षष्ठः सर्गः
कादम्बिनीं द्यौरिव कामदोग्ध्रीं रत्नावलीं नौरिव वीतमूल्याम् ।
दुग्धसु्रतिं गौरिव पुण्यपुण्यां दधार कुक्षौ कमलाऽपि कन्याम् ।। १।।
आनन्दमय्याः प्रसुवो जगत्याः परम्परायाः सदृशी बभूव ।
शिष्या यतः सा कमला, ततस्तामानन्दमय्येव परा विवेश ।। २।।
तां गौरकान्तिं वृषभानुजायाः प्रत्यक्षभूतामिव कायकान्तिम् ।
आनन्दमय्या विशदां वलक्षां शुद्धां सितां मूर्त्तिमियं स्म धत्ते ।। ३।।
शुक्तौ पयस्तोयनिधेः सितायां मुक्तात्मना हन्त यथा चकास्ति ।
तथैव तस्यां जननी जगत्या व्यराजदानन्दमयी स्वपुत्रयाम् ।। ४।।
मोचाक्षुपाणां त्वचि मध्यवृत्तौ या काऽपि लक्ष्मीः प्रविभाति भव्या ।
आनन्दमय्या यदि नाम सा वै कान्तेस्तुलायां स्मृतिमश्नुवीत ।। ५।।
चान्द्री तनुः शारदपूर्णिमानां शतानि चेत् सार्धमुदित्वराणि ।
लभेत साऽऽनन्दमयीं पराम्बां साम्येन सत्कर्त्तुमलं मनाक् स्यात् ।। ६।।
यत्सत्यमेवाश्रयतेतरां वै श्रीः कापि लोके कमलाङ्गयष्टिम् ।
नो चेत् कथं सा कमलाभिधायामानन्दमाता प्रतिबिम्बति स्म ।। ७।।
कश्मीरसौन्दर्यमहाविभूतिः प्राग्ज्यौतिषाणां ननु वङ्गनाम्नाम् ।
तपांस्यमुष्यां कमलाङ्गलक्ष्म्यामानन्दमय्याश्छलतो न्यगारीत् ।। ८।।
पाश्चात्त्यदेहात्मभिदाछिदीक्षा-वधूटिकाऽपाङ्गशितान्तरङ्गः ।
जवाहरो भारतपारदृश्वा विद्वानपीमां दृढमध्यवात्सीत् ।। ९।।
अध्यात्मवैराग्यललाटिकायां त्रिपुण्ड्रभूत्यां वसति स्म तस्मात् ।
अस्यां जगन्नीतिमयी तदानीं कस्तूरिकाश्रीरपि दोहदिन्याम् ।। १०।।
समन्वयोऽसौ त्रिपुरारिशीर्षं नेत्रत्रयं सेन्दुकलं दधानम् ।
अधुक्षदौपम्यमुदारतारस्फारश्रि किञ्चिद् यदिदं नुमस्तत् ।। ११।।
सोमं रयिं प्राणमयोऽनलो नः कश्चित् पुराणो न न संपिपर्त्ति ।
सामुद्रमम्भश्च स और्व ऊष्मा न नोऽन्तरीकृत्य जगद् बिभर्त्ति ।। १२।।
तां मुक्तरक्तः श्वशुरः स मोतीलालो मनस्वी कमलां सगर्भाम् ।
सूर्यः स्वधाम्ना कनकावदातामम्भोजिनीं यद्वदपुष्यदार्याम् ।। १३।।
स्वरूपरानी कमलाभिधायां वधूटिकायामिह वीक्ष्य सूनुम् ।
जवाहरं नूतनतां भजन्तं कां वा मुदं नास्वददार्य्यचेताः ।। १४।।
पुण्ये स्वतः पुण्यतरीकृते च त्रिवेणिकागन्धवहैः प्रयागः ।
आनन्दसंज्ञे भवने तदानीमजागरीत् कश्चिदसौ चिदात्मा ।। १५।।
अध्यात्मनिष्ठा ननु भारतीया वधूं सगर्भां परिपोपुषीति ।
निकृत्तमूलां न हि वल्लरीं सा प्रतीकयत्यात्मनि संसिसृक्षौ ।। १६।।
रसैषिणां भारतवासिनां या मृषोद्यता साऽपि विभावनैव ।
रसस्तु सत्यः स हि नाट्य ईष्टे स भुक्तये स्थेमजुषः स्वमूर्त्तेः ।। १७।।
नाट्यो ईष्ट इतिच्छेदः।
न शङ्करो नाऽपि तथागतोऽभूत् स्वयं स्वरूपे यदि चेन्मृषोद्यम् ।
मृषोद्यता तत् कवितैव वामां कलां श्रयन्ती ननु सा तदुत्था ।। १८।।
पितामही पौत्रतनुः स्नुषायां यस्यामहो दीव्यति दीर्घिकायाम् ।
तस्या हि दिव्यैः कमलैः शिवो नः संसाररूपो वृणुते स्वभूषाम् ।। १९।।
तां मातरं तं च नुवन्ति कुक्षिं सर्वेऽप्यमी नः खलु लोकपालाः ।
आनन्दनाख्यान्ननु यत्र यज्ञात् पुराणता याति नवं नवत्वम् ।। २०।।
रे दर्शनाचार्यवरा! मनीषां युष्माकमेतां लघु शोधयन्ताम् ।
सृष्टौ विसृष्टिं नु विसृष्टिगात्रे सृष्टिं न या पश्यति तर्कशुद्धाम् ।। २१।।
द्वित्वं यदैकः प्रतिपद्यते द्वावैक्यं यथा को नु तदा ग्रहो वः ।
मृषोद्यतायां मधुदर्शरात्रौ पिकाङ्गनाया इव गीतिकायाम् ।। २२।।
एते भवन्तोऽद्य जवाहरस्य सदोहदां चेन्न नमन्ति जायाम् ।
मृषोद्यतैवैति मृषोद्यतां वः प्रात्यक्षिकस्यापलपिक्रियोत्थाम् ।। २३।।
अश्वत्थ एषोऽस्ति सुरूढमूलः स सङ्गतिं याति निसर्गसिद्धाम् ।
असङ्गखड्गेऽपि बलित्वमेति सिद्धिक्षमं तस्य हि खण्ड एकः ।। २४।।
यद् दाशराज्ञं खलु जन्यमस्मिन् क्षेत्रे वरीवर्त्ति विवर्त्तमानम् ।
नियन्त्रयामः खलु जन्मशुद्ध्यै नृवंशजानां ननु तद् गृहस्थाः ।। २५।।
सारस्वतानां प्रतिभानभाजां पारम्परीणं विदुषां महो यत् ।
तन्नेहरूवंशपथेन गूढं तद्गर्भपिण्डे स्म निवेविशीति ।। २६।।
रात्रिन्दिवं तत्र निवृत्तिशुद्धं प्रवृत्तिचक्रं परिवर्त्तते स्म ।
विवेकधाम्ना प्रविभासमानं यतः स्वमेकं परिवर्द्धते स्म ।। २७।।
न गात्रमात्रं द्विजगोत्रजानां सान्तत्ययोगाय मतं पटिष्ठम् ।
संस्कारसान्तत्यमिमे महार्हं समामनन्त्यागमिकैर्विधानैः ।। २८।।
सप्तापि यां सिन्धव उद्गिरन्त्यो गीतिं व्यभाव्यन्त महाकवीन्द्रैः ।
तां भुक्तिमुक्तिद्वितयार्थगर्भां प्रयागतीर्थे कमला स्म विन्ते ।। २९।।
चतुःसमुद्रान्तविशालसीमा कुलाचलेन्द्रैर्ध्रियमाणगात्रा ।
स्रोतोभिरामाटविका च भूमिरेषा परीस्प्रष्टि मतिं तदीयाम् ।। ३०।।
