तृतीयः सर्गः
वार्त्तैकविद्या द्रविणैकचित्तास् त्रयीप्रधानैः सह भारतीयैः ।
अवाप्य दिल्लीमपि हार्दमैक्यं नाशक्नुवन् प्राप्तुमिहाङ्ग्लभूपाः ।। १।।
ललाटपट्टे ननु भारतीये विभ्राजमानस्तिलकस्य बिन्दुः ।
शूलाग्रजश्चक्षुषि यत्कृते ते कथं नु राष्ट्रेऽत्र रतिं दधीरन् ।। २।।
ये वासतेयीषु पिबन्ति मद्यं विवाससः स्नान्ति, नटन्ति नग्नम् ।
मलानि देहान्न निवारयन्तस्तेऽस्यां धरित्र्यां प्रभवः कथं स्युः ।। ३।।
वासतेयी रात्रिः। शौचालये कर्गदप्रोञ्छना ह्यत्र प्रमाणम्। अस्यामित्यर्थान्तरसंक्रमितम्।
अस्यां धरित्र्यां यजमानरूपा उग्राः शिवा यत्र पुरश्चरन्ति ।
ग्रामेष्वरण्येषु पुरेषु पुंसां पुञ्जेषु वृन्दारक-वन्दितेषु ।। ४।।
अस्यामिति प्रभवः कथं स्युरिति पूर्वपद्यस्थेनार्थेन योज्यम्। एवमग्रेऽपि। अष्टमूर्त्तिः शिवः पञ्चभूतचन्द्रसूर्ययजमानरूपः। तत्र यजमानमूर्त्तिः शिव उग्र इत्यागमिकेषु प्रतीतः। रघुवंशस्य ५-४ पद्यस्य ‘चैतन्यमुग्रादिवे’-तिपाठे हेमाद्रेर्दर्पणोऽत्र दृश्यः।
अस्यां यदङ्के प्रवहन्ति तास्ताः स्वच्छप्रवाहाः सरितः पवित्राः ।
उच्चैश्शिरस्सु प्रवरा यदीया महागिरीन्द्राः प्रभवा भवन्ति ।। ५।।
सरित्सु कुलकन्यकात्वमत्र व्यङ्ग्यम्।
यासां नरा दर्शनमात्रतोऽपि समाधिमाभ्यन्तरिकं भजन्तः ।
तीर्थोत्तमत्वं विमलं स्वकीयं प्रकाशयन्ते ननु निर्विकाराः ।। ६।।
निर्विकारत्वं तीर्थत्वस्य लिङ्गम्। तीर्थत्वमाचार्य्यत्वमपि।
काका वका वञ्चकसन्निपाता विचित्रवर्णा कृकलासकाश्च ।
यत्सन्निधौ त्यक्तसमस्तदोषा वृत्तेषु सिद्धानपि लज्जयन्ते ।। ७।।
वञ्चका गोमायवोऽपि। सिद्धा योगसिद्धिमन्तः।
यस्या मनोज्ञां ननु गात्रयष्टिमेकोनपञ्चाशदमी समीराः ।
पवित्रयन्ते व्यजनानि भूत्वा पूतिव्रजं दूरमपस्किरन्तः ।। ८।।
समीरा एकोनपञ्चाशदिति पुराणविदां सम्प्रदायः।
ब्रवीति यस्यां ललनाललाटे प्रियेण रागेण समं प्रदिष्टम् ।
सौभाग्यचूर्णं मनुजस्य मुग्धां लालित्यलक्ष्मीं ननु काव्यवाग्भिः ।। ९।।
चकास्ति यस्यां भरतस्य मूर्धा प्रतीकभूतो विरजस्कतायाः ।
विनापि पित्रोरनुयोगमासीदौचित्यमात्रेण हि यो जटालः ।। १०।।
सुवर्णमय्यां दशकन्धरस्य पुर्या तदीयान् प्रणयान् विलङ्घ्य ।
पणीकृतप्राणपतिव्रतात्वस्थिरां प्रसूते जनकात्मजां या ।। ११।।
स्थिरास्थिरद्वन्द्वसमीक्षणासु वेदान्तसिद्धान्तविभासितासु ।
अन्तर्दृशं योपनिषत्सु नित्यं विकोशितां निर्विषयां च धत्ते ।। १२।।
विकोशिता दृग् भावप्रकाशनादिषु प्रसिद्धा।
या शैशवेऽभ्यस्तसमस्तविद्या मध्यं वयः सृष्टिहिते निधाय ।
ज्योतिष्षु नित्यं तमसः परेषु प्रलीय शान्तिं क्षमतेऽधिकर्त्तुम् ।। १३।।
तथा च रघुवंशे ‘सोऽहमाजन्मे’ति।
सर्व्वात्मना या खलु सर्वदैव सर्व्वाणि सर्व्वेष्वपि देहभृत्सु ।
करोति मातेव तनूद्भवेषु वैराण्यनुत्थानपराहतानि ।। १४।।
१४-१८ पद्यर्यन्तं यमानां प्रतिष्ठा।
यस्यां न वाणी मनसा कदापि धत्ते विसंवादमयं विरोधम् ।
बिम्बेन साकं प्रतिबिम्बमूर्त्तिर्यथाऽतिशुद्धे मुकुरे स्वभावात् ।। १५।।
परस्य यत् तत्र तु वस्तुजाते विनाऽभ्यनुज्ञामधिकारभाजः ।
नयो न यस्यां मनुतेऽधिकारं प्राणात्ययेष्वप्युपपादितेषु ।। १६।।
या ब्रह्मचर्यस्य परात्परस्य क्षोदीयसीमप्यधिकोशषट्कम् ।
स्वप्नेऽपि वै ग्लानिरुजं न जातु प्रभुर्विसोढुं मनसाऽप्यलक्षि ।। १७।।
गर्धाग्नयो यां करणेषु दग्धुं समुत्सहन्ते न कदापि दान्ताम् ।
यामष्टमूर्तिर्भगवान् धिनोति स्वयं, ततो या न परिग्रहिष्णुः ।। १८।।
अध्यात्मसंज्ञस्य गुरूत्तमस्य श्रुत्वा त्विमं धर्ममहोपदेशम् ।
अपि द्युलोकाध्युषितानि दिव्याऽऽक्रष्टुं क्षमा या खलु दैवतानि ।। १९।।
या साम्मनस्यश्रुतिजञ्जपूका न कान्दिशीकत्यसुसंकटेऽपि ।
सूतेतराममभ्युदयास्मिते चिद्भट्टारिकाकल्पलतां च सुस्था ।। २०।।
अतश्च यां सौगतसौविदल्ला जिनोक्तिषु श्राद्धहृदश्च सन्तः ।
स्वजन्मना भूषयितुं क्रमन्ते तथा यथा वेदविदो महान्तः ।। २१।।
अतश्च संवत्सरचक्रवालं वक्रोक्तिसंख्यैर्ऋतुभिर्मुदा याम् ।
शृङ्गारयित्वा रमयन्ति चेतो जगन्मृषेत्यागमिनामपीद्धम् ।। २२।।
वक्रोक्तयः षड् भवन्तीति कुन्तकालङ्कारे वर्ण-प्रकृति-प्रत्यय-वाक्य-प्रकरण-प्रबन्धत्मानः प्रतीतिचराः।
यां दक्षिणाब्धिश्चरणाम्बुजाते यां हेमकूटोऽचल उत्तमाङ्गे ।
यां बालुकाब्धिश्चरमे दिगन्ते निषेवते ज्योतिरिवोदयाङ्गे ।। २३।।
बालुकाबब्धिः कल्हणे प्रसिद्धः। ज्योतिः प्राग्ज्योतिषम्।
यद्रामकृष्णाववतारमुख्यौ परार्थमुख्योऽप्यथ यद्दधीचिः ।
हिंसाऽनृतस्तेय-परिग्रहेभ्यः प्रच्यावयन्ते समुदीर्णकामान् ।। २४।।
अस्यां हि भूम्यां परया विभूत्या पश्यन्तिकायामथ मध्यमायाम् ।
आढ्याम्भविष्णुर्ननु वैखरी नः पिपर्ति साध्वी कुलकन्यकेव ।। २५।।
रसाधिकायामिह नो तरङ्गा न चाप्यमीषां परिघट्टितानि ।
समाद्रियन्ते कवितेति नाम्न्या ब्रह्मर्षिराजर्षितपोदुहित्रा ।। २६।।
मनुष्यभूमाविह शेषशायी विष्णुः परं दैवतमस्ति, यो वै ।
आवेष्ट्या विश्वं सुकृतां जनूंषि श्रिया समं प्लावयते सुधाभिः ।। २७।।
स्वैरं चरन्ती खरदूषणानां स्वसा न वै भारतभूमिपुत्री ।
