सप्तत्रिंशः सर्गः
प्रथमं खलु यो वसां विमिश्रय घृतदेहे प्रजिहिंस धर्मसेतुम् ।
अनुगा लघवोऽद्य जाग्रतीह भुवि तास्कर्यकलाविशारदा हि ।। 1।।
बहवो विलसन्ति शास्त्रजातवणिजो गुह्यतया महापुरेषु ।
पृथगेव धनागमोऽस्ति तेषां न हि तद् गण्यमहो स्वयम्भुवापि ।। 2।।
बहवो हनन-क्रिया-नदीष्णा नियतं द्रव्यमवाप्य घातयन्ते ।
अपि शासनिकैर्गवेष्यमाणा अणुतां प्राप्य सुदुर्लभा भवन्तः ।। 3।।
निज एव वपुष्युदूढशस्त्रा अपरे स्वं हि विनाश्य नाशयन्तः ।
भुवि भारतवर्षकस्य तस्मिन् बत तस्मिन् प्रचरन्ति देशभेदे ।। 4।।
प्रबभूव तु यः प्रधानमन्त्री ननु राजीव इति श्रुतो युवाऽपि ।
सहसैव यया विलोपितोऽसौ वनिताऽलक्षि न वै चरैः सुदूरम् ।। 5।।
दुहितापि जवाहरस्य तस्याः परिरक्षानियतैरघाति पुंभिः ।
छलमेतदवापि नो कुतश्चिदपि कर्णं तु सुरक्षकोत्तमानाम् ।। 6।।
इटलीधरिणीसुतश्च कश्चित् कुवतोची प्रददौ महान्तमर्थम् ।
क्रयवाणिजिकासु किन्तु नासावधुनाऽप्यस्ति वशे तु भारतानाम् ।। 7।।
गणनामपि नाप्यते तु तावद् धनमाप्तं खलु येन वञ्चकेन ।
स हि शासनमूल्यपत्रचौरः कियताऽपाशि भुवीह कालकेन ।। 8।।
उपदेशकजातमद्य दूरदृशि कं कं न नयं दिशन्ति विज्ञाः ।
परमात्मनि किन्तु कस्य भक्तिर्भयमिश्राप्यधुनाऽस्ति जागरूका ।। 9।।
मम यन्मतमस्ति सुप्रतीतं तदिदं स्वं मतमित्यनन्तरीयाः ।
प्रथयन्ति, न तत्र पूर्ववर्त्तिकृतिनामापि च संदिशन्ति धीराः ।। 10।।
इदमप्यतिमात्रनिन्दनीयं नहि किं तस्करकर्म विद्यते, धिक् ।
परमद्य न कोऽपि तस्य विज्ञः कुरुते हन्त विरोधभर्त्त्सनानि ।। 11।।
मृतचेतनताऽस्ति साऽस्मदीया यदिदं मौनमपि स्वदृष्टदोषे ।
अनयैव दिशा विनाशवात्या प्रसभं हन्त सरीसरीति लोके ।। 12।।
अनयैव विकम्पिता पुराणा जरठाः शाखिलताः निखातमूलाः ।
निपतन्ति च तत्स्थले विषाक्तास्तरवो रूढिमवाप्नुवन्ति दिक्षु ।। 13।।
सुरभिर्यदि कर्त्तिता विपच्य जरठाग्नौ च समाहिता द्विपादैः ।
अथ तत्पदवीमवापिता चेच्छुनकी साधु, पिबन्तु रक्तमस्याः ।। 14।।
वृणुते यदि सोनियां बरेलीजनता तन्त्रमिहास्ति नैव रागः ।
अभविष्यदसौ ततो विधानसभया सा ह्यभविष्यदर्चिताऽत्र ।। 15।।
अथ कश्चन भोजतालभागादवपातं कथमर्जुनोऽगमिष्यत् ।
अभविष्यदिदंक्षणे जनानां यदि काङ्ग्रेसदलं प्रति स्वबुद्धिः ।। 16।।
अवमन्यत एव भाजपाऽस्मिन् युगसन्धौ ननु तत्र को नु हेतुः ।
निजवर्गरतिं विहाय, हित्वा गुणसम्भावनहीनतां गरिष्ठाम् ।। 17।।
भजते स्म तु मालवीयपादान् गुरुगोल्वल्करनामको बुधेन्द्रः ।
स हि यस्य दलस्य नायकोऽभूत् स गुणज्ञानविरक्त इत्यहो धिक् ।। 18।।
नृपतिः स्म शृणोति तादृशं हि कुरुते स्मेति य एष दोष आसीत् ।
स हि संप्रति भाजपाधिपेषु प्रभुतां सक्रितां च लभ्यतेऽद्धा ।। 19।।
कुटिला ऋजुतां यदि श्रयन्ति स हि दम्भः प्रभुभावमर्जिजीषोः ।
जनतैतदवेक्षतेऽन्तरात्मन्यनुबोभोति च तद्विकारजातम् ।। 20।।
व्रततिर्जलमिच्छति प्रवृद्धयै न तु बह्निं निभृतं स्थितं तदन्तः ।
उदकेन तु सिच्यते लताऽद्य शुचिकाले क्व नितान्ततापितेन ।। 21।।
यदिदं खलु हिन्दुनामधारि दलमास्ते यवनो हि तस्य देष्टा ।
सहजग्धिमनुं जपन्त एते तनुमात्रेण हि हिन्दवो भवन्ति ।। 22।।
न शिखां स्फुटविग्रहां स्वमूर्ध्नि न च सूत्रं भुजमूर्ध्नि ते भजन्ति ।
अधुनाऽभिधयाऽपि हिन्दुबाला न हि भिद्यन्त मसीहधर्मकेभ्यः ।। 23।।
अपि संस्कृतसेवकाः स्वमर्थमुपधाभिः खलु साधयन्ति हंहो ।
तप आर्जवमात्मशास्त्रसम्यक्प्रतिबोधं प्रविहाय चेष्टमानाः ।। 24।।
धरणिर्विषदिग्धमन्नमेषा प्रददात्यद्य च तादृशं हि तोयम् ।
इदमस्ति फलं तु कस्य हित्वा व्यतिपातं तु नियन्त्रणस्य कष्टम् ।। 25।।
दहतीव दिवा दिवाकरोऽद्य जलदो वर्षति, वर्षति क्रुधेव ।
प्रलयः प्रतिवर्षमेव भूमिं मनुजस्याऽस्य युगेऽत्र संधुनोति ।। 26।।
ऋणतः प्रतिपद्य वित्तमेषां यदि वृद्धिस्तनुकाऽस्तु वेतनेषु ।
ननु सा वणिजां हि लाभहेतुर्द्विगुणं मूल्यमभीक्ष्णमर्जकाणाम् ।। 27।।
अपि शाकवणिक् युगेऽत्र सन्ध्याऽवसरे पश्यति रूप्यकस्य राशिम् ।
अपि नापितकेशकर्त्तनासु धनमेघः प्रतिवारमस्ति वर्षन् ।। 28।।
अपि यः खलु मार्जकः सृतीनां गृहिणी तस्य नवीनमेव शाटम् ।
प्रतिवासरमस्ति सेवमाना प्रमिमासं समुपायनानि लब्धा ।। 29।।
नियमो न हि सूच्यते पुरस्तात् कृतयात्राय तु दीयतेऽर्थदण्डः ।
न हि कोऽपि शृणोति तत्र वादं न च वादं कुरुते सहिष्णुरन्यः ।। 30।।
भरतावनिरग्रणीत्वमेति यदिनामाणुपरिग्रहेऽमरीकात् ।
न हि तत्र विभीषिकाऽस्ति काचित् समवीर्या हि सुहृत्त्वमुच्चयन्ति ।। 31।।
यदि नाम विकुर्वते प्रवृद्धाः सृहृदो वृद्धियुतैः स्वयं तु भाव्यम् ।
अथ वृद्धिकृतेऽर्थशक्तिरुच्चैः करणीयेति हि नीतिसंविधानम् ।। 32।।
बलवान् यदि मोहनः स्वकीयां क्षमतां वीक्ष्य सुहृत्त्वमामरीक्यम् ।
वृणुते ननु दूरदर्शिता सा नियतिः सा हि महाभ्युदीतिसूतिः ।। 33।।
अथ दीयत एव पाकनाम्ने प्रतिवेशस्थितशत्रवेऽपि साह्यम् ।
अमरीकिजनैरुदारतारं प्रतिवेश्यन्तरशत्रवेऽपि देयम् ।। 34।।
यदि भारतवासिभिर्न साह्यं प्रतिगृह्येत सुहृत्तया प्रदत्तम् ।
सुहृदप्यरिभावमाप्तुमीष्टे क्षण एतत्र ततोऽस्ति देशहानिः ।। 35।।
अवधानमपेक्ष्यतेऽत्र यद्वा गरली चेत् ध्रियते गले कथञ्चित् ।
विषमप्यभिपाचितुं क्षमा वा शिखिभिर्यद्वदधिक्रियेत विज्ञैः ।। 36।।
गजनीश्वर आश्रितो यदर्थं जयचन्द्रेण स साधितो निजार्थः ।
परमात्मपरिक्षयोऽपि सोढो न हि नो भारतपारतन्त्र्यतन्त्रम् ।। 37।।
उरगेण हलाहलाननेन क्रियते चेत् परिरम्भणादिखेला ।
क्रियतां परमस्य दंशदाहादपि खेले परिरक्ष्यतां निजात्मा ।। 38।।
यदिवा युगमस्ति सत्यसेतोः परितः पालयितुं स इष्ट आर्यैः ।
कुटिला मतिरत्र नाभ्युदीयाद् ऋजुताप्रत्ययनीयताऽऽधिराज्ये ।। 39।।
इह भारतवर्षवासिनो न शङ्कचं हृदि धृत्वा सुहृदां वचः श्रयन्ति ।
पुरुषस्य जनुः शिरःसु धातुं क्रमते नैव शिखां तु सर्पकायाम् ।। 40।।
द्रविणं न समर्जयन्ति धीरा अधिकं यावदपेक्ष्यते ततस्तु ।
नियता यमलोकवाससिद्धिर्यदि किं द्रव्यसमृद्धयेऽभियोगाः ।। 41।।
यदि सुन्दरगात्रयष्टिभोगो विविधात्मा विपुलश्च काम्यते ऽद्धा ।
किमु तत्र विराममाश्रयन्ते प्रतिपन्नप्रलया मुहुर्मुहुस्ते ।। 42।।
गमिता मम गेहिनी क्षणेन परलोकं प्रविहाय पुत्रपौत्रान् ।
अहमस्मि च जीवितो हि वारत्रयमासाद्य यमालयं निवृत्तः ।। 43।।
रुदता हसता च नित्यमेव दिवसो यत्त्वतिवाह्यते निशा च ।
ननु सा मम कापि लोकयात्रा स रथस्तत्र तु सारथिः स देवः ।। 44।।
नियता मम वर्त्ततेऽत्र काचित् कृतिरस्याः परिपूर्त्तिरेव मेऽन्तः ।
कृतिमस्मि न वेद्मि नाप्यमुष्याः परिमाणं रसयोगतः प्रवृत्तः ।। 45।।
पुरतो मम वर्त्तते तु मञ्चो विविधं नृत्यति यत्र कोऽपि राजा ।
कविबुद्धिरियं वयं तु तस्यां रसिकत्वं सततं हहा भजामः ।। 46।।
इदमेव विभावनं नराणां मृगतृष्णायति लोकवर्त्तनीषु ।
क्रयविक्रययोगिनाममीषां विरतिर्हन्त ततो न लेशतोऽपि ।। 47।।
कविता सफला, फलं विनापि मुखलभ्यं क्रयसाध्यमेव यद्वा ।
