।। श्रीः।।
सनातनकवि-श्रीरेवाप्रसादद्विवेदि-कृतिः
स्वातन्त्र्यसम्भवम्
प्रथमः सर्गः
ॐ वन्दे परमेशस्य शिरस्थामैन्दवीं कलाम् ।
प्रसूय स्मरपीयूषे लालाटेऽग्नौ जुहोति या ।। १।।
ललाटगतोऽग्निः प्रतिभात्मा ज्ञानानलः। गीता ४.३७
कुमारसंभवे ३.६२। इयमेव हि भारतीया काव्यसृष्टिभूमिका।
पादपद्ममधुश्च्योतं शिवयोः परयोः स्तुमः ।
सर्गबन्धमिमं येनाऽऽलिलेखिषति पद्मभूः ।। २।।
उत्तरसीताचरिते महाकाव्ये १०.८२
स्वातन्त्रयाय नमस्तस्मै यस्यानुप्रतियोगिनौ ।
शिवौ, मृणालसूत्रस्य यथा चक्राह्वदम्पती ।। ३।।
अनुयोगी च प्रतियोगी चेत्येकयोक्त्याऽनुप्रतियोगिनौ अभियोज्याभियोक्तारौ।
कुमारसंभवे ८.३२ ‘स्मरनवनदी’त्यादि च ध्वन्यालोकलोचने।
कर्त्तृत्वमिव भावत्वं संभवस्योपपित्सया ।
यत्र प्रतिष्ठितं भाति जयत्येषाऽऽर्यभूमिका ।। ४।।
कर्तृत्वमपादानक्रोडीकृतं संभवत्यस्मादिति। भावत्वं पुनः संभवनम्। आर्या भूमिका भारतीया मही, चारित्रसृतिश्च। द्रष्टव्यमत्र उत्तरसीताचरितस्य १.२। व्युत्पत्तिभ्यामाभ्यां त्रितयमपि गृहीतं राष्ट्रं, नेतारः, स्वातन्त्र्ययुद्धं चेति।
स्वातन्त्र्यसम्भवं तं हि भारतीयं विसिन्वती ।
भारती सर्गबन्धेऽस्मिन् व्यापिपर्त्ति यदृच्छया ।। ५।।
अपूर्व एष विषयो महाकाव्यसंदर्भणायेत्यर्थः।
ऐतिह्यमत्र नैतिह्यमात्रं गीतास्विवात्र नः ।
दर्शनं सांख्ययोगाढ्यामपि सम्यक् प्रतिष्ठितम् ।। ६।।
मानवस्याक्षयः कश्चिन्निधिर्योऽत्र हिरण्मयः ।
मनीषाख्यस्य तस्यास्य वस्तुमात्रं न गुप्तये ।। ७।।
हेयोपादेय-तत्त्वार्थ-विनिर्णय-सहायकृत् ।
पुराणं पञ्चपर्व्वाढ्यां कलायां कवितायते ।। ८।।
काव्यविद्यामुपासीनैरुशनोभिर्महात्मभिः ।
स्वातन्त्र्यमेव पीयूषकलशीक्रियते परम् ।। ९।।
आनन्दकोषस्योल्लासे लोकोत्तरविभावनाम् ।
अलंभावप्रपामाद्यां वन्दते कवितां सुधीः ।। १०।।
विभावनाख्यो व्यापार एव कलानां जीवातुः। निगीर्णमेतेन शब्दयोगिनां विवर्त्त-विकल्पादि-पदद्योत्यं दर्शनजातम्। द्रष्टव्या काव्यालङ्कचरकारिकायाः प्रथमा कारिका। अत्रैव च २.५ पद्यम्।
ऐतिह्यमनुवीक्ष्येत कवितायां सुमानुषैः ।
पुष्पवैचित्र्यमुग्धायां मालायां दोरकं यथा ।। ११।।
स्वत्वं किं, तन्त्रणेनास्य तन्त्ररूपेण कोऽन्वयः ।
संभवश्चापि तत्राऽत्र किंसतत्त्व इति प्रथा ।। १२।।
अत्र जागर्त्ति सर्गाणां द्वासप्ततिवितानके ।
स्वातन्त्र्यसंभवाभिख्ये महाकाव्ये यथातथम् ।। १३।।
तां सन्तः श्रोतुमर्हन्ति सत्त्वस्वत्वाद्वयर्षयः ।
कवितात्मनि रेवाया महास्फोटेऽत्र राष्ट्रिये ।। १४।।
सत्त्वस्वत्वयोरद्वैतमेव स्वातन्त्र्यम्। रेवते प्लुतगत्या वहतीति रेवा। प्लवः प्रपातो रवश्च। भगवती रेवापि स्फोटरूपैव यथाऽस्माकं श्रीरेवाभद्रपीठकाव्ये ९७-१११ पद्यानि।
शास्त्रं भागीरथी यस्यां मूलं भागीरथं तपः ।
काव्यं तु नर्मदा यस्याः प्रभवः शिवयोर्महः ।। १५।।
शिवश्च शिवा चेत्येकशेषः। तयोर्महस्तेजः।
जिजीविषाकथामेतां शृणोति वटपत्रगः ।
भारतस्य मुकुन्दोऽपि मृकण्डोस्तनयान्मुदा ।। १६।।
ओं नमः परमेशस्य महिष्यै, परमेष्ठिनम् ।
प्राजापत्याय यागाय या प्रसूते दयामयी ।। १७।।
यस्मै संभूतिरेवाद्या दाराः सन्ततिसक्षणाः ।
