एकपञ्चाशः सर्गः
श्रीसोनियातनुभुवावुभये अपत्य-
रत्नोत्तमाववसरं प्रतिपालयन्तौ ।
प्राधान्यभावमधिगन्तुमनःसरोजौ
दम्यौ, न किन्तु सदृशौ घटने रथस्य ।। 1।।
राजीवगान्धिरिव राहुलगान्धिरुद्यद्-
रुद्रप्रताप इति भीजनकोऽस्ति किञ्च ।
श्रीसञ्जयो नु वरुणोऽपि तथैव कालं
पश्यत्यथो सुखतरं कवितां सुवानः ।। 2।।
श्रीसोनियातनुभवा तनया प्रियङ्का
क्रेङ्कारसुन्दरगिरा जनतामनांसि ।
जर्हर्त्ति किञ्च पतिपुत्रवती गृहस्था
शीलेन गेहललनेव यशश्चिनोति ।। 3।।
पुत्रावुभौ वरुणराहुलशब्दवाच्यौ
त्रिंशद्वयःपरिणती भवतोऽविवाहौ ।
मातृद्वयं च विधवाव्रतमादधानं
वंशस्य नाम धवलायितुमेव नद्धम् ।। 4।।
श्रीसोनिया स्नपनपुण्यमवाप तीर्थ-
राजे प्रयाग उपगत्य च शङ्करार्यान् ।
पीठद्वयाधिपतया प्रविराजमाना-
नाशीर्वचो धृतवती शिरसि प्रकुम्भे ।। 5।।
यत्रापि चापदुदिता परिलक्ष्यते सा
काङ्ग्रेसमुख्यपदवीमधिरुह्य तत्र ।
साक्षात् प्रयाति च करोति च साह्यकार्यं
लोकप्रियत्वमिति सार्जयति स्वराष्ट्रे ।। 6।।
पुत्रोत्तमावपि मसीहमतावलम्बाद्
धिन्दू् स्वतो न भवतो न च सोनियापि ।
धर्मेण धर्मपरिवर्त्तनकारिणा ता-
वेतौ न भारतभुवो जनमानसस्थौ ।। 7।।
द्रव्यव्ययेन बहलेन भिया च सर्वेऽप्येते
भवन्ति भरतावनिशासनोत्काः ।
अन्धत्वयोग-बधिरत्वगुणाऽविवेक-
कूपाभिपातमलिना च जनाः समेऽपि ।। 8।।
धर्मस्थिता अपि महामहिता महान्तः
सन्तोऽर्थवत्सु हि मतं निजमादिशन्ति ।
सिंहासनं च विततं धवलातपत्रं
रक्षार्थमात्मन उपादधते न धर्मम् ।। 9।।
ये वाग्ग्मिनो धवलकूर्चधराः परार्ध्य-
संख्याकुलप्रजस आचरणं दिशन्ति ।
तत्र स्वयं न हि चलन्ति तथा तथा
च शास्त्रं विलङ्घ्य परिभाषणमाचरन्ति ।। 10।।
एवंविधेषु बहुषु प्रतिकाष्ठमेव
संभाषमाणवदनाटविकेषु सत्सु ।
का वा दशा दशशताधिकभक्तपाद-
द्वैतावहीनपशुवृत्तगता चकास्ति ।। 11।।
भक्तेष्वमीषु गणनास्त्यधिकाऽङ्गनानां
कौमार्यकश्मलहृदां यदिवाऽधवानाम् ।
निश्वाससन्ततितरङ्गितजीवनाब्धि-
प्रोल्लङ्घनोत्सुकधियां परिचिन्तितानाम् ।। 12।।
वैधव्ययोगकलुषाश्च विभूतियोग-
व्यायोगभोगमभितः प्रसृताश्च धन्याः ।
तासां दिनान्यपि न यान्ति समाप्तिमेता
रात्र्योऽपि शैशिरिकतामुपयान्ति दैर्घ्ये ।। 13।।
तासां कृते भवति चित्तविनोद एव
श्रेष्ठः पुमर्थ-गणनासु महत्तरश्च ।
कीदृग्विधो ननु विनोद उदारचित्ता-
स्वेतास्वनङ्गदयितासु रुदन्मनःसु ।। 14।।
ता गैरिकादिवसनोत्तमकूर्चसम्य-
ग्व्याहारविश्वसितमानसराजहंसाः ।
दातुं च भूरि वसु सद्वचनच्छलेन
श्रोतुं च चापलकथा इह संपतन्ति ।। 15।।
भव्यं वपुर्भवति यस्य गिरश्च मृद्व्य-
स्त्यागप्रचारपरिवेषिविभूतियोगे ।
तस्मिन् कृतान्तकुलिशे यतिराजराजे
ताः किं किमत्र न वसु प्रतिपादयन्ते ।। 16।।
वक्त्र्यु त्तमेऽर्थनिचितोत्तमवारिवस्य-
पाथोभृतः स्वयमहो प्रकिरन्ति वृष्टीः ।
ताश्चापि नैव कृषिकर्मणि, किन्तु दीर्घ-
ग्रावायतेषु हि मठेषु लयं प्रयान्ति ।। 17।।
ग्रन्थोत्तमा अपि भवन्ति महामहिष्ठा
देवालया इति न ते प्रतियन्ति सन्तः ।