नौकां वदातामथ कर्णधारैः समुह्यमानां विधुवद् वलक्षैः ।
सा काशशुद्धांशुकिनी त्रिवेण्यां स्वप्नेऽपि पत्या सह रोहति स्म ।। ३१।।
हिमादिशृङ्गादभितोऽभिवृष्टां सैषा हिमानीमपि पश्यति स्म ।
यस्यां सितां चन्द्रकलां दधानावाद्यौ स्म मातापितरौ शयाते ।। ३२।।
गाङ्गेन धौतां पयसा फणीन्द्रैः सा तां शिलामध्युषितां ददर्श ।
पर्यन्तभागेषु दिगीशचक्रं यां साञ्जलि प्रक्रमते स्म धर्त्तुम् ।। ३३।।
श्रवः-कुटीद्वन्द्वममुष्य धातुः शिल्पोत्तमस्याशृणुते स्म शश्वत् ।
विद्याधरेन्द्रैरिव गीयमानां त्रिलोकमङ्गल्यमुषःसु गीतिम् ।। ३४।।
करेण शुभ्रेण समुल्लिखन्तीं प्रियं वशां वत्सयुगेन युक्ताम् ।
कदाचिदेषा धयति स्म तल्पे सुखं शयाना निशि निद्रिताऽपि ।। ३५।।
सा द्वीपिभिः पश्यति संपरायं द्विपार्भकस्येन्दुसमान-कान्तेः ।
न चोपलेभे भयमुत्पलाक्षी स्वात्मैव तस्याः स्म विवर्त्तते यत् ।। ३६।।
वान्ति स्म वाताः किल दक्षिणेन ये वै हिमाद्रेरनुदक्षिणाब्धिम् ।
सीतां यथा दाशरथेः कपीन्द्रास्ते प्रीणयामासुरिमां नितान्तम् ।। ३७।।
सा वालुकाब्धेरुपवर्म्मदेशं त्रिविष्टपेभ्योऽप्युपकण्ठलङ्कम् ।
राष्ट्रं विशालं ननु भारताख्यं संपूर्णभावेन विपश्यति स्म ।। ३८।।
मुष्टीन् ससस्यान् परिवापयन्तः क्षेत्रेषु सीतामहितेषु दारैः ।
सोष्णीषपट्टाश्च कृषीवलास्तां भूमिं यथैव स्म समाद्रियन्ते ।। ३९।।
आशाङ्कुराणां भुवमुर्व्वरां तां वंशस्य राष्ट्रस्य च वृद्धिमाद्याम् ।
न नेहरूयुग्ममवेक्षते स्म सामान्यया केवलया स्वदृष्ट्या।। ४०।।
महार्हभावा उभयेऽपि तस्यै परात्परामादरबुद्धिमेते ।
दधुः, ससत्त्वां प्रति भारतीया अनादरं बिभ्रति न प्रकृत्या ।। ४१।।
यश्च प्रतीक्ष्यः खलु कोऽपि सत्त्वस्तां कुक्षिरत्ने श्रयति स्म गूढः ।
स वै प्रतीक्ष्येष्वखिलेषु पुंसामाद्यः, परं ब्रह्म स एव सद्भ्यः ।। ४२।।
प्रभुर्भवान् संप्रति भूतधात्रयामशेष-वैशिष्ट्या-विभूषितायाम् ।
रे मानव! बू्रहि परं जनन्या गर्भे भवान् हन्त क एष आसीत् ।। ४३।।
आसीत् तदानीञ्चितिरेषका ते चितिर्जडा वेति विभावयित्रे ।
प्रश्नः परो मे भवतेऽस्ति सेयं चितिः सखण्डास्त्यविखण्डिता वा ।। ४४।।
आद्ये चितित्वं परिहीयतेऽस्या भवन्ति भूतानि हि खण्डितानि ।
चितिर्न भूतत्वधिया विमान्या सा सर्वभूताधिपतिर्विभूतिः ।। ४५।।
अखण्डताख्यः पर एव पक्षो यदि स्थिरस्ते वद गर्भभावे ।
क एष बन्धं करपादपाशस्वरूपमस्मै भवते व्यतानीत् ।। ४६।।
स्वतन्त्रता किञ्चिदखण्डतायाः संज्ञान्तरं दार्शनिकेषु रूढम् ।
कथं स्वतन्त्रो न भवाँस्तदानीं बन्धं स्वकीयं परिहर्त्तुमासीत् ।। ४७।।
यत्सत्यमेष त्वयि कोऽपि दीव्यत्युपाधिरात्यन्तिकभेद-भिन्नः ।
जाजायतेऽसौ स हि मर्मरीति स भूतसर्गः खलु देहदेहः ।। ४८।।
उपाधिरेष क्षर एव नित्यं त्वय्यक्षरे शाश्वतिकः स एषः ।
मर्त्योऽप्यमर्त्यस्य तवैष शम्भोरनाविलः कोऽपि शशाङ्कखण्डः ।। ४९।।
ग्राहेण तेन ग्रसितस्य जातिर्मृतिश्च विच्छर्दिविधारणे ते ।
वान्तिर्जनुश्चान्तिरथात्र मृत्युः कपिर्यथा त्वं खलु नर्त्तितोऽसि ।। ५०।।
लब्ध्वा जनिं त्वं परिवर्धमानः स्थितिं पुराणीं किमु विस्मृतोऽसि ।
जन्मान्तरात् प्रागियमुद्भवित्री भूयः शरीरिंस्त्वयि गर्भसन्धौ ।। ५१।।
अथापरं पृच्छति मय्यनार्षो भूत्वा भवानुत्तरमादधातु ।
यद् वै प्रतिज्ञातमिह त्वया किं तत्प्रत्यभिज्ञानमवाशिषत् ते ।। ५२।।
बद्धोऽस्मि मुक्तिश्च मम प्रिया मामहं यथा तां न न वष्टि वश्या ।
उष्टं च जुष्टं च तथान्तरङ्गेऽध्युष्टं च पुष्टं च कथं तमस्ते ।। ५३।।
असौ जजागार तु सन्निपातस्त्रिदोषजन्मा त्वयि गर्भरात्रौ ।
ब्रूषेऽत्र किं सत्यमिदं मृषा वा, सत्यं यदि त्वां क इहाचिकित्सत् ।। ५४।।
त्वमात्मवैद्यो यदि ते किमासीद् भैषज्यरत्नं वद तत् क्व वाद्य ।
विपर्य्ययं यः किल बोबुधीति स एव तं मानव! पोपुषीति ।। ५५।।
विपर्य्यये प्राकृतिके प्रकृत्या विकुर्वते ये न चितिं पटिष्ठाः ।
ते गर्भवद् भूमिगता अपि स्युः स्वं शासितुं श्रेयसि नो विमूढाः ।। ५६।।
रे मानवात्मन्! न भवाँस्तिरश्चां सांकायिकीमृच्छति संप्रवृत्तिम् ।
त्वं देहवासांसि विमोक्तुकामो मृतिं वृणीषेऽथ सृतिं पिधित्सुः ।। ५७।।
पर्य्यायविज्ञानघनाघनानां दृग्द्रष्टृदृश्येषु मधुक्षराणाम् ।
प्रज्ञाधनानां न महाजनानां नैष्कर्म्यमार्गादपरज्यति स्वम् ।। ५८।।
चरँस्तरङ्गेषु न सर्वशुक्लो मरालसूनुश्चलतां वृणीते ।
विवेचयित्री प्रतिभा न वै तं चलत्ववात्यास्वपि यद् विरिङ्क्ते ।। ५९।।
जवाहरस्यात्मभवाय भूयः पुनर्नवत्वाभ्युदयाय यस्याः ।
