एकादशः सर्गः
आनन्दनाम्नि भवने कविपुङ्गवानां सम्मेलनं क्वचिदकारि जवाहरेण ।
वैचित्रयमेव भणितेर्न, पुमर्थमार्गा अप्यभ्युपास्तिमलभन्त हि यत्र सद्भ्यः ।। १।।
यस्मिन् सनातनकविः सरसीति काव्यं प्राचीकशत् सुरगिरा प्रतिपन्नगात्रम् ।
एवं स्म यत्र भवति स्वमतानुसारि प्रेम स्वजन्मवसुधां प्रति भावकानाम् ।। २।।
ग्रीष्मेण शोषणपरेण सरोवरस्य कार्श्यात् पतत्रिनिवहे परितः प्रडीने ।
ब्राह्मं सरः स्थिरमतिः प्रतिसंनिधातुं प्रीत्या सरोरुहमुवाच मराल एकः ।। ३।।
हंसा गता गतवती च विहङ्गपङ्क्तिः शुष्कं जलं सुभग! कर्द्दममात्रशेषा ।
एषा निदाघसरसी गृहबन्धुभिश्च मण्डूकमत्स्य-सदृशैः परिघट्टितस्त्वम् ।। ४।।
द्वित्राभिरेव रजनीभिरपि त्वदीया श्रीः सौरभं वपुरिदं च विनङ्क्ष्यतीति ।
स्वामायतिं प्रथममेव विमृश्य साधो! गन्तव्यमन्यदधुना भवतापि चिन्त्यम् ।। ५।।
आस्ते न पक्षतिरिति त्यज मित्र खेदं हंहो वयं सहचरा नहि ते विपक्षाः ।
मत्वा सदा शिवतमं भगवत्प्रसादं षाट्कौशिकं वपुरिदं परिरक्ष्यमेव ।। ६।।
ब्राह्मं सरो भवति नोऽभिजनो हिमाद्रेर् वक्षःस्थले तदिदमस्ति महद्धि तीर्थम् ।
नो यस्य वारि परुषेऽपि निदाघदाहे याति क्षयं प्रतिदिनं परिवर्धते तु ।। ७।।
ब्राह्मं सरस्तदिति तत्र महान्ति रत्नान्याशेरते न हि च नश्वरतां श्रयन्ते ।
अस्मानभिन्नहृदयाँश्च विमृश्य शीघ्रमायाहि दर्दुरमयीं सरसीं त्यजैनाम् ।। ८।।
स्वार्थोऽत्र कश्चिदपि मे ननु वर्त्तते नो जानासि पूर्वत इदं यत एव मुक्तः ।
मित्रे विलोकयति न स्वजनो विपत्तौ मज्जेत् कथञ्चिदपि मानसराजहंस ।। ९।।
वासाय तत्र विमलस्फटिकोपमेयमस्त्यप्रमेयमतिमात्रपवित्रमम्भः ।
भेका भवन्ति न हि तत्र न वा वकाली नो तत्र शोषणमयः समयो न तर्षः ।। १०।।
तस्यैव पार्श्वभुवि साम्बशिवाधिवासः कैलास इत्यभिहितोऽस्ति स गण्डशैलः ।
यस्मिन् नितान्तविमलात्मनि दिव्यदिव्या बाला स्ववेषमवलोक्य भवन्ति तुष्टाः ।। ११।।
यस्मिन् यमस्य महिषस्य विपाट्य शृङ्गद्वन्द्वं गणाः क्रिकटकौतुकमानटन्ति ।
यस्मादुदेत्य सरयूर्धरणिं पुनाना साकेतके सृजति तीर्थमिति प्रसिद्धिम् ।। १२।।
पद्मानि यत् स हरिरप्यभिभिक्षते सत्सौरभ्य-हेमरुचिभाञ्जि शिवाभिषेके ।
येषां परागपरभागमवाप्य गौरीवक्त्राम्बुजं भवति हारितरं शिवाय ।। १३।।
यद्वीचिषु स्फुरति कश्चन वेदघोषः पुण्यं यतो दश दिशोऽन्वहमर्जयन्ति ।
यद् वारि वाञ्छति नरेण युतः स कश्चिन्नारायणोऽपि भगवानवनेजनायै ।। १४।।
आचार्यशङ्कर इति प्रथिताभिधानं मानोन्नतं शुचि शिरः श्रुतिशासनानाम् ।
यत्राध्युवास च परं तमसश्च किञ्चित् तत्त्वं ददर्श च चकार च भाष्यरत्नम् ।। १५।।