तस्मै कस्मैचिदेकस्मै प्रजानां प्रसुवे नुतिः ।। १८।।
सृष्ट्वा भूतानि संहत्य तान्यन्योन्यं तथा तथा ।
यो नियच्छति शर्माणि प्रयच्छन्तमिमं नुमः ।। १९।।
अस्मिन् ब्रह्माण्डपिण्डाख्ये घटीयन्त्रे सदागमे ।
कूपरज्जुरसक्षेत्रबीजात्मा स पिता हि नः ।। २०।।
तस्यैकशेषस्याद्यस्य शेषिणः स्युरनेकशः ।
आख्याः प्रख्या उपाख्याश्च वाग्देव्यास्तद्धि नर्त्तनम् ।। २१।।
आख्याः संज्ञाः, प्रख्या उल्लेखाः, उपाख्याः कथाः। लोचनस्य मङ्गलम् ‘अपूर्वमिति-’ ति।
प्रतीकान् परमार्थत्वे नयद्भ्यो भूतसंहतौ ।
भूगोलशकलोत्तीर्णप्रभुत्वप्रदुहे नमः ।। २२।।
खण्डदृष्टेरसौ व्यामोकः।
प्रभुरेव प्रभुर्दोग्धुं प्रभुत्वं विश्वतोमुखम् ।
प्रभुश्च परमेशानश्चिदात्मा स्वः प्रणौमि तम् ।। २३।।
कालः कला, परेशान्या एष किङ्किणिकोद्मवाः ।
श्रुती रसमयीः कल्पप्रजल्पात्माऽऽजिहीर्षति ।। २४ ।।
भाषा काप्यस्तु संभाषा तत्र विज्ञानसाक्षिकी ।
एकैव जडसंपत्तिभुक्तिमात्रास्वमूषु नः ।। २५।।
भाषा मध्यमा वाक्, संभाषा अर्थसंवादः। विज्ञानं धीः।
विज्ञानवाद! भूयास्त्वं सावधान इमेऽध्वगाः ।
आत्मनीनं न विस्मर्त्तुमर्हामोऽध्वानमात्मनः ।। २६।।
भूतानां संहतिः शय्या सा कृते यस्य कल्पिता ।
अशरीरी गुडाकेशः शेते सोऽत्र समीक्ष्य ताम् ।। २७।।
संघातपरार्थत्वादिति पुरुषसिद्धौ सांख्यस्तर्कः। सांख्यकारिका १७
परिवर्त्तनचक्रस्य नाभिर्नेमिरराश्च ये ।
संलग्नाँस्तेषु विज्ञान! क्षमसे किमु रक्षितुम् ।। २८।।
परिवर्त्तिनि चक्रेऽत्र संसाराह्ने स्थितिः स्थिरा ।
यं स्वयं वृणुते तस्मै परस्मै स्पृहयामहे ।। २९।।
प्रणामानां शती तेभ्योऽप्यसौ नः सम्यगर्पिता ।
विज्ञानश्रीसमिद्धं वै ज्ञानं येषां प्रकाशते ।। ३०।।
गीता ७.२
प्रत्यग्रद्वेषिणामग्रे सनातनकवेः शिरः ।
सदैव नम्रं किन्त्वत्र साम्मुख्यं श्रयते न तत् ।। ३१।।
नम्रं किन्तु विमुखतयेति भावः।
प्रजागर्य्याऽपि दोषत्वे गण्यते व्यावसायिकैः ।
अस्ति कण्टकिनी शय्या यदि चिन्ताचिताजुषाम् ।। ३२।।
अपि पौष्पीषु पुष्यन्ति शय्यास्वन्धाः प्रजागराः ।
यदि द्वेषानलः क्ष्वेडं वमत्यन्तश्चितौ स्थितः ।। ३३।।
भूमिमेतामुपाश्रित्य सनातनसरस्वती ।
स्वातन्त्र्यसंभवे दृष्टिं दधात्यार्य्यभुवः प्रियाम् ।। ३४।।
अद्यत्वेऽपि पुरा यद्वच्चकास्त्याचार्य्यसंश्रिता ।
दिव्याञ्जनतया तस्यामस्यां संस्कृतभारती ।। ३५।।
मनुष्यसृष्टेर्या काचिदाद्या काव्यमयी श्रुतिः ।
सापि यां शिश्रिये सा वै संस्कृताख्यैव भारती ।। ३६।।
आद्या श्रुतिः ऋग्वेदः। सा च काव्यमय्येव।
कालपर्य्यय-विक्षोभास्पृष्ट-चिद्गगनाङ्गणाः।
शास्त्राख्या गोत्रशैला ये संस्कृतैकाश्रिता हि ते ।। ३७।।
संस्कृतं भारतस्यास्य स्वातन्त्रयालेख्यभित्तिका ।
स्वातन्त्र्यसंभवं द्रब्धुं क्षमेतैतद्धि भारते ।। ३८।।
स्वातन्त्रयं कोऽपि संस्कारो यतः संवित्प्रतानिनी ।
प्रसोतुं कुशलानर्थान् नृषु कल्पलतायते ।। ३९।।
संस्कारान् कल्पते वोढुं सैव काचन भारती ।
प्रकृतिप्रत्ययौ यत्र प्राप्येते पाकमुज्ज्वलम् ।। ४०।।
वाल्मीकिव्यासमुख्यानां महर्षीणां मधुसु्रतिः ।
यां प्राप्य शाश्वती जाता नुमस्तां संस्कृतां गिरम् ।। ४१।।
