त्रिसप्ततिः सर्गः
अन्नाहजारेऽप्यथ रामदेवस्वामी विरोधाय तु शासनस्य।
समुत्थितौ भारतराष्ट्रभक्तैः सार्धं समुद्राविव सम्पराये।। 1।।
अन्नाहजारेऽनशनं चकार दिनद्वयं यावदथो तदीयः ।
पक्षो मतोऽजायत शासने तत् तत्याज तद् विश्वसितान्तरङ्गः ।। 2।।
जग्राह तोयं च तथान्नकं च त्यक्त्वोपवासं तु स एष वृद्धः।
न रामदेवस्य तु साह्यमेष कार्येऽत्र चक्रे तु कुतोऽपि हेतोः ।। 3।।
अथो मईमासगते तु सप्तदषे दिने सोऽप्युवासमुच्चैः।
समर्थितोऽन्यैरुररीचकार दिल्लीनगर्यां महता जनेन।। 4।।
अन्नापि तस्यास्य समर्थकोऽभूत् पूर्वं, परं, किन्तु तटस्थितोऽभूत्।
श्रीरामदेवस्तु चकार वार्त्ताः प्रधानमन्यार्र दिभिरात्मपक्षे।। 5।।
वैफल्यदुर्योगकषायितस्तु तत्याज भोज्यं च हठी तदानीम् ।
प्रादर्शयत् किन्तु हठाभिधानीर्व्याख्यानमञ्चादिषु योगमुद्राः ।। 6।।
वृद्धा युवानः शिशवः स्त्रियश्च समर्थनायास्य सकूर्चकस्य।
कषायवस्त्रस्य गता हि दिल्लीं देशस्य भागेभ्य उदस्तवैराः।। 7।।
बभूवुरेतस्य तु याचिकाया विलिख्य दत्ताक्षरमालिकायाः।
त्रीण्येव तत्त्वानि शिरोमणित्वं गतानि राष्ट्रस्य हितावहानि।। 8।।
आद्यं च तेष्वस्ति निगूहितस्य धनस्य सर्वस्य तु राष्ट्रियत्वम् ।
द्वितीयकं तत्र तु योऽधिकारी प्राणैर्वियोज्यः स हि सद्य एव ।। 9।।
तृतीयकं यन्ननु तत्तु सर्वप्रधानविद्याऽभ्यसनाय भाषा ।
स्वक्षेत्रगैवाश्रयणीयभावं लभ्या जनानां हि पदे, न दूरे।। 10।।
मञ्चे स चित्रं मनमोहनस्य संस्थापयामास च निर्दलत्वम्।
स्वीयं सभासु प्रतिजोघुषीति व्याख्यानदक्षः स्म सदा ब्रुवाणः।। 11।।
अजातिवादा निखिला जनाश्च तं शुश्रुवांसः ससमर्थनाश्च।
श्रीसिब्बलोऽस्मिन् दिवसे तृतीये कांग्रेसतः स्वीकृतवाँस्तु वादान्।। 12।।
मासांश्च षण् निर्णयहेतवेऽसावयाचत स्वामिवरं तु सायम्।
प्रातश्च जाता स्थितिरन्यथैव श्रीरामदेवस्य पलायनेन।। 13।।
श्रीरामदेवः स्थगयाञ्चकार स्वं स्त्रीषु शुभ्रं च दधे च वेषम्।
तथापि संरक्षिभिरेष रुद्धो नीतो हरिद्वारगतं च धाम।। 14।।
दिष्ट्या स न प्राणवियोजितोऽभूद् दिष्ट्या स भङ्गं न दधौ च देहे।
न्यरोधि नीतश्च सुरक्षितो हि स्वमाश्रमं वायुपथेन रात्रौ।। 15।।
प्रातर्हरिद्वारगतः स सुस्थः श्रुतो जनैः क्लान्तमुखः परन्तु।
दृष्टः शरीरे धवलं वसानो वासोद्वयं गैरिकवस्त्रमुक्तः।। 16।।
उवाच कर्त्तैव विनैव भोज्यं पेयं च गृह्णन् निजपक्षपोषम्।
नैव ग्रहीता च पदं कदापि निर्वाचनं नैव च सन्दधामि।। 17।।
यद् गान्धिनाऽकारि विदांवरेण यद् वाऽपि वर्त्माऽऽजगृहे बुधेन।
बालेन देशस्य समृद्धयेऽहं तेनैव यात्रां परिपूरिताऽस्मि।। 18।।
योगश्च राष्ट्रस्य समृद्धियागश्चैतौ विरुद्धौ भवतो न, ये वै।
विरुद्धमेतद् द्वितयं गृणन्ति ते मार्गमुत्सृज्य निरर्थकन्ति।। 19।।
काषायिणो ये वपुषा भवन्ति ते चित्तकोषे यदि निष्कषायाः।
भैषज्ययोगं समुपाश्रयन्ति द्रव्यं विनाप्यौषधमुत्सृजन्ति।। 20।।
न कस्यचिद् राजदलस्य भक्तो न वाऽपि कर्ता दलगस्य निन्दाम्।
देशे समृद्ध्यै प्रयते स्वकीये सदध्वना हिंसनरेचितेन।। 21।।
आन्दोलने भारतभूमिहेतोः कर्त्तैव शान्तेन पथा, न चापि।
यावद् विशुद्धिं न विभावयामि सर्वत्र योगं परिसन्त्यजामि।। 22।।
संकल्पशक्तिः परिदुर्बला नस्तस्माद्धि सिद्धयन्ति न नः शुभानि।
कृत्यानि दिक्षु प्रवितन्यते च तमोवितानं बत भारतेषु।। 23।।
अन्नाहजारे स च रामदेव आन्दोलनं यस्य कृते श्रयन्ति।
तत्सर्वमान्यं हि न तत्र कस्याप्यणुप्रमाणाऽप्यनुपप्लुतिर्हि।। 24।।
राजीवगान्धी स्वयमप्युवाच नास्त्येव शुद्धिर्जनतान्त्रिकेषु।
कार्येषु यद् रूप्यकमुत्सृजामः पञ्चाशदंशं तु विधौ लगामः।। 25।।
यस्तत्र हेतुः स तु शासकीयः स दण्डनीयः कटुना क्रमेण।
तस्यैव पात्यो ननु पाशदण्डः स एव देशादपसारणीयः।। 26।।
क्रूरस्य दण्डस्य विवर्जनायै स रामदेवोऽनुगुणस्तु जातः।
न शासनं किन्त्वसमर्थतां स्वां हातुं क्षमं जातमनुव्रजत् स्वम्।। 27।।
यदाऽऽनुकूल्यं ददृशे प्रधानमन्त्री न रामस्य तदाऽर्धरात्रौ।
श्रीरामलीलाभुवमभ्यरुन्धद् दण्डाभिघाताश्रु-बमप्रहारैः।। 28।।
श्रीरामदेवो निजवेशमुच्चैस्त्यक्त्वाऽवदातं जगृहे तु वेशम्।
पलायितश्चाषु धृतश्च पुंभिः संरक्षणायाभिरतैः समन्तात्।। 29।।
स्त्रियोप्यताड्यन्त तदीय-कुक्षौ स्थिता वराकाः शिशवो गृहीताः।
क्रूरा क्रियाऽवीक्षि तु रामलीलापरीसरेऽर्धे विगते रजन्याः।। 30।।
जूने तृतीये गमिते चतुर्थ आरम्भवत्यत्र तु रामभूमौ।
दृष्टं दशास्यस्य हि ताण्डवं, नो दया, क्षमा नो करुणाऽभ्यलोकि।। 31।।
अन्नाहजारे पुनरेकवारं चक्रेऽशनत्यागमहःप्रमाणम्।
समर्थनं किञ्च चकार रामदेवस्य निन्दामथ शासनस्य।। 32।।
तन्त्रे प्रजाया निखिलोऽपि जन्तुः स्वतन्त्रतामञ्चति, शासनस्य।
कर्त्तुं विरोधं तु कयापि वाचा, न तत्र पातोऽभ्युचितो यमस्य।। 33।।
श्रीरामदेवोऽपि सभासु चक्रे सूत्रस्य तस्यास्य विवेचनञ्च।
न तत्र पात्यो बत सासनेन दण्डो निरोधो न च तस्य कार्यः।। 34।।
अन्नाहजारे वचनान्यमूनि सभासु सम्यग् विवृतानि चक्रे।
आक्रोशमुच्चैश्च निजस्य शास्तृदले चकार स्फुटयैव वाचा।। 35।।
श्रीरामदेवस्य विभूतिरास्ते रुद्राङ्किता कोटिषु रूप्यकाणाम्।
चतुर्विमानी वशगा तु तस्य सतैलपूरा च परीक्षिता च।। 36।।
वयोऽपि तस्यास्ति न पञ्चपञ्चाशतोऽधिकं केशचयोऽस्ति कालः।
न बाहुमूलं विपुलं चकास्ति यत्रोदरं कार्श्ययुतं वशे स्वे।। 37।।
स वृश्चिकीभूय भुजद्वयेन नभोगताङ्घ्रिर्द्रवतीह तीव्रम्।
मयूरवन्नाभिगते कफोणी विधाय पादौ नभसे ददाति।। 38।।
स भस्त्रिकां साधयते च शीर्षपीडां विषादाग्निपरीतदेहाम्।
समाधये कल्पयते च शान्त्यै चितो निजायास्तनुते च सेवाम्।। 39।।
बाल्येऽक्ष्णि दोषोऽजनि यस्तमेतं योगप्रभावेण समाप्य धीरः।
नैसर्गिकं भेषजयोगमुच्चैर्निर्माति पीडां च हरत्यजस्रम्।। 40।।
यस्यौषधव्रातमलं सवीर्यं सद्वेष्टनं प्राप्य चिरन्तनाय।
कालाय संतिष्ठति सुस्थगात्रं तत्रापि वै विस्मयमादधाति।। 41।।
गोमूत्रमात्रस्य निषेवणाभिर्नानाविधाभिर्जनशिक्षिताभिः।
करोत्यसाध्येष्वपि रोगबीजेषु मूलतो पूर्णसमुच्छिदां यः।। 42।।
योऽलाबुदुग्धस्य निषेवणाभिः प्रशिक्षिताभिः स्वयमेव धीरः।
तनोति सुस्थानपि दुर्विधानां शिरःस्थितान् ग्रामनिवासिनोऽपि।। 43।।
