एकत्रिंशः सर्गः
काङ्ग्रेसाध्यक्षभावश्च संसन्नेतृत्वमेव च ।
स्वातिबिन्दू यथा स्माप्तुं चातकायन्ति नायकाः ।। 1।।
नरसिंहरावनाम्नस्तु वरिष्ठस्य सुमेधसः ।
काङ्ग्रेसाध्यक्षभावाय निर्वाचनमकारि तैः ।। 2।।
सोऽपि ब्रूते स्म केन्द्रे नः सदस्यानां स्वतस्तराम् ।
बहुत्वं सेत्स्यति स्थैर्यं को नु द्वेष्टि प्रशासने ।। 3।।
गोलीवर्षा निरस्त्रेषु रामभक्तेषु याऽभवत् ।
उत्तरेषु प्रदेशेषु काङ्ग्रेसोऽप्यन्वभूदिमाम् ।। 4।।
नो हिन्दूः कश्चिदप्यन्तःप्रतिशोधाग्निपाचितः ।
एकस्मिन्नपि काङ्ग्रेसस्याक्षरे भक्तिमादधे ।। 5।।
यवनैरपि काङ्ग्रेसे न पश्यद्भिः स्वरक्षणम् ।
जनतादलसाफल्यमकाङ्क्षि प्रसृतेक्षणैः ।। 6।।
निर्वाचनमहामन्थकथां श्रुत्वैव तत्यजे ।
देहबन्धो विसंज्ञेन कमलापतिना द्रुतम् ।। 7।।
बाबरीमस्जिदे पश्चात् खनित्रं निपतिष्यति ।
पूर्वं मूर्ध्नि ममेत्यासीद् घोषणाऽस्य त्रिपाठिनः ।। 8।।
कमलापतिपुत्रस्तु श्रीमाँल्लोकपतिः सुधीः ।
भाजपापक्षपातात्तु श्रीशचन्द्रात् पराऽभवत् ।। 9।।
शतरुद्रप्रकाशोऽपि प्राप्तस्तस्यैव दुर्गतिम् ।
ज्योत्स्नाश्रीवास्तवाभिख्यज्योतिषा कवलीकृतः ।। 10।।
विहारेष्वपि काङ्ग्रेसः पराभवमवाप्तवान् ।
विधानसभया सार्धं संसदेऽपि सुदुर्भगम् ।। 11।।
अनेके वित्तमन्त्र्यादिपदोत्तमविभूषिताः ।
पराभूतितृणावर्त्ते शिश्रियुस्तृणतां पराम् ।। 12।।
देवेन्द्राख्यो द्विवेदी यो यश्चोमाकान्तसंज्ञकः ।
पूर्वसंसत्सदस्यावप्यद्य प्राज्ञौ पराजितौ ।। 13।।
भोपालराज्यस्यासीद् यो भूतपूर्वो नरेश्वरः ।
मैसूरस्येव वाड्यारः पटौदी प्राप नो जयम् ।। 14।।
राजमङ्गलपाण्डेयो मिश्रश्चापि जनेश्वरः ।
पराभवाञ्जनाद्रिस्थौ जातौ वात्याहतौ द्रुमौ ।। 15।।
जगन्नाथाभिधः पूर्वो मुख्यमन्त्री विहारिणाम् ।
गतिं तामेव लेभे यां लेभे श्रीपटनायकः ।। 16।।
द्वावप्येतौ परिम्लानाननौ कालेऽत्र रेजतुः ।
मधुर्दण्डवते साठे वसन्तश्च यथा क्षितौ ।। 17।।
एतेषां या पराभूतिः स काङ्ग्रेसस्य संक्षयः ।
जनोऽपरज्यते यस्मात् तस्मै पिण्डं न मुञ्चति ।। 18।।
राजीवः स्मृतिशेषोऽपि क्षेत्रे स्वे सिद्धिमानभूत् ।
निवापाञ्जलिभिर्यद्वन्मतैर्लक्षाधिकाधिकैः ।। 19।।
श्रीविश्वनाथोऽप्यासीद् वै विजयी, चन्द्रशेखरः ।
अन्वहार्षीदिमं सिंहं बलियासिंह उच्चकैः ।। 20।।
अर्जुनाख्यस्तु यः सिंहः शुक्लः श्यामानुजश्च यः ।
तावपि प्रापतुः सिद्धिं सिन्धिया-पवनौ यथा ।। 21।।
श्रीमान् नारायणो दत्तस्तिवारी विजयाजयौ ।
प्राप्तो विधिसभायै च संसदे च यथाक्रमम् ।। 22।।
प्रधानमन्त्रिजन्याय यस्य नाम कनिष्ठिकाम् ।
नामुञ्चत् स कृती दत्तः कमलापतितामगात् ।। 23।।
असावेव हि मुख्योऽभून्मन्त्री येनोत्तरापथे ।
उर्दूभाषा द्वितीयत्वं प्रापिता न तु संस्कृतम् ।। 24।।
उत्तराख्ये प्रदेशे यन्मुलायम्सिंहशासनम् ।
काङ्ग्रेसदलमुख्यस्य दत्तस्यास्यैव सा दया ।। 25।।
अडवानी तु राजेशखन्नाऽवजयबन्धुरः ।
मेघनादं पराजित्य सौमित्रिर्नु व्यराजत ।। 26।।
असौ क्षेत्रान्तरेऽप्यासीत् संसदे विजयी कृती ।
यो वै रामरथे स्थाता युद्धे तं कः पराजयेत् ।। 27।।
अटलः सविहारी यो वाजपेयी स चाप्तवान् ।
विजयं विदिशाक्षेत्रे लक्ष्मणाख्ये च पत्तने ।। 28।।
रामायणमहाकाव्य-दूरदर्शन-दर्शने ।
या सीता सा बडौदातः सम्यग्जाता विजित्वरी ।। 29।।
अवेद्यनाथो गोरक्षपीठाधीशः पुनर्जयम् ।
प्रापदापच्च तां कीर्त्तिं यामुवाह जवाहरः ।। 30।।
अयोध्यायामपि श्रुत्वा भाजपाविजयं नभः ।
आपूर्यत महारावैर्घण्टादुन्दुभिकुक्षिजैः ।। 31।।
गोपाद्रिराजमाताऽभूद् विजयाक्षरमालिकाम् ।
अपरामपि संधार्य पौनरुक्त्येन भूषिता ।। 32।।
मध्यप्रदेशे काङ्ग्रेसः संसदे भाजपादलम् ।
अपोथयत संप्राप्य भूयोऽप्यर्धाधिकां स्थितिम् ।। 33।।
पटवा पटवासेन रेचितः केन्द्रशासने ।
स्थविष्ठसूत्र-खादीस्थसंव्यानकरुचं दधौ ।। 34।।
देवीलालस्तु न स्थानं संसदि प्राप सांप्रतम् ।
न स क्षेत्रद्वयात् प्राप्तोऽनुज्ञां निर्वाचनाध्वरे ।। 35।।
तस्य पुत्रोऽपि चौतालो निर्वाचनमहामृधे ।
पराजिग्ये तथा श्रीमान् काश्यां लोकपतिर्यथा ।। 36।।
हरियाणाभिधे राज्ये देवीलालस्य यः स्थिरः ।
आसीत् प्रभावः काङ्ग्रेसवह्नौ सोऽघनसारयत् ।। 37।।
केरलेषूत्कलेषु श्रीरासामेष्विव संगता ।
काङ्ग्रेसेनैव भूयोऽपि पञ्जरेणेव सारिका ।। 38।।
कर्णाटकेष्विवान्ध्रेषु तमिलेषु च तामिमाम् ।
महाराष्ट्रेष्विवापेदे काङ्ग्रेसः केवलः स्थितिम् ।। 39।।
पाण्डिचेरी च गोवा च मेघालय इवापतुः ।
काङ्ग्रेसस्यैव नेतृत्वं स्थिरं केन्द्रं दिदृक्षवः ।। 40।।
राजस्थानेऽपि काङ्ग्रेस एव जातः प्रजाप्रियः ।
गुर्जरेष्विव राजीवप्रीतिमत्सु यदृच्छया ।। 41।।
आदक्षिणाब्धेरा प्रालेयाचलं भारती मही ।