कविताऽपि लता न कापि यस्यां फलयोगः परिकल्प्यते हहा किम् ।। 48।।
यदियं कलना चितः स्वकीयं रसमास्वादयितुं परात्परा ताम् ।
नियतां निभृतां विराजमानां नियतिं वै वशगां कवेर्नमामः ।। 49।।
निखिलेष्वपि विद्यते परीक्षा पदयोगाय, परन्तु कौलपत्ये ।
अथ मन्त्रिपदाय शासनेच्छा परमा संप्रति, वैशसं ह्यदस्तत् ।। 50।।
क्रियते प्रथमं नियुक्तिरर्वाक् क्रियते यच्चयनं स एष मार्गः ।
क्रमते खलु येन दुर्बलत्व-परिरक्षा-पिशिताशनाऽपि शास्त्रे ।। 51।।
यदिदं प्रतिपादितं श्व आसीन्निजशास्त्रे परिवर्त्त्यते तदेतत् ।
निशयैव विभातकाल उद्य-न्नव-नूत्न-प्रतिभैर्विचक्षणैर्धिक् ।। 52।।
अभिमानकषायितेक्षणानां महतामप्यधिशास्त्रतापसानाम् ।
न हि शिष्यपरम्पराभ्युदीयादुपलेपध्वनिपुष्करानुजानाम् ।। 53।।
गुरुदर्शित एव मार्ग ईशः प्रतिलभ्येत न कर्हिचित्तु भिन्ने ।
गुरुरेव ततोऽस्ति तकर्तः स परमेशः परमेश्वराधिको वा ।। 54।।
अथ या परमेशभक्तिरेषा यदि साध्या मनसोऽभियोजनेन ।
अभियोजनमायया परीता विलसन्त्वत्र तदा परेशभक्ताः ।। 55।।
अभियोजनमीशकर्तृकं यन्नपवादः सहि बन्धकृत्सु कृत्सु ।
अभियोजनमस्तु तर्हि तस्मिन्नियतं का नु कथाऽत्र बन्धमुक्त्योः ।। 56।।
अभियोजनमस्ति यत् तदीयं ननु तत् तन्मयमेव वा पृथग् वा ।
अपृथग् यदि कीदृशी क्रिया च करणं तत्र च कीदृशं त्वभेदात् ।। 57।।
अथ बन्धनमोक्षयोः कथेयं सजते किं ननु मानवं, न भिन्नम् ।
मनुजे हि कृपा परा परस्य वचनीयं वचनं त्विदं न विज्ञैः ।। 58।।
परमेश्वरपक्षपातहेतौ नियतौ वै तदभावपात्रतायाम् ।
ननु कश्चन वाच्य एव हेतुरनवस्थानभिया कदर्थिताः स्मः ।। 59।।
सहजं च निसर्गजं च वृत्तं सुभगायेत ततः, पशुर्नरात् किम् ।
भिदमेतु, चतुष्पदी द्विपदीमतिवर्त्त्यास्तु ततः प्रमोदमाना ।। 60।।
अथ वाञ्छतु मानवः पशुत्वं पदयुग्मं कथमप्यवाप्य लभ्यम् ।
पदमेकमिहाऽस्तु मन्त्रिता चेदपरार्थं क्रियतां विचारणं तु ।। 61।।
अपरं शरशायिना कुरूणां परमेणास्ति पितामहेन जुष्टम् ।
न हि यः प्रमुखेऽपि विद्यमाने मुखरन्ध्रे परमेश्वरस्य मग्नः ।। 62।।
विवरे परमेश्वरास्यदन्तावलिलग्नः स हि चेष्टमान आसीत् ।
रुधिरप्लुतभग्नशीर्ष एष प्रविवेशान्तरथो न नो बहिष्ठः ।। 63।।
प्रसृताः खलु येऽप्यभावगर्ते पतयालुत्वकषायिता महान्तः ।
किमु तत्र कुतश्चनापि सत्ता भवितुं नार्हति वै पथा वराकी ।। 64।।
अपरः प्रतिपद्यतां विचारः न समाधिं प्रतिपद्यते यदैषः ।
यदिवा ध्रियतां सुरज्जुदोला पुरतो यान्तु च यान्तु पृष्ठतश्च ।। 65।।
उपरि ध्वनितं नभश्चराणां ध्वनतां वारिमुचामधश्च केकाः ।
प्रचलाकिकुलस्य सद्वितानीकृतपिच्छस्य पृदाकुपारणस्य ।। 66।।
इह बिभ्यतु पूरुषस्य कण्ठं परिरभ्याऽथ लसन्तु झम्पनासु ।
स्मरसङ्गरमातुराः वराङ्गयो यमुनायाः परतस्तु संविदध्युः ।। 67।।
न परावरता परापरत्वकलना वेह कदापि कर्णमृच्छेत् ।
पुरुषप्रमदाभियोगरम्ये रसरागे रमणे निमज्जितानाम् ।। 68।।
इह कोऽपि शिवोऽपि गोपिकात्वं भजतां रासरसं प्रभोक्तुमिच्छन् ।
यदि वा विपरीतदिङ्मुखीनो बहिरेव श्रयतां विभूतियोगम् ।। 69।।v
निज एव रसो रसेश्वरीयं रसयोगश्वर एष ऋच्छ्याते वै ।
रसयोगमिमं क्षणाय जिघ्रन् प्रजहात्वेव विमुक्तिगाथिकां सः ।। 70।।
इत्थं विधानसृतिभिर्विविधाभिरद्धा
सन्धावदन्तरुपदीकृतदृष्टिहानि ।
साम्राज्यमद्य परितः परिवेष्टमान-
विश्वं बिभर्त्ति च पिपर्त्ति च कालरात्रिम्।। 71।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ रसयोगो नाम सप्तत्रिंशः सर्गः ।। 37।।
अष्टत्रिंशः सर्गः
वृन्दावने विविधरासकथाऽमृतानि
वर्षन् कृपालुविरुदोऽद्य सभासु गीतैः ।
वेदैः पुराणवचनैरथ सूत्रसूक्ति-
मुक्ताभिरामरचनैः परिवर्वृषीति ।। 1।।
कण्ठेन तस्य तुलसीवचनावलीभिः
सिद्धेन भागवतपद्यविभूषितेन ।
संस्कृत्रिमेण च विशुद्धिसितेन को नो
भावं बिभर्त्तु बहुमानकरालमस्मिन् ।। 2।।
वृद्धेन जन्मवयसा वपुषा तु यूना-
मग्रेसरेण पृथुबाहुयुगेन सोऽयम् ।
कृष्णप्रियां स्मरति भक्तिसमेधितेन
चित्तेन रासरसिकेन च गीतकेन ।। 3।।
तस्याश्रमं विशति या खलु कापि योषा
सा नैति बाह्यमवनीतलगेव सीता ।
संख्यासहस्रभरितेन महाङ्गणेन
स्त्रीभिर्न्नृभिः स परिमापयतीव नाकम् ।। 4।।
तर्कक्रमेण खलु विस्मयमातनोति
सोऽयं महार्हविदुषामपि शास्त्रशुद्धया ।
वेदान्तसूत्र-रस-भक्ति-रहस्य-सिद्ध-
चैतन्य-सिद्धवचनैश्च समर्थितेन ।। 5।।
काषायमावहति वस्त्रमयं कदाचित्
पीताम्बरं च कुहचित् तिलकालिकेन ।
सत्केसरेण रमणीयकलेवरोऽयं
भावातिरेकमुपताययते सुगीतैः ।। 6।।
काश्यां जगद्गुरुरिति त्रिदशीपुराण-
वर्षैरयं समुदगायि विचक्षणेन्द्रैः ।
अद्यत्वदर्शनकथामधुरां तनोति
षड्दर्शनस्य च कथामितिहासमुग्धाम् ।। 7।।
आङ्ग्लीं गिरं च तनुते क्वचिदप्यनन्य-
साधारणीं निपुणतामधिसंश्रयाणः ।
सामाजिकीं च तनुते जनताभिसेवां
भैषज्यदानललितो बहुधाम-धन्यः ।। 8।।
सोऽयं महामतिरतीतरदब्धिमन्यान्
देशाँश्च कृष्णकथयाऽद्भुतयाऽऽचकर्ष ।
तत्रत्यभक्तजनपूजितपादपद्मः
कन्यामयब्ध ननु काञ्चन मुग्धमुग्धाम् ।। 9।।
तस्या दशां विकृतिमागमितां भिषग्भिः
प्रामाण्यकन्दलितता-परिबन्धुरां तु ।
वैदेशिकैरुपनिरीक्ष्य कृपालुरेष
दोषीति घोषितचरो धृतपारपत्रः ।। 10।।
वृत्तान्तमेतमथ भारतदूरदृष्टि-
यन्त्रं प्रसारयितुमुत्सहते स्म धार्ष्ट्यात् ।
भक्ता ब्रुवन्ति ननु केचन तत्र माया
मायाविभिर्विरचितेऽतिजराजुषेऽस्मै ।। 11।।
तस्मात् परं किमपि तस्य न वृत्तजातं
प्रासारि वृत्तदल-दूरदृगादिभिस्तु ।
दैनन्दिनं सुनियते समये तु तस्य
व्याख्यानजातमनिशं हि प्रसार्यतेऽत्र ।। 12।।
वेगाज्जलं वहति तीर-मृदादिपात-
प्रत्यग्रदूषणमथो मलिनं च भूत्वा ।
प्रावृण्नदी शरदि किन्तु विकारमेतं
हित्वा प्रसादमधिगच्छति चित्तकाम्यम् ।। 13।।
नित्यायते न खलु कुत्रचनापि दोषो
नो वा गुणो विकृतिमत्सु हि सत्स्वसत्सु ।
वैद्यो रसायनमुपाहरतीह यत् तत्
सद्भिः समाद्रियत उज्झिततद्विकारैः/वैद्यदोषैः ।। 14।।
लालूप्रसादतु जनः परिहृत्य लज्जां
कारागृहाद् बहिरुपेत्य स रेलमन्त्री ।
निर्वाचनेऽपि च पराजयमाप्य हृष्टैः
रेलं प्रसाधयति कीर्त्तितसाफलीकः ।। 15।।
यश्चुर्हटेऽनधिकृतामपि लाटरीति
द्यूतक्रियां परिससार स चाप्यदोषः ।
पङ्गुर्भवन्नपि विरुग्णशरीरकोऽपि
मन्त्रित्वमुद्वहति नार्जुनसंज्ञको नो ।। 16।।
साह्यं तनोति सुजने स्वजने महार्ह
वैरं च दर्शयति गूढमतीव भिन्ने ।
एषाऽस्ति चेद् गतिरहो जनतान्त्रिकाणां
हे राजतन्त्र! गणतन्त्रमिदं त्वमेव ।। 17।।
विद्वज्जनस्य कुरुते मुदितोऽवमानं
शिक्षापदं स भजते, भरतावने! त्वम् ।
पातालरन्ध्रमुपयातु, भवन्ति तत्र
द्वैजिह्नशौर्यकलिताः शतशो वसन्तः ।। 18।।
शेखावतो भवति चेदिह भाजपाङ्गं
काङ्ग्रेसवामदलगाऽपि च पाटिलास्ति ।
मान्या पराऽस्ति परमाद्य उदारकीर्त्ति-
रुज्जासनीय इति लोकसभासदस्याः ।। 19।।
निर्लज्जतैव भवतीह निदानमुच्चै
रूढा मतौ च भषितौ च कृतौ च धार्ष्ट्यात् ।
आस्तेऽधिकार इति ये द्रुपदात्मजायां
दुश्शासनायितुमलं सुखमुत्सहन्ते ।। 20।।
