चतुःषष्टिः सर्गः
( 1)
अयि मातरिदंक्षणे कथं त्वं घननीला प्रतिभासि मानुषेषु ।
किमु वाञ्छसि विष्वमूर्त्तिभेदानयसः पिण्डतया गतान् प्रतिष्ठाम् ।। 1।।
तरुरेष विहायसि प्रपुष्पः प्रतिषाखं प्रजरीहृषीति पत्रैः ।
सरसैस्तरलैरनेकवर्णैर्भरितः किं प्रियतां न ते प्रयाति ।। 2।।
इयमस्ति सरित् परिप्लुताद्भिः शिखरेभ्यः पतिताभिरेजमाना ।
किमु वाञ्छसि तत्र पात्रगात्रं परिपूर्य्येत शिलाभिरेव शुष्कम् ।। 3।।
शुचिना प्रसृते रवेः कराले किरणौघे गमिते शमं क्षणेस्मिन् ।
किमु नैव पयोधराभिषेकं धरिणि! त्वत्परिशामकं प्रियं ते ।। 4।।
अयि नीलसरस्वतीवपुस्ते प्रलये केवलमीक्ष्यते-न्यदा तु ।
जगदम्ब! विराजसे मराले जलदुग्धप्रतिभेददीक्षिते हि ।। 5।।
अयि पश्चिमदिग्गता द्विपादा मशकाभा नितरां विवर्त्तमानाः ।
किमु यं परिवारयन्ति वह्निं शममेतं हि निपत्य लम्भयेयुः ।। 6।।
कटवः खलु सन्ति तन्मुखाग्रे दषनाढ्या ननु केपि शङ्कवो धिक् ।
गमितः किल संविदां दशन्ति स्वजनानप्यतिवज्रशस्त्रहस्ताः ।। 7।।
किमिवौषधमस्तु विश्वकुक्षौ प्रशमायास्य महोपतापकस्य ।
ज्वरनामभृतो-न्तकान्तकस्य प्रतिषेधस्य विधेः प्रणर्त्तितस्य ।। 8।।
विधेर्ब्रह्मणः।
यदि यस्य बलं तदेव जीवेदबलो यातु विनाशमाशु भूमौ ।
प्रतिपत्तिरियं मनुष्यलोके प्रसरीसर्त्तु, सिसर्त्तु तर्हि लोपः ।। 9।।
जगती निखिलेयमस्ति काचिन्ननु खेलाङ्गनभूमिरेव तेषाम् ।
छलमेव परात्परत्वमुच्चैः स्थपतित्वं व्रजति क्रियासु येषाम् ।। 10।।
निखिला अपि हेतयो मनुष्यकृतयो दस्युषु ता यदि प्रभूताः ।
ननु कः खलु तत्र हेतुरेकं प्रविहायामुमहो द्विपाद-दस्युम् ।। 11।।
दश सन्ति जनाः दशापि नागः स्वकृतं संप्रवदन्ति तर्हि तत्र ।
निभृतं न हि वर्त्तते छलं किं निजमित्रस्य गृहप्रदाहकं यत् ।। 12।।
यदि तालवनौकसां करेषु करवालाश्च भुषुण्डयश्च सन्ति ।
ननु तत्र मनुष्य एव हेतुर्निभृतः कश्चन किन्त्वसत्यलुप्तम् ।। 13।।
कथयन्ति समेपि तालिवाना यवनानां खलु या स्मृतिः पुराणी ।
न हि तत्र तु ये प्रमाणबुद्धिं दधते ते यवना हि नो भवन्ति ।। 14।।
यवनैर्यवनेतरस्य भारात् पृथिवीयं लघु मोचनीयगात्री ।
अपि तत्र भवेन्नृरक्तपातः स हि धर्मो वद तत्र का जुगुप्सा ।। 15।।
न हि यो यवनाध्वना प्रयाति न स बन्धुर्यवनस्य शत्रुरेषः ।
अथ शत्रुवधः क्व धर्मशास्त्रे वृजिनत्वेन विभाव्यते नृलोके ।। 16।।
प्रमदा निखिला भवन्ति वल्ल्यो फलितुं मानववंशमत्र लोके ।
न हि तासु कदापि रिक्ततास्ते-भ्युचिता कुक्षिगता मनुष्यलोके ।। 17।।
अपि सृष्टिविधौ मनुष्यलोके समुपास्येत परोऽन्वयः कुतोपि ।
प्रविहाय तु गर्भधातृभावं जननीत्वं च नरेषु लैङ्गिकेषु ।। 18।।
अपि पर्युषितं परैः प्रजुष्टं प्रमदारत्नमिलातलेभ्युपास्यम् ।
प्रमदाभिरपि स्वकुक्षिरत्नं न कदाचिद् गतगर्भमेषितव्यम् ।। 19।।
प्रविरेचितगर्भकुक्षिका याः प्रमदास्ताः परमेश्वरे विपक्षाः ।
ननु तासु परात् परो निपात्यो यवनैर्दण्ड इति स्वधर्म्म एषाम् ।। 20।।
कृपणो न मुहम्मदः प्रभुर्यः समुपायंस्त वयोधिका वराङ्गीः ।
कृपणा न महर्षयो वदन्ति पतिमेकादशकं कुरु त्विमे ये ।। 21।।
उदपादयदन्ययोषितायामपि पुत्रान् युगसंख्यकान् य एषः ।
स हि ताज इति श्रुतं महार्हं न हि चैत्यं न विनिर्ममे दिलीशः ।। 22।।
यवना निखिला हि तालिवानाः प्रमुखो यश्च बभूव कोपि तेषाम् ।
तनया अपि तस्य कार्त्तिकेयमुखसंख्याद्विगुणा बभूवुरेव ।। 23।।
यवनस्य तु या सुताः कुमार्यः सकलाभिः स्वविवाह ईप्सितो यत् ।
अखिला अपि तास्तु तालिवानैःसह सैन्यैःपरिणीतिमापिताःस्युः ।। 24।।
न हि पाक इमास्तु तालिवानभणितीर्वाञ्छति लोकसंविधानम् ।
इति सोपि हि तेषु शत्रुभूतो यवनः सन्नपि सद्य एव नाश्यः ।। 25।।
इसलामपुरस्कृते तु वादे दिवसैःकैश्चन तेऽभियोगिनः स्युः ।
अबला वयमित्यमून् न रोद्धुं क्रमिणः पाकजनास्तु ये भवन्ति ।। 26।।
अबलाजनशिक्षणं निषिद्धं सुतजन्मोत्तमसाधनं परं ताः ।
कपिशेन निचोलकेन गोप्यं निखिलं वर्ष्म वधूटिकाजनस्य ।। 27।।
प्रमदाजनयौवनानि पुंसां बलिनां पूजनपुष्पमेव नान्यत् ।
यदिवामिषमस्ति मिष्टमेतत् पुरुषायाद्भरताकरालितस्य ।। 28।।
इदमस्ति तु दर्शनं यदेषां निजजामातृवधेपि निर्घृणानाम् ।
भगिनीष्वपि नास्त्यगम्यता तद् यदि वैमातृकतास्ति कापि तासाम् ।। 29।।
सहजान् सहजा न हन्तुमेषां विचिकित्सां दधते पितॄन् यथैव ।
परुदेव बभूव मित्रता या न हि तामद्यतने हि ते विहन्युः ।। 30।।
रिपवो निखिला हि मानुषास्तद् यदि तेषां नयनद्वयं न नष्टम् ।
ननु दुर्बलतामिमे स्वकीयां गणयन्त्युत्सविनः सदैव नाशे ।। 31।।
परिपालित एष कोपि जोषं स्वपिशाचो नरजाङ्गलोऽद्य जातः ।
ननु कस्य परस्य तत्र दोषो यदि गोप्तारमसौ बुभुक्षतेऽद्य ।। 32।।
अनलस्य पशोश्च हिंसकस्य प्रकृतिः सा यदसौ समाश्रयाशः ।
न हि वेत्ति निराश्रयत्वयोगे निजकस्यैव स वै स्वयं हि भोक्ता ।। 33।।
श्वसितोऽद्य सुखेन चेदलं तद् यदि न श्वो न हि कापि तत्र हानिः ।
मरणात् पुरतस्तु गर्त्तशायी शव एषोऽस्मि बुभूषुरस्मि नैव ।। 34।।
अभिमानधना वयं भवामः परधिक्कारसमुत्सुकान्तरङ्गाः ।
विपरीतगतौ यषस्तु येषां जनकाः सन्ति तु तेषु काकवन्ध्याः ।। 35।।
( 2 )
इह भारतवर्षसीम्नि पूर्णे नवनिर्वाचनजन्यमस्ति जाग्रत् ।
अटलोत्र तटस्थतां दधानो निभृतस्तिष्ठति भाजपाग्रगण्यः ।। 36।।
विदिशा-बुधनी-मताधिकार-परिसीम्नि श्रयते तु कापि देवी ।
सुषमा, प्रथमा समीक्षणायामपि काङ्ग्रेसदलस्य वावदूका ।। 37।।
अडवानि-महोदयाय पूर्णं भरतानां भवनं शुभाभिशंसि ।
स्विसकोष-तिरोहितस्वलक्ष्मीग्रहणेनोत्सुकमानसं तु शङ्कि ।। 38।।
निखिला अपि शङ्किता इदानीं परिदृष्यन्त इह क्षणे, क्व चौरे ।
चिबुकस्य तृणं न पर्व्वतान् वै विपदां पातयते विवर्णितास्ये ।। 39।।
अपि भाजपया कृतानि कार्याण्यभिशंसन्ति परे जुगुप्सितानि ।
अथ भारत-नामयोगमात्रे परिशंसन्ति च साम्प्रदायिकत्वम् ।। 40।।
