त्रिपञ्चाशः सर्गः
काश्यामतीव खलु संप्रतिपद्यतेऽद्य
संरम्भमाभिनवशैवविधानशास्त्रम् ।
सर्वे भवन्ति हि शिवाः अशिवस्वरूपो
नो कोऽपि मानुषसरीसृपवृक्षकेषु ।। 1।।
बाला भवन्तु यदिवा वनिता, भवन्तु
शूद्राधमा यदि भवन्तु च विप्रमुख्याः ।
सर्वे शिवाः खलु शिवत्वविहीनमत्र
नास्त्येव कश्चिदपि जागतिके प्रपञ्चे ।। 2।।
देवः शिवः स हि सदैव विकासयुक्तः
शश्वत् प्रकाशमय एव चकास्ति, तस्मात् ।
विश्वम्भरावधि समे प्रसवा विमर्श-
कुक्षेः स्वतो सृतिमुपेत्य चकासतीह ।। 3।।
नास्त्येव तत्र कलनाऽणुमितापि भेद-
बुद्धेः कुतश्चिदपि लिङ्गवपुः-श्रितायाः ।
प्रातीतिकेयमपरैव कला विभाव-
रूपाऽऽथवा विविधचित्रतुरङ्गरूपा ।। 4।।
उद्वेगभीतिकलनादिमयः स्मरो यः
सर्वत्र नृत्यतितरां विविधप्रवृत्तिः ।
तस्य स्मरत्वमयचित्तभवत्वमद्धा
विज्ञाय कश्चन शिवो न विभेति तस्मात् ।। 5।।
शत्तयच्चयस्तमिह संवृणुते विकार-
मुक्तं परात्परमथ प्रविभासनाम् ।
ईशं विभुत्वकलितं शिवमेष शश्व-
च्चान्द्रीं कलां रसमयीं हि बिभर्त्ति शुद्धाम् ।। 6।।
उद्वेजनं भुजगराजमपि प्रभुः स
जूटस्य रज्जुवपुषा प्रबिभर्त्ति नित्यम् ।
तत्फूत्कृतेर्नियतिरुत्प्लवते सुदूर-
मह्नाय चुम्बति पदौ च भयेन कालः ।। 7।।
यच्चापि वै पितृवनं विशरारुभूत-
भस्मादि पार्थिवपुषो वपुषो बिभर्त्ति ।
तद् वै विलासवसतिः परमस्य शम्भो-
स्तत्ताण्डवाय नृतियोगमुपाश्रिताय ।। 8।।
अस्मिन् वसन्तविभवो हि सदैव लग्नो
बाभाति वृक्षलतिकादिषु कोकिलाद्यैः ।
संकूजितेषु रतिकामपरस्पराङ्ग-
सङ्गीति वैभवयुतेषु सदा हरित्सु ।। 9।।
धन्यः सनातनकविर्मनुतेतरां यः
सौभाग्ययोगमनिवारितमेव कामम्।
एकत्वयोगपविरस्तु षिरस्यजस्रं
पाताभिघातनिरतोऽप्रियताप्रसूतिः ।। 10।।
कामस्तु दाहमुपयात इयं प्रिया तु
तस्यास्ति हन्त विधवाऽपि न निर्वृताङ्गी ।
तेनाऽस्ति सोऽपि ननु जीवित एव काय
दाहे तु हन्त किमिहास्ति रतिः श्वसन्ती ।। 11।।
कामो यदि प्रसभमुन्मथितः शिवेन
तद्वै स्वमेव ननु तेन वपुर्ममन्थे ।
कामो बहिर्न हि कदाप्यवतिष्ठते स्म
योऽन्तश्चरोऽस्ति स तु हन्त शिवः स्वयं हि ।। 12।।
अद्याप वामदलमात्मबलं प्रपन्नं
नो पारमाणवममेरिकयाऽस्तु कृत्यम् ।
नो चेत् करिष्यति समर्थनकं दलं नो
काङ्ग्रेसशासनसमर्थनमेव सद्यः ।। 13।।
श्रीमान् मनोमोहनसिंह ऊचे
पश्चात्पदा वयमहो भवितास्म नैव ।
वामं दलं निजसमर्थनमुज्झतु स्वं
पातं प्रयातु च सुशासनमेव सद्यः ।। 14।।
इत्थं गते वदतु वामदलं कथं स्यात्
केन्द्रीयशासनविरोधनिरोधशुद्धम् ।
किं वान्यथा चलतु शासनमल्पसंख्यं
भूत्वा स्वसंसदि, विरोधनिरुद्धवृत्ति ।। 15।।
निर्वाचनं यदि पुनर्भविता महान् वा
अर्थक्षयः शिरसि वर्षितुमस्ति सुस्थः ।
पूर्त्तिः कथं नु भविताऽस्य महाव्ययस्य
केनाध्वना च परिवर्धनमत्र भावि ।। 16।।
राष्ट्रोपराष्ट्रपतिसञ्चयनाध्वरे यैः
सद्यस्तरां निजसमीहितमेव लब्धम् ।
तेऽद्यापि शासनरथं परिवर्त्तितं वै
कर्त्तुं क्षमन्त इह नास्ति तु संशयाणुः ।। 17।।
द्रष्टव्यमस्ति किमसौ क्रमते द्वितीये
सत्रे, यथास्थितिमिमे प्रतिपालयेयुः ।
यद्वा निकृत्य निजसाह्यलतां विहस्तं
केन्द्रस्य शासनमिमे प्रविनाशयेयुः ।। 18।।
लक्ष्मीदृगम्बुजमिदंक्षण उत्प्रसूते
स्वं तातमेव धृतधारमजस्रमुष्णम् ।
घूकः पलाय्य निभृतां स्थितिमावृणीते
तल्लोकसांसदमहाभवने करालः ।। 19।।
लक्ष्मीर्विहाय दयितस्य विशालहारि
सत्कौस्तुभं च भृगुपाददलाङ्कितं च ।
वक्षःस्थलं पुनरुपैति पितुर्महाब्धेः
कुक्षिं हि रामकृतसेतुविरिच्यमानम् ।। 20।।
कोऽर्थो, न राममुपयातु पुनश्च लङ्कां
नो वानरी गतभया पृतना च यातु ।
नो जानकीनयनवारिगतः प्रवाहो
विश्रान्तिमेत्विति च शास्तु दशाननो नः ।। 21।।
नो देवतायतनजातमपीह भूमा-
वत्रोल्लसेत् कवलितं खलु भूय एव ।
क्षेत्रं भुवो, यदि तदस्तु विरिक्तमस्मिन्
प्रायेण कोटिजनवासगृहाणि वै स्युः ।। 22।।
नूत्नोऽस्ति देव इह कश्चन भीमराव-
स्तत्कीर्त्तयेऽप्युपवनान्ययुतानि कुत्र ।
भूम्ना लसेयुरिदमस्त्वखिलं न रिक्तं
देवालयैर्निभृतधार्मिकसम्प्रदायैः ।। 23।।
एषां य एष खलु धर्मपदाभिधेयो
मार्गोऽस्ति भेदमुपपादयते स लोके ।
प्रत्येकमासमिह पञ्च दिनानि नार्योऽ-
पूतानि वै पृथगिवाश्रयतः क्रियन्ते ।। 24।।
अस्पृश्यताविषमितः खलु मार्ग एषां
नैवैकतां जनमनःसु समुत्प्रसूते ।
नासौ कथञ्चिदपि कोऽपि समाजवाद-
मार्गः प्रसाधयितुमर्हति तर्कजातैः ।। 25।।
देवा वसन्ति यदि नाकतले कथं नु
भूमीतले भवितुमर्हति तन्निवासः ।
कश्मीर एव यदि नाम न वास इष्टोऽ-
कश्मीरकस्य ननु कास्ति कथा सुराणाम् ।। 26।।
यान्यत्र कानिचन मस्जिदसंज्ञकानि
रिक्तानि सन्त्यधिकृतानि च भारतेऽस्मिन् ।
शिष्योत्तमैर्गुरुगृहाणि कृतानि यानि
तान्यद्य मन्दिरतयैव मुधा विभान्ति ।। 27।।
कौक्षेयकान्यसिलतावलितानि धृत्वा
येऽकालमेव पुरुषं निभृतं भजन्ति ।
स्वर्णं विलिप्य शिखरेषु च राजधानी
हृद्देश एव निवसन्ति विशालभूमौ ।। 28।।
मायावती भवति ताजपरिक्षयाय
हेतुस्ततो भवति सापि च मुख्यमन्त्री ।
भूत्वापि दोषकलुषेति च सापराधा
चेत्येवमुच्यत इदंक्षण किन्न्वमीभिः ।। 29।।
वर्णेन कृष्णवसनं शिरसा दधाना
ये मुस्लिमानपदवाच्यतया प्रसिद्धाः ।
ते किन्नु ‘कृष्ण’दयिताः सकला विशङ्क-
मुक्ता भवेयुरथ गामपि संभजेयुः ।। 30।।
तर्कैरमीभिरुपदीक्रियतां मनःसु
कश्चिद् वितर्कविभवः क्षयमात्रहेतुः ।
यद्वा न कास्वपि दिषःसु जनाधिवास-
निर्माणवाद उपदीक्रियतां क्व सद्भिः ।। 31।।
मार्गः स एव हि धृतो बत तालिवानै-
रुच्चैस्तमे च भवने विहिते विनष्टे ।
नाशेन तेन नहि धन्वमही तदीया
जातेर्वरा च हरिता च जलान्विता च ।। 32।।
अन्यं निरीक्ष्य सुखिनं यदि दस्युवृत्ति-
रादीयते तमिह निर्धनमाशु कर्त्तुम् ।
सैषा विनाशनसृतिर्न तया प्रवृद्धि-
योगो भविष्यति तु दस्युषु सौख्यसौम्यः ।। 33।।
यावद् भ्रियेत जठरं ननु तावदेव
भुक्तान्नमस्ति निजमत्र ततोऽधिके तु ।
नास्तेऽधिकार इति भागवतोक्तिरस्या
रासं विसृज्य कथमद्य विधीयते धीः ।। 34।।
दुर्वृत्तिरक्षणपरो ननु संविधान
मार्गोऽस्ति चेद् भवतु स प्रिय उच्चपीठे ।
न्यायालयैरधिकृते, स हि धर्ममार्ग-
द्वेषो यमैक-नियमैक-परायणस्य ।। 35।।
चीनागतेन यदि केनचनार्य बौद्धे-
नालोकि पाटलिपुरे पतितं तु हेम्नः ।
आभूषणं किमपि वर्षदशाधिकेन
कालेन भूय इह कः खलु हेतुरासीत् ।। 36।।
स्वर्णे कलिर्वसति तस्य मतोऽस्ति लाभः
पापाय, पापति च तस्य विलोपनापि ।
अस्यां मतौ किमु परिग्रहमुक्तिसिद्ध-
सिद्धान्तकोऽपि न हि लक्षयितुं क्षमेरन् ।। 37।।
लिप्साऽपि धर्मवपुरेव यदि प्रदित्सा
सायुज्ययोगललिताऽस्ति तु सा पराम्बा ।
दित्सां विहाय तु विराजति चेत् प्रलिप्सा
तत् दास्यमेव निबिडं निभृतं क्रियेत ।। 38।।
स्त्रीपुंससन्निधिरथो तमसां प्रवर्षा
विद्युत्प्रकाशरहितेषु पदेषु किं स्यात् ।
स्वीयाऽऽभिजात्यपरिरक्षणमत्र लोके