चित्सीम्नि राजति तु यः खलु देव आद्य-
स्तस्यार्चनाय ननु ते हि भवन्ति शक्ताः ।। 18।।
ग्रन्थं निरीक्ष्य विपुलोत्तमकायमेते
मूल्यं च तस्य विपुलत्वयुतं निरीक्ष्य ।
नासा-निकोचन-पुरस्सर-मुल्लपन्ति
धिग्धिङ् ‘महावपुरयं कथमद्य पाठ्याः ।। 19।।
गेहा भवन्तु विपुला अथ दीर्घिकाभिः
सोद्यानपुष्पलतिकाभिरुदारताढ्याः ।
ग्रन्था भवन्ति यदि सुन्दरमुद्रिताङ्गा-
स्ते येषु नेत्रदहना अपि तेऽद्य सन्तः ।। 20।।
वाञ्छामि किञ्चिदपि नाहमहंभवामि
दासः परात्परजगञ्जनकस्य चेत्थम् ।
ये वै प्रकाशयितुमुत्प्रभवन्ति तेषु
वर्षन्तु हन्त ककुभः, कुशलं ततो नो ।। 21।।
त्रैस्रोतसे महति वारिणि कृच्छ्रताया
नृत्यं निरीक्ष्य बत मीलितलोचना ये ।
तत्तीरभूपरिसरे विदधत्यतीव
दीर्घाणि वासभवनानि त एव धन्याः ।। 22।।
देवः कृशो भवतु तस्य च दर्शनानि
स्युर्दुर्लभानि न हि तत्र तु कापि चिन्ता ।
तस्यालयास्तु गगनोदरदारणाः स्यु-
स्तस्माद्धि तुष्यति चितिर्मम किं करोमि ।। 23।।
एवंविधे जगति भक्तजने प्रवृद्धे
भोक्तुं न चेद् भवति शुद्धिमदन्नमेतत् ।
नो विस्मयाय, न च शुद्धजलं पिपासा-
शान्त्यै न चित्रमिह भौतिकतायुगेऽद्य ।। 24।।
वारीणि यानि नलिकाभिरपि प्रयान्ति
बाह्यं विशोध्य ननु तान्यपि पाययन्ते ।
अद्यत्वनीतिनिपुणा गतलज्जमेव
देहस्य धारणपरायणतां दधानाः ।। 25।।
देवालयेऽपि मलमूत्रनलीपयांसि
सशोध्य चेदधिकृतानि भवन्ति लोके ।
देवा! भवन्त इह पादयुगं विधृत्य
बाहुद्वयेन सहिताः पशवश्चरन्तु ।। 26।।
खाद्येषु खाद्यविषमाधुनिकं निपात्य
बृद्धिंगतेषु विपुलार्थभुजो भवन्तः ।
भूयासुरन्तकगृहान् गमितस्य विश्व-
स्यास्यापतेत् क्व नु परन्तु वदाऽपराधः ।। 27।।
रे मीलितेक्षणशता इह वासवाः किं
यूयं समेऽपि भवथ त्रिदिवैकपालाः ।
लोकानिमान् किमु न पश्यथ मित्रगोत्र-
हन्तॄन् विषाणि परिमिश्रयितुं नदीष्णान् ।। 28।।
विद्यालयोत्तम इति प्रथितेषु धृत्वा
स्वाम्यं महार्हधनमासिकमर्जयन्तः ।
किं पश्यथ प्रतिशिशु प्रथते गुणौघो
यद्वाऽस्ति दूषणचयोपचयः प्रवेगः ।। 29।।
को वा गुणो मनसि वृद्धिमवाप्नुतेऽस्य
बालस्य हानिकृदुतोपचयोपहर्त्ता ।
एतच्च किं भवथ यूयमुदारतार-
सम्यग्विचारनिपुणाः कलनाय सौक्ष्म्यात् ।। 30।।
यत्किञ्चिदप्यधिगुणं पृथिवीतलेऽस्मिॅ-
स्तत्सर्वमेव धनसंग्रहणाय भूम्ना ।
लब्धे धने स्थविरतामुपजग्मुषां को
लाभो निवापमपि पातुमशक्तिभाजाम् ।। 31।।
एतद् य एव निखिलं खलु वेद सोऽपि
योगीश्वरोऽपि यदि मुह्यति कुत्रचित् तत् ।
मान्यैव कापि परमा प्रभुशक्तिरन्त-
स्त्रैगुण्य चित्रकलना ललिताम्बिकापि ।। 32।।
यद्यद्वयं हि परमं प्रभुरेव तर्हि
स्वीयां तनुं वितनुते परमाम्बिकात्वे ।
अम्बाऽस्तु वाऽथ जनकः स हि कोऽपि
देवकाये शिशोस्तु परमद्वयरूपमास्ते ।। 33।।
काशी प्रयागति यदि त्रिसरिद्विभूति-
योगस्य शाश्वतिकताललितस्य योगात् ।
किं वा प्रयागसरितां त्रितयी न काशी-
भावात्मना परिणतिं गमयेत् प्रयागम् ।। 34।।
वेदान्तमध्यशिरसां निपुणं नयज्ञो
यः कश्चनापि खलु काशिकयोह्यतेऽद्य ।
