारेण सह स्वनामधेयमप्यजरामरं चकु्र: राजानोऽप्यनेके निजाश्रये पण्डितान्पुपुषु:, ये हि जीविकाचिन्तातो निवृत्ता: स्वजीवनं शास्रावलोकननिर्माणादिना चिराय कृतार्थयामासु:। तदा हि नासीत्कोऽप्येतादृशो माण्डलिको यस्याश्रमे द्वित्रा: पण्डिता: कवयो वा न स्यु:। एवं स्थितेऽपि संस्कृतसाहित्ये चरितकाव्यान्यतीव विरलानीति चित्रम्। यदि संस्कृतकवयश्चरितकाव्यान्यलेखिष्यँस्तर्हि भारतीयमिदमितिवृत्तमपूर्णं नाऽस्थास्यत, यत्र हि वैदेशिका नानाविधान् भ्रमपूर्णानात्मप्रयोजनसाधकान् वृत्तान्तानुपक्षिप्य स्वमनीषितमितिहासं समर्थयन्ते। यदि ते स्वाश्रयदातृणामेव चरितं निजग्रन्थेष्वसूचयिष्यन् तर्हि इतिहासविषये समभविष्यद्भूयसी सहायता। किन्तु मोगलादीनां राज्योत्कान्त्यादिभिरनुमीयते यत् एवंविधानि चरितकाव्यानि राजविप्लवे नष्टानि।
अथवा यदि तैरेवंविधानि काव्यानि न प्रणीतानि तर्हि तत्र मानुषचरितेषु प्राचामनास्थैव परमं कारणम्। प्राञ्च: कवय: पौराणिकमहापुरुषानेव काव्यनायकतया सम्मानयन्ति स्म तेषामेव च कीर्तनेन निजलेखनी कृतार्थयन्ति स्म।
लौकिकपुरुषाणां काव्यकीर्तनं तेषां दृष्टौ 'वाचो विग्लापनं हि तत्’। अत एव हि पौराणिकान्पुरुषानालम्ब्य सहस्रश: काव्यानि च नाटकानि च प्रणिन्यिरे उपलभ्यन्ते चापि तानि, किन्त्वितरेषामङ्गुलिगणनीयानि नूनम्। यानि च चरितानि लिखितान्यपि, तान्यपि मनुष्यचरितेषूपेक्षावशान्न कैश्चित्प्राचारितानि। तत्पुस्तकानि ग्रीष्मवर्षादिषु यथास्थितं नष्टानि।
प्रकृतचरितस्यालोचना
प्रकृतमिदं चरितम् (विक्रमाङ्कदेवचरितम्) जीवनचरितेषु गण्यते परं तत्सामग्री अतीव विरला अलङ्कारशास्त्रनियमानुसारम् ऋतु-जलविहार-वाटिका-सायं-प्रातरादीनां वर्णनैरेव काव्यमिदं पूरितम्। अष्टादशसर्गाणां स्थाने अष्ट-नवसर्गैरेव काव्यमिदमपूरयिष्यत, यदि नियमानुवर्तनमात्रे दृष्टिर्नाभविष्यत्। सप्तम-त्रयोदशसर्गौ तु सुस्पष्टमनावश्यकौ चरितचित्रणे। तयोरभावेऽपि न काचिच्चारिर्त्राऽपूर्णता प्राप्स्यत। परम् ऋतु-नायिकारूपवर्णनं महाकाव्यलक्षणमुक्तम्। आरम्भादन्तपर्यन्तं काव्यप्रणयनप्रवृत्तिरालङ्कारिकी अतिशयोक्तिपूर्णा च। क्वचिद्वर्णनीयविषया दूरं त्यक्तव्या अभूवन्, अवर्णनीयाश्च विस्तृत्य निरूपणीया आसन्। अवर्णनीयेषु विस्तृतेषु वर्णनीयाविषयाणामभिभस्त्वनिवार्य एव। लिखितं कविना-स्वप्रतिपक्षस्य चोलमहीपते: पूर्णरूपेण पराभवं विधाय विक्रमेण तद्विषय-सर्व एव स्वाधीना कृत इति। किन्तु स्वल्पाग्रे एव चोलोपरि द्वितीयमाक्रमणं भवति, महता सन्नाहेन च भवति। यदि चोलानां पूर्णपराभवोऽभवविष्यत्तर्हि स्वल्पकाल एव कथं तेषामुत्थानमभविष्यत्? अस्तु-काव्यरूपेण यश्चरितं चित्रणीयं भवति तत्रालङ्कारिकं रूपमनिवार्यं भवति। प्रोक्तं चाप्यानन्दवर्द्धानाचार्येण 'ध्वन्यालोके’- 'न हि कवेरितिवृत्तमात्रनिबन्धने कवित्वचारितार्थ्याम्’ इत्यादि।