सांकर्यसृष्टिकलुषे नितरां कदुष्णे ।। 39।।
कार्यालयेषु विविधेषु वराः स्त्रियोऽथ
सद् यौवनाश्च युवकाः सह संविशन्ते ।
तेष्वस्तु किं नु विधिसम्मतटिप्पणीका
प्रस्तावना विविधवादकषायितेषु ।। 40।।
यद् वायुयानगमनागमनव्ययस्य
पत्रीद्वयं भवति चेद् विषमोऽभिलेखः ।
अर्थाधिकारिभिरमुत्र विशोधनार्थं
मासद्वयस्य समयः कथमाप्तुमिष्टः ।। 41।।
दानाऽनुशंसनपरे यदि शासकानां
प्रस्तावभिन्नलिपिको भवति स्वहस्तः ।
तच्छोधनाय परिवत्सरकालभक्षा
लग्नाधिकारपुरुषेषु च का समीहा ।। 42।।
एते हि सन्ति निभृता विवरोत्तमा या-
नाश्रित्य कश्चिदुपकोचसरी सृपोऽस्ति ।
लीनः श्वसित्यथ बहिः प्रविकासयोगं
संप्रेक्ष्य तुष्यति, महि! व्रज नागलोकम् ।। 43।।
कौटल्यकोऽपि खलु वक्ति जले वसद्भि-
र्मीनैः कियन्नु जलमस्ति निपीतमेतत् ।
को वेद, वेदितुमथ क्षम उर्व्वराया
उर्व्व्यास्तले यदि नृपो न भवेद् विभुर्ज्ञः ।। 44।।
एतं नियन्त्रणशतैरपि नो नियम्यं
भद्रोत्तमैरधिकृतं व्यभिचारयोगम् ।
अन्तस्तले कृतनिवास इहैक एव
सम्यङ्नियन्तुमनुशासनधर्म ईष्टे ।। 45।।
यच्छासकीयमभवत् खलु कारयानं
तत्र स्वमर्धमपि कायमुपारुरुक्षुम् ।
योऽवारयत् स हि पितृष्वसुरात्मजस्य
मे पुत्रसत्तममहं किमु न स्तवीय ।। 46।।
मदीयो जामाता भवति ननु पूर्णेऽपि सुमहान्
प्रदेशे मध्याख्ये भवनगृहवित्ताधिकृतिमान् ।
परन्त्वस्य स्प्रष्टुं क इव लभतां हन्त विभवैः
परीतोऽप्यर्थार्थी क्षणपरिमितं चाऽप्यवसरम् ।। 47।।
तथा तातोऽप्यस्य त्रिरपि च भवन् प्रांशुतनुको
विधानागारे वै विधिवदुपसन्नोऽपि धृतिमान् ।
न काणीमस्प्राक्षीदनियमितमार्गेण तु वरां
वराटीमद्यापि प्रणमति न शीर्षस्थितमपि ।। 48।।
स वै स्थूलां खादीमधिशुचि वसानो मृदुवचा
महान् मानी मान्यो भवति ननु मान्येष्वपि बुधः ।
अकुर्वन् पूतां यो बतबत दृशा ज्येष्ठतनय-
स्नुषाभावात् सोढ्वा व्ययमपि निजं प्राप तनयाम् ।। 49।।
अहं नो कांग्रेसी स च भवति काङ्ग्रेसदलगः
परन्त्वास्ते प्रीतो मयि मम च बहुमानस्य स पदम् ।
दलं त्यक्त्वा योग्यं यदि जनमुपादाय जनता-
प्रशास्तृत्वं संसच्चिनुत इयमास्तां न विफला ।। 50।।
मतान्यादातुं यच्चरति ननु शास्ता भवति वै
घृणापात्रं तस्मादिह मतिरियं कं ननु धयेत् ।
न संपूर्णानन्दो यवनजनतावन्दितपदो-
ऽप्यकार्षीत् तत्कार्यं सदसि विशदं तत् प्रतिवदन् ।। 51।।
न संपूर्णानन्दे भवनमपि काश्यां नवतरं
बभूवैकं मुख्यामपि बत धुरं संप्रवहतिः ।
न किं तस्याप्यर्थे भवति बहुमानत्वमहिता
मतिर्मान्योऽभूत् सोऽप्युपनिषदि वार्थेऽपि विबुधः ।। 52।।
महानत्रैवासीत् स खलु रघुनाथेति विरुदो
महीसिंहः सिंहोऽभवदित इहासौ बहुतिथम् ।
सदस्यो लोकानां प्रतिनिधिसभाया अपि, मतो
बभूवासौ दार्ढ्यादपि बत बतेन्दोरपि पितुः ।। 53।।
इन्दुरितीन्दिरायाः नाम।
न तत्राप्येतस्मिन् सुमहति पदे दत्तचरणे
मनागप्यर्थाप्तौ भवति वचनीयं स्म महतः ।
न सादृश्यं तस्य स्पृशति मतिमन्तं कमपि य-
श्चकारैतिह्यं स्वं प्रतिनवनवं संस्कृतगिरा ।। 54।।
नवीनोऽभूत् सोऽयं कलशतनयः कह्लण इति
प्रतिष्ठामाप्तो यो नृपतिचरितान्यालिखदलम् ।
स एवागादीद् यत् स्मरहरपुरी वै जनिमदाद्
पुरा झॉसीश्वर्यै स्थलमपि च तद् दर्शयति सः ।। 55।।
पुरा चाणक्योऽभूदुपलशकलेनेङ्गुदिभिदा
महामात्यो भूत्वा विदितभवनो याज्ञिकवरः ।
सुदामाऽप्येवं वै निखिलपतिमित्रालयगतो
निरीहो नास्पृक्षत् कमपि विभवं मानसमपि ।। 56।।
यवननृपतिरासीत् कश्चिदौरङ्गजेवः
स खलु निजकराभ्यां साधितैरेव शिल्पैः ।
उपनतमिह यद्वाऽभूत् ततो ह्येव कार्य-
मुदरभरणजातं साधयन् कीर्त्त्यतेऽद्य ।। 57।।
इह हि तु करपात्रस्वामिपादा अभूवन्
किमु खलु भुवि लभ्यं तस्य नासीत् तु वस्तु ।
परमपदमवाप्तः किन्तु तस्यापि पार्श्वे
किमपि न खलु लब्धं द्रव्यजातं निगूढम् ।। 58।।
मदन इति तु पूर्व्यं पश्चिमं मोहनेति
व्यपदिशति यदीये नाम्न्यसौ मालवीयः ।
यदपि धनमदाद् वै योधपूरेश्वरोऽस्मै
स्वभवनभरणार्थं तन्न्यधाद् विश्वकोषे ।। 59।।
विश्वस्य=विश्वविद्यालयस्य।
मनसि वसति यस्य श्रीपतिः कृष्ण एव
भवति खलु च योऽयं कृष्णरासस्य वक्ता ।
स हि सुरवचसाऽपि स्पष्टमीषः प्रवक्तुं
द्विजपतिरसकौ किं मालवीयोऽन्यथाऽयात् ।। 60।।
भवति षिरसि षुभ्रः पट्टवस्त्रोत्तमष्च
भवति च निटिलेऽपि स्वच्छषुभ्रा हि टीका ।
प्रतिदिनमपि दुग्धं भोजनान्ते पिबन् स
कथमिव चरणं स्वं वाममार्गे दधीत ।। 61।।
अपि भवति स मूर्त्तिर्न्यायरूपस्य धर्म-
स्य न हि स कुरुते स्म स्वीकृतं छद्मवादम् ।
भवति च विजयोऽस्यैवाङ्घ्रिलग्नः सदैव
महति मति विवादेऽप्याप्तकल्याणवीथेः ।। 62।।
भवति मदनसंज्ञो मोहनो मोतिलाला-
दनु खलु षरदर्धाल्लब्धदेहो महात्मा ।
अथ तमिममुदारं मौतिलालिः पितृव्यं
मनुत इति पृथिव्यां विद्यते वै प्रसिद्धिः ।। 63।।
अपि निखिलमतानां सङ्घ एष स्म जातः
प्रथमपदमवाप्तः किञ्च ‘लाहौर’ एषः ।
अपि भगति धृतो यो मृत्युदण्डस्तदीया-
मतनुत नहि कुत्सां बाधितस्तद्दलेन ।। 64।।
दलं काङ्ग्रेसः। लाहौराधिवेषनम्।
न हि किमपि कुतोऽपि प्राप्तमष्नाति काले
क्वचिदपि स महात्मा सद्गृहस्थोऽगृहस्थः ।
अपि नहि ‘विकटोरी’-हर्म्यमाप्तः सभायां
विसृजति नियमं तं व्याजतो रक्षितात्मा ।। 65।।
व्रजति यदि स रेलात् कुत्रचिद् दूरसंस्थं
नगरमतिददिष्ठे मार्गमध्येऽस्य भक्ताः ।
प्रथमगतिजुषोऽन्नं पाचयामासुरस्मै
विधिवदुचितकर्मा तत्र तत् स्वीचकार ।। 66।।
अपि भगवदुदीर्णं स स्वयं सर्ववेदै-
रुपनिषदुपदेषं छात्रवर्गे दिदेष ।
अपि च कलह-कोषं भारताख्यं विचित्रै-
रुपगतमृदु/शुचितर्कैर्भाषितैर्व्याचकार ।। 67।।
अपि समजनि तस्मिन्नन्त्यजेभ्योऽपि कष्चित्
सुदृढहृदयकल्पस्तेभ्य ईक्षाञ्चकार ।
स हि समुदायमार्गं रामनाम, स्वतस्तद्
द्युसरित इह तीर्थेऽदात् तु दीक्षां पवित्राम् ।। 68।।
ऋषिरिव स हि पष्यन्नायतिं तद्व्यपेक्षां
विकसनपथनित्यां मातरं पष्यति स्म ।
विविध-विनय(षिक्षा)-मार्गान् योजयामास तीर्थे
निज इह दृढसेतून् संविधातुं स्वराष्ट्रे ।। 69।।
भवति न खलु मां वै द्रष्टुमीशस्ततोऽपि
धनमनुचितमार्गो न ग्रहीष्याम्यहं वै ।
इति भजति तु चित्ते यश्च संकल्परत्नं
स हि भवति कृती वै विश्वकल्याणहेतोः ।। 70।।
कालेऽस्मिॅस्तापसानामपि परममहद्ध्यानयोगश्रितानां
रागोत्तीर्णान्तराणामपि निखिलदिषो व्यावृतिं प्रापितानाम् ।
उत्तिष्ठासां समाजो व्यधृत हृदि परान् प्रापयामासुरेतेऽ-
प्याषीर्वादान् स्वकीयान् धनमिदमिह वै श्रेष्ठमस्यां धरित्र्याम् ।। 71।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘मालवीयाचारो’ नाम त्रिपञ्चाशः सर्गः ।। 53।।
चतुष्पञ्चाशः सर्गः
नासीत् कस्यापि यस्सूनुरासीत् कस्यापि नो पिता ।
तत्रापि यत्परीवारो विश्वं तस्मै नमो नमः ।। 1।।
ममत्वमूलका द्वेष्या ममत्वजनिताः प्रियाः ।
ममत्वं ये विहिंसन्ति तान् कथैषा न चुम्बति ।। 2।।
ममेति यत् पदं तत्र मकार-द्वन्द्वयोजिने ।