साप्यस्ति कापि करुणा वरुणालयस्य
कारुण्ययोगकलनैव परं पटिष्ठा ।। 35।।
यः कश्चनापि मधुसूदनसंज्ञकोऽस्मि-
न्नद्वैतसिद्धिकृदभूत् प्रथमो महात्मा ।
तस्मै रसायनति भक्तिरसो हि साक्षात्
तेनास्ति गर्वरहिता प्रतिभैव भक्तिः ।। 36।।
गर्वस्त्रिमार्गसलिलेऽस्ति विशालवक्त्रः
कश्चिद् विशालरदनो यदि शिंशुमारः ।
कस्तस्य पार्श्वमुपयातु जले बलीय-
स्त्वेनाद्य हन्त विदितस्य जलेचरस्य ।। 37।।
नम्रत्वमस्ति न हि दुर्बलता जनस्य
पापीयसामपि सृहृत्तमताऽऽस्थितस्य ।
को वा लघीयसि वपुष्युपपादितस्य
स्रष्ट्रा बलातिशयितस्य करोतु रोधम् ।। 38।।
अद्यत्व आसजति गर्वकषायितत्व
एवार्यबुद्धिजनताऽपि कलौ युगस्य ।
नम्रत्वमुल्लपति किञ्च नपुंसकत्व-
कल्पं च भीष्म इव मृत्युजिति प्रधार्ष्ट्यात् ।। 39।।
सोऽयं तथागतपथः प्रथितिं प्रयातः
न क्रोध एव न च कोऽपि ममत्वयोगः ।
नो कर्मयोगविरहश्च विदां वरस्य
कस्यापि कर्मठतरस्य नरस्य धर्मः ।। 40।।
नक्रस्य यः शिशुरसौ सलिले कदा नु
तर्त्तुं प्रशिक्षणगतो विबुधैरलोकि ।
वृद्धिं गतामथ विरुद्धदिशापि तर्त्तुं
प्रावृण्णदीमपि सदा कुशलः स भाति ।। 41।।
यद् वै भयावह इति प्रथितः परस्य
धर्मस्तदस्ति नितरामिह सत्यमत्र ।
वह्निं निनीषति पयः-पथतो य एष
वह्निं विनाशयितुमिच्छति पारधर्म्यात् ।। 42।।
भोजः प्रवृत्तिमपि धर्मतया व्यनक्ति
नो केवलामिह निवृत्तिमुदारबुद्धिः ।
आचार्यशङ्कर उवाच तथैव गीताभाष्योत्तमे
भवति संवदनैव सैषा ।। 43।।
श्रीभास्कराचार्य इति प्रसिद्धो विद्वान् कवीन्द्रः सुरशारदायाः ।
अगस्तमासेऽद्य कृतः प्रशस्तिसंभावितो राष्ट्रपतेः करेण ।। 44।।
रामज्युपाध्यायवरोऽपि तां हि लब्धो नवत्यां परिवर्त्तमानः ।
तस्यैव शिष्यः समितौ सदस्यभावेन वै तिष्ठति वल्लभाख्यः ।। 45।।
स एव धीमान् कटिवक्रतां वै भजत्यतीव प्रगुणामिदानीम् ।
आसीत् सदैवैष तु वक्रताढ्यो मतौ कदुष्णौ कृतविग्रहायाम् ।। 46।।
आसीत् स एष प्रथमः परस्तु विद्यानिवासः समतीर्थतायाम् ।
प्रयागराजस्थितविश्वविद्यालये पुरा संस्कृत-शिक्षणासु ।। 47।।
विद्यानिवासोऽपि बभूव तस्यां सदस्यरत्नं समितौ, परन्तु ।
न तेन विद्वानसकौ कृतार्थीकृतः पुरस्कारवरेण तेन ।। 48।।
श्रीराधिकावल्लभ एष शिष्यो वर्षे तृतीये हि गुरुं स्वकीयम् ।
कर्त्तुं समर्थोऽभवदद्य मानयुतं पुरस्कारवरेण रामम् ।। 49।।
श्रीराजदेवोऽपि कविर्विलेभे पुरस्कृतिं तामधुना महार्हाम् ।
लेभेऽमरः किन्तु न धिग्धिगन्यो विद्वद्वरः संस्कृतसत्क्रियां ताम् ।। 50।।
यत्रास्ति राशिः सुमहान् महान्तस्त्यक्ता इहान्यैः समितेः सदस्यैः ।
गुणं न पश्यन्ति न वाऽभ्युदीतिं स्ववाङ्मयाख्यस्य निधेरिमे धिक् ।। 51।।
मह्यं ददावष्टयुते मुनौ हि संवत्सरे राष्ट्रपतिः स रेड्डी ।
पुरस्क्रियामुच्चतमामिमां तत् तां त्रिंशदेकामिह लब्धुमर्हाम् ।। 52।।
वर्षे तु पञ्चाशति भारतानां स्वतन्त्रताया इह भाव्यमाने ।
श्रीवाण्यलङ्कार-पुरस्क्रियापि प्रापि स्वयं हन्त सनातनेन ।। 53।।
य एष नः कश्चन तीर्थतीर्थः प्रदेशकोऽस्ति प्रथमानकीर्त्तिः ।