वङ्गचन् विहाय काङ्ग्रेसभाजपाजद-गाऽभवत् ।। 42।।
चन्द्रशेखरसिंहस्य समाजजनतादलम् ।
दलान्तरैःसहैवासीद् ग्रीष्मभीष्मवनीवनम् ।। 43।।
काङ्ग्रेसस्यापि न स्पष्टं बाहुमत्यमजायत ।
अन्येभ्यस्त्वाधिकी तत्र दलेभ्योऽभूद् विशेषकृत् ।। 44।।
राजीवगान्धिनः स्थाने विना निर्वाचनोद्यमम् ।
रावः श्रीनरसिंहोऽभूद् बुधः काङ्ग्रेसिभिर्वृतः ।। 45।।
जाते पोतस्य भङ्गेऽपि महाकूपारमध्यगाः ।
सांयात्रिका अभूवँस्ते काङ्ग्रेसदलसांसदाः ।। 46।।
तानिमान् प्रथमं भेदो जग्रासान्धान् पदेप्सया ।
पश्चात्तु सन्मतिः काचिदमेलयदुदित्वरी ।। 47।।
मुम्बईमुख्यमन्त्री श्रीपवारः शरदाह्नयः ।
नरसिंहमयूरस्य कृतेऽभाद्रपदायत ।। 48।।
आस्थान्यां संसदः सर्वे विशालायामुपस्थिताः ।
काङ्ग्रेससांसदा रावमालोकैः समवीवृधन् ।। 49।।
राष्ट्रस्यास्य पतिः श्रीमान् वेङ्कटो रमणोत्तरः ।
रामस्वामी नृसिंहाय शासनानुमतिं ददौ ।। 50।।
त्रैशङ्कवीयामालक्ष्य स तु काङ्ग्रेसवर्त्तनीम् ।
व्यचिकित्सत कालाय कियतेऽपि विदां वरः ।। 51।।
वैयाघ्रपदगोत्रस्य ततो भीष्मस्य संस्मरन् ।
वर्षीयानप्यसौ धीरस्तामिमां प्रत्यपद्यत ।। 52।।
दलप्रधानताऽप्यस्मिन् नरसिंहे व्यराजत ।
लक्ष्मीरेव हि राजीवे विश्रम्य पुनरागता ।। 53।।
प्राधान्यं श्रीनृसिंहस्य प्रत्यभिज्ञापयद् दृढम् ।
प्राधान्यं शास्त्रिणः सत्याहिंसाशस्त्रैकशस्त्रिणः ।। 54।।
श्रीवेङ्कटेन संश्लिष्टो नरसिंहो व्यराजत ।
आश्लिष्टः पश्चिमाम्भोधिर्यथा प्राच्येन सिन्धुना ।। 55।।
सदस्यानामबाहुल्यात् त्रिंशङ्कुः पञ्चमोऽभवत् ।
नरसिंहोऽस्थिरस्थैर्यो भारतीये विहायसि ।। 56।।
आसीन्मुरारजिस्त्वाद्यस्त्रिशङ्कुश्चरणोऽपरः ।
विश्वनाथस्तृतीयोऽभूच्चतुर्थश्चन्द्रशेखरः ।। 57।।
नरसिंहस्त्वसौ कच्चिच्छासनाऽस्थैर्यकश्मले ।
धेयात् त्रैशङ्कवीयत्वे पञ्चत्वं पञ्चतामयम् ।। 58।।
एकोनविंशतिं मासानस्थिरप्रभुताऽन्वभूत् ।
साम्राज्यं भारतीयेषु प्रभञ्जनचलाचलम् ।। 59।।
आस्तामिदानीं राष्ट्रेऽस्मिन् पती द्वावपि केवलम् ।
द्रष्टारावेव ताटस्थ्याद् वेङ्कटः शङ्करश्च यत् ।। 60।।
तेन स्मयमिवापन्नो वासवोऽक्षीण्यमीलयत् ।
लिप्सा चैव तितिक्षा च क्व नु सादृश्यमाप्नुतः ।। 61।।
दलप्रधानस्यैतस्य नरसिंह इति श्रुतिः ।
आधात्री कच्चिदुन्मादप्रभवाया रुजः शमम् ।। 62।।
जनानां विनयाधानाद् रक्षणादथ पोषणात् ।
प्रशास्तारो हि याथार्थ्याद् भवन्ति पितरो भुवि ।। 63।।
प्रशास्तॄणां तु भिक्षुत्वं यक्ष्मणः प्रभुता तनौ ।
का वार्त्ता तत्र सौस्थ्यस्य संपोषसुभगात्मनः ।। 64।।
कूटनीतिपरिभ्रष्टमतीनां प्रतिवेशिनाम् ।
उत्सेधाः श्रीनृसिंहस्य प्राधान्ये पातमाप्नुयुः ।। 65।।
येषां प्रज्ञा परिक्षीणा नास्तिक्येनाञ्जनात्मना ।
उत्कर्षाय प्रकल्पन्ते प्रजानां ते न नायकाः ।। 66।।
सर्वैः श्रीनरसिंहस्य नेतृत्वे या प्रदर्शिता ।
प्रीतिः प्रतीतिसौम्या स्यात् सेयं राष्ट्रस्य भूतये ।। 67।।
क्षणेऽस्मिन् पाञ्चनद्यानां जनानां मतसंग्रहः ।
मासत्रयाय संरुद्धो निर्वाचनमहात्मभिः ।। 68।।
यत्र प्रत्यहमेवासीत् ताण्डवी कश्चिदास्रपः ।
प्रतिवेशिबलिस्फीप्ततवपुः काऽत्र स्वतन्त्रता ।। 69।।
शारदादेशकश्मीरालेखिताञ्छाम्भवान् मनून् ।
जपतामपि का नासीत् तत्र वै दुर्दशा सताम् ।। 70।।
भोटक्षेत्रेष्वहिन्दूनामत्याचारस्तथैधत ।
यथा मुखे गवां मासं हिन्दूनामादधे बलात् ।। 71।।
अहिंसाव्रतिनामस्यां भूतधात्र्यामिदंयुगे ।
क्षेमस्य प्रसरो दूरे योगस्यापि न संकथा ।। 72।।
आधमर्ण्येन वर्धिष्णुशिलोच्चय-गरीयसा ।
अध्याक्रान्तस्य राष्ट्रस्य कीदृशी नु समुच्छ्रितिः ।। 73।।
ग्रीवायां या शिलात्यर्थं प्रविशालाऽस्ति लम्बिता ।
अस्माकमाधमर्ण्यात्मा स नः कीर्तेः क्षयोऽक्षयः ।। 74।।
दातारो ये ग्रहीतॄणां संस्कृतेस्तेषु कीदृशी ।
छाया काचिदपि स्मेराननेषु क्षीणतेजसाम् ।। 75।।
यन्त्राण्यपि च तान्येव तावन्त्येव वसूनि च ।
तनीयसी तनुः सिद्धेः किन्तु जागर्त्ति भारते ।। 76।।
तन्त्रं नान्यदिह त्यक्त्वा दीनभावं हृदि स्थिरम् ।
दीनाश्च द्रविणाढ्याचश्च तेजस्तिमिरसन्निभाः ।। 77।।
विस्मृता यदि सावित्री विद्या तर्हि सुहृत्तया ।
अपरं किन्नु सेव्येत त्यक्त्वैकं शार्वरं तमः ।। 78।।
नृकरोटीस्रजां भूषां यदि मन्यामहे प्रियाम् ।
पूर्वदेवत्वमेवैकं तर्हि मानुष! ते स्थिरम् ।। 79।।
आनायो जाह्नवीतोये यैरिदानीं स्तृतो नरैः ।
भस्मभासुरभाला अप्यमी कैवर्त्तका न किम् ।। 80।।
कैवर्त्तकानां साम्राज्ये मत्स्ययोजनगान्धिकाः ।
प्राधान्यं प्रतिपद्यन्ते यदि कस्तत्र विस्मयः ।। 81।।
सौगन्धिकानां सौगन्ध्यापूरितव्योमपर्वणाम् ।
कैवर्त्तकीये राज्येऽस्मिन्न्यक्कारो नैव नौचिती ।। 82।।
साम्प्रतं गृध्रगीतैव सनातनकवीरिता ।
जञ्जप्येत त्रिसन्ध्यं वै लौकिकार्थप्रसिद्धये ।। 83।।
