एकसप्ततिः सर्गः
याते पराजयमभूत् खलु भाजपाख्ये
नैराश्यगर्त्ततिमिरेष्ववपातनेन।
द्वन्द्वः परस्परमतीव शिरःस्थितेषु
प्रत्नेषु नेतृषु पराभव-चिन्तनायाम् ।। 1।।
द्वन्द्वोऽभूदित्युन्वयः।।
श्रीमानुवाच ननु शौरिरसौ हि पत्र-
काराग्रणीश्चयनकृत्यविधौ तु देयम् ।
ध्यानं दलस्य विविधेषु पदेषु किञ्च
कार्यो नियोग, उपसीदति तान् हि लक्ष्मीः ।। 2।।
ये सम्मता जनपदेषु नितान्तशुद्धा-
चारास्तपस्यवहिताश्च जनस्य हेतोः ।
तेषां कृते पद-वरेष्वभिषेचने स्या-
दाकर्षणं पुनरपि प्रति तान् जनानाम् ।। 3।।
आसीत् पुरा दलवरस्य तु यो विदेश-
मन्त्री लिलेख खलु पुस्तकमेकमेषः ।
पाकस्य स प्रभवमादृत तं जिनाख्या
यं प्राप्य हन्त नितरामभवज्जुगुप्स्या ।। 4।।
अड्वानिरप्यभवदेवमिवैव पाक-
स्थानं गतश्च ततआगतवॉश्चजिन्ने ।
अत्यादरेण सहितो धृतवॉस्तदीये
श्वभ्रे शवस्य कुसुमस्रजमुत्तमाञ्च ।। 5।।
कन्या निजानुजसुतस्य ददौ पुरा यो
हिन्दूभविन्नपि वराय मुसिल्मनाय ।
तस्यालये भवति किञ्च महानसो
यस्तत्रापि मुस्लिममहानसतो न भेदः ।। 6।।
यस्याटलोऽपि भवने स्वत एव वृत्वा
तद्भोजनं भवति हृष्टमनाश्च कृत्वा ।
क्लेशाय बाबर-विनिर्मितमस्जिदस्य
ध्वंसो बभूव भुवि रामजनेः कदाचित् ।। 7।।
प्राधान्यमाप्य भरतावनि-सर्वमन्त्रि-
ष्वत्यादरं व्यवृणुतोर्दुवचःकृतेः यः ।
श्रीवाजपेयिरपिहिन्दू-जनादरं स्वं
शैथिल्यमापयत हन्त पराजितश्च ।। 8।।
अंग्रेजवाचि निपुणास्त्रितयेऽप्यमी स्वं
नो संस्कृतं न विदुरत्र जनादरं च ।
नैवाद्रियन्त न च रामजनिं प्रदातुं
रामाय बद्धहृदयाः क्वचिदप्यभूवन् ।। 9।।
श्रीवाजपेयिरुमया सह भाषणानि
निर्वाचनेषु विदधे कृतवान् पणं च ।
मध्यप्रदेश-मुखमन्त्रिपदेऽभिषेकं
तस्या हि चञ्चलचितेर्भवितेति धीरः ।। 10।।
सा मुख्यमन्त्रिपदमाप दिनैश्च कैश्चित्
तत्याज तत् तदनु तत्पदमाप गौरः ।
भ्रंशं स चालभत मुस्लिमकन्यकाया-
श्चारित्र्यदोषपरिघोषणया प्रसह्य ।। 11।।
तत्स्थानमापयत साम्प्रतिकः स्वयं हि
श्रीवापेयिभिरथो शिवराजसिंहः ।
भुङ्क्ते प्रभुत्वमथ धर्षयते च वृद्धान्
अस्मादृशानपि खिलीकृत-राज्य-सेवः ।। 12।।
एते भवन्ति जननायकतां गताश्चेत्
दृष्ट्वायतिं किमपि मुस्लिमपाणिरुद्धाम् ।
हिन्दूनपि क्षपयितुं निभृतं यतन्ते
साकेतमुक्तिरिह निव्यभिचारि लिङ्गम् ।। 13।।
श्रीसोनिया न खलु लब्धमपि प्रधान-
मन्त्रित्वमाप्तुमभवत्त्वनुकूलभावा ।
निर्वाचकाः खलु तदोच्चतरं विनेदु-
र्नो सोनियाऽपितु वृतोऽस्ति तु शीर्षमन्त्री ।। 14।।
जस्वन्तसिंह उदियाय च सर्वलोक-
प्रीतो बभूव च बहिष्कृतिमापितश्च ।
केनाङ्ग्लवागिति गिरा, यवनप्रियत्व-
पङ्केन चापि ननु हैन्दववञ्चनेन ।। 15।।
गोपाद्रिदुर्गमहिषी च वसुन्धराख्या
राजे बभूव ननु मुख्यपदे स्थिता या ।
सा राजपुत्र-सदने प्रतिपक्षनेतृ-
भावं गता पदमिदं न तु हातुमैच्छत् ।। 16।।
हाईकमान उपदीकृतवान् निदेशं
त्यागाय किन्तु न हि तत्परिपालनाऽर्थम् ।
औन्मुख्यमाप महिषी, बहुसंख्ययाऽहं
सम्यग्वृतेति परमं व्यसनं दलाय ।। 17।।
उच्छ्रङ्खलत्वमथ शासनदूषणत्व-
मस्मिन् द्वये मतवरे पर एव दूष्यः ।
पूर्वस्तु तर्कविशदो वसुधा च राज्ञी
राजा स्वतन्त्रति न तत्र परोऽस्तु तन्त्री ।। 18।।
राजा शरण्यति दलाय, दलं तु राज्ञां
राजेति सङ्गरिषु साम्प्रतमस्ति कोऽध्वा ।
संगत्वरत्वमणिमन्त्रजपाय, यद्वा-
ऽभावेऽस्य संविघटनैव दलस्य नित्या ।। 19।।
श्री वाजपेयिरधुनाऽस्ति विरुग्णगात्रः