पाके विपाकमियमृच्छति साम्प्रतं वै
नीतिव्रतत्यतितरां विषमं, सशस्त्राः ।
विद्रोहिणो बत मुशर्रफवासधाम-
हिंसाव्रताहतहताः समुपद्रवन्ति ।। 21।।
नार्योऽपि तत्र बुरकापिहिताः पिशाच्यो
भूत्वा ततस्तत उदित्वर-पाणयोऽद्य ।
रथ्यास्वटन्ति निपिपातयिषन्ति किञ्च
राष्ट्राधिपत्यपदतस्तु मुशर्रफं ताः ।। 22।।
विद्यार्थिनोऽपि कवलीकृतदुर्धरास्त्रा
घाताय मार्गपतिताः परितो द्रवन्ति ।
रोद्धं न तान् सफलतामधिकारिणां च
संघोऽपि हन्त लभते, प्रजिघांसयाढ्याचन् ।। 23।।
एवंविधेऽपि कलहे स यिराकराजः
सद्दाम आविशदिलां, न च नो गृहीतः ।
नैवान्तकस्य च मुखे न निवेशितोऽद्य
शेते कुतश्चन गतासुरसौ सगोत्रः ।। 24।।
पृष्ठं प्रपोषयति यस्य भुवस्तलस्य
स्पष्टं सहायकतयाप्यमरीकिणां भूः ।
सोऽप्यद्य नैव लभते सुखनिद्रितं तत्
पाके विपाकमयते जनता-विरक्तिः ।। 25।।
एकस्य यः खलु कृते कटु शासकस्य
हेतोर्हिनस्ति बहलाः प्रकृतीः स नास्ति ।
योद्धा, स वै हृदयहीनतया प्रसिद्धः
सांवर्त्तिको ननु पिशाचसुतो बुभुक्षुः ।। 26।।
राष्ट्रे न हिन्दुबहले न हिमालयाङ्क-
संलालिते पशुपति-प्रतिपूजकेऽपि ।
सञ्चाचलीति कलिरेष समाहृतस्वो
राजाऽपि तत्र गतहिन्दुतया चकास्ति ।। 27।।
यस्मिन् निषीदतितरां सविधे स कश्चित्
पञ्चास्य-मूर्त्तिरपि भैरवनाथ एकः ।
किञ्चारकूटकलितो धृतवैपुलीको
नन्दी-वृषोऽपि पुरतः प्रचकास्ति तस्मिन् ।। 28।।
क्षेत्रे महत्यपि सुतो हि जघान पत्न्यै
स्वावेव हन्त पितरौ सहसा स्वकं नु ।
तस्मिन् प्रजाजन उदेति यदि प्रहर्त्तुं
को वै क्षमेत ननु तत्र तु रक्षणाय ।। 29।।
शास्त्राणि यत्र सुलभानि, जने जने च
स्वातन्त्र्यशक्तिरपि यत्र वरीवृतीति ।
एकैव तत्र नियतिः प्रसभं निपात्य
शास्तारमाशु नृपतित्वमवाप्तुमिच्छा ।। 30।।
शास्ता न चेद् बहुमतोऽस्ति दलानि भूत्वा
संघः प्रशासनधुरं तु यदाश्रयन्ति ।
काले निपातविधुरे ननु तत्र राष्ट्रे
छायाश्चरन्ति बहुशो भयमादधानाः ।। 31।।
अस्मिन् भवन्ति बहवो ननु रक्तबीजाः
पारम्परीमुपगता च समृद्धिरेषाम् ।
तां कालिकैव जननी विवृतास्यभूमा
धूमावतीव परिभक्षयते कराला ।। 32।।
ऐतिह्यमुद्वमति हन्त पुराणजातं
सर्वं हि नो भरतभूमि-निवासिनां धिक् ।
धर्मे पराजयमुपेयुषि धर्मनाशि-
रक्तौघसंप्लवनभूषितभूमिकाः स्मः ।। 33।।
एकाधिकारकवलीकृतिमीयुषां चे-
न्नाशं विना भवति नैव नृजातिरक्षा ।
नूनं भविष्यति महाप्रधनं मनुष्य-
जातेर्विनाशकमिहाद्य न चेत् परेद्युः ।। 34।।
कामं शपन्तु मदनाकुलिताः स्त्रियस्ता
नारायणोरुजनितोर्वशिका भवन्ति ।
जेता कुरून् बत पृथातनयः परन्तु
मर्यादितेन हि पथा क्रममाण आर्यः ।। 35।।
वंशीवटे स खलु तिष्ठति मोहनात्मा
विश्वम्पृणश्च मुरलीपरिदीपकश्च ।
निर्वस्त्रगोपशतदाररति-क्रियायै
प्रागल्भ्यभागपि मनागपि न स्मरार्त्तः ।। 36।।
वासं स्मरो हृदि करोति, मृणालगौरान्
उच्चावचानवयवाँश्च विचर्करीति ।
अन्यस्य सन्ततिरुदाकुरुतेऽन्यसंप-
ज्जातं तथाप्यतितरां स्पृहणीयताऽत्र ।। 37।।
सेनापतिर्यदि मुशर्रफनामधारी
पाकाधिपो भवति तन्न कथं करोति ।
स्वस्मै जिघांसुजनता-प्रलयं न वा किं
सद्दाममार्गमुररीकुरुते विलीय ।। 38।।
पाके यथा चलति युद्धमिदंक्षणेऽस्मिन्
कालेऽत्र किंच भरतावनिकासु तीव्रम् ।
राष्ट्राधिपत्य-मुपलब्धुमधित्यकासु
स्थित्वा हिमाद्रिजनितासु समं प्ररूढे ।। 39।।
शेखावतो विजयतामिति भाजपीया
उल्लापयन्ति तु रवानपरत्र किञ्च ।
जाग्रत्यतीव गगने ध्वनयो विजेत्री
भूयादलं प्रतिभया सहितेति भूम्ना ।। 40।।
न्यायालयो वदति नास्त्यपराधसिद्धि-
रेतद्द्वये तदुभये हि निरागसस्त्वात् ।
योग्याः, तयोः क्वचिदपि प्रतियन्त्रणं नो
न्याय्यं भवेदिति चमत्कृतचेतसः स्मः ।। 41।।
श्रीमान् गिरिः प्रथममेवमभूद् विजेता
सञ्जीवरेड्डिनमधः कृतवांश्च धीमान् ।
सेयं स्थितिः पुनरपि प्रतिभा-विरोधे
शेखावतस्य कृतिनोऽद्य पुरःस्थिताऽस्ति ।। 42।।
भाग्याधिपः शनिरिदंक्षण एतयोर्र्वै
नक्रे स्थितोऽथ नवमे दशमे च कुम्भे ।
कुम्भस्थितिर् व्रजति नूनमभावमेव
नक्रस्थितिश्च गरिमाणमिति प्रतीमः ।। 43।।
चन्द्रो ग्रहो भवति वर्षपतिः स च स्त्री-
स्वाभाव्यभागिति कदाचन पाटलैव ।
स्त्रीति ‘राष्ट्रपति’-गौरवमश्नुवीत
शेखावतश्च स भवेच्छरदः शिखावान् ।। 44।।
यद्वा मुरारिमवजित्य जवाहरस्य
पुत्री प्रधानपदमापदुदारधिष्ण्या ।
तद्वद्धि राष्ट्रपतितामपि पाटलैव
स्त्रीत्येव संसदि लभेत सुखादिदानीम् ।। 45।।
श्रीकर्णसिंह इति संसदि, भारतीये
वैदुष्यमास्थितपदः प्रथमः स्वयं हि ।
स प्राप्नुयाद् यदितु राष्ट्रपतित्वमेतद्
भूत्यै भवेदथ च कीर्त्तिकरं च शश्वत् ।। 46।।
नीतौ न कोऽपि बत मानपदे विराज-
त्यात्यन्तिकाय समयाय गुणाधिकोऽपि ।
नैर्गुण्यमेव यदिवा भरतेषु मान्य-
मान्यं भवत्यतितरां गुणितैव दोषः ।। 47।।
यद्वा भविष्यति पुनर्वसुधा त्रिधेयं
भिन्नोत्तरेष्वपि विहाय विहारवङ्गान् ।
द्वेधा च दक्षिणपथेष्वपरान्तमुक्त-
पूर्वान्तभूमिरतिशीघ्रमुतान्यदासी ।। 48।।
यस्मिन् हि नास्ति चरितं मनुजोऽर्थहेतोः
कामाधिके पतति तत्र दिवोऽपि वज्रम् ।
पातालतोऽपि भुजगावलिदीर्घदंष्ट्रा
भ्राष्ट्रत्वमेत्य परिसर्पति भर्जनाय ।। 49।।
फूत्क्रियाढ्या।
यो दुर्बलो भवति तत्प्रतिवेशवासी
पूर्वो रिपुर्भवति संप्रतिपन्नवीर्यः ।
नो दुर्बलत्वमपरं मनुजस्य भूमौ
त्यक्त्वा परस्पर-विभिन्नमतित्वमेकम् ।। 50।।
रिक्त्तोदरः स्वपिति चेत् प्रतिवेशवासी
पूर्णोदरा अपि भवन्ति तदा तथैव ।
पूर्त्तिं समष्टिगमितां गणयन्ति मान्याः
पूर्त्तिं समाजति न वै समजः कदापि ।। 51।।
एते वयं समजतां गमिता लसामः
सर्वत्र कृत्यमपरस्य विगर्हयन्तः ।
नो वेत्ति वर्णमपि यः स निरक्षरोऽपि
धिग्धिक् क्षणोति विदुषस्तपतां वरिष्ठान् ।। 52।।
एको धनी कपिकुलेषु विकीर्य हेमा-
न्यात्मानमुत्कवयितुं यतते कवीन्द्रैः ।
तानेव हन्ति यदि तस्य कपित्वमेते
व्याख्यान्ति सत्पथमथो प्रतिपादयन्ति ।। 53।।
इच्छैव कस्यचन कोटिशताधिकारि-
श्रेष्ठस्य हन्त भवतीह महत्त्वकाष्ठा ।
वैदुष्य- भीषितधियः खलु तस्य ढक्का-
नादो हि, पुष्करति, धिक्कृतवेणुकस्य ।। 54।।
यो वै कटिं चतुररेचितकैः प्रकम्पा-
ध्युष्टां विधाय कलयत्यभिमानतुष्टिम् ।
तस्मै धनैकधिषणा गणनातिगां स्वा-
मृद्धिं विवारितमुखीं विदधत्युदाराः ।। 55।।
यो भ्रष्टनष्टलिपिकाक्षरमालिकाया
वर्णान् स्वया प्रतिभया प्रतिसन्दधाति ।
ग्रन्थस्य तस्य बत मुद्रणयाऽपि नैषा-
मक्षीणि तोषमुपदीविदधत्यहो धिक् ।। 56।।
दृश्यत्वयोगसुभगासु कलासु सक्ता-
स्तत्रैव दिव्यनिधितां च विभावयन्तः ।
हा हन्त भारतभुवोऽपि महाभिरामे
क्षेत्रे भवन्ति बहुमानविभूतिमन्तः ।। 57।।
दाक्षीसुतः क्व नु बभूव, बभूव कुत्र
तद्भाष्यकृत स च पतञ्जलिरादिशेषः ।
ग्रन्थांस्तदाननसमुच्छलितानिदानीं
रक्षन्ति तेषु ननु कस्य नु दृष्टिपातः ।। 58।।
या कालिदासकविता सुरभेरपत्य-
भूतास्ति काचन चराचरनन्दिनी ताम् ।
धिक्कृत्य ये खलु कथञ्चिदुदाहरन्ति
मान्यास्त एव नतु केऽपि दिलीपतुल्याः ।। 59।।
कालस्य काचिदियमस्ति विवर्त्तनैनां