विधये तु नमस्कुर्मः कुर्वते सार्गलं गजम् ।। 3।।
गजालानपरिक्लेशमक्षोटा यदि सेहिरे ।
नो सहिष्यामहे तं तु वयं किं रघवोऽक्षयाः ।। 4।।
वसिष्ठ इति विज्ञानी यस्यासीद् देशिकोत्तमः ।
परं ब्रह्म कुलं त्यक्त्वा तदन्यत्र क्व वाऽऽविशेत् ।। 5।।
घटसंभवनामाभूदगस्त्यः कश्यपश्च यः ।
ताभ्यामाविष्कृतं त्वस्त्रमेवाभूद् रावणान्तकम् ।। 6।।
अभ्यर्हितं यदस्ति श्वस्तस्याद्यत्वे हि कल्पनम् ।
विज्ञाः प्रकुर्वते, नाज्ञा परित्राणैकचक्षुषः ।। 7।।
त्राणं पश्चाद् भवेन्नो वा, घातस्तु प्रथमं भवेत् ।
घाते घातं चिकीर्षन्तस्तिष्ठन्त्यज्ञातनिद्रिताः ।। 8।।
सुखं निद्रान्त्यपि क्षीणक्षीणगात्रा हृदि स्वके ।
यदि नास्ति भयं कस्मादपि कोणाद् भुवस्तले ।। 9।।
सुवर्णरचनाकारा वैद्याः सर्वां क्रियां पुरः ।
काञ्चिदेकां तु ते तावन्निभृतं कुर्वतेतराम् ।। 10।।
नैभृत्ययोगं वाञ्छन्तः कल्पन्ते कुशलान्यपि ।
यदि चित्ते न वै तेषां हिंसा स्यात्तु प्रतिष्ठिता ।। 11।।
छलं सत्येन कुर्वन्तश्छिन्नच्छिन्नवपुः स्वतः ।
राजानन्ति प्रजावर्गे भूत्येकोत्सवकाङ्क्षिणे ।। 12।।
अद्वैतसिद्धिकृद् यं हि मधुसूदनवाक्पतिः ।
सिषाधयिषति स्मार्थं तमेव तुलसी यती ।। 13।।
भाषा त्वेकैव कस्यापि युगस्य खलु वर्त्तते ।
प्रत्यभिज्ञानपटवस्तामेतामभिजानते ।। 14।।
पारमाणवविस्फोटं भारताः कल्पयन्तु वै ।
अमेरिका न सन्धिं स्वं तेन भङ्क्ष्यति साहसात् ।। 15।।
विरोधं कर्त्तुमेते तु भवितारः स्वतन्त्रिताः ।
भवितारश्च सन्धेर्नश्छेदेऽप्यपरतन्त्रिताः ।। 16।।
इत्येतां तु प्रतिज्ञां स्वाममरीकानिवासिनाम् ।
श्रुत्वापि वाममार्गीया न प्रसादं प्रयान्ति चेत् ।। 17।।
एतेषामन्यदेवास्ति ध्येयं विघ्नौघपक्षिणाम् ।
साहाय्येनामरीकाणां दारिद्रयमपि नङ्क्ष्यते ।। 18।।
परमाणविकेनोर्ज्जा विद्युदाधिक्यलाभजात् ।
अन्नाधिक्यौषधौर्ज्जित्याद्य नेकाहित साधनात् ।। 19।।
अमरीकाधुनाऽऽधिक्याद् भारतेषु यदीक्षते ।
यीशुधर्मोऽपि राजीवपत्न्या अत्रास्तु कारणम् ।। 20।।
मनमोहनसिंहस्य पञ्जाबीयत्वमप्यदः ।
अविश्वास्यं न वैतेषां पाकस्तानीयवत् तथा ।। 21।।
एत एव तु लालाख्यं बहादुरमजीहसन् ।
तस्य सारल्यमुद्वीक्ष्य वीर्ये मन्दत्वमानिनः ।। 22।।
तेनापि मधुरालापजनिताश्वासनाः प्रजाः ।
जवाहरेऽस्मृतिं दूरामाधापयितुमीरिताः ।। 23।।
अमरीकाभिरेतस्मै प्रेषितं यन्निमन्त्रणम् ।
स्वीकृत्याऽप्यमुनाऽहेलि कार्याधिक्यादनीहया ।। 24।।
दार्ढ्यामेतस्य दृष्ट्वासीत् पाकस्तानोऽपि कम्पितः ।
कम्पितेऽद्रौ तरोः का वा वार्त्ता झञ्झानिलद्रुतौ ।। 25।।
भूमेरैक्येऽपि हा हन्त द्वैराज्यस्थापना ध्रुवम् ।
प्रतिस्पर्धालुता वेगादभ्युदीतिकरी हि सा ।। 26।।
किन्त्वीर्ष्या-द्वेषमानानामाधिक्येन पराहताः ।
पाकाः पाकत्वमेवाप्य भारतानभिदुद्रुवुः ।। 27।।
एषामभिद्रुहित्रेता पराजयकलङ्किता ।
किन्त्वाभीक्ष्ण्यं जरासन्धे यथैषु प्रैधतेतराम् ।। 28।।
ईराकेरानयुगली समधर्मैव तादृशी ।
आख्यानानां स्थितिः किन्तु सर्वे स्वातन्त्र्यमवादिनः ।। 29।।
मोहम्मदाख्यं स्वं पुत्रमीश्वरस्य समेऽप्यमी ।
परस्परद्वेषवशात् पीडयन्तितरां न किम् ।। 30।।
यदिवा स्वयमेवासन् परस्परमुपद्रुताः ।
घातिताश्च तृणस्यापि प्रहारेण गतौजसः ।। 31।।
क्षीणान्तरङ्गसत्त्वा ये तेषां मल्लाङ्गतापि वै ।
न कल्पेत जयायान्तःसत्त्वदार्ढ्यासुमेधसः ।। 32।।
न वीतरागान् रागान्धा दुरात्मानो महात्मनः ।
न्यक्कुर्वाणा अपि स्वस्थान् न भवन्ति फलेधुगः ।। 33।।
स एव जनको येषां जननी चापि सैव हि ।
न तेषामप्यपत्यानां मानसैक्यं लभामहे ।। 34।।
लभामहे च वैमात्रजुषामप्यान्तरङ्गिकीम् ।
एकतां रामसौमित्रकैकयी-तनयेष्विव ।। 35।।
कौरवाः पाण्डवाश्चैव पितृव्यभ्रातृतान्विताः ।
द्वेषानले निपत्याद्धा यमलोकमपूपुरन् ।। 36।।
अर्थकामात्मता येषामात्ममात्रार्थतां श्रिता ।
तेषां को वा परीवारः का वा तेषां प्रिया मही ।। 37।।
यत्र कुत्रापि सुप्तानां यत्र कुत्रापि जाग्रताम् ।
वानराणामिवामीषां द्विपादानां तु को निजः ।। 38।।
भुक्त्वा भोज्यं यथा पत्रपात्रीं दूरे क्षिपन्तकि ।
मानवा मानुषीस्तद्वद् योषितोऽपि क्षिपन्त्यहो ।। 39।।
जन्मान्तर-तिरस्कार-तिरोहित-धियां त्वसौ ।
सांसिद्धिकः परीपाकोऽश्वासं गर्त्तेषु शायिनाम् ।। 40।।
भुजयोर्जङ्घयोर्यद्वद् बलं येषां कृपाणिनाम् ।
अर्ववद् धावतामेषां को देशः कश्च ना निजः ।। 41।।
एषामेव समाजेषु वेश्याधिक्यं निभाल्यते ।
दिनं यासा निजो रात्रिः परैव परमं स्थिता ।। 42।।
एकस्मिॅस्तु मृते यत्र तिस्रः स्युर्विधवाः स्त्रियः ।
को वा समाजस्तेषां वै तत्क्षणार्थभुजां नृणाम् ।। 43।।
सामान्यं नास्ति कोऽप्यत्र विशेषो हि प्रवर्त्तते ।
कलिः परस्परं तेषां परमश्चरमः स्थिरः ।। 44।।
कलहो नियतिर्येषां तेषां का सहयुज्वता ।
हस्तद्वयी पदद्वन्द्वसहयुज्वत्व-साधकम् ।। 45।।
अक्ष्णोरपि द्वयी या नः सा सदैकगतिः पृथक् ।
पृथक्पृथगिदं द्वन्द्वं न पश्यति शृणोति वा ।। 46।।
समुल्लङ्घ्य तु ये वीरा नियतिं वेगिनो गतौ ।
तेषां कृते षुभाषीर्हि सुरसाभ्योऽपि कर्ण्यते ।। 47।।
गरलं निर्गतज्वालाकरालमपि पूरता ।
निर्वर्त्तयति कल्याणरश्मिचन्द्रमहो बलात् ।। 48।।
नैव सौभाग्यसिन्दूरं सावित्रीणां ललाटतः ।
सतीत्वव्रजिताङ्गानां प्रोज्झितुं क्षमतेतराम् ।। 49।।
दौर्बल्यमेव संसारे प्रथमः शत्रुरात्मनः ।
वीर्यवत्त्वं पुनः सर्वसाधनं नाऽत्र संशयः ।। 50।।
नियतिर्ब्रह्मणोऽत्यन्तमलङ्घ्यं शक्तिरेव या ।
ब्रह्ममात्रं विहायान्यात् रथाङ्गयति वै समान् ।। 51।।
रथश्चलति तस्यास्तु नियतेः सर्वदैव हि ।
जले स्थले महीरन्ध्रे शैले क्षेत्रे यथा समे ।। 52।।
महीरन्ध्रे = पाताले। समे = समतले।
ऐकात्म्यमात्रनिष्ठानां पाण्डवा हि निदर्शनम् ।
येषां पराङ्मुखी कापि नियतिः सरलाऽभवत् ।। 53।।
नियतिः कुक्कुरीपुच्छं सदैककुटिलं मतम् ।
सरला यदि सा तत्र कुक्कुरत्वं वृकायते ।। 54।।
पिकोऽपि करटायते नियतिनायिकाया मुखं
यदा भवति वह्निवज्ज्वलितरश्मिकं कुत्रचित् ।
यदा च भजते श्रियं कमलवल्लभां जायते
तदा तु करटो रटत्पिकरवोत्तमो निर्द्वयः ।। 55।।
अथो नियतिवल्लभो भवति कालनामा महान्
पुराणपुरुषोत्तमोऽप्यभिनवोत्तमः शोभनः ।
तदा स्वगृहनिष्कुटः सुरवनायमानो द्रुमैः
प्रकल्पशतपूरकैः खचितविग्रहो जायते ।। 56।।
अहो नियतिकालयो र्निभृतनिर्वृतिं प्राप्तयोः
समागममहोत्सवे भजति पौष्करित्वं विधिः ।
भजन्ति च सुरेचकैर्महितमङ्गभङ्गैर्युतं
विधेः प्रथमवल्लभा नृतिगतागतानां शतीम् ।। 57।।
रतिश्च रसिकप्रिया भवति तत्र वंशीरवो
विधातुमतिरम्यतां स्थिरगतिं गता स्थानताम् ।
समेऽपि हि विकस्वरा दधति सौभगं सङ्गता
स्वराः सुरगणादृताः श्रवणवल्लभाः सर्वतः ।। 58।।
अपीच्छति महोत्सवे भवितुमुत्सुकः प्राश्निक-
श्चराचरपतिः शिवः स्मरहरोऽर्धनारीश्वरः ।