कुक्षिः पटिष्ठो ददृशे जनस्तामित्थंविचारः कमलां प्रति स्वाम् ।। ६०।।
महाकवीन्द्राः कवितां कृशाङ्गीमेवंविधानां हि कुटुम्बिनीनाम् ।
सौभाग्यमाङ्गल्यमधुप्रसेकै-र्मृत्युञ्जयाङ्काध्युषितामकार्षुः ।। ६१।।
आपन्नबीजाङ्कुरणां धरित्रीं दृष्ट्वा न यश्चेतसि जर्हृषीति ।
तं भारतीया कवितापुरन्ध्रिर्न पादलक्ष्म्यापि परीस्पृशीति ।। ६२।।
कालेन कुक्षिम्भरयः कलानां वंशा न वै नः खलु तान् मृषन्ति ।
ये वीक्ष्य सर्वङ्कषसौभगाढ्यान् बलाहकान् ग्रीष्ममुपस्तुवन्ति ।। ६३।।
महो महिष्ठोऽतितरां म्रदिष्ठो महोद्धवोऽसीमवपुः प्रहर्षः ।
सामाजिकानां हृदि नान्य एकं त्यक्त्वा स्नुषास्वात्मजमात्मवन्तम् ।। ६४।।
स्वरूपरानी स्वयमेव तैस्तैरवादयत् पाणिभिरुल्लसन्ती ।
सखीषु सङ्गीतकला-पिकीषु प्रीत्यावनद्धां मुखयोः सुधोलाम् ।। ६५।।
तां तार-तार-स्वर-सन्निपात-व्याकृष्टवेणीत्रितयाधिदेवीम् ।
धोलां निशम्य श्रुतिपारदृश्वा न न स्वयम्भूर्युवकायते स्म ।। ६६।।
नारायणोरुप्रभवा सुरस्त्री प्रच्छन्नगर्भायुषमाप सत्यम् ।
वर्धापनागीतिसुखस्य तर्षं न त्वेषकाऽऽशासु शशाक मार्ष्टुम् ।। ६७।।
गार्हस्थ्ययागेन समुत्सुकेभ्यो वर्धापना-पुष्कर-वाद्य-नान्दी ।
दाम्पत्यशृङ्गाररस-प्रयोगानुत्थापयन्ती क्व नु नानुभूता ।। ६८।।
आनन्दमय्याऽध्युषिते तदाख्ये तस्मिँस्तदा मन्दिरपारिजाते ।
सर्गस्य नूत्नस्य भविष्णुताऽभूत् प्रत्युद्गता कैर्न महैर्महार्हैः ।। ६९।।
यमङ्कुरं विश्वसृजः सवित्री शक्तिः प्रयत्नैः परिवर्वृधीति ।
न केवला भूस्तमिमं रसैः स्वैर्यावत् प्रपुष्णन्ति दिशोऽपि कृत्स्नाः ।। ७०।।
इत्थं कृशाङ्गी कमला महद्भिर् विभूतियोगैः परिसंस्कृताङ्गीम् ।
कुक्षौ व्रतैर्भावितभावितेऽधान् मेना मृडानीमिव गर्भलक्ष्मीम् ।। ७१।।
तामाविवेश प्रियदर्शिनी सा कापीन्दिरा त्यक्तमुरारिवक्षाः ।
सीता नु भूमिं, द्रुपदात्मजा वा यज्ञावनिं शातयितुं तमांसि ।। ७२।।
वासन्तिकीं श्रियमुवाह निदाघकालस्
तस्यापि तां जलदकाल इहान्तराले ।
तस्मै स्वयंवरवधूरिव किञ्च रम्या
श्रीः शारदी प्रववृतेऽत्र हिमागमोत्का ।। ७३।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘गर्भमङ्गलो’ नाम षष्ठः सर्गः।। ६।।
सप्तमः सर्गः
अधिशुचिदिवसं प्रयागराजे प्रखरतरो भवति स्म तिग्मरश्मिः ।
अतिगमयति वासरानमूँस्तत् स खलु जवाहरलाल उत्पलाद्रौ ।। १।।
अयमिह गिरिरस्ति भूतधात्रयामपरदिशः श्रितकुङ्कुमं नु वक्षः ।
इह रसयति साम्ब ईश उच्चैर्निगमरसान् कवितात्मना प्ररूढान् ।। २।।
इह पशुपतिनाम्नि धाम्नि सूत्रं स्थिरयति कश्चन सोम एव शैवम् ।
दृषदि तत उदेति यत्र कश्चिन्मणिखचिताक्षर-गर्भकोऽभिलेखः ।। ३।।
पिपठिषति न किं नु तन्त्रमस्मिन् स्फटिकशिलाफलके वचोऽधिदेवी ।
रसयति कवितामयी विपञ्ची रसमिह पञ्चमरागतो न वा कम् ।। ४।।
अभिनवतितरामिहोत्पलाख्यः कविरुपगीय निजं स्वरूपमीशम् ।
उपसरति तमेव शारदाम्बा शुकशिशुमण्डितपाणिपल्लवाऽसौ ।। ५।।
मृगमद-परिवासितेन सेयं सपदि कुसुम्भरुचा पटाञ्चलेन ।
त्रिदिवकविरपाकरोति रागादधिनयनाञ्चलमुद्गतं मलं नः ।। ६।।
विशदिमनि शशाङ्ककाशकुन्दद्युतिमुषि कुत्रचनाद्भुते चितिर्नः ।
प्रलयमतितरामुपेत्य तान्तिं त्यजति भजत्यथ शान्तिमत्र नित्याम् ।। ७।।
अरुणतरमिहास्ति गोस्तनीनां शिशिररुजं विरुजत् तदच्छमम्भः ।
भजति कमलतां यदङ्कपाल्यां प्रतिफलितं चरणाम्बुजं शिवायाः ।। ८।।
करणकुलमिहाद्रिराजशीर्षे भ्रमरकुलं नु विनिद्र उत्पलाङ्के ।
भवति ननु निलीन-चापलीकं शिशुरिव मातुरुपेत्य दुग्धकूटम् ।। ९।।
शरदमुपगतामुदीक्ष्य कान्तः स खलु जवाहरलालसंज्ञकस्ताम् ।
उदगिरदतिमात्रपुष्पिताङ्गीं गिरमुदितां दयितामिमां प्रहृष्टः ।। १०।।
कवयति जनतेयमत्र गण्डे सुरवचसां प्रतिभोत्थितैर्वितानैः ।
अतितर-ललितान् पुमर्थबन्धानयि कमले! विमले क्षणं धयैतान् ।। ११।।
घटयति हरिणीं सपुष्पिताग्रामिह खलु कोऽपि कविः सनातनात्मा ।
तिलकयतितरां स्वसन्निपातैः सपदि वसन्त इमां यदक्षरेषु ।। १२।।
शरदि ककुभां व्रातः प्रातः प्रफुल्ल-कुशेशयो-
दरपरिपतन्मत्त-द्वैरेफि-वाङ्-मुखरीकृतः ।
विरुजति बलाच्चेतोधातूननङ्गवशंवदान्
वनगज इव क्षोभादिक्षून् रसैकनिरन्तरान् ।। १३।।
इह हि गगनाभोगे प्रातर्हिनस्ति गभस्तिराड्
यमपि तिमिरस्तोमं क्षौमं नु मेचकिमेचकम् ।
तममृतकरैरत्र स्तोकं सुधाविशदीकृतं
निशि निशि दृढं यूनां स्वान्ते निवेशयते शशी ।। १४।।
अधिधरणि यो द्राघीयस्या दिवस्पतिहासितो
रचयति मधूत्क्षिप्त्या पत्रावलीं कमलोत्करः ।
स इह सुधयाऽतन्द्रे चन्द्रे प्रचुम्बति वासवीं
कलयतितरां तारां हारावलीं नु निमीलितः ।। १५।।