एषोऽप्यदान्मह्यमहो शरद्भिस्तिसृत्वमाप्तास्त्रितया विभूतीः ।। 54।।
विशिष्टवाल्मीकिपुरस्क्रिये द्वे सा विश्वभारत्यभिधानका च ।
वर्षेऽत्र बाणाभ्रखदस्र-वर्ष-प्रदेयराशिर्ननु साप्यघोषि ।। 55।।
भोजस्य साहित्यमहाप्रकाशग्रन्थोऽपि पृष्ठद्विसहस्रमूर्त्तिः ।
प्रसाधितः संप्रति मुद्रितोऽपि ममाग्रतस्तिष्ठति दिव्यकायः ।। 56।।
सारस्वतः कोष उदारतारो यथेन्दुबिम्बस्य करप्रसारः ।
तमन्वगिच्छेत् खलु कोऽपि गन्तुं महीगतो मर्त्यवपुर्दरिद्रः ।। 57।।
सा यावतीं हन्त दयासुधायाः करोति बृष्टिं ननु तावदेव ।
दुहाम एतां सुरभिं वसिष्ठमहर्षिधेनुं रघुतामवाप्तुम् ।। 58।।
गायत्रमोजः प्रतिबारमेव सेवामहे यस्य कृते स बुद्धेः ।
सर्वंसहष्चाप्रतिघः प्रसारो नान्यत् तदेवास्ति परात्परं तत् ।। 59।।
एको हनूमानपरो रघुश्च सर्वंसहत्वातिशयाग्र्यवीर्यः ।
चक्रे महेन्द्रस्य वृथा तु वज्रं यद्घातपातोऽचलशातनोऽभूत् ।। 60।।
रघुः समाधिं प्रविवेश सार्धं प्रभावतीसंज्ञिकया तु पत्न्या ।
छायां तरूणां मुनिभूमिजानां श्रितो जितात्माऽध्यगमत् तु मोक्षम् ।। 61।।
स गौतमस्यापि गुरुर्बभूव न सोऽभजत् हन्त तथागतत्वम् ।
न चापि भेजे पुनरार्यलक्ष्मीं भोगाय पुत्राय कृताधिकाराम् ।। 62।।
को मिष्टमिष्टान् परिभुज्य भोगान् हित्वाऽपि तान् न प्रतिसंसजेत ।
भयेन मारादपि मृत्युरूपात् कामात्मनो वा परिधर्ष्यमाणः ।। 63।।
तपस्विनां यो हि तपोविघातस्तत्रैव काव्यानि कृतानि सद्भिः ।
भ्रंशो हि तेषां पृथिवीतलेऽस्मिन् तपोधनानां कवितां सुनोति ।। 64।।
तपो मुनीनामिह विद्यतेऽत्र प्रभास्वरं तत्र च सुन्दरीणाम् ।
प्रकामकाम्यं सुषमातिशीतिरम्यं वपुस्तद्द्वयसंपराये ।। 65।।
जितं तपश्चेत् शुभयाभिरूपलक्ष्म्या सुधां हन्त ववर्षुरब्दाः ।
विपर्यये हन्त त एव वह्निं ववर्षु, रेते सुरसाः पयोदाः ।। 66।।
इमे महीध्राः खलु ये शिरांसि प्रोत्थाप्य राजन्ति नभोऽवकाशे ।
ते कस्य हेतोः ननु तापसानां सुराङ्गनानां च विलासहेतोः ।। 67।।
किंवा विधात्रा चतुराननेन श्रुतीश्चतस्रः समुदीर्य सृष्टम् ।
यत् पानकं तद् यदिवा बुभुक्षातनूनपाद्दग्धतमोदरं तद् ।। 68।।
हासो मुखे यस्य विराजतेऽद्धा स वेणुगीतिं कथमादधाति ।
सा वेणुगीतिः कतमस्य चित्तं न प्राणभाजो न जरीहरीति ।। 69।।
धर्मेण वै संयमशालिना चेद् गीतिः प्रभोः श्रूयतः एष धन्यः ।
सानातनीये रमणीय उच्चैरध्वोत्तमः कश्चन दिव्यभव्यः ।। 70।।
का न्वत्र भीः का च कदर्यता नुः सर्वोत्तमे संयममार्गरत्ने ।
उच्छ्रङ्खलानां तु कृते धरित्री मातैव सिंही भवति प्रकोपा ।। 71।।
अलमधिकनियोगोच्चारणैः शासनं न
प्रभवति नरि बुद्धिं क्षालितुं तत्र शक्तम् ।
भवति ननु समर्था धर्म-जाताऽनुशास्तिः
स्वहृदि कृतनिवासा सर्वशः प्राणभाजाम् ।। 72।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ विडम्बनं नाम एकपञ्चाशः सर्गः ।। 51।।
द्विपञ्चाशः सर्गः
प्रकाशितं वृत्तमिह प्रभाते श्रीमान् मनोमोहनसिंह उच्चैः ।
प्रावोचदेके बत भाजपीया अनुष्ठितं मन्मृतयेऽनुतस्थुः ।। 1।।
