पञ्चत्वारिंशः सर्गः
उच्चावचत्वमुपयान्ति जगन्निकाये
भावाश्चराश्च चरतामतिवर्त्तिताश्च ।
शैला भजन्ति यदि रेणुवपुःप्रमाणं
रेणुः प्रयात्यथ महीधरगोत्रगात्रम् ।। 1।।
अद्यास्ति भूतिमहिता यदि लोकयात्रा
श्वस्तद्विपर्ययमयी नियता दशा नः ।
मानाऽवमान-कशया परिहन्यमाना
अश्वा वयं मनुजमूर्त्तिधरा द्विपादाः ।। 2।।
श्यामायते यदि दिनं, दिनति प्रभाते
श्यामापि, चङ्क्रममयं ननु चक्रमेतत् ।
कालो न कश्चिदिह भिन्नवपुः पदार्थः
कुत्र प्रकाशतिमिरप्रभुताश्रितेयम् ।। 3।।
अद्यास्मि गौर-वपुषाञ्चितवास्तवोऽहं
श्वो नो भवामि शितिकान्तिवपुः स एव ।
अन्योन्यता यदि मनुष्यसृतेर्मृषोद्यं
भेदो हि सत्यमपदार्थयते न शङ्का ।। 4।।
कैवल्यमस्ति रसहीनमुतान्धकूपः
कश्चिज्जलेन रहितश्च सवह्निकश्च ।
द्वैतं निदाघपरितापनुदस्ति किञ्चित्
सत् तालवृन्तमथ चालितकं करश्च ।। 5।।
द्वैतं विभावयति चाद्वयतां यदीयं
दोषायते प्रतिपदि प्रकृतेर्विरोधात् ।
सूर्येऽपि दत्तदृगसौ क्रमते दिवाऽपि
रात्रिं प्रसाधयितुमुग्रतमः-प्रभावः ।। 6।।
द्वैतेऽस्ति मौक्तिकसितं हसितं मुखाब्जे
तद्वच्च कज्जलशितिर्नयनेऽश्रुधारा ।
तत्प्रोञ्छनं च पुनरुद्गतधारकत्व-
युक्ताश्रुकश्मलकपोलयुगाननत्वम् ।। 7।।
स्तन्यं धयन्ति शिशवो मुखमादधाना
मातुः पयोधरमुखे तदिदं किमेकम् ?
एकस्य कस्यचिदपि प्रथितस्य भाव-
स्यान्ते फलं किमु रसोच्चयमादधानम् ।। 8।।
क्षीरे सितां दधिनि जीरकचूर्णकं च
शाल्योदने च धवले द्विदलं निषिञ्चन् ।
भुञ्जान एष नृसमाज उपास्तिमेति
द्वैतस्य वाऽद्वयरसस्य पदे पदेऽत्र ।। 9।।
द्वैतस्य कश्चिदसकौ परिपाकरम्य-
रम्यः स्वतोऽद्वयमिति श्रयते श्रुतिं सः ।
नो षाडवे न खलु पानकमेलके वा
द्वैतप्रसूतिरियमद्वयतैव रस्या ।। 10।।
पार्यन्तिके भवति नाद्वयतां विहाय
स्वादोत्तमाय जनकत्वमितं तु किञ्चित् ।
आद्यक्षणे द्वयमयी विभुतैव लोके
पार्यन्तिकक्षणगताद्वयभूमिकेव ।। 11।।
आस्ते मुखं द्वयतया नियतं न कुत्रा-
प्यास्ते हृदेकलमथ द्वयता न तत्र ।
अत्राद्य याऽद्वययुतद्वय-गीतिरेषा
नैवोपचारकलुषा किमु कापि गाथा ।। 12।।
आर्या शृणुध्वमुपचारकथामिदानी-
मेतां विनोदरसिका रसयोजनायै ।
शृङ्गारवीचिरथवेयमिह प्रतीतिं
किं दूरदर्शनकृतां नहि संतनोति ।। 13।।
धिन्वन्ति केचन निरस्तविभेददृष्टि
तद् रूसदर्शनमुदित्वर-साम्ययोगम् ।
तत्रास्ति लोहघन-दात्रयुतं हि शिम्ब्या-
चिह्नं निजध्वजगतं द्वयतामयं नो ।। 14।।
यो वै शिखां वहति मूर्धनि स स्वयं हि
तां वै चिकर्त्तिषति धारितगैरिकः सन् ।
यः संग्रहश्च ननु यश्च विसर्गयोग-
स्तत्र द्वये स्थितिमिता दृगिहैकला हि ।। 15।।
यो वै हलं कलयते कृषिकर्म्मणेऽलं
सूर्याऽऽतपेन परिखेदितकृष्णचर्मा ।
हीनः स किं भवति राष्ट्रपतित्वदिग्धा-
ऽऽसन्दीगतात् स्वसुहृदः परमेष्ठिनोऽपि ।। 16।।
न्यायाभिधो भवति धर्म इहानयोर्वै
भिन्नो न कश्चिदणुमात्रमितोऽपि लोके ।
पुत्रोऽप्यकारि गजपादहतः स्वयं हि
मात्रा नृपत्वमितया किमहल्यया नो ।। 17।।
दासस्त्रियं स विनयेतरदुष्क्रियायाः
पात्रीचकार विधृताऽनयमार्गपादः ।
माता न तं स्वजठरादुदितं त्वहल्या
वैधव्ययोगकलुषाऽप्यतितिक्षताऽऽर्या ।। 18।।
ये गेहसीमनि तडाकजलौघपुष्टान्
ग्राहान् स्वशत्रुतनुभिः परिपोषयन्ते ।
मन्त्रित्वमाप्य शिरसोन्नतिमापितेन
किं नो चरन्ति पथि विग्रहिणो यमा नु ।। 19।।
ये भर्जयन्ति विनिकृत्य रहः स्वभुक्तां
बालां विहाय करुणां बत तन्दुरेषु ।
यद्वा रहो गुलिकया परिघातयन्ति
पत्नीं स्वगर्भसहितां बत सांसदास्ते ।। 20।।
एकस्य सञ्जयसुहृत्तनयस्य चेष्टा
दृष्टा मया दुहितरि प्रथितिं गतायाः ।
त्यक्त्वाऽङ्गसङ्गतिमिमौ प्रकटं न किं किं
चक्रात उद्धतधियौ बत रेलयाने ।। 21।।
आपत्तिमत्र कृतवान् बत कोपपात्रं
जातोऽहमेव सृहृदामनयोर्द्वयोर्वै ।
आसीद् युवा स खलु सञ्जयवंशजात
आसीच्च सा वरतनोर्दुहिताऽङ्गनायाः ।। 22।।
दृष्टौ कदाचिदथ रेलगतौ युवानौ
द्वौ शायिकाद्वयगतौ पृथगास्थितौ तौ ।
रात्रेर्द्वितीयदल एत्य समेत्य किञ्च
सुप्तौ च गुह्यमुपगुह्य पटावृताङ्गौ ।। 23।।
वाराणसीमुपगतौ च यदावरूढौ
तौ विह्नलाङ्गलतिका युवती युवानम् ।
बाहौ विधृत्य परिदोलितगात्रयष्टि-
र्याति स्म सोऽपि सिगरेटमुखोऽस्तलज्जः (यातीति शेषः) ।। 24।।
यो यामिनीष्विव दिनेषु चरन्ति नष्ट-
ह्रीका धयन्ति च तदाचरितान्यधन्याः ।
ते धार्ष्ट्यामाश्रयितुमुत्सुकिनो लसन्ति
रोद्धारमेव च रुषा परिभर्त्सयन्ति ।। 25।।
अद्यत्व आर्यचरितेषु गृहेषु कन्या
रक्षन्ति चित्रपटनायकचित्रकाणि ।
वैमत्यमत्र पितरौ न हि दर्शयेते
तावप्यमूषु परितृप्तिमुपाश्नुवाते ।। 26।।
कस्यां दिशि श्रयति नः खलु यानरत्नं
यात्रां समाजतनु, संव्यभिचारगां किम् ।
किंवा भविष्यति ततः परिणाम उच्चै-
श्चित्तो भविष्यति तु को ननु कर्मयोगी ।। 27।।
या चेन्द्रियस्य परितर्पणतोऽपि तृप्तिं
देवाः प्रयान्ति ननु काचन बुद्धिरेषा ।
सा शोभतां कुहचनार्जितयुक्तयोगे
गुप्ते(अभिनवगुप्ते) परत्र तु विलासमुखी कथा सा ।। 28।।
चाञ्चल्यतो निभृतयौवतदर्शनानि
दृश्यानि दूरदृशि संप्रति दर्शितानि ।
लज्जां मनागपि न सञ्जनयन्ति लोके
रामायणादिष्वपि कथास्वभिदर्शितासु ।। 29।।
एवं हलाहलविमिश्रणमेव सर्वैः
संसाधनैः श्रयितुमिच्छति नुः समाजः ।
विश्वेश्वरो भवतु संप्रति रक्षिता नः
कामेश्वरः स खलु कामिवरा वयं स्मः ।। 30।।
पूर्वं बभूव कृपणो न हि चित्तधातौ
धातुः सृतौ क्वचिदपि प्रथितो मनुष्यः ।
सम्प्रत्यसौ परमदुर्बलतां गतोऽसौ
किं वा तरिष्यति तरीरहितः समुद्रम् ।। 31।।
आद्ये वयस्ययमुपात्तशरीरधातु-
र्नाऽधन्यतां श्रयति चेदतिचारमुक्तः ।
यायावरत्वविषमां स्थितिमद्य तीर्त्त्वा
स्थेमानमाप्स्यति निजे विजये नदीष्णः ।। 32।।
दीपार्चिरुद्वमति सन्तमसं निहन्तुं
दक्षं यदि प्रखरमुज्ज्वलधामपुञ्जम् ।
तज्झञ्झया यदि पराहतिमाप्य गच्छेन्
निर्वाणमस्ति मनुजस्य लयोऽपि पार्श्वे ।। 33।।
विश्वम्भरेश्वरतयाऽस्ति यदि प्रतिष्ठां
प्राप्तस्ततो भर नरानपि दुर्भराँस्त्वम् ।
वैद्यः स एव मृतिगर्भगुहागतान् यः
संजीवयेदपि मृतानथवा मरिष्णून् ।। 34।।
मृत्युर्न कश्चन पदार्थ इति स्थितायां
सिद्धौ मृता यदि जना ननु विस्मयो नः ।
यद्वा वयं न हि भवाम इमे वयं, स्वं
तत्त्वं विहाय परपाशनिपातिताः स्मः ।। 35।।
कैशोरकेऽपि कृपणाः स्थविरा लसामः
सर्वे वयं, युवकता मरुरोचिरेव ।
आसेदुषां लयमथाऽत्र किमस्ति लभ्य-
मस्मादृशां सुलभभोगविहस्तितानाम् ।। 36।।
वृद्धोऽपि जीवति यथोचितमाप्य मानं
लोकेऽस्य जीवितमुदाह्रियतां यथार्थम् ।
मानं सदैव परिरक्षति वीर एव
नो दुर्बलो न च कदर्य उतान्यतन्त्रः (परतन्त्रः) ।। 37।।
स्वातन्त्र्य मस्ति पुरुषस्य परं निधानं
तत्सूदमर्हति विवर्धनयोगमुच्चैः ।
कर्त्तुं च तं नियतिमप्यतिवर्त्तयेयु-
र्वीरा विरक्तमनसोऽप्यभियोक्तुमुत्काः ।। 38।।
आराधते नियतिरप्यमुमुच्चरन्तं
तामेव वेगमतिशीतियुतं व्रजन्तम् ।
झञ्झामरुत्सु तृणमुत्प्लवते स्वयं हि
स्वाभाविकी परिणतिर्ननु सा भटस्य ।। 39।।
यो वै ध्रुवः स हरिणा धृतदर्शनेन
शङ्खस्पृशा कवितया परिणम्यमानः ।
यद् वै ब्रवीति निगमत्वमुपेत्य तद्वै
काव्यं चराचरशुभं भजते प्रकाशम् ।। 40।।
अध्रौव्यमस्ति निरयो न हि तत्तलस्य
स्पर्शं प्रयाति शिथिलः पुरुषः कदापि ।
ध्रौव्यं च निश्चयगतं मतिमान् हि धत्ते
यद्वा प्रभाप्रतिभया सहितः स दीपः ।। 41।।
सौख्यं गतस्य करणानि यदि स्फुरन्ति
स्फूर्त्तिं गतानि च विनश्वरतां भजन्ति ।
मार्गान्तरे ऽस्ति गतिमत्त्वमिदं शिवायाः
शम्भोश्च सङ्गममणिं प्रति न प्रयाणम् ।। 42।।
सक्थिक्षतिःस्रवदसृक् खलु सारमेयी-
सूनूत्तमः परिलिहन् परितुष्टिमेति ।
तोषः स तस्य निजशोणितजः सुखं च
व्यामोहमात्रतनुजातमिदं न भिन्नम् ।। 43।।
सौख्यं भवेत् करणघर्षणजं मनुष्य-
लोके त्रिशङ्कुषु ययातिषु वा न किं तत् ।
यद्वापि शन्तनुषु किं नहि पुत्रदेह-