स्तनपरिसरान्मुक्ता मुक्तावलीरचनाऽधुना
श्रितकमलिनीपत्रा न त्रायते न रुचं पराम् ।
न खलु गुणिनां श्यालः कालः स्वसुर्गुणसन्तते-
रलिकफलकं शून्यं द्रष्टुं प्रवेकति कर्हिचित् ।। १६।।
धृतपदमपि श्रान्त्या गन्तुं न शीघ्रतरं क्षमं
कुमुददयितं दूरात् सूरादुपागतमेषका ।
त्वरयतितरां प्राची हैयङ्गवीनमदम्लुचं
पथि महति किं शुभ्रां ज्योत्स्नापटीं प्रवितन्वती ।। १७।।
स्फुटकुमुदिनी राका नाकाधिपस्य पदेऽधुना
निजपतिमसौ ज्योत्स्नास्वच्छांशुकाऽभिषिषिक्षति ।
व्रजति कृतितां चैषा मुक्तामयान्नु घटव्रजात्
तुहिननिकरं ज्योतिर्जालात् ततः प्रविकीर्य किम् ।। १८।।
धवलधवलैः पुष्पैः सोष्णीषका इव पद्मिनी-
मभिनववधूं वोढुं सन्नद्धपल्लव-सौभगाम् ।
मुदितमनसः काशा आशासु नाशु न बिभ्रति
स्मरहरवपुर्लीलां चन्द्रांशुकैर्विशदीकृताम् ।। १९।।
विसृजति नभोगर्भात् पीयूषमत्रिसुतेऽधुना
चुलुककलनां चक्षुर्धत्तेतरां स्वगृहौकसाम् ।
अहह भजते किन्तु क्षुद्राभिलीढमिव द्रुतं
कृपणमनसामध्वन्यानां निमीलनचातुरीम् ।। २०।।
गेहे सुधा सरसि कैरवहासलक्ष्मीर्
व्योम्नि प्रभा शशभृतो विपिने च काशम् ।
प्रालेयवर्षिणि शरत्समयेऽधुनेदं
विश्वं सितिम्नि किमु सत्त्वगुणे हि मग्नम् ।। २१।।
क्षीराणि वर्षति नु रात्रिकुटुम्बिनीयं
प्रोन्मुद्रय कैरवशिशोः परिशुष्कमास्यम् ।
एतन्निशाम्य बत मङ्गलरत्नमेताः
काष्ठा दशापि नितरां विशदा भवन्ति ।। २२।।
संप्रोञ्छति श्रमभृतां व्यथकानि घर्म्म-
विप्रूंषि भालफलकाच्छिशिरो मरुत्वान् ।
यो वै सदागतिरसौ क्व नु तानि हित्वा
तृष्णां निजां शमयितुं क्रमतां तरस्वी ।। २३।।
स्निग्धे कपोलफलके नलिनी सरोज-
किञ्जल्करूपिणि दिवा खलु निर्ममे याम् ।
माध्वीक-रेणुभिरिमे मधुपायिनस्तां
पत्रावलीं कुमुदिनीष्वधुनोत्किरन्ति ।। २४।।
आकाशगह्नर इहोज्ज्वलनिर्म्मलात्मा
वर्षत्यहो शशिरुचां निशि सन्निपातः ।
यस्मिन् निमज्ज्य जलदावलिमेदुरोपि
दारिद्रयमेव भजते तिमिरावलेपः ।। २५।।
अङ्कः शशेन जनितो यदि वा मृगेणे-
त्यालोचयन्ति सुदृशो न विधाविदानीम् ।
कान्तिप्रकर्ष-परिमीलित-चेतनास्ताः
शैत्याम्बुधौ तु खलु तस्य समाप्लवन्ते ।। २६।।
नभसि विट इवोज्ज्वलैः परीते चिकुरभरैर्विशरारुभिः पयोदैः ।
विलिखति विधये शरद् द्विरेफैः कमलदलं ‘पदमात्मनस्त्यजे’-ति ।। २७।।
अपगत-परमाणु-रेणु-कोषैरियमधुना कुसुमैः शरीरशेषैः ।
अपि सुमनसि कौतुकं सदण्डा जरठवधूरिव केतकी शृणाति ।। २८।।
अपि कुटजरसेन पूरयन्तो जठरदरीं क्षपयन्ति ये स्म वर्षाः ।
शरदि मधुलिहस्त एव माध्वीं कमलवनीष्वधुना धयन्ति धीरम् ।। २९।।
अभिमतमपि लम्भितेन गर्व्वान्न खलु जनेन मदोन्मदेन भाव्यम् ।
इति वदति नु दीन एष बर्ही शरदि विशीर्ण-विचित्र-पत्र-बर्हः ।। ३०।।
न खलु न खलु दुर्दिनेऽपि धैर्य्यं मतिमहितैः प्रविहाय वर्त्तितव्यम् ।
धृतिमति तु जनेऽभिसारमार्य्याऽऽश्रयति घटी शरदीव राजहंसे ।। ३१।।
भगवति शयिते चिरस्य लक्ष्मीरियमतिमात्रसमुत्सुका विरावान् ।
जनयति शरदीह सारसानां सितगरुताञ्च विबोधनाय तस्य ।। ३२।।
वहति मरुति हंसपक्षपुष्टे दिशि दिशि संप्रति शालयः करालाः ।
परिमलभरपूरणे प्रथिम्ना गगनतलं पृथु रेचयन्ति दूरम् ।। ३३।।
परिमलबहलैः परागपूरैः क्षितिजपटेष्वधुना पिशङ्गितेषु ।
अहह क इव कारुरन्तरङ्गं विरहिजनस्य लिलेखिषत्यनङ्गः ।। ३४।।
अहह क इव भक्तिमानिदानीं क्षितिधररूपिणि शाम्भवेऽत्र बाणे ।
रचयति जलदावलीं वलक्षं पितृवनभस्म नवं नवं सुगन्धि ।। ३५।।
स्वपिति कुरुपितामहोऽद्य वर्षात्ययतनुरत्र समर्पिताङ्ग एषु ।
विकचसितिममग्नकाशपुष्पोत्कर-शरतल्पतले शिखण्डिभिन्नः ।। ३६।।
रचयति मन एष कोऽपि दृष्ट्वा शरदमिमां सुषमातिरेकरम्याम् ।
रणरणककषायितं स्वरासे स्मरवशगः परमेश्वरोऽपि भूयः ।। ३७।।
चणककणगणेङ्कुरायमाणे क्षितिहृदयं प्रविभिद्य राष्ट्रलक्ष्मीः ।
अचकमत वरं वरेण्यरूपं कमपि महोदयमात्मनीनमार्य्यम् ।। ३८।।
असितरुचि वसुन्धराशरीरे विकचति पिङ्गरुचौ गणेऽङ्कुराणाम् ।
अधिदिवसमपीह कापि दीपावलिसुषमा समुदेति कार्त्तिकेषु ।। ३९।।
अपगतकटुकर्द्दमाभिषङ्गे प्रतिनव-नड्वल-शाद्वले चरिष्णु ।
सुरभिकुलमिहोधसां वितानान्यधिमधु मुग्ध-पयोभराणि धत्ते ।। ४०।।
स्थविरमरकतद्युतीनि शष्पैरपगतशैशवयौवनोदयैर् भूः ।
शरदि वितनुते वनानि कस्मै बहुविधविस्तृतवर्णकम्बलानि ।। ४१।।
प्रणयपरवशं महीपुरन्ध्री शरदि दधाति मनोऽद्य नूनमेषा ।
भवति तरुषु वल्लरीषु शष्पेष्वपि हि निकाममियं विनिद्ररोमा ।। ४२।।
इह निगमकृतान्तकृत्ति-कृत्तिवसन उदाकुरुते स्मरं वराकम् ।
इयमिह च शरत् सहंसगीतिस्तमिममहो बत नर्त्तयत्युमेव ।। ४३।।
