नवमः सर्गः
अथोत्पलाद्रेरधिशीतलायामधित्यकायां चिरमर्च्चयित्वा ।
प्रियां प्रियार्हां कमलां प्रयागं प्रतिप्रपेदे स जवाहरार्य्यः ।। १।।
युगं तदासीद् भरतस्य धाम्नि स्वातन्त्र्ययुद्धस्य समेधितस्य ।
दुद्रावयिष्णू परराष्ट्रशास्तॄन् यस्मिन्नभूतामुदयास्तशैलौ ।। २।।
हिमाद्रिशृङ्गेण समं स्वराष्ट्राऽऽलोकस्वरं घोषयति स्म सिन्धुः ।
प्राग्ज्योतिषारण्यभुवा समेतो यं बालुकाब्धी रसति स्म धीरम् ।। ३।।
चेतोभुवा नैव, मनःसमुद्रो मामथ्यते स्म प्रसभं तदानीम् ।
केनापि वैश्वानरतोऽपि सूक्ष्मेणान्तःसमुत्थेन तनूनपाता ।। ४।।
आचामति स्म प्रधनस्य कश्चिज् ज्वालाकरालो ज्वलनो जनौघान् ।
यं खाण्डवप्रस्थमिवान्यदीयं साम्राज्यमुच्चैः स्म निवेविशीति ।। ५।।
अशस्त्रपाणिः प्रतिरोधदार्ढ्यां जनो यदानर्ज ससंयमस्तत् ।
अक्षौहिणीनां दश नाशयिष्णुं कृष्णं विधत्ते स्म सहस्रसंख्यम् ।। ६।।
या संघशक्तिः क्षपयाञ्चकार स्वार्थैकनिष्ठं महिषस्य धार्ष्ट्याम् ।
दुर्गेति याथार्थ्यशुभाक्षरा साप्यवातताराऽत्र सहस्रमूर्तिः ।। ७।।
सा नन्दजा मोहनमेव भूयोऽवरीष्ट सेनान्यमथातनिष्ट ।
स्वभू-समानोदर-शत्रु-वंशाऽक्षय-क्षयाऽऽध्वर्य्यव-मग्र्यमार्य्या ।। ८।।
वज्राणि यस्यां कमलानि भूत्वा सपर्य्यया स्वानि कृतार्थयन्ति ।
तां संघशक्तिं हि, विषं न कण्ठे करोति कालीं बत सोऽष्टमूर्त्तिः ।। ९।।
पर्य्येति तां काञ्चन शुक्रशुक्लामस्नाविरामप्यति-शक्र-शक्तिम् ।
को वा न धन्योऽध्वनि धर्मराजलुलायचीर्णेऽप्यभिचेकितानः ।। १०।।
उत्कन्धरोऽर्थेषु दशादधाति यः कन्धराण्यत्र, पुरस्सरन्ति ।
तस्यासमुद्रादखिलाः पुमर्थाः सा संघशक्तिर्हि दशाननी नः ।। ११।।
सीतां यदा भारतवर्षरामादपाच्छिनत्त्यार्य्यपथाच्च्युतैषा ।
लङ्कां सुवर्णस्य महाब्धिगुप्तामपि द्रुतं चर्व्वयते स्वयं सा ।। १२।।
सोदर्य्य एवात्ति तदा तु तां वै विभीषणत्वं प्रतिसन्दधानः ।
तां न प्रहस्ता विजितेन्द्रलोका अपि क्षमन्तेऽवितुमाक्षरिष्णुम् ।। १३।।
दर्भान् प्रशुष्काननलोऽद्मरः स्यात् कृती समुत्प्लोषयितुं कदाचित् ।
यदा त्वमी पूर्वजतर्पणाम्भःस्निग्धाः भवन्त्यग्निसखास्तदामी ।। १४।।
आत्मानमाक्रोशधनाः स्मरन्तो जनाः समेतास्तु यदा भवन्ति ।
जाम्बूनदानां खनयस्तदानीं शस्त्रेऽपि शत्रोः प्रकटीभवन्ति ।। १५।।
सहस्रमब्दान् परिभुक्तरत्नां रत्नाकरान्तां वसुधामरातिः ।
नैषिष्यदुन्मुच्य सुखं प्रयातुं व्यरोत्स्यदेनं न यदि स्वयं सा ।। १६।।
सहस्रमक्ष्णां न निरोद्धुमीष्टां दोष्णां सहस्रं भुवि विग्रहिष्णु ।
एरण्डति स्वस्तरुरप्यमूषां पुरो भियाऽवीयति कामधेनुः ।। १७।।
दृक् कज्जलान्यप्युररीचिकीर्षेद् मलीमसानि क्षयसंभवानि ।
बाहुस्तु कश्मीरभवोच्छलच्छ्रि श्रीखण्डमात्रं हि पुरस्करोति ।। १८।।
झञ्झानिलानां प्रमुखे क्षणान् वै स्थातुं सहन्ते कियतस्तृणानि ।