श्वासानिलऽऽगतिगतीर्गणयन् विहस्तः ।
अड्वानिरस्तमितवाग्विभवोऽपरे च
सर्वेऽपि गौरवभृतश्च विमानिनश्च ।। 20।।
सर्वोऽपि चालयति यां खलु वारिनौकां
सा मज्जनाय नियतैव, समुत्तितीर्षा ।
सौभाग्ययोगमहितैव सदैव तिष्ठ-
त्यस्यां स्थितौ, विमुखता सुभगत्वमेति ।। 21।।
अस्मिन् क्षणे भवति कश्चन देशिको हि
धर्मस्य शासनकरः, वचनं च तस्य ।
मान्यं भवत्यथ परिष्कृतिमाप्नुते च
निर्वाहमार्ग इति शाश्वतिकी व्यवस्था ।। 22।
छिद्रं गता यदि तरी, जलपूरणं च
संदृश्यते तदुदरे, न परोऽस्त्युपायः ।
स्वं रक्षितुं करपुटैर्भृतवारिपूर-
क्षेपश्च तीव्रतमया तरणं च गत्या ।। 23।।
ये हिंसका अननुशासितचित्तकाश्च
हिन्दूरिति श्रुतिमिता यवनोत्तमाश्च ।
ते संघशक्तिपरमा उपदेशकाश्चेद्
हिंसा मृगानुपदिशन्तुतरां शुभं स्वम् ।। 24।।
अर्धोरुका-निभृतजानुयुगा निबद्ध-
बन्धा करे धृतविशालकरीरदण्डाः ।
काषाय-केतु-गुरवे ह्यचमूचराश्च
सैन्यप्रशिक्षण-दृढीकृत-योधकाश्च ।। 25।।
आक्रान्तिमेक्ष्य यवनाधिकृतैः कृतां च
हिन्दुष्वपौरुषतया निकृतिं गताञ्च ।
हिन्दूनवेक्ष्य निजरक्षणसक्षमत्व-
दातृ स्वसंघटनमास कृतं शिवाद्यैः ।। 26।।
आस कृतं = कृतमासीदिति शेषः।
तस्यैव पाणिविहितो निखिलाधिकारो
यां वञ्चनामकृत भाजपयाऽधिराज्ये ।
तस्यैव काटवकटुद्रुतहालहल्यं
किञ्चित् त्विदं फलमहो विपदि स्थितिर्यत् ।। 27।।
न्यायाधिकारिषु परां परिवीक्ष्य हन्त
न्याया-पहार-रुचिमुग्रतरां जनौघः ।
वैराग्यमाप न च विश्वसनीयताया
वीक्षाञ्चकार परमाणुमपि स्वसंघे ।। 28।।
किं वा स्वमस्ति किमु वा परमित्यवेक्षां
को वा करोतु परिसीमितिदृग्वितानः ।
कौटल्य एव परमर्षिपदे प्रतिष्ठा-
मर्हत्यसौ क्वचिदपि प्रमिणोति यन्नो ।। 29।।
मौर्यस्य चन्द्रवृषलस्य निवासहेतो-
र्भव्ये च नव्यतमतां च गते गृहेऽसौ ।
रन्ध्रात् पिपीलकततौ धृतमोदनं हि
दृष्ट्वा कृशानुमुपपादयतेऽरिशङ्कः ।। 30।।
नेतुः परं किमपि नास्ति तु शासनं धी-
रेषाऽस्ति यत्र परमा चरमा च यत्र ।
आचार्य-पीठमपि लब्धमताधिकेन
नेत्रैव पूरयितुमर्हमिति प्रतिज्ञा ।। 31।।
तत्राऽस्तु को नु खलु विश्वसनीयतायाः
लेशोऽपि संप्रभुतयैव तु शास्यते भूः ।
स्वातन्त्र्यलाभमनृतं खलु तत्र राज-
तन्त्रत्वमेव निभृतं परिभावयामः ।। 32।।
एवंविधे कलहसंकुलिते दले यः
काङ्ग्रेसतो भवति कोऽपि पराजयोऽसौ ।
मोहो विदामगतिका जनता मतानां
दानं चकार समभावमवेक्ष्य दुष्टौ ।। 33।।
काङ्ग्रेसमस्ति परदेशभवं न तस्मिन्
धाम्नः स्वकस्य परिरक्षणमस्ति सम्यक् ।
या भाजपा निपतिताऽस्ति तु सा जनानां
विश्वासतः, किमिव हन्त जनः करोतु ।। 34।।
ये त्वन्त्यजा हरिजना अविकासजुष्टा
आरक्षणैः पदगता अपि तेऽतिधार्ष्ट्यम् ।
सन्दर्शयन्ति विविधेषु विधानकेषु
स्वीयेतरावसर-रोधन-धार्ष्ट्यमेव ।। 35।।
एकस्तपश्चरति कार्यफलेन राष्ट्रं
विश्वं चमत्कृतमथो कुरुतेऽद्य योऽन्यः ।
लाभं स एव पदमात्रगतोऽद्य भुड्क्ते
सोऽयं निकार इह राजति लोकतन्त्रे ।। 36।।
नो भाजपापि च चिकित्सितमामयेऽत्र
धत्ते, न चापि परमेव दलं तथापि ।
यच्छासनं चलति तत्र तु तन्त्रमास्ते
न्यायालयस्य च जनस्य च निष्क्रियत्वम् ।। 37।।
न्यायालयोऽपि ननु वेत्ति विवादितेषु
को वा सदोष इति, किन्तु न निर्णयेषु ।
शैघ्रयं करोति, यदिवा प्रियहिन्दुकोऽपि
तुष्टान् चिकीर्षति रिपूनपि तस्य दातॄन् ।। 38।।
नेतार एव हि भवन्ति महामहत्सु
न्यायालयेषु महिमातिशयेन युक्ताः ।