चक्रे प्रतिज्ञां स पुनश्च सुस्थः सदा सकाषायकवेशयोगी।
भ्रष्टानधीकारपदप्रतिष्ठानुन्मूलितुं गान्धिमहात्ममार्गात्।। 44।।
तद्वारणार्थं समुपेयिवत्सु महत्सु वाचां पतिषु प्रभूताम्।
लक्ष्मीं दधाना अभवन् न येषां करः प्रदेयो न च कोऽपि पोष्यः।। 45।।
ये शास्त्ररक्षार्थमिहापि काश्यां ददत्यनल्पानि धनानि, मञ्चे।
स्थिताश्च ये राममहेश्वराभ्यां कव्वालिगीतैः प्रसभं नुदन्ति।। 46।।
नृत्यन्त एव कटिबद्धमृदङ्गवाद्या
गायन्ति ये स्वभजनानि विनिर्मितेषु ।
स्वीयेषु मन्दिरशतेषु समुल्लसन्ति
कालोत्तरीयवसनाः सितकूर्चकेशा।। 47।।
ये केवलं तुलसिदासकृतं हि सिद्ध-
काव्योत्तमं शुभसनातनमुल्लपन्ति ।
नो किन्तु तस्य नितरां सुलभाच्छरीरा-
न्निन्दामनर्थकतमामपसारयन्ति।। 48।।
श्रीरामदेवस्य हठस्य पूर्त्ताविमेऽपि सर्वे खिलतां व्रजेयुः।
एतद्धनोपासनया च धन्या वाणिज्यधन्या अपि संक्षयेयुः।। 49।।
असौ मुरारिर्बापूः।
अशीतिलक्षमूल्येन कारयानेन गच्छताम्।
कृपालुस्वामिनां राधाराज्ञी संरक्षिका परम्।। 50।।
स हि प्राज्ञः ससन्दर्भान् वेदवेदान्तमन्त्रकान्।
प्रातः सायं ससङ्गीतं सभागवतमुज्जगौ।। 51।।
स्वस्थः शरीरेण भवन्नशीतिमुत्तीर्य तिष्ठन्नपि यो महात्मा।
न शिष्यदीक्षां तनुते न चापि भक्तासु भक्तिं न दधाति मातुः।। 52।।
राधैव पुंभावमुपेत्य कृष्णत्यथो स कृष्णोऽपि च योषितात्वम्।
प्राप्तः सदा राजति राधिकाया वपुर्ललामेन गवां चरिष्णुः।। 53।।
गवामिन्द्रियाणामपि।
ये तं प्रपन्ना ननु तेषु कुत्राप्यस्यैव कारुण्यवशादुदेति।
तद्दिव्यभक्तिर्नितरां विशुद्धे मायाभिधां शक्तिमुदाकरोति।। 54।।
इतीव यो वैदिकमन्त्रकोषानुद्धृत्य संसाधयते प्रपत्तिम्।
कृपालुरद्वैतपरायणोऽपि द्वैते हि माधुर्यरसं ब्रवीति।। 55।।
नास्त्येव शक्तिर्ननु शासनस्य निरोधनायाल्पतमापि तस्य।
न सोऽपि कुर्वन् ददृषे समीक्षां स्वशासनस्याथ च तत्क्षमायाः।। 56।।
आर्त्तेन चित्तेन कथासु भक्त्या भजन्नसौ कृष्णमथो तदीयाम्।
प्रियोत्तमां श्रीवृषभानुपुत्रीं करोति साश्रूनपि लक्षलक्षान्।। 57।।
यद्धर्मपत्न्याः परलोककृत्ये जनाश्चतुष्षष्टिरिता द्युलोकम्।
तेषां कृते सप्ततिलक्षरौप्यं यः शासनाय प्रददौ क्षणेन।। 58।।
तस्य त्रयः सन्ति सुरालया वै पूर्णाः समाभिस्तु समग्रताभिः।
अमेरिकायामपि यस्य किञ्चिदुपासनामन्दिरमस्ति भव्यम्।। 59।।
प्रयागपार्श्वे जनिमाप यो वै, यो वै सवेदानपठच्च सर्वान्।
शास्त्रोत्तमान् व्याकरणेन सार्धं जगद्गुरुत्वं गमितश्च काश्या।। 60।।
प्रांशुः शरीरेण सुपुष्टसुस्थसमस्तशक्तैर्मधुरैश्च गात्रैः।
मल्लाधिको वंशगुणांश्च मेधाशक्त्याऽधुना साधयते दृढं हि।। 61।।
यः शङ्कराचार्यवचःसु गूढं मतं स्वकीयं स्फुटमुद्ब्रवीति।
तद्ब्रह्मभाष्यं च समुद्धरन् यो यत्तद्विरुद्धं च परिष्करोति।। 62।।
यो भक्तिसूत्राण्यपि नारदस्य शाण्डिल्यसूत्रैः सह भाषमाणः।
तत्सङ्गतिं दर्शयते प्रमाणैर्गोपीश्च भक्तोत्तम इत्यवैति।। 63।।
आराध्यसौख्यस्य निमित्तमेव भक्तिः समाराधनमित्यसौ हि।
तद्भक्तिसूत्रैः प्रतिपाद्य तत्र दृष्टान्ततो गोपवधूस्तनोति।। 64।।
यद् ब्रह्म तद् ब्रह्मतया न किञ्चित् प्रस्पन्दते किन्तु यदा स्फुरत्ताम्।
वृणोति, धत्ते परमात्मतां तद् तदेव सद् वारि यथा हिमत्वम्।। 65।।
सामग्रयतः शक्तिमदो हि धत्ते यदा स्फुटां सर्वगुणां तदैतत्।
ब्रह्मर्षिभिः कृष्ण इति प्रगीतं संप्रोच्यते श्रीभगवानितीव।। 66।।
अस्यावतारा अपि पूर्णपूर्णाः समग्रशक्तित्वगुणेन युक्ताः।
आवष्यकानेष तु दर्शयन्ति शक्तेर्गुणान् तत्र न कोऽपि भेदः।। 67।।
ब्रह्मैव यज्जीव इति प्रसिद्ध्या शक्त्या युतस्तर्हि स जीवभावात्।
विन्ते प्रसिद्धिं परमेष नित्यः प्रमाणतोऽणुश्च तदंशभूतः।। 68।।
मायेति या ब्रह्मगताऽस्ति शक्तिः सा वै जडास्ते, न तु चेतना सा।
तन्मध्यवर्त्ती खलु जीव एष तटस्थरूपोऽपि वृणोति मायाम्।। 69।।
तां मोचितो ‘भागवतीं कृपां वै भक्त्यैकलभ्यां गमितोऽन्यथा नो।
अकर्मधर्मा न च विद्यतेऽसौ भक्तिः स्मृतिश्चेद् भगवत्कृपायाः।। 70।।
गुरोः कृपां साधयते कृपालुर्गुरूत्तमं चापि परात्परं हि।
दिव्यां दृशं द्रष्टुमलं परत्वयुक्तं दधात्येष हि भक्तचित्ते।। 71।।
अद्वैतसिद्धौ न हि भक्तिसिद्धिः सिद्धौ च भक्तेर्न हि सद्वयत्वम्।
लाभोपलब्धावपि भक्तिरेव गरीयसी काचन कामधेनुः।। 72।।
श्रीरामदेवो निजमन्त्रणाया न शासने वीक्ष्य समादरं तु।
रुष्टो विरोधं चकमे स्फुटं हि कांग्रेससंघस्य जनेश्विदानीम्।। 73।।
बभूव किन्तु प्रथमानरोगः स्थूले शरीरेऽनषनेन तस्मात्।
सर्वे प्रतिष्ठातिशयेन युक्ताः सन्तस्समेयुर्ननु तं निरोद्धुम्।। 74।।
अमेरिकातो रविशंकराख्यो वस्त्राणि शुभ्राणि दधन्महात्मा।
मध्ये हि यात्रां परिखण्ड्य यातः श्रीरामदेवं शितिकूर्चकेशः।। 75।।
अन्येऽपि सन्तः समुपेयिवांसः श्रीरामदेवानशने सचिन्ताः।
तैः प्रार्थितो योगिवरोऽप्यसौ हि हठे स्वकीये श्लथतामधत्त।। 76।।
स्वपाणिनाऽसौ रविशंकरेण महात्मना दत्तमपात् तु पेयम्।
सन्तः स्वतन्त्रा अपि तान्त्रिकेषु ज्येष्ठस्य नाज्ञां परिलंघयन्ते।। 77।।
श्रीमानसौ श्रीरविशंकरोऽपि साधुत्वयोगाय हि विश्ववन्द्यः।
तद्वाक्यमुल्लंघयितुं न शक्तः श्रीरामदेवोऽपि बभूव भक्त्या।। 78।।
चक्रे प्रतिज्ञां स पुनश्च सुस्थः सदा सकाषायकवस्त्रधारी।
भ्रष्टानधीकारपदप्रतिष्ठानुन्मूलयिष्यामि समानितीव।। 79।।
को रामदेवः स हि कृच्छ्रयोगी, योगी मनुष्यो हि स वै विमार्गम्।
स्वार्थस्य सिद्ध्यै श्रयितुं क्रमेतेत्यस्यापि भूतिः सुपरीक्षणीया।। 80।।
नो सोनिया नो मनमोहनश्च श्रीरामदेवाऽर्थपरीक्षणार्थम्।
अन्वेषणां चक्रतुरापतुश्च विपर्ययस्याणुमपि क्रियासु।। 81।।
अन्नाहजारेऽपि बभूव सृष्टः स्वान्दोलनायाऽत्र मुहूर्त्त एव।
प्रधानमन्त्री मनमोहनोऽपि क्षणेऽत्र चिन्ताजटिलोऽभ्यलक्षि।। 82।।
श्रीरामदेवः स्वयमेव योगी वाणिज्यचातुर्यगुणेन युक्तः।
नास्त्यर्थजातं कलुषं ततश्च निर्भीक आन्दोलनकं तनोति।। 83।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ भूयःप्रकोपो नाम त्रिसप्ततिः सर्गः।। 73।।
चतुःसप्ततिः सर्गः
अत्रान्तरे प्रान्तविशेषकेषु निर्वाचनं जातमथो विरोधः।