जिज्ञास्यते न खलु तिष्ठति यत्र साक्षाद् ब्रह्मैव दृष्टिविषयीभवितुं समुत्कम् ।
तत्रैव यत् परमहंस-महामहर्षि-ब्रह्मिष्ठ-यति-योगिजना रमन्ते ।। १६।।
नन्दी शिवस्य रससूत्रमिहैव कुत्राप्यारच्य दर्शयति वै भरताय, तण्डुः ।
अत्रैव ताण्डवविधानसमर्थमर्थसार्थं समर्थयति वाग्भिरुपास्य शम्भुम् ।। १७।।
अत्र स्पृशन्ति न मलाः प्रतिभावतः स्वं सन्धातुमात्मनि विलासयतो वचांसि ।
अर्थः शिवः स खलु, यत्र शिवोहि शब्दः साहित्यमस्ति च तयोः शिव एव बन्धे ।। १८।।
त्वं पुण्यदर्शन उदारतरानुभाव आध्मातविष्णुपदसौरभ आर्य्यजुष्टः ।
नूनं मनस्तव प्रसत्स्यति तत्र पद्म! स्वीकार्यमस्य ननु तन्मम मित्र! वाक्यम् ।। १९।।
अन्याश्रयः स्वगृहदाह उपस्थिते स्यान्नो कीर्त्तिलेशमपि शोषयितुं क्षमस्ते ।
हंसा यथा ननु तथैव तवापि पद्म! वंश्या न नो सरसि तत्र धृताधिकाराः ।। २०।।
एते वयं त्वरितमेव बिसाङ्कुरास्याः संप्रस्थिता ननु समे समवायभाजः ।
तत् पद्मवंशमणिदीपक! मित्र! तूर्णमेव व्यवस्यतु भवानपि निश्चयाय ।। २१।।
पद्मोऽब्रवीत्, सहृदयः खलु जन्मनैव वंशोऽस्ति हंस! सुहृदस्तव भावकस्य ।
धन्या तवाऽस्ति करुणा विपदि स्थितं स्वं नावेक्षितुं क्षणमपीत्थमलं यतस्त्वम् ।। २२।।
वाञ्छा ममापि भवतामपि धाम दिव्यं निर्विश्य जन्मफलमर्जितुमस्ति तीव्रा ।
नेतुं यदित्थमथ पत्रपुटैर्भवन्तः पूज्याः स्वयं व्यवसिता इदमस्ति भाग्यम् ।। २३।।
आकर्षणं महदिदं मम तत्र याने यत् तत्र माध्यमिकदर्शनशाखिनोऽपि ।
विज्ञानवादनिपुणा इव भिक्षुसंघा वैभाषिकैः सह चरन्ति सुबुद्धियोगान् ।। २४।।
शून्यं परात्परयितुं क्रमताममीषां ब्रह्मैव हन्त परमा गतिरित्यवैमि ।
नेतीति यद् ग्रहणमस्य हि कोटियुग्मं ब्रह्मेति शून्यमिति च क्षपणा गृणन्ति ।। २५।।
मीमांसकोऽस्मि नहि दृष्टनिराचिकीर्षुर् दृष्टेतरस्य तु यथाऽस्मि समाजिहीर्षुः ।
कर्म्माध्वनि प्रियतमो मम पात्रवर्त्ति-ज्वाला-घृत-त्रितय-संजनितः प्रकाशः ।। २६।।
शून्यं फलेन मम कर्म हि दृष्टशान्त्या-ऽपोहाध्वना फलति किञ्चन भूमभूयम् ।
तद् ब्रह्म तत्र मम चित्तसमाधिरेष ब्राह्मे सरस्यतितरां ननु सन्निकृष्टः ।। २७।।
यज्जन्म यश्च ननु मृत्युरिदंद्वये यः सान्तत्यवान् वहति कश्चन चित्प्रवाहः ।
तस्मिन् निमज्ज्य विशदीभवतां समेषां शारीरकाध्वरजुषां सरसीह निष्ठा ।। २८।।
स्युर्वैदिकाः सुगतमार्गजुषोऽथवा स्युर्दैगम्बराः, शमधनाः खलु सर्व एते ।
काष्ठेन वा भवतु सिद्धयतु विद्युता वा पाकः स एव यदि किन्नु भिदा क्रियेत।। २९।।
वैवस्वतस्य कृपया सुखदुःखसक्ति-प्रद्वेषयोः सुमनसां समवर्त्तितैव ।
तल्पे प्रसूननिचिते यदिवा चिताग्नौ प्रेतः समं स्वपिति निर्विचिकित्समानः।। ३०।।