तेषां हिताय तनुते प्रथमं स एष
न्यायालयस्तदनु भक्तिमतां जनानाम् ।। 39।।
को वा जनोऽपि, कृतवान् खलु यः प्रधान-
मन्त्री हितं तमिह कञ्चन धिङ् नृसिंहम् ।
काङ्ग्रेस एव निरकासयदात्मनस्तं
दत्वा मतानि जयिनं व्यतनोदिदानीम् ।। 40।।
येऽभ्यागता विदिशि दत्तदृशश्च तेषां
पाशेन शिक्षणविकासविधौ श्रितेऽद्य ।
नास्त्येव भारतभुवि प्रभुता स्वकीया
येऽस्या भवन्ति न हि शासनमस्ति तेषाम् ।। 41।।
सिंहोऽर्जुनोऽकबर-संस्मरणाय राष्ट्रे
कर्त्तुं चिकीर्षति तु पञ्चशताब्दसंज्ञम् ।
भव्योत्सवं, स च चिकीर्षति विश्वनाथः
फारूकपुत्रमधिदिल्लि-धृतप्रतिष्ठम् ।। 42।।
लाहौरपत्तनमवाप्य जहौ तु शास्त्री
कश्मीरकं न तु जिहासति पाकदेशः ।
सेयं प्रवृत्ति-विषमत्वहलाहलाढ्या
येषां त एव च भवन्ति तु नः सगोत्राः ।। 43।।
बर्ही न रक्षयति पन्नगमस्य भोगं
कर्त्तुं सदैव खलु दृश्यत उद्यमी सः ।
हंसं च वाहनति भारतशारदा तं
सर्पाशनं च सममेव तु बर्हिणं सा ।। 44।।
यद्वाऽद्य काचिदपरैव तु शारदा नो
याऽऽनायिताऽस्ति ननु पश्चिमदिग्विभागात् ।
सा स्वस्तिवाचनपरां वचनावलीं नु-
र्धार्ष्ट्योन्मुखीं वितनुते रुवती तथैव ।। 45।।
मण्डूकपुत्र इह शिक्षकतां पटिष्ठां
धत्ते निरीक्ष्य समयं परिवर्त्तनात्मा ।
लक्षं प्रदाय दशलक्षमुपार्जितं चेत्
तद् बुद्धिकौशलमिदं परिवर्धयन्ती ।। 46।।
धर्मोऽनुशासनति चित्तधृतस्तदीये
शीर्षे विराजति विभुः परमात्मसंज्ञः ।
धर्मी कदाचिदपि तिष्ठति नैकलात्मा
द्रष्टुर्विधानमनुसर्त्तुमुदित्वरेच्छः ।। 47।।
भेदाय कारणति काचन बैखरी हि
नो मध्यमा भगवती हृदयप्रतिष्ठा ।
यद्वाञ्छतीह यवनो यवनेतरोऽपि
तन्मात्रमिच्छति न तत्र भिदा तयोर्वै ।। 48।।
एको व्रणं परिनिकृन्तति वेदनातो
मुक्तिं प्रयच्छति भिषक्, परकस्तु वैद्यः ।
पूर्वं निदानमुपलक्षयते रुजाया
तच्छेत्तुमत्र यतते च भिदिः क्रमे हि ।। 49।।
काङ्ग्रेस एव यवनायवनान्ववाय-
संभेदकौशलधुरन्धरतामवाप्य ।
देशं न पश्यति न वा समयं समृद्धि-
मात्राय बद्धकटिरस्ति, न भाजपा तु ।। 50।।
न्यायोऽर्धवृद्ध-इति यो न हि सोऽभ्युपास्यो
भोगोऽत्र दानमहितो ह्यभिलष्यतेऽत्र ।
सैषा पुराणपुरुषोत्तमवीथिका या
तामेष पश्यति सनातन एष मुत्तयै ।। 51।।
धर्मोऽस्ति नः खलु शुभाक्षरकं हि नाम
मार्गस्य तस्य निज-‘संयम’-विग्रहस्य ।
सेवा हि यत्र परमाऽस्ति न वेतनानि
नो भौतिकश्च विभवः स्थिर-बुद्धिकेषु ।। 52।।
कश्चिन्न मां खलु कुतोऽपि विपश्यतीति
यत्किञ्चिदप्यहमहो क्षम एव कर्त्तुम् ।
एषा तु रावयति नः सकलान् कुबुद्धि-
र्गायत्रमोज इह केवल मौषधं नुः ।। 53।।
कस्यापि धामनि गुहानिहितः सुवर्ण-
राशिः कुतश्चन समापतितश्चकास्ति ।
कस्यापि कुत्रचन पत्तनरत्नहट्टे
पत्नी च नोट-गणना-गणकं गृणाति ।। 54।।
निर्यन्त्रणेषु दलगेषु सदस्यकेषु
काङ्ग्रेसवत् पतति चेद् यदि भाजपापि ।
किं तत्र विस्मयकरं छुरिका शृणीते
सर्वं हि शाकमनुपाधि तटस्थितात्मा ।। 55।।
राष्ट्रीयसंघमनुशास्ति कषायवर्णः
केतुः परन्तु भरतावनिराष्ट्रकेतौ ।
तस्यास्ति काचन गतिस्तु तृतीयपाद-
मात्रा, वदातहरितद्वयकीलिता च ।। 56।।
यत् सिंहशीर्षनिहितं ननु चक्रमस्य
चिह्नेन गत्वरतया रहितेन युक्तः ।
धर्मं त्वदः प्रतिनिधत्त उपात्तवेग
ध्वंसं, रथं स्थिरयितुं प्रधनक्षयेषु ।। 57।।
सोऽयं स्वराष्ट्ररथ आहितवेगभङ्गः
काङ्ग्रेसकं न हि दुनोति, पराजितां तु ।
तां भाजपां हृदि हितं क्रकचं नु तीव्रं