छिन्दन्ति ये सुकृतिनः कृतिनां वरेण्याः ।
तान् हे प्रभो! त्वरितमत्र वतीर्य! कुर्या
रक्षामिदंक्षणचराचरभूतसृष्टेः ।। 60।।
गान्धारदेशविहितान् सुगतस्य कायान्
विध्वस्य पूर्वपुरुषैरभिरक्ष्यमाणान् ।
ये गोशतानि बलिमात्मकृते विरच्य
तुष्यन्ति ते गतविषाणपशुप्रवीराः ।। 61।।
स्वातन्त्र्य संभवकलेवरवृद्धिहेतू-
नेतान् स्मरन्ति चरतोऽतितरां जगन्ति ।
अश्रूणि कण्ठकुहरे विनिरुध्य ते वै
सीत्कृत्य चीत्कृतिशतानि दधन्ति भान्ति ।। 62।।
यद्वै शरण्यमभवत् सरसीरुहाणां
ग्रीष्मेऽपि वह्निपरिवर्षिणि तत् सरोऽद्य ।
भेकैर्नभस्यजनितैः परिपूरितं धिक्
संपूर्यते रटितिभिः प्लवनोत्तराभिः ।। 63।।
कस्तान् निवारयतु, वारयितुं सचेष्टः
को वा कृती भवतु विप्लवितासु दिक्षु ।
वर्षन्ति चेद् गरलमेव पयोधरास्तत्
कः कुत्र यातु च करोतु च किं स्वरक्षाम् ।। 64।।
वर्त्मानि हन्त निखिलानि निरोधितानि
वर्षाजलस्य नगरेषु महत्सु तेषाम् ।
वर्षागमे सलिलसंप्लवनासु नष्ट-
जीवातुषु क्व नु मुखं धवलायते हि ।। 65।।
क्षोभं महाब्धिरपि संप्रति याति कुक्षे-
रोहन्ति तस्य सहसा जलपर्वतास्ते ।
शाम्यन्ति चेत् प्रशममुत्क्षपयन्ति सृष्टेर्
मृत्योर्मुखे मनुजकोटिमुपक्षिपन्तः ।। 66।।
संघट्टमाप्य सुबहूनि मनुष्ययाना-
न्यद्यत्व आणवदशामुपयान्ति कृत्वा ।
निष्पिष्ट-गात्र-वहदस्र-सरित्प्रवाहान्
मार्गेषु गर्त्तिषु गिरिप्रदरेषु दृश्यान् ।। 67।।
रेलेषु चायवणिजां विषमिश्रणाभि-
र्मूर्छत्सु मानवकुलेष्वधुना कुतोऽपि ।
मृत्युर्विदार्य मुखमापतति स्वयं च
कारुण्ययोगशबलो विनिवर्त्ततेऽद्धा ।। 68।।
यानानि यानि गगनोदरगानि तेषां
नास्ते गतागति-घटी-नियताऽधुना धिक् ।
वृद्धेषु भाटक-विमुक्ति-सुखेषु दुःखा-
न्यन्यानि हन्त ददतीह विधान-पालाः ।। 69।।
कुक्षिर्विरज्यतितरां प्रसवेभ्य आसां
सद्योविवाहमधुपानजुषां वधूनाम् ।
मानुष्यकं क्षयमुपैति निरन्तरं हि
सभ्योत्तमेषु गृहमेधिषु हन्त तारम् ।। 70।।
एकं प्रसूय कथमप्युदरस्य शल्य-
भैषज्ययोगत इमा अपरस्य हेतोः ।
प्रच्यावयन्ति कलिलं प्रसभं चिकित्सा-
विद्भ्यो धनानि विपुलानि सुखं प्रदाय ।। 71।।
कुक्षिं प्रपूरयति यस्तु विभावरीणा-
मारम्भिके हि चरणे स लभेत कन्याम् ।
एतां सृतिं समभिलङ्घ्य तु सर्वदैव
कन्याधिकत्वकठिना बत सिन्धवोऽद्य ।। 72।।
कन्याऽपि सन्ततिरिति प्रियतां गतापि
चिन्ताविषाग्निमतिदापि विवाह-हेतोः ।
द्रव्यार्थिनश्च वरपक्षगता धयन्ति
कन्यापितुर्द्रविण-शोणितमास्रपा नु ।। 73।।
या यातयामवयसो विलसन्ति कन्या-
स्ता ब्रह्मचर्यनियमैकखनौ निपत्य ।
सद्वेतनानि सुपदानि विभूषयत्यः
स्वं जीवनं कथमपि क्षपयन्ति धन्याः ।। 74।।
केचित् पुनः सुमतयः सुतयोर्विवाहे
पश्यन्ति रूपमथ शीलमपास्य जाती ।
कुत्रापि वंश उपपन्न-तनुः कदापि
पुत्राधिकापि वयसा भजति स्नुषात्वम् ।। 75।।
एतां प्रसारयति हन्त कथां प्रभाते
मध्याह्नके ननु निशामुखगे प्रसारे ।
आकाशवागिव सुदूर-सुदर्शनाख्यो
यक्षोऽपि हन्त रभसादिव संप्रवृत्तः ।। 76।।
काशीश्वरो नृपति-रापदमर्त्य-भावं
सद्यो विहाय वपुरत्र तु दूरदृष्टिः ।
प्रायोऽभ्यतिष्ठदुररीकृत-मौन-चर्यो
विस्मिल्लिताय तु मृताय महाप्रसारा ।। 77।।
विद्यानिवास इति सुप्रथितो गुणी धिक्
संसत्सदस्यपदमाप्य विराजमानः ।
यातो दिवं सपदि कारविघट्टनायां
वृक्षेण रिक्ततनुकस्तु विसृज्य काशीम् ।। 78।।
साहित्यशास्त्र-विधिशास्त्र-कलेतिहास-
शास्त्राधिकार-निपुणश्च महानटश्च ।
कारेण काशिपतिधाम-गतोऽपि सीता-
रामाभिधोऽपि पथि हन्त जहौ शरीरम् ।। 79।।
यः कालिदासमुपदीकृतवान् सहिन्दी-
भाषानुवादललितां च वपुर्धनश्च ।
वृद्धोऽपि वंश इव दीर्घशिताङ्गयष्टि-
र्यूनोऽपि लज्जयति सुस्थशताब्दमाप्तः ।। 80।।
श्रीमालवीय-चरणस्य कृते समर्पि-
तात्माऽसकौ सपदि गौरवशालिवृत्तः ।
पुत्रैश्च पौत्रसहितैर्महताऽऽदरेण
संचस्मार्यतेऽद्य विविधैर्विधिभिर्महद्भिः ।। 81।।
यो वै ददौ भगवते तुलसीतिनाम्ने
संपादनां विधिवदापित-मूलपद्याम् ।
गोक्षीरवत् स निजसंस्कृतिदक्षचित्तो
धीमान् बभूव विदुषां प्रवरेषु वाग्ग्मी ।। 82।।
अस्मात् परं यवनशासनवित् पुराण-
संस्कारवान् कविपतिश्च सुसंस्कृतज्ञः ।
व्यासो जहौ मतिमतंच वर एष शय्यां
धृत्वा शरीरमुपदीकृतकीर्त्तिकोषः ।। 83।।
डॉ0 भोलाशङ्करव्यासः।
मार्गेऽपि चेन्मिलति शास्त्रकथां करोति
स्मासौ निसर्गललितो मधुरस्वरश्च ।
कात्यायनीचरित-नामक-दिव्यभव्य-
सर्ग-प्रबन्ध-मुपदीकृतवान् स एषः ।। 84।।
काव्यप्रकाशमभिपठ्या महेश्वराख्याद्
योगीश्वरात् स खलु दृष्ट-शिवागमोऽपि ।
श्रद्धातिरेकमधिकृत्य विभाषते स्म
लेखाँश्च काशयति वै ध्वनिवर्त्मभक्तः ।। 85।।
कण्ठस्थितोऽभवदमुष्य तु कालिदास-
माघादिकाव्यनिधिरेष च गायति स्म ।
रासेश्वरीचरितभागवतं च वंशा-
चारेण लब्धशिशुभाव इदं पितृभ्यः ।। 86।।
संपादनां स तनुते स्म महाप्रबन्ध-
जातस्य नाट्याभरतस्य च मुक्तसेवः ।
स प्राकृतेष्वपि बभूव कृतश्रमश्च
भक्तिश्रुतिष्वपि च लोकगिरोद्तासु ।। 87।।
आङ्ग्लेऽपि वाक्क्रम उदारमतिः स लेखान्
व्यालिख्य वाचयति गोष्ठिकयार्थितान् वै ।
दाराशिकोहकृतसागर-सङ्गमेऽपि
भोलाभिधो बुधमणिः स कृती बभूव ।। 88।।
विद्यानिवासशतकानि तदीयकुक्षि-
मापूरितुं न खलु संप्रभुतां श्रयन्ते ।
एकः सहस्रसुत एव यथाकथञ्चित्
स्प्रष्टुं तदीयमहिमानमुदेति बुद्धौ ।। 89।।
सहस्रसुत = हजारीप्रसाद।
अन्येऽपि राजनयिका विलसन्ति तत्त-
त्क्षेत्रेषु तेऽपि कृतिनः खलु काव्यभूमौ ।
वाचालतैव खलु यत्र समस्तभार-
सम्यक्सहिष्णुरिति संप्रति संप्रतीमः ।। 90।।
आगम्य केचन गता विबुधाः परत्र
गत्वाऽऽगताश्च विबुधाः खलु कोऽपि हिन्द्याम् ।
तैरर्जितानि सुबहूनि धनानि नाम-
पट्टाश्च तैर्बत कुतश्चन लम्बिताश्च ।। 91।।
भोजेन यद् विलिखितं नहि तत्प्रमाणं
केनापि कुत्रचिदपि प्रथितं परन्तु ।
तर्केऽपि राजति हहा निकषत्वपीठे
हंसत्वमेव हि पिकेषु बलाल्लपामः ।। 92।।
आनन्दवर्धनमतौ ध्वनिरस्ति शक्तेः
शब्दस्य वैभवमतिद्वयतामितायाः ।
सा व्यञ्जनेति सुवचा क्व ततो न पौत्रे
पैतामही हि पितृता प्रतिपाद्यतां तैः ।। 93।।
संकेतितत्वमहितं हि यमर्थमादौ
शब्दः स्मृतावुपदधाति ततस्ततोऽन्यः ।
अर्थः प्रतीतिपथमेति स च प्रतीय-
मानोऽनुमानफलितो हि विदांवरेषु ।। 94।।
सोऽयं क्रमो मुनिमहर्षिमहात्मजातै-
रुक्तश्च तर्कविशदश्च विमान्यते चेत् ।
गुप्तोऽभिनूतनतयाऽभिनवोऽपि मिथ्या-
वाक्त्वेऽग्रमर्हति शिवोऽपि भवन् पदं सः ।। 95।।
शिष्यो हि यत्र तनयः स हि राजकीये
लेखे तदीयमुपगच्छति वित्तजातम् ।
तत्रास्तु का नु गृहिणी जनिते परत्व-
बुद्धयापि हानिरयमस्ति हि संप्रदायः ।। 96।।
यो मन्यते न पितरं स विमन्यते चेत्
पुत्रेण तस्य, बत तत्र तु नैतयोर्भित् ।
तत्रापि मध्यममिमं प्रतिगर्हयत्सु
पुत्रेषु सभ्यधिषणा हि कटु क्वणन्ति ।। 97।।
दौर्बल्यमेतदुपपादयितुं क्षमं नः
प्राचीनदार्शनिकखण्डनमण्डनेषु ।
तच्चेत् सुदुर्बलमतिन्यतिमात्रदुष्टे
साहित्यवर्त्त्मनि निविष्टमिह क्व चित्रम् ।। 98।।
ये सन्ति केचन धनाट्यातमाः प्रकोटि-