तन्नासिकाच्छेदपटुः कृपाणस्त्वभूत् सुतः कश्चन भारतीयः ।। २८।।
यां राजनीतिर्दशकन्धरघ्नी कैकेयपुत्रयात्मतया स्तृणीते ।
विभीषणो नीतिविशारदत्वं यस्या हि मातुः कृपया वृणीते ।। २९।।
अस्यां ह्यभूत् काचन पेशवानां क्षिप्रातटादेव निवारितेषु ।
लिलेख या केतुषु कीर्तिगाथां दिव्यामहल्या जननी प्रणम्या ।। ३०।।
दुर्गाम्बिकाऽप्यत्र हि शुम्भहन्त्री चामुण्डिकेवाविरभूद् गढासु ।
यद्रक्तबिन्दुः पतितो धरित्रयां परार्धतां प्राप्य जिहिंस हिंस्रान् ।। ३१।।
चेन्नाम्बिकेमां हि पुपाव धात्रीं यस्यां हि शौर्यं हि बभूव रक्तम् ।
शौर्यं हि मांसं रिपुघस्मरं च शौर्यं हि सौभाग्यगुणोऽद्वितीयः ।। ३२।।
गन्धारराजस्य सुतेव साध्वी पञ्चालराजस्य सुतापि यस्याः ।
यथार्थयत्यक्षरशोऽभिधानं महीति पृथ्वीति वसुन्धरेति ।। ३३।।
आसां समासां बलवीर्यधैर्य-स्थैर्यश्रियां संघटनेन कच्चित् ।
लक्ष्मीमिमां ब्रह्मविदां वरिष्ठो ब्रह्मा व्यधात् साध्वसवीतचित्ताम् ।। ३४।।
अशान गार्हस्थ्यमवाप पुत्रं झाँसीश्वरीत्वं नु सुता यदीया ।
तां सान्नपूर्णस्य विभोः पुराणीं पुरीपुरन्ध्रिं स्म नुवन्ति सिद्धाः ।। ३५।।
अश्वेन पृष्ठप्रतिबद्धपुत्रा सा निर्धवाऽधावदुदङ्मुखा यत् ।
स्वातन्त्र्यलक्ष्मीर्भरतस्य धात्र्यां प्रादुद्रुवत् प्राचकसच्च तन्नः ।। ३६।।
गोपार्द्रिदुर्गस्य, शरीरपाते तस्यास्तदानीमरिशस्त्रजाते ।
शृङ्गाण्यलिप्यन्त मलीमसेन स्थितस्य तूष्णीं तमसश्चयेन ।। ३७।।
काशी प्रचुक्रोश रुरोद तारं प्रयागराजो व्यलपच्च काञ्ची ।
यद् धर्मभूमाविह पीवरत्वं दधावधर्मो हि तटस्थताख्यः ।। ३८।।
असङ्घशक्तिर् महिषासुरीयैर् बलैर् विलङ्घ्येत महीति गाथा ।
न हि प्रथां नो भजतेऽत्र राष्ट्रे मृकण्डुसूनुग्रथितार्थशास्त्रे ।। ३९।।
मार्कण्डेयपुराणगतं सप्तशत्या मध्यमं चरितम्।
कटुं स्वबन्धुं प्रविहाय शत्रौ यदासजामः प्रियबैखरीके ।
स एव शापः प्रथमानमूर्त्तिः प्रजर्हरीति प्रसभं चितौ नः ।। ४०।।
वैदेशिकानामनयैव राज्यं मनीषयाऽस्माकमिह स्वकीये ।
राष्ट्रे महार्हेऽपि सहस्रमब्दान् व्यराजदुच्चैरभिसार्यमाणम् ।। ४१।।
तटस्थताऽस्माकमियं पुरापि पुरूनलक्षेन्द्रबलैरमृद्नात् ।
इयं हि दिल्लीपतिहिन्दुपृथ्वीराजान्तकास्यस्य बभूव दंष्ट्रा ।। ४२।।
तामेव गुप्तोऽपि स चन्द्रगुप्तस्याग्रेभवो राम इति प्रतीतः ।
रामस्य नाम्नोऽक्षरशः प्रतीपः प्रामाणयद्धन्त धरातलेऽस्मिन् ।। ४३।।
तां शक्तिसिंहाक्षरमालिकायां कलङ्कभूतोऽध्यकरोत् प्रतापे ।
तयैव वाणिज्यधनान् गुरुण्डानारोपयद् भूरियमाधिराज्ये।। ४४।।
अचकलत स कालः पूतनां तां विषाढ्या-
मिव मुररिपुरुग्रक्षार-दुर्धर्ष-पाकाम् ।
अचकमत च सद्यः प्रत्यनीकान् निरोद्धुं
भरतभुवनकोषे स्थापनां संघशक्तेः ।। ४५।।
अत उदभवदस्मिन् गोखलेमालवीय-
प्रभृतिरनुपमश्रीः सन्धिकाले स वर्गः ।
मनसि वचसि काये चापि यस्यार्य्यलक्ष्मी-
र्धृतवपुरिव साक्षाल्लक्ष्यते स्मैकरूप्यात् ।। ४६।।
उदभवदिह सन्धौ पर्वणां पुण्यदाना-
मिव सममुदितानां पश्चिमस्यां दिशि ग्लौः ।
यमभिदधुरतीव स्वच्छमाचारवर्त्त्म-
न्यमृत-कलशकल्पं गान्धिरित्यार्य्यशीलाः ।। ४७।।
अभवदिह महीयान् वाग्ग्मिताया वतार-
स्तिलककुलसमुत्थो बालगङ्गाधरः सः ।
नटति वदनरङ्गे यस्य वाग्देवता स्म
क्वणित-सरस-गीता-कर्मयोगोपदेशा ।। ४८।।
अनुवदति यमुच्चैर्मामकीनः स्वराज्यं
भवति खलु नितान्तं जन्मसिद्धोऽधिकारः ।
अहमिदमधिगन्ता नूनमेवे-ति वर्णै-
र्ग्लपितरिपुसमूहं द्यौर्भुवा निर्विरामम् ।। ४९।।
कविततिररविन्द-श्रीरवीन्द्र-प्रसादा-
द्यनुपमरसरीतिस्निग्धवाङ्निर्भयार्था ।
अपि गगनमिदानीं शान्तिपाठैरुदारै-
र्निबिडयतितरां स्मोद्बोधमाङ्गल्यपूर्णैः ।। ५०।।
अलभत किल तस्मिन् नूतना अर्थजाती-
ररुचिररुचिरार्थः काव्यबन्धस्य मार्गः ।
अविषययत यस्मिन् भावबन्धः समेषा-
मपि मनुजतनूनां राष्ट्रमेव स्वकीयम् ।। ५१।।
ऋजु-कुटिल-गतीनामध्वनामध्वनीना
भरतभुवनधात्रीस्तन्यपीना युवानः ।
परिणतवयसां तामान्तरैक्याभिधाना-
मुषसि रतिपरीताः सामिधेनीं प्रजेपुः ।। ५२।।
न किल रुचिरमासीद् भोजनं नापि पेयं
न च शयनममुष्मिन् पर्वणि प्राणभाग्भ्यः ।
अनुमुखपवमानावृत्ति रात्रिन्दिवं हि
प्रतिजनमिह राष्ट्रेऽमूर्च्छि वै मुक्तिमन्त्रैः ।। ५३।।
अङ्ग्रेजाश्चतुरुदधिं सवर्षगोत्रभू-
ध्रालिं भुवमधितस्थिवांस आसन् ।
उच्छेत्तुं न हि खलु तानपि प्रजानां
हृद्देशे समुदयमाप किन्तु भीतिः ।। ५४।।
प्रतितृणमिलापृष्ठे पापच्यमानतमो ह्यभू-
न्निभृतविसरः कश्चिद् राष्ट्रापरागधनञ्जयः ।
अनितरतुलावेगं तं वै तदा समकेतय-
न्नकृपणतमा विद्रोहाख्या बलस्य तु हेतयः ।। ५५।।
अयवनयवनानामैक्यमस्यां धरित्र्यां
यदभजत गरिष्ठां रूढिमर्वाग् युगेभ्यः ।
न खलु शिथिलमेतत् कर्त्तुमीष्टे स्म शत्रु-
र्गिरिमिव करिपोतः प्रत्यगुच्चैर्जिघांसन् ।। ५६।।
अथ भवति समाजेऽशान्तचित्ते प्ररोहान्
भजति खलु कृशानुर्विस्फुलिङ्गोत्तमानाम् ।
ग्लपयति खलु वन्यान् प्रान्तवृक्षान् प्रशुष्का-
निव नृपविधिजातान् प्राणदानेऽप्यकम्पः ।। ५७।।
न खलु शिरसि पातं दण्डिकीदण्डकानां
न च हृदि गुलिकाया घातजातं विभीषाम् ।