स्यान्मानसं यदि सरो यदिवाऽवटात्मा पानीयपङ्कभरितः खलु कोऽपि गर्त्तः ।
तत्रोभयत्र समतां हि विभावयामस् तुष्टौ न चेल्लसति कोऽपि महान् विशेषः ।। ३१।।
तस्मान्मनो मम हठि प्रतिगामिमात्रं नोत्साहमञ्चति मनागपि तत्र गन्तुम् ।
ग्रीष्मं विहाय शरदं यदिवाऽपि पङ्कं त्यक्त्वा सुधारस उपेयुषि किं न मुत्युः ।। ३२।।
यद्यप्यहं कमलया चलया श्रितोऽस्मी-त्यल्पज्ञ एव जलजातिरसौ भवामि ।
त्वं भारतीकरसरोज-पदाऽवमर्श-सौभाग्य-सञ्चितमहामतिवन्दितोऽसि ।। ३३।।
या मामपालयदवर्धयदानयच्च शोभां परां कविषु विश्रुतकीर्त्तिपात्रीम् ।
कृच्छ्रेऽद्य तां पृथगनाश्रववद् विहातुम् आत्मा समुत्सहत एव न किन्तु हंस ।। ३४।।
यो मां समादिशसि गन्तुमितः परत्र कृच्छ्रेऽद्य तस्य भवतोऽपि निदर्शनेन ।
माता मही भवति कस्य न भावपात्रीत्येतद् विचिन्त्य परिमुद्रितचेतनोऽस्मि ।। ३५।।
शुष्कं जलं भवतु काममितः प्रयान्तु सर्व्वेऽपि वारिचर-खेचर-भूचराद्याः ।
नाहं चरोऽस्मि, परिनिष्ठितमस्ति चेतस्त्वेकत्र मे, मम च मूल्यमपि द्विजाऽत्र ।। ३६।।
एकैव मे जनिरथो जननी ममैका नाहं द्विजो द्विजननिश्च भवादृशोऽस्मि ।
तस्मादपथ्यकरमेनमुपास्य भावं नाहं कथञ्चिदपि गन्तुमितः क्षमोऽस्मि ।। ३७।।
अद्यैव मे भवतु नाम शरीरपातो वंशोऽपि मे विलयमेव च यातु सद्यः ।
किन्त्वस्मिताऽनुमनुते न कदापि विद्वँस्त्यक्त्वाऽभिजातिमपरत्र कुतोऽपि यातुम् ।। ३८।।
प्रत्यब्दमेव मम देहमिमं निदाघः क्लिश्नात्यहं न चलतां क्वचिदाश्रयामि ।
जानाम्यनश्वरमथो स्थिरमेकमेव स्नेहस्रुतिस्नपित-मानस-भावमार्य्य ।। ३९।।
अद्यास्ति शोषणयुगं भवतात् प्रकामं श्वो निश्चितो विहगराज स एव कालः ।
आसंस्तु शारदरुचं किरता बुधानां युष्माकमप्यपहृतानि मनांसि येन ।। ४०।।
यूयं प्रयात सरलोऽहमपक्षयेऽपि नो मूढवत् क्वचन गन्तुमितः समीहे ।
भूयोऽपि मानसमणीनपहाय सद्यः साक्षात्करोमि बिसतन्तुबुभुक्षितान् वः ।। ४१।।
यावत् कलेवरमिदं मम साधनाभिः सौरभ्ययोगभरितं द्विजराज! तावत् ।
भृङ्गो न केवलमयं मधुगन्धवाहोऽप्यर्चिष्यति ध्रुवमिमां सरसीं ममार्य्याम् ।। ४२।।
तेनेदमस्तु भवतो बिसतन्तुजालं पाथेयमन्तिमममुष्य सुहृज्जनस्य ।
यायाः शिवं भवतु वर्त्म परं न मां नो संस्मर्त्तुमर्हसि कथावसितं द्विजन्मन् ।। ४३।।
नास्त्येव मे रुचिकरं सुरराजसद्म पद्मापतेः प्रियगृहं गिरिशस्य यद्वा ।
वाञ्छामि केवलमहं मम मातृभूमेर् भूयाद्धिताय जननं मरणं च भूयः ।। ४४।।
भृङ्गीरुतैः कमलिनी तरणिं मयूरैर् भूमिर्यथा क्लमहरं च नवं पयोदम् ।
पद्मं मरालवचनैरथ भारतीया वाग्देवता प्रववृतेऽर्चितुमेवमार्य्या ।। ४५।।
हंसं कमप्युदितमेक्ष्य सहस्रपत्र! त्वं स्मेरमाननमुषःसु बिभर्षि मित्र !