लक्षाधिकद्रविण-कञ्चुकिनोऽपि देशे ।
भाग्येन तेषु कतिचिद्धि धिया विशुद्धा
दृश्यन्त ईदृगनीदृगिति क्षिपन्तः ।। 99।।
ते जर्जरीकृतमति-व्रतति-प्रतानाः
फुल्लन्ति नो न च फलन्ति, वकेशिनस्ते ।
गर्त्ते निखाय च निधाय च कूटकोषे
स्वीयान् निधीन् समधिकं परितुष्टचित्ताः ।। 100।।
तेषां प्रदर्शनपरायणचिल्लतानां
स्वार्थोऽपि कश्चिदिह सिद्धयति गूढगूढः ।
स्वार्थं परार्थयति तत्र यशोऽवदातं
छत्रायतेऽद्यतनपत्रकृतां प्रियेषु ।। 101।।
एका प्रसिद्धिरिह सिद्धिरितः परा या
तास्ताश्च हन्त शतशः खलु सिद्धयस्ताः ।
वन्ध्यां गवीमनुहरन्ति विषाणहीना
उत्पुच्छयन्ति ननु तेऽद्य चतुष्पदा नः ।। 102।।
एषामुच्चावचश्रीसुभगित-जनुषां मानुषामानुषाणां
या काचिन्नारसिंही सृतिरिह भवति प्रेतसिद्धयैव सिद्धा ।
तस्यै सानातनीया दधति नतिततिं दूरतस्तत्परागै-
रन्धीकृत्यात्मनो ये नहि विचिचरिषां बिभ्रति श्लक्ष्णनेत्राः ।। 103।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘विषमक्षणो’ नाम अष्टत्रिंशः सर्गः ।। 38।।
एकोनचत्वारिंशः सर्गः
ये लालमस्जिदगताः कृकलासकल्पाः
स्वल्पा अपि प्रधन-भीजनका अभूवन् ।
तान् पाकराष्ट्रपतिरानमयाञ्चकार
कृत्वा स्वतः शरणमाप्तुमधीरचित्तान् ।। 1।।
ये वै भजन्ति शरणागतिमस्मि दाता
तेभ्योऽ हमद्य ननु पञ्चसहस्ररूप्यान् ।
उद्घोषमेतमधिकर्णकुटीरमेते
कृत्वा समेऽहमहमग्रसरा बभूवुः ।। 2।।
इत्थं विपत्तिमतिभीषणभीषणां तां
धीरो जिगाय तु मुशर्रफकोऽधिपाकम् ।
अत्रोत्तमोत्तमपदोत्सुकिनौ परन्तु
निर्वाचनक्षणसमुन्मुखिनौ क्रमाते ।। 3।।
भुक्त्वोन्दुरुव्रजमियं तु बिडालिकोच्चैः
पीठं श्रिता भवति सर्वसमैव साध्वी ।
दोषस्य लेशमपि साधयितुं क्षमेरन्
न्यायाधिपा न खलु तत्र विमर्शिनोऽपि ।। 4।।
आर्थी कशा भवति दुर्विषहा समेषां
सर्वे भवन्ति वशगाः खलु लोकिनोऽस्याः ।
जानाति तद्बलमसौ क्रमते त्रिलोके
प्रोन्नद्धराजमुकुटो हि तदीयशक्त्या ।। 5।।
क्रान्तिर्गुणो भवति किन्तु न पीडनाय
स्वच्छात्मनां परनिपीडननिस्पृहाणाम् ।
अन्यायमुन्मथयितुं दृढनिश्चयानां
क्रान्तिः सदा भवति शान्तिमयी सुधा हि ।। 6।।
क्रान्तिश्च विक्रमरसश्च सहोदरौ द्वौ
शान्तिश्च सौहृदरसश्च यथा तथैव ।
पूर्व्यौ विमानतलरोहणपद्धतित्वं
धत्तः परौ च सुखशायनिकत्वमुच्चैः ।। 7।।
काशीपतिर्वितनुते यदि ताण्डवं स्वं
तत् संहृतौ भवति सृष्टिचयस्य हेतुः ।
माता तु तत्र निजलास्यमुपादधाति
तत् सृष्टये प्रभवति प्रलयक्षतानाम् ।। 8।।
इत्थं विसृष्टिरिह सृष्टिमथो विसृष्टिं
सृष्टिर्विसर्पयति संसृतिचक्रबन्धे ।
ब्रूते मुकुन्दमुरलीध्वनिसंप्रसूता
गीता विवर्त्तनमिदं ननु तत्कृतं हि ।। 9।।
तस्मै समा अपि गृहिण्य उदात्तचित्ता
धावन्ति लोकमपहाय विसृष्टवस्त्राः ।
तस्मिन् स्वपित्यथ चराचरधर्मबन्धो
जागर्त्ति पुण्यपदवीमभिसन्धानः ।। 10।।
तत्स्वापमेव विलयं प्रवदन्ति सन्तः
सृष्टिं वदन्ति तु रसोत्छ्वसिता विदग्धाः ।
एतद्द्वये फलभिदा यदि नास्ति को वा
त्यागे च संग्रहरसे च विवेकयोगः ।। 11।।
अल्लाह इत्यभिदधत्वथवा परेश
इत्येक एव यदि वाच्य इह द्वयेऽर्थः ।
भाषाविवादमयि कीदृशमाश्रयन्तो-
ऽधन्या मुधा विवदमानमुखा ज्वलन्ति ।। 12।।
कश्चिन्नितान्तकमनीयशरीरधातुः
कश्चिच्च दुर्भगतनुः प्रतिभासते यत् ।
सा वै कथा प्रथमदृष्टिकथा वृथा सा
पार्यन्तिके प्रलययोगरसे क्व भेदः ।। 13।।
आत्मानमेव विषयाद् विनिवृत्य शुद्ध-
मानन्दरूपमुपयासि रसानुभूतौ ।
तं ये विभावयितुमुद्धुरकन्धरन्ति
भावाः समेऽपि त इमे त्वयि संवसन्ति ।। 14।।
अद्वैतमाप्तुमयमिच्छति यद्धि किञ्चिद्
द्वैतं कला ननु शिवस्य तु सा परस्य ।
नो ताण्डवे तनुमृते प्रभवेच्छिवोऽपि
चित्तत्त्वभूतपरमार्थतमोऽपि भूत्वा ।। 15।।
द्वैतं विभावयति चेदुपमामतीत-
मद्वैततत्त्वमिह तत् परमं तदेव ।
हेतुं विना यमिह सिद्धयति चेन्न कार्यं
हेतुर्हि सिद्धयति महार्हतमं त्रिलोक्याम् ।। 16।।
क्षीरायते निखिलमेव तृणादि, भुक्तं
यद् धेनुभिर्भवति तज्जठरे विपक्वम् ।
सोपानकक्रममपास्य तु कः क्षमेत
गोपानसीसमधिरोहणकर्म कर्त्तुम् ।। 17।।
तेजो विना क्व खलु चक्षुरुपाददाति
स्थूलानपि क्वचिदिदंविषयानभीष्टान् ।
साहायकाचरणसीमनि सन्निविष्टान्
विस्मर्त्तुमर्हति जनः खलु कोऽत्र भावान् ।। 18।।
सञ्चारिणामपि भवत्यधिकेन्द्रमेकं
सम्बन्धसूत्रमिदमक्षणिकं हि शश्वत् ।
स्थायित्वबुद्धिरुपसीदति तद्धि सूत्र-
मन्तर्हितं च नियमं च विधातुमीशम् ।। 19।।
संसार एष पवमानसमुत्थितान्त-
र्भङ्गोच्चयो भवति कोऽपि तडाग एव ।
व्यामिश्रितः परिमलैर्मकरन्दसूतै-
र्माधुर्य-सन्तति-समेधित-वारिराशिः ।। 20।।
हंसावलीव सलिलेऽस्य वकावली च
संतिष्ठतेऽभिलषितार्थ-समाधि-सिद्धा ।
पद्मानि तत्र विकचन्ति च संकुचन्ति
नीलोत्पलानि सममेव विनापि हेतोः ।। 21।।
नो वह्निरेष इव शात्रवशेष ईड्याः
क्षेमेच्छुभिर्नहि कथेयमहो मृषोद्यम् ।
पाके विपच्यत इदं धृतशस्त्रकाणां
विद्यार्थिनां कुशलिनां शरणागतिर्या ।। 22।।
ज्ञेयं त्विदं प्रथमतः कुत आप्तवन्तः
शस्त्राण्यमी निजचमूभटगानि कुत्र ।
एते वसन्ति कियदस्ति च भीषणाना-
मेषां प्रमाणमिति चात्र गवेषणीयम् ।। 23।।
सूत्राणि सन्ति सुबहूनि परत्र राष्ट्रे
शत्रूच्चयैर्निभृतमेव विनिर्मितानि ।
तेषां प्रशान्तिमपहाय नभोलतैव
शान्तिर्भवेद् अणुपरीक्षणदीक्षया किम् ।। 24।।
पाके बभूव परमाणुविधायको यत्
तेनान्यराष्ट्रपरमाणुविधानकार्यम् ।
ऊरीकृतञ्च निभृतं परिपूरितञ्च
पश्चादसौ निषिषिधे ननु पाकदेश्यैः ।। 25।।
को वा करोतु वपनं शिरसि स्थितानां
लोम्नां कुले यदि समेऽपि हि नापिताः स्युः ।
उच्चावचत्वसुभगैव समष्टिवापी
पापीयसोऽपि कृपणान् निपुणीकरोति ।। 26।।
पर्यन्तगेन यदिचेत् प्रथमस्य शैल-
खण्डस्य मानकलहः प्रशमोऽस्य नास्ते ।
सर्वस्य सर्वमपि लभ्यमहो कथं वा
विश्वम्भरोऽपि कुरुतां चतुराननोऽपि ।। 27।।
यामुर्वशीं बत दिवस्पतिरध्यकार्षीत्
तामेव केशिरपि हर्त्तुमियेष किं नु ।
लिप्साभिधा यदि न राजति लोकचित्ते
काचिन्महोरगजनिः सुरसा पिशाची ।। 28।।
जानाति वर्धितुमसौ द्विगुणत्वयोगा-
न्नो लाघवं कलयितुं क्षमते च मूढा ।
श्रीमारुतिश्च लघुतामपि वेद तस्याः
कारुण्यतो हि जगदद्य बिभर्त्ति सत्ताम् ।। 29।।
किंवाऽ भविष्यदिह चेदुभयेऽपि दैघ्ंर्य
द्वैगुण्ययोगविवृतं वृणुयुर्निरन्तम् ।
सूर्योऽभविष्यदिह नैव न चापि चन्द्र-
स्तारागणोऽपि न तथा न च विश्वमेतत् ।। 30।।
तोषश्च लोभ इति च द्वयमेतदस्मिन्
कासारकोपमित-संसृति-सागरेऽस्ति ।
धिग्धिक् करालदशनावलि-पूरितास्यः
संधावदुग्रजवनः खलु शिंशुमारः ।। 31।।
अस्त्रेण केनचन नास्ति शमोऽदसीयः
शक्योऽशमप्रधन-गीर्ण-शरीरकेषु ।
यस्यास्य कश्चन चराचरविश्व-मध्ये
तातः स लाघवमयः परितोषयोगः ।। 32।।
यो वै लघुं स्वमनुमन्तुमना महान् सः,
तस्मिन् हि वासमयते विनयः प्रियो यः ।
यस्तूद्धतत्वकलुषो न हि तस्य पार्श्वे
सिंहस्य गौरिव जनः खलु कोऽप्युपैति ।। 33।।
यस्य प्रियो नहि तपः स परिश्रमेभ्यो
बिभ्यद् द्रवत्यपपथेष्वपि पुंपृदाकुः ।
तस्मै परिग्रहपरायणताऽप्युदेति