जनयितुमलमासीत् कालखण्डेऽत्र राष्ट्रे
धृतशवपटमूर्ध्नां शासनद्वेषिपुंसाम् ।। ५८।।
अपि चलति न याने मार्गपट्टक्षयेण
न च भवति परेषां तारसूचादि सूचा ।
उपहितमिव राष्ट्रं प्रान्तसम्पर्कजाते
प्रबलसलिलवर्षे मग्नवत् तिष्ठति स्म ।। ५९।।
अथ कतिपयवीराः शासकानां वरिष्ठा-
नपि बमविनिपातैः शातयामासुरुच्चैः ।
निजनिजजननीनामाशिषो मूर्ध्नि पाणौ
दधुरतिशयघोरान् स्फोटकाँश्च प्रहृष्टाः ।। ६०।।
अपगतमृतिभीतिः शस्त्रपातेऽप्यकम्पो
विचरति भुवि वीरः सर्वतन्त्रस्वतन्त्रः ।
स हि शिवति शवानां धामनि स्फीतचित्तः
पिबति गरलमह्नायैव विश्वं रिरक्षुः ।। ६१।।
मृतिस्मृतियुगाञ्चिते युवजने कराले गिरा-
विव स्वविजयाङ्कने क्षमत एव पारङ्गतः ।
स्वतन्त्रमृध उत्थिते भरतभूभुवां यौवतो-
ल्लिलासिषितिरद्भुताऽघटत कालिका भैरवी ।। ६२।।
यमस्य महिषो भुवि व्यचरदस्तभूरिक्षुधः
शशाम नु यमेन स प्रचुरपार्ष्णिघातैर्हतः ।
ववाम रुधिरं मुखादथ च पृष्ठवंशाच्च्युतं
चकार यममातुरं बत विहस्ततामाश्रितम् ।। ६३।।
अमर्त्यभुवनं न्वदो भुवनमाशु देदीप्यते
स्मरारि-मदनद्वयीप्रधनमज्जनात्मक्षणे ।
न वै शिवमहाप्रभुं शमयितुं क्षमेतातुरो
नरः खलु गतोऽपि सन् नृपतिभावमत्युल्बणम्।। ६४।।
प्रभुत्वमपि योषितामिव पतित्वमारोपितं
सदा भवति चेतसि स्फुरति चेतनामन्दिरे ।
यदा विरतिरुद्भवत्यथ विभातकाले निशा
तमस्ततिरिव क्षयं भवति हन्त याता रतिः ।। ६५।।
विरक्तहृदये निषेधति विधिर्विधीयत्यथो
निषेध उपपद्यते पल इहाशु समुपद्रवः ।
उपद्रवकषायिते भवति राष्ट्रगात्रोत्तमे
प्रशान्तिरहिते तपःस्थलशतेऽपि नो स्वस्तिवाक्।। ६६।।
सुरक्षिततमे गृहे निवसतां प्रभूणामिदं-
क्षणे न खलु दृश्यते हृदि सुरक्षणाश्वासना।
पयोऽप्रददती न किं रुजति दोहदक्षानपि
प्रभून्, सुरभिसत्तमा मशकदंशकैः खादिता ।। ६७।।
सूर्यः शशाङ्कति तु तत्र बलोऽबलत्व-
मग्नं स्पृशत्यथ न तत्र पराक्रमित्वम् ।
स्वातन्त्रमेदुरमतीन् जनतान्त्रिकत्व-
स्पर्धाजुषां सुजनुषां क्व ततो निरोधः ।। ६८।।
क्व च विधृत साधवो विगतभीर्लघीयानपि
प्रशातृवरतान्वितं क्षपयते परं स्वामिनम् ।
गतोऽथ यदि वन्दितां स्मितमुखो यमस्यालयं
प्रयाति विवृतं स्वयं विशति नाकमार्गं क्षणात् ।। ६९।।
समाश्च सुरवल्लभाः सुमनसां स्रजः हस्तयो-
र्विधृत्य विदधत्यमून् समभिनन्दितान् कुर्वते ।
न तत्र खलु दृश्यते स खलु घातितोऽत्याहितं
विधाय विलयं गतो निरयमार्गमेषोऽथवा ।। ७०।।
न च हृदयविशाला नायका शान्तिमार्गा-
दपरसणमनुज्ञानेन युक्तं चकाङ्क्षुः ।
न च नियमनमेतत् पालयाञ्चक्रुरार्या
निजगृहपरिरक्षाबद्धकक्षा युवानः ।। ७१।।
भवति भवनवहन्योः सन्निपातः क्वचिच्च
क्वचिदथ सलिलानां भ्रंशयोगः प्रसह्य ।
यदपि चलति मार्गे यात्रिकाणां तदीयः
क्वचिदपि विनिपातश्चर्यते क्वापि रोधः ।। ७२।।
प्रतिदिनभटसंख्या वर्धमाना बभूव
प्रतिदिनमथ शास्तृनन्वमीलद् विभीषा ।
न हि परिगतशत्रुप्रक्रमः कोऽपि शास्ता
प्रभवति सुखनिद्रासौख्यमाप्तुं कदापि ।। ७३।।
आक्रान्तुरस्ति विपुला मतियोजना तां
नो रक्षिता प्रथममाकलितुं क्षमेत ।
स्थैर्यं गते च कलहे निधनेऽपि रुष्टा
भीतिं भजन्ति नहि नाशपथं श्रयाणाः ।। ७४।।
नाश्यः परः स्वयमपि प्रतिपद्यते वै
तामेव चेद् विपदमत्र न कापि भीतिः ।
अग्रेसरन्ति शिरसि श्रितमृत्युपट्टाः
कस्तान् निवारयितुमत्र भवेत्तु शक्तः ।। ७५।।
एको जनो भवति चेद् विपरीतमार्गो
तं शक्नुवीत तु निरोद्धुमलं प्रशास्ता ।
सर्वेषु वै विपथगामिषु किं नु शक्यो
रोधो नभस्तलगतोडुगणस्य यद्वत् ।। ७६।।
जनेन सह यो कलिः स खलु लम्भ्यते जन्म चेद्
विनाश्य नृपतिं न स प्रशममाप्नुते कर्हिचित् ।
इति प्रथितबुद्धयः प्रभुषु केचिदात्मश्रुतिं
निशम्य परिणामगां विफलताममन्यन्त ताम् ।। ७७।।
मुहुर्भवति शासनाधिकृत-नेतृ-सम्मन्त्रणा
समं प्रमुखनेतृभिर्न च समाधिरासीदति ।
न वानरभटा अपि प्रगुणवैभवं रावणं
विरुद्धय शममाप्नुवन्, प्रधनमीदृशं हीदृशम् ।। ७८।।
तथापि विदधुः समे स्वकृतिमात्ममार्गं श्रिताः
क्षिपन्ति च विनिग्रहं विनिदधत्यहो नाट्यावत् ।
समानपि तु नायकानतिशयेन मानेन ते
भटाः सततमेव तान् विनिकिरन्ति रुन्धन्ति च ।। ७९।।
कदा दशरथात्मजा विपथमार्गमात्रश्रिता-
नुपेक्षितुमिहोत्सुका ददृशुरेव नो वा कराः ।
स-सायक-धनुर्युजः समभिवीक्षिता कुत्रचित्
प्रबोधपरमा जना न समुदासते स्वेच्छया ।। ८०।।
समेऽपि धनिका धनं ववृषुरुग्रवीरान् प्रति
समोऽपि ललनाजनो जयमुदैरयत् तान् प्रति ।
इति क्षितिरिवाम्बराङ्गणमपि स्वरैः पूरितं
व्यलक्ष्यत तु तत्क्षणे मनुजकण्ठकूपोत्थितैः ।। ८१।।
नदी तरलितोर्मिभिर्भवति साम्यभाग् विद्रवे-
ष्वमीषु भटकुञ्जरैः सह विरोधवीरेषु च ।
कदापि पुरुषान्वयो विमुखतां प्रमुखतो गतो (पुरुष Police)
विभात्यथ कदापि स प्रबलरोधवीरान्वयः ।। ८२।।
एकत्र रिक्तकरता परतो भुशुण्डी-
संघान्विता बत जनाः प्रजिहीर्षयेद्धाः ।
सिंहैः समं पृषतसंहतिरत्र जन्यं
चर्कर्ति किं, न हि, समेऽपि हि तत्र सिंहाः ।। ८३।।
सिंहैर्यदि प्रधनमस्ति तदन्वयानां
नास्त्येव काचिदपरा परिणामवीथी ।
वैरं विहाय च सुहृत्त्वमवाप्य किञ्च