स चापि भुजगासनी श्रितसमुद्रजासङ्गमो
बुभूषति च साधु साध्विति गिरां समुल्लापकः ।। 59।।
वृषस्यति महेन्द्रकः श्रितपुलोमजापाणिक-
स्तदा नटपटीवृतः क्वचन गन्तुमुत्कायते ।
समाश्रयति चोर्वशीं स च सनारदस्तुम्बुरू
रसाष्टकसमाश्रितं ह्यभिनयं विधातुं त्वरी ।। 60।।
कदाचन गतागतं व्रजति तत्पदि ब्रह्म त-
त्पदा च विकृतिं श्रिता प्रकृतिरेव मायापि सा ।
इहातिशयबन्धुरे विबुधसञ्चरे सञ्चर-
न्त्यहो बत सनातनाः सनकनन्दनाद्या अपि ।। 61।।
विधेरपि वयो भवत्यथ मनुष्ययोनिक्षणः
प्रयात्यपरकल्पकोऽप्यतितरां त्वराढ्यौः क्षणैः ।
कविप्रतिभयाऽञ्चिता इह हि कालिदासाः शतं
शतं दधति सुस्वरा स्तवशतीं सुवैतालिकाः ।। 62।।
इहेन्द्रभिदुरावली भवति यत्र नीलोत्पलं
न तत्र निहिता दृढं भवति शक्तिरद्रिक्षया ।
भवन्ति च निदाघगा अपि विवस्वतो रश्मयो
नितान्तपरितर्पणक्षमतया समुत्कन्धराः ।। 63।।
निपातयति न स्मरः कमपि तत्र शृङ्गारिणं
रसः स च न हीयते भवति शृङ्गयुक्तस्तु यः ।
भवन्ति च विकस्वरोत्पलसदृक्षनेत्राः समे
कवित्वकलनेऽसमा अपि नरेन्द्रभोजादयः ।। 64।।
समेऽप्यमृतसिन्धवो विधृतकेसरश्रीशुभा
लसन्ति सितया सितप्रभतया द्विराशीकृताः ।
इमे च सनकादयो मुनिवराः शिशुत्वं श्रिता
अपि प्रगुणलोमशा न न भवन्ति जातस्पृहाः ।। 65।।
इमाश्च ननु मेनकाप्रभृतयः सुराणां प्रिया
नटन्ति ननु वत्सलं रसमुदित्वरस्वेदकाः ।
इमे च निखिला महातपसि बद्धनद्धोद्यमा
सकण्वसहगौतमा मुनिवराश्च सामाजिकाः ।। 66।।
इहास्ति गगनोदरे रविबुधद्वये संगमः
विभाति गुरुचन्द्रयोरपि च सङ्गतिर्मङ्गला ।
शनिर्वसुपतिस्तथा भवति भार्गवः स्वे गृहे
वृषे च खलु चन्द्रमाः सकलविश्वभाग्योदये ।। 67।।
अस्मिन् कालकृते करग्रहवरे वध्वा नियत्या बभुः
सर्वेऽपि प्रबला दिवाकरसुताश्चेद् खेचराः साधवः ।
किं नाद्यापि तथैव सङ्गमितयोस्तादृक्षयोर्देहयोः-
र्न स्यात् साधु च मङ्गलं च सकलं द्यावापृथिव्योर्युगे ।। 68।।
नियतिकरकरालः कालनामा वरोऽसौ
प्रगुणगरिमशक्तिर्जायतां नः शुभाय ।
अपि च नियतिराज्ञी कालपाणिग्रहाढ्या
भजतु करुणभावं मर्त्यलोकाय माता ।। 69।।
भवतु न घटस्फोटः कुत्रापि हन्त जनुर्जुषि
क्षणपरिमितेऽप्येतद्द्वन्द्वेऽप्यनेहसि कुत्रचित् ।
सुभगतुतरां विष्वं विष्वस्य जन्मभृतः कृते
कलिरुपजनिं नाप्नोत्यल्पीयसीमपि गेहिनोः ।। 70।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘सौभाग्यशंसनो’ नाम चतुष्पञ्चाशः सर्गः ।। 54।।
पञ्चपञ्चाशः सर्गः
खर्जा कस्य स्पृशति रसनां वक्तुमत्युत्सुकां वै
चेतो यस्य स्पृहयतितरां सुन्दरं वस्तु किञ्चित् ।
तत् सौन्दर्यं त्वरयतितरां यस्तु वक्तुं विशेषान्
कस्याप्युच्चैस्तमहरिण-हृद्द्रावणानद्वितीयान् ।। 1।।
मुक्तं चेतो हरिणशिशुवत् सञ्चरत्यत्र तत्र
सर्वत्रैवाप्रतिहततयाऽभग्नकामं सदैव ।
मुक्तावस्यां भवति निगडो यस्तु संरोधकारी
तत् सौन्दर्यं भवति मनसोऽध्यक्षपात्रं तदेतत् ।। 2।।
मुक्तिं भुक्तौ परिणमयते, निष्क्रियं, यच्च दष्टं
यच्च स्फीतं स्मरविषधरेणोग्रसंतापकेन ।
तच्चाञ्चल्यं भजति, भवति स्मर्यमाणानभीष्टान्
स्प्रष्टुं कामी बत बत यतस्तद्धि सौन्दर्यमेकम् ।। 3।।
सोढ्वा क्लेशानपि बहुतरानन्धकारेण जुष्टा
वीथीस्तीर्त्त्वा निभृतचरणो यस्य सीमानमेत्य ।
मन्दं मन्दं रणयति बहिर्द्वारपट्टं शृणोति
तच्चोन्निद्रा वरतनुरिदं केन सौन्दर्यकेण ।। 4।।
किं सौन्दर्यं वद वद सुहृत्सत्तमस्त्वं वद त्वं
त्वत्प्रोक्तेऽहं न खलु मनवै तथ्यहीनत्वदोषम् ।
सत्यं प्रोक्तं बत बत सुहृत्सत्तमेनास्मि तादृक्
किन्तु स्प्रष्टुं न खलु कुशला वाक्षु सौन्दर्यमेकम् ।। 5।।
तद्वै सत्यं भवति, न मृषा यद्यपि प्रत्यपादि
प्रत्यग् दर्शैरपि ननु तथैवेदमव्याहतत्वात् ।
मिथ्याभूतोऽप्यतनु मनसा स्पृश्यमानोऽपि चेतो
यद्वै प्रत्याहरति कुहचित् तत्र सौन्दर्यमास्ते ।। 6।।
सौन्दर्याख्ये सुभगविभवे मज्जदन्तश्चितोर्यः
सिद्धिं कश्चिद् भजति तु समाधीयमानः समाधिः ।
तच्चेद् ब्रह्म प्रगुणमहिमाऽ वैतु तत् सुन्दरत्वं
तत् सौन्दर्यं तदलमिति यत् प्रोच्यते तद्धि तत्त्वम् ।। 7।।
मन्दोऽप्यग्निर्द्रवयति घृतं दार्ढ्यामाप्य स्थितं यत्
तस्य स्निग्धं भवति हृदयं हेतुना हन्त तेन ।
तस्मिन्नास्ते कुहचन न वै चेतसा रस्यमानं
सौन्दर्याख्यं किमपि निभृताऽपूर्वभावः पदार्थः ।। 8।।
स्वच्छे यो हि सरोवरस्य सलिले संलक्ष्यते नीलिमा
छायैषोपरि विस्तृतस्य नभसो विष्णोः पदस्याञ्जसी ।
तस्मिन्नुत्पलमेव मीलितगुणं संपद्यतेऽम्भोरुहां
संघातस्तु नितान्तशुभ्रतनुकं धत्तेऽधिकां तु श्रियम् ।। 9।।
मालिन्यं चेत् स्फटिकविशदे दृश्यते दर्पणे तद्
द्रष्टुर्बाष्पं भवति विततं बाह्यभागेऽदसीये ।
नो वै तस्य ग्रहणविपुला स्वच्छता नश्यतीह
या चैतस्य प्रकृतिरपरा निर्विकारैव साऽस्ते ।। 10।।
एवंभूतो भवति मनुजः किन्तु तस्यान्तरात्मा
गर्वोन्नद्धो भवति नितरां कालिमाक्तो नु चन्द्रः ।
भूमेश्छायां वदतु ननु तां कालिदासादिरेते
ब्रूमस्तां वै विषधरमुखैरुद्गतां फूत्क्रियां हि ।। 11।।
योऽयं शम्भुः श्रयति शिरसा जाह्नवीं सेन्दुलेखां
नेत्रेणाग्निं निटिलनिहितेनासकौ कस्य हेतोः ।
सर्पानेतानधिकगरलान् ग्रीवया किं नु हारी-
कुर्वन्नास्ते किमिति च करे कङ्कणत्वेन देवः ।। 12।।
यद्वा शम्भुः परमसरलो विश्वसित्येव सर्वे-
ष्वेव प्राणिष्वृजुतममतिः सुन्दरीपार्वतीशः ।
किं चामुण्डा स्वपिति नयने मीलयित्वाऽद्य यत् ते
चण्डा मुण्डाः पुनरपि शिरः कुर्वते शृङ्गयुक्तम् ।। 13।।
सा काली वै क्व नु गतवती यन्मुखे व्यात्तगर्भे
भूमिस्पर्शादुपचयमिता रक्तबीजा ज्वलन्ति ।
यद्वा कालीमुखति विततं सूर्य्यताराशशाङ्कै-
र्युक्तं व्योम, क्षयमिह समेऽपि व्रजन्त्येव वेगात् ।। 14।।
एकत्रास्ते तिमिरजननी शर्वरी कापि दार्शी
नो यत्रास्ते क्वचिदपि महीमण्डलं दृष्टिपाते ।
अन्यत्रैतच्घ्रवणपरुषं भैरवं शब्दमुद्यद्-
रोचिःसंघो वियति विततो वैद्युतं संप्रसूते ।। 15।।
किं वै कारणमत्र बुद्धि निहितं दौर्बल्यमेकं नृणा-
मन्यन्नास्ति किमप्यतीव परुषा ब्रूमस्तु सानातनाः ।
चौर्यं तन्त्रति यत्र तत्र महिषः शृङ्गं धुनोत्येव त-
त्पृष्ठं संश्रयतो यमस्य वदनं सञ्जायते सस्मितम् ।। 16।।
एकस्यार्थे शतशतमुदाकर्त्तुमौत्सुक्यभाजो
वेताला रे शृणुत शृणुतोदाकृतिः स्वस्य मृत्युः ।
साफल्यं चेद् व्रजति कुहचित् पूर्यते किञ्च कुक्षि-
कूपस्तुभ्यं पवनवपुषे पावमानिर्हि वैद्यः ।। 17।।
यस्यासन् दश कन्धरा दश शिरांस्यासंश्च यद्बाहवो
विंशत्वं गमिताः स एकमुदरं किं भर्त्तुमासीत् कृती/क्षमः ।
मन्दोदर्ययुतं पपाच पृथिवीपृष्ठस्थितान्यन्धसां
संभारानथ तस्य किं स विकटो वैश्वानरः शं गतः ।। 18।।
नोदन्या कामजाता प्रशममुपगता कुत्रचिद् दृष्टिमाप्ता
वह्निः कुत्रापि लब्ध्वा हविरपचिनुते स्वं करालायमानम् ।
रोगोऽयं नास्य किञ्चिद् भवति शमकरं भेषजं लब्धराज्य!