भिक्षुत्ववृत्तिरिति यां प्रवदन्ति सन्तः ।। 34।।
कुल्या-जलं मलिनमित्यपहाय सन्त-
स्तिष्ठन्ति तर्षकृशकण्ठमहाप्रणालाः ।
श्वानस्तु लम्बितरसा अवलेढुमेतद्
बद्धोद्यमाः खलु भवन्ति स हि स्वभावः ।। 35।।
रेवाजले वसति को न सुरः, शिवोऽपि
तस्यास्तटं न विजहाति कदापि सोमः ।
तत्राऽस्ति हेतुरयमेव निपातनानि
जित्वाऽपि सा रवयुताऽग्रत एव याति ।। 36।।
गङ्गापि विष्णुचरणाद् भुवमापतन्ती
यद् वै हिमाचलमयं गिरिशोत्तमाङ्गम् ।
त्यक्त्वा पुरस्सरति भूमिमिमामुपैति
तत्रापि पूज्यमतयो विबुधा लसन्ति ।। 37।।
कृत्वा परिश्रममपि प्रतिपद्यते यो
नो भोजनं वसति किञ्च विहायसीह ।
तस्यासुमद्वपुष उग्रतमोऽभिशाप-
ज्वालाकरालदहनः किमु नोत्पतेद्धि ।। 38।।
दानं गृहस्थितिजुषां प्रथमं हि धर्मं
प्राहुः पुराणपुरुषा ननु सार्थकं तत् ।
या संग्रहैकपरता ननु सा पिशाची
भुक्त्वाऽखिलं स्वमपि भुङ्क्त इयं न शङ्कच ।। 39।।
दुर्वाससा क्षपितबुद्धिरुदारशीला
भर्त्रङ्गुलीयकमपि क्षपयाञ्चकार ।
हेतोस्तु कस्य ननु तद् घटितं दुरन्ता
नैवास्ति चेन्नियतिनामवती पिशाची ।। 40।।
सिद्धिर्यदा ननु सिसत्सति सर्वमेव
सञ्जायतेऽनुगुणमेव विहाय रोधम् ।
रोधांस्यपि प्रणिपतन्ति सरित्सु नो चेत्
यत्र स्थितः श्वसिति कश्चन दुर्विपाकी ।। 41।।
बद्धो महाजलनिधेरपि गर्त्तकुक्षि-
र्भल्लूकवानरकुलोऽपि यमुल्ललत्र् ।
तद्भाग्यशीतकिरणस्य कुहूनिपात-
वृत्तं नितान्तनियतं खलु तद् विसह्यम् ।। 42।।
ये दुर्विपाकमपि पाकमवाकिरन्ति
शस्त्रैश्च डालर-सुवर्ण-शतादिकैश्च ।
तेषां भिदं न कलयन्ति विदां वरेण्या
दुग्धेन हालहलितर्पण-कृद्वरेभ्यः ।। 43।।
दूर्वारसेन परितर्प्य महागणेशं
ये तस्य मूषककुलाय तमेव दद्युः ।
संपूज्य ते शिवममुष्य ककुद्मिने धिक्
कुर्युः कुठारहननेन पदस्य भङ्गम् ।। 44।।
आ शैशवाच्छिशुजनः शृणुतेऽन्यदेश-
संस्कारिणां समरसाहसिनां हि गाथाः ।
औद्धत्यतो विनयभङ्गकषायितः स
पित्रेऽपि नो नतिमुपातनुते न मात्रे ।। 45।।
योऽध्यापकः स विनयस्य पणे निषद्यां
रक्षन्निवाऽविनयपात्रति शिष्यजाते ।
सम्भावनागुण इह द्वितयेऽपि धन्व-
रश्मिप्रभो भवति नो परिणामरम्यः ।। 46।।
हित्वा वपुर्दिवमिमेऽधिवसन्ति दर्शं
दर्शं स्वपुत्रजनसंप्रतिपत्तिजातम् ।
क्षाराम्बुसन्ततिमिमे विसृजन्ति नेत्र-
प्रान्तेभ्य आधृततृषस्तनयाञ्जलिभ्यः ।। 47।।
उत्तानपादति निषिध्य सुनीतिपुत्रं
विश्वम्भरस्य दयितं ध्रुवमङ्कलिप्सुम् ।
पश्चात्तपत्यथ निरीक्ष्य महत्त्वमस्य
कश्चिच्छ्वसन्नपि चिता रहितो जडात्मा ।। 48।।
नैवोषसेऽपि समये सरसीरुहाणां
कोषा भवन्ति विकचाः खलु तस्य धाम्नि ।
वात्सल्ययोगरहितानि भवन्ति यस्य
चेतस्तटानि परिरूढकुशाङ्कुराणि ।। 49।।
चित् साम्मनस्यमृदुला श्रयते तु यस्य
प्रीत्यात्मकं मधुरसं स्वजनेषु तस्मै ।
पीयूषसम्भृततरोदरगह्नराणि
कादम्बिनीशतशतानि दिवो द्रवन्ति ।। 50।।
एकान्तवासनिभृतं नहि कोऽपि पश्य-
त्येतं तु मामिति धियाऽपचरन्ति ये वै ।
स्वात्मभ्य एव रसनाञ्चितपाणिपद्मा
जायन्त एव यमदूतगणा स्वयं ते ।। 51।।
माता विगर्हयति तान् विदुलेव युद्धाद्
भूत्वा पराङ्मुखमुपस्थितमुत्तरं नु ।
ये निम्नवर्त्मपरिसञ्चरसञ्चितार्था
सौख्यानि रूपयितुमुत्सविनो भ्रमन्ति ।। 52।।
भिक्षां चरन्ति मतमाप्तुमलं जनेषु
भैक्ष्येण लभ्यमथ कोषपदाधिकारम् ।
ये भुञ्जते ननु कदर्यतयैषु देश-
रूपस्त्रिणेत्र उपपादयतेऽग्निनेत्रम् ।। 53।।
ये पत्रकारपदवीमधिगम्य भीत्या
स्वार्थान् दुहन्ति परिदुर्बलचेतसस्ते ।
व्याघ्रन्ति गोर्मुखमुपास्य, नभश्चरास्ते
धिग् धूमकेतव इलोपरि पर्यटन्ति ।। 54।।
मथ्नन्ति सिन्धुमपि रत्नशतानि दुग्ध्वा
संपोषयन्ति च जगन्ति मधुप्रवर्षैः ।
तेष्वापतन्ति जगतां नयनानि येऽस्मिन्
काले त्यजन्ति वपुरेव त एत उर्व्याम् ।। 55।।
यद्वा भवन्ति जरठा नतगात्रमध्या
मूर्ध्ना स्पृशन्ति निजजानुयुगं गतेक्षाः ।
तस्मिन् क्षणे परिपतन्ति न वा पतन्ति
नेत्राणि हन्त जगतां परितर्पितानाम् ।। 56।।
नो कालिदास इति कश्चन काव्यनाट्या-
वेधाः स्वमुत्क्षिपति कुत्रचनापि काव्ये ।
व्यक्तिं व्युपेक्ष्य पठनीयमिहैतदीयं
वाचां विजृम्भणमलङ्करणं नृसृष्टेः ।। 57।।
कर्त्तुं तपो न खलु वाञ्छति, वाञ्छति श्री-
संभूतियोगमथ यस्त्वपराभ्यपेक्षः ।
तस्य क्षरन्ति मुखतो न हृदस्तु ये वै
भावा, भवन्ति हृदयामयकारिणो हि ।। 58।।
तातो ममायमभवज्जननी तथेय-
मेषाऽभवच्च दयितेति कविप्रलापाः ।
तत्काव्यरत्नमभिरूपयितुं क्षमन्ते
ताटस्थ्यमात्रपरमो हि कवित्वयोगः ।। 59।।
ये त्वेतरेयमुपसीदितुमुत्सुकन्ति
यद्वापि तित्तिरिजुषं सहपिप्पलादम् ।
तेषां दिवं प्रति निरुत्सुकचेतसां ना-
स्त्यर्थो भुवा च भुवि जन्मभृता च कश्चित् ।। 60।।
तेषां गिरं श्रवसि ते हि जना दधीरन्
छन्नं तृणेन विविशन्ति तु कूपकं ये ।
तत्रापि दर्दुरकुलस्य कषायितानि
श्रुत्वा कटूनि रटितानि भवन्ति तृप्ताः ।। 61।।
यद् वाङ्मयं कुहचनापि तिरोहितं सत्
सत्त्वं स्वमेव हि पुपोषिषति प्रवृद्धम् ।
तद्वै महानिभृतमस्ति निधानमाद्यं
लाभेन यस्य धनदायति मानवी भूः ।। 62।।
यद् वै विनोदयति रुग्णमतीन् द्विपादो
जन्तूस्ततो हि रुचिरं नृतिगानचित्रम् ।
कृत्वा विनोदमपि या रुजमाजिही-
र्षत्येषा हि कापि सरणिः कविशारदायाः ।। 63।।
वैयासिकानि वचनानि, गुरोश्च तस्य
रामायणं किमपि पिच्छलमच्छलं च ।
एवंविधानि हि भवन्ति ततश्च तानि
विश्वम्भराकनकभूषणतां व्रजन्ति ।। 64।।
अत्राबला भवति काचन तत्र किञ्च
तां भोक्तुमुद्धरति कश्चन राक्षसाग्निः ।
अस्मिन् पराजयमुपैति परः, ततश्च
चित्रायते जगति, मोदकरं च भाति ।। 65।।
सिंहं मृगी यदि हिनस्ति मृतोऽपि सिंहो
नो जायते करुणया कलितोऽपि सद्भिः ।
हिंस्यो हि धर्मपदवीषु स एव यो वै
हिंसाव्रती भवति निष्करुणश्च लोके ।। 66।।
यस्याननानि दश तस्य वचांस्यपि स्यु-
स्तावन्ति, सा च पदवी वितथोक्तिकानाम् ।
सत्यं सिसेविषव उद्गतमेव वक्त्राद्
वाक्यं हि सार्थयितुमुत्सविनो भवन्ति ।। 67।।
रामः स सत्यवचनः परमात्मभावात्
संपूज्यते मुनिभिरप्यनपेतसत्यैः ।
मिथ्यारतेन तु, दशाननकेन वंशः
स्वीयो विनाशदहने परिपातितो हि ।। 68।।
सत्येन निश्छलचराचरपालकेन
नो सेव्यतेऽणुपरमाणमपि च्छलं चेत् ।
नारायणत्वमुपपद्य तदेव सम्यग्
लोकम्पृणत्वधुरमुत्सहते तु वोढुम् ।। 69।।
ये राजनीतिनिपुणा अनृतं वदन्तः
संतोषयन्ति विषमेषु जनान् प्ररुष्टान् ।
पार्यन्तिकन्ति न हि तद्वचनानि तानि
रोषानलं परिसमेधयतेऽवसाने ।। 70।।
कण्डूतिमुद्रुजयितुं करणेषु तीव्रं
सञ्जाग्रतीमवशमुद्बडिशा इमे स्युः ।
तिष्ठन्त उद्धृतिपरा मकराँस्तटे ते
के शिंशुमारमुखगह्नरगा नहि स्युः ।। 71।।
ये देशा जनमीदृशं दधति ते व्योम्नोऽपि पारङ्गताः
सद्यः संनिपतन्ति यान्ति च दृढं पातालकुक्ष्यन्तरे ।
तत्रैतान् निभृतं दशन्ति भुजगीवृन्दानि वृन्दावने
यान् दृष्ट्वा रुदतः क्वणन्ति मुरलीवृन्दानि गोपीश्वराः ।। 72।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादकृतौ ‘पातालप्रवेगो’ नाम एकोनचत्वारिंशः सर्गः।। 39।।
8.7.2007 रवि.