जयति शरदि माता संपरायेऽत्र मुग्धे
जयति न च न तातः सौगतध्वान्तशातः ।
परमयति जिगीषां हन्त को वा रिरंसुः
स्थिरयति मधुमेघो यत्र सौभाग्यवर्षाः ।। ४४।।
वरतनु! बत मालिनीमुपेतो रहयति संप्रति पुष्पितां कवीन्द्रः ।
तरलितहृदयाः परिष्वजन्ते विषमशिलीमुखपीडितां न कां के ।। ४५।।
प्रणिपतति सुदर्शनाय पृथ्वीमयि विकचाय वरोत्तमाय सोऽयम् ।
सदृशघटनयैव सन्निपातज्वर उपशाम्यति पञ्चसायकस्य ।। ४६।।
शृणु मृगनयने! मृगार्भकत्वं श्रयति कविः प्रतिभाम्बिकोपजीवी ।
वियति बहुतरं विकल्परूपे भुवि च यथार्थतनौ लघु प्रयाति ।। ४७।।
इति वदति सुदर्शनेऽभिरूपा प्रणयिनि सा कमला जवाहरेऽभूत् ।
कविवचसि निरर्गलप्रथिम्नि प्रसितचितिः कलयाम्बभूव चेत्थम्।। ४८।।
अये विषमसायक! क्व नु भवाँस्तदा भ्रान्तवान्
यदा बत सुदर्शने विधिरभूत् समाप्तक्रियः ।
भवान् भ्रमरवल्लभः, स बत षट्पदः, षट्शरो
भवेदपि भवाँस्तदा तदनु षण्मुखेऽपि क्षमी ।। ४९।।
पयोद! तव मण्डली नियतमेव सर्वङ्कषा
निपीय यदियं सुधामवनिगर्भगां मन्थरा ।
विकस्वर-सुदर्शनोच्छलित-सौरभाप्यायिता
यियासति दिवं परं न तु जिहासति क्ष्मामिमाम् ।। ५०।।
मयूर! तव दृक्तटी न खलु निस्सपत्नाऽधुना
सुधाधवलदर्शने सति सुदर्शने स्फारिणि ।
अवेहि यदियं तनौ लसति तस्य गाढारुणा
कुसुम्भरुचिरा रुचिः क्व वद तां प्रभिक्षिष्यसे ।। ५१।।
विमर्द्दयति विस्तृतैर्मसृणमांसलैः पल्लवैः
सुदर्शनचये करैरिव दिगङ्गनोरःस्थलम् ।
इयं कमलवासिनी मुररिपुप्रिया वामतः
क्षणं श्रयति दक्षिणं क्षणमथ प्रतीपायते ।। ५२।।
सुदर्शनकरो जगज्जयति येन चक्रेण त-
न्न वै घटितमन्यथा किमपि लौहसारादिना ।
समर्पितमिदं धु्रवं बत सुदर्शनेनात्मनः
सुमेषुजनितुः करे कुसुममेव चक्राकृति ।। ५३।।
सुदर्शन! सुदर्शनं त्वमसि, सत्यमस्ति प्रभोः
कृपा परतमा त्वयि प्रकृतिकामिनीवल्लभे ।
तवैव मुकुलव्रजो भवति नासिकाचक्षुषोः
समं समभितर्प्पणः प्रतिदिनञ्च वासः श्रियाः ।। ५४।।
गतं यदि सरोरुहं वदनतुल्यतां सुभ्रुवां
ततः किमु, न तावकं स्पृशति साम्यलेशं तु तत् ।
प्रिय-प्रथमसङ्गमे यदिह काचिदानम्रिता-
ऽऽननासु रतिलज्जना नटति तां तु ते कुड्मलः ।। ५५।।
सुदर्शन! ननु प्रियं त्वमसि दिग्वधूट्या इमान्
समादिशति सैव ते प्रणयवाग्ग्मिनः षट्पदान् ।
इमेऽपि बत ते तनौ निरतिशीतिलज्जालुता-
मवेक्ष्य सुकुमारतामधु लिहन्ति दूरे स्थिताः ।। ५६।।
अहो पवन! वर्त्तसे त्वमतिमात्रधन्योऽधुना
नभोजलदसीकरस्नपितशीतले यत् त्वयि ।
सुदर्शनमिदं शनैः समधिवासयत्यात्मन-
श्चराचरचमत्कृतौ प्रकृतिमेदुरं सौरभम् ।। ५७।।
शुकच्छदरुचां मलिम्लुचि सुदर्शने पल्लवैः
समाश्रयति यौवनं रतिपतिः शुचा म्लायते ।
अलप्स्यत सुदर्शनं यदि पुरा पुरारिर्न मा-
मधक्ष्यदहहा तदा तदवलोकमात्र-क्षतः ।। ५८।।
सरोरुहसहस्रकैः शिवसमर्च्चनेऽभ्युद्यतो
मुधैव नयनं निजं समुदपाटयत् केशवः ।
अभूत् कमलपूरणे यदि सुदर्शनं न क्षमं
कथं नु हरये शिवो बत सुदर्शनं दत्तवान् ।। ५९।।
सरोरुहमलं जलं समभिकाङ्क्षति त्वं पुन-
र्मरुस्थलमपि श्रयद् बत सुदर्शनाऽऽदीप्यसे ।
स एष महिमा स्त्रियाः कमलनाभपाणिस्थितात्
त्वदेष कमलाश्रये यदिह कीर्त्तिपूरोऽधिकः ।। ६०।।
अहो सुमुखि! पद्मिनि! त्वमसि हेमपद्मानना
तथापि तपसि स्थिराऽऽयतिरियं कुमार्य्यास्तव ।
सनातनकवेरयि प्रणयमेतमूरीक्रिया
वृणीष्व नु सुदर्शनं पुरुषकारभव्यं रुचा ।। ६१।।
इयं बिसलता तव स्थिरदृढेऽस्य दीर्घोत्तमे
परिष्वजनमाप्नुयादनुपमं तु दण्डेऽब्जिनि! ।
छदास्तव सुविस्तराश्छदवरैरमुष्योन्नतै-
रयि द्रढिमबन्धुरं कमपि बन्धमाबिभ्रतु ।। ६२।।
असौ नयनतर्पणः सुमुखि! दर्पणस्त्वद्रुचा-
ममुष्य च वराङ्गि ते तनुलतैव शुल्कः क्षमः ।
वृणीष्व नु सुदर्शने! शुभिकयाऽनया भूषितं
सुदर्शनमिमं वरं कलितयाऽस्य पुष्पोत्तमैः ।। ६३।।
मृषोद्यति वचः ‘स्मरे भजति कर्णितां केतकं
हहे’ति दमयन्तिकाप्रणयिनः प्रलापस्तु सः ।
यथार्थतितरामिदं त्वयि सुदर्शने, वक्रिमा
समाप्तसकलक्रियः क्व खलु लप्स्यतेऽन्यत्र ते ।। ६४।।
प्रिये! भवसि साम्प्रतं दृशि सुदर्शना मादृशां
त्वमेव, ननु पद्मिनी त्वमसि हेमपद्मानना ।
सनातनकवेरिमं ध्वनिमुदारतारस्फुरत्-
प्रकामरसपिच्छलं कलयसे किमार्य्येऽथवा ।। ६५।।
कृतं बत गिराऽभिधां स्पृशति नीरसानां रसः
सुमानुषजनो रसं रसयते परं संविदा ।
समाधिनि ममान्तरे त्वमधिदैवतं केवलं
सनातन-पथं जवाहर इतीरयित्वाऽभजत् ।। ६६।।
वदेद् विवदिषा चितौ स्फुरति चेद् विलासे स्वगे
न किं कवितया चिरं चतुरया चितिर्जीवताम् ।
अये परमपूरुषा जहित बुद्धिविद्रावण-