नो कामकामा भुवि पर्वतन्ति स्वाधर्म्यमात्रप्रतिसंस्थितायाम् ।। १९।।
नीहारभूमीधरतो महेन्द्राचलावधि द्रोग्धरि भारतीये ।
अलं तमस्काण्डमिवोष्णरश्मौ स्थेमानमाप्तुं न बभूव तन्त्रम् ।। २०।।
न वानराणां न च भल्लुकानां ब्राह्माणि शस्त्राणि वपुः स्पृशन्ति ।
स्पृशन्ति चेत् प्राकृतमेत्य भावं ब्राह्मत्वमेव स्फुटमुद्रुजन्ति ।। २१।।
विषं खिलीकर्त्तुमलं जलं स्यात् कूपस्थितं पल्वलकोणगं वा ।
नादेयमादेयतरं पितॄणामम्भस्तु यत् तद्धि विषं विषाणाम् ।। २२।।
न मत्कुणानामपि, मक्षिकाणामपि, क्षुपाणामपि वा समूहम् ।
विरोद्धुमभ्युद्यतसंघशक्तिं पितामहोऽपि क्षमते विसोढुम् ।। २३।।
सत्याऽनृताभ्यां कलहायमानाँस्त्रैसत्यसान्तत्यशुभाऽमराली ।
ऐकान्तिकं निर्णयमार्त्तहृद्यं स्वयं परिच्छेत्तुमभिस्तृणीते ।। २४।।
वैदेशिका वर्षसहस्रदीर्घं साम्राज्यमस्यां भुवि किन्न कुर्युः ।
यस्या युवानस्तनया अभूवन् स्वमात्रसन्तर्पण-बद्धकक्षाः ।। २५।।
अकाल-दावानल-संपरीतान् वन्यान् द्रुमानन्वहरन् मनुष्याः ।
यान् स्नानतोयस्य कदुष्णतायै वैदेशिकं कल्पयति स्म तन्त्रम् ।। २६।।
यद् वै स्वकीयं श्रुतिदर्शनं नः कडङ्गरीयैरिव दूषितं तत् ।
यैः श्रद्दधानाः खलु तेषु जाता अनात्मनिष्ठा इव भारतीयाः ।। २७।।
शिक्षा च वृद्धिश्च चरित्रकं चेत्यमूनि कृत्वा पशुताप्रियाणि ।
क्व कर्मयोगः क्व च मुक्तिसत्रं लोकायताः स्मो विहिता धिगेभिः ।। २८।।
ऐतिह्यमात्रं निखिलेषु विद्यास्थानेषु संपाठ्या निजप्रदिष्टम् ।
यैर्बुद्धिभेदं गमिताः, स्वतन्त्रास्तेभ्यः कथङ्कारमिमे भवेम ।। २९।।
शास्त्राणि वेदा मनुयाज्ञवल्क्या यद् धर्मतत्त्वं प्रतिपादयन्ति ।
समाजदुग्धे तदिदं दधीति त्याज्यत्वमात्रेऽस्य शुकीकृताः स्मः ।। ३०।।
शिखा ससूत्रा नियमा यमाश्च वर्णाश्रमाचारदुघाः कथाश्च ।
यैर्गल्पकोटौ विनिवेशिता नस्तेषां ह्यमी स्मः खलु पाणिकीराः ।। ३१।।
भुक्त्वार्धरात्रे नवमेन नाडीछेदेन शय्यां परिमोक्तुमेते ।
चायस्य धूमस्य च हन्त पानेष्वायत्तरक्ताश्च भृशं कृताः स्मः ।। ३२।।
प्रभातसन्ध्या बत रक्तनीलैर् द्रवैरुपानत्परिमार्जनाभिः ।
उपास्यतेऽस्माभिरिदंयुगे यत् फलं तदेषां खलु शिक्षितानाम् ।। ३३।।
अस्माकमेषामधिकारभाजां कार्यालया एव हि मन्दिराणि ।
उच्चावचैर्यत्र कुकृत्यजातैर् द्रव्याभिधं ब्रह्म परं स्मरामः ।। ३४।।
दिनोत्तरार्धे जरठायमाने दारानुपेत्योत्फलके स्थितानि ।
पानानि पीत्वा लवणोत्तराणि प्रेक्षागृहं सायमिमे व्रजामः ।। ३५।।
तन्नर्त्तकीर्वीक्ष्य नटाँश्च तैस्तैर्वेशैः परीतान् परिवृत्तवृत्ताः ।
अनुक्रियाभिर्निपुणाभिरेषां सभ्यत्वमस्मासु विभावयामः ।। ३६।।
केशेषु वेशेषु च तेषु तेषु सौन्दर्यकोषं परिसीमयन्त्यः ।
हीनाः स्तनाभ्यां भवितुं यतन्ते कुमारिकाः क्लृप्तकुमारवेशाः ।। ३७।।