वरुणो रुरुधे तु शासनेन जनतन्त्र-प्रतिषिद्ध-भाषितेषु ।
मुमुचे परमेण भुक्तकारो नयगेहेन तु यन्त्रितास्य एषः ।। 41।।
परमो नयगेहः सुप्रीमकोर्टसंज्ञः।
जननी वरुणस्य मेनका तु भगवन्तं मनसार्थयाञ्चकार ।
तनयस्य शरीररक्षणाय, कुशलं काङ्क्षति का न सूः सुतस्य ।। 42।।
अथ राजनये न कोपि कस्याप्यपि सोदर्यसमेधितस्य मित्रम् ।
निजसीम्नि समागतस्य शत्रोः स चिकीर्षेदपि दर्शनं यमस्य ।। 43।।
अडवानिकृते-भियोगपुञ्जे कृतवानुत्तरणं वचोभिरेव ।
मनमोहनसिंह एष मन्त्रिष्वखिलेष्वग्रतमः प्रधानमन्त्री ।। 44।।
अपि राहुल उच्चकैर्बरेलीजनतायै समुदाजहार तत् तत् ।
षपथं च गृहीतवाननेकान् प्रविकासाञ् चरितुं जनेषु तूष्णीम् ।। 45।।
ललितात्रिपुराम्बिकार्चनासु धृतनिष्ठो मुरलीमनोहरोपि ।
त्रिपुरारिपुरीं वृणोति काशीं तत एवात्मन इच्छुको निरुक्त्यै ।। 46।।
अधुना बत राजनाथसिंहः स्मृतवान् राममयोध्यया समं हि ।
विहितः खलु यत्र मस्जिदस्य विनिपातः शरदां पुरा बहूनाम् ।। 47।।
अपि वक्ति विहारराज्यरेलमन्त्री रामविरुद्धमेव लब्धुम् ।
यवनस्य मतानि संप्रदायप्रियभावेन जनस्य सांसदत्वे ।। 48।।
इटलीतनया च यीशुवंशजनिता चापि च राहुलस्य माता ।
अपि काचन सोनिया च जिष्णुर्विधिना दैवतपूजनादि चक्रे ।। 49।।
तदिदं निखिलं हि दर्शयन्ति जनसम्पर्कविधानयन्त्रकाणि ।
भविता ननु राहुलः प्रधानमन्त्रीति प्ररटन्ति निर्विरामम् ।। 50।।
इति राहुलसोदरा ब्रवीति गतभीषा पुरतस्तु राष्ट्रकस्य ।
अथ तां प्रतिपादयन्ति हर्षान्निखिला दूरदृषोधिकारिवर्य्याः ।। 51।।
जनता तदिदं विभाव्य सर्वं निज-घात-प्रतिघात-शातनादि ।
परिखिन्नचितिस्तु कान्दिशीकीं भजते, तिष्ठति किञ्च कृत्यमूढा ।। 52।।
विहितं यदि किञ्चनापि कार्यं निजदेशे तदिदं दलेन केन ।
अथ निर्मितिनाशयोः प्रमाणं प्रतिपाद्यं क्व दलेधिकं तदेतत् ।। 53।।
नवतां ननु निर्मितौ निधातुं जनशक्तिः प्रथमं परीक्षणीया ।
अपरीक्ष्य तु तां यदुल्लसन्ति प्रविकल्पाः ननु घातनैव सा नुः ।। 54।।
निरुवाच जनस्य नायकं यः स हि सूचीषु निजाङ्कनां न धत्ते ।
कुशलं विचरन्ति किन्तु ये वै विनिकृत्तायुतनामकानि सूच्याः ।। 55।।
लिपिकाः खलु ते भवन्ति येषामभियोगाविषयत्वमेव नित्यम् ।
अभियोगलवेपि संघशक्त्या हरतालैः स्थगयन्ति राष्ट्रनाडीम् ।। 56।।
अहमस्मि गतो मतं प्रदातुं परिपष्यामि ममास्ति सूचिकायाम् ।
मतदानमितो हि पूर्व्वमेव विहितं केनचनापि दाम्भिकेन ।। 57।।
अपि नामपदं ममास्ति सूच्यां यदि, तल्लेखनमस्ति दोषजुष्टम् ।
ननु शोधनमस्य विद्यते वै विधिलेखस्य तु कष्टकष्टमुच्चैः ।। 58।।
ननु वस्त्रमिदं मतप्रदान-विरुदं जर्जरतामतीव यातम् ।
अपि तं परिकृत्य कर्त्तरीभिर्विदधाना वयमास्महे विधानम् ।। 59।।
अपि मार्जनकारकृत्यहेतोर्नियता काचन योग्यतास्ति राष्ट्रे ।
न हि सांसदिकस्य किन्तु कृत्ये नियतः कश्चन साक्षरत्वयोगः ।। 60।।
अपि वामकरस्य योङ्गुलीशः प्रतिलेखोस्य कृती समे विधाने ।
विहिताः किमिमे प्रशिक्षणानां निलयास्तर्हि पदाधिकाः पृथिव्याम् ।। 61।।
कृपणाः श्वपचा महामहार्ह-पदवीका परितो लसन्ति राष्ट्रे ।
न तु कश्चन तेषु वित्तवर्षारहितां कृत्यधुरं स्पृषेद् दृशापि ।। 62।।
क्रियतां तप उत्तमं जनेन कतमेनाद्य सुखेन निश्वसत्सु ।
तपसे सुखमेव गर्हणीयप्रवरत्वं वृणुते-भियोगि-सार्थे ।। 63।।
( 3 )
ये तालिवानाः परमाणुशस्त्रं पाकस्थितं हस्तगतं विधाय ।
विभीषया विश्वपतीबुभूषाविलङ्घितास्तेद्य पुनः श्रितास्त्राः ।। 64।।
अमेरिका-प्रेरित-पाक-सेना तांल्लङ्घितुं कस्यचनापि हेतोः ।
सज्जाद्य जाता, विमुखायितेव यासीत् पुरा शात्रवगर्हणासु ।। 65।।
सर्वेपि ते तालिवनाधिवासाः पश्चान्मुखा धावितुमुत्सहन्ते ।
अमेरिकाराष्ट्रपतिर्जिघांसाकषायितो-श्रूयत तेषु तस्मात् ।। 66।।
ये दस्यवस्ते न भवन्ति वीरा ह्रीणा अधर्मात्तु भवन्ति वीराः ।
अधर्म्ममेवाथ परे श्रयन्ति धर्मत्वबुद्धया विनिमीलिताक्षाः ।। 67।।
अधर्म्मतो बिभ्यति ये त एव तिष्ठन्ति वै संकुचिता गृहेषु ।
परिग्रहाद् भीतिकषायितास्ते भवन्ति सद्यो जगतामधीशाः ।। 68।।
यद् भारतानां नवसांसदानां निर्वाचनायोगयुता युवानः ।
ते साम्प्रतं भान्ति तु कान्दिशीकाः कुक्षिंभरिष्णुत्वधुरं दधानाः ।। 69।।
ये पत्रकारा विविधासु भाषास्वन्यायनग्नीकरणे पटिष्ठाः ।
तेषामपि श्रोतुमलं न कर्णाः संसत्पतीनां धनलिप्सुकानाम् ।। 70।।
वर्षाणि पञ्चाङ्गुलयोपि पञ्च घृते निमग्ना हि भवन्ति तेषाम् ।
ये सांसदा वापि विधायका वा निर्वाचिताः सन्ति कथञ्चनापि ।। 71।।
ये चापि कालाक्षरिका विधानसंसत्सदस्या, अथ सांसदाश्च ।
भवन्ति, तेषां शुनका हयत्वं व्रजन्ति काकाश्च भवन्ति हंसाः ।। 72।।
उद्घोषका दूरदृशामधन्यां वाचं ब्रुवन्तः क्षपयन्ति कालम् ।
निर्वाचनास्वासु नियन्त्रणेभ्यो दूरे च तिष्ठन्ति समेप्यसभ्याः ।। 73।।
नरेन्द्रमोदीति दृढो-शनिर्यः काङ्ग्रेसनाम्ने विषपादपाय ।
निर्वाचनाल्लोकसभासदस्यजातस्य, पूर्वं परिवादमाप्तः ।। 74।।
या गुर्जरेब्दान् बहुशः पुराणी जाता तु हिंसा ननु तत्र याभूत् ।
मोदीनरेन्द्रस्य तु भूमिका केत्यन्वेषणां न्यायपतिर्दिदेश ।। 75।।
अन्वेषणीयं ननु तर्हि राष्ट्रविभाजनायामिह भूमिका का ।
गान्धीति नाम्नश्च जवाहराख्यस्यापि प्रधानस्य च नाशिकायाम् ।। 76।।
वरुणमरुणन्मोदीं कौलीनकेभ्य उपादधा-
न्मुररिपुजनिस्थाने कारागृहे च परात् परान् ।
जनमिव दधौ काञ्चीधामेष्वराञ् जयशङ्करान्
परुषविषमानेहस्त्वं वै क्षमां क्व नु लप्स्यसे ।। 77।।
यदपि विदधे वैदेशिक्यं कुशासनमञ्जसा
विकलकरणं भूत्वा स्वातन्त्र्यसांगरिकेषु नः ।
तदिव वितथैवास्मिन् कालेपि संप्रति-शासनं
चरति जनतास्वक्षिम्पातं प्रदाय तु यातनाम् ।। 78।।
प्रतिगृहमटत्येकः काङ्ग्रेसराजदलप्रियः
षपति च वरान् स्मारं स्मारं पुराणनरोत्तमान् ।
न च दशरथापत्यं स्मर्तुं क्षमः, स हि भारतान्