जिजीविषन्तः क्ष्वेडेन क्ष्वेडकीटायिता इमे ।
क्ष्वेडं वर्षन्ति चेद् देवा विस्मयन्तेतरां कथम् ।। 84।।
पीनाः पयोधराः कुत्र सर्पिणीनां विषात्मनाम् ।
का श्रद्धा तत्र जीवातोर्लेशमात्रेऽपि देहिनाम् ।। 85।।
बध्नीमः सेतुबन्धान् यान् कपिकच्छूकृषिस्तु तैः ।
सिच्येत यदि खर्जाणां कृते दूष्येत कः परः ।। 86।।
कविता गेहिनी यत्र रसवत्यै हि निश्चिता ।
प्रजातन्त्वव्यवच्छेदस्तत्र स्वप्नेऽपि कीदृशः ।। 87।।
असमञ्जसतामेव समञ्जसतया नयन् ।
वामतामेव मार्गस्य वन्दतेऽद्य युगे कृती ।। 88।।
स्वैरतामात्रसाम्राज्ये स्वतन्त्रीकृतचेतनः ।
स्रावः क्लेशस्य यस्तत्र नाद्यत्वे मोक्षधीर्न किम् ।। 89।।
वाचाटा लैङ्गिकाश्चैव यत्र श्रद्धेयसत्तमाः ।
नटवाराङ्गना-गानवाद्य-यागेऽत्र केऽपरे ।। 90।।
इति मनसि कवीन्द्रा भावयन्तोऽपि दोषान्
न खलु वदितुमैच्छन् वीतरागायमाणाः ।
भिषजि भजति मौनं का सृतिः कामुकाना-
मपभयमवसातुं सौस्थ्यसौभाग्ययोगम् ।। 91।।
इति ‘स्वातन्त्र्य सम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘नरसिंहसंभावनो’ नामैकत्रिंशः सर्गः।। 31।।
द्वात्रिंशः सर्गः
नृसिंहरावं तमशोककक्षे श्रीवेङ्कटार्यः खलु हिन्दिवाचा ।
अग्राहयन्मन्त्रिपदस्य मन्त्रान् संसत्प्रधानत्वसमेधितस्य ।। 1।।
शब्दं परब्रह्मतया नयन्तः पश्यन्ति तत्रैव हि भारतीयाः ।
प्रामाण्यमुच्चैस्तममाद्रियन्तेऽनूचानयोगं शपथाभिधानम् ।। 2।।
स ईशसाक्ष्ये समुदाजहार प्रधानमन्त्रित्वमनून् पवित्रान् ।
चक्रे प्रतिज्ञाञ्च निजाधिकारकर्त्तव्यकार्यप्रतिपालनायै ।। 3।।
अशोककक्षे समुपस्थितानां तदा दयालूत्तरशङ्कराणाम् ।
चञ्चत्पुटं प्रादुरभूदुदारं तारं च सार्धं सकलैः सदस्यैः ।। 4।।
शम्या च चञ्चत्पुटकं च सार्धमासन्दिकास्फालनया तदानीम् ।
अशोककक्षाभ्रमपूरयेतामपूरणीयोदर-दीर्घ-भावम् ।। 5।।
उपस्थितौ शेखरविश्वनाथावशोककक्षे स्मितशोभिवक्त्रौ ।
विरेजतुर्हन्त तदा पुराणौ दीपौ नु दीप्रेऽभिनवे प्रदीपे ।। 6।।
नृसिंहरावोऽर्जुनसिंहवीरं वव्रे सुमित्रातनयं नु रामः ।
समस्तभारप्रसहिष्णुमेकं तमेव लोकस्तु तदाऽभ्यमंस्त ।। 7।।
श्रीसिन्धिया माधवरावनामा शुक्लश्च विद्याचरणाभिधानः ।
अद्यापि मन्त्रित्वमुपेयिवांसावलौकिकी सा हि नृसिंहशक्तिः ।। 8।।
अशोकनाम्ना प्रथिते विशाले कक्षे सुवर्णाक्षरकीर्णगीते ।
स उत्सवो भारतवर्षसंविद्भट्टारिकाया नु बभूव साक्ष्ये ।। 9।।
अजीगृभत् तत्र हि विश्वानाथः प्रधानमन्त्रित्वधुरं गतेद्युः ।
उवाह तामेव च शेखरार्योऽचिरेण सेयं जनतन्त्रशक्तिः ।। 10।।
न ह्यत्र धत्ते प्रमुखां प्रतिष्ठां व्यष्टिर्दलं वाऽपि धनं बलं वा ।
अत्रास्ति राजा जनसंविधानाक्षरार्थबन्धः समभावभव्यः ।। 11।।
न कृष्णचन्द्रो न च कर्णसिंहो न चापि नारायणदत्त एव ।
प्रपेदिरेऽस्मिन् पदमुत्सवे यत् सा कालशक्ते रथचक्रनेमिः ।। 12।।
विशालवंशोन्नतसुस्थगात्रः सोष्णीषपट्टो बलरामवीरः ।
अलक्ष्यतास्मिन् पृथगेव कक्षे गण्डाद्रिगोत्रे नु हिमाद्रिगात्रम् ।। 13।।
रावस्तदानीं शपथं ग्रहीतुं हिन्दीगिरं स्वीकृतवान्, बलोऽपि ।
तथैव तामेव, समृद्धशास्त्रं न संस्कृतज्ञावपि संस्कृतं तौ ।। 14।।
आसीत् स कश्चित् समयो यदानीं गृहीतवन्तः शपथं सदस्याः ।
प्रायेण षष्टिः सुरभाषयैव प्रीत्या प्रतीत्या च निसर्गसिद्धया ।। 15।।
हिन्दीमपि स्वैरममीषु केचित् स्पष्टं न वक्तुं प्रभवो बभूवुः ।
आङ्ग्लीमपि प्रोच्छलदच्छधारां न शेकुरुच्चारयितुं परेऽपि ।। 16।।
यां वाग्ग्मितां नेतृगुणेषु धीराः कनिष्ठिकाग्राङ्गुलयो गृणन्ति ।
हा हन्त सा दत्ततिलाञ्जलिर्नु संलक्ष्यते संप्रति सांसदेषु ।। 17।।
स्पष्टार्थसंपच्च समर्थशब्दावलिश्च वाग्ग्मित्वमलङ्करिष्णू ।
तर्काधिरूढिं यदि संश्रयेते वाचस्पतेस्तर्हि न काप्यपेक्षा ।। 18।।
यद्वा सवित्री वचसां जनानां समग्रसंपत् प्रसरीसिसर्त्ति ।
स्वतस्तरां संविदि राजते चेद् वंशानुगोऽभ्यासगुणाभियोगः ।। 19।।
यद्वाऽर्धमुच्चारणमेव बाला यथा प्रशंसन्ति यदा शिरःस्थाः ।
तत्रार्यवाग्ग्मित्वपुराणगाथा व्यथायमानैव विभाति वित्सु ।। 20।।
धीरत्वमाहुर्विबुधा गुणेषु महत्तमं नायकसत्तमेभ्यः ।
हा हन्त किन्त्वद्य विपाद्यते गौर्धार्ष्ट्यां तु धीरत्वधिया नयद्भिः ।। 21।।
सत्यं परेषामपि वक्त्रबिम्बे सत्यं हि तत्राग्रहिलेषु भेदम् ।
वक्तारमासाद्य विभावयद्भिर्न हि प्रमाणीक्रियते नयज्ञैः ।। 22।।
विकारहेतुष्वभितोऽतिमात्रं नटत्स्वपि स्निग्धहृदो न ये स्युः ।
तेष्वेव नेतृष्वभिधानवर्णव्यूहेऽर्पयत्स्वर्थमियं स्थिरा भूः ।। 23।।
परोपजापे नितरामुदारा अवद्यमन्यस्य मुदोद्गिरन्तः ।
ये वै द्विपादः पशवो न विद्मस्तेषां न पद्यां विपदां निषद्याम् ।। 24।।