न येषु रक्तं न च मांसमेव त्वग्वेष्टितेष्वस्थिषु दर्प्पभाजाम् ।
यूनामिदानीं निजराष्ट्ररक्षा दूरे, स्वरक्षैव हि कृच्छ्रसाध्या ।। ३८।।
पाठ्याक्रमं दूषितभावदिग्धं भोज्यं च पेयं च विषैः परीतम् ।
बाल्येन कालेन हि बालका नः प्राश्नन्ति नश्यन्ति च कान्दिशीक्यात् ।। ३९।।
कलासु शिक्षेति गिरं वदामो ग्रन्थाँस्तु साहित्यपरान् दिशामः ।
धृत्वा कलाचार्य्यकतामपीमे विषाणहीनाः पशवश्चरामः ।। ४०।।
अभावदग्धाः खलु देवतासु श्रद्दध्महे, किन्तु कदर्थयामः ।
सकामपूजा-गरलाभिषेकैः प्रकाममेताः परिहाय तत्त्वम् ।। ४१।।
स्वधर्मरक्षामसुभिश्चरन्त-स्ततश्च शिल्पेष्वपि तेषु तेषु ।
स्वगेह एवाप्तनदीष्णभावा अपि श्ववृत्त्या हि जिजीविषामः ।। ४२।।
नरस्य दोषानुपदेशकृत्सु शास्त्रेषु लौल्यादुपकल्पयन्तः ।
क्रान्तिं नवीनां बत ये लषन्ति तेषां विवेकाय नमस्क्रिया नः ।। ४३।।
‘नमोऽर्भकेभ्यश्च नमो महद्भ्यः’ श्रुतिर्यदित्थं रटति स्वकीया ।
उदास्स्महे तत्र भजामहे च ‘स्वदेश’-शब्दं परदेशनेत्राः ।। ४४।।
‘युवा रथेष्ठा अभयः सभेयो भवेदि’-ति श्रौतमपास्य शब्दम् ।
स्वैरा अदीक्षाः स्थविरा इदानीं वैराज्यराज्ये न समुल्लसामः ।। ४५।।
स एष सर्वोऽपि परप्रभूणां महोपदेशस्य महान् प्रभावः ।
आर्य्या अपीमे बत भारतीया अनार्य्यतामेवमिमे भजामः ।। ४६।।
गान्धी महात्मा स जवाहरश्च सर्वामपीमामनुवीक्ष्य हेलाम् ।
उत्थापितं भारतभूतलेऽन्यैः स्वातन्त्र्यसंग्राममपूपुषेताम् ।। ४७।।
स्वातन्त्र्यसंग्राममहाभटानां शब्दैर्नभोमण्डलमभ्यपूरि ।
दिशां मुखान्यप्यनुलेपितानि धिक्कार-हुङ्कार-महार्ह-वर्णैः ।। ४८।।
तपस्विनां वीक्ष्य तपांसि शक्रा विमुच्य धैर्यं कृपणा भवन्ति ।
आङ्ग्ला अपीमान् प्रतिपद्य नेतॄन् सत्याग्रहस्थाँश्चलिता बभूवुः ।। ४९।।
आन्दोलनं निग्रहणं प्रहारः स्वरक्षणं चेति तदा क्रमेण ।
बुद्ध्येकशस्त्रेषु च शस्त्रभृत्सु जनेषु शास्तृष्वमुमूर्च्छदुच्चैः ।। ५०।।
सर्वाऽपि भूमिर्भरतस्य भूत्वा धृतैकदेहेव ततस्तदानीम् ।
व्रणं यथा कर्त्तयितुं परेषां राज्यं जजागार समिद्धचित्ता ।। ५१।।
राज्यं तृणं शुष्कमथो जनश्च दावानलस् तत्र जवाहराद्यैः ।
अकारि योगः प्रगुणस्तदानीं द्वयोस्तयोर्योगिभिरार्य्यशीलैः ।। ५२।।
कारागृहाणामुदराणि हर्षात् प्रपूरितान्यार्य्यमही-सुपुत्रैः ।
आत्माहुतीर्दातुमपारसंख्या यूनां समूहा उदिता अभूवन् ।। ५३।।
विशश्वसुः केचन केवलायां क्रान्तौ मरुत्वन्त इवोग्रवेगाः ।
शान्तिं फलादूर्ध्वमुशन्ति वीराः क्रान्तेस्तनूजा ननु साऽदसीया ।। ५४।।
शान्तिर्विदेहस्य सुता, दशास्यात् तां क्रान्तिरेवोद्धरति प्रसह्य ।
समुद्रमाभन्स्यत किं नु रामः प्रामापयिष्यत् यदि शान्तिमेकाम् ।। ५५।।
क्रान्तिः प्रचण्डा विनतासुतस्य काकोदराचूर्णनपण्डिता धीः ।