हिरण्मयेन पात्रेण यस्य वै पिहितं मुखम् ।
तं सत्यसंज्ञकं कोषं त्रायते संस्कृतं परम् ।। ४२।।
माता भूमिः सुतोऽस्म्यस्या अहमत्यन्तवत्सलः ।
मन्त्र एष ललाटे नुः संस्कृतादेव पुण्ड्रति ।। ४३।।
निश्चितार्थपदान्वीक्षान्वाख्यानप्रयतात्मनाम् ।
महात्मनामिमां वाचं प्रसादयति पुण्यवान् ।। ४४।।
स्वातन्त्र्यसंभवाभिख्यं सर्गबन्धं विधित्सुभिः ।
प्रसिषादयिषा तस्याः कथमस्माभिरुज्झयचताम् ।। ४५।।
प्रातिभान् पारिमाण्डल्यविशेषाननुसंदधत् ।
विसरैर्वैखरीणां स्यामहमप्यादृतो न किम् ।। ४६।।
एष एव सतां मार्गो यियासाऽत्र न पूज्यते ।
विशेषान् काँश्चिदन्वास्य चमत्कारैकनिर्भरान् ।। ४७।।
साध्वसाधू कदर्य्यार्य्यौ यदिवानुचितोचितौ ।
यौ कौचिदत्र संस्कारौ शब्दार्थालङ्क्रियैव सा ।। ४८।।
काव्यवर्त्त्मनि भावानामोघैर्वाहितसंविदः ।
कविकर्म्मणि कस्यास्तां यशः शितिमवर्जितम् ।। ४९।।
वैचित्रयमपि काव्यार्थे स्वभावाख्यानवत् सताम् ।
प्रियमेव भवाम्यत्र ततोऽहं सर्वथा कृती ।। ५०।।
प्रतीत इत्थमुल्लासैरान्तरैरात्मनः प्रियाम् ।
वीथीमाविश्य वाग्देवीमार्य्याणां संप्रसादये ।। ५१।।
चातुर्विद्य-कलाजात-मर्म-मेदुरितान्तरा ।
कादम्बिनीव वर्षन्ती कस्य वा सा न शर्मदा ।। ५२।।
यच्चित्रमत्र लिखितं प्रतिभाति तस्मिन्
दीप्तिस्तमस्सु विधृतास्ति स हि स्वभावः ।
यद्वांशुमत्युदयभाजि तमांसि लोपं
यान्त्येव सायमथ संप्रभवन्ति भूयः।। ५३।।
रात्रिर्यथा दिनमपि क्षणशो विधान-
संयन्त्रिते हि निखलेष्वपि मानुषेषु ।
यद् वै विधानमिह यन्त्रणमस्ति धर्म-
नाम्नोऽनुशासनवरस्य, यमात्मकस्य ।। ५४।।
त्यक्त्वा यमान् सनियमान् न हि भूमिलोके
धर्मात्मकं किमपि वस्तु चकास्ति ते च ।
विश्वम्भरत्व-शुभ-वर्त्मतया समेषा-
मेवात्मधर्म इति मान्यतमाः पृथिव्याम् ।। ५५।।
यानीन्द्रियाणि न हि तानि निरर्गलानि
स्वातन्त्र्य-कल्पतरुकाण्डधुरं दधीरन् ।
यश्च स्वधर्म इति सर्वमनुष्यपाल्यो
मार्गः स चेत् कटुरथापि स पाल्य एव ।। ५६।।
द्रोहश्च कश्चन रिपुः, प्रतिशोध-जुष्टः
स प्लावनां जनयते जनतासु तं वै ।
धर्मो रुणद्धि, स हि शिक्षयते प्रभाते
सन्ध्यासु नित्यमघमर्षणमात्म-शु ।। ५७।।
सन्ध्यात्रिपुण्ड्रललितालिकपट्टकेषु
नित्यं जपत्सु च धियां परिशोधनानि ।
स्वातन्त्र्यमेव परिवर्षति हन्त योग-
क्षेमं, न तत्र शपथप्रतिबद्धता नुः ।। ५८।।
आर्येदनार्य्यमपि कर्मपथे प्रशस्ते
धर्मस्य, नास्ति खलु स प्रभुता-प्रधानः ।
प्रेमा हि तत्र परमार्थतया समेषु
जागर्त्ति, न स्वपिति कश्चन रिक्तकुक्षिः ।। ५९।।
कृष्यां कृषिं यदि करोति महार्थसिद्धयै
कश्चिद् यथाकथमपि द्विडसौ नराणाम् ।
प्राणान् प्रदातुमधिकारभृतोऽस्य दुष्टं
प्राणाऽपहारपथ-धावनमेष दण्ड्याः ।। ६०।।
स्वातन्त्र्यमस्ति निजतन्त्रणमेव पूर्वं
स्वेनैव दृष्टपरमार्थ-निजार्थकेन ।
यस्मै निजार्थतितरां तु परार्थ एव
स्वातन्त्र्यमत्र हि प्रसीदति, दैवतं तत् ।। ६१।।
त्वं गच्छ, नास्ति तव भूमिरियं, त्वदीयं
पोष्यं समुद्रतटपारगतं तु किञ्चित् ।
न स्वैरताऽत्र भुवि संप्रभुतामुपैति
स्वैरी पशुर्भवति, नैव नरः सलज्जः ।। ६२।।
प्राणान् नियम्य कुरु चेतसि मानुष! त्वं