अमी द्विपादो ननु दाक्षिणात्या अमी ह्युदीच्या इति या च बुद्धिः ।
पौरस्त्यपाश्चात्त्यविभागभाजां तस्यां लसन्त्यामुदयस्पृहा किम् ।। 25।।
विवाचसां या खलु कापि पुंसां मही महीयेत न चेदियं ज्ञैः ।
भेदेष्वभेदं प्रतिपद्य तुष्टैः कथं ध्रियेतेयमिदंयुगेऽपि ।। 26।।
रामो न राज्यं जगृहे प्रसन्नो यथा जनस्थानमरातिकीर्णम् ।
लिप्साऽभिमानप्रविरिक्तचित्ता भद्रासनायन्ति कुशाऽऽसनानि ।। 27।।
गर्धाऽग्रजा काचन कुम्भकर्णस्वसा न तस्याः खलु कापि सीमा।
सा स्वामिनी यस्य जनेषु तस्य भोक्तृत्वमुग्रं हि सरीसरीति ।। 28।।
न भोगिनो नायकतां लभेरन् स्वां सन्ततिं ये खलु चर्वयन्ति ।
अभोगिनां चेन्निजधर्मनिष्ठा सा कल्पवल्ली ननु मर्त्यलोके ।। 29।।
यो वै नृसिंहः स हि सन्निवेशः सिंहस्य नुश्चापि परात्परस्तम् ।
धर्म्यं च काम्यं च विमानयत्सु न जातु लक्ष्मीः प्रददाति दृष्टिम् ।। 30।।
सान्तत्ययोगः स हि कोऽप्यमीषां विभूतिधाम्नां महतां गुणानाम् ।
मैत्रीमयी काचिदुपेक्षयेद्धा कारुण्यसंविद् यदियं प्रभूणाम् ।। 31।।
अन्यस्य गेहे दहनं क्षिपन्तः सर्पिष्टमैः सार्षपकैश्च सार्धम् ।
संवत्सरान्तस्य पुरोधसस्ते सोष्णीषपट्टाश्च सचन्दनाश्च ।। 32।।
सहस्रशीर्षः पुरुषोत्तमस्तान् नेत्रैः सहस्रैरनिशं प्रपश्यन् ।
नियन्तुकामः क्रमयत्यजस्रं सुदर्शनं कञ्चन चक्रराजम् ।। 33।।
स चक्रराजो नियतिं स्वसारं साम्मातुरं चापि समेत्य कालम् ।
चराचरं चङ्क्रमयत्यजस्रं योषिन्नटीपुत्तलिकां नु सूत्री ।। 34।।
तत्राभिमानो ननु कीदृशः स्याद् विभूतियोगे क्षणिके प्रसिद्धे ।
विरेचितान् मानविषेण कच्चिद् विभूतयोऽप्युत्सविनो दधीरन् ।। 35।।
निदाघमारभ्य वसन्तमासं यावद् स एष क्रमतेऽतिचित्रः ।
तं वारं ये क्षणशो विदग्धा धयन्ति ते स्वं न विकारयन्ति ।। 36।।
आ संपरायं जनुषः प्रसिद्धेः परं विपाकान् विविधान् धयन्तः ।
उत्सेकहालाहलपानगोष्ठीकषायिताङ्गच न हि ते भवन्ति ।। 37।।
कर्के तनौ मङ्गलकेतुशुक्रजीवाः सराहुर्मकरेऽर्कसूनुः ।
चन्द्रस्तुलायां मिथुने ससूर्यो बुधश्च काले शपथस्य भान्ति ।। 38।।
त्रिकोणनाथद्वितयी सशुक्रा सकेतुका चापि शनैश्चराढ्या ।
व्यये बुधार्कद्वययोगयुक्ता दारिद्रयमायुष्य इवातनोति ।। 39।।
नृसिंहमेनं स शरत्पवारोऽप्याशिश्रिये रक्षणमन्त्रिभावात् ।
स्वराष्ट्रमन्त्रित्वधुरं दधानः स वै चवानो नु तदा स्म भाति ।। 40।।
शेषस्य निर्वाचनसप्ततन्तावाचार्यकं संश्रयतः प्रभावः ।
सभामिदानीं दशमीं कथञ्चिदभावयल् लोकसभेति नाम्नीम् ।। 41।।
शेषस्य शेषेण समग्रभारसहिष्णुतायां सदृशक्षमस्य ।
दार्ढ्ये स्वकर्त्तव्यपरायणत्वे दाक्ष्ये च नान्यः स्मृतिमाजिहीते ।। 42।।
शैलस्य कस्यैव निशान्धकुक्षेर्दर्शे तिथौ केनचिदुद्धृतोऽस्ति ।
शेषाभिधः कोऽपि घटोत्कचाग्रजन्मा दृशोरप्यतिभीषणो यः ।। 43।।
यद्वा मही तं सुषुवे न हि, द्यौरेवाम्बुभिः सार्धममुं मुमोच ।
दुर्वाससो रामपरश्वधस्य यद्वाऽङ्गणे क्वापि हि दर्भगर्भे ।। 44।।
न मेनका नापि तिलोत्तमा यं शृङ्गचरसारैर्नयनप्रसारैः ।
अलं विकर्त्तुं कुल एष जातस्तस्यैव कस्यापि महामहर्षेः ।। 45।।
यस्तीक्ष्णतायाः क्षुरिकाग्रधाराप्रसारितायाः खलु चण्डपिण्डः ।
हास्यं च लास्यं च न वेद यो वै रौद्रोऽवतारोऽस्ति पिचण्डतायाः।। 46।।
यस्याक्षिगोलेऽपि मणिप्रदीप्रे वामेऽप्यवामेऽपि च काचिदेका ।
जागर्त्ति जागर्त्तिरुदारतारा दिवा च रात्रौ च विना विरामम् ।। 47।।
स एकशेषः स्फुरणाजडिम्नोः संप्रत्ययाप्रत्यययोश्च सूक्ष्मः ।
स वै विशेषः सदृशेतरस्य द्रुतं पुरःस्फूर्त्तिकतामितस्य ।। 48।।
प्रीतिं न यो वेद न वापि भीतिं विधानधारामधिरुह्य धीरः ।
कर्त्तव्यकर्मप्रतिपूरणायां स्वस्यां स्वराष्ट्रस्य कृते प्रवीरः ।। 49।।
भल्लाभिधानं प्रतिमल्लभल्लं पुरस्सरीकृत्य विचेष्टितस्य ।
न चेष्टते यस्य पुरोऽङ्गदानां पादोऽपि कल्पस्य विकल्पनायै ।। 50।।
स आदिशेषस्य नरावतारः शेषो निदेशानपि शासकानाम् ।
न पालयामास फलान्यपश्यन् निर्वाचनोत्थानि हिताहितानि ।। 51।।
रमाप्रसन्नं यदिवाऽद्य भूरेलालं चितिः संस्पृशति प्रहृष्टा ।
तां शेषशेषस्य विशिष्य दीप्रां कर्त्तव्यनिष्ठादृढताममवेक्ष्य ।। 52।।
एवंविधानां हि निजाधिकारमर्यादया कीलितहृत्तटीनाम् ।
सौमित्रिरेकः पवनात्मजोऽन्यः प्रसन्न आदर्श इहार्य्यभूमौ ।। 53।।
श्रीवेङ्कटः शङ्करशेषयुक्तो निर्वाचनाद्रिं भ्रमयाञ्चकार ।
यं भारताब्धौ, सुषुवे स रत्नं रावं नृसिंहं, न नरं न सिंहम् ।। 54।।
बुभुक्षितस्तिष्ठति कोऽपि कुक्षौ नरस्य यक्षः श्रितकामपक्षः ।
जितेन्द्रियः सप्ततिवर्षदेश्यो रावस्य कुक्षिस्तु निषिद्धयक्षः ।। 55।।
हिंसैव सिंहः स नृसिंहरावे शान्ते च दान्ते च कृतक्रिये च ।
लब्धावकाशीभवितुं सतृष्णोऽप्युच्चैरलब्धप्रसरो हि नित्यम् ।। 56।।