संक्रान्तयौवनतया युवकेषु सौख्यम् ।। 44।।
यावद्धविष्यमनलेऽत्र परिक्षिपाम-
स्तावत् स हन्त परिवृद्धिमुपैति शं नो ।
आस्यप्रवृद्धिमति सा सुरसा प्रविष्टं
किं वायुसूनुमभिभक्षितुमस्ति शक्ता ।। 45।।
नो वर्धमानमहिमत्वमिलातलेऽस्मि-
न्नास्ते परायणमलंत्वमितो गुणो वा ।
आवश्यकादधिकवृद्धिमपास्य खर्व-
भावाश्रयोऽपि ननु सिद्धिमुखायते नुः ।। 46।।
भीष्मो बभूव जितमृत्युरथापि मृत्युं
वव्रेतमां प्रकटमेव शरे शयालुः ।
शय्या शरेषु गतमृत्युभयत्वशक्ति-
योगश्च सोच्छ्वसनमृत्युमुखैकवासः ।। 47।।
देहेन्धनेद्धचितया परिधक्ष्यमाणाः
संधुक्ष्यमाणमनिलैः परितः प्रवृद्धैः ।
विद्यामहे यदमरा अपि कोऽमरत्व-
योगेन लाभ इति नोदिति चेतना नुः ।। 48।।
कामित्व-काम-परिभोग-रथाङ्गनेमि-
व्यावृत्तिकोटिषु चरिष्णुरसौ त्वमेकः ।
कस्ते सहाय इह वह्निमृते कराल-
जिह्नं च भस्मपरिणामदुहं च तीव्रम् ।। 49।।
एषा च संसृतिशुभा कलना स्मरस्य
चक्षुर्युगे पटवृते रतिवल्लभस्य ।
वैदुष्ययोगमहितत्वमथापि सम्यग्
व्याख्यातुमुत्सुकचितो धृतराष्ट्रकस्य ।। 50।।
(धृतराष्ट्रसम्मितस्य मे इति भावः।)
ये संसृतिं नहि लषन्ति भजन्ति किञ्च
कामं च ते सलिलपोतमुपाश्रयन्ते ।
नैवातरे समुचिते च भजन्ति दित्सां
शप्ता भवन्ति ननु ते स्मरदैवतेन ।। 51।।
शापश्च तस्य भजतु त्वरितं भवॉश्च
षण्ढत्वरौरवमथो भव योषिदेषा ।
त्वं प्रस्तरोत्थितवपुर्बत शालभञ्जी-
भावं, भवन्त्वथ शुनीतनयाः समेऽपि ।। 52।।
योगेन लब्धपरमात्मतया स्वनाम-
धन्योत्तमा अपि कृशानुतया ज्वलन्तम् ।
कामं कुटीचरमभिप्रशमाय दत्त्वा
शान्तिं गता; प्रशम एव च कोऽपि मोक्षः ।। 53।।
या कौशिकी परिगता तु कषायवस्त्रैः
कामन्दकी च सदृशी क्व नु तृप्तिमेति ।
त्यक्त्वाऽनुरूपयुवतीयुवयोगधन्या-
मान्वीक्षिकीं रसकलासुभगामिहैकाम् ।। 54।।
येऽघोरघण्टितुमिहोत्कुतुका भवन्ति
सौदामनीभिरपि ते परितो व्रियन्ते ।
तेषां कृतेऽपि भवभूतिकवित्वशक्तिः
प्रोल्लासनां भजति माधवमालतीवत् ।। 55।।
द्वन्द्वेऽत्र का नु सदृशी कलना, स्मरारे-
र्यद्वा स्मरस्य, ननु पृच्छतु नैतदत्र ।
सिद्धं यदुत्तरमिदं बत कालिदास-
मुख्यैः कवीन्द्रकृतिभिर्विहितं पुरो नः ।। 56।।
अद्यैव वृत्तमिह मुद्रितमस्ति पत्न्या
पत्युर्वधो व्यधित राजकुमारनाम्नः ।
आरक्षिभिश्च निगृहीतचरोत्तरं सा
प्रादात् स्वयोनिपरिशोषणमत्र वार्यम् ।। 57।।
अन्येन केनचन सार्धमसौ गृहीता
तत्साह्यमाप्य च ममार पतिं, तदास्याः ।
नैवोत्तरं समुचितं भवतीति किञ्चित्
सञ्चिन्त्यमस्ति बत तन्त्रमहो रहस्यम् ।। 58।।
पूर्वं च काचन गृहे वसता जनेन
सार्धं स्मराहवमकार्यत किन्तु पश्चात् ।
विग्नाऽन्यमित्रसहयोगत एनमद्धा
हत्वाऽक्षिपत् क्वचन दूरतरप्रदेशे ।। 59।।
सर्वत्र वर्षति जलं प्रलयोपमं च
भूत्वा विनाशमुपदीकुरुते पुरेषु ।
नो मुम्बई च कलिकानगरीव रक्षां
नो गुर्जरा इव हहा जलतो लभन्ते ।। 60।।
बन्धत्रुटिश्च बहुशो नगरे गृहेषु
भूत्वा प्रविष्टमुपपीडयते जनौघम् ।
रक्षां करोति च चमूः सलिलं सभोज्यं
दत्त्वा कथञ्चन मृतेरिव ताण्डवेऽस्मिन् ।। 61।।
यद् दूरदर्शनमिदंक्षण उद्वमद् वै
वैश्वानरं नु नृषु वारिमयं समन्तात् ।
तेनापि लोकजनमानसचित्तभीतिः,
प्रावृण्णदीयति विनाश उपस्थिते नु ।। 62।।
वारि प्रवर्षति, न वर्षति चेति भूमि-
र्वैषम्यमाश्रयति साम्प्रतमत्र लोके ।
कस्यापि पाययति पाययते न कस्या-
प्येषा स्तनन्धयमुखेषु न लभ्यतेऽम्बा ।। 63।।
हा हन्त वारि वमतीव शरीरकूपाद्
ग्रीष्मोऽद्य कालजलदावलिमण्डितोऽपि ।
बाष्पोच्चयेन निबिडाभ्रघनानि दीर्घा-
ण्यद्धा भवन्ति बत दीर्घतराण्यहानि ।। 64।।
मायावतीं स्मरति कश्चन काशिराम-
शिष्यां प्रजापतितया प्रविभासमानाम् ।
कश्चिच्च विद्युदिव सारवतीति मत्वा
राजीवगान्धिदयितां बत सोनियां हि ।। 65।।
नो मेनकां स्मरति कश्चन सञ्जयस्य
जायां च मातरमथो वरुणस्य, याते ।
कालेऽन्यथा तु जपमालिकयेव नामा-
न्यस्या जपन्ति तु जनाः स्म दिवानिशं हि ।। 66।।
अर्थो यतो भवति सिद्ध इदंयुगेऽसा-
वेवास्ति हन्त परमेश्वर आत्मनीनः ।
भिन्नस्तु यः स खलु वान्त इव श्वभक्ष्ये
भूत्वा दृशोः सपदि शूलति येन नार्थः ।। 67।।
माता पिता मम मृतौ न च यैस्तु पृष्टस्
तेषां शरीरविलये न च सूचितोऽहम् ।
ते बान्धवन्ति मयि केन पथेति नाव-
गन्तुं क्षमोऽस्मि न च तान् विनिवारयामि ।। 68।।
भृङ्गा मधुव्रततया प्रथिता, मनुष्या
किं ना मधुव्रतपदाभिहिता भवेयुः ।
स्वार्थो मधु, श्रयति तद् यदपि स्वतस्त-
न्मान्यं मधुव्रततया प्रथितात्मनां नः ।। 69।।
ब्रह्मास्ति सर्वगुणशून्यमथापि तस्मै
ये वै भजन्ति हृदयेन समुत्सुकत्वम् ।
ब्रूमो वयं नहि भजन्ति, गुणाः परं यत्
प्रेयस्वितां विदधते न तु निर्गुणत्वम् ।। 70।।
ब्रह्मत्वमुत्सुकयसे यदि मानवानां
चेतः कथं स्पृशसि नैव तु तत् तिरश्चाम् ।
ज्ञानस्य कश्चन विकार उदाह्रियेत
तद् ब्रह्म वास्तविकतापरिहीनमूर्त्ति ।। 71।।
ब्रह्मैव सच्च भवतीह तथैव चिच्च
प्रह्लादकं च विभुभावसमेधितञ्च ।
प्रम्लानतां भजति किं सरसीरुहं तत्
सायंतने रविविभा-विरसाऽवसाने ।। 72।।
केचिद् भवन्ति किमु तर्हि जडाः परे च
केचिद् भवन्त्यजडतामयभावयोगाः ।
सर्वे कथं न समतामजडत्वरूपां
यद्वा जडत्वमयतां दधतीह शुद्धाम् ।। 73।।
केचिद् विषाणसहिता अथ केचिदन्त-
र्गर्त्ता भवन्ति च कथं कथमत्र युग्मे ।
अन्योन्यपूरणसमीहितिरुद्भवन्ती
संलक्ष्यते सृतिमयी कलनां श्रयन्ती ।। 74।।
शैलाः समुन्नतशिरःशिखराः स्पृशन्ति
तारागणं, सरित उच्छलयन्ति तेभ्यः ।
एकस्य खं प्रति गतिः पृथिवीतलाय
चान्यस्य तन्त्रमिह किं विषमे विपाके ।। 75।।
इह विषमविपाके साधयन्तो विकल्पान्
यदि दधति विरामं निःसमाधानदीनाः ।
प्रकृतिरिति वदन्तो वा गुणॉस्त्रील्लभन्ते
कथमपि परितोषं चेतसा तापवन्तः ।। 76।।
इति स्वातन्त्र्यसंभवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘कटुविपरिणामो’ नाम पञ्चचत्वारिंशः सर्गः ।। 45।।
षट्चत्वारिंशः सर्गः
पाकिस्ताने वेनजीराभिधाना या वै काचिद् वर्त्तते लोकनेत्री ।
साप्यन्वर्थैवास्ति साम्येन हीना, याद्यैषा श्वः न सा, ष्वस्तु भिन्ना ।। 1।।
मुशर्रफे राष्ट्रपतौ तदीया बुद्धिः कदाचित् भजते सुहृत्त्वम् ।
कदाचिदन्यायपरं तमेतं मत्वाऽभिधावत्युपधर्मपीठम् ।। 2।।
भुट्टोसुताऽसौ जरठाऽद्य जाता पाशेन मृत्युं गमिते स्वताते ।
पत्यावपत्यप्रिय आत्मकुक्षिं प्रपूर्य पुत्राँन् सुवती सुमाता ।। 3।।
धिक् सर्पिणी सूतशतात्मजाऽपि स्वास्थ्यं कदापि श्रयते प्रकृत्या ।
बुभुक्षिता साऽऽत्मजमेव भुङ्क्ते विषानले वत्सलता कथं स्यात् ।। 4।।
जामातृषु द्वेषभृताममीषां धन्वप्रदेशे परिवर्धितानाम् ।
स्नेहाभिधा का नु लताऽभिवृद्धिं प्रयातु वह्निप्रचुरे प्रवाते ।। 5।।
या शिष्टता या मृदुता च वाचि सा स्वार्थदिग्धस्य पटप्रयोगः ।
पटेऽपयाते न हि तत्र काचिच्छिष्टत्वमात्रा च रसाऽऽर्द्रता च ।। 6।।
एतस्मिन्न्वसर एव भूतपूर्वः पाकस्थः प्रथमपदे निरुक्तिमाप्तः ।
न्यायं स्वं प्रति ननु लिप्सुराजुहाव न्यायेशं स खलु नवाजकः शरीफः ।। 7।।
प्राधान्ये निज उदितां निरीक्ष्य शङ्कां
योऽकार्षीत् तु मुशर्रफस्य यानम् ।
प्राधान्ये, तमिह शरीफमुज्जहार
देशाद् वै स खलु मुशर्रफः स्वकीयात् ।। 8।।
एतौ द्वौ विगतचरौ प्रधानमन्त्रिभावाढ्यौ न हि विहितौ कुतोमुखीनौ ।
सैन्यानां प्रमुखपदे मुशर्रफोऽसौ तिष्ठन्नप्यकृत न हन्त नष्टदेहौ ।। 9।।
यल्लालं मसजिदमेष रिक्तशत्रुं पूर्वेद्युर्व्यधित तदद्य भूय एव ।
शस्त्रौद्यैः परिवृतपाणिभिः स्वशत्रुसंघैस्तद् बत विहितं प्रपूर्णगात्रम् ।। 10।।
एकस्मिन् क्वचन पदेऽस्तु तस्थिवान् वै
सेनाया अधिपतिता-पदे मुशर्रफः ।
पाकानामधिपतितापदेऽथवेति
व्याक्रोशीं दधुरिह पाकनेतृवर्याः ।। 11।।
दिल्लीजः स खलु मुशर्रफोऽपि चित्ते
माधुर्यं किमपि कथं नु वै दधातु ।
भूमातुः स्तनजनितं पयः कदाचित्