स्वं ध्यानमेष खलु कस्त्वमसीति नित्यम् ।
भूतेष्वभूतति भवानभवॅस्तु भूतो
भूतेश्वरस्त्वमसि हालहलस्य पाता ।। ६३।।
नैषा पिशाचति मृतिस्त्वयि भूतसंघा-
तीते परात्परतया प्रथिते च धाम्नि ।
श्रद्धैषकापि नितरां नियताऽस्ति लोके
स्वातन्त्र्यभाजि भरतावनि-मण्डलेऽस्मिन् ।। ६४।।
हालाहलं न गरलायति प्रत्युतैतत्
पीयूषति स्थिरमतौ सुभगे मनुष्ये ।
उद्वेगमञ्चति न यं विषमे प्रहर्षो-
द्रेकश्च संपदि स वै स्थिरबुद्धिको ना ।। ६५।।
मूल्यायते न मनुजे द्रविणस्य भूमा
द्रव्यं तरी भवति मार्गनदीं तरीतुम् ।
पारं गतेषु न तरी, न च वाहकोऽस्या
मूल्याय कल्पत उदूढ-निज-व्रतस्य ।। ६६।।
अस्वं जिघृक्षति न यः पतितं स्वमार्गे
स्वातन्त्र्ययोगपटिमातिशयोऽत्र दृश्यः ।
आवश्यकादधिकमर्जितुमस्तरागे
यद्वा, तदेतदुभयं निकषः स्वतन्त्रे ।। ६७।।
मधौ सुरभितद्रुमे भ्रमरतां न यो सेवते
शुचौ दहति दिग्तटीं भवति यो न वै व्याकुलः ।
स एव जनतन्त्रता-निगड-बद्ध-पादो जनः
स्वतन्त्रति गतस्मयः सततमेव सौख्याधिके ।। ६८।।
यत्र स्वमेव बत कर्मतया च कर्तृ-
भावाच्च राजतितरां ननु स स्वतन्त्रः ।
रामे प्रशास्तरि नमन्ति दशानना हि
सीतासु पूतहृदया न दशाननन्ति ।। ६९।।
साम्यप्रिया अपि जना निजतन्त्रतायां
नो योजयन्ति तु युगे करिणौ, विहाय ।
गावौ, न चैव करभौ, न च पुण्डरीका-
वौचित्यमेदुरित-संव्यवहार-शौण्डाः ।। ७०।।
स्वातन्त्र्यशोधितपरिष्कृतचेतनाना-
मर्थाः समेऽपि नियता निभृताश्च लोके ।
दत्त्वाऽऽददाति हि जनो निखिलः परेभ्यः
स्वस्मै च यावदभिवाच्छितमस्ति तावत् ।। ७१।।
नो सञ्चयोऽधिकतमस्य धनस्य तस्मै
रोचेत हेमकुलशैलभरो नु मूर्ध्नि ।
संवित्तुला गणयतेऽधिकमाशु तस्मै
यस्मै विकारितुमलत्त्वमियर्त्ति भूतिः ।। ७२।।
इमं तु निजसंयमं हृदि पिपर्त्ति या चिद्वधूः
सदा खलु बिभर्त्ति सा परतमां स्वतन्त्रां धुरम् ।
इतः पृथगिहास्ति नो भरतभूतले संमता
स्वतन्त्र-परतन्त्रता-प्रभृति तद्धि वाग्ग्लापनम् ।। ७३।।
भवन्तु तटगाः समे परितितीर्षवः सागरं
निबद्धकटिका इदं निकटमस्ति वः पोतकम् ।
परन्त्ववहिता भवन्त्विह त एव रोढुं क्षमा
भवन्ति खलु नो परे, भवति येषु तर्त्तुं क्षमा ।। ७४।।
स्वातन्त्र्यमेवमिह हस्तधृतातपत्रं
क्लेशाधिकी लसति यत्र तथा न सौख्यम् ।
तस्मै स्पृहा भवति हन्त तपस्विताया
दीक्षाव्रतस्य वरणस्पृहयालुतैव ।। ७५।।
लक्ष्मीन्दिराद्यटलमोहनवेष्टितायाः
स्वातन्त्र्यसम्भवकथा-त्रिदशापगायाः ।
अस्या भवन्तु रससेवनया विमुक्त-
क्लेशाश्च हृष्टहृदयाश्च मनीषिमुख्याः ।। ७६।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘पीठिकाबन्धो’ नाम प्रथमः सर्गः।। १।।
द्वितीयः सर्गः
( १ )
वन्दामहे पद्मदलाभिरूपां पञ्चप्रशाखीं कविनायकानाम् ।
विवर्त्ततेऽर्थात्मतया स्वयं वै यामाश्रिता काचन सूक्तिदेवी ।। १।।
पञ्चप्रशाखी पञ्चाङ्गलीव्यूहः। दलं किञ्जल्कः, पत्रं च। पद्मपत्रसूचितो निर्लेपभावः, पद्मकिञ्जल्ककटाक्षितश्च सौभाग्ययोगोऽत्राद्वैतं भजतः। कवीनां नायकानामिव। कं ब्रह्म, तद्रूपाणां विनायकानामपि। विनायक एव हि महाभारतसंहिताया लिपिकृत्। अर्थस्य शब्दविवर्त्तत्वमनुभूतिसाक्षिकमेव काव्यानुभवे। संवादि चात्र श्रीहरेर्दर्शनम् ‘अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं विवर्त्ततेऽर्थभावेने’-ति।