या वै नृसिंहस्य जगन्नियन्तुः परात्परा संविदधीश्वरी सा ।
नृसिंहशब्दादजहज्जहत्स्वा लोके महावाक्यधृतेव भाति ।। 57।।
आन्ध्री ककुप् प्राप कृतक्रियत्वं प्रधानमन्त्रित्वमिते नृसिंहे ।
आचारपूता ऋषयस्तु यात्रां तीर्थोत्तमानां परमार्थयन्ते ।। 58।।
सह्यो महेन्द्रो मलयः सविन्ध्याः सदण्डकाश्चापि ससागराश्च ।
यमार्यदेशं परिपालयन्ते तस्मिन् प्रमाणन्ति न दिग्विभेदाः ।। 59।।
एकं नभो भूतलमेकमेकं दिशां वितानं क्षितिजान्वितानाम् ।
एकं वचः संस्कृतिचक्रमेकं यस्मिन्ननेकत्वमिहाभ्रपुष्पम् ।। 60।।
उपप्लवं ये जनयन्ति तेषां भागीरथीवारिणि नक्रयूनाम् ।
यद् भेषजं तत् खलु कालनेमौ न दृष्टपूर्वं न मरुत्सुतेन ।। 61।।
यूकाश्च लिक्षाश्च सरक्तबीजाः समत्सराश्चापि सपल्लिकाश्च ।
वसन्ति देवायतनेष्वमीषामस्माकमेभ्यः क्व समाधिभेदः ।। 62।।
पञ्चाननानामपि पञ्चतायाः प्रसिद्धये स्मो न न सिद्धमन्त्राः ।
व्याघ्रस्य कृत्तौ हि हिमाद्रिजायाप्राणेश्वरः साधयते समाधिम् ।। 63।।
नारायणं पाशुपतं च किञ्चिद् ब्राह्मेण पाशेन युतं यदस्त्रम् ।
अस्माकमस्ति प्रतिभा तदीक्षाक्षमा न तूत्सेकविषं पिबामः ।। 64।।
सामैव दानाग्रजतां प्रयाति दानं च सामानुजतां क्षितौ नः ।
यौ भेददण्डौ चरमौ हि तौ नः स्वतन्त्रतायास्तु कृतेऽभ्युपायौ ।। 65।।
उपार्ज्य विश्वस्य समा विभूतीर्वितीर्य ता अर्थिषु दीक्षितेषु ।
मृत्पात्रशेषत्वविधानदीर्घसत्राध्वराचार्यवरा इमे स्मः ।। 66।।
आदानमात्रं परमं न येषां कृत्वाधिकं वर्षितुमात्तदीक्षाः ।
अस्माकमेषां दिवि संभ्रमन्तो बलाहका एव भवन्ति मित्रम् ।। 67।।
उत्सर्ग उत्सर्गत एव येषां गृहेषु दूर्वादलवत् प्ररूढः ।
तेषां निधानैः परिपूरितानि क्षेत्राणि गोत्राणि च जाग्रतीह ।। 68।।
लक्ष्मीश्चलेत्याश्रमिणां प्रवादो यथार्थतामक्षरशो दधाति ।
त्यागाय यागाय च दीक्षितानामातिथ्ययोगाय च लिप्स्यते श्रीः ।। 69।।
रत्नानि रत्नाकरवत् प्रसूते शास्त्राणि शस्त्राणि च धीर्यदीया ।
यादृच्छिकस्तेषु विभूतियोगो राष्ट्रे विभूतीः प्रविकल्पयेत ।। 70।।
सन्तानवाहीनि भवन्ति भूम्ना स्रोतांसि सान्तत्यगतिर्मरुत्वान् ।
श्रियश्च वर्षाश्च समानमाना विराजमानाः सततं विभान्ति ।। 71।।
अयं मनुष्यस्य हि दस्युभावो वितीर्यते यत् खलु वैषमीभिः ।
कार्षापणानां कियतीं नु मात्रां लक्ष्मीश्वरा बिभ्रति पाणिगर्भे ।। 72।।
कोषेषु ये बिभ्रति तेऽपि जोषं विश्वेश्वरे जाग्रति तोषहीनाः ।
एकाधिकारश्च मृषाधिकारश्चार्थान्तरं नास्ति समाजवादे ।। 73।।
रत्नानि दुग्ध्वा क्षितिसौरभेयीमाहृत्य भूयांसि वसूनि दिग्भ्यः ।
ये विश्वजित्सत्रकमाहरन्ति विराजते तेषु हि साम्यवादः ।। 74।।
न साम्यवादो न समाजवादो फलेग्रहिः कुत्रचनापि तावत् ।
यमानहिंसादिमयान् न यावद् धर्माभिधान्नैव समाचिनोति ।। 75।।
कथं भिलाई फलमाश्वधत्त न रूरकेला, छलमत्र हेतुः ।
छलं च सत्यं च परस्परेण विरुद्धमेवार्यधियो गृणन्ति ।। 76।।
औत्कर्षिकं किञ्चन संविधानं संकल्पदारिद्रयमलीमसानाम् ।
प्रसिद्धयति च्छिद्रयुते क्व पात्रे क्षीरं जलं वा स्थिरतामुपैति ।। 77।।
येषां मुखं मलिनयन्ति न कीर्त्तिलोपा
येषां गृहं कलुषन्ति न कामचाराः ।
स्वैरं चरत्सु नगरेषु वनेष्विवैषु
श्रीः सन्निधानमुपयाति महाजनेषु ।। 78।।
यः कश्चिदारटति वाङ्मयकुल्यकासु
भेकीभवन् नवसमाजविधान-शब्दान् ।
रज्जुं निकृत्य कलशं च विभज्य सोऽपि
कौपीरपः परिपिपासति घर्मदग्धः ।। 79।।
यो वै कविर्जनयते चलतां जनेषु
सोऽयं कविर्न, स हि कश्चन जालिकोऽस्ति ।
तस्य ग्रहेण परिपाशितचेतनानां
मोक्ता भवेद् यदि कदाचन मूलदेवः ।। 80।।
संविन्नटी स्फुरति यत्र शिलाऽपि तत्र
मूर्त्तिर्भवत्यनुपमाङ्गिकभङ्गिमाङ्कच ।
या वै श्रुतिर्व्रजति साऽपि कलां विशुद्धा-
मातोद्यसङ्गतिशुभा स्वरयोगविद्याम् ।। 81।।
स्वातन्येर्स नरसिंहसङ्गतिमिमे वीक्षामहे तृष्णया
सौराज्यस्य परात्परस्य वसुधामेतां स्वरातन्वतः ।
आकल्पं भरतावनिः परिचयान् कुर्वीत सर्वंसह-
प्राग्भारोदयसंविधास्वनुपमानस्य प्रसासत्तये ।। 82।।
इति ‘स्वातन्त्र्य सम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘सौराज्यशंसनो’ नाम द्वात्रिंशः सर्गः।। 32।।
त्रयस्त्रिंशः सर्गः
नृसिंहरावोऽब्ददशार्धमासीन्निष्कण्टकः शासनसूत्रहस्तः ।
पश्चादसौ राष्ट्रपतिं ययाचे निर्वाचनं नूतनमार्यशीलः ।। 1।।
तस्मिँश्च निर्वाचनयज्ञकार्ये काङ्ग्रेसपक्षे क्षपितेऽध्यरुक्षत् ।
श्रीवाजपेयी प्रथमं ततश्च श्रीदेवगोडा नरसिंह-पीठम् ।। 2।।
तं पातयामास परन्तु सीतारामोऽचिरादेव नृसिंहपीठात् ।
निवेशयामास च तत्र विज्ञं गुज्रालमिन्द्रेण युतं कुमारम् ।। 3।।
इन्द्रस्तु कूर्चेण युतो बभाषे यामाङ्ग्लभाषां मधुराक्षराढ्याम् ।