कुशलतितरां काङ्ग्रेसीभूय शासितुमद्य धिक् ।। 79।।
इह हि समये नो वै शक्तो नरो भुवि शासने
न च हरिरपि प्रत्यक् कुर्वन् हिरण्यकशायिकान् ।
नरहरितया ख्यातिं लब्ध्वा तु चेद् भवितुं क्षमो
यदि, हरिनरो भूत्वा यद्वापि सङ्घटितान्तरः ।। 80।।
परमिह वृकाः शक्तान् सिंहानपिच्छलितुं क्षमा-
स्तुलयति च तानापातो महीनिभृतान्धुकः ।
क इह भविता नेता चक्षुर्विहीनतया स्थिते
जनपदजने, चक्षुष्मत्ता तु कं वरयिष्यति ।। 81।।
भुवि बहुतरा राराजन्ते कबन्धसहोदरा
भवति करयोर्येषामायामगा प्रविशालता ।
निधिमपि महीगर्भे गाढं निगूढमिमे श्वभिः
श्वसदृशचरैर्यद्वा लब्ध्वोपयान्ति विरामकम् ।। 82।।
ये खेले जयिनो भवन्ति बहवो राष्ट्राधिपा मूर्धनि
त्वेषां वर्षितुमञ्जसा निरवधीन् हेम्नां चयान् सस्पृहाः ।
ये गीतेष्वथ वाद्यवादनकलास्वाश्चर्यचर्याः समा-
नेतांश्चापि परार्ध्यराशिभिरिदंकाले प्रवर्षन्तकि ।। 83।।
साहित्यं यदि काननेषु विचरेन्नास्ति व्यथायै तु तच्
छास्तॄणामधितस्थुषां प्रमहतो-धीकारमार्गोत्तमान् ।
संगीतं पुरतो निधाय कवयो ये शारदां दूनय-
न्त्वेषां शासकता स्थिता, यदि परे कुर्युः कृपां मूर्धनि ।। 84।।
धिक्कर्तुं कटु शारदापि विषमे कालेऽत्र नैव क्षमा,
तेभ्यस्ते हि परात्पराः विदधते काराः स्वकाः साहितीः ।
अद्यत्वे यदि कौरवा हि बलिनः, स्वैरं सुखं शेरतां
ते, तेषां कुटिलान् क्रमान् कलयते नो नो स गीताकविः ।। 85।।
साहित्यं हि लोकवृत्तानां सजीवा लेखा।
इति स्वातन्त्र्य्सम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘विषमताभिषङ्गो’ नाम चतुष्षष्टिः सर्गः ।। 64।।
पञ्चषष्टिः सर्गः
अम्रीकागगनाङ्गणे निशि दिवा सन्ध्यासु च ध्वानिन-
स्त्यक्त्वा हन्त विराममद्य परितो धावन्ति वैमानिकाः ।
भूमावप्यपरं हि नाकमुपदीकुर्वन्ति चेन्मानुषाः
शान्तः सागर एषु किन्नु तनयाः लक्ष्मीर्नियुञ्जीत ताः ।। 1।।
भूमेर्नास्ति वितस्तिकापि विधुरा येषां पुरे सर्वतो
दूर्वा-श्यामलदेहतां च गमिता बाभाति, मृष्टायना ।
तेषां कार-शतेन धावितुमलम्भूष्णुत्वमाबिभ्रतां
वीराणां यदि कीर्त्तयो दिवमभिश्लष्यन्ति चित्रं नु किम् ।। 2।।
ओबामा शितिगात्रकोपि युवको देहेस्ति, चारित्रतो
निश्छिद्रोस्ति, जनस्य साह्यसवने दीक्षां गतोस्तीति सः ।
स्पष्टं राष्ट्रपतित्वमत्र गमितो निर्वाचनायोगतः
सा वै निर्णयनैपुणी निवसतामस्मिन् गुणावेक्षिणाम् ।। 3।।
ओसामाबिनलादिनेन जगती संत्रासमापादिता
तस्याध्वानमितैः सशस्त्रशतकैर्मानुष्यकं पीड्यते ।
ओबामा तु महान् विहाय निखिलान् साजात्यपाशांस्तु यो
निर्भर्त्स्य स्थिरनिर्णयो गमयते मानुष्यकं निर्वृतिम् ।। 4।।
गेहे यत्र गतोस्मि वासमिह स ज्येष्ठेन पुत्रेण मे
सर्वज्ञेन धनव्ययेन महता क्रीतोत्र शान्तोदधौ ।
सेन-फ्रान्सिसको-पुरे दिवि यथा भूलोकमानायिता-
यामस्यां सततं हि सूर्यकिरणा राजन्ति यत्र स्फुटाः ।। 5।।
अस्मिंश्चन्द्रकरा अपि प्रतिनिशं दीव्यन्ति पीयूषिता
विद्युत् कुत्रचनापि कालकणिकायां नाश्नुते विश्रमम् ।
तप्तं वारि यथा नियन्त्रितमरुद्वेगे निवासालये
दूरध्वानसुयन्त्रकैरपि दिशः सर्वा सहाशेरते ।। 6।।
पर्यङ्का नितरां पृथून् दधति वै सद्विष्टरान् पेशल-
स्पर्शान् स्रस्तररत्नकञ्चुकिततताप्राग्भारसन्मण्डितान् ।
यन्त्रैरेव तु कम्बलोत्तमवृते सन्मार्जना कुट्टिमे
यन्त्रैरेव वितर्दिकासु च परा तत्षट्पदीकर्षणा ।। 7।।
शैत्यं शामयते गृहे-नलमरुद् बद्धे कपाटद्वये,
तापं किञ्च निदाघजं क्षपयते शीतानिलो यन्त्रजः ।
कारेष्वप्ययमेव कश्चन विधिप्राग्भार आस्ते स्थितो
वस्त्राणामपि वल्कलोत्तमिततानिश्छिद्रितानां तनौ ।। 8।।
तत्तद्वृक्षफलासवाः प्रतिगृहं लभ्या न धान्यानि तद्
काम्यानि स्त्रिय आश्रयन्ति न हि तद्भोज्यादिपाकश्रमम् ।
पेयं दुग्धमिहास्ति शुद्धिमहितं गोर्वा महिष्या उत
व्यामिश्राद् रहितं पृथक् पृथगिह प्राकाम्यतः सर्वतः ।। 9।।
यद् वातादकमक्षरोटकमुत द्राक्षादिकं पिश्तया
सार्धं धन्वसमुद्भवं तदपि वै प्राकाम्यतो लभ्यते ।
भूमिर्व्योमवदास्तृतात्र महती बीजाङ्कुरीणा शतै-
रुद्यानैर्जलपोतकैश्च भरिता क्षेत्रेषु शैलेष्विव ।। 10।।
नो मानुष्यकमीक्ष्यते-ध्वनि चरन् कुत्रापि, यत्रेक्ष्यते
तत्राप्युत्तमसारमेयसचिवो वात्सल्यतः प्रीतिमत् ।
प्रीतिः कश्चन विद्यते-तिविरलः सन्मानुषाणां गुणो
निष्प्रीतिर्न मनुष्य इत्यतितरां पुण्यात्र जागर्ति धीः ।। 11।।
यन्मानुष्यकमत्र दृक्पटलकं किञ्चित् समारोहति
स्वस्थं तन्निखिलं सदैव सहितं स्मेरैश्च वक्त्रोत्तमैः ।
आकृत्या वपुषः प्रतीकसुषमालक्ष्म्या समुद्भासितं
तत् कृत्स्नं परमेश्वरस्य परम-प्रेमास्पदत्यञ्जसा ।। 12।।
एषां सन्तुलिताङ्गयष्टिरुचिराणामाननेषु स्मित-
ज्योत्स्ना राजत एव सीमितवचोव्याहारिणां सर्वथा ।
उल्लासेन परात्परेण भरिता एते मिलन्त्यात्मसा-
त्कुर्वाणा अपरानवर्णविषमीकारान् यथाद्वैतिनः ।। 13।।
ओजस्वी च वचोविधिर्न च पदं वर्णावलौ प्रस्फुटं
सीत्कारेण युतं च काकुशबलं चार्थप्रदं दृश्यते ।
तस्मादेव हि विद्यतेत्र वचने लेखे च भेदोऽन्यथा
प्रोक्तं लिख्यत एव सर्वत इह प्राज्ञैरपि त्वन्यथा ।। 14।।
प्रत्युच्चारणमस्ति वृत्तिकलना, कश्चिन्मुखं संवृतं
रक्षन्नैव हि वक्ति वक्ति करणव्यापारणाभ्यञ्चितम् ।
ग्रीवायाश्चिबुकस्य चापि विविधव्यापारभङ्गैरधोनेत्रै-
स्तिर्यगवेक्षितैश्च ललनाजातैश्च पुंभिः समम् ।। 15।।
सर्वाण्यत्र फलानि सन्ति सुलभान्याम्रादि वर्षोद्भवं
चाङ्गूरादि च शारदं, सुललितं श्रीबीजपूरादिकम् ।
एषां सन्ति रसा अपि प्रगुणितैः संरक्षणैः सर्वतो
मूल्येनाल्पतरेण सर्वसुलभा मासेषु सर्वेष्वपि ।। 16।।
आप्त्वा यैर्गृहनिर्मितावृणधनं कोषान्महद् यन्न तै-
स्तत्प्रत्यर्पणधर्मपालनविधौ संपालितं स्वं वचः ।
दातुं न क्षम इत्यतीव करुणां स्वामक्षमां सूचय-
न्नेषोद्यत्वविलेशयाग्रज इहाम्रीकाक्षितौ प्रैधते ।। 17।।