स्फुटोल्बणतरक्रमे रहसि सर्गबन्धे घृणाम् ।। ६७।।
इदं न खलु कृत्त्रिमं किमपि काव्यमस्मिन् हहा
महाचितिरपि स्वयं नटति चित्तविद्रावणाम् ।
इह क्षण उदित्वरो भवति वासरेऽपि स्फुटो
विहस्य विधुरर्चिषां शतशतैः करालः कटुः ।। ६८।।
प्रिये! विपदि मज्जनां भजति वर्त्त्म नाकौकसां
गुहा च पृथिवीतले परिविसर्पतां भोगिनाम् ।
महाप्रलयमारुतः सरति तीव्रवेगोऽधुना
क्षणे विषमदुर्भगे सुभगतैव ते मद्धनम् ।। ६९।।
इति विरचितवाचः कामिनो मिष्टशिष्टं
मधु निजतनुनिष्ठं व्यश्नुवाना अहार्षुः ।
निखिलमपि करालं कालसर्पाऽपसर्ग-
प्रगुणितगरलौघं हन्त संघर्षकालम् ।। ७०।।
अहो सुगतमार्गगा भवति वः कृते नो रवि-
र्न चापि शरदागमाहितरुचिः सुधांशूत्तमः ।
गुणाय न भिदा तयोर्मत इदंद्वये नास्त्यथ
प्रकाशतिमिरद्वयीगतमथान्तरं किञ्चन ।। ७१।।
रस एव समाधिरस्ति लोके द्वयताया इह केवलत्वयोगे ।
ननु सुन्दरतापि साक्षिभास्या परिसर्पं विदधाति तत्र देशे ।। ७२।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘दोहदपूरणो’ नाम सप्तमः सर्गः।। ७।।
अष्टमः सर्गः
स हि पश्यति सस्यमेचकाङ्गीं भरतानामवनिं स्म भक्तियुक्तः ।
स्मरति स्म च ‘भारतेषु राष्ट्री वसति ग्रामटिकास्वि’-ति प्रसिद्धम् ।। १।।
‘भारतमाता ग्रामवासिनी’-तिवाक्यम्।
स सनातनचेतनाधिरूढां कवितां ग्रामटिकाभिधां सजायः ।
जपति स्म, समोऽपि काव्यबन्धः श्रुतिवत् स्फोटतनुः सनातनश्च ।। २।।
अल्पो ग्रामो ग्रामटिका।
शुचिता शिखरेषु येष्वरुक्षत् सुरशैलस्य मनुष्यविग्रहस्य ।
प्रथमं खलु तेषु मर्त्त्यभूमौ नतरां ग्रामटिकां विहाय किञ्चित् ।। ३।।
इत आरभ्य आन्तं ग्रामटिकानाम प्रबन्धः।
इह नास्ति नरे न वापि नार्य्यां नरनारीत्व-कषायितो द्विपादः।
स हि कश्चन पुष्पकाभिधानः शिवधाम्ने चलितो विमानराजः ।। ४।।
इह नृत्यति पीतिका-वधूटी हरितां पत्रपटीं तनौ दधाना ।
अनु यत्कुसुमावलीं पिशङ्गीं रतिकामौ बलिमात्मनो ददाते ।। ५।।
पीतिका तोरयी, ‘महाजाली स पीतक’ इत्यमरः।
फलितामतिमात्रपीवराङ्गीमिह काञ्चिन्ननु तुम्बिकां निशाम्य ।
निभृतं प्रजुगुप्सते स्वकीयां न विपञ्चीं न निजाञ्चलं च वाणी ।। ६।।
अञ्चलम् आँचरनाम्ना बुन्देलखण्डेषु प्रतीतः स्तनः।
अयमत्र विशालताशरीरे प्रथिमानं परमं निधाय तुष्यन् ।
परिमूर्च्छति नीलपीतकान्तिर्ननु कूष्माण्ड-लता-फलाधिराजः ।। ७।।
इह चिर्भटिका चिरत्नचित्तेऽप्यभिनूत्नत्वमुदित्वरं विधातुम् ।
कपिशामनु पीतपुष्पराशिं श्रियमुच्चै रुचिरां दलैर्बिभर्त्ति ।। ८।।
चिर्भटिका खीरा।
इदमत्र च कारवेल्लकानामुपकेदारमतीव चित्तकर्षि ।
फलबन्धि च किञ्चिदत्युदारं न वितानं च बिभर्त्ति बभ्रिमाणम् ।। ९।।
बभ्रिमा बभ्रुता।
शतधा विततप्रसूनवृत्तामभितो वीक्ष्य च दर्विकां सपत्राम् ।
इह मुञ्चति कः शुचं स्वकीयां कृषिकर्म्माध्यवसायजां न गेही ।। १०।।
दर्विका गोभी।
अयि भूमिफलि! त्वदीयमेतत् कुसुमं वीक्ष्य हरिद्दलावृताङ्गम् ।
निकषोपलघर्षितां स्मरामो ननु हेम्नो ललितां न नैव लक्ष्मीम् ।। ११।।
भूमिफली मूमफली।
प्रचलाकि-गलद्युतीनि जम्बू-फलपाकोत्क्रमणे निरर्गलानि ।
इह बिभ्रति कान्तिमुन्मदिष्णुं न न वृन्ताकफलानि पुष्टिभाञ्जि ।। १२।।
प्रचलाकी मयूरः, वृन्ताकफलं बैंगन।
जलनिर्गमगर्त्ततीरशीर्षेष्वगणेयां बत हेमदुग्धिकां नः ।
अपि कण्टकिनीं निपीय दृष्टिर्नितरां पीतरुचं क्व वा प्रयातु ।। १३।।
हेमदुग्धिका स्वर्णक्षीरी कँटाई।
अमृतां पिचुमन्दगात्रसङ्गा-दतिमात्रं परिवर्धमानकायाम् ।
न न पश्यतु नाकिनां निकायोऽऽप्यपमायो ललिताङ्गना-सहायः ।। १४।।
अमृता गुडूची, पिचुमन्दो निम्बः।
इह बर्बुरकण्टका नितान्तं निशिताग्राः सितपुष्टगात्रशेषाः ।
वृतिकर्म्मणि योजिता रमन्ते प्रचिताभिः सह कण्टकारिकाभिः ।। १५।।
बर्वुरो बबूलवृक्षः।
इह गोक्षुरकः पचम्पचाभिः शतमूलीभिरथाटरूषगुल्मः ।
परिरम्भणयोगमाप्य धन्वन्तरिमप्यातनुतो ज्वरेण मुक्तम् ।। १६।।
पचम्पचा दारुहरिद्रा, शतमूली शतावरी।
उरणाक्षमहावनावृताङ्गीमिह यः पश्यति वै महीपुरन्ध्रीम् ।
अपि मारकतीं श्रियं श्रयन्तीमसकौ विस्मरतीव पौरकान्तिम् ।। १७।।
उरणाक्षः प्वॉर इति प्रतीतः क्षुपः।
उरुबूककपीतनान्तराले प्रसृता हैमवतीयमत्र कं वा ।
न वृणोति न मालकं नितान्तमुपसन्ने कटुताऽपि यत् पृणीते ।। १८।।
उरुबूकः एरण्डः, कपीतनः शिरीषः, हैमवती गुडूची।
शतपुष्पिकयाथ शङ्खपुष्प्या परितश्छादितमेतदत्र खण्डम् ।
तरुराजिषु मादयत्यसून् नः परभागातिशयैरभिस्तृतासु ।। १९।।
शतपुष्पी सौंफ, शङ्खपुष्पी तन्नामा क्षुपः।
क्षुमया प्रथिते नवीनमेघा-वलिराशौ ननु विद्युतां वितानम् ।