संवेशनानि सहजग्धिसपीतिकाश्च ।। ८४।।
इति जननृपयुग्मे देश एष प्रवृत्तं
प्रधनकलहमेतं मन्थयोगं नु सिन्धुः ।
उदवहत चिरस्य प्रीतिकोषे विशोषं
श्रितवति न समाजे रोढुमीष्टे प्रशान्तिः ।। ८५।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘जनविद्रोहो’ नाम तृतीयः सर्गः।। ३।।
चतुर्थः सर्गः
देशं च कालं च नमामि याभ्यां विशेषभाग्भ्यामितिहासगात्रे ।
विलिख्यते क्रान्तिमुपेयिवद्भ्यां विक्रान्तिभाजां धवला प्रशस्तिः ।। १।।
देशेषु सर्वेष्वपि भारताख्यो देशोऽस्मदीयो ननु देशराजः ।
प्रशस्यते यत्र तथा न धातुर्यथा कवेः कश्चन सर्गबन्धः ।। २।।
तत्रापि विन्ध्यस्य गिरेरुदीची हिमाचलस्याथ गिरेरवाची ।
हृत्कोषकल्पं खलु यं श्रयेते स तीर्थराजो जयति प्रयागः ।। ३।।
शैवी तनुर्विष्णुपदीत्वमाप्य नारायणी चाप्य कलिन्दजात्वम् ।
प्रत्यक्षतां हारिहरस्य यस्मिन्नद्वैतभावस्य निरूपयेते ।। ४।।
सत्त्वं तमश्चान्तरितं रजश्च धात्रा त्रिवेणीमिषतो नु यस्मिन् ।
सांख्यस्य योगस्य च सिद्धसिद्धः सिद्धान्तराजः परिपाठ्यातेऽद्धा ।। ५।।
श्वेतं च नीलं च जलं, द्रवो वा ब्राह्मः स्रवो वा तपसां मिलित्वा ।
परस्परं काञ्चन यत्र शोभामहार्यनेत्रां तनुते प्रकृत्या ।। ६।।
श्रीर्धीस्तथा ह्रीः स्वयमेव यस्मिन् संभूय नृत्यन्ति समुल्लसन्त्यः ।
पराऽपि काचिन्ननु यत्र पुण्या वेणीत्रयी दृक्पथमाजिहीते ।। ७।।
यस्मात् समुद्वासितपापपुञ्जात् पुण्यात्मनः काचन दिव्यदिव्या ।
श्रीः सागराद् यद्वदुदित्वरन्ती संलक्ष्यते स्थौल्ययुजा दृशाऽपि ।। ८।।
यस्मिन् कवित्वं स्वयमुत्प्रकाश्य स्वधन्यतायां परिमज्जदास्ते ।
यस्मिन् धियः काष्ठनिभा अपीमाः प्रभातराजीवरुचं श्रयन्ते ।। ९।।
यं धृष्टधृष्टा अपि तर्ककोषाः संसेव्य वह्निं नु सुवर्णकोषाः ।
द्रवन्ति तत्तत्त्वमयीं च धारामुपास्य कृत्स्नं क्लममुत्सृजन्ति ।। १०।।
छन्दांसि शास्त्राणि च मूर्तिमन्ति त्रैगुण्यतीर्णेऽवतरन्ति यस्मिन् ।
प्रत्यब्दमेवोत्तम-तापसानां व्याजेन माघे विविधव्रतानाम् ।। ११।।
कुम्भाभिधे पर्व्वणि यत्र तैस्तैरस्त्रैश्च शस्त्रैश्च गजादिभिश्च ।
मानोन्नता ब्रह्मणि किन्तु लीनाश्चित्तेन राष्ट्रं परिशोधयन्तः ।। १२।।
तपस्विनो दक्षिणसिन्धुतीरात् पूर्वां परां चापि दिशं जयन्तः ।
हिमाद्रिशृङ्गादिव हृष्टसुस्थसन्नद्धचित्ताः समुपाव्रजन्ति ।। १३।।
तेषां तपस्या अपि हेतयोऽपि धर्म्माभिधं पालकमार्य्यभूमेः ।
यात्राप्रसङ्गादभिषिच्य राज्ये ज्योतिर्गुणं कञ्चन तिग्मयन्ते ।। १४।।
अत्र प्रयागे तपसां नयानां प्रेम्णां च धारा असिताः सिताश्च ।
प्राज्ञेषु गुप्ता अपि तापसेषु प्रत्यक्षतामश्नुवते त्रिवेण्या ।। १५।।
अस्मिन् धरित्र्या हृदि तीर्थराजे धर्मेण नीतिं परिणाययन्ते ।
भित्त्वा समाधीनपि वीतरागाः संमेलनायोजनमाचरन्तः ।। १६।।
ततश्च यस्मिन् गणनामतीतास्ते ते जना हर्षमये पदार्थान् ।
तांस्ताननेकान् प्रमुदो वितीर्य भोजोत्सवान् संरचयन्ति शुद्धान् ।। १७।।
अस्थ्येकशेषा अपि वस्त्रहीना अपि स्वकुक्षौ स्वभुवा प्रसूतम् ।
धान्यं वहन्तो लगुडैकसाह्या यस्मै गृहेभ्यः स्थविराश्चलन्ति ।। १८।।
यस्मै शिशून् वक्षसि लीनलीनान् दत्ताञ्चलाग्राननकान् वहन्त्यः ।
सन्मातरश्चापि धृतैकवेण्यो गीतानि गायन्त्य उदित्वरन्ति ।। १९।।
स्नानार्थमुद्वासितवाससोऽपि प्रायेण नार्यः पुरुषैः सहैव ।
नौभ्यस्त्रिवेण्यां वतरन्ति किन्तु चेतो विकारं भजते न यत्र ।। २०।।
श्यामो वटो यत्र रवेः सुतायाः श्यामो नु तीरे श्रुतिमङ्गलानि ।
गीतानि गायन् वयसां विरावैर्विराजते मृत्युजयी सुरद्रुः ।। २१।।
अयः प्रतप्तं परिषिच्य कृत्ते मुख्ये तनौ यस्य हुमायुसूनुः ।
कृती न जातः शतशाखभावात् स वावृधीति प्रविभिद्य दुर्गम् ।। २२।।
पत्रावलीर्मारकतस्य रोचिः संमुष्णती रत्नवरस्य बिभ्रत् ।
यो व्योमगर्भेऽपि कलिन्दकन्याधाराशतीं श्यामरुचं सुनीते ।। २३।।
यत्पत्रपालीषु निलीय तिष्ठन् सितो बकानां समजो नृलोके ।
व्यापारयत्यक्षिसरोरुहाणां शतानि शश्वत् त्रिदशाङ्गनानाम् ।। २४।।
आनीय पाणी जनकात्मजा यं वनं व्रजन्ती सह राघवाभ्याम् ।
अयाचत क्षेममथो निहत्यारातेः कुलं सा कृतिनी च जाता ।। २५।।
आनीय = समानीय, अराते रावणस्य, कृतिनी पूर्णकामा।
राशिं मणीनामिव यः समिद्धं गारुत्मतानां प्रतिपत्रपात्रम् ।
विवस्वते तस्य सुतां जिगीषुर्भक्त्याऽर्घ्यपाद्येषु समाचिनोति ।। २६।।
सुताभक्त्या तत्पित्रे पूजा।
य उत्तरस्यास्य पथो महद्भिः क्षुण्णस्य धर्माचरणव्रतेषु ।
प्रतीकभावेन विदां वरेण्यैरद्यापि संभावयितुं प्रतीष्टः ।। २७।।
उत्तरप्रदेशशासनस्य बोधिप्रतीकोऽक्षयो वट एव।
स्तम्भाभिलेखे हरिषेण ऐच्छद् यद् यत् समुद्राय तदेष शाखी ।
नापूरयिष्यद् यदि गुप्तराज्ये सुवर्णवृष्टिः किमिवाभविष्यत् ।। २८।।
कथं प्रतिक्रीडनकं पुराणी मृत्स्नाऽपि शृङ्गारसमाधियोगात् ।
सौन्दर्यजीवातुमयीव योषा चित्तानि नोऽद्याप्यसुखाकरिष्यत् ।। २९।।
निराकरिष्णौ वृजिनानि विष्णौ संसारचक्रस्य य एव निद्राम् ।
उपायनीकृत्य शमं निनीषत्यंहांसि लग्नानि विशेषकेषु ।। ३०।।