ईराकादिषु युद्धमेकमपरं तालीवनध्वंसनं
यस्मिन्नर्थमहाव्ययोस्ति नियतं राष्ट्रं तदेतद्द्वये ।
स्वं वै रक्षति केन वाद्य विधिना व्यात्ताननैः शस्त्रिभिः
प्राणान् घातयितुं स्वकानपि दृढोल्लासैर्वृतं सर्वतः ।। 18।।
पाकस्थानमसौ हि जीवयति तद् राष्ट्रं धरित्रीतले
यस्मिन्नस्ति न सौलभीमुपगता ताम्बूलवीटी नृणाम् ।
किन्त्वस्त्रव्रजवर्धनासु विपुलं द्रव्यं व्ययीकुर्वता-
मग्रण्यः खलु पाक एष नियतिं दुश्चेष्टते चर्वितुम् ।। 19।।
यद् वै भारतराष्ट्रमप्युपकरोत्यूर्ज्जाकरं शक्तिमद्
द्रव्यं दातुमुपात्तसन्धि च, दृशं धत्ते च निर्वाचने ।
राष्ट्रं तद् यदि यीशुधर्मनिरतान् भूम्ना परिप्रैधय-
त्यद्धैवैतदिहास्ति न प्रभुरहो यो भारतेषु प्रभुः ।। 20।।
यो वै भारतवासिनां प्रभुरसौ प्राकाम्यतो घोषितो
वेदैश्चापि पुराणकाव्यकलितैर्लालित्ययोगैर्यथा ।
अस्तित्वेन सनातनेन कलितं तद् ब्रह्म ताटस्थ्यभृद्
रामस्तद्धि तदेव कृष्ण इह तद् सीतापि तद् राधिका ।। 21।।
संपूर्ण ननु भारतं भवति तद् रामः स, कृष्णोपि तद्
तद्रूपा जनकात्मजा भगवती सैवास्ति राधाम्बिका ।
एतत्कीर्त्तनसंप्रदाय इह नः सत् संविधानं, कथं
तत्संकीर्तनतो मतग्रह इतः स्यात् संप्रदायाश्रितः ।। 22।।
हाहाकारशतैरथो जयजय-प्रोच्चारणाभिर्नरा
स्वं निर्वाचन-यज्ञ-पूरण-विधौ संचेष्टमाना यदि ।
रामस्यास्तु जयो, जयोस्तु भगवत्कृष्णस्य वेति ध्वनीं-
स्तन्वीरन् यदि किं नु संसदि भवेन्मानुष्यकं रक्षितम् ।। 23।।
नो मानुष्यकमस्ति मांसभुगिह प्रामाण्यमेका स्थितिः
सूते, सा च शिशोः कृते स्तनयुगे मातुः पयोजागरा ।
यः पीत्वा परिवर्धते खलु पयो मांसाय संचेष्टतां
हिंसैकप्रसवाय किं, क्व नु जलैर्ज्वालो विषासज्यते ।। 24।।
जिह्नाया वरिवस्यया न हि पुमानुच्चैस्तरां प्रैधते
कृत्वासौ व्रत-कृच्छ्र-चन्द्र-मधुनाप्यासुं क्षमेत प्रियम् ।
प्राणान् घातयितुं कृती यदि पदं पाशग्रहस्यास्ति तद्
भोज्यान्नस्य विमिश्रणामपि दधत् तस्यैव पात्रं न किम् ।। 25।।
रे वाणिज्यक-कर्मयोग-विधृतैश्वर्या! कियत् प्रोच्यतां
कुक्षौ याति पदार्थजातमपि चेत् संरक्षितं भूरि तत् ।
सोयं कश्चन मोह एव भवतां प्राणापहारप्रियो
निर्मोहो हि विराजते भुवि नरः श्रीमोहनो मोहनः ।। 26।।
( 2 )
तत्त्वानि सन्त्यत्र तुरीयमुक्तत्रीण्येव नित्यानि, विभुत्वयुक्ते ।
द्वे ह्येव शिष्टं त्वणुकप्रमाणं, जीवः स, मायापरिवेष्टितः सः ।। 27।।
माया जडा, ब्रह्म चिदेकरूपं, चिच्चुम्बकेनाधिगृहीतदेहा ।
माया चरन्तीव विपर्ययेषु बाभाति तत्तेषु विवर्त्तितेषु ।। 28।।
या चित् परं ब्रह्म तदेकरूपं ज्ञानात्मकत्वेन विमृश्यते ज्ञैः ।
कुक्षौ च तद्या यदि वा शरीरे चकास्ति चानन्दकलाविभूतिः ।। 29।।
सच्चापि चिच्चापि विभुत्वयोगयुक्तं सदानन्दघनं च नित्यम् ।
आनन्दकैवल्ययुतं परं च तद् ब्रह्म जीवः खलु तस्य शक्तिः ।। 30।।
माया च भिन्नैव जडास्य शक्तिः, शक्तं तदेतद् द्वितयं प्रशास्ति ।
चकास्ति च स्वैरमनन्यदत्तसाह्यं स्वतः, काशयते च शक्तीः ।। 31।।
राधा-पदार्थः स्वपरो न कश्चित् कृष्णे समाराधनशक्तिरेषा ।
सा ह्येव संराधनहेतुभूता कर्मायते कृष्णमयं स्वमेव ।। 32।।
श्रीकृष्ण एवास्ति तु राधनायामस्यां स्वतन्त्रः खलु कर्त्तृभूतः ।
राधा च कर्मास्ति ततश्च कृष्णो राधाप्रियो, राधितराधिको नः ।। 33।।
राधापि तद्वद् वसुदेवसूनु-कृष्णस्तदाराधित-पुंस्त्वधन्यः ।
राधापि तद्वद् वसुदेवसूनोराराधनायां परमं स्वतन्त्रा ।। 34।।
राधैव कर्त्ता ननु राधनायां राधैव कर्मापि मुरारिदेहे ।
कृष्णोपि कर्त्ता ननु तत्र तद्वत् कृष्णो हि कर्मापि च राधिकायाम् ।। 35।।
य एव कृष्णो ननु सैव राधा राधा च या सोऽत्र च कृष्ण एव ।
अद्वैतमेतद्द्वितये वचोधिदेव्या प्रसूतं द्वितयत्वमत्र ।। 36।।
यद्वा-र्धनारीश्वर एव कश्चिद् देवो महादेव इति प्रतीतः ।
वृन्दावने भिन्नवपुश्चकास्ति राधामयः कृष्ण इहास्त्यसौ सः ।। 37।।
कृपालुनाम्नः परमस्य विद्वच्छिरोमणेः कस्यचनापि गाथाम् ।
इह श्रवन्तो विलसाम एते महोदधेः शान्तशुभेऽत्र तीरे ।। 38।।
अस्मिन् देवकुलानि जाग्रति बहून्यत्यन्तमृष्टानि तत्-
तद्देवैर् भरतावनेरुपगतैर् भास्वन्ति भास्वन्मुखैः ।
शान्तः सिन्धुवरश्चतुर्द्दशतटीं लग्नो युतां त्रेतया
सेनफ्रांसिसकोपुरं श्रुतिपथाध्वन्यैः सुतीर्थी-कृतम् ।। 39।।
अस्मिन् सुस्वर-गीति-कण्ठ-ललितोद्गारा अनेके गृह-
स्था विप्रा वणिजश्च सन्ति सहिताः सिक्खैःसमृद्ध्याञ्चितैः ।
जैनैश्चापि तथैव सद्भिरभितो बन्धुत्वसूत्रोत्तमा
उद्याने नु महाद्रुमा दलबलै राजन्ति मन्दस्मिताः ।। 40।।
( 3 )
शास्तावनौ केवल एक एव धर्माभिधः संयमशान्तदान्तः ।
जनो न पूज्यो ननु तत्र तस्याचारस्तु पूज्यः स्थितिरक्षणात्मा ।। 41।।
स्वप्नेपि यः पश्यति संयमाख्यकल्पद्रुमे नो खलु पत्रशातम् ।
स एव नेता स नियामकः स सत्यव्रतः स त्रिदिवेशमान्यः ।। 42।।
अस्त्राणि शस्त्राणि च कूर्चकेशा यथा भवन्ति स्वत एव तेषाम् ।
प्रांशूत्तमानामशनिस्थिराङ्गसद्वर्ष्मणां का नु कथा त्वमीषाम् ।। 43।।
आतङ्किनस्तालवनौकसश्चेद् व्यनाशयन् सौगतवामियानान् ।
अहिंसनाख्यं तु सुधासमुद्रं व्यशोषयन् मर्त्यभुवि प्रकाशम् ।। 44।।
धन्वस्थलीवासकषायिता ये प्रस्वेदिनः पूतिसुदुर्भगाश्च ।
पूतात्मतां शौचगुणं च ते वै कथं वृणीयुः सरमात्मजा नु ।। 45।।
निर्वाचने वृत्तशतानि वृत्तान्युद्घुष्य तोषं व्रजताममीषाम् ।
वैदेशिका एव पवित्रिताङ्गास्ततश्च शास्तार इहौचितीतः ।। 46।।
प्रच्छन्नमन्तःकरणेन चौराः प्रकाशमाप्तास्तु वदान्यवर्य्याः ।
गोदुग्धसंप्राशनिकाः कदा नु भवन्ति वीराः कुलिशाङ्गका नो ।। 47।।
त्रिकालसन्ध्याव्रतिनः प्रभाते प्रभाकरार्चिः स्नपिताङ्गकाश्च ।
गोदुग्धसंप्राशनिकाः कदा नु भवन्ति वीराः कुलिशाङ्गका नो ।। 48।।
मोदी भविष्यति भविष्यति वाडवानी
मन्त्रिप्रधान इति भाजपयाद्य झञ्झा ।
साम्वर्तिकीव सहसा बत पत्रकारे-