शान्ते कराले गरले स्वदन्ते पीयूषमाकण्ठमिमे त्रिसत्याः ।। ५६।।
क्रान्तिं हि शान्तिं न तमश्च भाश्च निगीर्य रात्रिं च दिनञ्च सृष्टौ ।
असाविषातां प्रथमं सुवाते सम्प्रत्यथो सोष्यत एवमग्रे ।। ५७।।
प्रसादमात्रं न जलस्य भूतिः न वापि शैत्यं खलु तस्य शक्तिः ।
प्रसादपूर्णः खलु यः प्रवाहस्ततो हि तज्जीवनतां प्रयाति ।। ५८।।
पुष्पस्य किञ्जल्किनि गात्रकोषे कामं भवेल्लोचनतर्पकत्वम् ।
प्रकाशराशौ खलु यास्य भक्तिस्ततस्त्वदो रोहति देवशीर्षम् ।। ५९।।
क्रान्तिः प्रवाहः प्रबला प्रकाशश्रद्धा च, ताभ्यां यदि वारिपुष्पे ।
प्राप्तप्रतिष्ठे, मनुजः प्रतिष्ठां कथं न ताभ्यां भुवि मेमिलीताम् ।। ६०।।
क्रान्तिर्यदा लेढि जनस्य चित्तं सर्पस्य गात्रं नु हलाहलाग्निः ।
ईक्षाक्रिया तस्य तदाऽऽन्तरे नो जागर्त्ति नेत्रे तमसा निगीर्णे ।। ६१।।
न संविधानं न च दण्डभीतिस्तमोनिगीर्णान्तरदृक्तरङ्गम् ।
जनं निरोद्धुं क्षमते लुलायं यमस्य संरम्भमिवेयिवांसम् ।। ६२।।
संन्यस्तदेहं न जनं प्रचेताः न दण्डधर्त्ता न महेन्द्र एव ।
पाशेन दण्डेन महीध्रभेत्रा वज्रेण वा लङ्घयितुं क्षमेत ।। ६३।।
रङ्गत्रिके पाणिधृतस्य केतोराद्ये तितिक्षां स्म पठन्ति वीराः ।
शुचित्वमाभ्यन्तरिकेऽन्तिमे च प्रहर्षमुच्चैः प्रतिरोधकेभ्यः ।। ६४।।
वनं च तोयं च हरित् सितं च शिरो हिमाद्रेश्च सुवर्णवर्णम् ।
प्रभातकाले ध्वजमात्तगात्रं राष्ट्रस्य गात्रे स्म तदाऽऽलिखन्ति ।। ६५।।
इज्या च भूतिश्च तितिक्षुता च गतिं सिसृक्षां च सृतिं च यस्मिन् ।
तर्कुच्छलेनाभ्यवपद्य राष्ट्रश्रियं त्रिरङ्गेऽभ्यपुषन् स्वकेतौ ।। ६६।।
साहित्यपीयूषमहाह्रदेभ्यः शास्त्रार्थमाणिक्यमहाकरेभ्यः ।
तदा कविभ्यश्च ववर्षुरुच्चैरङ्गारधारा इव शात्रवेभ्यः ।। ६७।।
शास्त्राणि बुद्धौ प्रतिमापराणि शस्त्राणि पाणौ च निशातयन्तः ।
काश्याः प्रयागस्य च विद्वरेण्याः स्वातन्त्र्ययुद्धाग्निमवर्धयन्त ।। ६८।।
छात्राः स्म कक्षाः परितस्त्यजन्ति प्राध्यापकाः स्वस्तिवचो बु्रवन्ति ।
सरस्वती चापि विहाय वीणां तदा स्म कालीयति खड्गहस्ता ।। ६९।।
श्रीविश्वनाथायतनस्य काश्यां हिरण्मयं शृङ्गमदीव्यदुच्चैः ।
घण्टास्तदा तारतरं विनापि घातं विरेणुः खमिवोद्रुजन्त्यः ।। ७०।।
गाङ्गं यथा नार्मदमप्यनुष्णाशीतं पयो मूर्च्छयति स्म तस्मिन् ।
क्षणेऽसिपत्रोदरसंनिविष्टप्ररुष्टसर्पानिव वारिभङ्गान् ।। ७१।।
ढक्केश्वरस्यायतने स्वयं हि निक्वाणनां मोचयति स्म धीराम् ।
कम्पे नु भूमेः क्षितिसन्धयोऽपि रेसुः स्वयं क्रूररवं समेऽपि ।। ७२।।
इत्थं भारतवर्ष-मानसमभूद् वज्रोपमं शत्रुषु
प्रत्यग्रेष्वदुहन्निहातिकृपणां ये प्रत्नतादीनताम् ।
पत्नी वीरजवाहरस्य तदिदं चित्तेन सर्वं कथा-
जातं भावयति स्म दोहदमिषादन्तः शुचा ताम्यती ।। ७३।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘जनान्दोलनो’ नाम नवमः सर्गः।। ९।।