पत्रेष्वमुष्यैव मृकण्डुसूनुर्महालयेऽप्यप्रलयः स्थिराङ्गीम् ।
श्रीनर्मदाम्बां चलदच्छधारां सवारिपूरां च हृदा स्तवीति ।। ३१।।
अस्याङ्कलक्ष्मीः पुरुषार्थजातिः कृत्स्नाऽपि, कल्पद्रुम एष एव ।
जले चलो यः स हि तीर्थराजः स्थिरत्वमत्रैव तरौ दधाति ।। ३२।।
क्षारत्वमब्धेः प्रतिसन्दधाना ये वायवोऽनेहसि कल्पशान्तेः ।
अव्याहतं संप्रचलन्ति तेभ्यो धन्वत्वधुग्भ्यो भिषगेष एव ।। ३३।।
नैरन्तरी तेष्वसिपुत्रिकोग्रा व्यावर्त्तते या नितरां हि रूक्षा ।
अस्यानुजानां दलसन्ततानामक्षय्यतामात्रमिमां शृणीते ।। ३४।।
अस्यैव शाखासु निबद्धनौको मनुष्यजातेः प्रभवोऽपि कामान् ।
कल्पक्षयान्ते लभतेऽनुरक्तिविरक्तिवित्तित्रिसरित्प्रयागः ।। ३५।।
श्राद्धदेव इति श्रद्धादेव इति च ब्राह्मणेषु मनोर्नामनी। स एवादिः पुंसृष्टेः। कल्पक्षयस्यावसाने पुनरुपस्थिते सर्गेऽनुरागविरागविवेकत्रिवेणीराजहंसविभव एष एव कामयते, लभते च कामान् कल्पवृक्षादस्मात्।
अस्यैव वै मेचकपत्रलक्ष्मीः कामायनी काचन, सन्निधत्ते ।
या श्राद्धदेवं मनुमादृतात्मा सूर्यं प्रभाते नु रुचिः स्वकीया ।। ३६।।
कामायनी मनोः पत्नी।
अस्यैव सर्गप्रतिसर्गसन्धिः पत्रेषु सांवत्सरिकेषु दृश्यः ।
सांसारिकं सांवृतिकं च सत्यं युगे युगान्ते च यतोऽन्ववायि ।। ३७।।
सांवृतिकं प्रच्छन्नम्, अन्ववायोऽनुबन्धोऽनुवृत्तिः।
देहेऽपि नित्यत्वमिमे श्रयामो मीमांसका वेदपथे चरामः ।
असौ ह्यमीषां प्रतिमाति मानान्यस्माकमुच्चैःशिरसां महात्मा ।। ३८।।
मीमांसकाः प्रलयं न प्रमिण्वन्ति। मानानि प्रमाणानि दर्शनानि च।
चेत्यं चितेरेव विकल्प उच्चावचत्वमुग्धा कविताऽपि तस्मै ।
भाषां चितेश्चेत्यमयाय पुंसे कस्मैचिदुच्चारयते द्रुमेऽस्मिन् ।। ३९।।
विकल्पा अपि उच्चावच्स्वभावाः। अन्तःसंज्ञाः खलु मन्यन्ते वृक्षादयः। ततश्च ते चितिचेत्योभयात्मानः।
पीयूषकुम्भेन समं गरुत्मान् कदाचिदस्यैव जटासु लीनः ।
शुश्राव सीताचरिताभिधानं सानातनं कञ्चन सर्गबन्धम् ।। ४०।।
यच्छायशर्माण्यधिगम्य कर्म्माण्यन्यानि विस्मृत्य कपीश्वरोऽपि ।
समाधियोगेन कवीश्वरत्वं समेधयत्यत्र सुखं शयानः ।। ४१।।
अस्यान्तिके राजति पार्वतीशः शिवोऽपि साक्षात्कृततीर्थशोभः ।
कथासरित्सागरितोऽतिरम्यान् ब्रवीति रागेण बृहत्कथार्थान् ।। ४२।।
अस्यैव कश्चित् स कृपाकटाक्षः श्यामात्मनो वृक्षवरस्य नूनम् ।
आतिथ्यरत्ने प्रथितिं पटिष्ठामार्य्यो भरद्वाजमुनिर्यदापत् ।। ४३।।
क्रौञ्चस्य युग्मं सुखमत्र वासं विधाय शाखासु निलीय शेते ।
स व्याध एवात्र तरीभिरार्य्यानुत्तारयत्यार्य्यमतिस्त्रिवेणीम् ।। ४४।।
चमच्चिकीर्षन्ति न यत्र दारा दैत्यद्रुहः शक्तिभृतः कवीन्द्रान् ।
दारैर्विधातुर्ललितार्थबन्ध-प्रवृत्तिदक्षैरधिरूढ-चित्तान् ।। ४५।।
दैत्यधु्रग् दैत्यारिर्विष्णुः।
सितासितौ यत्र सरित्प्रवाहौ परस्परासङ्गसमिद्धकान्ती ।
राधापरिष्वङ्गपिशङ्गवर्णं मुकुन्दगात्रं दृशि रोपयेते ।। ४६।।
यस्मिन् महासंयमिनो मिलित्वा गोष्ठीरसान् भावयितुं क्रमन्ते ।
भवन्ति वै कामनया परीता अप्यत्र नैष्कर्म्यगुणे विनीताः ।। ४७।।
नैष्कर्म्यं कर्मफलासक्तिशून्यत्वम्।
प्रशस्ततां यां विपुलोज्ज्वलाङ्गीं तदीयमाढ्यां पुलिनं वृणीते ।
तां ब्रह्मदेवोदरमप्युदारां संस्मृत्य धिग् तानवमाजिहीते ।। ४८।।
इज्याभिराविर्भवतामजस्रं धूमोत्पलानां मधुभिश्चिताङ्गः ।
समीरणो यत्र सुनोति चित्ते द्रुतिं कणानामपि वालुकायाः ।। ४९।।
धूमा उत्पलानीव तेषाम्। स्मरणीयम् ‘अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयमि’-ति भवभूतिवचनम्।
रामायणी यत्र कथा महद्भिर्जेगीयमाना पुलिनेषु विज्ञैः ।
पङ्के कलेः पङ्कजिनीवनानि चरित्रचित्रैरुपसन्तनोति ।। ५०।।
कलिकालः पङ्कः, चित्राणि चरित्राणि पङ्कजिनीवनानि।
यस्मिन् महाभारतवार्त्तिकानि निबध्यमानानि कथाशरीरैः ।
किं दर्शनं, कां विधिनीतिवीथीं, कं वा रसं न प्रदुहन्ति चित्ते ।। ५१।।
वार्त्तिकानि वृत्तिपदार्थाः।
त्रेता न, न द्वापर एव यस्मिन् प्रवृत्तिमीष्टे प्रतिपत्तुमस्मै ।
कलेः कथा का कृतमेव तस्मै क्रीतो नु दाशः प्रतिसंनिधत्ते ।। ५२।।
प्रतिपत्तुं स्वीकर्त्तुम्।
औत्तानपादेध्रुवतां धिनोति कायाधवीयः खलु यत्र बोधः ।
नीती रुचिं यत्र तृणीचिकीर्षुर्हिरण्यशय्यां हरये हिनोति ।। ५३।।
औत्तानपादिर्ध्रुवः, कायाधवः कयाधुनाम्न्या मातुः पुत्रः प्रह्लादः। नीतिः सुनीतिरपि, रुचिः सुरुचिरपि। हिरण्यकशिपुरूपां हिरण्यशय्यां हरये विष्णवे सिंहाय च।
त्यागेन भुक्तेः परिणीतियागं संपादयद्भिः खलु यत्र सद्भिः ।
कालस्य भित्तावभिलेखितानि प्रभोः प्रभुत्वस्य शुभाक्षराणि ।। ५४।।
ईशावास्यमिति मन्त्रोऽत्र स्मरणीयः।
वृन्दावनानामयुतानि यस्मै वाराणसीनां नियुतानि यद्वत् ।
सौभाग्यनिश्श्रेयससन्निपातश्रेष्ठाय नन्नन्ति परत्वधाम्ने ।। ५५।।
विप्रूंषि वारां क्रशिमातिशीतिपरीतगात्राण्यपि पीवराणि ।
पुण्योत्करैर्यस्य समाहरन्तः समीरणा मर्त्यमहीं पुनन्ति ।। ५६।।
आश्वासविश्वासविवासितान्तस्तमांसि भूयांसि वयांसि यस्मिन् ।
पारिप्लवान्यम्भसि तैर्थिकानामन्धांसि पाणिभ्य उपाहरन्ति ।। ५७।।