संपीडयत्यहह मीलितचक्षुरेषा ।। 58।।
संख्याधिकत्वमधुना न नियामकत्व-
कार्ये फलेधुगुपलक्ष्यत इद्धधीभिः ।
वैफल्यमत्र यदि तत्र तु लज्जिताः स्मो
विश्वम्भरावलय एत इति स्थिराक्षाः ।। 59।।
चुच्छुन्दरीं गिलति चेदुरगः स्थितां तां
कण्ठे, न वा निगिलितुं वमि तुं च शक्तः ।
यां दुर्दशामनुभवत्यधुना प्रजानां तन्त्रं
विधाय भरतावनिरप्यमूं हि ।। 60।।
ये राजशासनगताः खलु दुर्विकाराः
ते रक्तबिन्दवितुमुद्धुरतां श्रयन्ति ।
काली करालवदना तु पराम्बिका नो
रक्षां करिष्यति मनुष्यसृतेः परो न ।। 61।।
रक्षां करोमि जगतामिति योऽभिमानः
संघस्य कश्चन मुधैव स हि ग्रहोऽस्ति ।
संघः पिशाचति कदाचन तत्समीक्षां-
कुर्वत्युदारचरितेऽपि जनेऽविचारम् ।। 62।।
मायावती गतभयाऽन्त्यजनेतृजात-
संस्मारकायतननिर्मितयेऽत्युदारा ।
कांस्यां शरीररचनां च महामहार्घ्य-
मूल्यां विनिर्मितवती जनताधनौघैः ।। 63।।
अन्यायतः स्म वितरत्यतिमात्र-दीर्घं
राशिं निजेषु शिशुषु क्षपितान्यलाभा ।
सर्वोच्च एतमनुमोदयते विधान-
न्यायालयोऽक्षमत नैव तु रोद्धुमैतत् ।। 64।।
एतच्चरित्रमुपलक्षयते समोऽपि लोकः
समस्य ननु नेतृजनस्य तूष्णीम् ।
तं धिक्करोति च निजेन सहैव तस्मै
दत्ताधिकार-कलुषेण, घृणाञ्चितेन ।। 65।।
पार्श्वस्थितास्तु रिपवः प्रतिवासरं हि
युद्धोद्यमं प्रविततं तनुतेऽधिसीमम् ।
द्रोग्धुं रहः प्रतनुते च शताधिकानि
कार्याणि शक्तिपरिवर्धनकारकाणि ।। 66।।
मूल्यं च चुम्बति नभः सकलस्य वस्तु-
जातस्य नास्ति च मनागपि तत्र बन्धः ।
श्रीसोनिया परिभवस्य मुखं विधान-
निर्वाचनासु परिपश्यति हन्त धन्या ।। 67।।
तस्याः सुतश्च खलु ‘राहुल’-इत्यभिख्यो
मन्त्रिप्रधानपदवीमधितस्थिवान् नु ।
लोष्टाभिवर्षणतिरस्कृतिमापितः सन्
दीर्घं हि सैन्यपरिरक्षणमीप्सतेऽद्य ।। 68।।
माया सहैव ननु राहुलनामकस्य
संसत्सदस्य-पदमाप्तवतोऽस्य यूनः ।
संरक्षणस्य तनुते सुमहद् वितानं
देशस्य केन्द्रगतमद्य तु शासनं नः ।। 69।।
ये वायुयान-गमनागमनेषु वर्ग-
मत्युच्चमेव सततं श्रयितुं स्म धृष्टाः ।
ते मन्त्रिणोऽद्य जन-वर्ग-मुपास्य यानै-
र्यास्यन्ति हन्त, महती विपदेषकाऽस्ति ।। 70।।
अन्याय एव विजयं भजतेऽधुना यत्
सर्वेष्वपि स्थलगतेषु विनिर्णयेषु ।
न्यायो विरौति निजकण्ठसमुत्पतन्ति
धिक् क्रन्दनानि शतशः परिदुर्बलः सन् ।। 71।।
एवंविधेऽतिशयदुर्गतिकीलितात्म-
न्यस्मिन्ननेहसि यदि प्रपतेयुरभ्रात् ।
वज्राणि हालहलमूर्च्छितकोटिकानि
चित्रं न तद् भवितुमर्हति मानुषेषु ।। 72।।
यो ब्राह्मणः स खलु शूद्रति यश्च शूद्रः
स ब्राह्मणं नयनरेणुकणं विभाव्य ।
न्यक्कार-गर्त्त-परिपातन-कर्म-भावं
वाढं निनीषति शृणोति न तस्य वादम् ।। 73।।
ये वै कुलाधिपतयः कुलपाश्च मूर्ध्नि
न्यस्तं करं विविधमन्त्रिण आत्मनस्ते ।
निर्भीति योग्यजनमाशु विलङ्घ्य हेतोः
कस्मादपि प्रियजनं च निवेशयन्ते ।। 74।।
कुत्रापि गच्छतु विशेष-परिश्रमोऽद्य
नो कोऽपि तेन हि गुणो विविधासु दिक्षु ।
सामान्य एव जन एतु पदाधिकार-
मर्थागमेषु निपुणं, निजलाभ तेतोः ।। 75।।
इति श्रीस्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ करशास्तृता=स्वतन्त्र‘शत्रुप्रेमा’ नामैकसप्ततिः सर्गः ।। 71।।
सुन्दोपसन्दकथया कवलीकृतानां
हिन्दुत्वसंवृतमुहम्मदिनाममीषाम् ।
ख्रीष्टो हि केवलति गौरवशालितायां
गौरत्वचाऽऽवृतकलेवरभक्तिभाजाम् ।। 1।।
अर्थः परात्परति यत्र दलेषु सर्वे-