दशमः सर्गः
षष्ट्या शरद्भिर्भरतस्य भूमौ पापच्यमानं खलु युद्धमेतत् ।
ज्योतींषि पद्मानि रजांसि शीघ्रं खेऽप्सु क्षितौ चापि समं व्यशान ।। १।।
सदोहदा श्रीकमलाऽपि तस्मात् प्रोल्लासलास्यं हृदि संपुपोष ।
आत्मा विशुद्धः स्फटिकस्य न स्याज् जपावनस्थस्य कथं नु रक्तः ।। २।।
स्वदेशमोक्षाध्वरवह्विकुण्डे हुतात्मनां वर्त्त्मनि दिव्यधाम्नाम् ।
धातुं पदं तामरसप्रकाशं सदोहदा साऽपि दृढं व्युदस्थात् ।। ३।।
स्वात्मादसीयः स जवाहरोऽभून् नूत्नोवतारो नु कुमार-वह्वेः ।
स्वातन्त्र्यशक्तेर्यदि वा बभूव प्रागल्भ्यभाजो महिमा वपुष्मान् ।। ४।।
आकारतुल्याऽस्य बभूव बुद्धिर् बुद्धेस्तुलामारुरुहेऽस्य बोधः ।
बोधानुरूप्यं च चिकाय नीतिर्या स्वानुगुण्येन फलान्यसावीत् ।। ५।।
गङ्गाम्भसः शुद्धिमुपार्ज्य यस्य प्रीतिं विवस्वत्तनयाम्भसश्च ।
वेधा व्यधादप्रतिमं प्रकाश गौरं सरागं तु हृदि स्वरूपम् ।। ६।।
स वस्तुतोऽभूत् कविरेव हंसो यथा त्रिवेण्या परिवर्धितात्मा ।
परन्तु नीत्या चकृषे सुरूपो युवेव धार्ष्ट्यात् प्रतिवेशिवध्वा ।। ७।।
नीत्या दधे यद्यपि तस्य चित्ते पदं कृशाऽभूत् कविता न किन्तु ।
पद्माकरे सर्पवधूः प्रविश्याप्यलं विकाराय न तस्य लक्ष्म्याः ।। ८।।
शुद्धः स चित्तेन महामनीषी श्रीभारताख्यस्य परस्य पुंसः ।
श्रुतप्रकाशस्य यशःप्रकाशः सत् प्रातिनिध्यं कुरुते स्म धाम्ना ।। ९।।
न वर्गभेदे न च वर्णवादे न देशभेदेऽपि बभूव तस्य ।
ममत्वभेदो वसुधा-कुटुम्बः स वै परब्रह्मणि यद्वदस्थात् ।। १०।।
दधे पदं यत्र स तत्र देशे ववर्ष सौभाग्यमहाविभूतिः ।
तथापि यः पद्मदलोपमानो व्यलेपि नो तत्र यथा स्मरारिः ।। ११।।
स कर्म्मयोगस्य बभूव मूर्त्तं दृष्टान्तरत्नं कलिकालकेऽपि ।
न तस्य चित्तं चकृषे पदं वा भूलोकमात्रस्य धनं यशो वा ।। १२।।
अनौचिती-कर्दम-तिग्मरश्मिरथौचिती-कैरविणी-सुधांशुः ।
स वीतरागोऽपि न वीतकर्म्माऽजिजीविषद् ध्वस्तसमस्तभीतिः ।। १३।।
निनाय यो यौवनमाधवश्रीविलासलास्यं स्थिरगात्रबन्धः ।
कारासु वर्षाणि चतुर्द्दश श्रीरामो नु राष्ट्रस्य कृतेऽटवीषु ।। १४।।
स राष्ट्रदेवः स हि मातृभूमिभक्त्या महत्या परिपूरितात्मा ।
न यस्य चित्तं व्यकरोद् विलासः स्वाभाविको यौवनदेहलीस्थः ।। १५।।
ऋजुः प्रकृत्या परराष्ट्रनीतावपीतिहासे यदि कोऽपि जातः ।
प्रधानमन्त्री स जवाहरो हि कवीन् विकुर्व्वन्ति न मार्गभेदाः ।। १६।।
कृष्णस्य पार्थो दशकन्धरारेः सौमित्रिरिन्द्रस्य नु चक्रपाणिः ।
तथैव यो गान्धिमहात्मनोऽभूद् वशंवदश्चापि पुरोहितश्च ।। १७।।
तीर्थे त्रिवेण्याः श्रितयज्ञसूत्रः सावित्रमोजः किल यच्चिकाय ।
तदस्य कह्लारनिभे मुखे नु प्राचीकशत् कृत्यविधौ समग्रे ।। १८।।
स मुक्तरक्तस्य महामहिम्नः कवेः कवीनामुपमश्रविष्ठः ।