षूद्भाविता गरलवद् दशदिग्विताने ।। 49।।
तन्त्रे प्रजानां पदलाभनिष्ठा न पूजनीयेति हि कर्मयोगः ।
अज्ञाः पुनः पूजयितुं मनीषां बिभ्रत्यहो योगमिमं विहाय ।। 50।।
अहं प्रधानं भवितेति पूर्वं निर्वाचनाद् घोषयितुं समुत्काः ।
उत्कोचमेव प्रतिपादयन्ते निर्वाचकेभ्यः परिदुर्बलेभ्यः ।। 51।।
एषैव वार्ता बत सोनियायास्तस्यास्तनूजस्य च पुत्रिकायाः ।
एते प्रधानां पदवीं गतस्य राजीववीरस्य यशः श्रयन्ते ।। 52।।
राजीवगान्धीन्दिरयार्जितायाः कीर्त्तेः फलं प्राप यथैव सा हि ।
पितुः स्वकीयस्य जवाहरस्य स मोतिलालस्य महाधिवक्तुः ।। 53।।
एषोनुवंशक्रम एव कश्चित् स्वातन्त्र्यसिद्धान्तशुभेत्र राष्ट्रे ।
राज्ञां यथा भारत-युद्ध-जन्मप्रदातृकाणामधुनापि भाति ।। 54।।
दुर्योधनो राजसुतत्वहीनो युधिष्ठिरो-न्यस्य सुतो न राज्ञः ।
मातुर्विवाहो बत येन पुंसा स एव कानीनपितेति नीतौ ।। 55।।
कानीन एवास्तु नृपोस्ति चेत् स विनीतियोगेन युतोस्ति राज्ञः ।
पुत्रोपि भूत्वा छलतो-प्यसौ हि शय्या समुद्रेस्ति परस्य पुंसः ।। 56।।
विनीतिकुक्षौ प्रविशन्ति चित्तपरिष्क्रियायोगयुता स्वनिष्ठा ।
स्वं प्रत्यगात्मा ननु ये स्वतन्त्रा देहात्मवादेन न दूषितास्ते ।। 57।।
अतो हि गीतां पठति स्म गान्धी स कर्मचन्द्रस्य सुतो महात्मा ।
धर्मं पुरस्कृत्य निजार्जितेन वस्त्रेण संछादयति स्म कायम् ।। 58।।
योग्यस्तु यः स्यादिह देशरत्ने पदाधिकारीति यदास्ति नीतिः ।
तदानुवंशक्रम एष चित्ते मतप्रदानां निहितोस्ति तूष्णीम् ।। 59।।
मोदी भवेद् वा यदि वा-डवानी प्रधानमन्त्रीति य एष भावः ।
स रामदासाय विलिख्य दत्तं राज्यं शिवेनेतिकथां न वेत्ति ।। 60।।
श्रीरामदासः शिवराज-गेह-द्वारे समर्थं स्वरमुज्जगार ।
शिवः स्वहस्तेन ददौ विलिख्य तस्मै स्वराज्यं स च मूर्ध्न्यधात्तत् ।। 61।।
राजा स रामः प्रथमं जुघोष शिवो हि राज्ये भविता-धिराजः ।
मत्प्रातिनिध्यार्थमहं शिवं हि राज्याधिकाराय दधे विरक्तम् ।। 62।।
शिवोपि दासो नु विरक्तचितो वनाय गन्तुं कृतवान् मनश्च ।
श्रीरामदासप्रभुरेतमेव शास्तारमद्यापि दिदृक्षते च ।। 63।।
आदेशमेतं स शिवः स्वमूर्ध्ना दधे च भूमिं कृतवान् स्वतन्त्राम् ।
औरङ्गजेबस्य तिरश्चकार साम्राज्यमात्मावनिभाग एषः ।। 64।।
दलानि सर्वाण्यपि काङ्गरेसव्याप्यानि काङ्ग्रेसपदाभिधायाम् ।
संकेतितायां जनसंघ उच्चैः काङ्ग्रेसतो व्युच्चरितः स शब्दः ।। 65।।
नरेन्द्रमोदी स च लालकृष्णोडवानिसंज्ञो यदि गुर्जरीयौ ।
द्वाप्यमहो मोहनदासगान्धीमार्गाध्वगौ मारुतिबद्धभावौ ।। 66।।
दशास्यवंशं क्षपयाञ्चकार दूर्वां नु मूले कृततक्रसेकः ।
श्रीमारुतिर्वज्रतनुर्जितात्मा साहित्यगाता ननु रामभक्तः ।। 67।।
श्रीमान् मनोमोहनसंज्ञको यः प्रधानमन्त्री जगदर्थशास्त्री ।
स यद् दलं संश्रयते तदीया संज्ञास्तु युक्ता ननु भाजपैव ।। 68।।
ये भाजपीया निखिलास्त एते काङ्ग्रेसिनः सन्ति, न भिन्नचिताः ।
भाषाविवादे न हि तत्त्वनिष्ठा मुह्यन्ति ते-र्थं प्रति-बद्धचित्ताः ।। 69।।
मीमांसकाः शूकमिषीकनिष्ठं निष्कासयन्तः प्रतिलब्धसत्त्याः ।
व्याहारजाते व्यवहारजाते यथा सदैकात्म्यजुषो विभान्ति ।। 70।।
ये दस्यवः शात्रवसंज्ञकेस्मिन् महापटे छिद्रकृतः प्रविष्टाः ।
ते सुस्थगात्रा यदि हन्त लब्धा सौस्थ्यं कदाप्येष जनः स्वतन्त्रः ।। 71।।
द्रव्यात्मना नृत्यति भूमिलोके यो भैरवः कश्चन, शैलपुत्री ।
मातैव तं शातयतीति सत्यं सा शैलपुत्री परमा चितिर्नुः ।। 72।।
दुर्योधनो वाञ्छति राज्यमुच्चैरुच्चस्वनो गर्जति चाद्य गर्जेत् ।
युधिष्ठिरः किन्तु पितामहादीन् प्रति प्रणामाय कपोतहस्ती ।। 73।।
शीलं हि सर्वत्र पदाधिकारे पीयूषतां वा विषतां हि धत्ते।
निर्वाचकायत्त इहास्ति धर्मः पापाभिधः कोऽपि चितानलश्च।। 74।।
निर्वाचनास्वासु परीक्षणीयं प्रत्याशिनां कोस्ति युधिष्ठिरोद्य ।
हठी स कश्चिद् धृतराष्ट्रपुत्रः शृगालदंष्ट्रासु निपातनीयः ।। 75।।
क्षेमेन्द्र एको हि ददर्श तस्य दशामिमां काञ्चन कष्टकष्टाम् ।
सनातनो वाञ्छति तामिदानीं द्रष्टुं स्वराष्ट्रस्य समृद्धिमिच्छन् ।। 76।।
सर्वे शृगाला! सुहृदोत्र गोष्ठीरसाय यूयं च निमन्त्रिताः हि ।
आयान्तु कुर्वन्तु च मन्दिरत्वं श्मशानभूमेः परिचर्व्य दुष्टान् ।। 77।।
ये केपि धन्याः प्रचलाकिनः स्युः कुमारवीरासनगौरवाढ्याः ।
तेप्यत्र सत्रे महति प्रहाय संकोचमायान्तु रसस्य तृप्त्यै ।। 78।।
पीयूषमेकत्र हलाहलं च परत्र नस्तिष्ठति दिग्विताने ।
तत्प्राशनास्वस्ति फलं समानं लाभश्च भङ्गश्च विधा विधौ नः ।। 79।।
सा सर्जना काचन विद्यते नः सा वर्जनाया भगिनी कनिष्ठा ।
ज्येष्ठापि चेत् सैव कनिष्ठिकायाः पादौ स्वसुः संग्रहणाय सृष्टा ।। 80।।
या सर्जना सास्ति विसर्जनायै चेद् वर्जनाप्यस्ति न संग्रहाय ।
स्वतः-प्रवृत्ती यदि ते कृतं तत् कर्तृत्वदोषेण विनेतृनेत्रोः ।। 81।।
विनेता=गुरुः, नेता$नयकः।
दलं न किञ्चित् कुरुते, करोति दलं हि सर्वं यदि वा समाजे ।
व्यक्तिर्दलं पुष्पति मालिकायां पुष्पातिरिक्ता ननु मालिका का ।। 82।।
अशिक्षिताः संघटिता भवेयुर्दलत्वमाप्ता इति संघशक्तिः ।
ये शिक्षितास्ते स्वत एव संघशिक्षाप्रकाशा विचरन्ति राष्ट्रे ।। 83।।
अशिक्षयैवाद्य हहा क्रियन्ते नृत्यानि तत्तानि महाध्वनीनि ।
प्रोद्धूतपाणीनि नभोविताने कुक्षिम्भरिष्णूनि च घस्मराणाम् ।। 84।।
निर्वाचनाध्वरितभारतराष्ट्रसिन्धु-
कुक्षिष्वमी बत चरन्ति तु राघवा ये ।
तेषां महाविवरदंष्ट्रमुखानि तूर्ण-
मायान्ति पूर्त्तिमखिल-स्व-विवर्जनाभिः ।। 85।।
कक्षाणि भर्जयति वह्निरथो शिलासु
शान्तं स्वतो हि भजतीति निसर्ग एषः ।
ये वै तिमिङ्गिलगिला ननु तेपि कुत्र
तिष्ठन्ति, नूनमुदधौ, स च लोक एव ।। 86।।
कस्मै गुणाय भविता ननु विक्रमोस्य
चक्षुष्मतोति हृदयेन गतेक्षणस्य ।
द्रव्येण घातयितुमाह्वयते परं यो
दस्युं तमप्यधिकरोति स घातनाभ्यः ।। 87।।