ष्वेवाद्य को नु भवतु प्रथमोऽधिकारे ।
अर्थः समस्य हि गृहे गणनीयताया-
स्तीर्णो लसत्यथ न कः प्रभुभावमीप्सेत् ।। 2।।
मार्गेण केनचिदपि प्रभुतामुपेया-
मित्युत्सुकायति समोऽपि हि नेतृवर्गः ।
आधिक्यमर्जितुमना मतदानकर्त्तुः
संतोष्टुमुत्प्रयतते बहुधा समोऽपि ।। 3।।
अन्नानि यत्र मधुमन्ति न सन्ति यत्र
पेयानि नो मधुयुतानि भवन्ति तेषु ।
राष्ट्रेषु भूतिमहितेषु वसन्ति, भूयो
देशं स्वकं प्रति निजं न मुखं दिशन्ति ।। 4।।
तेषु स्वदेश-ममतामुपपाद्य चित्ते
मार्गेण केन नु समुन्नतिकार्यहतोः ।
आकर्षणं पदमुपादददस्तु चिन्ता
त्वेषा न काचन हहा जननायकेषु ।। 5।।
अन्धांसि दोहदगतैर्गरलैस्तु दिग्धा-
न्यद्य क्व देह उपचायमुपैतु भोक्तुः ।
दौर्बल्यमन्यजन-शासन-लौहधातौ
सच्चुम्बकं भवति स्वादति दुर्बलं यत् ।। 6।।
पाठ्यक्रमेषु परिदुर्बलतैव पूज्या
कर्त्तव्यकर्मसु यथैव परीक्षणेषु ।
भाषैव धर्मविरुदस्य सदागमस्य
पाल्या तु वर्णश इतिच्छलमद्य देवः ।। 7।।
यो विक्रमः प्रतिजनं प्रथितोऽद्य लोके
नासीत् स कश्चिदिति साम्प्रतिकेषु रूढिः ।
मुद्राभिलेखगतमस्य न लभ्यते य-
न्नामेति तेषु नियतश्च हहाद्य तर्कः ।। 8।।
पृच्छामि नाम परमात् परमस्य तस्य
तातस्य वेद्मि न तदुत्तरमाप्नुवामि ।
तत्रापि तं न खलु मारयितुं क्षमोहं
सन्तं न, सन्तमिति शास्तरि सम्मतं तम् ।। 9।।
बौद्धा ब्रूवन्ति मम नास्ति पिताऽत्र कश्चि-
न्मातापि नास्ति न भवामि च भूतलेऽस्मिन् ।
कस्यापि पुत्र इति या प्रतिपत्तिरस्यां
भ्रान्तिर्हि तन्त्रति, चरत्यथ भूमिपृष्ठे ।। 10।।
नो कश्चनापि दृशमत्र दधाति शून्ये
क्षेत्रे यदस्ति पतितं तदुपग्रहाय ।
त्यक्त्वा विकल्पनमहं प्रभवामि मूर्खो
नाऽहं भवामि यदिदं न करे करोमि ।। 11।।
एषा परिग्रहमुखी सुरसा प्रकाशं
व्यादातुमाननमिहोत्सवमाबिभर्त्ति।
अग्रे तदेव च मुखं परितर्प्य दस्युवृत्तैः
परस्वमपलज्जमुदाकरोति।। 12।।
रात्र्यागमेषु तिमिराण्यभिवर्ध्य विद्यु-
ल्लोपेन ये खलु चरन्ति तु दास्यवानि ।
तेषां न कश्चिदपि लक्षितुमस्ति शक्यो
न्यायोऽन्धकारतु ततः समुपास्य मौनम् ।। 13।।
यस्याधिकारपुरुषस्य तु पालनीये
क्षेत्रेऽपचार उपलक्ष्यत एष दण्ड्यः ।
एषा न कापि दृढता प्रभुतां कुतोऽपि
हेतोर्न याति सुरभित्वगुणस्य कार्श्ये ।। 14।।
आचारबर्हिण-कलाप-गतैकपिञ्छ-
विच्यावनाक्रम उपैति कलापलोपम् ।
तां हानिमाकलयते खलु यस्तु हानिं
तं दाववह्निमुपसत्तुमियर्त्ति शैघ्रयम् ।। 15।।
एतानि हन्त वचनानि न शापरूपा-
ण्येतेषु दृश्यमधुना परिणाम-कष्टम् ।
कृच्छ्रंपचा न हि भवन्ति चरित्रकोषा
दोषाश्च तर्कविशदेषु विदां वरेषु ।। 16।।
पञ्चापदेशिषु गुरुः पृथगेव किञ्च
वङ्गेषु दक्षिणभवेष्विव भिन्न एव ।
धर्मश्च दिक्षु निखिलास्वपि कश्चिदेको
मैत्र्यादियोगविशदः, क्व नु तर्हि भेदः ।। 17।।
भेदोऽर्थमात्रगत एव समृद्धि.योग.
भेदागतश्च स हि वाचिकभिन्नतासु ।
आहिंस्य.सत्य.मितलाभ.परिग्रहैस्तु
युक्तेषु कश्चिदपि नास्ति तु भेदलेशः ।। 18।।
रे मानुषास्त्यजत चिह्न-शतेषु धर्म-
बुद्धिं श्रयध्वमथ चाऽऽचरितेषु तां वै ।
धर्मस्ततो नियतमुद्धृतये समेषां
कल्पिष्यते नियमितान्तरिकात्मनां नः ।। 19।।
ये राजनीतिदलगा नियमास्त एते
सर्वेऽपि सर्वसुखहेतव एव नान्ये ।
या सर्वबुद्धिरिह नास्त्यपरत्वदुष्टं
किञ्चित् स्वमात्रविशदं तु समस्तमत्र ।। 20।।
‘योग्योऽहमस्मि यदिवा न’ विभावनाया.