इह सर्षपपुष्पपुष्कलश्री-कनकासारशतैः क्व वा न दृश्यम् ।। २०।।
क्षुमा अतसी।
चणकेन यवेन चाप्लुताङ्गी-मथ गोधूमक-माष-मुद्गकैश्च ।
धरिणीं हरिणीं क्व नो भुनक्ति सरसां जानपदो जनोऽत्र माघे ।। २१।।
गोधूमः गेहूँ, हरिणीं नीलवर्णाम्।
शुकतुण्डविलिख्यमानकोशामिह बार्जार-कुले विभाव्य शिम्बीम् ।
अनृणोऽप्यधमर्णतां प्रसह्य प्रतिपत्तुं हृदि जायते सचेष्टः ।। २२।।
बार्जारं बाजरा, कुलपदेन ज्वार-मक्कादिकम्।
घनसार-मृणाल-सिन्दुवार-विधु-नीहार-समुद्गकेषु या श्रीः ।
अवदातरुचिश्चिता चिरत्नान्ननु कालात् प्रचकास्ति साऽत्र काशे ।। २३।।
बदरीफल-शृङ्गवेर-चिञ्चा-नवधान्याक-दलानि यत्र गन्धैः ।
मिलितान्यधिपेषणि द्वितीयं प्रहरं नाकयितुं क्व न क्रमन्ते ।। २४।।
शृङ्गवेरमार्द्रकम्, धान्याकं कुस्तुम्बुरु, नाकपदमत्र नाकप्रहरपरम्।
पृथुकेन गुडेन पिच्छलेन ननु दध्ना मरिचाञ्चितेन कान्तान् ।
पृथुकानिव या धिनोति धन्यानुषसि ग्रामटिकामिमां नमामः ।। २५।।
पृथुकं चिपिटिकम्, पृथुका बालाः।
धन्यानिति विभक्तिविपरिणामेन धन्यामित्यपि।
कृषिकर्म्मणि नित्य-योग-युक्तोऽर्जुनबाणान्नु पितामहो ललाटे ।
असकौ सहते युवा खरांशोः प्रखरानत्र करान् निदाघकाले ।। २६।।
इह भोग्यगुणेन या समृद्धिः प्रतिवस्तु प्रविभाव्यते प्रकीर्णा ।
अपि भोक्तृषु सा प्ररूढिमाप्ता परितो हन्त निशाम्यते दृढेषु ।। २७।।
कियता द्रविणोत्करेण पौरैस्तदुपार्ज्येत सहिष्णु शर्म यद् वै ।
गृहसीमनि धर्म्मवारिबिन्दून् किरता जानपदेन भुज्यतेऽद्धा ।। २८।।
इह या सरसी रसोऽदसीयः सरसत्वं न जहाति वै कदापि ।
प्रतिवासरमेव यत्र सीताः शतशः स्नान्त्यविनाकृताः प्रियेभ्यः ।। २९।।
सीतापदेनाऽत्र तत्सदृशशीला बाला ग्राह्याः।
य इहास्ति तनूनपात् तनीयानपि सोऽयं पृषदश्वमूर्च्छितार्च्चिः ।
निखिला अपि रावणस्य लङ्का विशरारुः स्वयमेव तारमत्ति ।। ३०।।
पृषदश्वा वायुः। लङ्का वायुपुत्रेण दग्धा।
हरितेन हि गोमयेन लिप्तेऽङ्गनके गैरिक-हेम-कासवर्णम् ।
प्रचकास्ति च मण्डलं यदेतन्ननु तत् सौभगमेव तद्विधात्रयाः ।। ३१।।
इयमत्र करीषपिण्डकाना-मुदरं स्त्याययते चपेटिकाभिः ।
नवकञ्चुकखिन्नबाहुमूला सुभगा कापि नवा खले प्रभाते ।। ३२।।
उषसि स्वनितां निशाम्य पात्रीं सुभगाभिः परिमथ्यमानगर्भाम् ।
नवनीतमिव स्मरेण दिग्धं हृदिह प्रोच्छलनां दधाति यूनाम् ।। ३३।।
मणिबन्धयुगे क्वणेन मुग्धामधिमध्यं रसनां नु चूलिकां याः ।
धृतचित्रपटाः श्रयन्ति तासां भरतः स्वं विनिनीषतीह वेषे ।। ३४।।
अनधीतमपि स्वरं रसाढ्यौः प्रथयन्तीमिह सप्तकैः प्रकृत्या ।
अहहा क इवाभिरूप उच्चै रसितुं न स्पृहयेत निर्व्यलीकम् ।। ३५।।
इह दर्दरिकाभिघातजाभिः श्रुतिभिर्यः खलु मूर्च्छ्याते स्वरौघः ।
क्षितिजादपि तं निपीय धावत्यनुसर्त्तुं ननु ताण्डवी मयूरः ।। ३६।।
दर्दरो वाद्यविशेषः।
पटिकाभिरभिस्तृताभिरास्ये वनिता ग्रामटिकास्वमूर्निदाघे ।
कलशीत्रितयाञ्चितोत्तमाङ्ग्यः सलिलान्यावसथं नयन्ति कूपात् ।। ३७।।
आवसथं गृहम्।
घटमेष कुलालवृद्ध उच्चैश्चलिते वर्त्तुलके निधाय चक्रे ।
घटयत्यथ हस्तलाघवेऽस्य श्रयते व्रीडमपि त्रिलोकवेधाः ।। ३८।।
व्रीडं व्रीडा, रघुवंशे ११.१२ पद्यम्।
इह गोमहिषीकुलं तृणानि तटभूमौ सरितां चरच्चकास्ति ।
तनुभागिव शुद्धिमुग्धमुच्चैर्हृदयस्यार्ज्जवमेव गेहभाजाम् ।। ३९।।
चरद् भक्षयत्, लौकिकः प्रयोगः।
शुचिना परितो रजस्वलानि नभसा किञ्च सकर्द्दमानि येषाम् ।
अयनानि शरत् सुमङ्गलानि तनुते तानि पदानि वै पदानि ।। ४०।।
शुचिः ग्रीष्मः, नभाः श्रावणः।
कलविङ्ककुलस्य पार्श्ववर्ती समुदायो ननु यः पतङ्गिकानाम् ।
तमसौ निभृतं जिघृक्षते काकरटानां समजोऽत्र रोरुवाणः ।। ४१।।
पतङ्गिकाः क्षुद्राः सरघाः, कुत्सिताः करटाः का-करटाः।
शुक एष शुनीसुतेषु रुष्टो वृषदंशस्य कुटुम्बिनीं निशाम्य ।
इह रारटनामतीव धार्ष्ट्यात् पटुसान्तत्यगुणां परिस्तृणाति ।। ४२।।
वृषदंशो विडालः।
सुलभा इह सन्ति सूर्य्यपादाः शशिपादा अपि सन्ति तादृशो हि ।
भगवान् वसुमूर्त्तिरत्र सर्वा अपि मूर्त्तीः सुलभाः करोति पुंभ्यः ।। ४३।।
वसुमूर्त्तिः अष्टमूर्त्तिः।
इह पुण्ड्रकशर्कराविमिश्रैर्नवनीतैः करपट्टिकाः शिशूनाम् ।
चिति चेतसि विग्रहे च काञ्चित् प्रथयन्त्यः प्रविभान्ति राष्ट्रलक्ष्मीम् ।। ४४।।
करपट्टिका रोटी।
शकटीमधितस्थुषीं नवोढां नववोढाऽत्र वहन्नुपात्तरंहाः ।
न गृहं प्रति याति नान्यतश्च वृषभावेव तु हन्ति चर्म्मयष्ट्या ।। ४५।।
४५, ४७ चर्म्मयष्टिः चामटी-पदवाच्या।
अपि कज्जलमस्य चित्तकोषे प्रणयिन्या ननु रागमेव सूते ।