अभूत् परस्कोटिमितैः सुवर्णैरप्यप्रमेयः सदृशस्तनूजः ।। १९।।
मुक्तरक्तस्य मोतीलालस्य।
अवीवृधत् तं सुमहान् विभूत्या हृदः स्वकीयस्य महामहत्या ।
औन्नत्ययोगेन च विश्वमात्रे सर्वङ्कषेणैष पिता महिष्ठः ।। २०।।
दान्तः स्वयं सर्वदमप्रवेको दौष्यन्तिरेवाभवदेष धीरः ।
प्रापूरयद् यः खलु भारतीयं महीमिमामर्थचयैरगण्यैः ।। २१।।
स तिग्मधारः खलु कोऽपि खड्गः स लेलिहानोऽरिषु वीतिहोत्रः ।
गतौ तडित् स्फूर्जथुनिष्ठुराऽभूत् कृत्येषु मानेषु च देवदेवः ।। २२।।
अभावनामा खलु कः पदार्थ इत स्म यो वेद न विश्वमात्रे ।
दैन्यस्य दैत्यस्य न दंष्ट्रिकाऽभूत् क्षमा खिलीकर्त्तुमिमं कदापि ।। २३।।
उत्साहकार्त्तस्वरशेवधिं यं पुपोष स स्वात्मनि राष्ट्रहेतोः ।
प्राचीरभावं प्रतिपद्यते स्म कृतेऽस्य तस्मिन् धृतिशैलराजः ।। २४।।
यः प्राड्विववाकः प्रथमानकीर्त्तिर् यस्याङ्ग्लभाषास्वसमोऽधिकारः ।
यस्मै निबन्धस्य कला स्वमुच्चैः प्राकाशयद् वाङ्मयमेदुराय ।। २५।।
प्राणाधिकां वीक्ष्य स एष पत्नीं तां मातृभावं प्रतिपत्स्यमानाम् ।
अजीहृषत् किन्तु न तस्य चेतः स्वाराज्ययुद्धादपयातुमैच्छत् ।। २६।।
अर्को यथा पङ्कजिनीमवेक्ष्य सकुड्मलां हृष्यति, यद्वदिन्दुः ।
तथागतां कैरविणीमवेक्ष्य मोमोत्त्यमोमोत् स तथा प्रकृत्या ।। २७।।
यथा यथाऽवर्धत पाण्डुरत्वं पत्न्यास्तनौ स्वर्णविजित्वरायाम् ।
तथा तथान्तस्तटिनी प्रपूरं रागस्य पत्यौ प्रथिमानमार्च्छत् ।। २८।।
कश्मीरलक्ष्मीरिव कान्तिपूरे वसन्तलक्ष्मीरिव सौम्यभावे ।
प्रियाऽनुरूपाऽथ जवाहरस्य प्रासोष्ट पुत्रीमनुरूपरूपाम् ।। २९।।
पौत्रीमिमां प्राप्य मुदामपारां पारम्परीं प्रापतुरव्यवस्थाम् ।
स्वरूपरानी च स मोतिलालश्चेत्यार्य्यशीलौ द्विजदम्पतीमौ ।। ३०।।
यो वा ब्रवीति क्षणशः प्रयाति संसार एष प्रलयाग्निगर्भम् ।
स मीलिताक्षो ननु मातृकुक्षिकुमारशक्त्योर्विभवे वराकः ।। ३१।।
स्वरूपरानी हि जवाहरस्य पुत्रयाममुष्यामवतीर्य तस्थौ ।
पितामहावेव हि पौत्रगात्रे नूत्नां स्वकीयां सृतिमश्नुवाते ।। ३२।।
शक्त्यात्म्ना यो हि शिवावतारः प्रत्यक्षदृश्यः स सुताशरीरे ।
न मोतिलालोऽथ जवाहरश्च स्वापत्यरत्नेऽत्र न शक्त्यभूताम् ।। ३३।।
आर्षी चितिश्चेत्यकृतोपकारा यां सन्ततं चङ्क्रमणां तनोति ।
नवो नवस्तत्र पुमान् पुराणो जाजायमानः क्षणशो विभाति ।। ३४।।
शेषेषु शेषी निखिलेष्वशेषैः सत्रा विशेषैरनुबोभवीति ।
तां मातृशक्तिं समुपास्य कां वा पुष्टिं न सृष्टौ प्रतिसृष्टिधात्रीम् ।। ३५।।
श्रीवल्लभानां जगतां गुरूणां महाप्रभूणामयमेव मार्गः ।
पुष्टीति संज्ञामयते महार्हां प्रभोः कृपां कारुणिकस्य यद्वत् ।। ३६।।
अचिच्चितौ द्वे खलु ये विभूती रामानुजाचार्यवरा अपश्यन् ।
तत्र प्रमाणं परमं परं किं त्यक्त्वाऽऽत्मसृष्टिं पुरुषप्रकृत्योः ।। ३७।।