मार्जारिकाद्वयगते कलहे कपिश्चे-
न्निर्णायकस्य पदवीं श्रयते, तुलां सः ।
पक्षे स्वके नमयते ननु सर्वमेव
कुक्षौ निजे च कुरुते स निसर्ग एषः ।। 88।।
रे भारतस्य शिशवो युवका भवेयु-
र्यूयं समेपि, युवसु स्वयमेव लक्ष्मीः ।
आसीदति स्वयमथो भुवनत्रयस्य
व्योमापि पूर्त्तिममृताम्बुधरैः प्रयाति ।। 89।।
कुत्रास्ति राम इह कुत्र च रावणोस्ति
कुक्षिम्भरिष्ववनिगेषु मनुष्यकेषु ।
किन्त्वस्ति तद्द्वितयसिद्धिमहार्हतन्त्रं
मन्त्रस्तु साम्प्रतमपि प्रतिभैकरूढः ।। 90।।
सूर्योभ्युदेति सततं प्रथमाचलाच्चे-
दस्तं प्रयाति च पराचल एव नित्यम् ।
सोयं तथैव नियतो ननु सिद्धये नु-
र्मन्त्रोपि, धर्म इति तस्य शुभास्ति संज्ञा ।। 91।।
सर्वे पुमर्थतरवोत्र चतुष्पथे हि
तिष्ठन्ति हन्त फलिता अनियन्त्रिताश्च ।
आदीयते यदधिकं तु ततः फलिष्णु-
भावोत्र तिष्ठति सनातनभावमाप्तः ।। 92।।
व्रजतु विफलतां गतः कदर्यक्रम इह मानुषलोक-तीर्थगात्रे ।
परिणमतु च बाहुशालियूनां भुजवटपादपकाननं प्रयागान् ।। 93।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविश्रीरेवाप्रसादद्विवेदिकृतौ ‘पञ्चदशलोकसभानिर्वाचनो’ नाम पञ्चषष्टिः सर्गः ।। 65।।
षट्षष्टिः सर्गः
आतङ्क! कुत्र ननु तिष्ठसि बुद्धिकोषे
पुंसो यदि स्वयमहो न बिभेषि किं त्वम् ।
बुद्धिर्निमज्जति चितौ चितिरेषका च
नित्या भवत्यथ च निर्वृतिपूरिता च ।। 1।।
आतङ्क! को भवसि नूनमसाववीर्यै-
र्निर्वीर्य-धर्षणमुपद्रवसारमात्रम् ।
वीर्यं विवर्धयति काल उदाकरोति
कालो हि काल इह चङ्क्रमणासु रूढः ।। 2।।
एकः सहस्रमपि नाषयितुं समर्थः,
कालस्य नर्तनमिदं, यदि नास्ति किं तत् ।
एकः सहस्रमपि भावयितुं समर्थः
कालस्य सास्ति करुणा, यदि नो किमेतत् ।। 3।।
श्वासाश्चलन्ति च विराममपि श्रयन्ति
तत्रास्ति कस्य तरुणा करुणेश्वरस्य ।
ईशं हि वर्जयतु भर्जयतु प्रभावः
कस्येश्वरस्य यदि चेदनवस्थिताः स्मः ।। 4।।
वन्या जनाः पशु-पतत्रि-लता-द्रुमाद्याः
किं कुर्वते कलिमुदीरितकष्टचित्ताः ।
वेगानुदस्य निभृतास्त इमे न किञ्चित्
कुर्वन्ति, का कलिरमीषु च सौहृदी च ।। 5।।
सिद्धं तदेतदुपदीकुरुते विकारान्
धिक् चेतसोऽधिक-परिग्रह-गृध्नुतैका ।
भोगाधिकी च करणेषु विपच्यमाना
क्षुच्चापि काचन कदाप्यवितृप्तिकैव ।। 6।।
रे बुद्धिमत्सु परमो नर इत्यभिख्यो
जन्तो! दशा बत तवेयमहो कथं नु ।
बुद्धिर्गता तव दिशं कतमां, बुभुक्षु-
रुक्षापि भक्षयति शष्पमपीह नैकम् ।। 7।।
आदिष्टवान् यमपतिर्नहि तालिवानान्
क्षन्तुं क्षमोऽस्मि चतुरो दश वापि वारान् ।
अस्मात् परं स्वयमहं मम सैन्यमेभ्यः
संप्रेशयामि च करोमि च शत्रुनाषम् ।। 8।।
द्रष्टा न पाकगत-दृष्टिनियन्त्रणानि
स्वातन्त्र्यमत्र परिनिष्ठितिमापितं च ।
विश्वद्रुहः क्षपयितुं बत तालिवानान्
विश्वं हि मे समरभूरिति संविदानः ।। 9।।
द्रव्यं यदि क्षपयितुं किमपीह तालि-
वानानपेक्षितमिदं खलु तद् ददामि ।
सैन्यं तु पाकगतमत्र निवेशनीयं
तेनापि कार्यमिदमाशु समापनीयम् ।। 10।।
सप्ताहयुग्मविगमक्षण एव सद्यः
संसूच्यमस्ति परिणामगतं प्रमाणम् ।
कार्यं कियत्तु परिपूर्तिमितं कियच्च
संपूर्तिमिच्छतितरामधुनेति मह्यम् ।। 11।।
ओबामशासनमिदं समुपात्तरंहाः
पाकः प्रपूरयति सैन्यदलं नियोज्य ।
गच्छन्ति तालिवनवासिषु ताम्रकूर्चा
दृष्टिं पुनः कतिपये विधृतास्त्रशस्त्राः ।। 12।।
बुद्धान् विनाश्य च विनाश्य च दत्तसाह्यान्
पार्श्वस्थितान् कतिपयान् यवनप्रदेषान् ।
ये स्वान् ब्रुवन्ति परमेश्वरसेवकांस्तान्
कस्तालिवानसुभटान् विमुखान् विदध्यात् ।। 13।।
केचिद् ब्रुवन्ति परमेश्वरसेवकाः स्मः
केचिद् वदन्ति परमेश्वरदूतपुत्राः ।
सर्वे वयं मरुभुवः परुषाः कटाक्षा
उद्यानभूमिमधिकर्त्तुमुदायुधाः स्मः ।। 14।।
यस्मिन् वहन्ति सरितः सजलप्रवाहाः
सातत्यसन्ततशुभाश्च समुद्रगाश्च ।
यत्र द्रुमाश्च लतिकाश्च वनानि शैलाः
पुर्यश्च मानवकुलैः परिवारिताश्च ।। 15।।
सस्यानि यत्र सुबहूनि फलानि पुष्पैः
पत्रैश्च सार्धमतिथिष्वपि गेहगेहे ।
सौलभ्यभाञ्जि कलभाषिकलत्रमौग्ध्य-
मुग्धानि मानवकुलानि वसन्ति सन्ति ।। 16।।
शिल्पानि धातुषु शिलासु मनुष्यहस्तै-
रुट्टङ्कितानि विविधेषु निवेशनेषु ।
पूजां प्रयान्ति, मनुजाङ्गभुवाभिनीति-
सङ्गीतकेन मुखराणि विभान्ति दिक्षु ।। 17।।
गेहा लिहन्ति बहुभूमिकसन्निवेशाः
शुभ्राश्मभित्तिपरिभूषितदिग्वितानाः ।
आयामिनश्च परिरक्षितसूक्ष्मसूक्ष्म-
शब्दाश्च शीततपनर्तुसुखाश्च भूम्ना ।। 18।।
अस्मिन् भुवस्तलगते सुरलोकभागे
भोगाधिकारमुपलब्धुमिमे भुजा नः ।
शक्ता यदि स्वयमहो कथमत्र तैल-
पूर्णेऽपि धन्वनि निवस्तुमिमे स्म बाध्याः ।। 19।।
क्व दूतपुत्राः क्व परेश्वरस्य
साक्षात् सुताः सर्व इमे महान्तः ।
भवाम एते धनधान्यपूर्णा
निवासिनो धिग् मरुधन्वनः स्मः ।। 20।।
इत्थं समेपि समुदित्वर-मत्सरान्त-
श्चित्ताश्छलेन च बलेन च घस्मरन्तः ।
भूयोपि पाण्डव-कुरूद्भव-धार्तराष्ट्र-
संहार-मार्गमभिधावितुमुद्यतन्ते ।। 21।।
गीताभिधानमिह गीतमुदीरयामो
गीतं पराभवकथामिदमामनामः ।
नो चेन्नरेण कथिताः परिणामदोषा-
स्ते ते विदार्य वदनानि कथं दिपन्ति ।। 22।।
नरेणार्जुनेन गीतारम्भे।
साङ्कर्यदोष-परिदूषित-संस्कृतिस्था
मिथ्याभिमान-परिपूरित-कौशलाः स्मः ।
सर्वे वयं स्मृतिसृतिं समुपास्य धर्म्यां
देहाभिमानविरताः परितो लसामः ।। 23।।
देहाभिमान-कलना-परिपूरितानां
भक्ता भवाम उरुगायविभूत्तमानाम् ।
व्यासादिबुद्धिविभवेन विभावितानां
नान्यादृशां नरचरित्रसगोत्रितानाम् ।। 24।।
सा ह्येव चुम्बनकला परिरम्भणं च
तादृग्विधं हि मनुजान्वयिभिर्यदिष्टम् ।
भक्ता वयं च भजनीयतमं च तत्त्वं
तत् तादृशं, किमिदमित्यनुचिन्तयामः ।। 25।।
एकत्र पुष्यति मनुष्यभुवि प्रधान-
मन्त्रित्वलिप्सु-समरे ननु कापि लाला ।
अन्यत्र मानवशरीरगतानि रक्ता-
न्यासाद्य काचन मनुष्यगताशनाया ।। 26।।