मस्यामहं हि निकषोऽस्मि, विहाय लोभम् ।
तस्मात् स्वधर्मपरिपालनयोग.यागे
साक्षात्क्रिया न खलु काचिदपेक्षिताऽस्ति ।। 21।।
साक्षात्क्रियास्वपि समासु परीक्षकाणां
तोषो न हन्त भवति प्रतिभानभाजाम् ।
तत्राऽपि संस्तुतिमिताः खलु ये जनास्तान्
वीक्षामहै स्वकृतिधर्मरता न वा ते ।। 22।।
वीक्षेयमस्ति न विधानसमर्थिता तत्
सर्वे चराम निभृतं निजवेतनानि ।
एषाऽस्ति यत्र मतिरुल्वणमास्थिता तद्-
धाम्नः शुभं न हि कदापि विभाव्यते धिक् ।। 23।।
त्वं मां न पश्य न यथाहमिमं भवन्तं
पश्यामि, या मम सृतिर्ननु सा स्वतन्त्रा ।
या तावकी भवति सापि तथैव
सेयं शिष्टात्मनां न हि सृतिः, स निजार्थमार्गः ।। 24।।
त्यक्तुं न कश्चिदपि वाञ्छति, लब्धुमेव
सर्वोऽपि तिष्ठति निबद्धकटिः सदैव ।
ईशस्य वाक्यमधुना विपरीतमेव
संभावयाम उररीकृत-संग्रहास्तु ।। 25।।
ये दुष्कराः खलु पुराणपरिष्क्रियार्था-
स्तान् किं न सेवितुमुपात्त-पराक्रमाः स्मः ।
ये सर्वसौख्यमसृणा वणिजां वरास्ते
भोजायितुं कथमिवाऽद्य समुत्सुका नो ।। 26।।
आरक्षितैः पदवरैरुपदीकृतार्थ-
संघास्तु ये सुकृतिनः खलु केऽपि सन्ति ।
ते न्यायशास्त्र.पद.वाक्य.विधान.शास्त्र.
संघे न किं निपुणमुल्लसिता भवन्ति ।। 27।।
शास्त्रध्रुगः स्फुटमिमेऽर्थपरायणाश्चेद्
बद्धोद्यमा बत भवन्ति कृत-क्रियास्तत् ।
यद् वै तपश्चरणमात्र-विभाव्यतत्त्वं
शास्त्रं रसातलमुपाश्रयितुं हि बाध्यम् ।। 28।।
सम्यक् तपस्तपतु कश्चन विप्रवंशः
लक्ष्मीं च कश्चन परो हि समालभेत ।
एषा दशाऽस्ति यदि भारतराष्ट्र! तर्हि
त्वं नो भविष्यसि महीतलरत्नतत्त्वम् ।। 29।।
मायावती भगवती प्रतिभां प्रधान-
पीठे धृताङ्घ्रियुगलां सुदृढं विभान्तीम् ।
अङ्गुष्ठमद्य यदि दर्शयते श्व एव
सैषा भविष्यति निजैर्हि निगीर्णसर्वा ।। 30।।
मायावती बत विभीषयतेतरां हि
केन्द्रं च केन्द्रगतशास्तृदलं च धार्ष्ट्यात् ।
सैषा न भाषण-गता निजतन्त्रतैता-
मुल्लङ्घनां तु विमृशन्ति सनातनीयाः ।। 31।।
या वै छलस्य नृपनीतिगतस्य रक्षा
सामर्थ्ययोगसुभगैः क्रियतेऽद्य राष्ट्रैः ।
धर्मस्य हानिरियमद्य, न तां परात्मा
सत्यव्रतो विषहतेऽतितरां विषाक्ताम् ।। 32।।
हिंसार्थमेव सततं यततेऽद्य धीमान्
भूत्वा पुमान् यदि शुभं न हि तज्जगत्याः ।
एकत्र धाम्नि सजते खलु यस्तु वह्निः
सोऽयं क्रमेण निखिलानि गृहाणि भुङ्क्ते ।। 33।।
अद्यास्म्यहं बत सुखी, पर एष दुःखी
चास्तीति हृष्यति चितिर्यदि मानवीया ।
सोऽयं गृहापवरके ज्वलनार्पितेऽस्मिन्
तस्मिन् स्थितस्य मम कश्चन नाशयोगः ।। 34।।
द्रव्याणि खर्वपरिमाणबृहन्ति नष्टा-
न्यत्रैव हन्त मनुजः प्रविधाय तुष्टः ।
बोभोति चेद् भवतु, चक्षुषि मीलिते तु
तत् सर्वमेव परिशोषयिता हि कालः ।। 35।।
किं गान्धिनः स्मरणकारणमस्ति धाम
किं नेहरोः किमु, सुभाष इति श्रुतस्य ।
मायावती यदिह कोटिभिरात्मनो नु
संस्मारकं रचयते स्वगुरोश्च मुख्या ।। 36।।
या वाजपेयिनमवच्युतमाचकार
प्राधान्यतो हृदयसीम्नि विषाग्निदिग्धा ।
तस्मै निरर्गलमुदाहरदेषका हि
वाक्यानि भीषितिमयानि महाविषाख्या ।। 37।।
सेयं भवत्यतितरां विषमस्य गङ्गा-
कालिन्दिकाद्वितयपावितविग्रहस्य ।
भूमेस्तलस्य परतन्त्रण-तन्त्रकस्य
काचिद् विरामरहिता हि पुराण-वृत्तिः ।। 38।।
येनाभिमान-विषपान-विमूर्च्छितेन
क्षेत्रेण हन्त परमाह्नयता व्यधायि ।
आत्माऽपि हन्त परयन्त्रणसन्निपात-
ग्लानिक्षतः समय एष तदीय एव ।। 39।।
प्राप्तः पदं यदि तिरस्कृत-सर्व-विद्या-
तीर्थः स एष धनमर्जयतेऽस्तलज्जः ।
तस्याऽस्य कः खलु दशास्य इति श्रुतोऽभूद्
गोत्रे हृदा ननु विकल्पमिमं श्रयामः ।। 40।।
किं त्वं विरामरहितेन निजार्थमेव
प्रोत्थापनेन परमेण चिकीर्षुरास्से ।