यो वै मुमूर्षुः स्वयमेव तस्य परत्र यः प्राणहरः प्रयासः ।
पराजयः स स्वयमेव तस्य चौर्यप्रसन्नस्य कदर्यकस्य ।। 2।।
श्रीकर्मचन्द्रस्य सुतं महात्मगान्धीति लोके प्रथितस्य चक्रे ।
प्रकाश एव स्फुटमेव गोडशेनामको राष्ट्रकृतेऽसुघातम् ।। 3।।
यः पञ्चपञ्चाशतकोटिरौप्यराशिं प्रदातुं बत पाकहेतोः ।
चकार दीर्घानशनं च दातुं प्राबाधतोच्चैर्निजशासनं च ।। 4।।
द्रव्येण तेनैव च पाक एष क्रयं विधायास्त्रचयस्य चक्रे ।
श्रीभारतानां हि विनाशनाय युद्धं प्रणाशंप्रवणं निजस्य ।। 5।।
महात्मताऽप्यस्य हता ततो हि नैशिष्यतैष प्रभुभावमाप्तुम् ।
यद्यप्यसौ पूज्यत एव तैस्तैरिच्छाप्रदत्वेन वणिक्तनूजैः ।। 6।।
योगी त्वहिंसामुपजीव्य हिसां जयत्यरीणामपि मानसोत्थाम् ।
अस्त्राणि तस्य प्रमुखे स्थितानि नीलोत्पलायन्त्यविघातकानि ।। 7।।
हिंसा च चौर्यं च समानमाने प्रायेण सर्वत्र विराजमाने ।
द्रष्टुं क्षमेते न परस्य सौस्थ्यं सौस्थ्येन चान्यस्य विभूतियोगम् ।। 8।।
य इच्छति स्वेतरहिंसनासु स किल्विषं घातनजन्यमन्तः ।
समुच्चिनोत्येव ततश्च भूत्वा कालोरगस्त्रस्यति तोयबिन्दौ ।। 9।।
रामेण वाली च हतो हतश्च दशास्यवंशो यदिदं न पापम् ।
पापं निहन्तुं क्रियते तु पापं यत् तस्य संज्ञानमिहास्ति पुण्यम् ।। 10।।
पुण्यं कृतं पुण्यकृतां विघातं विघातयित्रा जनरक्षकेण ।
सा कर्मदृष्टिर्ननु गीतयोक्ताऽप्यकर्मणि क्लेशहरी समेषाम् ।। 11।।
काराधिकारी प्रददाति मृत्युदण्डं विधानेन समर्थितं चेत् ।
न तस्य पापं भवतीति विज्ञैर्विज्ञायतेऽसौ हि विघातघातः ।। 12।।
प्रोच्चैःपदे तिष्ठति कोऽपि तस्मात् स हिंसनीयो यदि चेदियं धीः ।
निम्नैककार्याधिकृतिं स्वकीयां स वै व्यनक्त्यौरगमार्गवृत्तिम् ।। 13।।
राजीवगान्धी निहतो हता च माता तदीया ननु कस्य हेतोः ।
प्रधानमन्त्री भवतीति हेतुस्तत्रास्ति धिग्धिङ् मतिदौर्बली सा ।। 14।।
सिन्धुर्मरुस्थलतु चेन्मरुतां दधानाः
किं वा भवेयुरिति पृच्छति तार्किकेन्द्रे ।
किं वा समुत्तरमिति प्रकृतिं विहाय
धन्यत्वभावभुवि दुर्गततां दिदृक्षोः ।। 15।।
उद्यानभूमिषु तरुव्रततिप्रताना-
धिक्यान्मनो यदि समुद्विजते वदन्तु ।
शून्ये नभस्यपि कथं भविताक्षिशूलं
तुभ्यं निरीक्ष्य खचितत्वमुडूत्तमैर्नो ।। 16।।
किंवाऽस्ति सन्ततमिदं हृदयं समेषा-
मेषां विशृङ्खलितसूर्पणखाभिरुच्चैः ।
मिथ्यात्वमात्रपरमार्थसमीरणासु
संप्रत्ययाहितचिति त्वमुपेयुषीभिः ।। 17।।
सीताऽस्ति सूर्पणखया प्रतिपादिता प्राक्
दुष्टैर्गुणैर्बत समन्वितदेहयष्टिः ।
रामायणे तदनु सैव निरूपिताऽसौ
सौन्दर्यसौभगशतातिशयस्य राशिः ।। 18।।
इत्थं यथार्थविपरीतमथात्मदृष्टि-
व्याहरणाभिनटनात्मकमेव वाचः ।
एतच्छलं हि मनुते मनुजो न सोढुं
शक्नोति चास्य कलुषं फलमात्मघाति ।। 19।।
वृद्धा भवन्त्यपि बभूव तु सुन्दरी या
मायावती छलमिदं खलु तत्र देवः ।
माया विकल्पन कलाऽप्यमुयाऽऽश्रिता तत्
सा किं न रामवपुरेव विनिर्मिमीत ।। 20।।
मायाऽऽत्मने न रुचिरा, रुचिरा परन्तु