किं वीतं भवति निजप्रसूगुणेन ।। 12।।
याह्या खाँ करुणमना मनागिहैवा-
प्यासीन्नो न हि ममृषे स शत्रुदेहम् ।
वङ्गेषु प्रथितगुणं मुजीबमेते
निष्कालव्यवहितिका न किं चचर्वुः ।। 13।।
स्वाम्यं स्वं कथमपि जायतां स्वदेशे,
स्वामित्वं सकलपुमर्थसाधनं यत् ।
सामर्थ्यं निजमुपसंचिचीषवोऽमी
नो मार्गे क्व नु दधते पदोः क्रमान् वै ।। 14।।
सद्दामो व्यधित निजेषु निष्ठुरात्मा
यत् स्वैरं विशसनमस्य वै विपाकम् ।
अम्रीका जनितबलैर्जनैः स्वदेश
एवासौ मृतिमुपगुह्य किं न लेभे ।। 15।।
यश्चान्यः सुगतशरीरभङ्गमत्तो
गोकोटिं परुषहृदन्नवच्चचर्व ।
सोऽप्यास्ते क्वचन मरुस्थले शयानो
गर्त्ते वै व्यसुरधुना न तालिवानः ।। 16।।
गात्रैर्ये गगनविशालवंशकल्पाः
प्रांशुत्वेऽनितरसमा न ते समेऽपि ।
गौराङ्गा मरुभुवि तैलपा न चित्ते
क्रूरत्वं दधति करालतासगोत्रम् ।। 17।।
एतेषां भवनगताः शतं महिष्यः
स्वैरत्वं दधति शमाय खर्जनायाः ।
खर्जाया अशममवेक्ष्य संक्रमन्ते-
ऽन्यद् गेहं करणशमावधि प्रकामाः ।। 18।।
नोच्छिष्टं भवति जुगुप्सितं यदेषां
पत्नीत्वं रहयति केवलं स्तनाम्भः ।
तेषां को भवति निजो निजानिजत्व-
दिग्धानां बत भुवि कालचक्रकेऽस्मिन् ।। 19।।
येषां वै भवति न हि क्षये घृणाया
लेशोऽपि स्वगृहमुपागतस्य शत्रोः ।
दातुं ते शरणमशिक्षिताः परेषां
कर्त्तुं ये क्षरणमिहैकमेव दक्षाः ।। 20।।
यद्वाऽक्ष्णोः पततितरां मयूरकश्चेद्
ध्वाङ्क्षं ये रटितकषायमुत्सृजन्ति ।
तेषां किं फलतु च सौहृदं रिपुत्वं
स्वाभाव्यादधिकृतमेव हन्त येषाम् ।। 21।।
रामश्चेद् वसति गृहे न कौशलं तद्
कैकेयीतनय इति श्रुतस्य किञ्चिद् ।
एषा वै मतिरुदिता चकास्ति येषु
तेषां स्वः स्वकमपहाय नास्ति कश्चित् ।। 22।।
यद् वारि क्षुरणमुपार्ज्य पिङ्गलत्वं
पद्मानां मधुभिरवापितं सरस्तद् ।
हंसानां भवति मुदे, न वायसानां
रत्नानां निपुणपरीक्षके नु काचम् ।। 23।।
नीचाख्ये शिखरिणि सुप्तिमेति विष्णुः
शेषाख्ये शयनतले ससिन्धुकन्यः ।
मेरूणामपि खलु सोऽस्ति दत्तलज्जः
स्वर्णीयां शिखरशतीं तु बिभ्रती-मे ।। 24।।
पृथ्वीं यो जलधिजले निमज्जितां स्वे
हन्ताग्रे मुकुलतनुं नु सन्दधानः ।
प्रोद्दध्रे किरिवपुषं तमीश्वरं वै
नीचाख्ये शिखरिणि केवले धयामः ।। 25।।
मेरो! त्वं किमु नहि रोचसे शिखासु
स्वर्णश्री-ललित-तराभिराम-कायः ।
यद् गण्डच्युतमदतोयलिप्तभृङ्गो
नीचाख्ये शिखरिणि दृश्यते गजास्यः ।। 26।।
मालव्यां मृदमभिलष्य षण्मुखोऽपि
देवाख्यं गिरिमधिवासमातनोति ।
कालाख्यः स च सुमहान् महेश्वरोऽपि
कैलाशादधिकुरुतेऽधिकं विशालाम् ।। 27।।
श्रीसिद्धिर्निवसति यत्र पूर्वतो हि
श्रीचक्रं शिरसि निधाय राजमाना ।
ये केचिद् दिशि दिशि भैरवा गणास्ते-
ऽप्यत्रैवोल्लसिततनूरुहा विभान्ति ।। 28।।
अध्युष्टं धरणितलं शिवेन साक्षा-
दोङ्कारे परिगतवालधिं श्रितेन ।
यन्मूर्ध्नि प्रथितमहैश्वरीक आस्त
ओङ्कारः शिव इति भूर्भुवःस्वरीशः ।। 29।।
आक्रान्तॄनुपशमितांहसो विधाय
वीरो यः स्वयमधिगत्य विक्रमाख्याम् ।
आदित्यः कवितृषु कालिदासभाव-
मालक्ष्य प्रमुदितचेतनः स्म जातः ।। 30।।
तां भूमिं स च खलु पुष्यमित्रयाजी
शेषाख्यः श्रयतितरां पतञ्जलीशः ।
यत्पार्श्वे स च ननु भोजतालकर्त्ता
भोजोऽपि प्रथितयशा विहर्त्तुमैच्छत् ।। 31।।
यत्रास्ते प्रथिततमाऽद्भुताद्भुतात्मा
रूपिण्याः श्रिय इव कापि वासभूमिः ।
माण्डाख्या विलसति यस्य दुर्गपृष्ठे
पूर्णेन्दुं स्पृशति सहस्रमागतानाम् ।। 32।।
रानी रूपमती
यत्रर्त्तुत्रिकमवभासते न भिन्नं
सौषम्याप्रतिमगुणं सलास्यकञ्च ।
हेमन्तः शिशिरवसन्तकौ च भूमि-
श्रीसौम्यं शरदुपलालितं च भावात् ।। 33।।
गौराङ्ग्यः परिगतचित्रवाससोऽत्र
ग्रामीणां निजनिजगीतिमुल्लपन्त्यः ।
नृत्यन्त्यः शिरसि निधाय रेखडीति
भूषाङ्गं त्रपयितुमीशतेऽप्सरांसि ।। 34।।
यत्रासीत् स च खलु शङ्करो दयालु-
र्नीतिज्ञो निपुणतमश्च मुख्यमन्त्री ।
यः पश्चादभवदिहात्र राष्ट्रपत्य-
युक्तोऽपि व्यपगतनेहरूभयोऽभीः ।। 35।।
तस्येष्टं किमपि बभूव दाक्षिणात्यं
स्वक्षेत्रः पुनरभवच्च हीनहीनः ।
स ग्रन्थिर्व्यजनि रमाप्रसन्ननाम्ना
मेधाया अधिधनिनाऽधिकारभाजा ।। 36।।
दारिद्रय प्रथममभूत्तु मय्युदग्रं
छात्रत्वे सुरगिरि सन्निवेशभाजि ।
किन्त्वेषा निरतिशयं दयालुरासी-
न्मय्यद्याप्यतितरवत्सलाऽस्ति माता ।। 37।।
यत्रासीद् बहुमतताऽस्य तं सदा वै
संमानान्निरतिशयान् प्रदातुमैच्छत् ।
भिन्नस्य श्रवसि चकार नैव वाचं
न्याय्यामप्यतिचरितक्षताधिकाराम् ।। 38।।
एषाऽस्ति स्थितिरिह भारते स्वराष्ट्रे
स्वातन्त्र्यं भजति बलैकसिद्धिसिद्धम् ।
धर्मो वा शमयतु तामिमां प्रभुर्वा
गृह्णानस्तनुमवतार-शब्दवाच्याम् ।। 39।।
यद्वा न प्रभुरपि संप्रभुर्वराको
गत्वर्यां मनुजमतौ सरिद्वरायाम् ।
वेगेऽस्या रचयतु को नु सेतुबन्धं
क्षिप्तोऽश्मा प्रवहति यत्र न स्थिरात्मा ।। 40।।
नैष्ठुर्यं फलति यदा तदा कृपायाः
का वार्त्ता मनुजसमाजमुद्दिधीर्षोः ।
वह्निश्चेत् परित उदेति का नु भीति-
स्तद् ग्रीष्मात् परुषदवाग्निदग्धगात्रात् ।। 41।।
ईर्ष्याया अनुजति मत्सरस्तदीया
हृल्लक्ष्मीर्भवति च रावणस्वसैव (शूर्पणखा) ।
विश्वासाद् व्यनशदपारसारतारो
दुष्पारो दशमुख-दानवस्य वंशः ।। 42।।
साऽसत्यं वदितुमतीव दीक्षिताऽभूत्
तस्मात् सा जनकसुतां विरूपिणीं प्राक् ।
पश्चात् सा प्रथयति रूपिणीं श्रियं तां
धावित्वा क्षपयितुमीहते स्म दुष्टा ।। 43।।
मारीचो मुनिरपि रावणं जगर्ह
प्राक् पश्चादभजदतीव हारि हैमम् ।
कौरङ्गं वपुरहरच्च दूरदूरं
श्रीरामं जनकसुताऽपहारणेच्छुः ।। 44।।
मिथ्या वाक् छलमथ सांपरायिकेऽग्नौ
सर्पिष्ट्वं भजतितरां समिन्धनाय ।
सोऽप्येष स्थिरतितरां प्रभर्जनाय
मर्यादाचणककणान् विना विरामम् ।। 45।।
मर्यादी भवति सदैव यः सरस्वान्
सोऽप्युच्चैः क्षिपति जलानि नाशहेतोः ।
तत् कस्मात्, विपरिणतिं विभाव्य
सेतोः रक्षायाः कवचतया विभावितस्य ।। 46।।
यः सूर्यः क्षिपति करान् सुधाशरीरान्
औषस्ये समयविपर्य्यये स एव ।
ग्रीष्माह्ने ज्वलनपरीततां नु यातैस्तैरेव
क्षपयति मुण्डितान्नु भावान् ।। 47।।
विग्ने वै निजगत आत्मनि क्षिपन्ति
वज्रौघानिव शिशिरा अपीन्दुभासः ।
सुस्थे तु प्रतिपदमात्मनीनभूता-
नेतान् वै कुरुत उदारतारमुग्धान् ।। 48।।
प्रक्रूरो भवति निजेन लिप्सितेना-
ऽक्रूरत्वं गत इव साहसं विसृज्य ।
अक्रूरोऽप्यवति च हन्त लाभहेतोः
क्रूरत्वं प्रगुणतमं युगप्रभावात् ।। 49।।
एकेनाक्ष्णा कलयति सितं वस्तु यत् तद्धयथान्ये-
नान्यद्वर्णं युगपदिति किं कुत्रचिल्लक्ष्यतेऽत्र ।
स्वार्थी नेता व्यभिचरति वै नीतिमेतां परन्तु,
सांसिद्धिक्या स्थितिमभिमतां धारयन्त्या प्रकृत्या ।। 50।।
उत्कोचार्थं प्रथमममितं जग्धिवांसः समेऽपि
चन्द्रे राहु-ग्रहणतिमिरं भावयन्ते ततश्च ।
कर्णे जप्त्वा कुलपतिमतिं भ्रंशयित्वा च दातुः
सिद्धौ सिद्धा बत युग इहालक्षिताः सन्त्यनेके ।। 51।।
वाणिज्या वै सुरतरुलताभावमासादयन्ती
केति प्रश्ने समुचिततरं ह्युत्तरीत्तर्त्तुमीशाः ।
शिक्षागारा इति दिनमनु प्रार्जयन्ते य एते
लक्ष्मीसिद्धिं विदधतितरां क्लेशलेशं विनैव ।। 52।।
आसीत् पूर्वं प्रमितिपरता किञ्च तस्याः कृतेऽभूत्
शब्दान् ग्रन्थाद् धृदयनिहितान् कर्त्तुमुत्साहधैर्यम् ।
तन्ना द्यत्वे गुणवदिति धिग् वृत्तपत्रोपमानान्
कृत्वा ग्रन्थान् कथमपि मुधा जल्पयन्तो नटामः ।। 53।।
वेदाः स्त्रीभिर्न हि पुरुषवद् धारणीया इति ज्ञैः
सामाजिक्या शुभधिषणया धारिता नीतिरार्यैः ।
नो चेद् का वा भवति नचिराद् दुर्दशा मानुषाणा-
मित्येतद् वै कुशलधिषणैर्नो न दुर्ज्ञेयमस्ति ।। 54।।
विद्यां वृत्तिः प्रतिनियमयत्यच्छवृत्तिर्दुरात्मा
कालुष्यं वै जनयतितरामार्य्यधर्म्माक्षरेषु ।
स्वैरित्वं तद् गुरुमुखसमुच्चोरितात्मान एव
ग्रन्थाः शास्त्रप्रतिनिधितया भान्ति नैवान्यथा तु ।। 55।।
वृत्तिस्त्वर्थपरायणा मतिमतामर्थश्च पापैः क्रमै-