मात्सर्यशब्दाक्षरगात्रभङ्गः सुमानुषान्तःकरणान्तरङ्गः ।
देवव्रतं भीष्मयतेतमां वै यस्मिन् कलिभ्यः कलिकालजेभ्यः ।। ५८।।
यत्राश्वमालभ्य मखेषु धाता द्वैताभिधं पोषयते पुराणीम् ।
अद्वैतसत्क्षेत्रविमुक्तिसुस्थसमस्तगात्रां चितिकामधेनुम् ।। ५९।।
संपत्तिरूपैव विपत्तिरस्मिन् परात्परे धामनि देहभाजाम् ।
मर्त्यादमर्त्यप्रतिपत्तिरास्तां नो कस्य लाभाय सुदर्शनस्य ।। ६०।।
आज्येन सिक्तं कृशरं स्मरारेर्वृषाय संकल्प्य समश्नुवानाः ।
यदत्र तेजः परिमूर्च्छयन्ते वपुष्षु सन्तो वसु तद्धि लोके ।। ६१।।
तस्मै स्पृहा मूर्च्छति वासवादेरन्तःशरीरेष्वपि शक्तिभाजे ।
तदेव वज्रं च सुदर्शनं च स्मरारिनेत्रं च समामनन्ति ।। ६२।।
माणिक्यकोषा न धनं प्रधानं तपांसि सत्यानि धनानि पुंभ्यः ।
सामानि सर्वाण्यपि मन्त्रमेतं प्रोच्चैस्तरां यत्र समुद्गिरन्ति ।। ६३।।
शृङ्गारभृङ्गारककुक्षिकाम्यं सोम्यं मधु स्वैरमिहाश्नुवन्ति ।
वेदान्तिनः कर्मपथाध्वनीना मीमांसकाश्चापि सपीति-सत्रे ।। ६४।।
लोकेऽत्र लोकान्तरवर्त्तिनीनां सुधामयीनां च भुजिक्रियाणाम् ।
स्वातन्त्र्यशुद्धो ननु कर्तृभावोऽप्यत्रैव वत्सायति विक्रयाय ।। ६५।।
विधातृकोषस्य समस्तरत्नैः प्रपूर्णगर्भस्य स एष साक्षात् ।
प्रयागराजो यमराज एव प्रबुद्धवैश्वानर-वीतिहोत्रः ।। ६६।।
धनक्षयोऽक्षय्यधनायमानश्चतुष्किकां यां खलु हेमपुण्याम् ।
प्रतिप्रसूतेऽत्र सहस्रनेत्रव्रजोऽपि तिष्ठासति हन्त तस्याम् ।। ६७।।
शेषा अशेषा यजमानवक्षःस्थलेषु देवैः प्रतिपूर्य्यमाणाः ।
प्रयागतीर्थेऽत्र सुराटवीनां शतानि सोतुं प्रभविष्णवन्ति ।। ६८।।
यत्रोर्वशीक्षां तनुते स्वकीयां त्रिवेणिकायामनुवेलमैलम् ।
गोत्रे स्खलन्ती च सुमानुषी च भूत्वा भजन्ती सुनुते कुमारम् ।। ६९।।
कल्याणकोषः स समग्रतायाः कस्याश्चिदन्तःपटले स्थिरायाः ।
सांख्ये च योगे च समानमानां भक्तिं स्नुवानो जयति प्रयागः ।। ७०।।
स्वरूपरानीदयितस्य मोतीलालस्य सारस्वतभूसुरस्य ।
वंशाङ्कुरस्तत्र जवाहराख्यो लेभे जनिं हंसवदातमूर्त्तिः ।। ७१।।
७१-७२ सावकाशोऽत्र सर्गचतुष्टयनिबन्धप्रसङ्गः।
तं नेहरूगोत्रसुमेरुशृङ्गे विभ्राजमानं सुरशाखिराजम् ।
हिरण्यवर्णं हरिणी सुवर्णा कश्मीरलक्ष्मीः कमलोदवोढ ।। ७२।।
कनककमलकान्ती प्रातरुद्यद्विवस्व-
त्किरणकिसलयाभिश्च्योतपूराभिरूपौ ।
प्रतिनवयुवभाव-श्यामताश्यानभूय-
प्रसृमररसरीती दम्पती तावभूताम् ।। ७३।।
तांवासाद्य श्रियमनुगुणां सर्वभावेन चञ्च-
त्तारस्फारारुणरुचमभिष्यन्दमानां श्रयन्तौ ।
काव्यं धातुर्व्यसृजदरुषि क्रूरमुल्लिख्यमान-
क्लेशावेशामनुचितिचितां वैषमीं वै चिराय ।। ७४।।
सदृशघटनानेदीयस्त्वं पुराणतमः पिता
युवकयुवतीसंयोगाख्ये मखे चिरविस्मृतः ।
यदनुगुणतामेतामस्मिन् द्वये परिक्लृप्तवा-
नहह कुशली तस्मिन् कश्चिद् घुणाक्षरतानयः ।। ७५।।
भवति यदि वा तस्मिन् भाग्योदयो विरलोदयो
ननु रतिपतेर्हेतुर्योऽसौ शरीरमपि त्यजन् ।
परमशिवयोर्द्वैतातीतां सुरासुरवन्दितां
कथमपि कृती प्रीतिस्फीतां रतिं समजीघटत् ।। ७६।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘कमलापरिग्रहो’ नाम चतुर्थः सर्गः।। ४।।
पञ्चमः सर्गः
( १ )
सर्गोऽद्वितीयोऽथ तयोर्विधातुश्चराचरोल्लासिनि भूतसंघे ।
प्रतिक्षणं नूतननूतनानां भुजिक्रियाणां व्यतिहारमापत् ।। १।।
तां प्राप्य रम्यां कमलां कदल्या गर्भादिवासादितगात्रलक्ष्मीम् ।
जवाहरान्तःकरणं सुधाया महासमुद्रे नु बभूव मग्नम् ।। २।।
तं प्राप्य तस्या अपि वंशगुल्मात् समुच्छलन्तं नु हिरण्यवाहम् ।
ज्योतीरथाया इव वीचिभङ्गाः प्रशान्तिमापुर्ननु दृक्तरङ्गाः ।। ३।।
ताम्बूलवीटीरसरक्तिमानं प्रत्यादिशन्तीव तयोर्मुखाब्जे ।
चिक्रीड लाक्षापरिहारधीराऽरुणा रुचिः कापि निसर्गसिद्धा ।। ४।।
चित्तादिवोत्पत्य विशुद्धिमुग्धाच्छुद्धिर्वदाताँस्तु तयोर्दृगन्तान् ।
न्यसेवतात्यादरतः श्रवोऽन्तप्रान्ताधिलग्नान् वरवर्णिनी नु ।। ५।।
कपोलयोः कोमलतां हृदापि स्मृत्वा तदीयां नवनीतवंशः ।
विनापि तापं द्रवति स्म दैन्यादिवाप्तभङ्गः प्रतियोगितायाम् ।। ६।।
तौ हंसशावाङ्गरुहां सितानां म्रदिम्नि पारुष्यकलङ्कदोग्ध्रीम् ।
शय्यां स्वकान्त्या पुनरुक्तसान्द्रश्वेतश्रियं कर्त्तुमलं ह्यभूताम् ।। ७।।
आदर्शबिम्बे प्रतिबिम्बनानि नादर्शबिम्बान्तरमश्नुते यत् ।
न मीलितालङ्कृतिरेव पक्षद्वये द्वयत्वेन विदूष्यते यत् ।। ८।।
न वारिपूरस्त्रिदशापगायाः पूरान्तरैर्भिद्यत आ समुद्रात् ।
विभातकान्तिर्न विभातकान्तौ परेद्यवि द्वैतमयायते यत् ।। ९।।
न पुण्डरीकाक्षविलोचनानां ज्योत्स्नारुचोरन्तरमीक्ष्यते यत् ।
न चापि राकाद्वयचन्द्रबिम्बद्वयाद्वयं याति विपर्य्ययं यत् ।। १०।।
तर्काः प्रभेदाय परत्र हेतुव्रातेन तन्नाम भवन्तु शक्ताः ।
न कान्तिपूरे तु जवाहरस्य सौन्दर्यपूरात् कमलाब्धिजायाः ।। ११।।
रतिस्मरौ नात्र तुलामणिष्ठां सौभाग्ययोगे प्रतिपत्तुमीशौ ।
अनङ्गता यत्र चकास्ति पत्यौ सिन्दूरलोपश्च पतिव्रतायाम् ।। १२।।
न कान्तिसाम्ये कृतिनौ भवेतां राधामुकुन्दावपि तत्र युग्मे ।
सुवर्णलेखामिह यत् सुवर्णप्रस्थः पराम्रक्ष्यति, नाञ्जनाद्रिः ।। १३।।