तामाङ्ग्लभूमौ धृतविग्रहोऽपि विज्ञो जनो नानुचकार सम्यक् ।। 4।।
श्रीवेङ्कटेशस्य पदे दयालुः श्रीशङ्करो यद्वदिदंक्षणेऽभूत् ।
पदे दयालोर्भरतावनौ श्रीनारायणो राष्ट्रपतिर्नवीनः ।। 5।।
पश्चात् कुमारस्य कुमारपीठेऽध्यरुक्षदार्यः खलु वाजपेयी ।
वारे द्वितीये स बभूव किञ्चिद् आरूढपादः स्वपदेऽधिदिल्लि ।। 6।।
काङ्ग्रेसिनोऽस्मिन् समयेऽर्जुनेन संप्रेरिता अप्यलभन्त मौनम् ।
शक्तिं स्वकीयां परिचिन्वते ये ते मर्त्यलोकेऽत्र भवन्ति सिद्धाः ।। 7।।
श्रीवाजपेयी सफलो बभूवाणुस्फोटकार्येऽतितरां निगूढे ।
यन्नामरीकाऽप्यनुमानदक्षा बभूव दक्षा प्रथमं विबोद्धुम् ।। 8।।
पश्चाद् यदा सा बुबुधेऽणुशक्ति संपन्नतां भारतवर्षराष्ट्रे ।
न्यरुद्ध सर्वामपि योजनासु प्रदीयमानां तु सहायतां स्वाम् ।। 9।।
ये भारतीयाः खलु शेखराद्याः प्रधानमन्त्रित्वयुताः पुरा ये ।
तैरप्यकार्यस्य विरोध एव संसत्सभायामिव वृत्तपत्रे ।। 10।।
ये साम्यवादाय दृढा अभूवन् संसत्सदस्या अणुशक्तिसिद्धौ ।
अदर्शि तैरप्यधुना विरोधः श्रीवाजपेयीति विदांवराय ।। 11।।
सनातनेनाऽत्र कवीश्वरेण श्रीवाजपेयिन्यणुशक्तिसिद्धिम् ।
विभाव्य हृष्टेन कृताः प्रणामा युगाय चास्मै परमाणुशक्तेः ।। 12।।
परमाणुयुगाय नः प्रणामाः कलयामोऽत्र चराचरस्य पुष्टिम् ।
अथ या खलु पुष्टिरत्र पोषः परमात्माभिमुखः स कोऽपि घोषः ।। 13।।
अयि भारततीर्थवासिनां नः कृतिनां च व्रतिनां च नैव पादौ ।
सरतः पुरतोऽस्ति यत्र घातप्रतिघातौपयिकी क्रिया कराला ।। 14।।
अहमस्मि युधिष्ठिरोऽपि कश्चिन्न हि यो योद्धुमभूत् समुत्सुकात्मा ।
अहमस्मि न कोऽपि कूटविद्यानिपुणो द्रौणिरथो न कोऽपि कर्णः ।। 15।।
अनयोरफलैव शक्तिरेतौ कृपाणावेव बभूवतुर्वराकौ ।
कुरुतः प्रलयाय यौ प्रयाणं परमध्वैव विवर्त्ततेऽनयोर्धिक् ।। 16।।
कुशलोऽस्मि न सव्यसाचितायां रभसोत्पातनिपातनिष्ठुरायाम् ।
परमाणुमहास्त्रशक्तिकोषो मम पार्श्वे यदि सा कृपाम्बिकायाः ।। 17।।
अहमस्मि पटुः स्वरक्षणायां यदि किं तेन परस्य कापि हानिः ।
गरुडो हनुमान् विभीषणो वा ननु किं न स्मृतिमस्य मे प्रयान्ति ।। 18।।
असुरेषु सुरेषु वा क एषां क्षपणेऽभूत् पटुरस्त्रशास्त्रधान्त्रः ।
अयि कुत्र गतः स कोऽपि पक्षी समपाती कृपणाङ्गकोऽप्यजय्यः ।। 19।।
पुनरस्य बभूव दिव्यदिव्यं युगलं किञ्चन पक्षतेश्च्युतायाः ।
न हि रावणरावणिप्रहाराः क्रमणां सञ्जनयन्ति तत्र काञ्चित् ।। 20।।
भरतावनिरद्य पक्षती ते स्मरति द्वेषिषु भीषणायमाने ।
अयि रावण! तेऽस्त्यशक्तिरेषा यदसौ भाति विभीषणोऽद्य रामे ।। 21।।
अथ सूर्पणखा क्व ते प्रयाता भगिनी सौभगिनी च योगिनी च ।
ननु कुत्र गताः करालगात्रा सहजाः केऽपि खरादयस्तदीयाः ।। 22।।
स हि दाशरथिः समानिमान् यद् व्यतृणत् सूर्पणखानुजान् धनुष्मान् ।
न हि तत्र पराक्रमे सहायं वृतवॉल्लक्ष्मणमप्यसौ महौजाः ।। 23।।
अयमेव स निस्सपत्न एकः परमो वीरवरो य एकमात्रम् ।
अमुचत् किल बालिने स्वबाणं स च बाणो विफलो न जायते स्म।। 24।।
न हि कोऽपि विदाञ्चकार को वा स बभूवाद्भुतशक्तिकोऽस्य बाणः ।
अमुचन्नहि यं स रामनामा परवीरो बत लक्ष्यनिश्चयैषी ।। 25।।
ननु रोदिति बालिनः कलत्रं शतशो वक्ति च हन्त किं तदस्त्रम् ।
न च वेद तदेतदद्य यावत् परमात्मापि रिपोर्भयङ्करस्य ।। 26।।
अथ पृच्छतु विश्वमानवोऽस्मिन् क्षणरत्ने ननु किंन्वभून्मुनीनाम् ।
वसतां विपिने तपोरता ये विपिने शस्त्रशतानि बिभ्रति स्म ।। 27।।
प्रददाति शितानि राघवाभ्यां द्युतिमन्त्यस्त्रशतान्यगस्त्यनामा ।
परमर्षिरुवाह यस्तु शान्तिं हृदयेऽभूदथ यस्त्वजातशत्रुः ।। 28।।
अभवत् खलु सा स्वयंप्रभापि प्रथमा शस्त्रिषु या बिलैकवासा ।
परमामभजद् विभूतिमाद्या यमिनां किञ्च बभूव निर्विलेपा ।। 29।।
बिलमध्यगतापि या विभूतीरखिला एव दधाति निर्व्यलीका ।
अथ शापसहस्रवृष्टिदक्षा करुणामेव बिभर्त्ति चित्तवृत्तिम् ।। 30।।
पवमानसुतोऽभिमानरिक्तो ननु नासीत् परिदुर्बलः स वीरः ।
अकरोत् परकीयमेव कार्यं न निजस्तस्य बभूव कोऽपि कामः ।। 31।।
विहितो ननु वाजपेययागोऽप्यटलेनाद्य तप/रस्विना यमेतम् ।
जगती परिवीक्षते स्मयेन क्वथिता च स्थगिता च विस्मयेन ।। 32।।
यदि भारतभूमिवीरजातव्रतमेतन्न निभाल्यते नवीनैः ।
नृपनीतिपथे पिशाचतैषा न हि तां संयमिनो वदन्ति धर्मम् ।। 33।।
मम गेहमिमं ममैव पार्श्वप्रतिवेशी क्रमशो ग्रसिष्णुरेषः ।
मनुजो ननु दुर्मदायतेऽस्मिन् कृपणे कालकणे स्वनाशहेतोः ।। 34।।
परमाणुयुगाय नः प्रणामाः स्ववशो मृत्युरहो यतः समेषाम् ।
भवने चयनानि सन्तु हेतू रचनायां क्षरणे स्वतस्तु सिद्धिः ।। 35।।
शरीफनाम्ना सह पाकदेशप्राधान्यभाजा सममेष वीरः।
चकार वार्त्तां बसयानयात्रां कृत्वा तु सीमावधिकां प्रसादात् ।। 36।।
पाकः परन्तु क्षपयाञ्चकार वार्त्तामिमां कारगिलं ग्रसित्वा ।