जिगाय सर्वत्र परन्तु मायावती प्रदेशे ददृशेऽत्र धीरा।। 1।।
श्रीरामदेवो मयराष्ट्रसीम्नो निर्वाचनान्दोलनमारिरिप्सत्।
मायावती तं प्रतिषेद्धुमैच्छद् विधानमुच्चैः परिलङ्घय दार्ढयात्।। 2।।
श्रीवाजपेयी सुषमास्वराजः श्रीलालकृष्णोप्यडवानिकोऽपि।
श्रीरामदेवस्य कृते निषिद्धं निर्भर्त्सयामासुरिमं निषेधम्।। 3।।
मद्रासतः श्रीललिता विजिग्ये लेभे च नेतृत्वमथ स्वराज्ये।
अन्यत्र कुत्रापि च काङ्गरेसजयो न वाऽश्रूयत खण्डशोऽपि।। 4।।
व्यकम्पतामुं परिणाममेक्ष्य कांग्रेसनेतृत्वमथो च गान्धी।
श्रीराहुलोऽचेष्टत लब्धुमाप्तां स्थितिं प्रदेशेऽत्र तथोत्तराख्ये।। 5।।
मायावती बत ततोऽवहिता बभूव
तूष्णीं स्थिता तु वचसाऽस्य विरोधकेऽपि।
चेष्टां विपक्षदलनेतुरुदाचकार
श्रीराहुलस्य न मनागपि, नास्य मातुः।। 6।।
प्राज्ञा भवन्ति रिपवेऽप्यनुकूलवाचः
कार्यं तु न स्वकमिमेऽन्यथयन्ति धीराः।
पूर्वं ददाति खलु या स्म सभासु गाली-
रेतत्क्षणे तु नितरां बत सैव शान्ता।। 7।।
विप्रप्रभावादिममुत्तराख्यं प्रदेशमप्यानुगुणीचकार।
यस्मिन् कलिर्मारवषशात्रवाणि न्यमन्त्रयत् पूर्वमपीतिहासे।। 8।।
तदेव मूलं परतन्त्रतायाः, प्रज्ञापराधः स परात्परोऽभूत्।
यः शक्तिमान् नाशयते स शत्रुं किन्त्वातिथेयेन समं हि शश्वत्।। 9।।
षरत्सहस्रं क्षरदात्मतेजाः हिन्दूपदाख्या जनता जिहिंस।
आत्मानमेव प्रथमानकीर्तिः शौर्याय वीर्याय दिवौकसोऽपि।। 10।।
सौन्दर्यमेषां रिपवश्चचर्वुः शरीरशक्तिं नु चमूचराणाम्।
लाभानभुङ्क्त प्रसभं तु शत्रुर्गुणाः समे भारतिनो बभूवुः।। 11।।
गुणाः सूदाः पाचकाः।
या सङ्घशक्तिः वरमादधाति जनेषु तस्यामभिमान एकः।
अरातिभूतोऽस्ति सुसिद्धिमन्त्रमिमं समे विप्लविनस्तु जेपुः।। 12।।
यां सङ्घशक्तिं बत केन्द्रकेऽपि समर्जयन्ति स्म तु भारतीयाः।
प्रान्तेश्वपीमां प्रगुणां बभूवुश्चिकीर्षवः संसदि यद्वदद्य।। 13।।
प्रान्तेभ्य एवोत्थितिमाप्नुवाना भवन्ति ये सांसदिकास्समे ते।
केन्द्रे गता सूत्रमिदं जपन्तो बभूवुराप्ताश्च दलस्य राज्यम्।। 14।।
श्रीवाजपेयी बत वर्षपञ्चकायाप्तशक्तिर्द्विरसौ बभूव।
साफल्ययोगे ननु तत्र मूलं बभूव मन्त्रो ह्यसकौ कृतार्थः।। 15।।
एकं दलं स्याद् यदि वा बहूनि स्वाराज्यलाभे बहुता तु शस्या।
यद्येकवाक्यत्वमथास्ति नैव प्रतीक्षणीयं बत शासनाय।। 16।।
अद्यापि सैवास्ति दशास्मदीया न वै भवामो बहवोऽप्यनेके।
यदैकमत्यं नहि तत्र कार्या प्रामाण्यशङ्का जनतान्त्रकीयैः।। 17।।
श्रीमान्मनोमोहनसंज्ञको यः प्रधानमन्त्री स हि सोनियायाः।
कृतिर्द्विरस्मै परमो हि धर्मः श्रीसोनियायाः परिरक्षणं यत्।। 18।।
श्रीसोनिया प्रापदपूर्वमेव धनं स्वदेशान्ननु तच्च तस्याः।
कृते तदीयं व्ययमात्मने हि कर्तुं स्वतन्त्रेति जगत्प्रसिद्धम्।। 19।।
न तस्य हेतोरुपयोगजन्यः करोऽणुमात्रोऽपि सुनिश्चितोऽभूत्।
सा वै स्वयं तत्र बभूव शक्ता विनापि हेतुप्रतिपादनायाः।। 20।।
मा भूत् स्वयं सा विधृताऽपराधे परात्परेऽस्मिन् मनमोहनस्य।
स्वयं विशुद्धस्य बभूव चिन्ता कृतज्ञतैवास्ति मनुष्यता नुः।। 21।।
सा काचिदन्यैव कथात्मजातं कृतापराधं प्रददावहल्या।
स्तम्बेरमाय स्वयमक्षिसाक्ष्ये नैवामुचद् तं विधवाऽप्यपुत्रा।। 22।।
ममत्वमेकत्र परत्र नीती राज्ञे न नीतिं ममताऽभ्यलङ्घत्।
नीतिः परार्धेति विमर्श आसीत् वसुन्धरायामिह सुप्रसिद्धः।। 23।।
तामेव नीतिं निखिलाः प्रतिज्ञां गृह्णन्ति सम्पालयितुं स्वकार्ये।
भवन्ति केचित् सफलाः परन्तु भवन्ति भूयांस इहाऽसहायाः।। 24।।
श्रीमान्मनोमोहनसिंहनामा प्रधानमन्त्री भरतस्य भूमौ।
आदर्शवाक् पालयितुं प्रयत्नं करोति काठिन्यमयस्तु मार्गः।। 25।।
काठिन्यकौटिल्यमयी द्वयी हि संसारिणामग्रतमा प्रवृत्तिः।
ये सत्यनिष्ठा न हि ते च्यवन्ति निर्णीतियागेऽत्र समुत्प्रवृत्ते।। 26।।
कर्तव्यमस्ति कठिनं यदि तस्य मार्ग-
स्त्याज्यो न वै भवति नीतिविशारदास्तु ।
काठिन्ययोगसहितेऽपि पदं स्वकीयं
मार्गे निधातुमिह हि व्रतिनो भवन्ति ।। 27।।
ये सन्ति केचिद् बडवातनूजास्तेषां पदानां करभूदशाऽपि।
विंशन्ति संहत्य सपुत्प्लवन्ते संहत्य संहत्य फलं लभन्ते।। 28।।
श्रीमान् मनोमोहनसिंहधीरो न राहुलं मन्त्रिपदाय योग्यम्।
नामंस्त तस्यैव समीहितं तु कर्तुं हृदाऽचेष्टत सौमनस्यात्।। 29।।
न्यषेधदेतन्तु पदाधिकारात् श्रीसोनियाऽपि प्रवयास्तु माता।
न शास्तृयोगे सुलभे युवानः परिच्यवन्ते न निजाधिकारात्।। 30।।
श्रीराहुलो वाञ्छति मुख्यमन्त्रिपदं यथा तस्य पिता, परन्तु।
प्रधानमन्त्रित्वमुपागतं चेत् तत्राभिलाषी भवितेति पश्यन्।। 31।।
यस्मात् पदादभ्यधिकं न किञ्चिदस्यां धरायां यदि सोनिया तत् ।
विदेषभूरित्यपमन्यते तत् सूनुस्तदीयः कथमाद्रियेत ।। 32।।
श्रीरामदेवः स्वयमेव योगी वाणिज्यचातुर्यगुणेन युक्तः।
नास्त्यर्थजातं कलुषं ततश्च निर्भीक एवानशनं न भिन्ते।। 33।।
श्रीसोनिया श्रीमनमोहनोऽपि श्रीरामदेवस्य परीक्षणाय।
अन्वेषणां चक्रतुरापतुश्च विपर्ययं नैव कुतश्चनापि।। 34।।
अन्नाहजारेऽपि बभूव सृष्टः स्वान्दोलनायाऽत्र मुहूर्त एव।
श्रीमान्मनोमोहनसिंह आस्ते क्षणेऽत्र चिन्ताजटिलो महात्मा।। 35।।
को रामदेव इति, कश्चन कृच्छ्रयोगी,
योगी मनुष्यमतिरिच्य न संप्रवृत्तः।
तस्याः समृद्धिकणिकामपि दोषदिग्धां
यो द्रष्टुमिच्छति नमस्कृतिपूज्य एषः।। 36।
एतस्मिन्नेव काले धनमतिविपुलं केरले देवसद्भ्यः
प्राकाश्यं वै समापत्, सपदि नहि गता यस्य संख्या समाप्तिम् ।
एवंभूतः प्रकोष्ठा षडिति तु विदितास्तेषु भूयोऽप्यगण्यो
स्वर्णौघः संप्रकाषो भवति लघु, भवत्येतदप्यात्मनीनम्।। 37।।
एवंभूते प्रसान्ते पुरि निवसति यः साँईंबाबा बभूव
स्वर्णौघस्तस्य शान्ते नगरवसतिकायां बभूवाऽप्रकाशः।
तस्यार्धं तस्य कुल्ये न्यधित बत ततस्तस्य पादः स्वकीये
चैत्ये देहस्य पार्श्वे निभृतिमथ गतो, यस्य संख्याऽपि नासीत्।। 38।।
पश्चात् तत्रैव भूयोऽप्यतिविपुलसुवर्णोच्चयः प्रादुरासीत्
तस्यासीन्नैव कश्चिद् विधिवदधिकृतौ सक्षमस्तत्र भक्तः।
एतत् सर्वं प्रकाशं न खलु भवति किन्त्वस्ति नो शासनस्य
तत्रेक्षा, नो च वाञ्छा, किमु बत भरतानां भवेदभ्युदीतिः।। 39।।
काञ्चीपीठे जयेन्द्रे भगवति जगतीगौरवं प्राप्य राज-
त्यह्नायैवाभ्युदीतिर्भवति भगवतीधाम्नि पूर्णेऽद्भुतात्मा।