चत्वारिंशः सर्गः
एकत्र सञ्चलति राष्ट्रपतेश्चितिर्नो
राष्ट्रेऽत्र किञ्च परतोऽद्य गतः स कश्चित् ।
श्रीचन्द्रशेखर इति प्रथिताभिधानो
मानोन्नतश्च दिवमेव रुजा परीतः ।। 1।।
चितिर्निवाचनम्।
आसीत् प्रधानकृषिचिन्तनदर्शनो यो
यो मासकान् मुनिमितानभवत् प्रधानः ।
एतत् पदं च विजहौ स्वयमेव दत्त्वा
तत्त्यागपत्रमुचितानुचितप्रबोधी ।। 2।।
मुनिः सप्त।
यो वाजपेयिनमपि स्वयमेव हातुं
मन्त्रिप्रधानपदवीमुपसंदिदेश ।
तस्योपदेशमनुसृत्य महामनाः स
तादृग्विधं हि कृतवानुचिताभियोगी ।। 3।।
एतेन भीष्मसदृशेन सुतेन गङ्गच-
मातुर्दृढत्व-गुरुता-परिसेवितेन ।
दैन्यं कदापि न मुखात् प्रकटीकृतं स-
च्चारित्रमेव च कुलेष्वनुशास्ति दार्ढ्याचत् ।। 4।।
कुलेषु विष्वविद्यालयेषु।
गङ्गचतटस्य ‘बलिया’- विरुदस्य बच्चा-
पाण्डेय एव परशासनमुच्चखान ।
तत्रत्य एव च सभापतिपण्डितोऽत्र
नागेशशास्त्रमवृणोद् व्यवृणोच्च सम्यक् ।। 5।।
‘रामाज्ञया’-युत उदारधियां नदीष्णः
पाण्डेय इत्यभिहितश्च बुधोऽप्यभूद् वै ।
तत्रैव स प्रमुखदार्शनिकोऽपि मुख्य-
मन्त्री स्वसंसदि न्ययुङ्क्त समग्रपूर्णः ।। 6।।
श्रीचन्द्रशेखर उदाहरणं बभूव
श्रीभारतावनि-पदक्रम-चङ्क्रमस्य ।
यस्मिन्नसौ यमपि देशमवापदेष
प्रोच्चैश्चकार जनतास्वभिनन्दनानि ।। 7।।
पदक्रमः पदयात्रा।
आपत् स तत्र गणनामतिवृत्य विद्य-
मानं धनञ्च कृतवान् कृषितर्पणञ्च ।
यन्मूल्यमस्ति तु परश्शतकोटिकोटि-
रूप-प्रमाणमतिरक्षितसंविधानम् ।। 8।।
-रुपं रूप्यकमुद्रा।
दध्रेतमां स लघुलोम सितं च कूर्चं
तस्यैकमेकमपि यद् घटकं ततोऽभूत् ।
हेम्नो हि वृष्टिरथ तस्य समस्य सम्य-
क्स्वामित्वयोगमपि यो विभराम्बभूवे ।। 9।।
मन्त्रिप्रधानपदमप्यतिवाह्य सोऽयं
निर्वाचनेषु लभते स्म जयं, कदापि ।
नापश्यदेष मुखमेव पराजयस्य
चारित्रहानिजनितस्य विमानितस्य ।। 10।।
संसत्सु यः खलु बभूव विवादकाले
निर्णायकः प्रतिभुवः पदवीमवाप्तः ।
सिंहो मुलायम इति प्रतिभाभिमानी
वीरोऽपि यत्र बहुमानमतिं दधाति ।। 11।।
श्रीविश्वनाथ इति कश्चन बाहुमत्या-
भावाभिधे निरय आपतितो यदाऽभूत् ।
तस्मिन् क्षणे य उररीकुरुते स्म धीरः
प्रातीपिकीं हि ककुभं स्वविचारनिघ्नः ।। 12।।
श्रीवाजपेयि-कविनाऽणुपरीक्षणासु
सर्वातिशायि सफलत्वमवापि तत्र ।
मान्येऽप्यमान्यमिति ये निरधारयँस्ते
ष्वासीदसावपि कृती मुखरः सभायाम् ।। 13।।
सभायां लोकसभायाम्।
पाकोऽणुशक्ति-सबलोऽस्ति भवेत् स किन्तु
नो भारतेषु स हि संक्षमते प्रहर्त्तुम् ।
तस्मान्मुधैव भरतावनिरर्थमत्र
स्वाहाकरोति निजतर्कमिमं स दत्ते ।। 14।।
आसीत् सनातनकविः परमाणुसिद्धौ
तस्यां प्रहर्षभरतुन्दिलितान्तरात्मा ।
मेने स तत्र समवीर्यतया सुरक्षा-
मात्मन्यथो न खलु तं व्यय इत्यमंस्त ।। 15।।
श्रीश्रीकलाम इति सांप्रतिको य आस्ते
राष्ट्रेपतिः स च यदा शपथं गृहाण ।
तस्मिन् क्षणे सफलतागततर्कमेतं
पश्चात् सनातनकवेः खलु सोऽप्यमंस्त ।। 16।।
आत्मप्रभुत्वखुरलीषु विचक्षणाना-
मग्रेसरा अपि कदाचन वैपरीत्यम् ।
संभाव्य भावयितुमात्मनि पातनानि
पादक्रमान् दधति सा नियतिर्हि पुंसाम् ।। 17।।
श्रीचन्द्रशेखर इमां त्रुटिमप्यकार्षीत्
किन्तु प्रतिष्ठितिमसौ न जनेष्वहासीत् ।
श्रीविश्वनाथ उररीकृतपाकवासि-
प्रीतिं परन्तु हृदयान्निपपात राष्ट्रे ।। 18।।
अल्लामियाँ परम ईश्वर इत्यमू यौ
व्याहारभेदनिगडौ भवतस्तयोर्नो ।
श्रीचन्द्रशेखर उवाह न विश्वनाथो
नो कर्ण एव न च कश्चन भक्तियोगम् ।। 19।।
यो पश्चिमां नमति भूतलचुम्बिशीर्षः
पूर्वां च यो नतशिरा धृतकामरूपाम् ।
द्वावप्यमू नमत एकलमेव देवं
काष्ठाद्वयाश्रितमभिन्नमुपात्तभेदम् ।। 20।।
एतां मतिं यदि बभार स विश्वनाथ-
सिंहोऽथ चन्द्रयुतशेखर एष सिंहः ।
एतावुभौ यदितरां तनयौ भवेतां
नास्त्यत्र चित्रमिह मोहनगान्धिकस्य ।। 21।।
यो वै जवाहरसुतातनयो बभूव
राजीवगान्धिरिति कोऽपि विमानसूदः ।
मन्त्रिप्रधानमवहेलितवाँस्तु यद्वै
प्राधान्यमेतदुररीकृतवान् स एषः ।। 22।।
नरसिंहराव इति विद्वदपश्चिमोऽपि
तामेव वै धुरमवीवहदल्प-मान्यः ।
प्रापञ्चयच्च शरदः खलु पञ्च पूर्णाः
निर्वाचनेऽल्पमत एव जहौ पदं तु ।। 23।।
पश्चादमुष्य शिरसि प्रपतन्त्यभूवन्
मिथ्याभियोगभिदुराणि सिषेव काराम् ।
आरक्षिबन्धनयुतं तमिमं ददर्श
विश्वं प्रदर्शितमलं बत दूरदृष्ट्याच ।। 24।।
दूरदृष्टिः=दूरदर्षनम्।
तां दुर्दशां न खलु शेखरचन्द्र एष
द्रष्टुं ह्यबाध्यत विरुद्धविधित्वयोगात् ।
द्रष्टुं ह्यबाध्यत तु तां यदि विश्वनाथो
वीरो निराकृत विरुद्धदलाभियोगान् ।। 25।।
श्रीविश्वनाथतनयः परदेशकोषा-
गारेष्वतीव धृतकोष इति भ्रमं ये ।
प्राचारयन्नभवदेषु तु वज्रपातो
मिथ्याभिभाषणमयः प्रतिषिद्धवादः ।। 26।।
तादृग्विधो ह्यभवदेष कुलाभिमानी
वीरो विरोधिषु पतन् ध्वनितो नु वज्रः ।
श्रीचन्द्रशेखर इति श्रुतिरस्य जाता-
न्वर्थत्चयोगसुभगा धृतिमत्तमस्य ।। 27।।
गङ्गचं गतो भवति यः खलु गाङ्गदासः
कालिन्दिकामथ गतोऽस्ति कलिन्ददासः ।
तेषां पथा न गतवानयमेष सिंहः
श्रीचन्द्रशेखर इति द्रढिमाञ्चितात्मा ।। 28।।
व्याघ्रस्य दन्तभिदुरावलिमुत्खनन्तो
धीरा भवन्ति विरला हि वसुन्धरायाम् ।
ये फेरुरावपरिकम्पितचेतसस्ते
भूयांस एव भुवि भारभृतो भ्रमन्ति ।। 29।।
वाणिज्ययाऽपि निजदेशगतानरातीन्
ये ध्वंसयन्ति ननु तस्य विपर्यये ते ।
भूयः पतन्ति परतन्त्रणकूप एवे-
त्यार्या उपार्जितबला हि रिपुष्वटन्ति ।। 30।।
गङ्गचधरस्तिलक इच्छति मार्गमेतं
श्रीकर्मचन्द्रतनयः खलु मोहनोऽन्यम् ।
बोसः सुभाष इति घोष इवारविन्दः
पूर्व्यं हि मार्गमुररीकृतवानिहासीत् ।। 31।।
दौर्वल्यदोषकलुषे खलु देहबन्धे
ये पातयन्ति सुगुरूणि तु भारकाणि ।
ते पातमेव परिलभ्य भवन्ति नष्टा
स्त्रीसङ्गतिं नु जरठा नृपयक्ष्मदिग्धाः ।। 32।।
गान्धी स्थितिं तु नितरां परिदुर्बलां स्वां
दूरं विमान्य निजतन्त्रणतत्परोऽभूत् ।
ब्रूते स्म किन्तु मतिमान् स सुभाषचन्द्रः
देशोऽद्य वाञ्छति तु शासनतन्त्रमेव ।। 33।।
वैमत्यमेतदुपदीकुरुते स्म भेदो
जातिं श्रितो यदुत वर्गकरम्बितो हि ।
गान्धी बभूव विपरीतमतिस्ततश्च
भेदेऽत्र तं दलयितुं च धृतप्रतिज्ञः ।। 34।।
यो वै निकृत्य धरणिं भरतात्मजानां
दाश्वान् बभूव रिपवे हि जातिमानात् ।
जातिं विमानयति तत्र बभूव जाति-
वादो हि रामकरतः खलु गोलिघातः ।। 35।।
तातोऽन्तिमं श्वसितमृच्छति पुत्रकस्तु
रात्रौ स्वदारनिरतो हि सुषुप्तिमापत् ।
मांसं च यस्त्रिरुपभुज्य दुदाव, गान्धी
तस्यैव नाम बत भूमितले बभूव ।। 36।।
राष्ट्रे पितृत्वमभवत् किल यत् प्रसिद्धं
श्रीगान्धिनस्तदभवत् गुणपक्षपातात् ।
यो वै गुणी स गुणिनः खलु तस्य जातः
स्वः संमतः श्वपचविप्रविभेदहन्तुः ।। 37।।
छिद्रं त्विदं स वृतवान् सुहरेति किञ्च
वर्दीति यस्य चलति स्म तदा स्वनाम ।
तेनैव वङ्गजनतां परिशुष्कसस्य-