ये स्वार्थिनस्ते वचने दृढत्वं न दर्शयन्त्येव कदापि लोके ।। 37।।
ये पाकदेशे निवसन्ति तेषां नो नास्ति लोकायतिकत्वकीर्त्तिः ।
निर्मातुमेते न तथा यतन्ते यथाऽपहर्त्तुं परकीयमर्थम् ।। 38।।
एषैव नीतिः खलु पूर्वजानामपीह तेषामितिहास-सिद्धा ।
इमां विना को नु ददीत तेभ्यो महत्तरं वैभवमिन्द्रतां च ।। 39।।
परो न लोकोऽस्ति न चापि कायः कार्यस्ततोऽद्यैव हि सर्वभोगः ।
इतीयमस्ति प्रतिपत्तु तेषामेषां गतिः काऽस्तु परा नृलोके ।। 40।।
पाके स्वतन्त्रं बत सैन्यमासीदतः शरीफोऽप्यभवन्न शक्तः ।v
उपद्रवान् भारतसीमपार्श्वे संमूर्च्छतः प्राणहरान्निरोद्धुम् ।। 41।।
तत्रैव काले ननु संसदि स्वं स्थानं जहावेकमतेन धीरः ।
श्रीवाजपेयीति पुनःप्रतिष्ठः प्रधानमन्त्री प्रथितप्रभावः ।। 42।।
त्रयोदशं तर्हि बभूव राष्ट्रे निर्वाचनं कारगिलस्य जेता ।
श्रीवाजपेयी सहयोगिभिर्यज्जिगाय संघर्षमवाप्य तैस्तैः ।। 43।।
स्वयं स वीरो ननु कर्णसिंहं कांङ्ग्रेसनेतारमपि प्रदर्श्य ।
पराजयं लब्धजयो बभूव प्रधानमन्त्री बहुभिर्मतैः स्वैः ।। 44।।
श्रीसोनियाऽपि प्रतिपद्य दिव्यं जयं तदानीमुभयत्र रेजे ।
द्वाभ्यां वृता दक्षिणभारते च स्वीये तथैवोत्तरभारते च ।। 45।।
सा वै बभूव प्रतिपक्षनेताकाङ्ग्रेसगं वीक्ष्य पदं द्वितीयम् ।
तामन्वमोदन्त समेऽपि संसत् सदस्यनेतार उदारचित्ताः ।। 46।।
सा नैव शेके नरसिंरावाभिख्याय नेत्रेऽपिइ पदं प्रदातुम् ।
तत्रास हेतुर्ननु रामजन्मभूमौ जनैर्मस्जिदशातनं धिक् ।। 47।।
रावो हि रामस्य चकार रक्षां साकेतके मूलपदस्थितस्य ।
रावो हि चक्रे बत बार्वरस्य ध्वंसं तदानींतनमस्जिदस्य ।। 48।।
इयं हि बुद्धिर्ननु नेतृवर्गे काङ्ग्रेससंघस्य बभूव रूढा ।
इयं त्वसत्या न हि नास्ति सत्या यद्यप्यसौ वीक्ष्य तुशास्तृशक्तिम् ।। 49।।
असावहङ्कचर-कलिः प्रशास्तृचरस्य शास्तुश्च हृदि स्थितस्य।
मानातिरेकस्य यदा कदाचिदुत्थानमाप्तस्य विलक्षणस्य ।। 50।।
न बार्वरे मस्जिदसंज्ञकेऽभून्नमाजकार्यं ननु मुस्लिमानाम् ।
इस्लामधर्मो न हि दस्युभावेनाप्तेऽनुजानाति पदे नमाजम् ।। 51।।
न तत्र चिह्नं ननु मस्जिदस्यसुरक्षितं कुत्रचनाप्यपश्यत् ।
सनातनाख्यः कविरेष वर्षचतुष्टयात् पूर्वमुदारदृष्टिः ।। 52।।
चिह्नचन्यभूवन्ननु तत्र हिन्दूदेवालयस्यैव पुरातनानि ।
भित्तौ विलग्नान्यथ भूनिखातादपि स्फुरन्ति स्वयमुद्गतानि ।। 53।।
रावाभिधानो यदि नो निषेधं चकार तस्मिन् खलु हिन्दुकार्ये ।
का ग्लानिरेषा ननु शास्तृभावस्यैतस्य विज्ञस्य नरेतिहासे ।। 54।।
न सोनिया नापि च केसरी किन्त्वमुं नृसिंहं मनुते स्म शुद्धम् ।
एतेन विज्ञेन हि विश्वमञ्चे भूयः प्रतिष्ठाऽऽपि कृतेऽर्थशक्तेः।। 55।।
वयं दरिद्रा न हि, सन्ति पार्श्वे धनानि नः कोषगतानि, तेषाम् ।
मर्यादया विश्वसनीयतायामिमे भवामः प्रथमे धरित्र्याम् ।। 56।।
इत्येवमादि प्रथयाञ्चकार रावो धरित्र्यां प्रथमानकीर्त्तिः ।
श्रीमान् मनोमोहनसिंहनामाऽप्यभूदिहार्थेऽस्य सहायकोऽग्रयः ।। 57।।
इयं तु नः काचन कुत्सितैव नीतिर्यदेतं निखिलं विहाय ।
अवद्यतामेव निरर्गलाः स्मो द्रष्टुं गुणेषु प्रतिभानभाजाम् ।। 58।।
श्रीवाजपेयी निपुणस्तदानीं निर्धारयामास तु सर्वमान्यम् ।
कार्यक्रमं केन्द्रसमर्थितं च सर्वैर्दलाग्रयैः परिपूजितं च ।। 59।।
कल्याणसिंहो ननु मुख्यमन्त्री बभूव यः कोऽपि परात्परस्य ।
प्रदेशरत्नस्य स गूढगूढं श्रीवाजपेयिन्यभवद् विरोधी ।। 60।।
तत्याज स स्वं दलमार्यभावोऽभिवीक्ष्य तस्मिन् विमुखत्वमुच्चैः ।
रामं प्रति, प्रीतिभृदेष हिन्दूधर्मे च रामे च समानमानात् ।। 61।।
श्रीश्रीशचन्द्रोऽपि बभूव काश्या यत् सांसदः साऽपि कृपैव मातुः ।
स्थानं यदीयं समवाप पश्चात् वारद्वयं जायसवालसंज्ञः ।। 62।।
श्रीशेषनेनातितरां निरुद्धाः सर्वेऽपि निर्वाचनकार्यदक्षाः ।
अल्पेन वित्तेन निजं प्रचारं चक्रुर्भिया निर्मथितान्तरङ्गचः ।। 63।।
श्रीशेषनो राष्ट्रपतेः पदाय प्रत्याशिभावेन समुत्सुकात्मा ।
पराजितोऽभूदथ शान्तिमापदज्ञातभावेन वसन्निदानीम् ।। 64।।
श्रीलालकृष्णो गृहमन्त्रिभावं पुनश्च संप्राप्य बभूव तुष्टः ।
जोशीव शिक्षां प्रतिपद्य धीमान् मनोहरः श्रीमुरलीप्रधानः ।। 65।।
अशान कीर्त्तिं निखिलानपीमान् विद्यालयान् योऽर्थचयैः प्रवर्षन् ।
प्राध्यापकानामपि वेतनानां कुर्वंश्च संवर्धनमुत्तमं यः ।। 66।।
स वै जनन्या जगतो विधत्ते बिन्दुं ललाटे ननु सर्वदैव ।
प्रभातबालार्ककरारुणेन सत्कुङ्कुमेनाप्तरहस्यमन्त्रः ।। 67।।
स भाषते भारतवर्षविज्ञविज्ञानसूत्रेषु नवीनसूत्रैः ।
संवादमुच्चैस्तममाविभान्तमेकान्तशुद्धं च विनैष भीत्या ।। 68।।
वेषेण वाचा च ललाटिकाभिरलङ्क्रियाभिश्च मनोहरोऽसौ ।