नमामि तां निर्झरिणीं कवीनामाकाशगङ्गां नु विशुद्धिमुग्धाम् ।
यत्कुक्षिसूताऽक्षरपद्ममालां वाग्देवता श्रीरिव मूर्ध्नि धत्ते ।। २।।
निर्झरिणी प्रतिभा, फाउण्टेनपदवाच्या लेखनी च।
तां कालकालीमथ रात्रिरात्रिं नुमो हृदा काञ्चन कालरात्रिम् ।
हिरण्यगर्भश्रियमुत्प्रसूते या पुष्पलक्ष्मीं नु वसन्तलक्ष्मीः ।। ३।।
तामेव काञ्चिन्ननु कालरात्रिं श्रीदेवकीकुक्षिगृहे स्फुरन्तीम् ।
गोपाङ्गनाचीरहरो मुरारिः स्मरारि-साक्ष्ये परिपर्स्पृशीति ।। ४।।
युगक्षयरूपेयं कालरात्रिः ‘तम आसीदि’ति स्तूयत एव।
परिपर्स्पृशीतीति पाणिनिसूत्रेण ७.४.९-९२
चराचरस्थावरजङ्गमाङ्के विभावनाख्यां प्रकृतिं नुमस्ताम् ।
क्विप्प्रत्ययार्थाध्यवसायभूमिर्भूत्वाऽपि या संश्रयते न न च्विम् ।। ५।।
क्विप्प्रत्ययः सर्वापहारविषयः, च्विश्चातमिंस्तद्भावाध्यारोपविषया। विभावनमप्येवंगुणमेव। अङ्कपदेनोत्सृष्टिकाङ्को नाम रूपकभेदः स्मर्य्येत।
पञ्चप्रशाखीं दधते कराग्रे जङ्घां जविष्ठां प्रपदे सगुल्फाम् ।
वक्षश्च भालं च भुजद्वयीं च वितन्वते कर्मविभो! नमस्ते ।। ६।।
कर्ममयः कर्मप्रियश्च विभुः कर्मविभुः शाकपार्थिव इव शाकप्रियः।
आ दक्षिणाब्धिप्रसरं सुमेरोर्मूर्ध्नो धरां व्याप्य समुल्लसन्तम् ।
अब्धित्रिवेणीप्रणताङ्घ्रिमूलं वन्दामहे भारतवर्षविष्णुम् ।। ७।।
महोदधी रत्नाकरो दक्षिणाब्धिश्चेति त्रायाणामब्धीनां कुमारीतीर्थे प्रसिद्धैव त्रिवेणी। द्रष्टव्यमत्र सीताचरितनाम्न उत्तरसीताचरितस्य १-३ पद्यम्।
वैदेशिकव्याधशिलीमुखेषु लाजप्रवर्षेष्विव सञ्चरन्तः ।
राष्ट्रं निजं ये पिपुरत्यमीभ्यो नमो नमो वीरवृषाकपिभ्यः ।। ८।।
( २ )
पादद्वयीचारिशरीरधारिन् प्राणिन् नमस्, त्वं ननु पूरुषोऽसि ।
विमर्शरूपे मणिदर्पणेऽस्मिन् प्रकाशितस्त्वं हि सदाशिवोऽसि ।। ९।।
प्रकाशितो व्यक्तः प्रकाशरूपं परमं शिवमुपेतश्च। अहमिदमित्यभिमानात्मा शिवः सदाशिवः। इत्यादिशन्तीत्यग्रिमेणान्वयः (२३ पद्येन)।
त्वमष्टमूर्त्तेर्यजमानमूर्त्तिस्त्वं विश्वमूर्त्तिस्त्वमु विश्वनाथः ।
रे शान्तिगङ्गाधर! मानवात्मन्नघोर एष त्वमसि प्रकृत्या ।। १०।।
पञ्चभूतानि बुद्धिर्मनश्चैतन्यं चेत्यष्टौ मूर्त्तयः शिवस्यात एवासौ विश्वमूर्त्तिरीश्वरो विश्वेश्वरः। साम्प्रतिको मानवीय आत्मा घोरः।
मनुष्यताख्या गिरिराजकन्या तपश्चरिष्णुः पुनरुत्प्रयाति ।
अपर्णतामेह्यकुतोमुखीनां त्वरस्व तां प्रीणयितुं, शिवस्त्वम् ।। ११।।
कुमारसंभवपञ्चमसर्गकथा
त्वं सांख्ययोगी त्वमु कर्ममार्गी त्वं भक्तियोगी पुरुषोत्तमस्त्वम् ।
किं केन कस्मै स्वहिताय कार्यमित्यर्थनिर्णीतिमखे मखी त्वम् ।। १२।।
सांख्यं योगश्चेति गीताया परिभाषे। नित्यात्मतावादोत्तरौ नैष्कर्म्ययोगस्तयोरेकमैदम्पर्यम्। पुरुषोत्तमः क्षराक्षरोभयोत्तीर्णश्चैतन्यात्माऽव्ययः। यदुच्यते ‘यस्मात् क्षरमतीतोऽहमि’त्यादि गीतासु। किं केन कथमिति भावनात्रयं मीमांसकेषु प्रसिद्धम्।
त्वं वै सुपर्णोऽसि हिरण्यवर्णस्त्वं संविदो ह्लादगुणो रसोऽसि ।