शम्भुत्वं प्राप्य तुष्टो भव, न खलु परः कोऽपि मार्गः शमाय ।। 19।।
नो वै चन्दनमस्ति भालपटले विभ्राजमानं बहून्
बिभ्रद् भेदविशेषकानथ न वै मालापि तादृग्विधा ।
धर्मत्वं भजते पलायनपरस्तस्मात् तु विश्वम्भर-
स्त्वं किं तस्य शृणोषि नो कृपणतायुक्तं वचः किञ्चन ।। 20।।
रे रे तिष्ठत दूर एव भवतां मध्ये न वै कश्चना-
प्यास्ते भक्तियुतो मयि स्मरहरे सर्वेऽपि कामार्दिताः।
कामं भालगतेन शोधिततनुं नेत्रेण सेवेऽप्यहं
यस्तादृग्विधविग्रहः स खलु मद्भिन्नो न कामस्मरः ।। 21।।
रामः कृष्णयुतः स्वजन्ममहिते स्थाने भुशुण्डीकरै
रक्तस्रावझरैर्निषक्तवपुरा रोदित्यसौ बाष्पधृक् ।
व्याप्तो दक्षिणसागराद् हिमगिरिं यावन्ममात्मा तथा-
प्येतां यां भुवमाश्रितो जनिमितः सा वीक्ष्यते कीदृशी ।। 22।।
सन्त्यस्यां भवनानि मन्दिरतया ख्यातानि भक्तैस्तदा
तादानीन्तनतां गते बत बतानेहस्युदाराण्यहो ।
किन्त्वस्यां न हि कापि दिव्यसरसः प्रादुर्भवन्ती सरिद्
ब्राह्मी काचन दृश्यते बहुजला धिग् गोष्पदत्वं गता ।। 23।।
अस्यामेव पुरा स बर्बर इति ख्यातो मरूणां सुतः
स्वं वै मस्जिदमाततान निपुणं भङ्क्त्वा मदीयालयम् ।
सम्प्रत्यप्यहमस्मि वीतपटलां काञ्चिद् वृषीमेकला-
माश्रित्य स्थितिमीयिवानिह शये दावानले नु द्रुमः ।। 24।।
या मे कृष्णतनोर्बभूव मुरली वृन्दावने माथुरात्
तीर्थादेव हृताद्य केनचिदपि प्रत्यर्थिना साऽप्यहो ।
कां वा वादयिताऽस्मि हन्त मथुरामाक्रष्टुकामोऽप्यहं
श्रुत्वा यां प्रविहाय विश्वमखिलं गोप्यस्तु मय्यातुराः ।। 25।।
भक्ताः सन्ति कृशा यदि प्रभुरपि प्राप्तः कृशत्वं महत्
यन्मे किञ्चन मानुषं वपुरिदं भक्तैर्हि मय्याहितम् ।
ये गोस्वामिवरा महान्त उदयं प्राप्ता धनैर्मामकै-
र्भक्तैरेव समर्पितैस्तदधिपा भूत्वा मुदोदासते ।। 26।।
ये न्यायालयिका भवन्ति बहुधा भिन्नास्तदीया गिरो
नास्म्येकः किमु यच्च मय्यघटतास्तत्रानभिज्ञो नयः ।
रामः कस्य, स चास्ति कस्य मुरलीं बिभ्रन्मुखाब्जे प्रभुः
कृष्णः, किन्ननु चिन्त्यमत्र निभृतं न्यायाधिकारस्थितैः ।। 27।।
यो वै दुर्बल एष एव भजते खङ्गाभिघातं रिपोः
सोऽसौ छिन्नशिराश्छिनत्ति भगवन्मूर्त्तिं स्वहस्तैरिव/स्वकैः पाणिभिः।
रक्षा चेन्नहि शक्यते बत मुधा कर्त्तुं कथं चेष्ट्यते
भक्तैर्देवकुलादिनिर्मितिविधौ, पाप्मा हि तत्तो फलम् ।। 28।।
यो मार्गो यवनोचितो यदि तमेवाश्रित्य विद्यामहे
भ्रातृत्वेन युतास्ततोऽर्धमुपदा तेषां हि हस्ते कृता ।
यश्चोन्मादनिराकरिष्णुरयनप्राग्रेहरस्तत्र किं
पादं धर्त्तुमिमे वयं कृपणतां प्राप्ता धनाढ्या अपि ।। 29।।
पत्न्यौ द्वे अपि याज्ञवल्क्यमुनिना प्रव्रज्ययाचामिते-
नान्तान्तःकरणेन दित्सितमहैश्वर्ये अपि प्रज्ञया ।
युक्ते नैषिषतां ग्रहीतुमथ च त्यागाय बद्धान्तरे
जाते कोऽत्र बभूव हेतुरथवाभूतां किमेते च्युते ।। 30।।
सत्यं भाषितुमेकलः स्थिरमतिः साकेतको भूपति-
श्चन्द्रः किं हरिपूर्वको न भजति स्म प्राज्ञतां धार्मिकः ।
यत् सोऽसोढ सुदुर्गतानि सुबहून्यत्याचरिष्णुत्वधी-
जुष्टान्यार्यचरित्रतश्च न मनाग् जातोऽविकम्पः पृथक् ।। 31।।
द्यावाभूम्यन्तराले वसति खलु नरो यः स कोऽप्यत्र नास्ति
सङ्कल्पे शुद्धियुक्तः स हि भजति सृतिं वञ्चकानां हि धीरः ।
इत्येषा धारणा या भवति खलु दृढा निर्ऋतिः कृत्यलग्न-
चित्तानां सा निगीर्य प्रमुखति निखिलं संविधानं हि सृष्टेः ।। 32।।
शास्तारो बहुधा लपन्ति विविधान् मार्गान् समालम्बितुं
प्राजातन्त्र्य क-संविधानविषमे कालेऽधुनाऽधार्मिके ।
तन्मन्त्रैकपरायणेषु विविधा सामाजिकानां गृहे-
ष्वावर्षन्ति दिवस्तलादपि महाजाम्बूनदीयाः सुधाः ।। 33।।
येषामस्ति धनं स एव बदरीनाथप्रभोर्दर्शनं
लब्धुं धिक् क्षमते, परस्य तु कृते सा दुश्चरा धोरणिः ।
चेरुस्तत्र तपांसि ये ननु कृते तेषां सनारायणो
देवस्तत्र नरोऽस्ति पर्वतमयो नो कामनापूरकः ।। 34।।
एकत्रास्ति शिलामयी खलु द्रुमद्रोणी परत्रास्ति च
स्वच्छाम्भाः सलिलाशयो न खलु यं स्प्रष्टुं क्षमा मानवाः ।
तेनैवापृथुवर्त्त्मनाऽवतरणं कृत्वा नरा शक्नुव-
न्त्याराद्धुं हिमशैलमूर्ध्नि निभृतं केदारधामेश्वरम् ।। 35।।
एकत्रास्ति महेश्वरः स बदरीधामेश्वरो भारते
वर्षेऽन्यत्र च रामधाम्नि निवसन् रामेश्वरो भ्राजते ।
पूर्वस्यां दिशि वर्त्तते प्रभुरसौ श्रीमाञ्जगन्नाथको-
ऽप्यन्यत्रास्ति च विद्यमानविभवो श्रीद्वारकाधीश्वरः ।। 36।।
एवं पूर्णश्चतसृषु ककुप्स्वस्ति देशोऽस्मदीयो
विश्वाराध्यैस्त्रिभुवनगुरोर्विग्रहै रक्ष्यमाणः ।
को वा रक्तप्रभवदनुजो यद्वदेषोऽणुरस्मिन्
का वा शक्तिः स्वमभिभवितुं स्वेश्वरं वाऽपि दिक्षु ।। 37।।
अणुर्भूत्वा दीर्घो यदि भवति नाशाय कुशल-
स्ततोऽणुत्वं प्राप्तं महदपि भवेद् रक्षणपटु ।
अरक्षा रक्षात्वं यदि किल परीत्याशु विभवे-
न्मनुष्ये लोकेऽस्मिन् भवति कृतिनी तेन जगती ।। 38।।
महाभूतान्येतान्यणुतनुतया चेद्वितनुयु-
र्महत् सामर्थ्यं तत् किमु खलु भवेद् भूः प्रतिनवा ।
यदन्नं सोताऽसौ गरलकलुषं तन्न भविता
न चेदस्मिन् कश्चित् प्रविशति गुणस्त्वाणववपुः ।। 39।।
न वै गोधूमं स्यादणुपरिगतं भूमिफलवत्
रसालत्वं प्राप्तं नहि समुदियाल्लीचिकफलम् ।
यदि स्याद् वा प्राप्तं किमु तदुदरे प्रोल्लसति वै
यदेकं पञ्चत्वं गतममृतगव्यं विलसिता? ।। 40।।
यदीत्थं स्यात् कस्मात् विशसनमुपेयात् पशुधनं
तदीयाङ्गोद्भूता विकृतिरपि भूयात् तु सुकृतिः ।
न हि स्यान्नैदाघी दहनगतवृष्टिर्जगति वा
भवेद् वा शैत्योत्था कृपणकृपणा कापि विकृतिः ।। 41।।
कियन्तं कालं वा भवति सुखमेतत् सुलभतां
गतं सर्वे भूत्वा परमसुखिनः किं नु तनुयुः ।
प्रतीकारं मृत्योर्यदि वितनुयुस्तस्य भविता
महार्हं वै मूल्यं प्रभुरपि पुरो नः प्रविलसेत् ।। 42।।
अधिगतपरमाणुशक्तिकोषा अयि भरतावनिमानवा ब्रुवन्तु ।
किमु पुरुषतया प्रकाशमाने वपुषि भविष्यति कामिनीत्वयोगः ।। 43।।
अथ यदि वरकामिनी समेता क्षयमुपगच्छति वा न वास्य शक्तिः ।
क्षयवति ननु का नु नुः समृद्धिः क्षयमवगच्छति तार्किकस्तु नाशम् ।। 44।।
अलमतिशयितोपभोगसिद्धिर्न हि खलु सा सुखमस्ति रिक्तनिद्रा ।
अथ शयितसुखं परायणं तन्निजरूपं हि परायणं सुखाय ।। 45।।
गणितमिह न दर्शनत्वमेति परिणमनं परिहाय नित्यताढ्याम् ।