एवमेव चरितकाव्ये वर्णनीयस्य प्रशंसाऽप्यतिशयं गाहते तावत्। ते हि राम-कृष्ण-युधिष्ठिर-नलादिकक्ष्यायामादरणीया:, निर्दोषाश्च सम्पाद्यन्ते। आहवमल्लपितुर्जयसिंहस्य विषये प्रतिभाप्रमत्त: कविराह- 'इन्द्रेण स्वहस्तेन तत्कण्ठे माला परिधापिता-यशोऽवतंसम्० (१/८६)। किञ्च का घटना कस्मिन्समये (वर्षे) भूदिति न तावदैतिहासिकबुद्ध्या काव्यं प्राणीयत कविना। कुत्रचित् 'किञ्चित्कालानन्तरम्’, क्वचित् 'बहुदिनानन्तरम्’ इत्येवालिख्यत। 'विक्रमाश्रये काव्यं प्रणयत: कवेरवश्यं तद्वंशजानां स्तुतिर्विशिष्य कर्तव्यम्, किन्तु औचित्यानौचित्य विचारो यो हि काव्यस्य जीवितम् अवश्यं कवेरवधातव्यस्तावत्’ इति ह्यालोचकानां दृष्टिकोण:। परं यया दृष्ट्या सम्प्रति काव्यमालोच्यते पूर्वसमये नासीत्तथा। पुरा हि-काव्यं काममैतिहासिकं स्यात् पौराणिकं वा श्रुतकथानकं वा स्यात्काल्पनिकं वा, परं साहित्यनियमानुसारेणैव प्रणयने कविरासीद्विवश:। अवश्यमयं नियम: काव्यशोभायै, श्रोतृणां हृदयावर्जनाय च। अत एव सम्भावनामसम्भावनां वा दूरपर्यन्तमसमीक्ष्य, नायकस्य चरितोत्कर्ष एव तै: सर्वात्मना चित्र्यते स्म। इदमेव कारणमस्ति यत् इतिहासविश्रुतानामपि चालुक्यवंशीयानामतिमानुषचरित्रप्रदर्शने कवे: संरम्भ इव।
एवं सत्यपि आलङ्कारिकमंशं पृथक्कृत्य चरितवर्णनस्य या सामग्री सा न काल्पनिकी अपि तु यथार्था। तस्या: सत्यता तै: शिलालेखै: प्रमाणिता ये हि कल्याणे गवेषकैर्लब्धा। काव्येया वंशावली वर्णिता सा शिलालेखवर्णितानां चालुक्यवंशीयराजानां नामावलीत: संवदते। घटना अपि प्रायश: शिलालेखै: संवदन्ते। ततश्च काव्यातिशयोक्तिषु सतीष्वपि विक्रमाङ्कदेवचरितं प्राचीनेतिवृत्तपरिज्ञानायाऽत्युपयोगीति को वा नाभिनन्देत्। एतस्य मार्गस्य दिग्दर्शका: कालिदासादय: प्राक्कवयोऽभूवन्, यै रघुवंशादिषु इतिहासचित्रणं कविकर्मप्रदर्शनं चेत्युभयमपि सम्यक्तया निरूढमिति तु परिचितमेव साहित्यमार्मिकाणाम्।
दुर्लभतमान्यपि ग्रन्थरत्नान्यालोचयितुमुत्कण्ठन्ते। न वा विलुप्तानां ग्रन्थरत्नानामन्वेषणाय प्रतीयते।
अत एव डॉ० बूल्हर: परमपरिश्रमेण चरितकाव्यमिदं सम्पादयामास दीर्घभूमिकया चालञ्चकार। एतद्विषये लेखनीं चालयद्भि: सर्वैरेव बूल्हरभूमिकात: सुमहत्साहाय्यमवाप्तम्। सर्वतोऽभिनन्दनीयमस्मिन्काव्ये तदिदमस्ति यत्कवि: स्वस्य देशस्य कुटुम्बिनां च समस्तमपि वृत्तं सुस्पष्टं स्वलेखन्या लिलेख। अन्तिम: सर्ग: (१८) सर्वोऽप्यनयैव सामग्र्या पूर्ण:।
पुस्तकप्राप्तेरितिहास:
सर्वप्रथमं चरितकाव्यं 'हर्षचरितम्’, यत्र ऐतिहासिकस्य राज्ञो हर्षवर्द्धनस्य चरितं महाकविनां बाणेन सुललितगद्येनावर्णि। एतदनन्तरं भूयांसं कालं यावन्नोदपद्यत किञ्चिच्चरितकाव्यम्। तत: अद्यत: षष्टिवत्सरा व्यतीता: स्यु:, डॉ० बूल्हरो जैकोबी च प्राचीनसंस्कृतपुस्तकगवेषणायै राजपुत्रप्रान्ते गतवन्तौ। तत्र जैसलमेरदुर्गाभ्यन्तरे 'ओसवाल’ जैनानां बृहज्ज्ञानकोषपुस्तकालये तालपत्रलिखितं विक्रमाङ्कचरितमिदमलभ्यत ताभ्याम्। हर्षचरितादुत्तरं द्वितीयमिदं चरितकाव्यम्। यद्धिकर्णाटकप्रान्तीयकल्याणनगरनरेशस्य विक्रमाङ्कस्य पद्यबद्धं सुललितचरितम्। एतद्धि तस्यैव सभाकविना बिह्लणेन सामयिकघटनानां प्रत्यक्षसाक्षीभूतेन विरचितम्। बिह्लण: काश्मीरक: ख्रिष्टीयैकादशशतकजात:। यद्विक्रमाङ्कचरितपुस्तकं जैसलमेरदुर्गेऽधिगतं तद् १२८६ ख्रिष्टाब्दे लिखितम्। प्रतीयते यद् बिह्लणात्केवलं २०० वर्षानन्तरमेव तदिदं पुस्तकमलेखि।
विक्रमाङ्कचरितादनन्तरं कुमारपालचरित-गौडवध-हम्मीरवध-नवसाहसाङ्कचरित-प्रभृतीन्यैतिहासिकचरितकाव्यान्युपलब्धानि प्रकाशितानि च। कुमारपालचरित-गौडवधे प्राकृतभाषामये काव्ये। नवसाहसाङ्कचरितमतिमानुषचरितपूर्णं किन्तु सुप्रसादगुणयुक्तं सुललितं च। हम्मीरवधमेतदपेक्षयाऽतिलघुहीनं च। अत एवाद्यावधि प्राप्तेषु पद्यमयचरितकाव्येषु विक्रमाङ्कचरितमिदं सर्वत: प्रधानम्।
उपसंहार:
महाकाव्यगुणै: सम्पन्नं कुङ्कुमकेसराणां सहोदरमपि तदेतत्काव्यं समर्थानामपि बहूनां संस्कृतपण्डितानामालोचनक्षेत्राद्दूरगतमिति भूयान् खेदविषय:। सत्यं त्विदमस्ति यत्परीक्षापाठ्यक्रमे यानि पुस्तकान्युपात्तानि तानि विहाय न साम्प्रतं कानिचित्संस्कृतशिक्षाक्षेत्रे प्रचलितानि। परीक्षापाठ्यक्रमे च मुद्रणयुगात्प्राक्तनानि, पण्डितमहाभागानां चिरपरिचितानि यानि पञ्चमहाकाव्यानि तान्यतिरिच्य न किञ्चिदन्यत्परिगृहीतम्। पुस्तकनिर्णायकमहाभागानां चिरपरिचितानि निजाभ्यस्तानि काव्यानि विहाय नान्येषु निपतति कृपादृष्टि:। परीक्षासरितमुत्तीर्णा: कृतविद्या: संस्कृतविद्वांसश्च न तावत्संस्कृतसाहित्याकरस्य दुर्लभतमान्यपि ग्रन्थरत्नान्यालोचयितुमुत्कण्ठन्ते, न वा विलुप्तानां ग्रन्थरत्नानामन्वेषणाय प्रयतन्ते। किमधिकम्, अन्यैरन्विष्य परमपरिश्रमत: प्रकाशितान्यपि बहूनि ग्रन्थरत्नान्यद्यावध्यपि संस्कृतानुरागिणामध्ययनव्यापाराद्दूरीभूतान्येव। तेष्वेव तदिदं विक्रमचरितमप्यासीन्नूनम्। किन्तु कतिपयवर्षेभ्य: काशिकराजकीयसाहित्याचार्यपरीक्षायां चरितकाव्येनानेन स्थानमुपलब्धमिति संस्कृतपण्डितानामभूदिदं परिचितम्। अत एव सूक्ष्मेक्षिकया तदिदं काव्यं विमृशन्त: संस्कृतपण्डिता मामकीमिमामालोचनामुपोद्घातमपि चेमं पावयेयु: कृपापावन्या विचारदृष्ट्येति किं वा विशेषज्ञेषु विशेषनिवेदनेन।