त्वमेव बिम्बस्य परात्परस्यच्छायामयः कश्चन विग्रहोऽसि ।। १३।।
त्वमिक्षुदण्डोऽसि जगत्सवित्रया मातुः कराभ्यामुपलाल्यमानः ।
त्वमेव तस्याः खलु पुस्तकस्य सिद्धान्तभूतोऽसि परात्परोऽर्थः ।। १४।।
चन्तामणिद्वीपगतेऽपि नीपे शुकोऽसि मातुः स्तवने नदीष्णः ।
वितर्द्दिकायामिह रत्नमय्यां नृत्यन् मयूरीदयितोऽप्यसौ त्वम् ।। १५।।
इह चिन्तामणिद्वीपनीपे श्रीदेवीभागवतप्रसिद्धे।
द्विधा विभक्तावपि निर्विभागौ पुमाँश्च योषिच्च तवैव भागौ ।
तयोर्द्वयोर्द्वैतमयी विभूतिर्विभूतियोगः खलु विश्वलक्ष्म्याः ।। १६।।
जिनोऽसि चेत् त्वं स हि संप्रबुद्धो बुद्धोऽप्यसौ त्वं हि, तयोश्च या चित् ।
आविष्टमार्गान्तर-देशिकात्मा साऽपि त्वमेवासि सनातनात्मा ।। १७।।
त्वं वर्धमानोऽसि जितान्तरात्मा युञ्जानयोगी त्वमसि प्रबुद्धः।
त्वं वै दुकूलोऽसि धृतः शिवाभ्यां सहंसयुग्मः परिणीतिमद्भ्याम् ।। १८।।
कुमारसंभवे ५.६७। दुकूलोऽस्त्रीति मेदिनी।
पक्षैर्विनाप्यभ्रचरायमाण! क्षोणीचरिष्णो! सलिलभ्रमिष्णो ।
धिग् धिक् स यक्षोऽपि निजाधिकारप्रमत्तचित्तस्त्वमु बोभवीषि ।। १९।।
नित्यप्रवृत्ते, शृणु, सृष्टियज्ञे यो वै वृणीते पिशिताशनत्वम् ।
सज्जा सदा तिष्ठति तं वरीतुं कृतान्तदंष्ट्रापि करालकाया ।। २०।।
न भूमिगर्भो न च देवमार्गस्तवास्ति काम्यः पुरुषोत्तमस्य ।
त्वत्सौख्यमार्गप्रविधारणायां तौ कौ त्वमेवासि तयोस्तु भूमिः ।। २१।।
आनन्दमाध्वीकसमुद्र एष त्वय्येव नित्यं हि जरीजृभीति ।
कस्तूरिकां नाभिगतां परत्रान्विष्यन् मृगस्त्वं न च बोभवीषि ।। २२।।
इत्यादिशन्तीव तरङ्गहस्तैर्भागीरथी यत्र मनुष्यसृष्टौ ।
लक्ष्मीशिवाभ्यां वरिवस्यमानं सूतेतरां हारिहरं शरीरम् ।। २३।।
सा विश्वनाथस्य पुरी विशाला गीर्वाणवाणीकलितालवाला ।
मोक्षप्रसूः कल्पलतैव साक्षाच्छुकैश्च हंसैश्च धृतप्रवाला ।। २४।।
अस्यां सदा जाग्रति हन्त तिस्रस्त्रिमार्गगा निर्व्यभिचारसङ्गाः ।
भागीरथी चामरभारती च स्वातन्त्र्यदात्री करुणा च शम्भोः ।। २५।।
छात्रालयीभूतसमस्तगेहा विद्यालयायन्ति हि यत्र रथ्याः ।
काशी न सा कापि पुरी पुराणः स विश्वविद्यालय एव मुक्तेः ।। २६।।
ग्रन्था न यस्यां लिपिपत्ररूपास्ते ह्यत्र विज्ञानमया हि कोषाः ।
ग्रन्थालयायन्तकि तेन यस्यां स्वयंप्रकाशा विबुधा, न गेहाः ।। २७।।
गाङ्गं जलं यत्र धनं परार्ध्यं विश्वेशपूजैव हि यत्कुसीदम् ।
यल्लेखरूपाश्च भवन्ति वेदाः स्वतःप्रमाणाक्षरबन्धभेदाः ।। २८।।
अत्राऽस्ति विश्वेश्वर एव राजा मातान्नपूर्णैव हि यस्य कोषः ।
उत्कर्षसीमा खलु साऽस्य राज्ये कोषः स्वयं यद् वृणुतेऽत्र भिक्षुम् ।। २९।।
शास्त्रेषु सर्वेष्वनुपङ्क्ति विद्वान् गुरुर्जगत्याः कवितासुधाब्धिः ।
महेश्वरानन्दसरस्वती यां संपापरीति स्म सुमेरुपीठात् ।। ३०।।
मेरुर्यथा भूमिधराननेकान् भूमेर्धरान् दिक्षु विदिक्षु धत्ते ।
शिष्याँस्तथा यः प्रतिभानभाजो धत्तेतमां स्माऽऽगमशास्त्रसिन्धून् ।। ३१।।
गुरुस्तदीयः करपात्रभिक्षुः सनातनो धर्म इवाप्तदेहः ।
प्रज्ञाविभूत्या सललाटनेत्रस्त्रिलोचनो यत्र बभूव साक्षात् ।। ३२।।
वेदार्थ-शास्त्रार्थविशुद्धसत्त्वा नित्यं नृलोकानुजिघृक्षवश्च ।