केनापि नैव सह भूमिरियं प्रयाता
कुक्षेः प्रपूर्त्तिमतिवृत्त्य तु किं ग्रहीता ।। 41।।
लोभाधिकेन तु हृदा मनुजस्य तृप्ति-
र्नो शक्यते किमपि लब्धुमिह त्वरस्व ।
स्वं भैषजं बत हृदः श्रयितुं कुतश्चि-
च्छास्त्राद् यमास्यविवरप्रलयात् तु पूर्वम् ।। 42।।
कञ्चिन्निनीषति जनं यमराज एष
बद्ध्वा स्वसैरिभपदे च निबद्धय, कञ्चित् ।
स्वाङ्के निधाय परिलालनयाऽत्र भेदे
कर्म स्वकीयमिह जन्मनि सञ्चितं यत् ।। 43।।
या ताडना न खलु सा परिदृश्यतेऽत्र
वासं गतैरिति न बिभ्यति चेद् भवन्तः ।
मा भूद् भयं, भवति यस्तु विराजमानो
जागर्त्ति कश्चन विभुर्न कथं ततो भीः ।। 44।।
आं सोऽपि मानुषसृतौ श्रयते विभिन्नः
श्रेणीः कथं बत नयः खलु तस्य भाव्यः ।
श्रेण्यश्च ता दधति वर्णबलार्थशास्तृ-
भावैः परापर-मिति प्रथितिं पटिष्ठाम् ।। 45।।
धर्मं स्वकं चरतु, मार्गगतान् विभेदान्
हित्वेति या खलु महोपनिषत्, प्रणामः ।
तस्यै, सुखं विषमता-रहितं तु दत्तं
देव्या तया परिजुषेमहि पूर्णतर्षाः ।। 46।।
निगिलतु न वै दीर्घो मत्स्यः समुद्रजले वसन्
लघुतरतनून् मत्स्यान्, यद्वा प्रशुष्यतु सागरः ।
स्वपितु भगवाञ्छेषे शायी क्वचित् परतोऽथवा
विकिरतु कृपां हेतुं हित्वैव संसृतिविस्तरे ।। 47।।
मतदानबाहुमतशासनप्रथा विकृतिं गतेति यदि तत्फलं जनाः।
परिभुञ्जते सृतिरिहाभिमृग्यतां ह्यपरैव काचिदथवा, विषह्यताम्।।48।।
यदि गान्धिनाऽपि परिहस्तिता बुधा अथवा भटाः प्रधनतुङ्गसाहसाः ।
ननु मूलमेव विषदिग्धमस्ति नो भरतावनौ स्वकर-शास्तृता-श्रुतेः ।। 49।।
स्वकरशास्तृता=स्वतन्त्रता ।
अयि भारतावने! भरतताऽस्ति ते निजता स्वताऽथ निजतन्त्रता, श्रयेः ।
अवनाय तादृशविशेषकस्य ते निजतां स्वतां च निगमागमस्थिताम् ।। 50।।
अयमेव कश्चन सनातनः क्रमः परता निजत्वमभिधावितुं त्वरेत् ।
निजताऽस्ति नः परमवत्सला जनिः परता वधूश्च समलङ्कृताऽऽगता ।। 51।।
अरविन्दघोषसदृशा महाधियः परतामपास्य निजतामुपाश्रिताः ।
असुसंकटेऽप्यविचला विरागिणस्तिलकाश्च केचन कुलाचला हि नः ।। 52।।
प्रतिपाठशालमधुनाप्यमी समे स्मरणीयनेतृसृतयो भवन्ति नः ।
रवयो ह्यमी तिमिरशान्तये क्षमा उदयाचलोदयकृतो महस्विनः ।। 53।।
क.मा. मुंशी, सप्रूरथ स खल राजाऽप्ययियरो (ऐयर)
बभूवुर्वक्तारोऽप्यथ भरतभू-मेरु-महिताः ।
अमीषामौदार्यं स्मरति च जनोऽद्यत्व उपदी-
करोत्येभ्यः श्रद्धाकमलशतिकावर्षणमपि ।। 54।।
महत्त्वं क्षुद्रत्वाद् भजति परिभूतिं बत यदा
तदा भूतेश्चर्चा भवति सदृशी नैव सुहृदाम् ।
इदानीं बाहुभ्यां तरतु जलधीनर्थभरितान्
यदृच्छा-स्वाम्यं च स्पृशतु यदि चेदस्त्यवसरः ।। 55।।
वराङ्गयः स्वाङ्गानि प्रददतु परेभ्योऽधिकृतिषु
स्थितेभ्यो भुक्ताश्च प्रदधतु भुशुण्डी-कवलनाम् ।
परस्तात् किं भावीत्यधृत-परिणामा द्विजकुलो-
द्भवा भव्या धन्या अपि बत भजन्ते कलुषितीः ।। 56।।
नवीनाः पन्थानः, प्रतिनवतमाः काव्यकलनाः
समुल्लङ्घ्य प्रत्नान् यदि जलधिसेतून् समुदयम् ।
भजन्ते द्वेष्यास्ते दधति, निकृतीन् प्रत्नविदुषां
वरेभ्यः, कृष्यां वै भुवमनुगता नागरभुवाम् ।। 57।।
इयं हिन्दीस्तस्माद् विसृजति निजं प्राक्तनगृहं
हिरण्यान्या सम्यक् समुपचितगात्रं घृणिवशात् ।
अहो मार्गः कोऽयं त्यजति निजभूतिं, वितपसां
वरः काङ्क्षत्यग्रयामथ च पदवीं सौख्यसुलभाम् ।। 58।।
पोद्दारः खलु वासुदेवविरुदः कामायनीं शाश्वती-
मुत्तीर्णः कवितां प्रकाश्य महतीमद्यत्व एवाग्रणीः ।
प्राचामुत्स-निभान् विमृश्य वचनानामुत्करान् साम्प्रतं
मार्गः सोऽस्ति महत्तरो न सुलभो नो हिन्दि-भाषाभुजाम् ।। 59।।
साहित्यामृतसिन्धुरस्ति सुलभो विश्वम्पृणस्तापसां
नेतॄणां समुदारताररचनो निश्छिद्र एवाऽधुना ।
यत्किञ्चिन्नहि पठ्यातेऽत्र भुवने मर्त्ये, ततश्चीयता-