विवर्त्त एषोऽत्र परात्परस्य कुक्षौ तदन्यस्य चराचरात्मा ।
सान्तत्ययोगेन विवर्त्तते यस्तर्के परीणामतया प्ररोही ।। ३८।।
मायाऽस्त्यसौ चेदनुपाख्यरूपा लब्धव्यमास्ते किमुपाख्ययैव ।
आख्यामनाख्यां रचयद्धि किञ्चित् तत्त्वं परब्रह्मतयाऽनुयाति ।। ३९।।
योगः पटीयानिह यद्बुभुत्सावतत्त्वमोषाय कवित्वधाम्ने ।
संख्यावतामत्र नयाः समेऽपि यथागता हन्त तथागताः स्युः ।। ४०।।
असावबौद्धः सुगतान्ववायो लोकायतः पाशुपतश्च पन्थाः ।
सोमं हि सिद्धान्तयतामिहैव वेदान्तिताऽप्यस्ति निरन्तराया ।। ४१।।
प्रतिक्षणं या खलु चक्रनेमिर्नीचैरुपर्येति च निर्विरामम् ।
सत्यानृते सांवृतिके तदीये सांसारिकेऽत्रैव पथि स्वतन्त्रे ।। ४२।।
सैषा गुहा यत्र हि धर्मतत्त्वं निगूह्य रूपं जगतीं पिपर्त्ति ।
अत्रैव कुत्रापि च पिप्पलाङ्कं द्वौ तौ सुपर्णौ परिषस्वजाते ।। ४३।।
इमां दिवोदासमुखाः कवीन्द्रास् त्रातुं सुधामौषधमर्थयन्ते ।
कृतेऽदसीयस्य हि लम्भनस्य देवासुरास्तोयनिधिं मथन्ते ।। ४४।।
स्वरूपरानी शिशुमिन्दिरेति जवाहरश्च प्रियदर्शिनीति ।
ताभ्यामुभाभ्यामथ मुक्तरक्तः समाह्नयन्तो मुदमावहन्त ।। ४५।।
बहिःप्रकाशे शिशिरांशुसौम्या कृपीटयोन्यर्चिरिवान्तरुग्रा ।
बभूव जाम्बूनदपुत्रिकेव सा पुत्रिका वीरजवाहरस्य ।। ४६।।
लघीयसी चञ्चलपाणिपादा सा स्वर्णदोलानिहिता तदासीत् ।
समाह्नयन्तीव सुहृत्समूहं संतर्जयन्तीव च शत्रुसंघम् ।। ४७।।
तद्गात्रकान्त्या मसृणीकृताश्च दिशो मृधानां प्रशमच्छलेन ।
तदैव तां प्रत्युपकारभङ्ग्या स्वे नेतृभावे प्रसभं निरूचुः ।। ४८।।
प्रयागपुर्य्यामकृतप्रवेशान् विद्युत्प्रदीपानपि दीप्रदीप्रान् ।
आनन्दसंज्ञे भवने सुजाता सैषा स्वधाम्नाऽत्यशयिष्ट दूरम् ।। ४९।।
यदुच्यते नो तरलं प्रभाभिर्ज्योतिर्धरित्रीतलतोऽभ्युदेति ।
सत्यं तदेषा ननु यत्र जाता लोकोत्तरं मन्दिरमेतदासीत् ।। ५०।।
मेधाविनां नीतिविदां पुरोगः स मुक्तरक्तो विधिशास्त्रमन्थात् ।
लक्ष्मीं दुरापां मनसाऽपि भिन्नैस् तस्मिन्नगम्यां स्ववशीचकार ।। ५१।।
साम्राज्यहिंसासनसंस्थितोऽपि तां वीक्ष्य वै पञ्चमजार्जनामा ।
गौराङ्गसम्राट् स्वसुताय लक्ष्मीं स्वीयामपर्याप्ततराममंस्त ।। ५२।।
लक्ष्मीश्च कार्पण्यगुणश्च लोके सोदर्ययुक्तौ विहितौ विधात्रा ।
पूर्वा त्वभूत्, किन्तु न मोतिलाले परो विलेभे पदमंशतोऽपि ।। ५३।।
कदाचिदेषाप्यत एव लेभे न भ्रातरं नो भगिनीञ्च काञ्चित् ।
यद्वाऽद्वितीयत्वगुणाय वेधा तस्यै द्वितीयं न ससर्ज कञ्चित् ।। ५४।।
तटे त्रिवेण्याः परितो विशालैः सालैः परीतं भवनं प्रयागे ।
श्रीमोतिलालश्च पुरूरवाश्च नेत्रोत्सवं निर्ममतुः पृथिव्याम् ।। ५५।।
तस्मिन्नभावप्रतियोगिभावाऽतीतार्थसार्थ-प्रगुणे लसन्ती ।
उद्यानशोभा यदिवेन्दिरा वाऽन्योन्योपमावत्त्वमथाश्रयेताम् ।। ५६।।