तत्राप्यंशावतारो भवति भगवतो हेमनाम्नः परस्य
देवस्याद्यापि भूम्ना क इव खलु समस्तस्य देवस्य लोके।। 40।।
काश्यां गोपालतीर्थे भवति निधियुगं गूढगूढं युगेभ्यो
भक्तैः स्वर्णं सुभूम्ना खलु निहितमिहास्त्यन्वहं दी/धीयमानम् ।
एकेनैवाद्य विद्यालयशतकमिहास्ते प्रवृत्तौ क्षमं का
वार्त्ता संपत्समुद्रोत्तमनिधिरपरस्तत्र यः संचकास्ति।। 41।।
यावद्धनं भगवतस्तिरुवेन्द्रमस्य
कोष्ठे शतेन शरदामनिरीक्षितस्वे।
प्रादुर्बभूव तदपि प्रतिवीक्ष्य धन्य-
धन्या लसाम इह शासन! कुत्र सुप्तम् ।। 42।।
यत् पद्मनाभभगवद्भवनस्य गर्भे
स्वर्णं प्रकाशितमभून्ननु तस्य हेतोः।
लाला न बाधत इमां जनतां य एव
लालायतेऽत्र च जिघृक्षति च प्रणष्टः ।। 43।।
तेष्वेव हन्त दिवसेषु तु रेलयानं
यानान्तरस्य वपुषा परिघट्टमापत् ।
संख्यातिगा मनुजसन्ततिरापनाशं
तस्मिन् क्षणेऽपि ववृषुः प्रलयाम्बुवाहाः।। 44।।
यत् कुत्रचिन्न घटितं घटितं तदानीं
जाजायते स्म परितः खलु भारतेषु।
लब्धा न हन्त कृपणाऽपि वराटिका च
व्यात्तञ्च वक्त्रकुहरं यमकिंकराणाम् ।। 45।।
मार्गेऽपि चेन्निपतितं क्वचिदीक्ष्यते वै
स्वर्णं वयन्न खलु तत्परिपिस्पृषामः।
वल्गेयमास्यविवरेषु वरीवृतीति
कस्यापि नो न, कलिकालगतेष्वमीषु ।। 46।।
येनाऽपि हेमनिधिरेष कृतः प्रकाशः
सोऽपि ज्वरोरगविषाक्तवपुर्बभूव।
वैवस्वतप्रियतमः स गतो विहाय
देहं भुवः परिसरादपरं हि लोकम् ।। 47।।
चातुर्यमञ्चति यदाधिकमिष्टसिद्ध्यै
लोकस्तदाधिकमनिष्टमवाप्नुतेऽत्र ।
सत्यापितं वचनमेतमिदंक्षणेऽपि
श्रीपद्मनाभनिधिकोषकथान्तरेषु ।। 48।।
षष्ठं यदस्य निधिकोषगृहं न तस्य
यन्त्रं भवत्यपगतं न कपाटयुग्मम् ।
सञ्जायते विवृतमत्र विभागयुग्मे
सिन्धोः जलेन च बिलेन च सन्निरोधः ।। 49।।
यस्तद्विषत्यथ कदापि न वीक्षतेऽसौ
सूर्यप्रकाशमुररीकृतदेहपातः ।
एतद् रहस्यमधिगत्य तु दिल्लिगेऽपि
सर्वोच्चके नयगृहे जनितोऽपरागः ।। 50।।
अस्मिन् क्षणे हि भवनान्तरगोऽत्र पद्म-
नाभः प्रभुर्बत हिरण्यमयोऽपनिन्ये ।
चौरैः, परन्तु न हि तस्य कथापि भूयः
पत्रे प्रकाशमगमत् किमभूत् तु तत्र ।। 51।।
श्रीकाञ्चितीर्थस्य जगद्गुरूणां जयाभिधानामभवत् प्रपूर्तौ ।
पञ्चाधिके सप्ततिवार्षिके तु जन्मोत्सवे स्वर्णमहोत्सवेऽपि।। 52।।
यस्मिन् सुवर्णमुकुटं विजयाभिधानैः
संभावितं शिरसि विद्वदुपस्थितौ वै।
यस्मिन् सनातनकवेर्मम मुख्यतायां
काञ्च्यां कवीन्द्रमहितः समयोऽप्ययोजि।। 53।।
तस्मिन् समाजे विविधाः कवीन्द्रा
राजेन्द्रमुख्याः समुपेयिवांसः।
शताधिकैः किञ्च परै स्वकाव्या-
न्यश्राविषन्त प्रगुणानि हर्षात्।। 54।।
काष्यामपि महाकुम्भसदृशोऽभून्महोत्सवः।
दशाश्वमेधघट्टे तु गंगायां नौसमाश्रयः।। 55।।
तत्राहमपि सम्मानभागभूवं समं परैः।
संगीतोद्योगनिष्णातैर्नेतृणामपि नेतृभिः।। 56।।
मध्यप्रदेशराज्यस्य राज्यपालो ममोपरि।
उत्तरीयं समाच्छाद्य प्रादान् मह्यं विशेशकम्।। 57।
काञ्च्यामपि तथैवैकं बेंगलूरुविनिर्मितं।
प्रशस्तिपत्रं साहित्यरत्नोपाधियुतं ददौ।। 58।।
तस्मिन् कौस्तुभसंरम्भे रत्नं कौस्तुभमेव यत्।
विवक्षितमिति प्राज्ञैर्मतः साहित्यकौस्तुभः।। 59।।
साहित्यकौस्तुभः सोऽहं काञ्च्याचार्यकृपावशात्।
‘महामहोपाध्याय’-इत्युपाधिमपि लम्भितः।। 60।।
येषां कुले भगवती ननु शारदैव मूकान्करोति सुकवीनथ शङ्करार्यान्।
येषां समानपि गुरूनभिषेककालादारभ्य रक्षितुमलं निजराष्ट्रमीक्षे।। 61।
तदेव कार्यं यदि रामदेवो योगीश्वरः कर्तुमना इदानीम्।
तस्यानुरोधो जनतान्त्रिकीभिः संविद्भिरास्तां किमु नैव मान्यः।। 62।।
श्रीसोनिया तु स्वचिकित्सितार्थं ययौ विमानादमरीकदेशम्।
श्रीराहुलस्य स्वपदाधिकारं स्कन्धे निवेष्यातितरां विचिन्ता।। 63।।
तत्राभवत् कर्कटरोगशल्यचिकित्सितं, स्वास्थ्यमवाप्य चासौ।
तत्रैव रुद्धा तु चिकित्सकानां दलेन तत्रैव चिकित्स्यतेऽद्धा।। 64।।
नास्त्येव देशे द्रविणस्य कार्श्यं तस्योचितो यो विनियोग एषः।
शुद्धान्तरङ्गैः कुशलैश्च संसद्-गतैः प्रधानैः पुरुषैस्तु साध्यः।। 65।।
त एव निघ्ना व्यभिचारणाभिर्यदि क्वचिद्, पश्यतु देश एषः ।
स्थानं स्वकं नारककारणानां गृहेषु बंहिष्ठमहोदरेषु ।। 66।।
कालेऽस्मिन् विषमतमे स्म राजधान्यामेकस्मिन्ननशनदुर्गतिर्विभाव्या।
वार्षिक्यं यवनमहोत्सवाभिरामं संदृष्टं प्रियतमभोजनं परत्र।। 67।।
अस्मिन् संक्रमणामये भगवतः कालस्य सांवर्तिके
पर्यायेऽस्ति विपर्ययस्य विशदंकारायमाणः क्षणः ।
सामुद्री विपदेकतोऽपरदिशि व्योम्नो ग्रहाणां ग्रहै-
र्भूमौ वारिविनाषपूरविशमीभावश्च धिग् धिक् क्षयः ।। 68।।
गङ्गा गता विलयमेव न तत्र तीर्थ-
राजेऽपि वारि सिकतावलिरेव दृश्या ।
कल्पद्रुमोऽपि भगवान् दृढबन्धदुर्ग-
ग्राव्णो विदीर्य बहुधाऽत्र परिस्तृतोऽस्ति ।। 69।।
ब्राह्माक्षरैः कलितलेखमुदारतारै-
र्दीर्घैः समासललितैर्हरिषेणलेखम् ।
धत्ते स एष खलु कोऽपि समुद्रगुप्त-
स्तम्भोऽपि यत्र खलु धारयतेऽस्मितां स्वाम् ।। 70।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ सुवर्णोदयो नाम चतुःसप्ततिः सर्गः।। 74।।
पञ्चसप्ततिः सर्गः
अन्नाहजारेऽद्य तु लोकपालप्रस्तावकुक्षौ मनमोहनञ्च ।
आदित्सुरान्दोलनमस्ति कुर्वन् प्रधानमन्त्री न च तद्विरुद्धः ।। 1।।
अन्नाहजारे खलु तस्य हेतोरनन्नतां द्वादशवासराणि ।
संशिश्रियेऽगस्तचतुर्दषाह्नः प्रारभ्य दिल्ल्यां हि दृढव्रतात्मा ।। 2।।
तस्याऽस्य लक्ष्यं तु बभूव मुख्यं व्याप्तस्य चारित्र्यगतस्य सद्यः ।
भ्रष्टक्रियाणां शतकस्य नाषं विधातुमेकं विधिसंविधानम् ।। 3।।
न सम्भवं तत्त्विति शासकीयाः पक्ष्याः वदन्ति स्म, स तद्विरुद्धम् ।
जनैरसंख्यैर्नगरस्थितैर्वा ग्रामस्थितैर्वास्ति समर्थितं तत् ।। 4।।
पूर्वं हजारे निगृहीतदेहस्तिहाडकारागृहवासितोऽभूत् ।
ततश्च सद्यो हि विमोचितोऽपि तत्रैव वासाय हठं चकार।। 5।।
अन्नं न खादन्नपि भाषणेऽभूदसावशक्तो न हि, तस्य तेजः।
तिग्मत्वमासीसददत्र भूयो भूयस्तरां शत्रुबलाऽविषह्यम्।। 6।।
प्रत्येकवारं मनमोहनाख्यः प्रधानमन्त्री तु बभूव नम्रः।
न तस्य चित्ते मदनामकस्य विषस्य जाताङ्कुरणाऽल्पिकापि।। 7।।
अन्नाहजारे कथयत्यमी ये संसत्सदस्याः खलु ते प्रदत्ताः।
संसत्सदस्यत्वमहत्त्वमेष जनो हि वः कामयतेऽवधानम्।। 8।।