रेवार्ज्येत सुखेन, न श्रमितया मार्गेण केनापि चेत् ।
पापान्येव फलेयुरर्थनिचयानित्यागतं तत्त्ववित्
को वा पुण्यपथेन धावितुमना भूयात् सुषुप्तावपि ।। 56।।
अर्थोऽप्यर्थतया पुमर्थनिवहे यद् गण्यते स त्वसा-
वन्नात्मोदरपूरणा, समधिकस्तस्पात्तु चौर्यं मतम् ।
इत्येषोपनिषत् स्वयं भगवतश्चारित्रकोषोत्थिता
स्मर्त्तव्याऽत्र समैः समाजपरमैर्विद्वद्वरैर्लौकिकैः ।। 57।।
किं कार्यं किमकार्यमित्यवगतौ मानं समाश्रीयते
मानञ्चान्यदिहास्ति वञ्चनमये संसारचक्रे त्वृते ।
वाक्यं यन्नहि पौरुषेयकलुषं यत्राऽस्मितैवैकला
प्रज्ञा पारमिताऽस्ति काचिदपरा विद्या परब्रह्मता ।। 58।।
ब्रह्माप्यस्ति यदि क्व तद् वसति का तस्यास्ति योनिः क्व वा
तज्जन्म प्रतिपद्यते क्व वसतस्तस्यास्य तातो, कदा ।
जन्मैतल्लभते क्व लग्न उदितास्तिष्ठन्ति तस्मिन् क्षणे
राशौ कुत्र समे ग्रहा नवतया संख्येयतामागताः ।। 59।।
को वर्णः खलु तस्य का च रचना कायस्य तस्यास्ति किं
तत् सौन्दर्ययुतं विभीषणमुत व्यक्तिश्च तस्यास्ति का ।
आयुष्यं खलु तस्य कीदृगथ का चारित्रवार्ताऽस्य, क-
स्तेनार्थे जगतीतलस्य यदि वा पाषाणकल्पं हि तत् ।। 60।।
एतान् प्रश्नशताधिकान् प्रतिसमाधातुं क्षमा कस्य वा
दिव्ये दिव्यतमे परात्परतया ख्याते स्थितस्याङ्गके ।
सन्त्यस्याननकाननानि न हि चेत् संख्या परार्धातिगा
कालश्चापि निरत्ययश्च नितरां नैरन्तरीञ्चापितः ।। 61।।
तस्मादात्मकुटीर एव वसते देवाय कस्मैचन
प्रत्यासत्तिमुपागताय निभृतं कुर्मो नमस्कारणाः ।
तस्मिन् बिन्दुतया स्थितेऽपि नितरामानन्दसिन्धौ स्थितिं
प्राप्ता नान्यमलंपदार्थमुदितानन्दाः समीहामहे ।। 62।।
रेवा काचन काचिदस्ति यमुना गङ्गा च काचित् समा
एताः सन्ति सरिद्वरा जलनिधिं गत्वा लभन्ते स्थितिम् ।
एतासां सलिलेषु केचन शिवाः, कृष्णाः, परब्रह्मणः केचिद्
वीचितया विभान्ति तटगा पश्यन्ति, ब्रह्मर्षयः ।। 63।।
एतत्क्षेत्रभुवस्समेऽपि तरवः सन्त्येव कल्पद्रुमा
यत्पत्रेषु महर्षयः स्थितिमिता ब्रह्मोद्यमातन्वते ।
तेष्वेवास्ति महाकवित्वकलनापारम्परी-धोरणी
यन्मग्ना भरताश्च भारतभुवः प्राज्ञाश्च विद्यामहे ।। 64।।
न्यग्रोधा इह सन्ति शाश्वतिकतामाधाय वृद्धिं गता
भूयांसो निषिषेच येषु यवनाधीशो द्रुतामायसीम् ।
तं पीत्वा गरलस्रुतिं नु परमेशानः सहस्रैर्भुजै-
राविष्कारमिताश्च भूमिकुहरे व्याप्ताश्च सान्तत्यतः ।। 65।।
ब्राह्मीं यस्तु लिपिं समुद्रनृपतिः श्रित्वा लिलेखात्मनो
दिक्चक्रस्य जयं स वै चिरतरः स्तम्भोऽपि यच्छायया ।
संपोषं भजते कविश्च हरिषेणाख्यश्चिरायुर्भव-
न्नैतिह्ये भरतावनेः स्थिरयशा विभ्राजते साम्प्रतम् ।। 66।।
वेणीं ताममरापगात्रयगतां दृष्ट्वा प्रयागोत्तमे
को वा पार्थिवविग्रहोऽपि भजते नाऽपार्थिवत्वं क्षणात् ।
यां संस्कृत्य च कालिदासकविता जाताऽमरा निर्जरा
त्रैलोक्यप्रतिपावनी भगवती धारेव भागीरथी ।। 67।।
विश्वेशेन विराजितां त्रिपथगापूतां जगत्पावनीं
काशीं प्राप्य जयन्ति चेद् भगवतीं भूयः सृतेः सन्ततिम् ।
किं चित्रं ननु संस्कृतामृतमयी धाराऽपि यत्रास्ति यां
ब्रह्माद्वैतविशारदां श्रितवतां चिन्ता न काप्युत्कति ।। 68।।
परिहरतुतरां हृदोऽनुतापं सहृदयसत्तम! शारदा न वन्ध्या ।
न हि दिवमपि, नैव विद्वरेण्या निजमर्थं परिदोग्धुमक्षमन्त ।। 69।।
अतिविषममुपैति नः समीपं
युगमधुना द्रुतिमास्थितो गरुत्मान् ।
स हि भुजगकुलं स्वचञ्चुघातैः
क्षपयति चैव गिलत्यथो क्षणेन ।। 70।।
इति स्वातन्त्र्यसम्भवमहाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘मतिपरिष्कारो’ नाम षट्चत्वारिंशः सर्गः ।। 46।।
अष्टचत्वारिंशः सर्गः
पाकिस्ताने तु यस्यासीत् प्रतिष्ठा प्रथमैव तम् ।
मुशर्रफं तृतीयं तु वारं राष्ट्रपतेः पदे ।। 1।।
विषेहे न प्रजा क्लिष्टचेष्टं क्रूरविनिश्चया ।
विरोधे प्राणघातादि बह्नमन्यत तं तु नो ।। 2।।
चमूपतिरपि ह्येष भवन् राष्ट्रपतेः पदम् ।
भुङ्क्ते स्म, प्रतिवेशेषु चालयन् दास्यवं क्रमम् ।। 3।।
मरुस्थलीयाः सर्वेऽपि मुस्लिमाः खानितैः शबैः ।
महाश्मशान-क्रीडानां शृगालानां हि बान्धवाः ।। 4।।
एकः शृगालो ब्रूते चेद् हूवा हूवापराः परे ।
सर्वे भवन्ति यद्वद्वै तद्वदेते हि मुस्लिमाः ।। 5।।
दृष्टिं स्वां सारमात्रे तु दधत्येतेऽतितिग्मिताम्।
सूक्ष्मसूक्ष्मातिसूक्ष्मेक्षानिपुणां निजवीक्षणाम् ।। 6।।
रन्ध्रेषु निपतन्त्येते निजरन्ध्रप्रगोपनाः ।
इन्द्रियाणामिमे दास्यमादधत्युपमोत्तरम् ।। 7।।
बलैकचिन्तां कुर्वन्तः परपाताय निष्ठिताम् ।
छन्नग्राहां विडम्बन्ते सरसीं फुल्लपङ्कजाम् ।। 8।।
प्रक्षीणा अप्यभीक्ष्णं वै न क्षीणा येऽनुकुर्वते ।
भवन्तोऽपि बलीवर्दाः सिंहानामास्यपञ्चताम् ।। 9।।
बलीवर्दे शिवस्तिष्ठेच् छिवेच्छति तु संस्थितिम् ।
पराक्रमैकसारे वै सिंहे पञ्चाननश्रुतौ ।। 10।।
शिवो दिगम्बरः शेते गिरौ भस्मविभूषणः ।
तस्याभिलाषहीनस्य का नु वीक्षा परिग्रहे ।। 11।।
शिवा संसारचक्रस्य नाभिः सा तु विभूतिषु ।
एषणां तनुते किञ्च विभूतिर्भवति स्वयम् ।। 12।।
ये वै स्वार्थैकनिष्ठाः स्युस्तेषामन्ते तु या गतिः ।
तस्यां सर्वे समाना हि नास्ति तत्र भिदालवः ।। 13।।
अस्माकं शिरसि स्थेमा यस्य तस्य विभोर्दृशि ।
सत्यमेव प्रजागर्त्तिच्छलं तत्र न सम्भवि ।। 14।।
एकामिमां महैश्वर्यमयीं शान्तामवस्थितिम् ।
प्रतिपन्ना विराजन्ते चितास्वपि निरामयाः ।। 15।।
एकैश्वर्येषु शान्तेषु दान्तेष्वथ महात्मसु ।
कीदृशो दुःखदावाग्निः का च पीडाप्यणीयसी ।। 16।।
ऊर्मयः सम्भवन्त्योऽपि यस्मिन् यान्ति शमं सरः ।
तदेव पद्मसम्भारं विकस्वरमवाप्नुते ।। 17।।
तत्रैव सौरभाणां च संमिश्रा रसमूर्त्तयः ।
प्रददत्यद्भुतानन्दपरीवाहं सचेतसि ।। 18।।
आस्ये विराजते नैषां कूर्चिका कापि वै सिता ।
कपाले तु शिवाम्बाया यावकेन्दुललाटिका ।। 19।।
ललन्तिका।
एतेषां पार्श्वभूमौ ये द्रुमा वल्लरिकास्तथा ।
पारिजातत्वमेतेषां कल्पवल्लीत्ववत् स्थिरम् ।। 20।।
कामधेनुसहस्राणि तेषां गोष्ठे लसन्ति यान् ।
श्रयेते पार्वतीजानेर्मृदुनी चरणाम्बुजे ।। 21।।
यान् वत्सान् सुरभिर्यद्वदूर्ध्वपुच्छान् करोति सा ।
समस्तैश्वर्यमोदाब्धिमग्ना एव भवन्ति ते ।। 22।।
दयामृतदुघा मातुः प्रसादविशदा दृशः ।
शरान् कामस्य पाशॉश्च यमस्य परिधुन्वते ।। 23।।
मातुः पयोधरद्वन्द्वे पयःसिन्धूस्तनोति या ।
दृगसौ जगदम्बायाः सानुकूलत्वमृच्छतु ।। 24।।
नाहं प्रयामि दीनत्वं गर्वं नैव वहामि च ।
उचितं द्वितयं ह्येतद् मयि त्वत्करुणाऽऽप्लुते ।। 25।।
येषु नो कर्मरूपस्य विश्वेशस्य प्रतिष्ठितिः ।
क्षमन्ते तेऽन्नपानीयमपि लब्धुं न दुर्विधाः ।। 26।।
योगक्षेमवहो येषां हरिस्तेषु क्व वाऽधृतिः ।
गङ्गाम्बुमग्नः किं तावद्घटो रिक्तोदरो लसेत् ।। 27।।
मातामहो मम हरिस्तनुजास्ति यस्य
माता ममैव करुणेति दयार्द्रचेताः ।
आश्वस्ततां हि सततं गतचिन्ततां च
क्षेत्रेषु हन्त निखिलेष्वपि धारयामः ।। 28।।
सीतापतिर्भवतु वा ललितापतिर्वा
शैलात्मजापतिरुतास्तु सदाशिवास्ते ।
क्षोदीयसि प्रतमसि स्थितिमीयुषि स्वां
कारुण्यवत्सलदृशोर्युगलीं क्षिपन्ति ।। 29।।
वन्दारुतामपि गतस्य न वन्दना मे
पर्याप्तिमञ्चति नितान्तमणीयसी सा ।
त्वं वै विराड् भवसि किन्त्वणुतां गतोऽपि
नो नासि तेन मयि नास्त्यवकाशहानिः ।। 30।।
कैलाश ईशहसितस्य विलास उच्चै-
रेकत्र राजतितरामपरत्र किञ्च ।
ईशस्मितस्य विभवः प्रचकास्ति नास्ति
तेनाऽत्र काचन परिश्रमबिन्दुलेखा ।। 31।।
विस्रम्भतः परिचराम इमे वयं हि
सर्वेषु धामसु शिवस्य विलासवत्सु ।
ईर्ष्यालुता किमु तनुं स्पृशतु त्वदीयं
भिन्नां स्थितिं श्रितवतो मयि ते कृशस्य ।। 32।।
शम्भोरजस्रविषपानरतस्य मूर्ध्नो
यद् वारि निर्झरति तत्त्वमृतायते हि ।
तत्र प्लुतिं श्रितवतामत एव भाल-
नेत्रत्वमेकमपहाय शिवत्वमास्ते ।। 33।।
शम्भो! विहाय गजराजमुपाददानो