सत्यं मरन्दपृषतैरथ दिग्दिगन्तान् पूताँस्तनोषि निलयो भवसि श्रियाश्च ।। ४६।।
तं त्वां स्तुवीय ननु पौरुषलेशकेन केनाहमार्य्यमृजुधीर् मतिवाङ्मयेन ।
मातुं यदीच्छति महोदधिमात्मचञ्च्वा कारण्डवः किमु स गच्छति पारमस्य ।। ४७।।
त्वं वैदिकोऽसि जननीं न जहासि लब्धसंन्यासगैरिकपटोऽपि य एष धन्यः ।
त्वं शङ्करोऽसि भरतावनिभावभूमिभाष्या-यमाणचरितोऽसि विमुद्रितोऽसि ।। ४८।।
आध्यात्मिकोऽसि, न परन्तु विभाषयाऽपि वैनाशिकोऽसि जगतामभिसंसृतानाम् ।
सान्तानिकेऽपि खलु यस्य विचारमार्गे पात्राऽपनोदनविधौ न मतिप्रवृत्तिः ।। ४९।।
एते वयं शतदलस्य सहस्रपत्रसंघा-त्मकस्य तव मित्र! सरोरुहस्य ।
दृष्ट्वा दलानि विरजस्कतया स्थितानि नित्यं हरिन्ति च शुचावपि विस्मिताः स्मः ।। ५०।।
त्वं बादरायणमहर्षिमतिप्रसूत-स्व-ब्रह्म-सूत्र-परिभाषित-तात्त्विकोऽसि ।
त्वत् केवलान्वयिन एव समेऽपि तर्का आस्तिक्यमेदुरित-चिल्ललिताः प्रथन्ते ।। ५१।।
धर्म्मे त्वमेव तुलनापरमेकमार्य्यमा-चार्य्यकं चरसि यत्प्रमितौ स्वतस्त्वम् ।
वादाः समेऽपि खलु यस्य परात्परत्व-तात्पर्यकाः परिलसन्ति विभूतिमन्तः ।। ५२।।
सर्वाण्यपोहवचनानि, निराचिकीर्षाः कृत्स्नाः, समेऽपि च विधानकृतां निषेधाः ।
माध्वीकमत्रभवतः प्रसरन्निषेव्य श्रीपाद! पद्म! कवितानिगमागमन्ति ।। ५३।।
त्वद्दर्शनानि हृदि सर्व्वशरीरभाजां सौन्दर्य्यमुच्छलितमार्य्यमुपस्रुवन्ति ।
त्वत्कोषकान्ति-सरसी-सरसीरुहन्ति सच्छास्त्रकारवचनानि मधु क्षरन्ति ।। ५४।।
विद्वान् भवानपरिसीमित-चिद्विलास-शास्त्रार्थ-कोटि-कलना-कमनीयताढ्याः ।
स्मेरं मुखं तव निरीक्ष्य पराजयन्तेनास्ति-क्यकौशिकघटाः स्वत एव तास्ताः ।। ५५।।
प्रज्ञा तवैव परपारमिता निरस्त-दुस्तर्क्क-कर्द्दम-परिष्कृति-सारतारा ।
मारापसारपरमा परमार्थवारि-वस्या-रसोत्तम-सरिच्च विभाव्यमाना ।। ५६।।
स्थायी भवान् भवति भारतवर्षनाट्यारङ्गे द्वितीयकलनामसृणोऽद्वितीयः ।
त्वं सामरस्यमभितः परिवर्त्तमानो भावोऽसि भावकचितौ परिभाव्यमानः ।। ५७।।
त्वं स्तम्बतः परपितामहसामिधेनी-स्वारस्य-शाम्भव-कलावधि योगभाग्भिः ।
आलभ्यसे पशुतया बलिना तवैव तद् वैश्वरूप्यमिह तेषु विकासमेति ।। ५८।।
हंसा वयं त्वमसि पद्म इति प्रथायां द्वैतेन मानुषतनौ परिमूर्छितायाम् ।