अस्मिन् युगे नास्ति गृही गृहे स्वे वारद्वयं भोजनमाप्तुमर्हः।
महार्घता व्याघ्रवधूर्नितान्तं बुभुक्षिता चर्वयतेऽस्य सर्वम्।। 9।।
महार्घ्यतायां ननु हेतुरास्तेऽधिकारिणां कौशलहीनतैव।
सोत्कोचलब्धार्थचयप्रपुष्टा न वीक्षते कञ्चिदपि स्वदेश्यम्।। 10।।
लब्धाधिकारोऽस्मि ममैव वृद्ध्यै पुत्रा मदीया महिमानमाप्ताः।
भूयासुरर्थेन समास्तु विद्या अधीत्य संरक्षणलब्धलाभाः।। 11।।
यस्तत्र रोद्धा ननु तं निरोद्धुमस्त्येव मन्त्रिप्रवरोऽस्मदीयः।
इत्येवमेते कृपणा भवन्ति दक्षैकसाध्येषु पदेषु युक्ताः।। 12।।
अन्नाहजारेऽत्र वसुन्धरायां देशान्तरेष्वप्युपलब्धपक्षः।
विश्वस्य नेतृष्वभवत् तु लब्धस्थितिः पृथिव्यां क्व न तस्य पक्ष्यः।। 13।।
एवं दिनानि दश तस्य यदा व्यतीता-
न्यन्यायशान्तिकमितुर्दुरवग्रहस्य ।
संसद्द्वयं तदुपदिष्टपदं तु कञ्चिद्
प्रस्तावमाशु निरवद्यमुरीचकार ।। 14।
संसत्सदस्यवचनानि विसृज्य दीर्घं
स्वीयं व्रतं स खलु संशमयाञ्चकार ।
स्वीयेन युक्तिमहितेन सदुत्तरेण
वाणी न तस्य खलु कम्पनमाससाद ।। 15।।
भुक्ताशनः स मधुना सहितेन नारि-
केलोदकेन जनतामधुनाभ्यनन्दत् ।
नायं जयो मम जयस्त्वसकौ जनस्य
सम्यक्प्रबुद्धनयनस्य सविग्रहस्य ।। 16।।
अर्धस्त्वसौ जय इहास्ति पुनस्तु कर्त्ता-
स्म्यान्दोलनं सदृशमेव जनैः समेतः ।
किन्त्वस्मि विश्वसितुमेषु समेषु बाध्यः
सत्सांसदेषु वदिताऽवसरो भविष्यम् ।। 17।।
सर्वेऽपि लक्षगणनामतिपात्य राम-
लीलाङ्गने क्रम इह त्वनुतस्थिवांसः ।
ते नाऽविदन्त रविवह्निमथो गभीर-
मेघावलीसलिलवर्षणकानि धन्याः ।। 18।।
श्रीरामदेवकृतशासनविग्रहे तु
रामस्य भूमिरभवन्ननु सद्विताना ।
असीच्च तत्र जनताशनसुव्यवस्था
स्वास्थ्याय किञ्च भिषजामपि सन्निपातः ।। 19।।
अन्नाकृते तु जनता समुपेयुषी या
तस्यै जना हि कृतवन्त उदारचित्ताः।
भोज्यादिकस्य निजरूप्यकसंग्रहेण
सम्पादितस्य खलु तत्र जलोत्तरस्य ।। 20।।
मञ्चस्य पार्श्व इह दिल्लिगतं कुटीर-
मेकं व्यधायि तु कृतेऽन्नहजारिकस्य ।
तस्योदरेऽभवदतीव बृहद् विकेका-
नन्दस्य चित्रमतुलं तु विलम्बमानम् ।। 21।।
यैः संसदि प्रतिरवो विहितस्तथा-
ऽपशब्दाः कृतेऽस्य भणितास्त इमे समेऽपि ।
नम्रा बभूवुरपशब्दकृते क्षमाञ्च
दुःखेन सार्धमुपयाचितुमुद्यतास्ते ।। 22।।
अस्मिन्ननेहसि न राहुल एव नो वा
माताऽस्य तत्र ददृशे प्रतिकर्तुमेव ।
दृष्टस्तु संजयसुतो वरुणो निविष्टः
सभ्येषु संसदि च युक्ततरं ब्रुवाणः ।। 23।।
अन्नाहजारेदयितास्तु तत्र बभूवुरेवाद्यतना युवानः।
श्रीकेजरीवाल इति प्रसिद्धः शास्ता तथा वेदिरिति प्रशास्त्री।। 24।।
सर्वेऽपि सद्वक्तृषु गण्यमाना बभूवुरत्यन्तसमर्पिताश्च ।
तैरेभिरेवाद्य कृता महद्भिर्वार्ताः स्वपक्षं परिपालयद्भिः।। 25।।
अस्मिन् जनान्दोलन आविरासीत् संसत्सदस्यत्वगुणावली या।
तस्यां प्रधानान्यभजन्नतीव गर्वानलार्चींषि निजोच्चतायाः।। 26।।
स्वराजनाम्नी सुषमा दलस्य स्वस्य प्रधाना त्विह मुक्तकण्ठम्।
समर्थयामास जनस्य याच्चां संसत्समक्षं प्रविसार्यमाणाम्।। 27।।
श्रीरामदेवोऽपि निजाभियोगमन्नाभियोगस्य समर्थकत्वे।
प्राख्यापयत् किञ्च जनेषु तत्र प्रस्थानभाक्षूपससाददच्च ।। 28।।
श्रीरामदेवस्य हठेऽप्रसन्नं केन्द्रस्य यच्छास्तृदलं बभूव।
तेनाभियोगाय कृतानुवीक्षाषतेन नावापितु दोषलेशः।। 29।।
श्रीरामदेवस्य तु भेषजानि प्रभावशालीति भवन्ति तेषाम्।
कृते प्रदेशास्तुहिनाचलस्य काष्ठौषधीलाभकृते बभूवुः।। 30।।
शास्तार एतानपि निर्ममेण निकृन्तनेनाऽद्य विनाशयन्ते।
तत्रापि देवः स विरोधहेतोराह्नाययत्यात्मजनान् समर्थान्।। 31।।
यः प्रातरुत्थाय करोति यागं सार्धं जनैर्मन्त्रमुदीरयद्भिः।
करोति तैर्मन्त्रभरैश्च दिव्यान् भव्योपदेशीनुपकारहेतोः।। 32।।
सामाजिकान् राष्ट्रियताभृतश्च भावानसौ भावयतेऽत्र मन्त्रान्।
प्राप्नोति तेनैव दिवस्पथश्च मर्त्येऽपि लोके विततान् सुखांश्च।। 33।।
सत्साहिती मानुषचारितीञ्चेत् प्रदर्शयन्ती प्रतिभाति लोके।
श्रीशारदायाः स पयोधरीया दुग्धस्य धारा पुरुषार्थदात्री।। 34।।
अर्थो न लभ्येत पराधिकारस्थितौ विना कञ्चन तं विशेषम्।
प्रकल्प्यते यस्तु परोपकारे यथा चिकित्सा च यथा च गीतिः।। 35।।
अन्नाहजारे गृहमाप मुक्तश्चिकित्सकैः निष्प्रतिदानसेवैः ।
यत्रास्ति शुल्कं प्रतिविष्टरं वै सहस्रकाणां दश रूप्यकाणाम् ।। 36।।
दिल्लीस्थितिर्मखभुजां भुवने वसद्भ्यो
भोगः करालनिरयस्य यदि स्थिरः स्यात् ।
यत्र प्रभातसमयात् प्रथमं तु यामं
यावन्निशः स्वजनवक्त्रमपीक्ष्यते नो ।। 37।।
यानं हि यत्र वसतिर्दिवसे प्रशस्ते
मार्गे गतागतमथो निशि संप्रवासः ।
दाम्पत्ययोग इह तिष्ठति केवलेषु
काव्येषु नाट्यभवनेष्वथवा नटत्सु ।। 38।।
यत्राधिकारपुरुषैर्निजतां निरीक्ष्य
सौविध्यजातमुपदीक्रियते, परेभ्यः ।
तास्ता निरावृतमुखाः प्रतियोगिताख्याः
क्लिष्टाः पिशाच्य इह सन्ति विवारितास्याः ।। 39।।
अन्नाहजार इति भक्तजनेषु नूत्नो
गांधीबभूव, विपरीतमिदं परं तु ।
अन्ना निरन्नति सदैव परार्थसिद्ध्यै
स्वस्थश्च तिष्ठति निराकृतसौख्यवृद्धिः ।। 40।।
अन्ना विवाहकथयाऽपि वियुक्त एव
नारीं विभावयति यः स्वसृमातृदृष्ट्या ।
निर्भोजनं लसति धावनतत्परश्च
प्रोच्चैः प्रवक्तुमथ कण्ठगिरि स्थिरस्य ।। 41।।
बुद्धिः स्थिरास्ति, निजमानसभावमुच्चै-
रेष व्यनक्ति निरुपप्लवमेव षष्वत् ।
निद्राति पूर्णमथ वेषमुपादधाति
षुभ्रं सदैव नितरां धवलाञ्च टोपीम् ।। 42।।
चत्वारि रौप्यकषतानि भवन्ति यस्य
पर्याप्तिभाञ्जि ननु मास उदारबुद्धेः ।
साहस्रिकेषु ननु षट्सु च रूप्यकेषु
षिष्टं ददाति सुजनेभ्य उपस्थितेभ्यः।। 43।
इत्थं कषायवसनैः रहितोऽपि योगी
कश्चिद् विसृष्टजगदेष महात्मनां हि ।
अग्रे सिसर्ति, वसतिर्भवति क्वचिच्च
देवालये न तु निजे भवने यदीया ।। 44।।
तस्यास्य निश्चलमतेर्महतो विभूति-
भूतस्य भूतिषतकं वरिवस्यतीव ।
राष्ट्रोन्नतौ यदि स एष समुत्थितस्तं
को वा जनो न हि समर्थयतादकामम् ।। 45।।
‘अन्ना भवाम्यहमि’ति प्रतिलक्षलक्ष-
मान्दोलितेषु पुरुषेष्वभवत्तु लेखः ।
आकाषकुक्षिरभवच्च सुपूरितस्तु
भूम्ना जयध्वनिभिरस्य महोदयस्य ।। 46।।
बाला वदातचिकुरा अबला युवानः
सर्वेऽपि गेहकुहरादुदिता हि सूर्याः ।