साऽन्यस्य भोग्य इति भोजकभावभाक्षु ।
सीतात्वमाप्य तु सतीं प्रमुखागतां
श्रीरामोऽन्वयुङ्क्त जननि! क्व पिता हरो नः ।। 21।।
सत्येन पूर्णशशिना निभृतं नियुक्ता
नो शर्वरी भवति किन्तु विभिन्नकाया ।
सत्येन सत्यमभिपर्चनमश्नुवानं
सत्याय केवलतमाय हि कल्पते तु ।। 22।।
आयुष्यलेशमधिगत्य पुमान् परस्य
नायुष्यतन्तुमवकर्त्तितुमर्हति; स्वा ।
सिद्धिर्न काचन, ततः परमा तु हानि-
रन्यस्य विश्वरचनात्मक-सर्ग-तन्तोः ।। 23।।
हिंसां समाश्रयति यो निजरक्षणाय
रक्षामहिंसनविधिं न स वेद मूढः ।
मोहोऽयमेव वृणुतेऽक्षियुगं यदा तु
संजायतेऽक्षिमति तद् धृतराष्ट्रतैव ।। 24।।
अन्धे पितर्यथ च मातरि को न पुत्रो
दुर्योधनायतु गदां सुदृढां दधानः ।
कौपीनकञ्चुकवृतां तु गदामिमां हि
भीमः प्रहारमृदितां तनुते हरीष्टाम् ।। 25।।
अन्धो हि नेत्रसहितोऽपि पितामहोऽभूद्
योऽवैक्षतापहरणं वसनस्य वध्वाः ।
वक्तुं क्षमोऽपि विनिवारयितुं क्षमोऽपि
यश्चान्वपालयत् दुष्टसुयोधनाज्ञाम् ।। 26।।
अन्धा बभूवुरथ चापभृतां वरिष्ठा
भूत्वापि पाण्डवगुरुत्वयुता अपीमे ।
द्रोणादयोऽप्यनुयुधिष्ठिरचित्तकोषा ये
युद्धभूमिमभिगन्तुमनिच्छवो नो ।। 27।।
अस्त्रे करे भवति यावदहं न जेतुं
शक्योयमेष जगदन्तकृताऽपि तावत् ।
इत्युज्जगार जरसा धवलीकृताङ्गकेशो
गुरुश्च युयुधे च कुरुभ्य एव ।। 28।।
पाण्डुर्बभूव नृपतिः परमत्र पञ्चाप्येते
भवन्ति तनयास्तु नियोगजन्याः ।
ना ऽहं नृपस्य तनयोऽप्यहमस्मि पुत्रः
स्वस्यैव हन्त पितुरेव कुरूत्तमस्य ।। 29।।
इत्याश्रिता उभयपक्षगता हि दोषा-
स्तस्मादहं नृपतिभावमवाप्तुमर्हः ।
यद्यर्हतां श्रयति धर्मसुतोऽपि पाण्डोः
पुत्रात्मनोपगमितोऽस्ति युधिष्ठिरार्यः ।। 30।।
वादेऽत्र यस्य बलमस्ति स एव राजे-
त्यङ्गीकृतौ प्रधनमेव यदाऽस्ति काम्यम् ।
वैमुख्यमाचरति हन्त पितामहेऽभूद्
युद्धं कदाचिदपि नैव, बभूव युद्धम् ।। 31।।
सा दौर्बली बत बलाधिकृतस्य धाम्ना
श्रेष्ठस्य, भीष्म इति कीर्त्तिमुपागतस्य ।
देवव्रतस्य निखिलागमनीतिशास्त्र-
विद्यागरिष्ठमतिकस्य कुरूद्वहस्य ।। 32।।
यस्यान्नमद्मि नहि तस्य विरोध ईशे
स्थातुं कथञ्चिदपि धर्मधृतोत्तमाङ्गाः ।
एवं यमान्तकबला अपि युद्ध एते
सर्वेऽप्युदायुधकरा हि सुयोधनार्थे ।। 33।।
चित्तेन पाण्डुसुतमक्षसमर्थका वै
सर्वेऽप्यमी बलवतां प्रमुखाः जरन्तः ।
ताटस्थ्यमप्युपगता न बभूवुरुग्र-
वीर्यास्तु शङ्खमुदघोषदुपात्तशस्त्राः ।। 34।।
शङ्खं यदा कुरुदलादुदघोषि योद्धुं
तस्मिन् क्षणे स च युधिष्ठिर आप भीष्मम् ।
आज्ञामयाचत च योद्धुमुदीरिताशी-
र्जेता भवेति समपृच्छदतीव नम्रः ।। 35।।
आशीरियं सफलतां किमु जग्मुषी
त्वय्यग्रे मृधस्य पितृवर्य! विराजमाने ।
कोऽस्मासु जेतुमलमस्ति भवन्तमेक-
वीरं मृगेश्वरमिवैणसुतेषु कश्चित् ।। 36।।
मृत्युर्न मां निजदृशोः पथि कर्त्तुमीष्टे
यावत् स्वयं नहि भवामि तु मर्त्तुकामः ।
शक्यो निवारयितुमेष परं विसृष्ट-
शस्त्रः परास्त्रनिचिताङ्गखिलीकृतात्मा ।। 37।।
शस्त्रं शिखण्डिनि न चालयिता भवामि