भ्रान्ता इमे चलितचित्ततया भ्रमामः सर्वत्र न स्थिरतमां स्थितिमाश्रयामः ।। ५९।।
पद्म! त्वदीयमपि दर्शनमस्ति राष्ट्र-व्यक्तिप्रपोष-पर-मेध-फल-प्रदातृ ।
तत्रापि तेन मम नास्ति विमाननाऽस्मि बौद्धोऽपि वेदपथिको व्यवहारमार्गे ।। ६०।।
संवादभाञ्जि सकलान्यपि दर्शनानि तत्त्वं कदाचिदपि नान्यथयन्ति विद्वान् ।
ऊधस्सु सत्स्वपि विभिन्नवपुष्षु यद्वत् पात्रेषु किं भवति दुग्धगुणेऽपि भेदः ।। ६१।।
भूयांसि सन्ति वसनानि विभूषणानि वैविध्यभाञ्जि सुबहूनि च गात्रकाणि ।
यद्वै शरीरि चरमावयवि प्रपूर्णा व्यक्तिश्च तत्र न हि कुत्रचनापि भेदः ।। ६२।।
वारां भवन्ति विविधाः स्रुतयो हिमाद्रे-रुद्भिद्यमानवपुषां तट-पात्र-भेदात् ।
प्रत्येकसीकरकणं ननु शैत्यमुग्धं तोयत्वमेकमुपलभ्यत एव दिष्ट्या ।। ६३।।
शेफालिका-विटप-लग्न-विसंख्य-पुष्पव्यूहे लसत्यपि विशेषगते प्रभेदे ।
सौरभ्यजातिरयि वारिजवंशरत्न! किं भिद्यतेऽद्य गतवत्सरवासरेभ्यः ।। ६४।।
गृह्णीमहे तव सुधामधुरं मृणालं प्रीतिप्रतीकमिव सौहृदसंप्रसूतम् ।
वन्दामहे च तव नैष्ठिकसुन्दरत्वं विस्पष्टदार्शनिक-सिद्धिसमुद्गरत्नम् ।। ६५।।
एते वयं प्रचलिताः स्म इतः स्वकीयं वंशक्रमानुगतमद्भुतमङ्ग! देशम् ।
दोषं वदन्ति सुधियः परदेशगर्धां न त्वात्मभूसमुपसर्पण-पारवश्यम् ।। ६६।।
स्वच्छाशयाश्च नितरां विशदाननाश्च जेगीयमान-गुणगौरव-मण्डिताश्च ।
यस्मिन् वसन्ति सुहृदुत्तम! पण्डितेन्द्रा युष्मादृशा भवति भारतमेतदेव ।। ६७।।
यत् पारमाणवमिदं भयमद्य सृष्टिमेतां जिघत्सतितरामविलम्बमेव ।
मित्र! त्वदीयमिह दर्शनमेतदस्याप्याश्वेव शान्तिमुपपादयिता न शङ्का ।। ६८।।
गर्ज्जन्ति यत् प्रतिदिशं परमाणुशस्त्रा-ण्यद्यार्यशील! परिदुर्बलता मतेः सा ।
स्पर्धेत संभृतसमस्तसमृद्धिकं तैः स्वर्गेण सार्धमवनीतलमन्यथा तु ।। ६९।।
अथ स धवलपक्षो पक्षिणामग्रगण्यः सरसिजसमनुज्ञां मूर्ध्नि शेषां नु धृत्वा ।
अधिहृदयसरोजं किञ्चिदातप्यमानो गगनतलमवापद् धूतपक्षो बिसास्यः ।। ७०।।
इति सरसिजहंसवाक्प्रवाहं कविवरकाश्यपदृब्धमेतमार्य्याः ।
अधिहृदयमतीव जागरूका दधत च संभजताथ चात्मलाभम् ।। ७१।।
प्रथिमभरगुरु स्वतन्त्रतायाः प्रधनमपि स्वभुवः स्वनेतृवर्यैः ।