भूमीतलस्योद्धरणाय यस्यां महावराहन्त्यपरेऽपि सन्तः ।। ३३।।
अस्यां पुराऽजायत विप्रवंशे लक्ष्मीर्विलक्ष्मीकृत-वैरि-वंशा ।
झाँसीश्वरीति प्रथिताभिधानः स्वातन्त्र्यलक्ष्म्याः प्रथमोऽभिमानः ।। ३४।।
अस्यां काश्याम्।
ढोंढेति नाम्नः पितुरङ्कशय्यां या वै भजन्ती रुरुचेऽधिकाशि ।
हिमाचलोत्सङ्गतले निषण्णा त्रिलोकवन्द्या शिशुपार्वतीव ।। ३५।।
वैदेशिकानां क्षपणाय भूमीभृतां सितानां पिशिताशनानाम् ।
या निर्मिता विश्वसृजा प्रयत्नात् सौदामनीव द्युतलात् पतन्ती ।। ३६।।
या देहमात्रेण बभूव नारी चित्तेन शौर्य्यैकधनेन किन्तु ।
वीर्यातिभूमि प्रबलं नरत्वं तस्यां जजागार पुलोमजावत् ।। ३७।।
अस्सीति घट्टः स भृशं प्रशस्यो मठे गणेशस्य यदङ्कलग्ने ।
शरीरबन्धं निजमातृभूमिस्नेहातिशीतिः खलु साऽऽप लक्ष्मीः ।। ३८।।
तां कालरात्रीमिव लेलिहानां दूतीं शिवस्येव करालवृत्ताम् ।
मायां यशोदेव महानुभावामलालयत् साध्वसिनी तदम्बा ।। ३९।।
वात्सल्यधारामतिवाह्य तस्यां बभूव तातस्य हृदि प्रकाशा ।
आश्चर्य्यलक्ष्मीः प्रतिबाललीलं श्रीनर्मदायामिव मेकलाद्रेः ।। ४०।।
अवोचामैव श्रीरेवाभद्रपीठे १०९ पद्ये १०४-१०८, १३२-१४२ प्रभृतिषु च भूम्ना।
जातेति यां नो पितरौ वराकौ व्यभावयेतां तनया कदापि ।
यौ चिन्तयामासतुरागतेयं दिव्यानुभावा ननु नौ कुतश्चित् ।। ४१।।
पुत्रीं हिमाद्रिर्नु सतीमुमेति रेवां नु गङ्गेति च मेकलाद्रिः ।
तातस्तदीयः परमाम्बिकां तां लक्ष्मीरिति व्याहरति स्म धीरः ।। ४२।।
सा कल्पवल्ली वसुधातलस्य सा कामधेनुर्मनुजान्वयस्य ।
चिन्तामणिर्भारतभाग्यलक्ष्म्या लक्ष्मीर्यथार्थार्थयते स्म संज्ञाम् ।। ४३।।
शनैः शनैः सा ववृधेऽनघाङ्गी कौमारकह्लार-सरोवराच्च ।
प्रतिप्रपेदे नवयौवनाख्यं वासन्तिकं राज्यमतीव हारि ।। ४४।।
कुमार एषोऽस्ति कुमारिका वेत्येतन्न निश्चेतुमशाकि विज्ञैः ।
निरीक्ष्य तां रत्नगतां नु पुत्रीं ज्योत्स्नाभराच्छादितगात्रलक्ष्मीम् ।। ४५।।
पुत्री पुत्तलिका।
कान्तिं तदीयां कुलकन्यकानां सानातनः कश्चन पूर्णकुम्भः ।
आपूरयामास चिरस्य शून्ये स्निग्धे च कुक्षावुदरम्भरिर्नु ।। ४६।।
प्रत्याहरन्ती हृदयानि यूनां सा काऽप्यपूर्वा कुलकन्यकाऽभूत् ।
स्मरं निराकृत्य रतिं विहस्य समाधिदीक्षा नु समेधमाना ।। ४७।।
वर्षासु गङ्गेव निदाघकाले ज्वालावलीवोग्रतमा कृशानोः ।
असह्यवेगा च महामहाश्च व्यभावि बाल्येऽपि जनैः शिशुः सा ।। ४८।।
सा सैन्धवानारुरुहे प्रवेगान् धारासु तेषामथ शर्म लेभे ।
अल्पीयसैवावधिना च शस्त्रव्राते पटिष्ठत्वमवाप दोष्णोः ।। ४९।।
कौमारदीप्त्या ललिते ललाटे लिलेख लक्ष्म्यास्तिलकच्छलेन ।
स्वातन्त्र्ययुद्धे भरतस्य भूमावियं भवित्री प्रथमेति धाता ।। ५०।।
उष्णीषबन्धेन युतं शिरोऽस्याः कदाचिदालक्ष्यत वीरलक्ष्म्याः ।
पट्टाभिषेको नु मृगेक्षणानां त्रैलोक्यराज्यस्य महाधिकारे ।। ५१।।
कौक्षेयकं श्रोणितटेऽदसीये विलम्बमानं बलिगीर्णगात्रम् ।
व्यभासतारातिकुलाभिघाती सुमेरुकुक्षाविव धूमकेतुः ।। ५२।।
बलिस्त्सरुः।
ताटङ्कयुग्मं श्रवसोर्वितन्वँल् लक्ष्मीं च लक्ष्मीर्यदुवाह हैमम् ।
स्वमातृभूमेर्निभृताववात्तां स्वर्गापवर्गाविव तत्र कान्तौ ।। ५३।।