गां किं नु दर्शयितुमिच्छसि भालनेत्र! ।
तुभ्यं त्ववश्यमियमस्त्युरुगाय गौर्हि
सर्वप्रिया सृजति या तृणतः पयांसि ।। 34।।
यान्यौषधानि ननु तेष्वपि पञ्चगव्य-
रूपं पयो लसति विश्वशरीरपोषम् ।
तान्यम्बिका भगवती सृजति त्वदीयं
वामाङ्गमित्यतितरां नयनाभिरामा ।। 35।।
पेयानि यानि सलिलान्यविकृतत्वशुद्धा-
न्येतानि धारयति सा ननु शैलपुत्री ।
आ शेखराद्धिमवतो सृतदिव्यधारा
यावत् समुद्रमियमस्ति सुरापगा हि ।। 36।।
सा मूर्ध्नि तिष्ठति शिवस्य हिमाद्रिकाये
जूटैर्जटाभिरभिरामति शीतशीते ।
तत्केशमेकमपनीतिमिते प्रयासि
दिव्योल्लसत्परमवारिशिवात्मनोर्वीम् ।। 37।।
त्वं शैलराज इति नाम्नि शिवस्य शीर्षे
व्योम्नः पतस्यथ हिमत्वमुपैषि शैत्यात् ।
कैलासधाम्नि तत एव दशाननोऽपि
भूत्वा हिमो दशमुखीस्तवनोऽस्ति शम्भौ ।। 38।।
यस्त्वां स्पृशेदपि हिमात्मकतां श्रयन्तीं
जाड्यौकशेषति हिमत्वमुपेत्य सोऽपि ।
गङ्गाधरं परमिमं प्रविहाय देव-
देवं परात्परमथो विषमेषु वह्निम् ।। 39।।
द्वारे हरेरथ हरस्य विभाजिताङ्गी
द्वैधं समाश्रयसि किं शिखरावतीर्णा ।
एकं वपुर्जलमयं हरये प्रकल्प्य
शिष्टेन शम्भुमभिषेक्तुमुदारधिष्णा ।। 40।।
त्वत्तीर एव निखिलान्यपि भूमिगानि
तीर्थानि भान्ति ननु तानि हि तीर्थराजः ।
वेणीत्रयीललितविस्तृततीरकुक्षौ
यस्मिञ् जयेन्द्रयतिभिर्विदधे निवासः ।। 41।।
अक्षय्यतां श्रितवतां प्रथमं द्रुमेन्द्रं
यत्तीर्थ एव वटभावमुपेत्य दृश्यम् ।
विश्वप्रपञ्चविलये प्रलयाम्बुसिक्तः
शेते स कोऽपि हरबालमुकुन्द उच्चैः ।। 42।।
यस्याभिषेचनमहाक्रतुबद्धदीक्षा
धारा लयेऽपि गहने स्फुरति प्रकाशा ।
रेवाख्यया श्रितवती वपुरम्बुधारा
श्रीनर्मदापि शिवयोर्महसः प्रसूता ।। 43।।
सोऽयं शिशुर्धयति पाणियुगेन धृत्वा
पादाम्बुजाग्रमिह वेशयिता मुखाब्जे ।
बालं मुकुन्दमभिधाय तु यं महान्तो
रासोत्सुकास्त्वरितमेव भवन्ति गोप्यः ।। 44।।
सर्वा ऋचो भगवतो निगमस्य किञ्च
सर्वेऽपि हन्त यतयः स्त्रितमन्ति रासे ।
नान्या स्थितिः कविवरप्रतिभानकस्य
शब्दार्थदम्पतिसमुद्वहने रतस्य ।। 45।।
रासाय रस्यतमवस्तुसमेधितस्य
द्वन्द्वात्मकाद्वयतनोः परिणीतिमाप्ताः ।
तृप्यन्ति हन्त निखिला अपि गोप्य एता
आप्यायनां च लभते स परः पदार्थः ।। 46।।
तत्रोल्लपन्त्यलमिति द्रुतिमीयिवांसो
ये वा प्र-भोगपरमाः खलु लक्षणज्ञाः ।
ब्रह्मैव ते रसतयाभिदधत्युदारा
औदर्यवह्निमुपकृत्य विमुक्ततर्षाः ।। 47।।
स्वैरत्वमत्र कवितैव सुमानुषेभ्यः
संपादयत्यतितरां सवने रसस्य ।
रस्यो यथा भवति तत्र रसाभिधेया
का वा रसस्य चरमानुभवात्मकस्य ।। 48।।
न्यायालयो वदति नोचितमित्यथास्य
मन्त्री वदत्यतितरां द्रढिमाञ्चितात्मा ।
यद् यत् प्रशासनकृपार्थधृतं समं तत्
संस्थानकं भजतु मत्प्रतिशासनं हि ।। 49।।
न्यायालयस्तदिदमामनुते स्वकीयां
निर्भर्त्सनां पुनरुदाकुरुते च घोषम् ।
न्यायालयस्य करयोर्न शरा न चापं
गाण्डीविनं प्रतिमुखं प्रति धाव्यमानम् ।। 50।।
यष्छागलेऽति विदुषां प्रवरो बभूव
मन्त्री विभाग इह शिक्षणसंज्ञके सः ।
प्रत्याचचक्ष उपपादितमीदृशं तु
न्यायौचितीपरिविवर्जितकं विधानम् ।। 51।।
तस्मिन् क्षणे हठपरो न बभूव कश्चि-
न्न्याये विधौ च विधृताधिकृतिप्रकर्षः ।
अस्मिन् पुनर्भवति मध्यमपाण्डवो(ऽर्जुनः) हि
श्रीकृष्णवाक्यमभिखण्डयितुं सचेष्टः ।। 52।।
एकान्तता न कुशलाऽखिलकार्यसिद्धौ
श्रीकृष्णशासनमिदं न हि धर्मराजः ।
नो वा सुयोधन उदारतया करोति
स्माप्यभ्युपेयमथ नाशमवापतुर्धिक् ।। 53।।
यस्यात्मनो नृपतितां परिरब्धुमासीद्
दुर्योधनश्छलपरः स हि युद्धपूर्त्तौ ।
भग्नोरुराहवभुवि न्यपतच्च जीवन्
धिग्धिग् वृकैश्च विलपन् परिभक्षितश्च ।। 54।।
तस्यास्थिपुञ्जमुपचित्य समर्पितं
यद् वह्नेर्मुखे ननु तदप्युररीकृतं नो ।
तत् सारमेयतनयैरपि नो मुखेषु
दत्तं महाविषमिवोल्लसदर्चिरुग्रम् ।। 55।।
तस्योष्मणा विसहनामतिवर्त्तमाने-
नाम्भः क्षयं बत जगाम कुरुक्षितौ च ।
यद् वै सरस्तदपि तेन जगाम पङ्क-
क्लिन्नं विशुष्कजलकुण्डमतीर्थगात्रम् ।। 56।।
भीष्मः शरेषु शयितः खलु येषु तेषा-
मुत्तेजनाय दहनैरलमेतदासीत् ।
सर्वे शरा ननु शरीरगता अभूवञ्
ज्वाला मुचस्तदनलेन पितामहस्य ।। 57।।
दुर्योधनास्थिचयचूर्णमुपेयिवांसो
ये रेणवो ननु तदात्व इहावशिष्टाः ।
आतङ्कवादिषु युगेऽद्य मितंपचैर्नो
साध्या भवन्त्यमितपाकबलिष्ठगोत्राः ।। 58।।
क्रव्यादमग्निमुपपादयते श्मशान-
नेता यमद्य ननु तस्य तनावपीद्धः ।
चूर्णस्य रेणुषु दहन्ननलो विपच्य
विभ्राजमानतनुको ननु लालसीति ।। 59।।
दुर्योधनास्थिचयवह्निमिमं प्रदाय
दग्धा चितापि निपुणैर्धृतराष्ट्रकस्य ।
गान्धारराजतनया तु पतिव्रताना-
मग्रेसरा स्वजनितं ह्यनलं विवेश ।। 60।।
कुन्त्यादयस्तु तुहिनैर्गलिताः शरीर-
नाशं ययुः प्रबलबातहता हिमान्याम् ।
मृत्युर्ध्रुवो धृतजनोर्यदि तत्र हेतुं
वाञ्छन्ति सौख्यधवलं हि पुराकृताप्यम् ।। 61।।
अग्निः शुभो हि भवतीति मृषोद्यमत्र
जातं सुयोधनशरीरगतान्वयेन ।
लोकाः शृणुध्वमतिमात्रघृणास्पदानां
संसर्ग इन्द्रति कुबेरति वा न शस्यः ।। 62।।
आसीद्धिरण्यकशिपुर्दशकन्धरो वा
त्रैलोक्यकम्पनपरायणवीर्यशौण्डः ।
या वै निकृष्टगतिता तु सुयोधनस्य
तस्याः कणोऽपि न हि तत्र विलोक्यते तु ।। 63।।
साक्षाद् विराडपि विभुः स विमानितो यैः
कृष्णः परात्परमहाप्रभुतां दधानः ।
तेषां विपर्ययतमान्तरिकात्मनां तु
हेमापि लोष्टति जलत्यनलोऽपि साक्षात् ।। 64।।
कृष्णः स्वरूपमुपदर्शयते विराट्त्वं
सम्यग् दधानमपि; किन्त्वरुणन्मृधं नो ।
नाशप्रियोऽपि भगवानपि सन् परात्मा
जागर्त्ति संक्षयमहाक्रमणप्रियोऽपि ।। 65।।
मृत्युं न मारयति मारयितुं क्षमोऽपि
कामस्य संयमधनेन महाबलस्य ।
कोऽर्थोऽर्थमेष भगवान् स्वयमेव मृत्यु-
रूपो भवत्वथ कथं स्वमुपाकरोतु ।। 66।।
यो लाङ्गली भवति सोऽग्रज एव
कृष्णस्यैतस्य सर्वविधशक्तिधरस्य लोके ।
कृष्णेऽग्रजत्यथ सुधास्तिमिताधरः सन्
सीतां विमोहयति लाङ्गलितां दधानः ।। 67।।
मन्दोदरी दशमुखस्य बभूव दाराः
सा नः क्षमाऽभवदुदारमतेः कपेस्तु ।
चेतो निजं प्रति हनूमत एष देवो
दृष्ट्वापि संयमपरो हि सदाऽभ्यलोकि ।। 68।।
कृष्णः कृतान्तति यदा क्षपयत्यनिन्द्य-
दृष्टिस्तदा स सचराचरमेतदग्य्णम् ।
विश्वं विधेर्विधिवदारचनाचणस्य
वैविध्यचित्रललितं चलितं च चित्रम् ।। 69।।
यस्मै युधिष्ठिरति धर्ममयः सुमेरु-
र्यस्मै समुद्रतितरामपि पोतकायः ।
तस्मिन् विपर्ययविसर्पणसर्पकाले
वज्राणि पातयति का न हि मेघमाला ।। 70।।
इति स्वातन्त्र्य सम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ दुर्योधनास्थिवह्निर्नाम अष्टचत्वारिंशः सर्गः पूर्णः ।। 48।।
एकोनपञ्चाशः सर्गः
रासं तनोतु भगवान् व्रजगोपिकाभि-
स्तेनैव कंसहननं भवितेति मत्वा ।
नो चेद् विहाय मथुरां व्रजवल्लरीः स्वं
चक्रं सुदर्शनमिदंक्षण आददातु ।। 1।।
वंशीरवेण विनिमोहितचित्तकोषा
मत्ता इवोच्छ्वसितनीवि-नितम्बवस्त्राः ।
कृष्णाभिसाररसिका व्रजगोपिकाः स्युः
संसारचक्ररथनेमिभुवं प्रपन्नाः ।। 2।।
कृष्णः सुदर्शनमपास्य विहाय किञ्च
कौमोदिकीमपि गदां, यदि शब्दशब्दैः ।
पद्मेन वा मधुकरप्रियतापरेण
धुन्वीत कंसकटकं ननु तच्च युक्तम् ।। 3।।
ता ताकधिन् धिनक संकुलितं नभश्चेद्
शस्त्रैः पराणुविहितैः परिपूरितं स्यात् ।
किंवा भविष्यति तदा मनुजस्य किञ्च
विश्वम्भरावलयगस्य चराचरस्य ।। 4।।
चण्डालकुक्षिजनितश्च परम्परातः
शुद्धान्वयश्च मुखजो यदि साम्ययुक्तौ ।
वेदः पुनः किमु गमिष्यति सिन्धुतोयं
कोलः प्रभुःपुनरिमं न समुद्दिधीर्षेत् ।। 5।।
द्रव्यं यदा भवति धावति तत्र सर्वो
योग्योथवाक्षरकलामपि यो न वेद ।
दारिद्रयदेव! भगवान् हि भवानिदानी-
मस्मान् वृणीष्व निगमागमलोपकाले ।। 6।।
योऽनुग्रहं परजने खलु कर्त्तुमीश-
स्तस्यास्यपद्ममभिभावनदाहरक्तम् ।
संकोचमञ्चयति बुद्धिवराटचेटीं