योऽमेरिकावनिगतः खलु राष्ट्रमुख्यो
ये पाक-पाकज-विकारभुवो भुजिष्याः ।
द्वन्द्वं तयोरिह परीक्षणवह्निमग्नं
विद्योतते, परिणतिं च दिदृक्षते भूः ।। 27।।
आदेशपालनविधौ शिथिलत्वयोगं
पाकः सदैव परिदर्शयते स्म तस्मै ।
औबामिकं वचनमस्ति तुलां गतं नु
नोच्चावचत्वविमुखाश्च तुला दिपन्ति ।। 28।।
वन्दीकृता नरसहस्रयुगी रिपूणा-
मेकत्र तालिवनदस्युभिरेषका च ।
अन्यत्र पाकपरमाणुपरिक्रमायाः
संरक्षणस्य सुरसामुखसंविवारः ।। 29।।
द्वाभ्यां निगीर्यत इदंक्षणमद्यपाको
भीत्या च संप्रभुनिदेशचिकीर्षया च ।
पाल्यस्य वा क्षय उतान्नकणप्रदातु-
स्तातस्य वाक्यपरिभङ्गविषाशनं च ।। 30।।
कश्चित् प्रपश्यति दृशोश्चतुरेण भङ्गे-
नान्यं च सस्मितमुदीर्य वचः पटिष्ठम् ।
चातुर्यमाश्रयति या खलु कामिनी वै
तच्चातुरी प्रकटिता न न पाकदेश्यैः ।। 31।।
विश्वं प्रवञ्चयति पाकमही स्म भूम्ना
कालेन तिर्यगभियोगमुपाश्रिता या ।
तस्यां धृतस्य कुहनाक्रमणस्य का वा
शुद्धिः, कथा च परिरक्षितुमस्ति काद्य ।। 32।।
गर्भो न जारमुपपादयते जनेभ्यो
नार्या अनार्यपदवीधृतचेतसो नो ।
को वा शमो विपरिपक्वविपाककस्य
क्ष्वेडस्य कस्यचन वह्निमुचो द्रुतस्य ।। 33।।
पाकाश्च तालवनवास्यसुराश्च मुग्ध-
मुग्धाः समेऽपि न हि बुद्धिलवोऽपि तेषाम् ।
यद् दुर्गभित्तिषु तिरोहितमस्ति कूटं
किं तन्न तस्य विदितं परमेश्वरस्य ।। 34।।
सोऽयं स्वयं न भविता भवतां समक्षं
बद्धस्थविष्ठतनुकः परमेश्वरोपि ।
बुद्धिं तु दास्यति तदेकपदानुवीक्षा-
दक्षां विनाशमुपसीदति येन जन्तुः ।। 35।।
भूयांसि सन्ति तु निदर्शनकानि लोके
लोकेतिहास-निपुणै-रुपबृंहितानि ।
तेषां भवानपि विवर्धयिताद्य संख्यां
दृष्टिं दृशोर्भयवशान्मलिनां विधाता ।। 36।।
त्वं भूनिखातशयितोपि करिष्यसे किं
काष्ठामुखानि कलुषाणि विनिश्वसैः स्वैः ।
नो चेत् सति श्वसनसन्ततिकोषपोषो-
पाये कथं विशसि मृत्युमुखानले त्वम् ।। 37।।
स्वस्त्यस्त्विति प्रसभमुद्गिरतोऽपि तेऽस्य
को दुश्चिकित्स्य उपसीदति हन्त रोगः ।
यो दंष्ट्रिकास्विव निवेशयते बलात् त्वा-
मादाय केशनिचये जगदन्तकस्य ।। 38।।
कालोस्मि लोकक्षयकृत् प्रवृद्धः-गीता।
सर्वेश्वरोस्ति परमेश्वर एव तस्य
चक्षुर्निमीलयितुमस्ति न कोपि शक्तः ।
तस्यैव हन्त पुरतः कुरुषे जघन्या-
न्यागांसि यानि दुरुदर्क-करालितानि ।। 39।।
किं वा खुदापि भवतां भवतैव सार्धं
गर्ते निखाततनुकोस्ति च निष्क्रियोस्ति ।
सोऽयं मृतस्त्वमसि तस्य निवापकृत्ये
लग्नः करोषि नु भुशुण्डिभिरस्य तृप्तिम् ।। 40।।
तृप्तिं तर्पणम्।
चाणूरकन्दुकमुपाक्षिपदन्तरीक्ष-
गर्भे परं तदनु मुष्टिकमस्य पार्श्वे ।
चिक्षेप बालधिमुपादददात्तरंहा
यः सोऽभितः समुपसर्पति किं न कृष्णः ।। 41।।
यः कुम्भकर्ण-खर-दूषण-मेघनादान्
मृत्योरदर्शयत भीषण/दन्तुरमास्यगर्भम् ।
यो वै दशास्य-भुज-विंशतिकां चकर्त्त
तन्नाभिगामपि सुधां च शुशोष बाणैः ।। 42।।
कः सोऽखिलेष्वपि जनेषु वसन्नुदारो
रामो न दाशरथिरेव मनुष्यदेहः ।
संहारशक्तिदमघोषसुतानुरक्तः
सोयं विराडपि परः, पुरुषोत्तमोपि ।। 43।।
यच्चापि मारवपशो! रसपिच्छलं त्वं
विस्मृत्य तिष्ठसि सरोवरमात्मनीनम् ।
भेकायसे तटभुवि प्रथमान-टर्र-
टर्रं कटु क्वणित-कूर्द्दित-पक्षपातैः ।। 44।।
( 2 )
पुरीस्थिताः शङ्करपीठनिष्ठाः श्रीनिश्चलानन्दसरस्वतीन्द्राः ।
हिन्दूविरोधे धृतराष्ट्रपीठ-दिल्लीश्वरान् संज्ञपयाम्बभूवुः ।। 45।।
नियन्त्रणं स्यादिह भाजपाया हिन्दूविरोधेन समुत्सुकायाः ।
हिन्दूदलाख्यामुपलालयन्त्या अहैन्दवाचारपरायणायाः ।। 46।।
ते निश्चलेन्द्रा निजदेशशिक्षा-
दीक्षाः स्फुटं मञ्चशतैः समुच्चान् ।
स्वरानुपादाय सदैव हिन्दू-
जनैः श्रुता हिन्दुसृतिं ब्रुवन्तः ।। 47।।
इत्थं जगद्गौरवमावहन्तस्त्रयो यतीन्द्रा इह विश्वहिन्दून् ।
तत्पारिषद्याचरणानि हिन्दूविरुद्धवर्ष्माणि विगर्हयन्ते ।। 48।।
द्वौ श्रीस्वरूपा बदरीप्रधान-श्रीद्वारकाधीश्र-पीठयुग्मे ।
सार्धं विधानैरभिषिक्तपादौ जगद्गुरू किञ्च पुरीष एकः ।। 49।।
चतुर्थयोः शृङ्गगिरीन्द्रपीठाधीशास्तथा काञ्चिपुदीप्रधानाः ।
परः समर्थेन समर्थनेन हिन्दुत्वमेवोच्चतया धिनोति ।। 50।।
आद्यस्य शृङ्गेरिमठाधिपस्य जगद्गुरोः शङ्करविद्वरस्य ।
श्रीभारतीतीर्थ इति श्रुतस्य ताटस्थ्यमेवास्ति कदाचिदत्र ।। 51।।
श्रीरामजन्मावनिगाय रामरामाभिरामाय तु मन्दिराय ।
कृतप्रतिज्ञापि च भाजपैव व्यलम्बतोच्चैश्चकमे छलञ्च ।। 52।।
छलं त्विदं वाञ्छति भाजपैव श्रीरामनाम्ना विहिते विशाले ।
धर्मस्य केन्द्रे निजगोपनायै स्थानं विधातुं यवनोपमानम् ।। 53।।
सा भाजपा वाञ्छति शङ्कराख्याचार्यस्य पीठेपि मताधिकीभिः ।
नियोजितान् वर्णचतुष्टयस्य कस्यापि वर्णस्य जनान् निरुक्त्या ।। 54।।
सा विश्वहिन्दूपरिषद् विधानं स्वीयं जुगोपैव, न तत् प्रकाशम् ।
चक्रे विधाने ननु तत्र किञ्चिदापत्पदं तर्कयितुं क्षमा धीः ।। 55।।
ये तत्सदस्याः कृतिभिस्त एते समेपि काङ्ग्रेसदलस्य मन्त्रान् ।
जपन्त्युपांशु त्रितयेपि सन्ध्याक्षणे चरन्त्यार्यविपर्यये च ।। 56।।
तस्या यदा केन्द्रगतोऽधिकारो बभूव तत्रापि न जन्मभूमिः ।
रामस्य मुक्तिं गमिता, गता सा चेन्मुक्तिलेशं ननु सा नृसिंहे ।। 57।।
नृसिंहरावो हि बभूव मन्त्रिप्राधान्यभाक् तत्र हि वर्षरत्ने ।
आयोध्यके सीमनि बर्बरस्य यन्मस्जिदं तद् विलयं प्रपेदे ।। 58।।
श्रीमान् नृसिंहो न पुनर्विलेभे काङ्ग्रेसनिर्वाचनपत्रमार्यः ।
तथापि तूष्णीं खलु तस्थिवान् स न भाजपायां क्रमणं चकार ।। 59।।
( 3 )
भाले दधानस्तिलकं प्रकाशं रक्तद्युति प्राप्तमनुश्च शक्तौ ।
यश्चापि मुर्लीति मनोहरश्च जोशी स वै कोटिपतिः कटुश्च ।। 60।।
यःश्रीशचन्द्रःखलु दीक्षितोऽस्ति संसत्सदस्यःस च नैव भागम् ।
गृह्णाति कृत्येषु विसङ्गतीनां शतैर्गृहीतेष्वपि बोधितोऽपि ।। 61।।
एकश्च कश्चिद् दिशि दक्षिणस्यां कर्णाटकानां खलु राज्यपालः ।