लक्ष्यन्त एषु दिवसेषु, निषाकरा नो,
नो वा निषा चितिषु जागरितासु देषे ।। 47।।
मेघा घटामुपगता अपि वृष्टतोया
दिल्लीं पुरीं विदधते सरसीं नु पूर्णाम् ।
वैराग्यमेष्वपि दिनेषु न ते भजन्ते
स्मास्मिन्ननावृतवियत्यवनेर्वकाषे ।। 48।।
सर्वे भवन्ति धवलप्रतिषीर्षकाश्च
पाणौ च ते ज्वलितदीपिकया सनाथाः ।
नोऽपद्रवश्च कुहचित् घटितोऽत्र राष्ट्रे
पूर्णे तदेतदुपदीकृतविस्मयं वै ।। 49।।
अन्नोदितानि वचनानि जनप्रवाहै-
र्देशेषु भूमिहृदि भूरि लसत्सु दृष्टैः ।
भूम्नाऽभिनन्दनपदान्यभवन्न यद् वै
संदृष्टमेव विगतेषु दिनेषु पुंभिः ।। 50।।
रात्रौ व्रजन्ति निखिला अपि मानवाः क्व
प्रातः पुनः प्रकटिताश्च कुतो भवन्ति ।
नैवाधिगन्तुमशकन्निह जागरूका
रक्षाधिकारपुरुषाः सह पत्रकारैः ।। 51।।
विश्वं स्म पश्यति तदेतदहो विचित्र-
मान्दोलनं प्रतिजनं प्रतिबिम्बितं हि ।
कार्यान्तराणि निखिलान्यपि कर्मिणां वै
रुद्धानि किं नु भवतीति समुत्सुकानाम् ।। 52।।
कार्यालयाः खलु चलन्ति, परन्तु कार्यं
नान्यत् पदं भजति, दूरदृशं विहाय।
तत्रापि केवलमिदं जनताण्डवं हि
दृश्यं भवत्यनिशमेव न किञ्चिदन्यत् ।। 53।।
काले युगान्तमुपसर्पति वीतरागो
देवोऽपि ताण्डवमुपाश्रयते महेशः ।
यो वै विषं विषधरांश्च नियम्य कण्ठे
विश्वं पिपर्त्ति च बिभर्त्ति च सर्वशक्तः ।। 54।।
अम्बापि खड्गमसुरावलिकण्ठनाल-
विच्छेदने पटुमुपाश्रयते युगान्ते ।
या वै निषिच्य निजवक्षसि जागरूकं
पीयूषमेव परिषिञ्चति वै युगादौ ।। 55।।
प्राप्ते युगान्तरमये समयेऽपि तां हि
गाथां पुनः पुनरसौ श्रयते विधाता।
अस्या भुवस्तत इतो हि जनो प्रयाति
जागर्त्तिरेव जनगा तु जगत् पिपर्त्ति ।। 56।।
यद् ब्रह्मचर्यमिति किञ्चन साधनं तत्
सामर्थ्यमद्भुततमं प्रददाति देहे ।
अन्ना चकार दिवसानियतो निरन्न-
भक्षव्रतं तदियमस्ति तु तस्य शक्तिः ।। 57।।
श्रीरामदेव इति योगिवरोप्यशक्तो
जातो दिनैः कतिपयैरशनं विहाय ।
स्वीये हि धाम्नि ननु सोऽपि बभूव कृच्छ्र-
मुक्तः स वै पुनरपि स्वहठं विवव्रे ।। 58।।
यश्चाग्निवेश इति नामक आर्यभक्तः
काषायवस्त्रपरिमण्डितदीर्घकायः ।
सोष्णीषकः स बत वाग्ग्मितया जहार
चेतांसि किन्तु विरतानि चकार पश्चात् ।। 59।।
ये सन्ति केचन महामतयो वरिष्ठा
व्यापारिणो न खलु तेऽत्र समासजन्त ।
चातुर्यभाक्षु परमत्र कनिष्ठिका-
स्थाश्चक्रुस्तु साह्यमथ तस्थुरतीव गुप्ताः ।। 60।।
यच्छासनं न हि ददौ प्रथमं तु दिल्ल्यां
स्थानं ददौ च परिकीलितसीमितं तत् ।
अन्ना न तत्किमपि मानयते हठं च
नैव त्यजत्यनशनाय हि राजधान्याम् ।। 61।।
तस्यैव सर्वविधमेक्ष्य ततोऽनुकूल्यं
साह्याय हर्षमवहन्ननु पत्रकाराः ।
लज्जा च मार्दवयुतोग्रकठोरता च
सच्छासनेन परिवर्तनमाशु दत्तः ।। 62।।
कालेऽत्र कोऽपि मनमोहनसिंहनामा
धत्ते प्रधानपदवीमनुशास्तिमुग्धाम् ।
धूर्ता वचांसि मधुराणि यदस्य काले
स्वैरं वदन्ति नितरां परुषाँश्च सन्तः ।। 63।।
यत्स्वीकृतं सदनयुग्मगतैः सदस्यै-
स्तद्वीक्षणाय खलु दत्तमिदं विधानम् ।
पारम्परीमनुसृतैरुचितं तु मन्ये
सर्वैस्तदीयवचनं नियमायते यत् ।। 64।।
श्रीसोनिया गतवती निभृतं त्वमेरीकां
तत्र केन्सर चिकित्सितमाप किञ्च ।
संमोचितापि न हि सा भिषगालयात् तु
मुक्तिं प्रपद्य भवनं स्वमुपागताऽभूत् ।। 65।।
दत्तस्तया निजदलस्य तु योऽधिकारः
सोऽस्याः सुताय खलु राहुलसांसदाय ।
स ह्येव पञ्चदशवारगते त्रिरङ्ग-
केतूच्छ्रये नत इहोच्चतमैः प्रधानैः ।। 66।।
अन्नाहजारजनसंग्रहमेष चख्यौ
नैवोचितं परुषभाषितभीषितेषु ।
संसत्सदस्यनिकरेषु परन्त्वमानि
वाक्यं तदीयममुया न हि संसदा तु ।। 67।।
अन्नाप्रस्तावमेषा प्रथममनुमतं नैव चक्रेऽनुकूला
संसत्, तस्या युगं वै तमिह बहुमतं साधयामास सद्यः ।
सैषा सद्बुद्धिरेव प्रशमितनिजताऽहङ्कृतिर्भीतितो वा
निर्देशाद्वा कुतश्चित्त्वभवदधिगतो यस्ततः सर्वमान्यात्।। 68।।
अपारजनसम्मते विमतिरस्ति वैराग्यकृ-
ज्जनस्य मतदानकृत्तमवरस्य हान्यै भवेत् ।
इदं हि भयमासदन्निखिलसांसदानित्यहो
मतं तदभवद्दिनद्वयमतीत्य यन्नाऽमतम् ।। 69।।
दलानि सुबहून्यथो मतमभूत् समेषां मतं
तदस्य यदवाश्रितं जन इति श्रुतस्त्वेकलः ।
स चाऽस्य भगवत्कृपापरवशस्य पक्षे स्थितो
निरन्नवपुषः कृताऽनशनकस्य कस्याऽप्यहो ।। 70।।
नयेन यदसम्मतं तदपि सम्मतं जायते
यदीयकृपया जनो भवति सांसदानां तु सः।
निरन्नहठपक्षगो जन इतोऽस्ति दृष्टिं गतः
समस्तदलमुच्चकैर्नयविचारणाविस्तरैः ।। 71।।
निरन्नतां द्वादशवासरीयामन्ना प्रपूर्यापि न निर्बलोऽभूत् ।
आध्यात्मिकं तत्र बलं तदीयं तन्त्रं कुमारत्वसमर्जितं यत् ।। 72।।
चत्वारि वर्षाणि ससप्ततीनि प्रपूर्य यो यौवनमेव धत्ते ।
तद् ब्रह्मचर्यव्रतहेतुकं हि तद् वै व्रतं कृच्छ्रतमं कलौ वै।। 73।।
त्यक्त्वापि योऽन्नं दिनपञ्चकं च व्यतीत्य यो धावति मानवः सन्।
सा ब्रह्मसिद्धिः खलु तस्य तस्याः पूर्त्तिर्यमे जित्वरतां ददाति।। 74।।
अन्ना ब्रवीति क्वचनापि नाहं भवामि निर्वाचनलाभलिप्सुः।
राष्ट्रस्य सौस्थ्याय समृद्धये च श्रितव्रतोऽहं तु जनेषु वर्त्ते।। 75।।
आवश्यकं मेऽस्ति दिनावसाने राटीद्वयं तु द्विदलेन युक्तम्।
निवासहेतोश्च मम प्रकोष्ठमेकं हि पर्याप्तमितोऽधिकं नो।। 76।।
नास्ते तु किञ्चिद् व्यसनं मदीयं धूमं धयाम्येष कदापि नैव।
पीतं न चायं, न तमालपात्रं स्पृष्टं मया गोपयसाऽस्मि पुष्टः।। 77।।
न मच्छरीरेऽस्ति तु रक्तचापबाधा न वै काचन माधुमेही।
चित्तेन चाप्यस्मि सदैव रागद्वेषापरागामृतसेकसिक्तः।। 78।।
मधुमेह एव माधुमेही।
न मत्सरो नापि च गृध्नुताभिस्तत्ताभिरास्ते निगृहीतता मे।
समाजसेवाव्रतमात्रदीक्षः सुखं स्वपिम्याशु निशासु सुस्थः।। 79।।
संस्था ह्यनेका मम जाग्रतीह तत्तासु काष्ठासु नितान्तसुस्थाः।
न मेऽस्ति तासु स्वमतस्य शिक्षा, ताः सन्ति सर्वावयवस्वतन्त्राः।। 80।।
आकाशाख्यं वितानं दधति मम समे भूमिलोके निवासः
सोऽयं सर्वोऽपि लोको भवति मम बृहत् सद्म तस्मिन् वसामि।
नास्ते चिन्ता च काचिन्मयि सुतदयिताद्यस्य पाल्यस्य, वित्तं
षट्साहस्रीमितं मे प्रतिनियतमथो वेतनं मासपूर्त्तौ।। 81।।
स्वामी मे नास्ति कश्चिन्न च मम विरतिर्लोकसेवाव्रतेभ्य-
स्तत्तेभ्यो येषु लग्नः सततमनुदिनं व्याप्रिये कृत्यजाते।