एवं तीर्थेऽद्वितीयेऽवनितलगगनद्वन्द्वलक्ष्मीसनाथे
द्यावाभूम्योर्विताने भरतभुवि निजस्याधिपत्यस्य जन्ये ।
आनन्दश्रीसमृद्धे जनकगृहमणौ लब्धजन्मेन्दिराऽसौ
सर्व्वान् वै लोकपालान् पितृकुलजनितैराबिभर्ति स्म धर्म्मैः ।। ५७।।
ब्रह्मत्वं स्त्रीतनुत्वं निगमपथसिते धाम्नि संस्कारशुद्धया
पित्रोर्लोकोत्तरश्रीसुरभितजनुषोः प्राप्तजन्मत्वमस्याम् ।
कन्यायां ते विशेषा भवति रतिमती येषु राष्ट्रस्य लक्ष्मी-
र्विश्वेषां विश्वपां च श्रयति विशदतां यैः समग्रात्मसंपत् ।। ५८।।
अधिगम्य विधोर्नवां कृतिं पितरो मोदममन्दमाश्रिताः ।
विदधुर्भवनस्य सत्यतां विविधानन्दमयैर्महोत्सवैः ।। ५९।।
कवितरि प्रतिभेव विभास्वराऽरुचदसौ पितरि द्युतिशालिनि ।
भरतभूवलयस्य शुभंयुताक्षरमयीव लिपिः कवितार्थदा ।। ६०।।
द्रुतपदं ववृधे तनुयष्टिका प्रतिनवस्य शिशोस्तनयात्मनः ।
न खलु वृक्ष इव व्रततिव्रजः सरति मन्दमिलावलये स्वयम् ।। ६१।।
प्रथममेव हि वर्षमवर्धयच्छिशुरसावुपवेशनमङ्गलैः ।
यदपि किञ्चन मिष्टमुदाहरद् वचनमेतदपाहरताखिलम् ।। ६२।।
कमलया निजवक्षसि यत् पयोऽजनि सुधामधुरेण तु तेन सा ।
परिपुपोष निजं वपुरुच्छलत्प्रभमिदं ह्यमृतं शिशवे भुवि ।। ६३।।
आनन्दधाम्नि गतिमानिव दृश्यते स्मा-
ऽऽनन्दो जवाहरसुतातनुरेव साक्षात् ।
सा संप्रति स्खलितपादमचीचरच्च
मोदः पुनः प्रववृधेऽस्खलितक्रमश्च ।। ६४।।
कमला च सुता च तत्प्रसूता कमलाजानिरथो स्वरूपरानी ।
परितो ननु मोतिलालविप्रं परिपूर्णं विदधत्यमन्दमोदम् ।। ६५।।
इयमेव मही महीयसी नुर्ननु नाकस्य भगिन्यपूर्वसर्गा ।
यदि सन्ततिसन्ततप्रवृत्ता गृहलक्ष्मीश्च शरीरसम्पदश्च ।। ६६।।
जलमच्छमहो प्रयागराजे पृथिवी पुण्यजनिस्त्रिवेणिकाढ्याा ।
कवयः स्वयमेव मोदमाना ऋषिभावेन लसन्ति तेन तत्र ।। ६७।।
कियते नु गुणाय यो भवेयुर्वटपत्रस्य तु तल्पकानि विष्णौ ।
स्वयमक्षय एष यद् वटोऽत्र क्षयतां याति परात्परस्य पुंसः ।। ६८।।
क्षयतां गृहताम्।
न हि तीर्थति तीर्थराजराजे जलमात्रं सरितां ससन्निपातम् ।
अधिभूमि विसृत्वराणि दूरं वटमूलान्यपि यान्ति सन्ततानि ।। ६९।।
इह जनिमभजद् द्विजो महात्मा स भरद्वाज इति प्रसिद्धसिद्धिः ।
उटजं खलु यस्य भोजनाढ्यां भरतस्यापि बलं चकर्ष दार्ढ्यात् ।। ७०।।
वट एष हि कल्पवृक्षराजो जनकस्यात्मजयाऽर्थितो जघान ।
दशकन्धरराक्षसस्य पूर्णं कुलमेवाप्य शरत्वमुग्रवीर्यम् ।। ७१।।
इयमस्य हि कापि गात्रशक्तिर्यदयःपावकमज्जितापि नासौ ।
क्षयमाप सहस्रतामवाप्य ववृधे प्रत्युत तत्र तत्र लक्ष्या ।। ७२।।
अयमेव तरुर्जवाहराद्यानपि साफल्यजुषो विधास्यतेऽद्धा ।
भरतस्य भुवः स्वतन्त्रतायै चलितं च प्रधनं, न संशयोऽत्र ।। ७३।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘इन्दिरासंभवो’ नाम दशमः सर्गः।। १०।।