कल्पां बभर्ज दहनं कलहं निधाय ।। 38।।
तस्यैव मार्गमभजत् खलु कोऽपि नाथू-
रामश्चचाल च सभागत एव गोलीः ।
ता एव कालमुखदंष्ट्रिकयेव सृष्टा
श्रीगान्धिनं यममुखातिथितां विनिन्युः ।। 39।।
हिंसां समाश्रयति यो निभृतां परस्मै
सा तं न हि त्यजति, खादति साऽन्ततस्तम् ।
नौछिद्रकं समुपपादयते परस्मै
यस्तस्य किं न खलु तद् भवति क्षयाय ।। 40।।
या वै विषं पिबति वर्धयते च काये
कान्तिं परां न खलु सा परिणामभेदम् ।
भोक्तृष्ववाश्रयति रावणरामयोः सा
साम्यं समाश्रयति दर्शयते च नाशम् ।। 41।।
गान्धी बभूव वणिगुत्तमतां श्रयाणो
मिष्टां गिरं श्रयति निश्छलतां प्रदर्श्य ।
विश्वास्यतंच निभृतमर्जयते च धत्ते
तीक्ष्णां दृशं निजपुमर्थ-समर्थनायै ।। 42।।
यं संप्रदायमनु पालयते प्रणामी-
त्याख्यं, भजन्तमभिदं यवनेऽथ हिन्दौ ।
यस्मै परः स्वकति सन् यवनोऽपि, तस्मै
स्वद्वेषपोषित-हृदे क्रियतां प्रणामः ।। 43।।
गान्धी बभूव बत तस्य हि संप्रदाय-
स्याग्रे सरत्सु वणिजामयनेषु जातः ।
तस्याग्रणीत्वमुपपादितवद् बभूव
पाकं यदि क्व बत किञ्चन चित्रमत्र ।। 44।।
अन्यो जबाहर इति प्रवरो द्विजानां
काश्मीरिकस्य नहरू-कुलकौस्तुभस्य ।
वंश्यो बभूव यवनैः सदृशीं हि भाषां
ब्रूते स्म न स्म कुरुते पिशिते घृणां च ।। 45।।
श्रीगान्धिनः स हि परात्पर उत्तराधि-
कारी व्यभाव्यत तमेव स मन्त्रिपीठे ।
प्राधान्यभाजि समरोपयदर्थलिप्सा-
हीनं च हीरकमिवोज्ज्वलतेजसं च ।। 46।।
यस्याऽभजत् स हि फलं च बभूव मुक्तो
देहाच्च तद्धि नहि चीनमृधं विहाय ।
कश्मीरभूमिजयिनं स हि कारियप्पा-
भिख्यं चमूपतिमवारयदात्महन्ता ।। 47।।
यो वै निषेधति परं च निषेधनीयं
संलप्यमामनति तस्य कुतः स्वपोषः ।
श्रीचन्द्रशेखर-बुधो निखिलं तदेतत्
तत्त्वं स्म वेत्ति च करोति च देशसेवाम् ।। 48।।
नारायणं जययुतं नु सराजपूर्वं
वेवेक्ति तत्त्वत उदारमतिः स्वतर्कात् ।
ताभ्यामसौ निजतटस्थतरत्वमुच्चै-
रापालयत् कृतिमतां प्रवरो महाधीः ।। 49।।
यं वै क्रमं चरणसिंह इति प्रधान-
मन्त्री समापदसकावपि तं क्रमं हि ।
मेने स्वराष्ट्रपरिपोषकृतं तु कृष्यां
भूमिं च कर्षुककुलस्य समुच्छ्रयं च ।। 50।।
तस्मै मनुष्यपरिपोषणकृत्तु दुग्धं
गोराज्यमेव पयसो जनितं बभूव ।
यस्माद् विवर्जिततनोस्तु सनातनस्य
खञ्जत्वमस्ति पदयोरुदरे च वायुः ।। 51।।
भैषज्यमप्यधिकरोति स तद्धि यस्य
निर्माणमत्र हि भुवि प्रतिपद्यते स्म ।
यत्पञ्चकेन विहिताऽस्ति तनुस्तदेव
तस्याः समर्थति रुजः परिशान्तये यत् ।। 52।।
सम्मानतः स हि मुखाग्निमलब्ध राज-
घट्टे प्रधानपुरुषैः समवायभाग्भिः ।
वेदध्वनिः परिचचार मुखाद् द्विजानां
निर्गत्य सूर्यतनयासिकतासु शुद्धः ।। 53।।
सप्ताहमेतमिह तस्य कृते हि शोक-
सप्ताहमभ्यमनुत प्रणिपातपूर्वम् ।
केन्द्रीयशासनमथो सभयाऽपि
शोकस्यार्थे तु दिल्लिनगरं समभावि सद्यः ।। 54।।
नो तत्र हन्त ददृशे खलु विश्वनाथो
गुज्राल इत्यभिहितश्च पुराप्रधानौ ।
श्रीमोहनो मदन इत्यभिधः सगान्धी-
श्रीसोनिया तु ददृशात उपात्तचिन्तौ ।। 55।।
यान्यद्यवृत्तयुतपत्रकुलानि तानि
सर्वाणि शोकमिममग्रदले हि दत्वा ।
तं प्रत्युदारचरितं निजमादराति-
शीतिं प्रकाममुपदीकृतवन्त्यभूवन् ।। 56।।
चित्राणि तस्य विविधान्यभवन् प्रकाश-
माप्तानि वर्णवपुषोः प्रविशालितानि ।
यद् दूरदर्शनमुपायनसत्तमं तत्
तस्मा उदारतमतामभितोऽभ्यदर्शत् ।। 57।।
विद्यालया न खलु संस्थगिताः समेऽपि
विद्यार्थिनः परिपिपाठयिषन्ति दिष्ट्याच ।
तन्नोचितं न निगमागमपाठरोधाद्
विश्वस्य हानिकृदहो निपुणा वदन्ति ।। 58।।
यत्किञ्चिदस्ति बलियानगरं प्रतीतं
तस्मिन् समो हि जन ऐक्ष्यत बाष्पदिग्धः ।
स्वत्वं जिगाय ननु शेखर एष तस्य
क्षेत्रस्य कार्य-विधिना च महत्त्वतश्च ।। 59।।
काश्यामपि प्रतिजनं प्रविकीर्णमासी-
दौदास्यमद्यतन-शोकमिमं निभाल्य ।
गङ्गचजलेन परिपूततनुर्हि काशी
जागर्त्ति दर्शनशते बलियाऽपि तद्वत् ।। 60।।
पाण्डेयवंशमणिरेकबुधोत्तमश्री-
रासीत् स चापि रघुनाथ इति प्रतीतः ।
श्रीकाशिनाथतनयो बलियाधिवासी
तत्रैव सोऽरचयतायुतपद्यकानि ।। 61।।
श्रीमद्भर्तृहरेः प्रकामकठिनां श्रीशारदां यः सुधी-
रम्बाकर्त्रिकया व्यभूषयदलङ्कृत्या परं दिव्यया ।
हेलाराजपुनर्भवः स मतिमान् नित्यं हि दुर्गां पठन्
सप्तत्या समुपास्ति मातरमिमां विश्वस्य जाग्रतीम् ।। 62।।
कष्चिद् द्विवेदिविरुदष्च हजारिपूर्व
आसीत् प्रसाद इह हिन्दिविभागमुख्यः ।
तस्मिन् स चापि जनिमाप पदे बलीया-
नाम्न्येव सोऽप्यभवदेव महाप्रतिष्ठः ।। 63।।
कष्चिद् बुधः परशुराम इति प्रतीत-
स्तत्रैव जात इह वेदचतुष्टयीमान् ।
सत्साहिती-परमपूरुषतां दधौ यः
प्रामाण्यपुष्टवपुषं प्रथमानलेखः ।। 64।।
सत्साहिती सन्तसाहित्यम्।
ऐतिह्यसंस्कृतियुगे भरतस्य धाम्नो
यो वै बभूव कृतभूरिपरिश्रमोऽत्र ।
श्रीमान् स कोऽपि भगवच्छरणो बलीया-
भूमाववाप जनिमाहितकेरलीकः ।। 65।।
उच्चैष्चिखेद कमलारतनाभिधानीं
दिव्यां मनुष्यवपुषा रममाणचित्ताम् ।
यो हास्यकार्यनिपुणः प्रवयाष्च कामी
शृङ्गारलम्पटिम-निस्त्रपवाग्विभूतिः ।। 66।।
यः कालिदासकविताश्रितभारतीय-
मैतिह्यमुद्धरति हिन्दिवचोवितानैः ।
आङ्ग्लीमपि स्फुटमुपात्तवचोविधान-
काकूत्तमो वदति, किन्तु न संस्कृतं स्वम् ।। 67।।
सर्वप्रमाणविपरीतमसौ कवीन्द्र-
मेतं युनक्ति बत गुप्तकुलोत्थितेन ।
चन्द्रेण केनचन विक्रमषब्दभूषा-
युक्तेन, वास्तविकविक्रममन्यथित्वा ।। 68।।
एतद् बभूव निखिलं बलियोद्भवत्व-
सादृष्यहीनमेतितर्कमथो विमान्यम् ।
तत्रापि राजनयिकेषु तदीयमेव
नाम प्रतीतमभवन् परराष्ट्रदौत्ये ।। 69।।
श्रीरामजीति विदितो बलदेव-नाम्ना
ख्यातष्च लेखननदीष्णकरावुभौ तौ।
उत्थापितौ तु बलिया-पृथिवी-रजोभि-
रात्मन्वितागुणयुतौ च मनस्विनौ च ।। 70।।
अपि भवति लघीयान् सत्पदं संश्रयाणो
जगति विदितषब्दः प्राथमिक्यं गतष्च ।
इह भवति कृपा सा षारदामातुरेव
श्रितसततनिजस्वाध्याययोगाभियोगे ।। 71।।
अपि तपसि रता ये षारदोऽपासनाख्ये
विकचहृदयकोषास्ते महान्तोऽपि सन्तः।
न हि पदमहिमानं स्प्रष्टुमिच्छन्ति तस्मै
विदधति करबन्धं दूरतः, किन्तु, तूष्णीम् ।। 72।।
प्रशमफलिनी विद्यावल्ली सदा प्रसरीसरी-
त्यवनितलगैर्विद्वद्वृन्दैरुदारमभिष्टुता ।
अथ किमु परं लभ्यं मानुष्यके जनुषि स्वतः
सुरभितनया दुग्धे मुग्धाननेषु पयःसुधाः ।। 73।।
श्रीचाङ्गदेव इव पूर्वमभून्महात्मा
श्रीमन्नृसिंहतनयोऽभिनवोऽपि येन ।
स्वाध्यायमात्रपरमेण जनुः समस्तं
प्रापूरि षान्तरसपानपरायणेन ।। 74।।
वह्नौ हविः पतति वर्धत एव वेगा-
न्नो षान्तिमेति न च तर्पणनित्ययोगम् ।
रोमन्थचेष्टितमिदं निखिलं निरर्थ-
मालोच्य केवलषमैकषिवन्ति सन्तः ।। 75।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये श्रीसनातनकविरेवाप्रसादद्विवेदिकृतौ श्रीचन्द्रशेखरसिंहमहाप्रयाणो नाम चत्वारिंशः सर्गः ।। 40।।