इह यदि परमस्त्यणुर्हि मोक्षः स च परमाणुषु किं लयं प्रयाति ।। 46।।
अणुमपि यदि संविधाय खण्डं परमतया यदि खण्डमेकमिष्टम् ।
न खलु तदपि कौशलं विचारे परमतमं न कदापि खण्डयुक्तम् ।। 47।।
यदि परमतमं सखण्डमिष्टं न हि किमु तत्र विनश्वरत्वराज्यम् ।
अथ हृतशिरसां कबन्धकानां कथमिह नास्ति सजीवतैव साध्वी ।। 48।।
अथ गगनमिदं सखण्डमास्ते यदि वाऽखण्डमिदं किमाश्रितं वै ।
तदपि किमु विराजते सखण्डमथवा तत्र न विद्यते हि खण्डम् ।। 49।।
त्यजतु यदि भवानखण्डखण्ड-
परिकलनां कुशलं नु किंनु भावि ।
अकुशलमथ, तन्न वै वरीयः
कुशलतयाऽप्यथ नो भवान् वरिष्ठः ।। 50।।
कुशलमकुशलद्वयीं विहाता
यदि न भवान् भविता न कौशलं ते ।
अथ किमु ननु जीवनं, जडेभ्यः
किमु च विभाजनकृच्चकास्ति लोके ।। 51।।
अयि ललिततनो! तवास्ति काये
किमु ललितं ननु यद् भवन्मतं तत् ।
मतमनभिमतं च चित्तभेदं
रुचिपरमं श्रयते परिच्छिदायै ।। 52।।
यदि बहुजनतन्त्रमेव तन्त्रं
भवति परात्परमाशु येऽल्पसंख्याः ।
कथमणुमपि जीवितेच्छुकत्वं
विभृयुरिमे सकला असंहता यत् ।। 53।।
यदि जगति सुधाऽस्ति संघशक्ति -
र्बहुजनतन्त्रयुगेऽल्पतैव मृत्युः ।
अमृतमपि मृतिं मृतौ निपात्य
भवतु तदा कृति, किन्तु तन्न शक्यम् ।। 54।।
मृतिरपि यदि सामृतत्वयोगा
किमिति तदा त्वमृतत्वमेव काम्यम् ।
यदि दहनतनुर्विमृत्युरस्यां
विधृतमपि स्वयमेव भावि तादृक् ।। 55।।
अथ यदि करणेषु कन्दुकत्वं
व्रजति चितिर्ननु दारिका विमृत्योः ।
अमृतमपि किमर्थमिष्यतां तत्
प्रतिहननं नियतिर्यदा श्वसिष्णोः ।। 56।।
यदिदमुपगतं सुखेन मिष्टं
परिपचनं ननु तस्य नुः पुमर्थः ।
तदधिकपरिलिप्सयेद्धचेता
भवतु सदा निरये पतिष्णुरेव ।। 57।।
अधिकमिति पदेऽस्ति यो धिवर्ण-
स्तदुदरगं निखिलं विवर्त्तते यत् ।
अकमिति यदिदं तदातुराणां
भिषगिति किञ्चन मन्यतेऽलमाढ्याम् ।। 58।।
इयमिह खलु वर्णमातृका नः
प्रकटयति प्रथमं हि तत्त्वजातम् ।
इयमिह जननी जरातुराणां
मुखपद्मे स्तनदुग्धमर्पयन्ती ।। 59।।
कवितरि कविताऽपि सैव साध्वी
अधिकवितं च सुधाऽपि सैव धन्या ।
नरतनुरियमस्ति रस्यमानै-
रखिलैर्मिष्टतमैर्वृता पदार्थैः ।। 60।।
गतदशनमिदं मुखं त्वदीयं
ननु भोज्यानि च सन्ति दार्ढ्यभाञ्जि ।
न च परदशनैस्त्वयाभिभागो
रचिततमोऽप्यभिनीतितोऽस्ति भिन्नः ।। 61।।
भव दृढदशनश्च दार्ढ्ययुक्त-
सृगुभय-शालिमुखंश्च भोक्तुमिच्छन् । सृक्=सृक्का
पशुरपि निबिडं निधाय घासं
परिपवनायितुमिच्छति स्ववक्त्रम् ।। 62।।
विधिरपि पुरुषार्थे विश्वसन्तं हि धीरं
प्रगुणयति नियत्या दत्तसाह्यं पुमर्थे ।
स्वयमरुदितमम्बाप्यस्ति किं डिम्भकं स्वं
स्तनमुखमुपदातुं तन्मुखे लब्धयोगा ।। 63।।
प्रकृतिविकृतियोगे रासलीलां चरिष्णु-
र्यदि किल शिशुकृष्णो गोपिकाभी रमेत ।
क इव बुधवरोऽस्मिन्नस्य लीलाभिराम-
रमणनटनयोगे द्रष्टुमीशोऽन्यथात्वम् ।। 64।।
भरतमुनिरिहेच्छेदष्टसंख्याभिवृद्धिं
प्रशममपि गृणानः स्थायियोगेषु शान्तः ।
इह भवति न किञ्चिच्छृङ्गमुच्छृङ्खलत्वं
लसति परमिहास्ते दोषलेशोऽपि कश्चित् ।। 65।।
रसयतु यदि भोजः कोऽपि धाराधिपोऽपि
स्वमतमपि रसं चेदत्र नो कापि हानिः ।
परिणतिविरसत्वे नो रसत्वं रसाना-
मथ परिणतिरम्ये तत्र सर्वत्र शान्तिः ।। 66।।
सरस्वत्याः कण्ठे स हि यदि दधात्यात्मकलितं
रसालङ्कारं स स्वयमपि रसालत्वमयताम् ।
रसालत्वं किञ्चित् प्रियतममथो प्रेष्ठमथवा
परब्रह्म स्वैरं प्रकटयतु काव्यं स्वकलया ।। 67।।
यदीयं यत् काव्यं भवति खलु तस्मिन् पदतया
समस्ता वागर्थो भवति च तथैवार्थपरमः ।
अदो द्वन्द्वं द्वन्द्वात्ययवपुरुपस्कृत्य तनुते
स्वसाहित्यं तस्मिन् विधिरपि समावेशमयते ।। 68।।
अमीषां सर्वेषां विधिहरिहराणां प्रसृतिभि-
र्यदास्तेनोपेयं रसमयमहातत्त्वमपरम् ।
प्रसूयैतद् दान्तः पुरुष इह साहित्यतनुतां
दधानः स्वस्त्यात्मा भवति जगदीशोऽपि जगते ।। 69।।
नतिस्तस्मै सर्वंसहविभव-सर्वस्वगुणिने
गुणानामेतेषां विनयनिभृतानां रसमयी ।
पदान्यर्थेभ्यः किं दधति नमनं नार्थकलना
पदानां पादेभ्यो यदि नमति काव्याकलनया ।। 70।।
प्रणमनकलया परीतचित्ताः
कवय इमे निखिलाः स्वविश्वसृष्टौ ।
प्रसृमरगतयो विभान्ति धन्या
धयत समे प्रभवस्तदस्य काव्यम् ।। 71।।
अयि सहृदयताढ्या वीतरागा महान्तो
भवत निहितचित्ता अत्र कोषे महार्हे ।
इह रणनमिदानीं श्रूयते शारदाया
नटनगृहगताया नूपुराणामपूर्वम् ।। 72।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘प्रणतिरहस्यं’ नाम पञ्चपञ्चाशः सर्गः ।। 55।।
षट्पञ्चाशः सर्गः
श्रीमान् मनोमोहनसिंहनामा प्रधानमन्त्री गमितोऽल्पसंख्याम् ।
साम्यैकवादस्य समर्थनाय पराङ्मुखैः सांसदकैरणूत्थैः ।। 1।।
कुर्याद् भवान् किञ्चिदपि स्थितिं वा भजन्तु पातं यदि वा न चिन्ता ।
अमेरिकाभिः परमाणु सन्धि वार्त्ताभियोगं विषहामहे नो ।। 2।।
इत्येषका काचन घोषणास्ति नेतु र्दलानां खलु वामगानाम् ।
अवाम भावैरपि वामभावव्याख्यान शौण्डीर्य समुद्धुराणाम् ।। 3।।
तात्पर्यमेषां न हि किञ्चिदन्यद् शास्तृत्वहानिं परिहाय ये हि ।
वैराधिकास्ते तु सदैव तिष्ठन्त्यत्युत्सुकाश्छिद्रगवेषणाभिः ।। 4।।
काङ्ग्रेसिनोऽस्मिन् समये गताः क्व क्व वा गता भाजपया गृहीताः ।
राष्ट्रोन्नतौ बाधकथामिदानीं कथं सहन्ते धृतराष्ट्रकल्पाः ।। 5।।
यद्वै व्यधायि मुरजित्प्रतिपन्थिना श्री-
श्रीवाजपेयिविरुदेन विधीयते तत् ।
संप्रत्यपि क्षपयितुं मनमोहनस्य
सिंहस्य शासनमिदं खलु वाममार्गैः ।। 6।।
यच्छासनं भवति संप्रति तस्य पातो
भूयात्, समृद्धयतु न वार्थ इहाऽवरोद्धुः ।
एषाऽस्ति नीतिरधुना ननु राष्ट्रघात-
तात्पर्यभाक्षु विपरीतदलस्थितेषु ।। 7।।
वृद्धिर्भवेन्ननु न मे, परमस्तु नैव
कीर्त्तिप्रवृद्धिररिभावमुपागतानाम् ।
इत्येषु आत्ममुखभञ्जनतः परस्या-
माङ्गल्यमस्त्विति कषायितचेतनानाम् ।। 8।।
घातोपघातविनिपातकषायितानां
चेतःसु निर्ममतया व्यवहारभाजाम् ।
को वा निजो ननु परश्च क इत्यभीद्ध-
वैराग्नि दग्धसुमनस्कतयाऽञ्चितानाम् ।। 9।।
शास्तुर्धनं यदि विनश्यति का नु हानि-
र्नः स्वार्थमात्र-परमार्थ-परायणानाम् ।
निर्वाचनोत्थधनहेमगिरिक्षयेऽपि
नास्त्यप्रियत्वपरमा धिषणा ह्यमीषाम् ।। 10।।
बाहुल्यमेव जनसंसदि लोकसंस-
न्नाम्नाऽभिधित्सितिमितार्थसदस्यकानाम् ।
केनापि राजनयिकेन कबन्धमात्र-