स वै चतुर्वेदविदां वरेण्यस्त्रिलोकनाथस्त्रिदिवेश्वरो हि ।। 62।।
मध्यप्रदेशे खलु मुख्यमन्त्री यो भाजपायाः शिवराजसिंहः ।
स संस्कृतज्ञानभृतेषु जुष्टां कष्टेन धत्ते दृशमुग्रदर्पाम् ।। 63।।
उमेति नाम्ना प्रथितास्ति काचित् खर्जूरवाहक्षितिसांसदा या ।
सा भाजपाया बहिरेव कृत्यैः स्वीयैः कृता नालभत प्रवेशम् ।। 64।।
श्रीलालकृष्णोप्यडवानिशब्दोऽटलस्य राज्ये निजराष्ट्रमन्त्री ।
बभूव तस्यापि जिनाभिधाने पाकप्रधाने ननु सादरा धीः ।। 65।।
काङ्ग्रेसनाम्ना प्रथिते दले नो प्राधान्यमस्थास्यत यावनीयम् ।
अलम्भयिष्यन्ननु तद्धि राष्ट्रे प्राधान्यमेते च लसाम सुस्थाः ।। 66।।
दलान्तराणां निजजातिवादजिजीविषूणां जनतान्त्रिकत्वम् ।
श्रीभाजपाया इव, नेतृतायां कलङ्क एवास्ति न शासकत्वम् ।। 67।।
पाके स्वबन्धुब्रुवशत्रुभावो यथा प्रधानत्यधुना तथैव ।
देशेऽस्मदीयेपि स एव भावः प्राधान्यमत्युत्कटमाबिभर्ति ।। 68।।
सेयं दुर्बलतैव मानवकुलस्यैतस्य विश्वस्य धिक्
शूद्रत्वं गमितस्य विप्रजननीसूतस्य कस्यापि नुः ।
हिन्दुत्वेन विरेचिता वयमथो पाकस्थलीयाश्च्युता
इस्लामेन, विभूषिताद्य पृथिवी यीशुप्रभोरर्चकैः ।। 69।।
ये यीशुप्रभुपूजका भवति वै तत्रापि वर्णद्वयी
कालत्वं च वदातता च वपुषस्त्वग्भागनिष्ठं त्विदम् ।
तत्राप्यस्ति दलद्वयं परमहो यत् साम्प्रतं वर्तते
राष्ट्राधिप्यमवापितो बहुमतैः काल-त्वगेषोस्ति वै ।। 70।।
ये यीशुप्रभुपूजकास्त्वचि महानेषां समभ्यादर-
स्तेप्यन्यस्य गृहं प्रभोरपि हहा दातुं रता वह्नये ।
यत् कालै रचितं प्रभोर्गृहमिदं गौरा ददत्यग्नये
कालाः गौरविनिर्मितं प्रभुगृहं दग्ध्वा लभन्ते सुखम् ।। 71।।
यद् गिर्जागृहमस्ति तत्र यदि चेद् यीशुप्रभुस्तष्ठति
ज्वलामालिनि भर्जिते ननु गृहे नो भर्जितः किं प्रभुः ।
रे गौराः प्रभुपूजकाः कथमिमे कालाः परे नाग्रजा
एते तुभ्यममी कथं न्वनुजतां धेयासुरेकात्मजाः ।। 72।।
साम्राज्यं यदि लम्भिताः परगृहे स्वस्मिन् समुच्छृङ्खला
भूयासुर्ननु बन्धुबन्धुरधियः सर्वेप्यमी मानवाः ।
किं भावी जगतः परस्परमिमे शस्त्रास्त्रकैर्मण्डिता
दध्युस्तां हि गतिं दधे कुरुकुलप्राग्रेहरैर्भारते ।। 73।।
मोदी दुर्बलमाभणत्यतितरां श्रीमोहनं गाँधिभि-
स्तैस्तैः कामनया युतैर्गुरुतमस्यात्राधिकारस्य तैः।
श्रीमान् मोहन एष भाजपदलच्छिद्रेतिहासे पुर-
श्चर्यायां निरतो रतो निजदलस्याग्रसरत्वाय सः।। 74।।
यो लालूः, खलु रावडी च, पसवान् यो वै, नितीशश्च यो
मोदी यश्च सलालकृष्णविरुदः सर्वेप्यमी केवलम् ।
मन्त्रिश्रेष्ठपदं लषन्ति च तथा चीत्कुर्वते भाषिते-
प्यद्यत्वेषु, गतं युगं बत बत त्यागैकहेवाकिनाम् ।। 75।।
एकोऽभूदिह गान्धिभक्तिमहितः श्रीमान् विनोवा स वै
नावाञ्छत् पदमुच्चकैरपि पठन् गीतां विरक्तान्तरः ।
यश्चासीत् तिलको महामतिवरो ज्योतिर्विदामग्रणीः
सोऽभूदुत्सुक आप्तुमन्तसमये प्राध्यापनां सत्तमः ।। 76।।
एते न्यायविदः समेपि कृतिनश्चित्तेन सांराविणः
स्वातन्त्र्यस्य परात्परस्य सुलभस्यात्रैव वैराग्यतः ।
एतेषामभियोगतोऽस्ति गमिता स्वातन्त्र्य मेषावनिः
संप्रत्येव शतार्धकेन वयसा जातान्तरे जर्जरा ।। 77।।
यास्माकं पुरतो गतिर्भवति सा दृश्याद्य दूराभिधे
नग्नत्वं प्रमुखायते यदुदरे दृश्यासु चेष्टासु नः ।
तत्रास्माकमहो पुरोगतिरथो नो सन्ततौ, शिक्षया
गीर्णानां प्रथमे वयस्यथ समायातेऽन्तिमे गेहिनाम् ।। 78।।
मार्गं यं श्रितवानभूत् सफलतां प्राप्तः पुराणो जन-
स्तेनैवाद्यतना इमेऽपि सफला भूयास्स्म नान्येन धीः ।
एषा छात्रसमूहकेऽस्ति निभृतः कोऽध्यापनाया गुणः
को मार्गस्य च नूतनस्य विशदङ्कारेऽधुना योगिनाम् ।। 79।।
दानं यत्र परात्पराय सवनायाप्यस्त्युपक्रोशिता
दातुः पाणियुगञ्च तिष्ठति ततः किञ्चित्समाप्तुं धनम् ।
नो चेद् दोषशतैर्निरुध्य नियतं राशिं समुत्थापितुं
वज्रं प्रेप्सुषु सस्पृहाः खलु भवन्त्यद्याधिकारिब्रुवाः ।। 80।।
दत्त्वा मारयितुं परं विमतिकं मुञ्चन्ति केचिद् धनं
लब्ध्वा घातयिता कृतक्रियतया धत्ते च निश्चिन्तताम् ।
ये वै गुप्तचरास्तदर्थमपि तद्राशेरुपांशु द्रव-
त्यंशो न्यायगृहे च सिध्यति, न वै दोषी जनः कश्चन ।। 81।।
क्षेमेन्द्रस्य कलाविलासमुपदीचर्कर्त्ति काचित् कथा
यत्रोपांशु शवस्य तैलपतितान्यङ्गानि पक्त्वा द्विजैः ।
ब्राह्मय भोजनपुण्यमर्जितुमुपप्राशाय विप्रान्वयैः
सिद्धिं भानुनृपः परैति, परतः प्राप्नोति च प्रेतताम् ।। 82।।
अद्यत्वे खलु कश्चनापि न जनो विप्रः, पिशाचोत्तमाः
सर्वेपि क्व नु पातु शापवचनं सिद्धिं कृशामप्यहो ।
पैशाचीं हि गिरं ब्रुवत्सु कलना स्यात् कीदृशी याज्ञिक-
व्रातेष्वेषु गिरं जपत्सु भगवद्वाक्यत्वमासेदुषीम् ।। 83।।
अद्यत्व! द्रुतमुत्प्रयातु भविनीं वेलामुपेक्ष्य क्षयं
यातामेव गतं भजन्त्यतिथयोप्याश्वातिथेयिश्रियम् ।
सर्वे कालगृहातिथित्वनियता नंष्ट्वा क्षयं नात्मनः
सिद्धिं नैव गता विरामकणिकामप्याप्तुमप्यक्षमाः ।। 84।।
न्यायस्याधिपतित्वमप्युपगता ये शासनस्यैव ते
रक्षां कर्त्तुमुदित्वरोत्सवधुरो जाग्रत्यदृष्ट्वाऽनृतम् ।
यो वै घातयिता स एव यदि चेन्न्यायाधिकारस्थितो
रे रे न्याय! लयं प्रयाहि भवता कार्यं भुवो नेक्ष्यते ।। 85।।
न्यायो धर्ममहाद्रुमाऽनृतपथेष्वावर्त्त-निर्णायका
यं ह्याश्रित्य समे कृतक्रियतया राजन्ति नित्योत्सवाः ।
तस्यास्यैव चलाचलेष्ववयवेष्वाशेरते चेन्महा-
सर्पाः क्ष्वेडकरालदंष्ट्रिकमुखज्वाला, क्व वा यातु भूः ।। 86।।
किं भावीति हृदि स्थितां द्रुतपदं संत्यज्य चिन्ताचिता-
मश्नायां क्षपयन्त्वहो प्रशमयन्तूदन्यकामात्मनः ।
शय्यां विष्टरसत्तमेन ललितां लम्बाङ्घ्रयः संश्रय-
न्त्याशु प्राप्य च तत्र सुप्तिमनघां सौख्यामृतं प्राश्नुयुः ।। 87।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविश्रीरेवाप्रसादद्विवेदिकृतौ ‘झञ्झादुर्दिनो’ नाम षट्षष्टिः सर्गः ।। 66।।