वेणीत्रयीवक्षसि गौरगौरे तौ गौरगौरौ निशि पूर्णिमायाम् ।
उमावृषाङ्काविव राजतेऽद्रौ विरेजतुर्लीनतनू सितिम्नि ।। १४।।
स्मरामि तस्यास्य विधातृसृष्टौ कालेन भूम्ना घटितस्य भूयः ।
सौभाग्यसाम्यस्य निरूपणायै क्षमां परां नैषधकर्त्तुरेव ।। १५।।
स कालिदासः शिवयोः समाप्तक्रियः स बाणो विभवातिशीतौ ।
दृशोस्तु यद्बाष्पममुष्य पुंसस्तत्राधिकारी ननु हीरसूनुः ।। १६।।
स रोरवीति स्फुटमार्त्तमार्त्तं विलापमुच्चैः स हि चर्करीति ।
शृङ्गारजन्याय स पाञ्चजन्यं दिध्मासुरुच्चैश्चिति चङ्क्रमीति ।। १७।।
यद्वा कृतं जल्पनया कदाचिदलङ्क्रियायै क्षमतेऽपि मौनम् ।
विभावनाक्षेपवधूर्वराकी, पुंस्कोकिलं मूकयते निशार्द्धम् ।। १८।।
तां दिव्यकान्तिं युगलीं स्मरन्तो निवेशिताः स्मो मधुमासलक्ष्म्याम् ।
शृङ्गारमात्रेण, न नीतिरीत्या चितिस्तु नस्तुष्यति यातयामा ।। १९।।
( २ )
आविर्बुभूषां मधुमासलक्ष्मीरथो कदाचिन्निदधे प्रयागे ।
जवाहरस्येव जपासुमस्य रागातिरेकः कमलामतोऽधात् ।। २०।।
आकाशमार्गे मकरीं विवस्वान् भूमौ च मुष्टिं हरितां नभस्वान् ।
अवाप्य संमोहितचित्तधातू अमुञ्चतां हन्त परामवाचीम् ।। २१।।
प्राभातिकस्येव निशाकरस्य श्रियं प्रपन्नं तुहिनस्य राज्यम् ।
विडम्बयामास गतायुरुच्चैः सितां जरत्कञ्चुकिगात्रलक्ष्मीम् ।। २२।।
लतावधूर्यौवनदेहलीस्था यानाश्रयत् कुड्मलिताऽभियोगान् ।
शाखाविशेषैर्लसदङ्गयष्टिस्तानेव सा मेदुरयाम्बभूव ।। २३।।
कङ्केलिपङ्केष्वलिनि प्रलीने पञ्चेषुरासीत् षडिषुस्तदानीम् ।
व्यद्धुं क्षुधा पीडितमेणवीरं मनोगतं येन कृती स जातः ।। २४।।
माकन्दकन्देषु मिलिन्दबृन्दे प्रस्पन्दमाने स्मरपन्नगास्यम् ।
हालाहलस्पर्शकषायिताङ्गान् निश्वासवातान् वमदालुलोके ।। २५।।
मौलिश्रिया संयुयुजे यदा तु द्विरेफजायावलिरुज्ज्वलाङ्गी ।
पुंस्कोकिलारावभृशोन्मदिष्णू रतिः शचीं हन्त तदाऽत्यशेत ।। २६।।
व्यशीर्यतार्त्तं तुहिनस्य गात्रं नाक्रीं रवौ क्रान्तिमभिप्रयाते ।
दिगङ्गनानां क्रमशो बभूवुर्येनाङ्गकान्यावृति-रेचितानि ।। २७।।
मधूनि गावः क्षणदाप्रियस्य प्रियस्मरा यानि दधुर्नवानि ।
तान्यायताक्षेषु वधूटहालाव्यामिश्रिताङ्गानि विषाण्यभूवन् ।। २८।।
वातेषु शातं गमिते तुषारे य उद्बभूव स्पृहणीयभावः ।
ततोऽद्भुतां वृद्धिमगादुदन्या प्राणेषु पञ्चेषुबिलेशयस्य ।। २९।।
दिग्दर्पणे मुक्ततुषारपङ्के विनापि बिम्बं प्रतिबिम्बितानि ।
प्रादुर्बभूवुः सुकुमारतायाः कस्याश्चिदन्तःप्रकृतेः स्थितायाः ।। ३०।।
ऋतेऽपि सिक्थं मृगलोचनानां दन्तच्छदाः स्निग्धतमा यदासन् ।
निमन्त्रणं पिच्छलपिच्छलं वै विलोचनेभ्योऽजनि तेन यूनाम् ।। ३१।।
तटस्थतां ये बिभराम्बभूवुर्मनस्विनोऽस्मिन् हृदि पुष्पकाले ।
शिशिङ्घुरेषां न हि फेरवोऽपि सक्थीनि रूक्षाणि निरामिषाणि ।। ३२।।
धान्येषु गोधूमचणादिकेषु क्षीराणि यानि प्रकृतिः ससर्ज ।
तेष्वक्षिगोलेष्विव रूपिणीयं सृतिः स लाभं लभते परोक्षा ।। ३३।।
तेष्वेव माध्वीक-विमिश्रितेषु क्षीरेषु लक्ष्मीर्हृदयस्य जिष्णोः ।
पादौ परामृश्य परस्य विष्णोरनन्तशय्यासुखमास्तृणीते ।। ३४।।
‘ओजांसि भूयांसि परोरजांसि श्रेयांसि’ चक्षूंषि सतामिहैव ।
स्निग्धान्तरे दुग्धमहापयोधौ महौषधीनां रसितुं क्रमन्ते ।। ३५।।
समेऽपि वृक्षाः धृतताम्रपत्रा राज्ञो वसन्तादधिगत्य लक्ष्मीम् ।
सामन्तसौभाग्यमधिश्रयाणा वैतालिकायन्ति पिकान् प्रवाचः ।। ३६।।
गोधूमभूमाञ्जनमेचकानि प्रोत्फुल्लसत्सर्षपपाण्डराणि ।
क्षेत्राणि दद्युः परमाय पुंसे चित्राणि वासांसि नु चैत्रमासे ।। ३७।।
भृङ्गान् मधुच्युद्व्रततीवधूनां सङ्गाद् विधायातितरां प्रमत्तान् ।
दिगङ्गना मेचकयाम्बभूव स्फुरद्भिरेभिः परितो वसन्तः ।। ३८।।
एकत्र भूमण्डलशाटकन्ति क्षेत्रेषु सस्यानि शुकद्युतीनि ।
अन्यत्र चोष्णीषपटन्ति वृक्षाः सपत्रपुष्पा दिवि वासवस्य ।। ३९।।
एकत्र सारस्वतमंशुवृन्दमन्यत्र गायत्रमथो महोऽभूत् ।
द्यावापृथिव्योः सुभगेऽन्तराले संमिश्रणाच्चित्रविधौ प्रवेकम् ।। ४०।।
प्रौढाः प्रिया विभ्रमसंपरीताः प्रियेऽपराद्धेऽतितरां गभीराः ।
समं नदीभिः स्खलनामवाप्य द्रवन्ति मूकन्ति समुल्लपन्ति ।। ४१।।
रथाङ्गनाम्नां मिथुनेषु वक्रा या पीवरत्वं शिशिरेष्वपुष्यत् ।
शनैः शनैः सा क्रशिमानमात्मन्यानर्ज रात्रिः शिशिरात्ययेऽस्मिन् ।। ४२।।
पद्माकराणामभिरूपताया उल्लासयित्री ननु वासरश्रीः ।
उद्वास्य कार्श्यं शिशिरप्रसूतं चिकाय काये शनकैः पृथुत्वम् ।। ४३।।
समप्रमाणेष्वथ वासतेयीदिनेषु वै केषुचिदागतेषु ।
दोलाधिरोहैर्नवयौवनानां जगर्ज दर्प्पः स्मृतकामसर्पः ।। ४४।।
दोलार्धचक्राञ्चित-विक्रमाणामावर्त्तनैः कामिजनाननानि ।
आखण्डलीयं धनुरन्तरीक्षे व्यातेनुरुच्चैर्मधुपर्य्ययेऽपि ।। ४५।।
लेखावितानैर्मदयन्तिकाया असावि या काचन रङ्गवल्ली ।
असूत साप्युत्तमसौभगानां स्मराङ्गवल्लीः पदपाणिपद्मेो ।। ४६।।
सुभिक्षयोगो मणिमेखलानां मुक्ताफलानामुपवासमुक्तिः ।
तिलाञ्जलिः प्रोषितवल्लभानां वसन्तकालस्त्रिगुणात्मकोऽभूत् ।। ४७।।
वैलक्ष्यलक्ष्मीरधिकामपत्नीकपोलपालि प्रथमानरागा ।