चेदेष एव भवता क्रियते ममाग्रे ।
इत्यादिदेश निजमारणमार्गमेष
धर्माय धर्मतनयं प्रति दुर्विजेयः ।। 38।।
तस्मै प्रणम्य गुरुमाप्य तदेव सर्वं
पृच्छन् युधिष्ठिर इति प्रथितः स शिष्यः ।
दत्त्वा जयाशिषमुवाच महामनाः स
त्यक्तास्त्र एव ननु मृत्युमुखे पतेयम् ।। 39।।
अस्त्रं तदैव तु मया ननु हातुमर्हं
यस्मिन् क्षणे समगुणं सुखदुःखमाप्तः ।
इत्येवमात्मवधवर्त्त्म युधिष्ठिराय
द्रोणोऽपि हन्त सुगुरुः समुपादिदेश ।। 40।।
एवं कृपं कृतिवरं प्रणिपत्य सर्व-
ज्येष्ठो युधिष्ठिर उपात्तशुभाशिषाढ्याः ।
प्रत्याभ्यवर्त्तत निजं दलमेव योद्धु-
माज्ञप्तवॉश्च निजयोद्धृवरान् बलिष्ठः ।। 41।।
मर्त्तुः सुखेन भविताऽस्मि समुत्सुकोऽहं
नान्नं तु दूषयितुरन्यदलाश्रयेण ।
इत्याग्रहेण बलवन्त इमेऽबलत्व-
मापेदिवांस इह युद्धमुखेऽवतीर्णाः ।। 42।।
आत्मक्षयादपि न भीतिरिहास्ति काचि-
दस्मभ्यमित्यवहिताः कुरुलाभहेतोः ।
अद्यत्व-राजनय-कोष इमे समेऽपि
मूढत्वदूषितहृदः प्रतिपादिताः स्युः ।। 43।।
दोषा य एव कथिता ननु ते समेऽपि
युद्धात् परं समुपतस्थुरथापि नाशः ।
श्वासाय धर्मवृषभस्य भविष्यतीति
दोषानिमानपि तदागणयन्न दोषान् ।। 44।।
कर्णे रहस्युपजपन् स परात्परोऽपि
त्वं पाण्डवोऽसि च युधिष्ठिरपूर्वजोऽसि ।
राज्येऽभिषेकमुपपादयिता तवैव
त्वं पाण्डवान् भजसि चेदिति-भेदनीत्या ।। 45।।
कृष्णो बभूव विफलो यदसावुवाच
प्राप्तं ददामि ननु राज्यमहं तु तस्मै ।
दुर्योधनाय हि कृतोपकृतिस्तु योऽस्मै
मह्यं च सख्यमभिपेदितुमुत्सुकश्च ।। 46।।
इत्थं परात्पर उवाह कुतोमुखत्व-
हानिं मृधे स्थितवति प्रतिकारशून्ये ।
तस्मिन् क्षणे कृपणतामुपसेदिवॉस्तु
पार्थो धनुर्धरतया प्रथितोऽर्जुनश्च ।। 47।।
तस्योपदेष्टुमुदहार्ष्ट नितान्तसूक्ष्मं
गीतोपदेशमिह कौरवपाण्डुजन्ये ।
यं मानवाय मनुराप विवस्वतो वै
तस्मै स एव भगवान् स्वयमादिराजः ।। 48।।
अस्मिन् क्षणे हि निजमुग्रतमं स्वरूपं
दत्त्वा दृशं परतरां समदर्शयँश्च ।
भीतं च पाणियुगमञ्जलिकं विधाय
संप्रार्थितः प्रथमरूपमुपाददच्च ।। 49।।
सेयं कृशा परिणतिः परदर्शनस्य
धाम्नीह भारत इति प्रथिते यदस्य ।
पादद्वयीचरितमानुषविग्रहस्य
वेतालकस्य ननु सैव युगेऽद्य दृश्या ।। 50।।
नास्त्यस्य यद् दलितमस्मि तदीयमिष्ट-
मुत्थानमस्य महितेषु निपातनाख्यम् ।
वज्रं निपातयितुमुत्सुकमानसस्य
सेयं विधानविहिताऽस्त्यपधर्मनीतिः ।। 51।।
यद् विद्युतां पतिरिहास्ति कनिष्ठकोऽपि
तस्यास्य चुम्बति गृहं गगनाङ्गणं वै ।
यः शास्त्ररक्षणविधानगृहीतदीक्षा-
दाक्षिण्यवर्त्मविधृतः स कुटीचरो हि ।। 52।।
उत्पातमेव कुरुतेऽध्यधिकारिवर्ग-
स्तेषां गृहं प्रति गतेषु च वर्त्मकेषु ।
तेषां महार्हतमयानरथाङ्गकानि
भ्रष्टानि सन्तु नहि काचन तेषु चिन्ता ।। 53।।
लब्धाधिकार इह वर्त्तत एव मूर्ध्नि
विद्वद्वरेषु कृपणेषु विहस्तितेषु ।
तान् वीक्ष्य दुर्गतिमितान् प्रतिमूर्च्छितान्त-
स्तोषा तरन्ति त इमे निजधन्यतायाम् ।। 54।।
एतां दशामधिगता हि मनस्विनोऽपि
विद्याव्रता अपि मनीषिजनाः सुतेषु ।