न स्मेरवक्त्रा क्वचिदप्यलक्षि लक्ष्मीरियं केनचनापि धीरा ।
न स्विन्नगात्री न च कुञ्चिताक्षी सदैव साऽलक्ष्यत दीप्रभाला ।। ५४।।
देहं श्रिता काचन योगसिद्धिर्विदेहराजस्य बभूव सैषा ।
यत्राऽऽधिराज्ये व्यलसत् प्रजायै नैष्कर्म्यभूतिर्हि महाभियोगा ।। ५५।।
तस्याः सितिम्नोऽङ्कजुषारुणिम्ना मनोहरे तारतरे च नेत्रे ।
यस्यां दिशि क्रान्तिमुपाश्रयेते निगीर्यते स्माऽत्र तमो हि चन्दै्रः ।। ५६।।
तमो राहुरपि।
काश्याः शतान्यर्बुदमुज्जयिन्याः परार्धमस्यां दिशि किञ्च काञ्च्याः ।
निपेतुरापूरयितुं नु कुक्षिं महावकाशं दिव उत्सविन्याः ।। ५७।।
महासियुग्मं यदियं कराभ्यां बभार विद्युद्वलयाऽयुतानि ।
तत्रोच्छ्वसन्ति स्म दिवं धरित्र्या समं सुवर्णैरिव पूरयन्ति ।। ५८।।
पर्य्याणबन्धेन समं परेषां लक्ष्मीर्बबन्धाऽर्वति यास्तु लक्ष्मीः ।
ता विष्णुवक्षः पुनरप्यवाप्तुं नैवाभिलेषुः स्वसुरात्तगन्धाः ।। ५९।।
शुश्राव लक्ष्मीर्निगमागमेषु प्रज्ञां पटिष्ठामधिजग्मिवद्भ्यः ।
या या गुरुभ्यः पुरुषार्थविद्यास् तास्तत्र सर्वाः स्थिरतामवापुः ।। ६०।।
प्रजागरं बिभ्रति शत्रुनार्य्यो यस्यां स्वपत्यामपि कम्पिताङ्ग्यः ।
प्रताप एवाशिषदार्य्यभूमिं लक्ष्म्या अमुष्या ज्वलदग्निकल्पः ।। ६१।।
पार्श्वस्थितेषु प्रतिवेशिराज्येष्वमूर्च्छदुच्चैर्नृतिगीतिरीतिः ।
अस्यां रणन्ति स्म तु दिग्गजानां ताराणि साराणि च बृंहितानि ।। ६२।।
शिरस्सु गर्जत्स्वरिषु क्षितीन्द्राः शृङ्गारभङ्गीष्वपरेऽरमन्त ।
लक्ष्म्यास्त्वमुष्या भु्रकुटीभुजङ्ग्याववर्षतां शत्रुषु कालकूटम् ।। ६३।।
सा निर्मिता मृत्तिकयाऽन्ययैव जगद्विधात्रेति सुनिश्चितं हि ।
यस्याः सदैवोर्ध्वगतिः सदैव स्वच्छश्च बाभातकि चित्तधातुः ।। ६४।।
आकाशगङ्गासितराजहंसमुखाच्च्युताया बिसिनीलतायाः ।
यन्मार्द्दवं या च विशुद्धिरेतामुभे अपीमे सुतरां श्रयेते ।। ६५।।
उरुत्वमुर्व्या गुरुता गिरीणामुदारता विष्णुपदोदरस्य ।
त्रयं तदेतन्मिलितं चकास्ति लक्ष्म्याश्चरित्रेऽङ्कुरमादधानम् ।। ६६।।
यदुच्यते तिष्ठति कार्य्यसिद्धिः सत्त्वे न संख्यासु न वोपबर्हे ।
लक्ष्म्यां तदेतन्निखिलं यथावत् प्रमाणितं दृश्यत आर्य्यशीलैः ।। ६७।।
तरस्विनां लोकमनस्सु शेते प्रभावमात्रं न तु देहमानम् ।
रेखाप्रमाणाऽपि दिवः पतन्ती सौदामनी शातयते महीध्रम् ।। ६८।।
‘स्वपन्ति भूतानि यदा तदानीं महाधियो जाग्रति’ मन्त्रमेतम् ।
साऽनारतं साधयति स्म लौल्याद् विनाकृता भारतभाग्यलक्ष्मीः ।। ६९।।
तस्याः शरीरे प्रतिकर्म्म चक्रुर्वज्रावलीनामयुतानि नूनम् ।
नो चेत् कथं मार्द्दवराशिभूताऽप्यसौ सदैवाऽनलसा ह्यलक्षि ।। ७०।।
सा गारुडानां जपमालिकासीन्मन्त्राक्षराणां कथमन्यथाऽसौ ।
व्यसोढ साम्राज्यविषं परेषामाशीविषाणामिव काँश्चिदब्दान् ।। ७१।।
अङ्ग्रेजशासन-विनाकृत-भूति-योगां
सा भारतस्य वसुधामथ खड्गहस्ता ।
दुर्गाम्बिकेव दिवमैच्छददित्यपत्य-
शत्रोर्विमोचयितुमाशु मनुष्यरूपात् ।। ७२।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘स्वातन्त्र्यसंकल्पोदयो’ नाम द्वितीयः सर्गः ।। २।।
श्लोकसंख्या - ७६ + ७२ = १४८