मग्रण्यं च परात्परं च रचना साहित्यमध्येतृभिः ।। 60।।
अभीद्धतपसां सृतिर्न खलु रुद्धमूर्त्तिस्तप-
श्चरन्ति यदि बालका नहि भवन्ति वृद्धा न ते ।
वयो भवति वार्धके न खलु मानदण्डोत्तमः
फलं तु कवितामयं स्तरशुभं तदीया तुला ।। 61।।
हृदो नहि यतो द्रुतिर्न खलु तद्धि काव्यं, दृषत्-
कणः खलु स निष्ठुरो भवतु सेतुरेषोऽम्बुधौ ।
तदाश्रितगतिक्रमं हृदयबन्धुरं जानकी-
समुद्धृतिपरायणं कपिकुलं तु तस्माद् वरम् ।। 62।।
अथो द्रुतिरपि द्रुतं न खलु दृश्यते नैष्ठिकैः
पिशाचजननीस्तनावपि तु विद्रुतौ राजतः ।
समाधिगुणसम्भृतां कविवरस्य वाणीं वयं
सनातनपथप्रियाः प्रणतचेतसो मन्महे ।। 63।।
कुतोऽन्यथयितुं क्षमं भवति हन्त संगीतकं
मृणालमृदुतन्तुवत् सुमनसां मनः कोमलम् ।
कुतः शिशुमुखोद्गता वचनवल्लरी चापि न-
श्चितिं स्पृशति वृत्तितो निरतिशीति मृद्वी हठात् ।। 64।।
एषा ‘स्वतन्त्र’-परिकल्पकथा विपाकॉ-
स्तॉस्ताञ्छ्रिता न खलु पूरयितुं क्षमाऽऽस्ते ।
को वा भवत्यलमपि प्रवरः कवीनां
सिन्धोः पृषन्ति गणयेत् खलु योऽखिलानि ।। 65।।
स्वं तन्त्रितुं क्षम इहास्ति न कोऽपि यो वै
धर्मं न पालयति कृत्यविधौ स्वकीये ।
धर्मं हि ‘साम्य’-विशदं च ‘समाजसिन्धौ’
सेतुं च भावयति दार्शनिकः समोऽपि ।। 66।।
धर्मोऽस्ति पञ्चविध-संयम-रूप एव
सर्वेषु मानवकुलेषु च मान्यमान्यः ।
यश्चेश्वरप्रणिहितिर्ननु सैकला हि
काले कलौ प्रतिनिधातुमिमान् समर्था ।। 67।।
यो द्वेष्टि नैव मनसाऽपि यमी परस्मै (अहिंसा)
बू्रते च सत्यमथ नार्थयतेऽस्वमर्थम् । सत्यम् अस्तेयम्
ब्राह्मीं श्रितः स सृतिमल्पपरिग्रहाख्यः (ब्रह्मचर्यम्)
सर्वेश्वरत्वमयते भगवत्स्वरूपः ।। 68।। (अरिग्रह)
धर्मेण हन्त रहिते न पितामहोऽपि (पितामहो भीष्मः)
भूमीतले श्वसितुमिच्छति काममृत्युः ।
इच्छन्ति ये च न च संयमिनो भवन्ति (इच्छन्ति श्वसितु मित्यर्थः)
ते प्लावयन्ति जगतीं गरलै रसाढ्याम् ।। 69।।
स्वातन्त्र्य मस्ति सकलार्थविधानदक्षं,
तत् तत्स्वरूपमपि वर्त्तत एव नित्यम् ।
यश्चेदमर्थपरमत्वहठस्तदीयाः
पान्थास्तु मीलितदृशश्च पलायिताश्च ।। 70।।
उन्मीलितं हृदयनेत्रमिदं युगस्या-
प्यस्तित्वमर्थयितुमुत्सुकचेतसः स्मः ।
नो चेत् कवित्वकलना रणना च नेमे-
श्चक्रस्य कोकिलरुतिश्च समानमानाः ।। 71।।
अत्रान्तरे निरणयन्ननु रामजन्म-
भूमीविवादमपि कापि जजत्रयी वै ।
तन्निर्णये यवनवादकथा न्यरासि
सर्वैर्जजैः समतया पृथगङ्कित-स्वैः ।। 72।।
30.09.10 दिने लखनऊ-हाइकोर्ट-द्वारा।
एषां बभूव खलु निर्णय एक एव
येनान्यवादिनि जयः स्वयमेव सिद्धः ।
श्रीरामजन्मभुवि किन्तु कृताजजैर्हि
भागास्त्रयो यवन एकमुपादधद्भिः ।। 73।।
तत्रापि कश्चन जजो नहि संमतोऽभूद्
द्वाभ्यां हि तत्र विहितो ननु मार्ग एषः ।
नासीदसौ च विषयोऽत्र विचारणाया-
मासीच्च याचकमतेन समं निरस्तः ।। 74।।
तस्मादसौ विभजना नहि संगताऽभूत्
न्यायालयस्य दधतो बहिरेव पादम् ।
रामस्य भूमिरिति तत्र य एव पूर्व-
मासीत् स एव तु भवत्यधिकारयुक्तः ।। 75।।
या राममन्दिरमुदस्य तु बाबरेण
तत्स्थान एव खलु मस्जिदकं व्यधायि ।
तन्नाशितं बहुतिथेन तु चङ्क्रमेण
संवत्सरस्य नहि तस्य कथा कृता तैः ।। 76।।
नो सन्ति निर्णय इहाक्रमिणोऽधितुष्टा
नो सन्ति तथ्यदृश उच्चदृषश्च शान्ताः ।
आक्रान्तृ-दास्यव-समर्थनमंशतोऽपि
कस्यापि शिष्टविबुधस्य मतं भवेत् किम् ।। 77।।
सर्वोच्च-निर्णय-गृहे ननु पक्ष एष
व्यामर्षनां यदि लभेत स एष वादः ।
भागत्रयस्य परिकल्पनमंशतश्च
दानं परेभ्य उदवास्यत शान्तिदृष्ट्या ।। 78।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ डॉ. मनमोहनसिंह-प्राधान्ये रामजन्मभूमिवादनिर्णयो नाम द्वासप्ततिः सर्गः।। 72।।