विमला अपि किञ्च चित्रताभिः स्नपयन्त्यस्य मतिं तदंशुकान्ताः ।। ४६।।
वृषभावपि तस्य चर्म्मयष्ट्याः स्फुरणां वालधिवर्त्तनैः सहेते ।
अपि नासिकयोर्न रज्जुमेतौ मदयन्तीं मदिनौ प्रमाणयेते ।। ४७।।
गगनादनयो रतिस्मराभ्यां सह देवैरखिलैरिहोत्तमाङ्गे ।
क्रियते सुरकाननस्य सर्वैरपि कल्पद्रुसुमै रसाभिषेकः ।। ४८।।
इह रज्यति कालचक्रमुच्चैः क्रममाणं सदपि क्षणार्धशान्तम् ।
यदि वाऽतितरां त्वरामवाप्य प्रजहात्येव तु संविदं स्वकीयाम् ।। ४९।।
भगवान् स पतञ्जलिः समाधीन् विविधानेकपदे बलीचिकीर्षुः ।
इह रज्यति वीतरागचेता अपि धैर्य्याय तिलाञ्जलीन् प्रदित्सुः ।। ५०।।
‘बलि जाऊँ’ इति लोकोक्तिरत्रानुसन्धेया। राजशेखरोऽत्र प्रमाणम्।
चतुरानन-चित्ततोषसिन्धावनयो रागविधुर्हि वृद्धिहेतुः ।
सृति-संसृति-सृष्टि-सर्ग-शब्दा-वलिरत्रैव च दृश्यतेऽञ्चितार्था ।। ५१।।
इयती ननु वेधसोऽत्र सृष्टाविह सिद्धिः पुरुषस्य यत् कथञ्चित् ।
हृदयस्य लयो लये स्फुरत्ता स्फुरणायां च सनातनी स्वसृष्टिः ।। ५२।।
रतयः स्मरदत्तकञ्चुकास्तामभिनीराजयितुं स्थितिं क्रमन्ते ।
गिरयोऽप्यमुयैव हृष्टचित्ता द्रुतिमासाद्य भजन्ति निर्झरत्वम् ।। ५३।।
अमुयैव च मातरिश्वनामाऽञ्जनया सार्धमुपद्रुतः प्रवासी ।
गृहमेति न सन्ततं विहायःकुहरं पावयते प्रकम्पमानः ।। ५४।।
इयमादिगवी महाकवीनां प्रतिभावत्सतरी यदीयमूधः ।
परिपीय वृषस्यतां वृषाणां परितृप्त्यै परिकल्पते सुशृङ्गा ।। ५५।।
प्रखराणि रजांस्यमूं निदाघे परिदीप्तिं गमयन्ति, शारदीया ।
अपि पङ्कजिनीवनी वृणीतामुपमातुं स्वरुचा न्विमां तपांसि ।। ५६।।
कृशरे गृहमेधिताऽभिधाने द्विदलं यत् तदिदं हि सौभगं द्यौः ।
प्रतिपत्तुमिदं हि नाकलोकाद् भरतानामवनिं हृदा गृणीते ।। ५७।।
इह गृष्टिमिमां सशुण्ठिसर्पिर्गुडपिप्पल्युपसेचनैः प्रसूताम् ।
वरिवस्यति कापि घर्मवारिप्लुतदेहा स्थविरा रसात् पुरन्ध्रिः ।। ५८।।
सुभगङ्करणाभिधं यदेकं व्रतमस्ति प्रथितं ससौभगेषु ।
तदिदं दृशि कस्य वेह धत्ते न पदं ग्रामटिकासु संभृतासु ।। ५९।।
अपि सङ्गमनीयशब्दवाच्यं ननु रत्नं शिवयाऽस्ति यत् प्रसूतम् ।
इह तत् प्रतिपूरुषं प्रतीमः प्रतिपन्नात्मसमुच्छ्रय-प्रकाशम् ।। ६०।।
श्रम एव महौषधं यदीयं जठराग्नौ युवकत्वमादुहानः ।
कलशी जलसंभृता सशाकपृथुकाऽप्यस्य कृते धनं महार्हम् ।। ६१।।
शिशिरैः परुषीकृतानि यानि शुचिभिः स्विन्नतया मृदूक्रियन्ते ।
प्रतपन्ति तपांसि तानि तानि प्रणुमो ग्रामटिकाङ्गकान्यमूनि ।। ६२।।
इह यानि सरांसि तेषु कोषाः कमलानां विविधत्वमाश्रिता यत् ।
ननु तन्त्रति तत्र सौभगश्रीप्रतिमल्लत्वमुदित्वरं जनेभ्यः ।। ६३।।
जनेभ्यो जनान् प्रतीत्यर्थः।
सुकलत्रकटिस्थितस्य सूनोः स्मितिलेखैव निधानमस्ति येषाम् ।
परितोषमहाधनेषु तेषु स्वरपि प्रीतिकृदस्तु किं जनेषु ।। ६४।।
स्वः स्वर्गः।
अपि पर्वतकन्दरेषु सुस्था वनवासव्रतिनो भवन्ति केचित् ।
अपरे पुरवासिनोऽप्यसौस्थ्यज्वलनं चेतसि कामुकाः स्पृशन्ति ।। ६५।।
अपनुद्य यथार्थभूतमन्तःकरणस्य प्रसवान् विकल्पसंज्ञान् ।
प्रपिणष्टु विभाषया वराक्या सरसीं वीतरसां चिकीर्षुरेव ।। ६६।।
विभाषया वैभाषिकदर्शनोत्थया।
इह नैति गुरुत्वमर्थकामौ परिहृत्यात्मरतिः प्रमुष्टविश्वः ।
प्रकृतिं महतोऽपि जन्मदात्रीं न मृषोद्यन्ति यतोऽत्र गेहभाजः ।। ६७।।
यदिदं सुखदुःखचक्रमस्मिन् नरलोकेऽस्ति गतज्वरं चरिष्णु ।
ननु नाभिरिहास्ति कामिचेतः स्वपतोऽप्यात्मनि नित्यजागरूकम् ।। ६८।।
नगरं यदि वास्तु काननं वा न ततः कापि भिदा सुखेषु भोक्तुः ।
यदि भोगरथः समृद्धगात्रो नियतः किञ्च सनातनाभिधोऽध्वा ।। ६९।।
न हि पुष्करपत्रमेव पत्रेष्वभिरूपोत्तमतां परीस्पृशीति ।
यदिदं खलु सूरणस्य पत्रं जनभूमौ चितिबन्धनं न किं तत् ।। ७०।।
कलशेन समुद्रमन्थनोत्थाऽमृतपूरेण सुरा भवन्तु तुष्टाः ।
सुलभं सहकारशाखिशाखापरिपक्वच्युतमत्र वै फलं नः ।। ७१।।
वपुषा परमस्य पूरुषस्य पुरुषाणां वपुरश्नुतेऽत्र पोषम् ।
नगरेऽस्तु वनेऽथवा तदस्मिन् सति पोषे विषमायते क्व लाभः ।। ७२।।
कृष्णश्मश्रु-पदाभिधानमहितैर्यत् पूर्यते शालिभिः
सौरभ्येण महीयसा सुरपदं दूर्वाधिराजैः समम् ।
तस्मिँश्चङ्क्रमतां न वाञ्छति मनः स्वर्गौकसां सेवितुं
स्वीयं नन्दनमप्यपूर्वसुरभिस्मेरं वसन्तश्रिया ।। ७३।।
अपि निखिलसुखाढ्ये धाम्नि यन्नाप पैत्रये
शममनुगुणदारो मौतिलालिस्तदेतत् ।
इह जनपदसीम्नि स्थेम्नि बाभ्राजमानं
सपदि समधिगत्य स्मेरवक्त्रो बभूव ।। ७४।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘ग्रामटिकादर्शनो’ नाम अष्टमः सर्गः।। ८।।