हृद्द्रोहशिक्षणसरस्यभिमज्जनं च ।। 7।।
धातुः कलेयमतिमात्रविचित्रभावा
बाभाति भारतभुवि क्षपिताभिजात्या ।
कौलीनमुज्ज्वलतया स्थिरयन्त्यनुष्णान्
प्रोच्छ्वासबन्धुरगुणॉश्च समश्नुवाना ।। 8।।
रेवातटे विगतमानुषदोषरम्ये
रम्यास्वपि प्रथितवंशगुणासु दृष्टाः ।
भार्यासु कश्मलतया परिवर्त्तमाना-
स्वन्यानुरागरसराभसिकाः प्रवेगाः ।। 9।।
होशंगशाहकृतकुण्डगणे तु शिप्रा-
नीराञ्चिते स्मृतिमुपैति तु नर्मदाम्बा ।
होशंगशाहनगरस्य तटे यदीये
बाभान्ति भित्तिनिवहास्तु जले विशालाः ।। 10।।
एकत्र कुण्डमपरत्र तु सेतुबन्धं
सोऽयं नृपो ननु चिकीर्षति कस्य हेतोः ।
पुंसः सुखाय न हि, नापि निजस्य तुष्ट्यौ,
तीर्थत्वमेकलमुपद्रवितुं तु तूष्णीम् ।। 11।।
शिक्षां स्वहस्तनिहितां तु विधाय गौरा
शास्तार ऊष्मसु शिशूनभिशोषयन्तः ।
निस्सार-शास्त्र-गतिकाँस्तु विधित्सवो धिक्
वैविध्यमुत्तमतया प्रतिपादयन्ते ।। 12।।
कैङ्कर्यलब्ध-विपुलार्थसमाहृतानां
यूनामुपांशु परसंस्कृतिसंस्कृतानाम् ।
धत्ते पदं हृदि घृणा निजसंस्कृतौ सा,
यस्याः फलं भवति वै परतन्त्रतैव ।। 13।।
यो मातरं न मनुते, मनुते न तातं
बृद्धेषु न प्रणतिमातनुते स धृष्टः ।
स्वात्मैकपोषणपरायणसर्वशक्तिः
कस्मै गुणाय निजजीवनमाबिभर्त्ति ।। 14।।
तन्त्रं स्वकं भवति सांस्कृतिकत्वहेतोर्
या संस्कृतिर्भवति साऽपि च धर्मसेतुः ।
आहिंस्यसत्यसकलेन्द्रियसंयमाऽर्थ-
भूयस्त्ववर्जनपराश्च भवन्ति धर्माः ।। 15।।
धर्मो न भालतिलकं, न च कण्ठमाला
नो वस्त्रवर्णकलना न च देवपूजा ।
वृत्त्या यमेन सहितस्य नरस्य यो वै
मार्गो हृदान्तरतमेन सृतः स धर्मः ।। 16।।
तं नेश्वरो धयति नेत्रपुटेन पद्म-
कोषाग्रजेन धयितुं विधृतक्षमोऽपि ।
तस्येक्षणाय भगवान् स्वयमन्तरात्म-
भूतो निषीदति मनुष्यकलेवरेऽपि ।। 17।।
धर्मं श्रयन्ति न च पुण्यमितो लभन्ते
पापं त्वधर्मचरणेन लभन्त एव ।
पापापसारणपटुः खलु धर्म-मार्गः
संमार्जनीं खलु दधाति तु भक्तिरूपाम् ।। 18।।
सेवामहे प्रतिदिनं भगवन्तमर्क्कं
तस्य प्रकाशसरसि प्लवमानकायाः ।
बुद्धिप्रशोधनपरं करणेषु जाग्र-
त्तेजःप्रजागर-पटुं च मनुं जपामः ।। 19।।
सन्ध्यात्रये सततजागरिता इमां हि
दैनन्दिनीं प्रतिपदं प्रतिपद्यमानैः ।
आयुष्यमाप्य शततोऽप्यधिकं समानां
सौस्थ्येन कान्तमुखमण्डलिनो लसामः ।। 20।।
व्यायामसेवनदृढीकृतदेहबन्धाः
शुद्धे नभस्युषसि जागरणां भजामः ।
प्रश्वासरोधविशदीकृतफुफ्फुसाश्च
नक्तन्दिवं जगति नायकतां श्रयामः ।। 21।।
स्वाध्यायकं प्रतिदिनं चरितुं प्रयत्नं
कुर्मः, स्ववेदपठनं मुखतश्चरामः ।
विद्मो न वै भवति कस्यचनापि पुस्त-
जातस्य दृष्टिपरिपावनता स स/एषः ।। 22।।
श्रीकृष्णवेणुमपहृत्य पलायिताश्चे-
च्चौरास्त एव खलु कृष्णतयाऽभिपूज्याः ।
वेणोरभूद् यदि तु लक्षयुगी प्रमाणं
मूल्यं, न वैणवमिदं कलितुं क्षमाः स्मः ।। 23।।
रत्नस्य निर्मितिरियं यदि तत् कथं नु
स्प्रष्टुं क्षमाऽ भवदियं शिशुकृष्णवक्त्रम् ।
न प्रस्तरा बहुगुणा अपि कोमलानि
स्वाङ्गानि कर्षितुमलं विभवन्ति लोके ।। 24।।
वेणुं हरन् किमु न रत्नशताभिजुष्टं
श्रीकृष्णमूर्ध्नि लसितं मुकुटं जहार ।
तस्मादियं मुरलिका स्वयमेव जाता
छन्ना क्वचित् प्रतिमुखा निजसेवकेभ्यः ।। 25।।
श्रुत्वैव यत्स्वनममूमुहदन्तरात्मा
गोपीजनस्य, न च गोपजनस्य तां वै ।
अद्वन्द्वभाव-रहितां मुरलीं जहार
कश्चित् स निर्द्वयपरः खलु शङ्करार्यः ।। 26।।
श्रीशङ्करस्य गिरिशो न शृणोति वेणुं
स्वे ताण्डवे स खलु पुष्करमासिसर्त्ति ।
साधु, प्रमोहपरमा ननु साऽ पहर्त्तुं
शक्या कुमार इति शक्तिभृता गुहेन ।। 27।।
तामेकदा मुरलिकां न हि राधिकाऽपि
स्प्रष्टुं बभूव ननु सेर्ष्यतया क्षमा ताम् ।
प्रेष्ठोष्ठचुम्बनपटुं ननु राधिकैव
लीलामयी भगवती स्वयमाददीत ।। 28।।
कृष्णोऽथवा स्वयमिमामपहर्त्तुमैच्छत्
स्वस्मान्मुखाद् विगत-वादनरन्ध्रयोगाम् ।
तन्त्रन्ति तत्र निज-भक्त-जनान्तरात्म-
निष्ठानि कश्मलरजांसि समेधितानि ।। 29।।
अन्तर्हितः स्वयमथो ननु वेणुरेष
श्रीकृष्णवक्त्रकुहरादनवाप्तपूर्त्तिः ।
श्रीकृष्ण एष कलिकाल-कषायढक्का-
ध्वानैः पराजितमना हि बभूव धिग्धिक् ।। 30।।
वृन्दावनेन यदिवा चरितो विरोधः
कृष्णस्य माधुरतया परतां गतस्य ।
वृन्दावने च मुरली हि सखी बभूव
श्रीराधिकादि-तरलीकरणाय सिद्धा ।। 31।।
यद्वा जहार यमुनैव तया समासा-
माकर्षणेऽक्षमत वल्लविकाः स कृष्णः ।
पत्युर्निषीदतितरां हृदयाजिरेऽन्या
काचित् प्रजागरवती यदि सूर्यपुत्री ।। 32।।
कृष्णोऽथवाऽद्य पुनरप्यवतीर्णमूर्त्तिः
कुत्रापि राजति तमेनमुपास्तुकामः ।
वेणुर्गतो य इह राजति कोऽपि कृष्णः
सोऽयं पुराणपुरुषो, मथुरा च वृद्धा ।। 33।।
आरक्षिभिर्न खलु सा मुरली सुशक्या
लब्धुं पुनर्न खलु सा ध्रियते शरीरे ।
सत्त्वस्थितं च न हि कोऽपि शृणोति वंशी-
रावं स्थविष्ठतमकर्णनभःस्थलेन ।। 34।।
कृष्णः स्वयं खलु न किं परिचेखिदीति
तद्वल्लभां मुरलिकां परिहृत्य तिष्ठन् ।
यद्वा बुभूषति स संप्रति नन्दकी वा
कौमोदकीसुभगपाणिसरोरुहो वा ।। 35।।
चौर्यं गता मुरलिकेति विभाव्य कृष्णो
मायां समादिशति नैव गवेषणाय ।
नो चेदिदंक्षण इयं हि चितिं तुरीयां
पस्पर्श नैव न च तस्य बभूव भार्या ।। 36।।
साऽप्यास्यसौरभकिरं मरुतं निषेव्य
भर्त्तुः परं न हि न निर्वृत्तिशालिनी स्यात् ।
माधुर्यतृप्तिमधिकां गमितस्य जिह्ना
काषायकं स्पृशति चौर्यमिदं तदेव ।। 37।।
दूरादपि स्पृशति चेद् बलरामपाणौ
लब्धस्थितिर्हलवरो ननु सोऽस्य दासः ।
वेणुस्पृशं किमुत तस्करमेष कृष्ण-
भ्राता भवन्नपि बलो न हलं हिनोति ।। 38।।
मन्ये हलिन्यपि बभूव मुरारिवक्त्र-
पानैकलब्धरुचिका मुरली प्रिया नो ।
तूष्णीं स तिष्ठति ततः खुरलीं विधाय
नो वेणुतस्करममुं न हि हन्त धत्ते ।। 39।।
वेणो! स्वरेण तव कृष्णमुखस्थितस्य
गावो भवन्ति मथुरासु पयोऽधिकाङ्ग्यः ।
तेन स्वसा च यमराज इति श्रुतस्य
देवस्य हन्त गमिताऽतितरां विवृद्धिम् ।। 40।।
तेनापि सापि मथुरा नगरी त्वदीयं
वेणुं तवाधरतलाद् बलवच्चकर्ष ।
तत्साह्यमाचरदथो व्रजवासिनां सा
मुग्धत्वभावमसृणा ननु दृष्टिलक्ष्मीः ।। 41।।
पश्यत्सु पार्श्वपरिवर्त्तिषु चोरितुं कः
शक्नोति कस्यचिदपि स्वमिलातलेऽस्मिन् ।
भावस्पृशो यदि दृशो व्रजवल्लवीनां
कृष्ण! त्वयि क्व नु गता मुरली तवास्यात् ।। 42।।
रामस्य जन्मवसुधाऽपिहृतापि नाद्याप्याप्तुं
क्षमा यदि हतैरपि रामभक्तैः ।
रामः स्वयं हि तनुते ननु शत्रुसाह्यं
यद्वाऽबलस्य बलवानपि रक्षको नो ।। 43।।
कृष्ण! त्वमप्यसि मुहूर्त्तं इह प्रतीपः
प्रातीपिकेषु हि भवस्यनुकूलताढ्याः ।
का वा गतिर्नयनमेकतरं परस्य
नेत्रस्य नाशनपरं भवति प्रसह्य ।। 44।।
कृष्ण! त्वदीय-जननप्रदभूमिरेषा
गोयन्दकाधनबलेन यदि स्वतन्त्रा ।
नो मस्जिदं त्वयि विराजति दिव्यगात्री
धात्रीव ते तव हि जन्मभुवि प्रकाशम् ।। 45।।
कामं भवन्तु सततं हि तवास्य भूमा-
वस्यामनेकशतरासकरासलीलाः ।
किं ताभिरस्ति किमु गोपगृहस्थ गोपे
त्वय्यापतन्ति न तमांसि निरातपानि ।। 46।।
धन्या वयं वयसि मृत्युसखेऽपि विद्य-
माना न हन्त निखिलाः स्वधनत्वधन्याः ।
कस्याऽपरस्य भवसि त्वमु कृष्ण! बन्धुस्
त्वां रक्षितुं त्वमसि चेन्नहि बद्धकक्षः ।। 47।।
आस्ते भवानिति चराम इमे त्वदीयं
दास्यं प्रभो! न तु तव प्रभवाम एताम् ।
सत्तां परैः प्रसभमाह्रियमाणकाया-
मेते वयं कथमपि प्रतिलब्धुमीशाः ।। 48।।
अन्तर्गुहां ध्रुवमहीमहितां दिवापि
द्रष्टुं वयं न हि बभूविम हन्त शक्ताः ।
नास्ति क्षमाऽत्र गमनागमन-प्रतीष्टा
पद्येति निष्फलमनोरथिका, निवृत्ताः ।। 49।।
तत्रैव तैलपरिशोधनयन्त्रराजः
प्राप्तः प्रवृत्तिमिति दूषितवारिकापि ।
पुत्री रवेरतितरां कलुषाम्बुकासीत्
स्प्रष्टुं क्षमापि न हि सा मलमिश्रिताङ्गी ।। 50।।
अधिमधुवनमासीत् पूर्वमैको महात्मा
ध्वननमिह कृतं यस्यास्यतः संनिशम्य ।
अपि वनभुवि दूरं सञ्चरन्तो मयूरा