अलक्षि दक्षैरनुकुञ्चिताक्षि स्फुरत्सुमेष्वद्य सुदर्शनेषु ।। ४८।।
उद्दण्डतायां बिसिनीकुटुम्बं सुस्मूर्षुरास्तां कविरन्य एव ।
सानातनीयास्तु सुदर्शनानां दण्डेषु वै तां सदृशीं धयन्ति ।। ४९।।
जन्ये गदानां विनिनीषुरारात् पञ्चेषुरासाद्य सुदर्शनानि ।
दुर्योधनानामपि धैर्यसिन्धूनशोषयद् दर्शनमात्रतोऽपि ।। ५०।।
गर्जन्ति तर्जन्ति बलाहकानां वृन्दानि यस्या न मनो विजिग्युः ।
सा माधवी सौरभसंभृतेभ्यो जाता बलिर्माधव-वासरेभ्यः ।। ५१।।
पूर्वं प्रतानाः प्रपिशङ्गपर्णास्ततः प्रसूनोत्कलिकाः शिखाग्राः ।
मधौ तथा माधविकामवृण्वन् यथाऽङ्गयष्टिर्ददृशे न तस्याः ।। ५२।।
सुदर्शनं माधविकाप्रसूनस्तवा असंख्यानि च केसराणि ।
परस्परामोदविमिश्रणाभिरामाणि भूम्यां त्रिदिवं वितेनुः ।। ५३।।
पद्मानि पद्माकरसार्वभौमकुक्षिम्भरिष्णूनि मरन्दभूत्या ।
आक्षारणां संकसुकेष्वतन्वन् भृङ्गाङ्गनालिङ्गनलम्पटेषु ।। ५४।।
मोचाक्षुपा मारकतीमभिख्यामुपेयिवद्भिर्विततोदराभ्रैः ।
दलैरसंख्यैः परिवार्य तस्थुर्व्योमाङ्गणं व्यापि शुकच्छदाच्छैः ।। ५५।।
कल्पान्तकृच्छ्रे समुपस्थितेऽहं वटस्य पत्रं न पुनः श्रयिष्ये ।
निशाम्य पत्रं विततं कदल्याः व्यमृक्षदित्थं नु शिशुर्मुकुन्दः ।। ५६।।
सञ्चारसातत्यसपीडपादा पद्मा न पत्रे यदवाप पाद्मे ।
शय्यासुखं तत् सुखमश्नुतेऽसौ रम्भादलेष्वायतविस्तृतेषु ।। ५७।।
गावः पयो भूरि ददुर्निशम्य स्वरं पिकानां भ्रमरस्वनार्द्रम् ।
वंशीरवो विश्रममीयिवांस्तत् क्षणं मुकुन्दस्य वसन्तकाले ।। ५८।।
यत्रापि गच्छन्ति विशालनेत्राः सदागतेः पत्रकुलावतंसाः ।
शृण्वन्ति तत्रैव विना विरामं ध्वनिं करालं प्लवमानकायाः ।। ५९।।
यं पुष्पसंभारमपारगन्धं ज्योत्स्ना वनानां दधिरे दलेषु ।
स शङ्खशुक्तीरधिबुद्धिकोषं व्यापारयन्मारकते विताने ।। ६०।।
ज्योत्स्ना विधोर्ज्योत्स्निकया वनानां व्यधायि सौरभ्यमयी यदानीम् ।
अधावि नाकं प्रविहाय लक्ष्म्या शच्या समं हन्त भुवे तदानीम् ।। ६१।।
स्रोतांसि भूयांसि मनुष्यकाये व्यापारवन्ति प्रविभान्ति किन्तु ।
सौरभ्यसंभारमये मधौ तु घ्राणस्य पुण्यानि पुरस्सरन्ति ।। ६२।।
माता मही भूषितभूषिताऽस्मिन् ज्योत्स्नापटीं सौरभिणीं मुहूर्त्ते ।
बभार यत् तेन शिवः समाधिं बिभेद देवीमवृणोच्च वेगात् ।। ६३।।
प्रयोजनेनापि विनाकृतानि भूतानि दैवात् क्वचिदाप्नुवन्ति ।
शृङ्गारशय्यां प्रकृतिप्रसूतां चित्कौतुकागारितुमुद्भटानि ।। ६४।।
प्रासादिकं चेतसि वैभवं यत् स्वातन्त्र्यलक्ष्मीर्ननु साऽस्मितायाः ।
तां चित्कला चुम्बति केवलेन वसन्तकालेन नमो नमोऽस्मै ।। ६५।।
( ३ )
अत्रान्तरे लोकविधौ पटिष्ठाऽविद्यावधूट्याः स्फुरणा म्रदिष्ठा ।
विधातुराद्या दयिता सिसृक्षा मुमूर्च्छ विश्वेषु शरीरभाक्षु ।। ६६।।
लता द्रुमैः कैरविणी द्विरेफैर्मृगी मृगैः पल्वलिनी सरोभिः ।
दिगङ्गनाश्चापि कुलाचलेन्द्रैः साकं परीरम्भसुखान्यवापुः ।। ६७।।
हृत्पद्मसद्मा ननु कापि पद्मा पद्मापतेः स्तम्बकुलानि यावत् ।
विराजमाना परिलक्ष्यतेऽन्तश्चितावियं काचन संसिसृक्षा ।। ६८।।
सैषा विभूतिः परमस्य पुंसः सैषा हरेः काचन वैजयन्ती ।
सैषैव काचित् सततं चलन्ती धातुः कराग्रे जपमालिकाऽस्ति ।। ६९।।
एषैव वाचामधिदेवतायाः करे क्वणन्तीं श्रुतिमङ्गलानि ।
महाकवौ क्वापि परां विपञ्चीं प्रज्ञां पुराणीं नु मरीमृदीति ।। ७०।।
एकाम्रनाथस्य षडाननेऽस्मिन् संसारसूनावनुशक्तिपातम् ।
या कामधेनूः पयसा युनक्ति प्रिया न साप्यत्र भिदां पिपर्त्ति ।। ७१।।
अस्यै व्यतीरेकयमस्य दंष्ट्रा नासीत् प्रिया हन्त कदापि साध्व्यै ।
तामन्वयेनाविरतप्रसारेणैषा प्रजानां प्रसभं भनक्ति ।। ७२।।
एषैव दैवात् कमलां तदन्तर्धारां मधुच्छत्रतयाऽभिगीताम् ।
देशे पवित्रेऽत्र शुभे च काले भृङ्गीव तूष्णीं नलिनीं विवेश ।। ७३।।
तस्यास्तदावेशवशादभूतां कपोलपाल्यौ नितरां प्रदीप्ते ।
कान्तिः प्रतीकेष्वरुणा विभाते विभेव भानोरधिकं मुमूर्च्छ ।। ७४।।
तां मातृशक्तिं कमलाङ्गयष्टौ जगत्त्रयीमङ्गलभद्रकालीम् ।
परिस्फुरन्तीमसहिष्ट धाम्ना जवाहरोऽप्यात्मसमर्पणाभिः ।। ७५।।
एकत्र दीप्तो नु सहस्ररश्मिः परत्र नैर्मल्यमयी नु वापी ।
दाम्पत्ययज्ञे प्रथिते तयोस्तद् ग्राह्यग्रहीत्रोरुदगादभेदः ।। ७६।।
तां रक्तधारायुगलीं नमामः पितामहेन प्रविमिश्रयमाणाम् ।
तरङ्गमालामिव राजहंसी चितिस्त्रिवेणीयति यां प्रविश्य ।। ७७।।
भेदादभेदं प्रतिपद्य भेदं पुनर्व्रजन्ती रसकुल्यकेव ।
दाम्पत्यधारा कमलाशिरासु जवाहरस्याप विवर्त्तनानि ।। ७८।।
विवर्त्तनास्वासु निवर्त्तमानानुवर्त्तमाना च तदात्मसंपत् ।
अदृष्टवैशिष्ट्याविपाकचित्रा कोषाननेकानबबन्धदुच्चैः ।। ७९।।
वपुरभवदमुष्याः कुन्दमन्तस्तुषारं
विशदिमपरिवीतं शुक्तिपात्रं समुक्तम् ।
परिगतपुरुषांशं तद्धि संलक्ष्यते स्म
कमलमुकुलगर्भं यद्वदम्भस्त्रिवेण्याः ।। ८०।।
अथ जवाहरलाल-कुटुम्बिनी वपुषि दोहदलक्षणमादधे ।
प्रववृधे किल येन मनोरथावलिरमुष्य महीवलयस्य नः ।। ८१।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘कमलादोहदलक्षणो’ नाम पञ्चमः सर्गः।। ५।।