व्यधित विततमूर्त्ति तादृशानां न खलु जनूंषि भवन्त्यनीदृशानि ।। ७२।।
न खलु न खलु बौद्धैर्नापि जैनैरकारि
क्वचिदपि कविताया भर्त्सना, वैदिकैस्तु ।
व्यधित खलु विधात्रा सार्धमेवाद्यताऽस्यां
करधृतपरिवादिन्यां मरालासनायाम् ।। ७३।।
श्रुतिरपि कवितायामेव लब्धावतारा
विरचितजगतोऽभूद् ब्रह्मदेवस्य चित्ते ।
निखिलवचनरूपा सार्थ-सालङ्कृतेयं
भवति निखिललोके स्वस्ति-सौभाग्ययोगा ।। ७४।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘काव्यमङ्गलं’ नाम एकादशः सर्गः।। ११।। 
द्वादशः सर्गः
स्वातन्त्र्य-सांग्रामिकभावनोद्यल्ललाटपट्टाङ्कित-वीरधाम्नाम् ।
का नाम नाभूदधिभूमि भूमव्यूढात्मनां नारक-कारणैषाम् ।। १।।
भुशुण्डिका-तुण्डमखण्डपिण्डप्रचण्डवृष्टि कवचिदालुलोके ।
समक्षमेतस्य ततोऽपि दार्ढ्याव्याकोशिवक्षःपटलानि नेटुः ।। २।।
प्रालेय-गेयेतर-शैत्य-कष्ट-प्रपुष्ट-पट्टेष्वधि-शायितानि ।
कशाभिघातक्षरदस्रवीरपृष्ठानि घृष्टानि परत्र शेटुः ।। ३।।
अन्यत्र नृत्यद्यमदण्डषण्डप्रोड्डामराः पामरपाणिदण्डाः ।
खण्डानि मुण्डस्य महाव्रतानामौद्भट्याभाजां विदधुर्भटानाम् ।। ४।।
स्फटोद्भटव्यालसमाकुलासु कारासु तारासु च गोधिकाभिः ।
प्राचिक्षिपन् हन्त जवाहरादीन् वीरान् गुरुण्डाः परिपेशलाङ्गान् ।। ५।।
हालाहलोन्मिश्रितभोजनानां कारागृहेष्वेव गलत्तनूनाम् ।
केषाञ्चिदासीद् वरवीरभावाञ्चितात्मनां हन्त तुषाग्निपाकः ।। ६।।
पञ्चाम्बुदेशैकमुख-प्रकाण्ड-प्राचीर-संवेष्टितनिष्कुटे च ।
प्राचीकिरन् संहतिभाक्ष्वसंख्येष्वङ्गारवर्षाणि भुशुण्डिकाभिः ।। ७।।
मृताः कियन्तः क्षपिताः कियन्तः कियन्त आसन् गतसंज्ञकाश्च ।
इत्युल्लिलेखाऽत्र न कोऽपि हन्ता कृतान्तवक्त्रेऽपि दयां विधाता ।। ८।।
गौराः शरीरैर्हृदयैरमान्ध-तामिस्र-तापिञ्छ-मरीचिचौराः ।
सिताङ्गकाकोदरसोदरास्ते किं नाम कुर्युर्न कुकृत्यजातम् ।। ९।।
श्रीः संभृतत्वं प्रबला बुभुक्षा धीरासुरी चाप्यभिसन्निपत्य ।
कं विप्रकुर्य्युर्मनुजस्य काये वसन्तमेकं कृपणं न जन्तुम् ।। १०।।
योऽसौ द्विपादिन्द्रियवृत्तिबन्ध्य-कङ्केलिवाटी-कृकलास-पोतः ।
तन्मूर्धकम्पे स्वरपाणिपातान् नमो दिदृक्षून् ननु वेदभक्तान् ।। ११।।