गौरो बभौ कोऽपि वसॅस्त्रिवेणीतटे द्वितीयो ननु मालवीयः ।। 69।।
श्रीवाजपेयी तमवाप्य शिक्षामन्त्रित्वभावेन समुल्लसन्तम् ।
आसीत् समाश्वस्ततमान्तरङ्गो यशस्विनं प्राप्य यथैव वित्ते ।। 70।।
विदेशमन्त्रित्वपदेऽप्यवाप्य परं पटिष्ठं जशवन्तसिंहम् ।
पाकस्य विध्वंसमयीं चकार नीतिं प्रकाशां विफलाञ्च दार्ढ्याचत् ।। 71।।
फर्नाण्डिसो जार्ज इति प्रतीतस्तेजस्विवर्यश्च बभूव मन्त्री ।
देशस्य रक्षासु कृताधिकारः सुस्पष्टबुद्धिश्च कृतक्रियश्च ।। 72।।
पूर्वं नितीशे ममताभिधायामस्मिन् क्षणे रेलमहाविभागम् ।
निधाय जातः खलु वीतचिन्तः श्रीवाजपेयी दृढतां गतश्च ।। 73।।
य एष कश्चिन्निजराष्ट्रमन्त्री श्रीलालकृष्णो ननु सोऽप्यतिष्ठत् ।
सदानुकूलोऽटलवाजपेयिन्युदारसत्त्वश्च सुसंयतश्च ।। 74।।
कन्याकुमारीमभिपूज्य पूज्यः सन्नायकानामडवानिसंज्ञः ।
राष्ट्रेऽत्र भावैक्यमुपार्जिजत् स्वं रथं निनीषन्ननु रामभूमिम् ।। 75।।
आङ्ग्लीं गिरं तावदसौ तपस्वी प्रधानमन्त्री वदति स्म तद्वत् ।
यद्वन्न हि क्लिण्टननामधेयोऽप्यमेरिकायाः पतिरत्युदाराम् ।। 76।।
या संसदि प्रादुरभूद् दलानां परस्पराक्षेपपटुत्वशक्तिः ।
तामन्ततः शामयति स्म नान्यस्त्वक्त्वाऽटलं सर्वदलप्रधानम् ।। 77।।
श्रीबालयोगीति विदां वरिष्ठोऽध्यक्षोऽद्य जातः पुनरेषु साधुः ।
संसत्सभायामसमर्थतां स्वां किन्त्वेष शान्त्यै कलयाम्बभूव ।। 78।।
न वाजपेयीन्दिरया गृहीतां पद्यां स्वमन्त्रिष्वनुसासरीति ।
ततश्च सर्वेप्यविकम्पितान्ता विद्योतमानाश्च भवन्ति कार्ये ।। 79।।
युद्धेन हानिर्विहितास्य राष्ट्रस्यार्थेषु या तां स निराचिकीर्षुः ।
राष्ट्रान्तरैः सार्धमवाचिनोत मैत्रीं गरिष्ठाममरीकयेव ।। 80।।
आसीदभीकत्वमहागुणाख्यः पीयूषसिन्धुर्ननु नेहरौ यः ।
यश्चाप्यभूल्लालबहादुरेऽसावस्मिन्निदानीमपि संचकास्ति ।। 81।।
अस्त्रेषु शस्त्रेषु च यः स्वतन्त्रो यो वै स्वतन्त्रश्च कृषौ स एषः ।
देशोऽद्य भूमेरखिलेऽपि पृष्ठे राराजतेऽनामिकया गृहीतः ।। 82।।
कनिष्ठिकाधिष्ठिततां दधाना ये नाम देशा इह सन्ति केचित् ।
तेषामपि स्वस्थतमं गुरुत्वमध्यात्मयोगेन बिभर्त्त्यसौ भूः ।। 83।।
घोषोऽरविन्दस्तिलकश्च बालो बोसः सुभाषश्च स मोहनाख्यः ।
भावेविनोवासहिता न नैतेऽध्यात्मीयतायां गुरवो बभूवुः ।। 84।।
वाणिज्यमार्गेऽस्ति विवर्धमाना महार्घता या भरतावनौ नः ।
स लोभविन्ध्यस्य महत्तमस्य सूर्याध्वरोधी परिवृद्धियोगः ।। 85।।
सोऽप्येष शान्तिं व्रजितैव सद्यस्तरामिदानीं मनुजस्य बुद्धौ ।
विकीर्यमाणोऽस्त्यपरिग्रहाख्यो योगः प्रतिष्ठामचिरात् स लब्धा ।। 86।।
कामस्य चार्थस्य च या प्रवृद्धिस्तस्या यदेकं महदौषधं तत् ।
न कुत्र सभ्ये मनुजे प्रतिष्ठां प्रयाति वै ‘संयम’ इत्यभिख्यम् ।। 87।।
प्रदूषणं वारिषु यद् विवृद्धिं प्रयाति वायुष्विव भारतेषु ।
यद् दुग्धधान्यादिषु तस्य शान्तिः समाजदार्ढ्यो हि चकास्ति काचित् ।। 88।।
न कोऽपि यत् साधयितुं समर्थस्तत् कार्यजातं यदि साधयेत ।
स्वच्छस्वभावो यदिवाऽटलोऽद्य श्रीपावमानिर्यदिवा हनूमान् ।। 89।।
तेनाऽऽत्मरक्षार्थमणुप्रसाद प्रापीति सत्यं कुटिलात्मजाताः ।
सत्यापयामासुरिदंयुगेऽपि पाकाः अपि श्वस्तनिकाणुशब्दाः ।। 90।।
अमेरिकाराष्ट्रपतिर्यदीयं धैर्यं निरीक्ष्यात्मनियन्त्रणायाम् ।
चकार यात्रां भरतावनौ स्वां दिनानि पञ्च प्रथमान-रागाम् ।। 91।।
स एष पाकं प्रदिदेश शान्तिं, त्यक्त्वा कलिं पार्श्वगतैर्निगूढाम् ।
पञ्चैव होराः गमयाम्बभूव पाकक्षितौ सैनिकशासितायाम् ।। 92।।
श्रीक्लिण्टनोऽभूदधिभारतं वै यदा तदैवापमहं स्वकाव्ये ।
पुरस्क्रियां प्रीतिमताऽटलेन दत्तां तदीये भवने महार्हाम् ।। 93।।
श्रीरङ्गनाथो भरतावनीनां सर्वोच्चके न्यायपदे य आसीत् ।
उपस्थितौ तस्य महोदयस्य श्रीकर्णसिंहस्य च विद्वरस्य ।। 94।।
श्रीकृष्णचन्द्रस्य विदांवरस्य श्रीमण्डनाचार्यवरस्य चापि ।
समक्षमेषोऽभवदुत्सवो यं प्रासारयद् दूरनिरीक्षणोऽपि ।। 95।।
श्रीवाणीन्यास एतं प्रतिशरदुपदीचर्करीति प्रकृष्टै-
र्विद्वद्भिर्वीक्ष्य सम्यक् सुरवचनकृतीः संस्तुते ग्रन्थरत्ने ।
सोऽयं ‘स्वातन्त्र्य’-पूर्वे मम महति मुदा ‘संभवौ’-त्तर्यभाजि
काव्ये श्रीवाजपेयिस्वकरकमलयोर्डाल्मियाभिः प्रदत्तः ।। 96।।
सप्तर्षिकाङ्ग्रेसमिति स्वकीयं
तदग्रजं नाटकमेकमासीत् ।
तस्य प्रतिश्च प्रथमाऽटलेभ्यः
प्रादायि तत्रैव महत्तमेभ्यः ।। 97।।
एवं यत् काव्यमेतत् प्रकटितमभवत् पूर्वमासीत् तदेत-
ल्लक्ष्मीमारभ्य झॉसीश्वरदयिततमामिन्दिरां यावदेव ।
संप्रत्यापूर्य तद्वै बुधवरमटलं यावदद्य स्वमातुः
‘श्रीवाण्याः’ पादपद्मे निहितमतितरां श्रद्धया वावृधीतु ।। 98।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘वाजपेयिप्राधान्यो’ नाम त्रयस्त्रिंशः सर्गः ।। 33।।