झटिति समवयन्तो दृश्यमाना अभूवन् ।। 51।।
इह खलु हरिदासाभिख्यभक्तोत्तमस्यो-
पवनवसतिभाजां वानराणां कृपातः ।
न हि भवति शिरःस्थं छत्रमक्ष्णोश्च किञ्चि-
दुपनयनमितीक्षाशक्तिदं किञ्चनापि ।। 52।।
इह भवति यशोदानन्दयोर्गोकुलेऽद्य
प्रतिशुचिसमयान्तं कृष्णरासोत्तमो यः ।
भरतभुवनलक्ष्मीशालिनां कोटिरस्मिन्
ससुतपितृकलत्रा लक्ष्यते संपतन्ती ।। 53।।
वंशीवटा इह भवन्ति बहुत्वभाजः
सर्वेऽपि चीरसहिताश्च सकृष्णकाश्च ।
येषां समीपगत-मूत्र-पुरीषनाली-
दौर्गन्ध्य दिग्धवपुषो न दिदृक्षवः स्मः ।। 54।।
श्रीसिन्धिया च जयपत्तनशासकाश्च
यस्मिन् विशालतममन्दिरकाणि चक्रुः ।
चक्रुश्च सूर्यतनयातटभूमिभागे
घट्टोत्तमानसदृशानपि काशिघट्टैः ।। 55।।
भूयांसि सन्ति भवनानि वनेऽत्र सर्वा-
ण्यश्मोत्तमारचितदीर्घनिकायकानि ।
क्षुद्राणि किञ्च रथिका पथिकाङ्गकानि
तत्रापि वाञ्छति मनो न विहाय गन्तुम् ।। 56।।
अखण्डानन्दाख्या इह यतिवरा ये समभवन्
स्वरूपानन्दाख्या अपि यतिवरा येषु विनताः ।
अभूत् तेषां तीर्थे बहलपटगे मण्डपतले
न वै प्रावृण्मेघ-प्रखरजलवर्षेऽपि कलिलम् ।। 57।।
सुपुष्टाङ्गयो गावो बहलपयसो यत्र ददति
पयांस्यन्नं त्यक्त्वा विहरति जनस्तैर्हि सुहितः ।
अपारं यत्रासीद् धनमतितरां तद् वितरणं
प्रवृत्तं विद्वत्सु प्रियसुरगवी-तीर्थ-गतिषु ।। 58।।
अपारं माधुर्यं प्रियवचनधारासु विशदं
कथास्वास्वाद्यासु प्रवहतितरां स्म प्रतिदिनम् ।
अतस्तेषां पार्श्वान्न हि भवति कस्यापि सुहृदो
निवृत्तीच्छा वस्तुं बहुतिथमिहैवैच्छदखिलः ।। 59।।
यस्मिन् गोस्वामिवर्या भगवति नितरां श्रद्धया वाचयन्तः
तस्याकारं हि शाब्दं शुक मुखगलितं रास-भाष्यं रमन्ते ।
तेषां सङ्गीतिशुद्धे नयनसुभगसद्देहरत्नेऽनुरूपं
माधुर्यं चापि भुक्त्वा भवति सुकृतिनी का नहि व्यक्तिरार्या ।। 60।।
एभ्यः सर्वेभ्य एव प्रियमधुरवचोभङ्गिमद्म्यो भवामः
सर्वेऽप्येते विनम्राः परमिदमधुना वक्तुमिच्छाभ्युदेति ।
शास्त्राण्यद्याप्यधीनान्यधिहृदयमिहोद्भासमानानि सन्ति
तेषां कुत्राऽस्ति मानो बत बत विदुषामप्यमीषां स्थलेषु ।। 61।।
भूयांसो विषया विदेशजनिताः स्वाध्यायमार्गा अने-
का वाचोऽप्यधुना पुरःस्थितिमितास्तिष्ठन्ति ते विद्वराः ।
किं कुर्युः किमुपासनां दृढतरां कुर्युर्महास्वामिनां
यद्वा कुर्युरुपासनां सुरवचःशास्त्रात्मनां ब्रह्मणाम् ।। 62।।
यैर्निष्ठां समुपार्ज्य शास्त्रगहने मार्गोतमो निर्मित-
स्तेषां सन्ततमेव शास्त्रवचनाभ्यासे रतानां विदाम् ।
आस्याद् यद् वचनं बहिर्भवति तच्छ्रुत्वाऽपि, लेखात्मना
बद्धं तच्च सुवाच्य के नु धनिनस्तुष्यन्ति हृष्यन्ति च ।। 63।।
ये मन्त्रिप्रवरा धनानि जलवत् वर्षन्ति सर्वत्र ते
विद्भ्यो दर्शनमप्युदारधिषणा दित्सन्ति नो द्वेषिणः ।
एवं सत्यपि येऽपि केचन चमत्कारोत्तमैर्भासुरा
दीव्यन्ति प्रगुणा कृपा भवति वै तेषां गिरः पारणा ।। 64।।
अन्यत् किन्नु लिखानि लेखनकलाप्येषा गता धन्यतां
येषामभ्यसनेन तेऽपि विदुषां वर्या इदानीं क्षणे ।
प्रार्थ्यन्ते न हि मार्ग आत्मन उपक्षीणैरपि त्यज्यतां
मार्गस्थेषु कृपां करोति भगवान् नित्यं समर्थोत्तमः ।। 65।।
ये वैद्या वदतां वरा अथ च ये वै प्राड्विवाकोत्तमा-
स्तेषां तथ्यपरत्वमात्रजनिता श्रद्धा सदा चीयताम् ।
अन्ये येऽर्थपरायणा कृशतरे कार्शानवत्वं श्रिता
धर्मं तेषु न धीयतामिह दृशं, ते सन्ति गेहोरगाः ।। 66।।
येषामस्ति दिवस्पतेरपि विपर्यस्त्तैव बुद्धिर्न ते
श्रीविश्वेश्वरधामगाः सुरवचःस्त्तोमे दधाना धियम् ।
बिभ्यत्याणवविग्रहापि न हि भीस्तेषां चितिं कम्पय-
त्यन्यायासहना इमे निजपथाद् भ्रश्यन्ति न क्लेशिताः ।। 67।।
इह निगिलति मेरून् दर्द्दुरात्माऽपि नेता
निभृतयति च तथ्यं सर्वदृश्यं छलाद् यः ।
वमति कलुषमेषां स्वस्य गेहस्य मध्यं
परिगतमपराद्धैः कोटिशो दारपुत्रैः ।। 68।।
अर्थाविद्धदृशां यदा न भवति स्वच्छा मतिः शाम्भवी
दृग् भालैकगता तदा भवति वै तस्यौषधं केवलम् ।
तज्ज्चालैः प्रसरद्भिरिद्धवपुषां स्मेराननानामपि
स्निग्धानां स्मरगा गतिः सुनियता, नास्त्यत्र शङ्कालवः ।। 69।।
प्रज्ञायाः पारमित्यं भजति खलु कृती शब्दसंस्पर्शनाभि-
र्यः शास्त्रेषु चरँश्चराचरगतां पद्यां भजत्यार्षधीः ।
शास्त्रे श्रद्धालवो ये प्रखरतरधियोऽभीद्धमाशेरते द्राग्
ये वै कार्शानवीयं तप उदरदरी नैव रिक्तास्ति तेषाम् ।। 70।।
स्थाणुत्वे ये निमग्ना वपुषि निदधते हन्त वाल्मीकभावं
येषां केशेषु नीडं विदधति शकुना निर्विशङ्कास्त एते ।
येषां वक्षःसु सर्पास्त्वचमतिनिबिडा मोक्षयन्ते मुनीना-
मेषां तेजोऽपि दीप्तं नभ इव किरति क्षेमयोगं धरित्री ।। 71।।
उर्वश्यो मेनकावत् परिचरितुमिमाञ्चेष्टमाना विभान्ति
प्रद्वेषाग्निं दिगीशा इव नृपतिवरा संत्यजन्तो लसन्ति ।
शान्तिं द्यौः सान्तरिक्षा भजति, भजति च स्थास्नुभावं धरित्री
यत्राऽभीद्धं तपो वै विलसति तपतां तापसानाममोघम् ।। 72।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ अभीद्धतपःप्रभावो नाम एकोनपञ्चाशः सर्गः ।। 49।।
पञ्चाशः सर्गः
उपराष्ट्रपतित्वमाप कश्चिद् यवनो हासिमसंज्ञकोऽर्धकूर्चः ।
गतकेशशिराः समर्थितोऽसावपि वामेन दलेन सोनियावत् ।। 1।।
प्रतिभा प्रथमत्वमापदस्या अवनेर्भारतनामसंश्रुतायाः ।
अवरत्वमसावलीगढस्य यवनो हासिम इत्युपाह्नयो ह्यः ।। 2।।
उपराष्ट्रपतेः पदे प्रतिष्ठां गमिताः केचन सर्वपल्लिमुख्याः ।
अपि तत्र पदे बभूवुरार्याः प्रथिताख्या अपि शङ्कराः नयज्ञाः ।। 3।।
हसनोऽपि च नूरुलो पुरावित् प्रतिपन्नः पदमेतदन्वराजत् ।
कतिचिच्छरदस्ततः परञ्च परतष्चापि शिखावतादिसंज्ञाः ।। 4।।
पदमस्ति यदि प्रतिष्ठितो वै मतिमान् कश्चन, जायते तु तत्र ।
कलना प्रतिमा ततः स्वराष्ट्र-पुरुषस्यातिशयं गतेति कार्या ।। 5।।
बहुता च गुणज्ञता च लोके परमं दुर्लभमेव योगरत्नम् ।
फलमेकमिहास्ति चेत् तदेतत् प्रविभज्यैव तु शक्यतेऽनुभोक्तुम् ।। 6।।
अभवत् खलु भिण्डरोऽमृताख्ये सरसिच्छन्नवपुः स्वधर्महन्ता ।
फलमेतदभूत् तदोपराष्ट्रपतिभावेन समेधितस्य हन्त ।। 7।।
सरसीं परिदूषयाञ्चकार निजकृत्यैर्व्यभिचारणाऽभिदुष्टैः ।
स हि, तस्य वधाय राष्ट्रसेना कृतवत्युल्बण-नील-पादचारम्।। 8।।
Blue Action
उरगस्य पदानि नो भवन्ति क्रमणे तत्सदृशस्तथापि कोऽन्यः।
भगवानपि जिह्मतां हिनस्ति नहि पूर्वं परिपाकतस्तु पश्चात् ।। 9।।
बलमस्ति करे तु यस्य सोऽयं सततं जागरणं हि सेवतेऽत्र ।
अवधानधनश्च चञ्चुपातं नहि नो पार्श्वगते करोति मत्स्ये ।। 10।।
बकवृत्तिमिमां निजार्थनिष्ठास्त्रिपुराम्बापरिपूजकाश्च, मन्ये ।
दधते हृदयेन तन्तमर्थं छलयित्वाऽप्युपपादितं हि कर्त्तुम् ।। 11।।
अपि भस्म समस्ति हन्त भालेऽप्यथवा केसरचन्दनस्य चर्चा ।
हृदयस्थ-शिवस्तु सर्पभोगैः परितो वेष्टितविग्रहो ह्यमीषाम् ।। 12।।
अथ केन परेण शिक्षिता वै तरुणी कञ्चन वक्ति तत्र सक्तम् ।
उपदेशगुणं परं दधानं यदि नास्त्येष तु तद्गुणेन हीनः ।। 13।।
सुलभाः खलु सन्ति हैन्दवीये वसुमत्या वलयेऽत्र यासु गुह्यम् ।
परिभुक्तमनेकशोऽपि धन्यैरुपभुक्तं न च मन्वते नयज्ञाः ।। 14।।
यतयोऽपि न तावदात्मतुष्टिं दधते यावदिमान् न यान्ति नार्यः ।
उपपादितमाभिरल्पमात्रं बहुमात्रं खलु मन्वते त एते ।। 15।।
अथ काश्चन भक्तिभावभाजो निबिडं पार्श्वमुपैत्य राजमानाः ।
बहुमानधनत्वमेत्य नार्यो यतिषु स्वां प्रभुतामिवोद्दिशन्ति ।। 16।।
यतयः करपात्रपादतुल्यास्तृणवत् ताः परिधूय सञ्चरन्तः ।
इह भारतसीम्नि विद्यमाना बहवः सन्ति समृद्धियोगसिद्धाः ।। 17।।
अधिकाञ्चि जयेन्द्रपादमूर्ध्नि न्यपतत् काचन पल्लिका विषाक्ता ।
वनिताऽभ्युदियाय कापि तस्यां विहितं तद्व्यभिचारदूषणाय।। 18।।
यतयो वनिता भवन्ति काश्चित् पुरुषास्तासु भजन्ति भक्तिदास्यम् ।
विदधत्यथ तृप्तिकारिणीं हि पदसेवां प्रियतागुणातिशीत्यै ।। 19।।
भगवानपि रासलीलया याः परिचर्यास्ववृणोत् प्रियोत्तमास्ताः ।