यन्त्रादिकर्मकुशलत्वमुपाददाना
दृश्यन्त एव निजभावपराङ्मुखत्वात् ।। 55।।
यन् मासिकं भवति वेतनमत्र देशे
तत्तः शताधिकधनं खलु वेतनं ते ।
वैदेशिकेषु सुखिषु क्षितिभागकेषु
लब्धुं क्षमा बत रमन्त इहाभ्युदस्ताः ।। 56।।
ये बालकाः खलु जनिं प्रतिपद्यमाना
देशेषु तेषु ननु जन्मत एव तेषाम् ।
तद्देशनागरकता सुलभा चकास्ति
ते भारतीयकतयाऽप्युपपद्यमानाः ।। 57।।
उच्चावचत्वकलनां प्रति नार्थ एव
मानायते गुणिषु सत्पुरुषायिताऽपि ।
धत्ते पदं, व्रतवतां प्रगुणा सपर्या
न स्वैरिणां बहुगुणापि कदापि सेवा ।। 58।।
सेवा श्ववृत्तिरिति येषु मतिर्विराज-
त्येषां स्वधर्मरतिरेव विभूतिमार्गः ।
यावच्च लभ्यत इतस्तत एव तोष-
स्तेषां प्रियश्च भवतीति महान् हि मार्गः ।। 59।।
कामं विषीदतु महाकुलिनां समूहः
हर्षं बिभ्रर्त्तु च जघन्यजनव्यवायः ।
कर्त्तव्यकर्मफलदत्तदृशां विषाद-
हर्षौ कदापि भवतो न नियन्त्रणाय ।। 60।।
अन्तश्चरन्ति रिपवो बहवो बहिश्च
संरक्षणापरिगता यदि नाम केचित् ।
तेषां भयं भवति किं परिहारपात्रं
तस्मिॅश्च सत्यतिशयो न कथं विहारे ।। 61।।
भाग्यस्य यद् विलसितं क्वचिदन्धतायां
मूलायते तदपि, किन्तु महाशयानाम् ।
औदार्ययोग इह राजति नित्यसुस्थः,
कर्त्तव्यकर्मनिरतौ क्व नु भाग्यवीक्षा ।। 62।।
सन्ध्यां करोति बुध एक उदारदृष्टि-
स्तत्संमुखे च यदि मज्जति वृश्चिकोऽप्सु ।
दष्टोऽपि तं स करयोर्विहिताञ्जलिर्हि
मुक्तिं ददान इह लक्ष्यत एव लोके ।। 63।।
एषाऽस्ति वृत्तिरपि दुर्गतिमागतानां
केषाञ्चिदादरजुषां निजधर्मयोगे ।
अस्यां भुवस्तल इह प्रविराजितायां
नास्त्येव दस्युभयमप्यमृतान्धसानाम् ।। 64।।
माता निवारयति वारयते च भार्या
यस्मात् पथस्तमिह संश्रयतां जनानाम् ।
हानौ निपातमयतां कुरुतां सुरक्षां
को वा विवेकमपहाय पलायितानाम् ।। 65।।
काष्ठानि मूर्धनि निधाय परिभ्रमन्त-
श्चित्तेन किञ्च भगवन्तमुपाश्रयन्तः ।
धन्या भवन्ति धरणीधरणाय ते हि
शैला भवन्ति निगमागममार्गनिष्ठाः ।। 66।।
शाकुन्तले ददति के नु पतिग्रहाय
सस्वस्तिवाचनमुदारविभूतिभूतान् ।
भूषामणीनथ वदातपटोत्तमॉन् वै
सा काचिदत्र ददृशे वनदेवता हि ।। 67।।
वन्यान् विनाश्य विभवान् यदि मानुषो-
ऽयमिष्टोत्तरान् भवनवासगृहानुपास्ते ।
सोऽत्राशु पञ्जरशुकायति किञ्च गत्वा-
ऽऽकशे श्वसित्यथ च सौस्थ्यमुपाददाति ।। 68।।
धिग् बन्धनानि सुबहून्यपि विद्वरेण्यै-
रङ्गीकृतानि कृतकान्यपि संविधानैः ।
यत् प्राकृतं भवति धन्यतमं चतुर्दि-
ग्दीव्यत्तनु स्वरणिमादियुतं तदन्यत् ।। 69।।
व्याकुञ्चनां धयति दीर्घतमः करोऽपि
स्पृष्ट्वा हिमं यदितरामिह हस्तिनोऽपि ।
किं नाम सौख्यगतमस्ति तु लक्षणं तद्
बाह्येषु वस्तुषु विनश्वरगात्रकेषु ।। 70।।
इति विगलितचेतोग्रन्थिरार्योत्तमोऽस्मिन्
विहरति रसयोगादाश्रमेष्वेक एव ।
अपि नगरनिवासॉस्तीव्रमुच्चैर्धयन्तो
न खलु दधति तोषं चित्तकोषेऽपि धन्याः ।। 71।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ यमपरिग्रहो नाम द्विपञ्चाशः सर्गः ।। 52।।