आयुर्दायेऽस्ति पूर्णेऽधिकमतिगमितं मामकीने शरीरे
शैथिल्यं नास्ति बुद्धाविव न च मनसि स्थैर्यहानिं स्पृशामि।। 82।।
न रामदेवेन समाऽस्ति काचिन् मयि प्रसन्ना ननु योगशक्तिः।
नाप्यस्ति शिक्षा मम सप्तकक्षाधिकाऽप्यस्मि तु भारतीयः।। 83।।
मज्जीवनं भारतमातृदुग्धप्रपुष्टमास्ते मम संस्कृतिश्च।
धर्माभिधानास्ति, भवाम्यहं तु विप्रो व्रतैर्दिक्षु समासु बद्धः।। 84।।
संन्यासयोगोऽस्ति ममाधिकारः काषायवस्त्रेण विनाऽपि सोऽहम्।
सम्बन्धनिर्बन्धवियुक्त एष कृतक्रियो ब्रह्मरसोऽस्मि मूर्त्तः।। 85।।
अहं हि लभ्योऽस्म्यहमेव लाभो मानुष्यकेऽतः परमस्ति नेष्टम्।
तथापि यस्यां वपुराश्रयामि तां मातरं भूमिमहं भजामि।। 86।।
नाहं शरीरमिति नास्ति मदीयमेतत्
संसारचक्रमिति केवल एष वर्त्ते ।
मां यज्जगत्तु परितः प्रतिभाति तस्य स्वास्थ्याय
केवलमहं यतितोऽस्मि दूरम्।। 87।।
इत्येवमादि गुणयन् स महान् मनुष्यो
नेतृत्वमापदभितः प्रविसृत्वरस्य।
विश्वस्य विश्वकुहरे प्रसृतस्य दूरी-
भावे च दीर्घतमसस्तमसः परस्य।। 88।।
अन्नाहजारेदृढतां दृढत्वं बुद्धस्य विस्मारयते, क्व गान्धी।
गान्धीमहात्मा विरतिं न दध्रे वैदेशिकेश्वप्यरितां भजत्सु।। 89।।
बुद्धस्तु वैयक्तिकहानिमात्रात् सुदुर्निवाराद् दलितोऽपरक्तः।
परन्तु भूयोऽत्र रतिं न भेजे कालस्य पाशैरभितर्जितोऽपि।। 90।।
चित्तं विशुद्धं यदि चिन्मयस्य
स्वस्यापि बन्धोऽस्ति न, नापि मोक्षः।
रसस्तु रामारमणस्य कश्चिद्
विभावजन्मास्ति न तेन बन्धः।। 91।।
भ्रष्टाचारसमाधिरेष गमितो न्यग्रोधतां तच्छिदि-
र्नो वै भावयितुं क्षमा नरपशौ व्याघ्रत्वमासेदुषि ।
व्याघ्रीसूनुरसौ भवेन्न नृपतिर्न्यायाधिपो वेति नः
सर्वेषामिह योगिनां गतिमती प्रज्ञा तथाऽऽन्दोलने।। 92।।
राजीवदीक्षित इति प्रथितः ततश्च
श्रीरामदेव इति योगिवरोऽपि पूर्वम् ।
आन्दोलनेऽत्र निरतौ, परमत्र सिद्धि-
मासेदुषीं कलयतेऽन्नहजार एव ।। 93।।
भाग्यं जनस्य तु बभूव शुभं यदस्मिन्
नो घातनव्रतिषु कश्चन सम्प्रविष्टः ।
एकं बमं शतसहस्रवधाय नो चेत्
सौख्येन कल्पितुमलं प्रबभूव किन्नो ।। 94।।
आन्दोलनं च निरुपद्रवघातजातं
सम्पन्नतामुपगतं भगवत्कृपा सा ।
तच्चेत् फले नहि विसंवदति स्वराष्ट्रे
मन्ये भविष्यतितराममरावती भूः ।। 95।।
घोषोरविन्दो वदति स्म नाको
भूमौ वतीर्णः स्वयमेव भावी ।
मानुष्यकं चेत् भविता विषषुद्धि-
मुग्धं च वेगैः परिरेचितञ्च ।। 96।।
जीवातुहीनमिति सिंहवपुः स्पृशन्तो
भूमौ निपातितमनेन कदाचिदेषः ।
व्यादाय वक्त्रकुहरं मृगयुं हि भुङ्क्ते
कष्टेन कष्टहृदयो ननु सा दशा नः।। 97।।
स्वीकुर्वन्तुतरामिदं, यदि न तत् कुर्वन्तु रिक्तं पदं
घोषं त्वेतममी स्मरन्ति यदि चेत् सुस्थान्तराः सांसदाः ।
भ्रष्टाचारविरोधिनां स्वर इह ध्यानं प्रदद्युर्न चेत्
कुर्वीरन्नपरं हि षोडषममी निर्वाचनं सांसदाः ।। 98।।
इत्थं पञ्चदशी तु संसदसकौ जाता चमत्कारिणी
भूम्ना लोकमतेन बाधितनिजस्वाच्छन्द्यवादा पुनः ।
काङ्ग्रेसाय ददाति चेदवसरं दद्याज्जनस्त्वन्यथा-
कारेणैव मतानि दास्यति पयोदग्धः स्पृषेत् किं पयः ।। 99।।
द्वन्द्वेऽस्मिन् मनमोहनो भवति चेद् दत्तावधानो मतं
स्वीकारेणेन नयेत किञ्च विदितां भूयात्तदीयं शुभम् ।
नो चेदात्ममतेन राहुलमतेनात्मानमुत्सादयेद्
भूयो दर्शनवञ्चनाकलुषितेनासन्दियोगेन वै ।। 100।।
कांग्रेसो घटितः, फलञ्च फलितं तस्याधुना, नास्त्यसौ
भूयोलाभकरस्ततो विघटितो भूयादिति स्वस्थधीः ।
गान्धी प्रत्युपदिष्टवान् न तु वचस्तन्मानितं नेहरू-
तुल्यैः सांसदिकैः, फलं भजति तद्देशस्तु तस्याधुना ।। 101।।
राज्ये राजमते जनाय दयितं यद् दृश्यते तत्र वै
हेतुः काचन बाध्यताऽस्ति यदि चेद् दद्याति वै सा दशा ।
स्वातन्त्र्यं वितथं जनप्रभुतयाऽलंकारभूयं श्रिता-
भ्यन्तरतम्यतया कृतं वयमहो क्षीराय दुह्मो वृषम् ।। 102।।
स्वातन्त्र्यस्य कथा सनातनकवेर्वाग्भिः स्वयं निर्गता
श्रूयेतापि धिया जनैः कवलितैः, सत्यं कटु क्वापि नो ।
न श्रूयेत यदि प्रमादकलुषीकारंगतैरस्म्यहो
न व्यर्थश्रमकः परा तु जननी सत्यप्रिया श्रोष्यति ।। 103।।
जनानां राज्यं यद् भवति बहुरूपं तदिति चे-
दिदानीमेवैतत् घटितमभवद् यत् प्रभुतया ।
अभीष्टार्थे प्राप्ते व्यधित तु निषेधः प्रथमतः
सुवासिन्या यद्वत् तदनु च हठोऽपूरि कमितुः ।। 104।।
तदेतत् सौभाग्यं भवतु शिवयोरैक्यमिव वै
निराबाधं शष्वत्फलतु च पुमर्थान् भुवि समान् ।
अजे जाते योग्ये धुरमधृत तातो रघुरपि
स्वकीयां वै तस्मिन् व्यसृजदथ योगेन जगतीम् ।। 105।।
क्रमोऽयं धर्मात्मा सततगतिको भूमिवलये
निरन्नैरन्नाभिर्युवजनमवेक्ष्यात्र सगतिम् ।
नवीकारं नीतो यदपि च पुराणोऽपि, न शिवः
कदाचिद् वृद्धत्वं भजति, परमात्मा च भवति ।। 106।।
प्रजातन्त्रे सोऽयं सततमनुकूलो जनपथे
विसृष्टो यद् गान्धी यदपि च विसृष्टास्य दुहिता (इन्दिरा)।
विसृष्टो राजीवस्त्वरितमथ शास्त्री च यदथो
स्मृतो नो देशायीमुरजिदथ तन्त्रं च चलितम् ।। 107।।
विधानं, वृत्तं सत्, सदपि वरिवस्याधनमथो
फलस्वाम्यं पूर्णं भवति ननु राष्ट्रस्य महितम् ।
प्रजातन्त्रं तन्त्रं भवति ननु धर्मस्य मनुना
प्रणीतस्यैवास्मिन् कलियुगयुगत्वेऽपि फलिते ।। 108।।
प्रदेयं मे भूयाद् बहु न खलु याचेय कमपि
सुसस्या स्याद् भूमिः गगनमथ भूयाच्छिवजलम् ।
अरातिव्राते स्याद् भयमथ च विश्वस्य कुशलं
समुद्रादिभ्यः स्यादिति मनसि भावोऽस्तु दयितः ।। 109।।
न कुर्यां कुत्रापि प्रधनमहमात्मोत्थितिपरः
परां विद्यां कुर्यामथ हृदि हितां भूतिजनिताम् ।
अपि स्वच्छे धाम्नि स्पृषतु मन आत्मेश्वरमथो
स्वतन्त्रोऽपि स्यान्मे नियमपरतन्त्रस्तनुरथ ।। 110।।
अनासक्तः क्रीडां जयमजयमुज्झित्य मनसा
स्पृशेयं, नाप्यस्मिन् सततरतिरास्तां सुमहती ।
स्वधर्मस्य ग्लानिं जनयति तु सा धिक् प्रभुरपि
प्रभुत्वत्यागाय श्रयति ननु वैवश्यकटुताम् ।। 111।।
यमानां पञ्चानामपि मयि भवेत् यन्त्रणमथो
तपःस्वाध्यायाभ्यां नहि मयि भवेत् क्वापि विरतिः ।
इमे शौचाचाराः दधतु मयि नित्यायितमथो
स्मरेयं तं देवं स हि भवति सर्वप्रभुरिति ।। 112।।
पिबेयं खादेयं शुचिरसमथो स्वन्नसलिलं
वदेयं सत्यं, नो वितथमनृतासत्यवचनम् ।
छलं भूयान्नीतावपि न कुहचिल्लब्धपदकं