भावः शिरोविरहितत्वमयोऽभ्यघोषि ।। 11।।
तद्युक्तमेव ननु सोऽपि कबन्ध एष
उद्यद्गृहीतकरवाल-करालकोऽस्ति ।
यस्य प्रहारपरवश्यतया कदाचित्
कृत्येत तस्य निज एव करोऽथवाङ्घ्रिः ।। 12।।
मूर्खैरकारि मतदानमथाभ्यघोषि
निर्वाचितः शपथमेष तु यं करोति ।
तत्प्रातिकूल्यमधुना श्रित एष कार्यं
राष्ट्रस्य रक्षणविधेः कुरुते विरुद्धम् ।। 13।।
नास्त्यस्य चेतसि भयं परमेश्वराच्च
धर्माच्च किञ्च चलितादपि संविधानात् ।
को वा निवारयितुमेतमिदंक्षणे स्या-
च्छक्तः प्रमादमपि धर्म इति ब्रुवत्सु ।। 14।।
सर्वः क्षुरं परशिरःस्थितकेशजात-
सङ्कर्त्तनाय यतितश्च, जटां स्वशीर्षे ।
रूदां न पश्यति, न पश्यति किञ्च तत्र
निर्दंशदुष्टकटुकण्टकिनोऽपि लिक्षान्/यूकान् ।। 15।।
मत्स्यान् यथा सुरभिसंहननानि कर्त्तं
कर्त्तं नितान्तनिघृणत्वमुपेयिवांसः ।
कं वा पुमर्थमुपलभ्य शमं लभेर-
न्नित्येतदस्ति विदितं न सनातनेभ्यः ।। 16।।
श्वेतेऽर्वति प्रमहति प्रविशालवंश-
प्रांशौ स्थितोऽस्ति यदि चेदयमात्मशंसी ।
किं वा प्रशंसन करं कुरुतात् स्वयं हि
यत् स्वस्य वाहनपदस्य चकार हानिम् ।। 17।।
अग्रेसिसर्मि न च मे पुरतः प्रवृत्तिं
धत्तः पदे किमपि कण्टकिनि स्थलेऽस्मिन् ।
एषा न वै विवशता ननु कण्टकस्य
शोधः पुरश्चरणति प्रिययासुताढ्यौः ।। 18।।
शौवापदीं यदि नरोऽपि भजन् प्रवृत्तिं
यातो भविष्यति कथं मृगयोः शरेभ्यः ।
संरक्षितः, क्षरति वा स्वयमप्यनन्य-
रक्षी हहा द्विपदहीनपशुः पिशाचः ।। 19।।
देशोऽयमस्ति मम भूमिरियं मदीया
नान्यस्य कस्यचन कश्चिदिहाधिकारः ।
साम्यं वदिष्णुभिरियं मतिरार्यजुष्टा
नेत्येव साधयितुमिष्यत इद्धदीक्षैः ।। 20।।
किं तर्हि पाकबॅगलागतभूमिभागौ
नो भारतीयवसुधातलभूविभागौ ।
यद्वाऽन्यथावदति भारतवर्षमेतत्
प्रत्येव काचन हितास्ति विरुद्धवृत्तिः ।। 21।।
एषां न संयममयी रसना वदन्ति
ते तेऽस्त्यदो हि ‘भगवाकरण’-प्रवृत्तिः ।
एतन्मतेन शिवराज इति प्रतीतो
दस्युत्वदिग्धचरितो हि बभूव वीरः ।। 22।।
ऐतिह्यमारभत एषु भुवोऽस्मदीया
या आगमात् परमिहारव वासिनां हि ।
तत्रात्यसौ प्रथमपादयुतोऽस्ति पश्चा-
दीसामसीहजननान्न ततश्तु पूर्वम् ।। 23।।
सान्तत्यमावहति चेन्न हि तत्प्रमाणं
लेखो यदि प्रमितिकारणमस्य नास्ति ।
लेखात् पुरो भवदपि क्वचिदप्यभूत
एवाभिमन्तुमहहा न वयं क्षमाः स्मः ।। 24।।
चरमो विधिशास्त्रविद् व्यनक्ति
न हि शक्यं ननु रक्षणं गतानाम् ।
अवधिः खलु कश्चनाप्यवश्यं
ननु निर्धारयितव्य एव भावी ।। 25।।
च्युतिरेव विधेर्यदाप्तुमर्हे जनतन्त्रे परिरक्षणाभिरस्य ।
अनवाप्तिरथाप्तवद्भ्य उच्चैः पदवी संप्रतिपत्तिरप्युदग्रा ।। 26।।
भरतो वदति प्रणम्य देवावुभयोरन्यतरस्य वाचमेषः ।
वदितास्मि, स वै नियोग आद्योऽप्यपराधो हि, स दूरतोऽपसार्यः ।। 27।।
अपसारितवानिदं न कश्चित् परमेकः स सनातनः स्वभाष्ये ।
अपरे नहि तं विसोढुमीशाः स्वशिरो संधुनुयुर्नितान्तकष्टाः ।। 28।।
प्रतिसांसदमस्ति कोटिरेका व्ययहेतोः स्वपरीसरे तयाऽपि ।
उदरस्य निजस्य पूर्त्तिमाद्यां निभृतं साधयितुं त्विमे समर्थाः ।। 29।।
अथ निर्ममया चिता परेषामपचायो हि चिकीर्षितः समेषाम् ।
अपचायसभेति संसदः स्यादपरं गर्हितगर्हितं तु नाम ।। 30।।
येषां गर्जनतः स्रवन्ति हरिणीगर्भाश्चलन्त्यद्रयो
वेपन्ते ककुभां पतित्वमयिताः स्तम्बेरमाधीश्वराः ।
तेषां चण्डि! तवासनत्वमहितानां केसरीन्द्रान्वये
जातानामधुना प्रशासनधुरं बिभ्रत्यहो फेरवः ।। 31।।
अस्माकं खलु पत्रमस्ति वयमेवास्यास्महे न्यासिनो
वक्तव्यं कथमत्र चित्रसहितं नैव प्रकाशिष्यते ।
येऽन्ये ते किमपि ब्रुवन्तु नतु ते केनापि मार्गेण नो
लब्धुं शक्नुवतेऽवकाशमिति तत् साम्राज्य वादो ह्यसौ ।। 32।।
कार्यं यः कुरुते नितान्तमुचितं स्पृष्टं न केनापि यत्
तत्राप्याशु दधाति मूलकलनामन्वीक्ष्य तां तां दिशम् ।
सोऽयं कश्चन चेत् कुटीचर इयं भूमिर्न तस्यास्पदं
स्वर्गं यातु रसातलं यदि न सः, पृथ्वी त्वहो नेतृणाम् ।। 33।।
या कालिदासमुपसीदति सा हि रथ्या
नान्यं कमप्यति शयाञ्चित साहितीकम् ।
एषाऽस्ति यत्र गतिरुच्चपदस्थितानां
तस्मिन् युगे क्व कवितालतिकोपबृंहेत् ।। 34।।
शृङ्गारमुच्चतरकामविकारमूर्च्छद्-
धर्मव्यवस्थितिकमस्ति तु चर्वितुं धीः ।
क्षेत्रे चरन्तमृषभं न निवारयन्तु
श्वानं च दीर्घवपुषं निभृतं धयेयुः/परिपालयेयुः ।। 35।।
रात्रिञ्चराऽचर चरिष्णुयुगान्तराल-
निर्वस्त्रचार! खचरत्वमनर्गलं हि ।
आयुर्गमिष्यति भविष्यति किन्तु तृप्ति-
स्ते सर्पिषेव दहनस्य न वै पिपासोः ।। 36।।
पीतं पुनः खलु पिपाससि तीव्रवर्षः,
पीतं पुनः खलु पिपासतु नास्ति हानिः ।
यावत् तु पेयमिह किञ्चन लभ्यमस्ति
लभ्येतरत्र तु दशा तव भाविनी का ।। 37।।
एतत् सरः परित एव परिप्लुतं वै
तोयैर्निदाघ विगमे नभसः पतद्भिः ।
शुष्के तु पङ्कमलिने क्व नु चञ्चुचर्या
तेऽम्भोजकन्ददलनेऽपि पटुर्भवित्री ।। 38।।
क्रौञ्चे हते मृगयुना यदि कश्चिदार्त्तो
रामायणं ग्रथितवान् कविरादिमश्चेत् ।
हंसे हते तु किमु तेन बतारचिष्यदा-
र्त्तेन दाशरथये कविताविधात्रा ।। 39।।
वैदर्भीकेलिलीलारसरसिक! किमु ग्रावखण्डात् पतन्त्या
स्रोतस्विन्या भवित्री तव हृदयमिदं शान्तमन्धं तृषा यत् ।
स्रोतस्वेतेषु मिश्रो न खलु न भवत्यद्भुतक्षारताढ्यैः
कारस्कारै रजोभिः प्रगुणितकटुता कोऽपि नैम्ब्योऽपि सारः ।। 40।।
यद् युक्तमद्य ननु तत् परिभुक्तमेव
श्वो भोक्ष्यते तु यदिहास्ति तदप्युपात्तम् ।
किं वा भविष्यति परश्व इति त्ववेक्षां
कर्त्तास्मि वा यदि न वा तु परश्व एव ।। 41।।
श्वश्चेत् स्फुटिष्यति वमं भवितासि मूर्ध्ना
व्यारेचितः क्व नु भविष्यति जाठरोऽग्निः ।
एवं विरेचितशुगस्मि विभावरीं मे
सौख्येन यापयितुमद्य परं समुत्कः ।। 42।।
श्वोऽर्कोऽभ्युदेष्यति न वेत्यविनिश्चयेन
क्लान्तस्य मे न नयनं भजतीह निद्रा ।
निद्रातु दीर्घतमरात्रिविरामकालं
यावत् ततस्तु तव काल उपस्थितो हि ।। 43।।
सन्दानितेन निजबन्धुतया जनेन
नो चेत् क्षमं श्वसितुमद्य किमेष कुर्यात्! ।
स्वत्वस्य नाश इति केचिदुदस्तलोका
अन्ये समाजमतिकास्तु निजस्य हन्त ।। 44।।
स्वत्वं विनाश्य सुगता विरुवन्ति, तीव्रे
वेगे चरन्ति च शमं परमैः पदार्थैः ।
सर्वैर्निजैः परिवृतश्च सहिष्णुताढ्यो
धर्मं सनातनमभीक्ष्णमुपाददाति ।। 45।।