असकृत् परिहाय मीलितोऽभून्न च लब्धुं रुदतीभिरभ्यशाकि ।। 20।।
भवति प्रतिमापरोऽत्र तोषो यदि रोषो न च कोऽपि चिद्विरागः ।
अथ दूरगतत्वमाशु पश्चादभिलब्धुं प्रियसन्निधिं च योगः ।। 21।।
व्रजवल्लविकाः प्रमाणमस्मिन् नियमे तासु तथा व्यवस्यति स्म ।
भगवानशरीर एव भूत्वा सुशरीरी च सरागरञ्जितश्च ।। 22।।
कियते नु गुणाय रागयोगः क्रमतां रागिषु देहमाश्रितेषु ।
यदि नास्ति तु देह एव कश्चिन्नियतः शाश्वततागुणोऽस्तमृत्युः ।। 23।।
अथ विस्मृतिमीयिवानभून्नश्चितिकोषो यदिहास्ति लग्नलीलः ।
अपि विस्मृतिरेव शाश्वती स्यात् स्मृतिरेवास्तु च विप्रिया तवैषा ।। 24।।
इह पञ्चदशे दिने स्वतन्त्रोऽभवदेष प्रभुसत्तया च युक्तः ।
भरतस्य महात्मनः स्वदेशो ननु षष्टिः खलु वर्षमङ्गलं तत् ।। 25।।
इह शोणितदुर्गतः प्रधानमन्त्री मोहनसिंहको बभाषे ।
अभवत् खलु तस्य वाङ् विमिश्रा यवनोर्द्दूवचसाऽपि काकुशुद्धा ।। 26।।
स हि शिक्षणराशिमुज्जगार त्रिगुणं संप्रति सर्वतो विकासे ।
अधनस्य समाजगस्य सर्वस्य च जन्माप्तवतः समृद्धियोगान् ।। 27।।
नगरत्वमुपेयिवांस एते निखिला ग्रामगता भवन्तु भागाः ।
निखिलास्वपि दिक्षु किञ्च नूत्ना नवलाः शिक्षणकेन्द्रभूमिकाः स्युः ।। 28।।
बहवः खलु मध्यमाः, कनिष्ठा अथ विद्यालयकाः सुखं चलेयुः ।
क्रमशः किल येन सर्वनारीनर-जातं परिशिक्षितं चकास्तु ।। 29।।
अपि पूर्वदिनेऽद्य राष्ट्रपातुः प्रतिभायाः वचनं बभूव मातुः ।
समता नरयोषितोः समाजेऽप्यविभागेन लसेदिति प्रसादि ।। 30।।
न हि तत्स्वरसन्ततिर्विकम्परहिताऽभूदथ नापि वाक्ययुक्तिः ।
कुशलं खलु कामयाञ्चकार प्रतिभा सा निखिलस्य भारतस्य ।। 31।।
परमाणुषु योऽभिसन्धिराम्रेकिकया सार्धमिदंक्षणे प्रवृत्तः ।
अधिवामदलं विरोध उच्चैरुदभूद् भाजपया समं तु तत्र/प्रशास्तुः ।। 32।।
मनमोहनसिंह उज्जगार पतनं स्यादपि शासनस्य केन्द्रे ।
न तु सन्धिमिमं विलङ्घ्य गन्तुं क्षममद्यास्ति कथञ्चनापि शक्यम् ।। 33।।
अपि विस्मितमानसा वयं स्मः किमु भावीति विकल्पनासु मग्नाः ।
सदसत्प्रतिपक्ष-पक्षतायां परिमाणास्थिरतैव सुस्थिरा यत् ।। 34।।
अधिगत्य तु येऽधिकारमल्पं बहुधा विक्रमणासु मग्नभग्नाः ।
इह भाजपया गृहीतकेशा अपि सर्वे जनरञ्जनैकवाचः ।। 35।।
बहुभिर्बहुमानदर्पितान्तःकरणैः संप्रति दर्श्यते स्वकीयम् ।
अपि कज्जलितं मुखं विमुच्य त्रपणां दुष्कृतिजन्यतां दधानाम् ।। 36।।
भरतीयमिदं तु नाट्याशास्त्रं मयकैऽवाभिनवेन शक्यवेदम् ।
इति यः खलु दर्शयाञ्चकार शरदां सन्ततमेव निर्विशङ्कम् ।। 37।।
अकरोत् खलु लेखसंग्रहं सोऽभिनवस्य प्रथमं मुधा मनीषी ।
भरतस्य तु भाषयाऽपि सार्धं जनयामास परीचयं न सोऽयम् ।। 38।।
मम बुद्धिरियं पुनर्निपातं गमिता विस्मरणान्धकारकूपे ।
विलिखामि च विस्मरामि चाहं निजकाव्यस्य परात्पराँस्तु सर्गान् ।। 39।।
अथ नास्ति मतिर्ममैषकाऽद्य प्रतिगन्तुं विधृतस्पृहा कथञ्चित् ।
भविता खलु साहितीसपर्या मयका सा तु विधीयते यथावत् ।। 40।।
अहमेकल एव पादचारे स्पृहयालुर्न हि सद्वितीयता मे ।
नियतेर्दयितोऽस्ति यो द्वितीयो मम तस्यासुविपर्ययोऽद्य भावी ।। 41।।
क्रमिता यदिवा मयैव सार्धं मम पाते हि निपातितार्धदृष्टिः ।
अयमस्ति मृगो, न कोऽपि सिंह इति यो वेद विपर्य्ययेण मूढः ।। 42।।
अहमस्मि न कस्यचित् स्वकीयः स्वत एषोऽस्मि तु सर्वथाऽन्यदीयः ।
प्रतियोग्यनुयोगिनोर्न सन्धिर्मयका साधयितुं न हन्त शक्यः ।। 43।।
अयि देशिकपाद उत्तमस्त्वं भविताऽहं खलु शिष्यकोऽ द्वितीयः ।
उपदेशगुणं तु नैव वेद्मि यदि वा वेद न हि स्वयं भवाँश्च ।। 44।।
कृपणो दिवसो ममायमासीत् कृपणासीन्ननु मे विभावरीयम् ।
अनयोः खलु ये तु सन्धिवेले न हि तत्रापि भवाम्यहं कृतार्थः ।। 45।।
अकृतार्थतयैव यापयित्वा सकलं जीवनमद्य, धन्यधन्यः ।
भविताऽस्मि कृतार्थतानुभूतिं गमितः कुत्र तुलाभिलप्स्यते मे ।। 46।।
अथवा कृपणोऽपि नास्मि नेहा मम नास्त्येव परीक्ष्य लब्धुमर्थान् ।
यदिदं च परीक्षणं तदेव प्रतिजाने न हि सूक्ष्मतोऽवबोद्धुम् ।। 47।।
यदुत प्रतियोगिनोऽन्तराया न भवेयुर्यदि मामका नदीं किम् ।
उदधीनपि सद्य एव तंर्त्तु सुशकाः स्युर्विगतस्मयाः सजीवाः ।। 48।।
नृपते! तव भोज! यः प्रकाशः स हि मे वर्त्तत एष लब्धमुद्रः ।
अथ यः खलु विद्यतेऽन्तरायः स नु तेनैव परेण वारणीयः ।। 49।।
अथवा भवतैव निर्मितोऽयं तगणारम्भक इत्यहो कथञ्चित् ।
तटभूमिमवाप्य भूय एवोदधिपाथःप्लवनां व्रजन्निवास्ति ।। 50।।
अधिमालवभूमि निर्मितोऽयं नगरीयां लिपिमाश्रितेन, किन्तु ।
मलयालममात्रलेख एषोऽधिगतः किं, किमु वात्र वै रहस्यम् ।। 51।।
अपि राघवमत्स्यपीतगात्रोऽप्यभिपीताङ्गक एष सर्वथाऽभूत् ।
उदगीर्यत यस्तु तेन तं वै पुनरप्यापयितुं रता इमेऽब्धिम् ।। 52।।
अथवा न हि शारदा भवानी कृतिमेतां हृदि निष्ठितां स्वकीये ।
परिरक्षितुमुद्यता स्वयं वै कुशलं क्षेमममुष्य साधयित्री ।। 53।।
कविता तुलया धृतः स्वदण्डो न हि तत्रान्तरमस्ति सावकाशम् ।
समतां विषमत्वमेव यद्वा नरबुद्धौ निहितं तु सा व्यनक्ति ।। 54।।
न हि दर्शनशास्त्रमेव शास्त्रं कृषिवाणिज्यकशास्त्रकेऽपि तत्त्वम् ।
किमु हीयत एव काव्यशास्त्रे यदिदं नोल्लिखितं बिभर्त्ति वित्सु ।। 55।।
करपात्रपदारविन्दयुग्मे कविताशास्त्रमपि प्रकाशते स्म ।
न हि भक्तिरसार्णवं विना तद्गतसद्दर्शनमन्यतः स्पृशामः ।। 56।।
अनलागमितं तु लौकिकत्वमथवाऽलौकिकतां रसे स्पृशन्ति ।
ध्वनिवादिषु के नु पण्डितेन्द्राः करपात्रं प्रविहाय काव्यशास्त्रे ।। 57।।
पृथगेव भवन्ति वास्तवश्रीललिताः केऽपि सचेतसः, पृथक् च ।
निजबुद्धिगुणेन कल्पनायां रममाणा बडिशं करे दधानाः ।। 58।।
न हि माधववासराः सदैव मधुगन्धं विकिरन्ति नो निदाघाः ।
रजसा मलिनाः सदा, सदैव शिशिरा वा हिमदत्तदन्तवीणाः ।। 59।।
परिवर्त्तनचक्रनेमिधारां धृतवन्तः कुशला अपि क्षमन्ते ।
परिरक्षितुमात्मनस्तु सत्त्वं गतिचक्रं जुषते तु बन्धुरत्वम् ।। 60।।
अपि वर्धकिरात्मनस्तनूजे निजकं शिल्पमुपादधाति धीरः ।
गुरुभिः परिशिक्षितास्तु शिल्पं मतिभेदान्धुनि पातयन्ति मन्दाः ।। 61।।
नियतं निजकर्म धर्मभावात् परिरक्षन्ति तु ये स्वधर्मनिष्ठाः ।
परधर्मविभीषितान्तरङ्गा न तुलां तैः कलयन्ति रेणुमात्राम् ।। 62।।
प्रतियोगितया निजां पटिष्ठामपि बुद्धिं रचयन्ति सर्वकर्त्रीम् ।
न हि ते सितलक्ष्मि वास उच्चैःसिततां रक्षितुमर्हमाश्रयन्ते ।। 63।।
मधुमक्षिविनिर्मितं तु माध्वीरसपूर्णं पटलं स्वतो हि पूर्णम् ।
अथ यन्त्रविनिर्मितं तु यत् तद् गतदुग्धं सुरभेस्तु किञ्चिदूधः ।। 64।।
प्रतिभा जनुषा सहैव जन्तौ जनिता दृश्यत ईहितं सवित्री ।
न हि कोऽपि पिपीलकस्य देष्टा भवति द्वन्द्वपृथग्विधौ सितायाः ।। 65।।
प्रतिमासमसौ न वर्षति द्यौरमृतं, किन्तु यदापि वर्षतीयम् ।
तदिदं पृथगेव भासते वा अरघट्टेन समुद्धृताभिरद्भिः ।। 66।।
प्रकृतिः, प्रसृतिश्च हेतुजन्योभयमप्येतदतीव भिन्नसत्त्वम् ।
प्रकृतिः परमेश्वरस्य शिल्पं प्रसृतिर्मानुषयत्नसंश्रिता वै ।। 67।।
अथवाऽभ्यसतां विनेयकानामतिमात्रात् खलु घर्षणादपीह ।
उपलभ्यत एव वै विशेषो मतिसीम्नि स्थितिमीयिवान् सदैव ।। 68।।
यदि मे जननायकाः स्ववर्त्त्म रचयन्ते स्वयमेव संविधानैः ।
स्वयमेव त एत आदधीरन्निह किञ्चित् यदि सर्वभद्रयानम् ।। 69।।
अथेन्दुविशदीकृताननरुचिर्हिमाद्रेः सुता
ललाटतटविस्फुटद्युतिनि बीतिहोत्रार्चिषि ।
स्मितं हविरुपादधात्यतिरसं तदेकं क्षमं
शमाय तपनस्य वै शिशिरशान्तये चोष्मणे ।। 70।।
सनातनकवीरितां जनकथामिमां शृण्वतां
ककुप्पतिपरिप्रियां ननु सचेतसां चेतसाम् ।
स्फुरेन्मणिमयीं रुचं विकिरती प्रभाभास्वरा
परात्परतया स्थिता सुमतिशारदा सारदा ।। 71।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ सुमतिषारदाप्राकट्यप्रार्थनो नाम पञ्चाशः सर्गः ।। 50।।