स्पृहा स्यान्मे सेयं प्रतिजनमुदीतिं श्रितवती ।। 113।।
सदाचारस्वच्छां स्पृषतु ननु सामर्थ्यविपुलां
समेषां जन्तूनां मनुजतनुमाश्रित्य लसताम् ।
अपि स्वातन्त्र्य चेत् परमतम.तत्त्वैकनिहितं
तदात्मन्यप्यात्मन्यपि मम लसेत् भूतिमहितम् ।। 114।।
इयं षट्साहस्री लसतु भुवने दर्पणतया
विचित्राचारं या प्रतिफलति मानुष्यकमिदम् ।
इमां दृष्ट्वा सर्वानपि विधिनिषेधान् विमृशतां
जनानामायत्यामपि पथि शिवे स्यात् स्थिररतिः ।। 115।।
।। उपसंहारः।।
झॉसीश्वरीं च मनमोहनसिंहकं च
कोटिद्वयीमनुविधाय पुरस्सरन्तीम् ।
स्वातन्त्र्यसंभवकथाऽममृतस्वरूपां
सद्भ्यः समर्प्य विरमामि सनातनोऽहम् ।। 116।।
लक्ष्मी-न्दिराद्यटल-मोहन-कीर्तिधारा
स्वातन्त्र्यसंभवकथाऽप्यथ पूर्त्तिमाप्ता ।
अस्यां चकास्ति चरितं मनुजस्य ताँस्तान्
पर्यायकानुपगतं भरतस्य भूमेः ।। 117।।
अत्राक्षरात्मकतया प्रतिभासमानाः
स्वातन्त्र्यसंभव-कथामुपसेदिवांसः ।
वीरा विमुक्तकरणा अपि कीर्त्तिमूर्त्त्या
मृत्युञ्जया अपि लसन्तुतरां प्रसन्नाः ।। 118।।
एतं सनातनकवेर्मम सर्गबन्धं
स्वातन्त्र्यसम्भवमिति प्रथिताभिधानम् ।
सन्तः पुरातन-नवीनतमान्तरैक्य-
स्वादेप्सयाऽपि यदि नाम समुल्लिखेयुः ।। 119।।
यन्मामके मनसि संतमसे नु किञ्चिज्
ज्योतिः प्रभातरलतामचिनोदकस्मात् ।
तस्याश्च तस्य च तमोमलिनस्य चेतो-
धातोश्च बिम्बमिह कोविद आजिहीर्षेत् ।। 120।।
टेस्टामेण्ट-गुरुग्रन्थ-कुराण-श्रुति-रूपिणे ।
स्वस्त्यस्तु वाङ्मयायान्तः-प्रशमायाद्वयात्मने।। 121।।
सर्वधर्ममहाग्रन्थ-तात्पर्यार्थ! नृणां भिदाम् ।
वैखरीमात्रभेदोत्थामिमां संवृणु संवृणु ।। 122।।
आभियान्त्रिक-विज्ञान-नाभिकेन्द्र! सुमानुष ।
तुभ्यं नमो नमस्तुभ्यं स्वातन्त्र्याय च ते नमः ।। 123।।
स्वातन्त्र्यं तव सौभाग्यसुधाधाराधरायताम् ।
संभवायैव सर्वेषां सर्गसंज्ञे महाक्रतौ ।। 124।।
परमाणुषु नृत्यन्तीं स्फुरत्तां स्पन्दरूपिणीम् ।
शिवाय प्रतिपाद्याऽद्य भवेम यदि निर्वृताः ।। 125।।
नुमः परमेषस्य स्वातन्त्र्याख्यां परात्पराम् ।
आत्मशक्तिं चिदद्वैत-द्वैत-क्रीडा-पटीयसीम् ।। 126।।
नुमः संभवाभिख्यां कालकाली-चमत्क्रियाम् ।
यस्यां पीठं प्रयोक्ता च प्रयोगश्च स्वयं शिवः ।। 127।।
काव्यमादर्शबिम्बं वः स्वं रूपमनुवीक्षितुम् ।
स्वस्तये तदिदं सर्वे प्रेक्षध्वं नायकोत्तमाः ।। 128।।
महत्त्वपूर्णो नितरां हि कालखण्डोऽद्य यत्रैकत आमरीका।
मनुष्यताशत्रुमवाप्य नष्टं करोति लादेनमपि प्रसह्य।। 129।।
अन्यत्र सर्वासु परिभ्रमन्तः काष्ठासु योगीन्द्रवरा विभूतीः।
स्वीयाः प्रदर्श्य प्रतिशासनस्य केन्द्रस्थितं शासनमीरयन्ति।। 130।।
अन्यत्र भव्या यतयः स्वधाम धामत्वधूभूषितमापयन्ति।
‘काञ्ची’-पुरी संप्रति भारतानां काञ्चीव विश्वोत्तरतां बिभर्त्ति।। 131।।
ये मन्त्रिणस्तेऽपि च वन्दिनोऽद्य विभूषयन्ते ननु दिव्यकाराः।
‘सर्वोच्च’-वैधानिक-निर्णयाय सन्नद्धतां किञ्च दधाति धाम।। 132।।
विभूतयोऽस्मिन् समये पुराणदेवालयेभ्यः प्रकटीभवन्ति।
या वीक्ष्य मानुष्यक एष लोको दारिद्रययोगान् पलितान् गृणाति।। 133।।
स्वातन्त्र्य-साम्राज्यदुकूलधारी देशोऽस्मदीयोऽस्त्रधनेन दार्ढ्यम्।
दधान आस्ते श्रुतिमार्गशान्तिपाठोद्यतः स्वस्त्यनाध्वनीयः।। 134।।
अत्रैव गान्धी च जवाहरश्च श्रीलोकमान्योऽप्यरविन्दकश्च।
सुभाषचन्द्रेण च दिव्यदिव्येनाविर्भवन्तः प्रतिभान्ति धाम्ना।। 135।।
या राजनीतिर्नयनाय यत्र मानुष्यकं हन्त गता प्रवृत्तिम्।
समाजधर्मस्स तपोभिरेव पाल्यः स्वतन्त्रैरपि शुद्धचित्तैः।। 136।।
भूयस्तरां विलिखितं तदिदं रहस्यं
सर्गैस्त्रिभिः प्रतिनवैः महिमानमाप्तम्।
पश्यामि तन्निखिलमेव तु दस्युवृत्तं
तस्याऽपि किञ्चिदिह संग्रहणं तनोमि।। 137।।
।। शान्तिपाठः ।।
अत्रान्तरे समुदियाय दिशां विताने
निर्वैखरीकमपि कर्णितवर्णभेदम् ।
संगीतकं किमपि यत्र सनातनीयश्लो-
कात्मनेत्थमुदगीर्यत शान्तिपाठः ।। 138।।
शान्तिः स्याद् दिवि, शन्तिरस्तु मरुतां, मार्गेऽस्तु शान्तिर्भुवि,
स्याच्छान्तिः सलिलेषु, दिक्षु च भवेच्छान्तिर्नितान्तं स्थिरा ।
शान्तिः कर्मसु, शश्वदस्तु, करणग्रामेषु शान्तिर् भवेच्-
छान्तिः स्यादमरेषु, शान्तिरसुरेष्वास्ता च शान्तिर्नृषु ।। 139।।
शान्तिर्धेनुषु, शान्तिरूधसि, पयोधारासु शान्तिर्, घटे
शान्तिः, पाणिषु शान्तिराननचये शान्तिः सवैश्वानरे ।
शान्तिर्भुक्तिषु, शान्तिरोजसि, दृशोः शान्तिः, श्रवःशश्कुलौ
शान्तिर्वाचि नु, शान्तिरात्मसदने शान्तिर्धरित्रीतले ।। 140।।
शान्तिर्भूतचये, कलापरिकरे शान्तिः सविज्ञानके,
शान्तिः शक्तिषु, शान्तिरर्थनिचये, शान्तिः क्रियाकौशले ।
शान्तिर्नौषु च नाविकेषु च पयोराशौ च शान्तिर्, दिशां
व्राते वायुषु गत्वर-स्थिर-नरेष्वास्तां च शान्तिर्मतौ ।। 141।।
शान्तिर्लता, भवति तत्र मधु प्रसूनं,
शान्तिः प्रसूनमिह किञ्च मधु स्वभोगः ।
श्लोकत्रयीमनु ततः समुदित्वराणि
पद्यान्यमून्यपि बभूवुरिमामिदानीम्।। 142।।
भूयासुर्लतिकासु मानवमहीनाडीषु यद्वन् मधु-
प्राग्भारा निबिडाः सुधाभिरभितः पर्जन्यधारात्मभिः ।
भूयासुर्न्नृकरेषु हेतिषु हतिश्वाहन्यमानेश्विवाऽऽ-
हन्तृश्वेषु मधुश्च्युतो दश दिशः स्नेहश्रियाऽलङ्कृताः।। 143।।
भूयासुः प्रतिशैलकुक्षि पयसां स्रोतांसि भूयांस्यथो
स्रोतस्स्वेषु समुल्लसन्तु मधुना पूर्णाः स्वराः पञ्चमाः ।
प्रीतिस्फीतिसपीतिभिः सुमनसां भीतिद्रुहो नीतयो
भूयासुः प्रतिराष्ट्रमेव च महाकालेश्वरस्य प्रियाः।। 144।।
माध्वीकेन युता भवन्तु मरुतां व्राताः, समालिङ्गिता
यैर्गर्भं दधतेतरां व्रततयो लोकंपृणाङ्गच्छटाः ।
माध्वीकं रजसामुरस्सु पृथिवीलोकोत्थितानामणी-
यस्स्वेषु प्रविराजतामधिकृताम्भोवह्निवाय्वात्मसु।। 145।।
अन्तश्चेतसि कामिनामपि लसेत् कामारिमूर्ध्नि स्थिता
सौभाग्यस्य परात्परस्य जननी सा कापि चान्द्री कला ।
यस्याः स्पर्शगुणेन शीतलतमेनाप्यायिताः क्षोभिणां
नेतारो भुजगा अपि प्रभुतनौ शोभां परां तन्वते।। 146।।
षट्साहस्रीतिहासोऽयं महाकाव्यतयोद्गतः।
सनातनस्य मे भूयादामोदाय सचेतसाम्।। 147।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ जनान्दोलनो नाम पञ्चसप्ततिः सर्गः।। 75।।
तत् सत्।।