रासं करोति मुरलीधर ईप्सिताभि-
र्गोपीभिरिष्टतमतां गमितोऽपलज्जम् ।
किं राम इत्यभिधयाऽन्वित एष रासं
नैवातनोत् सुतनुकाभिरवाप्य लङ्काम् ।। 46।।
लङ्कारणे न खलु कोऽपि शरीरधारी
प्रत्यर्थितामधृत यस्त्वधृतैष आसीत् ।
सिद्धान्तपक्ष इति यस्य मतिस्सदैव
सोऽयं शरासनकरो हि विभाव्यतेऽत्र ।। 47।।
एको बभूव ननु पक्ष उदारतारः
साकेतनाम्न उदितात्मगुणस्य धाम्नः ।
यस्मिन्नवातरदपि प्रभुरात्तमाया-
रंहश्चतुष्टयमवाप्य तु विग्रहाणाम् ।। 48।।
अन्यस्तु पक्ष उदितोऽभवदत्र लङ्का-
द्वीपे दशानन दशानन-तृप्ति-हेतुः ।
एकोदरस्य दशभिर्यदि निर्विरामा
भुक्तिर्मुखैर्ननु बुभुक्षतु विश्वमेतत् ।। 49।।
नो संस्कृतं भवति हन्त समर्थमर्थ-
लाभाय तेन न पठन्ति जानास्तदेतत् ।
अत्रानुयोग उदियात् स न किं तदेतत्
सम्यक्पिपासति युतः खलु योऽर्थजातैः ।। 50।।
राष्ट्रस्य रिक्थमिदमस्ति ततोऽस्य रक्षा-
प्यस्त्येव धर्म इति ये न विचारयन्ते ।
अर्थेन सौख्यसुलभेन परिप्लुतास्ते
तिष्ठन्तु तुष्ट-हृदयाः, निभृताः पिशाचाः ।। 51।।
पैशचिकीं चरति यः खलु वृत्तिमर्थे
तेनैव सर्पिषि वसा क्रियते विमिश्रा ।
कस्मिन्नु हन्त निरये स निपातनीय
इत्यस्ति नैव सुशकं विनिगन्तुमार्यैः ।। 52।।
तस्यास्तु चूर्णममलं प्रतिचूर्णखण्डं
पात्यस्तु वज्रदहनः, दहनस्य चास्य ।
वक्त्रे निपातनमथाऽस्त्युचितं सहस्र-
कारस्करीयरजसां विनिपातनं तु ।। 53।।
तत्रापि चेद् भवति जीवित एव तस्य
वक्त्रे श्वमूत्रमभिषेककृतेऽभियोज्यम् ।
शय्या शरैश्च वमदग्निमुखैर्विरच्य
तस्यै स एष पशुराशु समर्पणीयः ।। 54।।
तस्याक्षिणी च परितप्तशलाककाग्रै-
र्दाह्ये तनोश्च कणशः खलु रोमकूपे ।
वह्निर्निपात्य पवनैः परिधुक्षणीयः
कालानिलेन यदिवोरगफूत्कृतेन ।। 55।।
इत्येष निर्णयमुदीरयते कवीन्द्र-
गोत्रं सनातनतया प्रथमानकीर्त्ति ।
पाप्मा भयेन खलु चित्तगुहागतेन
शाम्येत, नास्ति खलु तत्र शमं क्षमं यत् ।। 56।।
करपङ्कजयोः कुमारकाव्यं
भवतूपायनसत्तमस्त्वदो मे ।
कविताऽमृतसिन्धुमन्दराणां
यदि लक्ष्मीमलसिंघवी’-ति नाम्नाम्।। 57।।
पुराणशैल्या रचितोऽपि नूत्न
नूत्नः, प्रबन्धो हरदत्त सूरौ ।
नवीनकाव्यप्रतिमानभूतेऽ-
प्यवश्यमेव प्रिय एव भावी ।। 58।।
डा. हरदत्त शर्मा, इलाहाबाद।
भैषज्यशास्त्रे निपुणा नवीना-
श्चिकित्सकाः सर्पिषि विद्विषन्ति ।
प्राचीनभैषज्यविदः पुनस्तद्
आयुष्यदं सस्पृहमर्चयन्ति ।। 59।।
श्रीशङ्कराचार्यवराः प्रयाता
मोक्षं परित्यज्य शरीरधातून् ।
येषां वयोऽभून्ननु नैव लब्ध-
माकाशवेदानपि धिग्धिगत्र ।। 60।।
गच्छन्ति संन्यासकषायवस्त्रा
वैदेशिकेष्वप्यवनेः स्थलेषु ।
लब्ध्वार्थसंभारमिमे रमन्ते
मठेष्वतीवार्थ-परिष्कृतेषु ।। 61।।
संस्थापयन्तः खलु तेषु केचित्
कन्या-प्रशिक्षा-लयकाञ् जुषन्ते ।
कन्याभिरात्मार्चनमादरेण
माल्येन पूर्णकलशेन च पुष्पवर्षैः ।। 62।।
सर्वं शुभं शान्तमनस्सु योगिवृन्देषु चेदस्तु न कापि पृच्छा ।
उल्लङ्घनस्यात्मयमाध्वनस्तु न रक्षणीयोऽवसरो न वै किम् ।। 63।।
यदा तु काशीगतविश्वनाथपिण्डप्रतिष्ठा विहता विरुद्धैः ।
तदा विरोधो विदधे महीयान् तर्केण युक्त्या करपात्रपादैः ।। 64।।
गवां वसा सर्पिषि डालडाख्ये विमिश्र्य धर्मिष्वपि पर्यवेषि ।
तद् गर्हणां श्रीकरपात्रपादाश्चक्रुस्तरां तीव्रतमैर्वचोभिः ।। 65।।
यं भीमरावो विधिशोधनेन विवाहविच्छेदनमार्गशुद्धिम् ।
चकाङ्क्ष तस्यापि विरोध उच्चैश्चक्रेतमां श्रीकरपात्रपादैः ।। 66।।
चीनैर्यदाक्रामि च तेजपूरतैलस्थलीं यावदुपागतं च ।
तदा तु ‘वग्लामुख’-मातृशक्तिर्न्यवारयत् तानिति यो जुघोष ।। 67।।
पीठाधिपोऽभूद् दतियानगर्यां स्वामी महान् दार्शनिको य एकः ।
तेनैव तन्त्रेऽप्यभियोगभाजा चक्रे तदानीं खलु योग एषः ।। 68।।
अन्ते महामन्त्रजपस्य रात्रौ यो दीयते स्मात्र बलिप्रपिण्डः ।
तं नित्यमेवोत्थितभीमरावा शिवा चखादैव विना विरामम् ।। 69।।
श्रीचक्रयन्त्रं च महामतिः स तत्र प्रतिष्ठापितमूर्त्ति चक्रे ।
चक्रे व्यवस्थां च विधानशुद्धां तावच्च शक्तेरिह सन्निधानम् ।। 70।।
धूमावतीमातुरपि प्रतिष्ठां चक्रे स एवाधिरहस्यवेत्ता ।
तां तीक्ष्णदष्ट्रां बलिभुग्रथस्थां दरिद्रवृद्धावपुषं विधाय ।। 71।।
पटीवृतां तां प्रतिसन्ध्यमेव दृश्यां करालीं जगदम्बिकां ते ।
आराध्य संसार-महासमुद्र-तरङ्गभङ्गं फलमादिशन्ति ।। 72।।
आगत्य सा सिद्धिदिने करोति विरावमुच्चैर्भर मे क्षुधार्त्तम् ।
कुक्षिं प्रवाद्याथ च सूर्पमुच्चैरन्नस्य शैलानपि चट्करोति ।। 73।।
शत्रोश्चमूनामुपशामनाय सैका क्षमा काकरथा कराली ।
स्वभक्तरक्षां निजसूर्पपृष्ठध्वानैकसाध्यां तनुते क्षणेन ।। 74।।
धूमावतीसूर्पसमुत्थितश्च ध्वनिस्तु पश्चाच्घ्रवसी समेति ।
ध्वनिस्तु शत्रोः क्षपणस्य पूर्वं, सा कापि काली हि करालगात्रा ।। 75।।
अम्ब! त्वदीयो महिमा दुरन्तवीर्यो यतस्त्वं हि परात्परा श्रीः ।
त्वमेव धूमावतिका-शरीरधारिण्यहो त्वं हि सुतार्त्तिहन्त्री ।। 76।।
विलान्तरे यः प्रविवेश तस्मै पृदाकवे को नु ददाति दुग्धम् ।
परन्त्वमी भारतवासिनः स्मस्तत्रापि पात्रीं पयसः किरामः ।। 77।।
सर्वापि भूमिर्भगवन्निवासमही क्षणाश्चैव समेऽपि पुण्याः ।
समेऽपि जीवातुभृतः सगन्धा क्षुधं मुदाऽन्यस्य तु शामयामः ।। 78।।
न गर्वगर्भां गिरमुद्गिरामो विषेण दिग्धं न जलं पिबामः ।
सौस्थ्येन युक्ता यमिनः सहैव सर्वैरिमे नर्त्तनमाचरामः।। 79।।
माता भवानी भवताण्डवाक्तं लास्यं निजं संतनुते प्रसन्ना ।
दद्मश्च सर्वे तनयास्तु तालं तत्रैव तद्रूपसुधां धयन्तः ।। 80।।
सा स्विन्नगात्री न कदापि धत्ते विरामगाथां क्षणिकामपीद्धाम् ।
अभीद्धसन्तापमहाव्रता सा क्षेमं सयोगं तनुते सुतेषु ।। 81।।
तत्क्रोडलीना दशनैर्विहीना इमे समे तत्तनया लसामः ।
तच्चिन्तिता वीतभयामयाश्च समृद्धिवृद्ध्या च निषेव्यमाणाः ।। 82।।
विश्वम्भरे! त्वमसि सर्वशरीरभानां
धात्री विधात्री च कुरुष्व रक्षाम् ।
कुटीचराणां नगरौकसां च
प्रशस्तपद्माश्रयिणां समेषाम् ।। 83।।
सर्वोऽपि दुर्गाणि तरेत् समोऽपि
भद्राणि भद्राणि सदा हि पश्येत् ।
उषःक्षणत्वं वृणुयुश्च सन्ध्या-
क्षणाः समे स्वस्त्ययनेन सिद्धाः ।। 84।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘विश्वस्वस्त्ययनो’ नाम षट्पञ्चाशः सर्ग ।। 56।।