यो नाम वक्ति प्रभुरेव साक्षान्मनुष्यभावं भजतीति सोऽयम् ।
तिरस्करोति प्रभुमेव पश्यन् सदैव रक्तां वसुधां नृरक्तैः ।। १२।।
व्यात्ताननः काल उपात्तरंहाः कर्क्ष्यत्यसौ कं न चकर्ष कं नो ।
मोक्ता चकं सर्वमिदं गृणानाः कथं श्रिया मत्तमतङ्गजन्ति ।। १३।।
दण्डं श्रयाणः प्रणटत्कृपाणः शाणत्यरं जागरितः परात्मा ।
तत्तक्षणाद् रक्षणमात्मलाभो यद्दर्शनं सोऽपि कथं गतेक्षः ।। १४।।
साम्ना च दानेन च भेदतश्च काँश्चिद् गुरुण्डाः स्वदले निगीर्य ।
प्रभुत्वमन्येष्वनवेक्ष्य दण्डमपातयँस्तेष्ववहेलिताज्ञाः ।। १५।।
अग्निर्भृशं वर्षतु मूर्ध्नि यद्वा शूलानि भिन्दनतु शरीरयष्टिम् ।
सत्याग्रहैकग्रहिलाः परन्तु विरन्तुमीहां न कदापि कुर्य्युः ।। १६।।
यज्ञोपवीताञ्चितमांसलांसश् चन्द्राभिधः संस्कृतवागधीती ।
भक्तः स यज्ञेऽत्र गुरुप्रधानाश्चान्ये वपूंष्यग्र्यहवींषि चक्रुः ।। १७।।
उदित्वरे यौवनशक्तिसंघे तीक्ष्णानि शस्त्राण्यपि जर्जरन्ति ।
पुष्पप्रहारास्तटवृक्षकाणां रोद्धुं क्षमन्ते किमु सिन्धुवेगम् ।। १८।।
बालेन्दिरापि द्युमणेः प्रभात-प्रत्यग्ररश्मिर्नु तमःसमूहे ।
व्यूहे रिपूणां चकमे प्रवेष्टुं श्रीगान्धिमुख्यैर्विनिवारितापि ।। १९।।
व्यधादसावल्पवया अनल्पैर् बालैश्चमूं काञ्चन शत्रुहन्त्रीम् ।
माता पितुर्वानरसैन्यनाम्ना यामाजुहावायतिमीक्षमाणा ।। २०।।
सेनाऽसकौ के नलिनीव वृक्षाद् भृङ्गीः समाकर्षदरातिनीतीः ।
ज्ञात्वा च ता ज्ञापयते स्म सद्यो जवाहरादीन् परमार्थनेत¤न् ।। २१।।
यदा कदाचित् प्रखरा कराली कालीव बालेयमसिं विनापि ।
पराक्रमायोद्यतते स्म कृत्वा शरीरचिन्तां जनकैकसक्ताम् ।। २२।।
पशूपमानैर्लगुडेन गाढं प्रताड्यामानाऽपि गुरुण्डसैन्यैः ।
राष्ट्रध्वजं सा न जहौ स्वशीलं पञ्चालराजस्य सुतेव धीरा ।। २३।।
फीरोजनाम्नाऽल्पवयःप्रमाणेनैकेन बालेयमवाप्तसाह्या ।
बाह्या विधातुं न परैः स्वकल्पादशाकि गौरीव तपःसमाधेः ।। २४।।
रजस्तमोद्वन्द्वयुगे स्वकर्मलक्ष्माङ्कितं सत्त्वगुणं दधानः ।
ज्ञानामनेकत्वजुषां प्रकृत्या कृत्या च तादात्म्यमलं ब्रुवाणः ।। २५।।
वैराग्यमाश्रित्य विशुद्धिरन्तश्चितेश्चिदानन्द उपास्य तां च ।
काञ्चिद् चिरत्नामपि नूत्ननूत्नां सञ्जीवनीं यद्वदुपाश्रयाणः ।। २६।।
हरित् तमालद्रुमसिन्धुतोयैः काशीप्रयागेषु च शङ्खपाण्डुः ।
सुमेरुणा स्वर्णमयीति वर्णत्रयीमयीं भूमिमिमां नु बिभ्रत् ।। २७।।
यद्वा त्रिवेणीमिव पुण्यपुण्यां रक्तां च नीलां च सिताञ्च बिभ्रत् ।
चक्रेण संसारगतिं च चित्रां स्वकर्म-यष्ट्या विधृतां दिदिक्षन् ।। २८।।
वेदत्रयीं कर्मसमिद्धमद्धाऽध्वानं दिशन्तीमिव धारयिष्णुः ।
मनुष्यसृष्टेः कवितेतिहासमहार्थसार्थं नु पुनः किरिष्णुः ।। २९।।
यद्वा मुसल्मान इति श्रवेण सत्यस्य तथ्यस्य च पूजयिष्णोः ।
मनुष्यसंघस्य मतिं नु कीरच्छदद्युतिं काञ्चन सन्दधानः ।। ३०।।
कारुण्यशुद्धयोरथ यीशुधर्मप्रेष्ठात्मनोरीश्वरभक्तिमुक्ताम् ।
व्याजेन शुभ्रस्य गुणस्य सर्वास्वाशावधूटीषु च वर्षयिष्णुः ।। ३१।।
प्रपञ्चसत्ता व्यवहारसत्तावधिस्तदेकं परमार्थसत्त्वम् ।
आर्यामिमां दर्शननीरजस्कां काषायलक्ष्म्या च चितिं विवृण्वन् ।। ३२।।
निकायसन्दानितजीवकोषो नैष्कर्म्यमात्रेण न पूरयेत ।
नृलोकयात्रामिति कर्मसूत्रं तर्कुच्छलेनात्मनि लक्षयिष्णुः ।। ३३।।
राष्ट्रध्वजो भारतराज्यलक्ष्मीसर्वस्वसंकीर्त्तनशङ्खनादैः ।
बालेषु वृद्धेषु गणेषु यूनामास्फालयामास समिद्धमोजः ।। ३४।।
अनिर्विशेषं मिलिताः समन्तात् सर्वे कुमारा अरिनाशनायै ।
एतैस्त्रिरङ्गध्वज-भाव-बोधै-रतिग्मयँश्चेतनमण्डलाग्रम् ।। ३५।।
फीरोजनामा स च पारसीको बालः कुमारी प्रियदर्शिनी च ।
ध्वजं तमेतं निजराष्ट्रशास्त्रं व्याख्यातुमुद्युक्ततमावभूताम् ।। ३६।।
विद्यालयेष्वार्ज्जवतीर्थराजेष्वेतौ ध्वजं स्वं परिरोपयेते ।
कुमाररूपेषु हि शक्तिपीठेष्वग्र्येषु तिष्ठासति कर्मयोगः ।। ३७।।
विघ्नैरनेकैः प्रतिरुद्धवर्त्माप्यसौ न देशो न्यवृतद् विरोधात् ।
संकल्पशक्तिर्गिरिजायमाना भागीरथं नैव जहाति योगम् ।। ३८।।
जवाहराद्या असकृन्निरुद्धत्यक्ता विदेश्यैरसकृच्च देशम् ।
प्रोद्बोधयन्तोऽगृहयन् रिपूणां कारागृहाण्येव निरस्ततर्षाः ।। ३९।।
क्व बालिका सा प्रियदर्शिनी स्वा क्व तत्सवित्री दयितोत्तमा च ।
माता क्व तातः क्व सुखानि च क्वेत्यसौ महात्माऽजगणन्न जातु ।। ४०।।
शौर्येण दुर्धर्षमना मनाक् सोऽपिनाकहस्तो नु पिनाकहस्तः ।
त्रस्तोऽभवद् रुग्णतया प्रियायाः परन्त्वयादग्रत एव युद्धे ।। ४१।।
स्वरूपरानी निजनेत्रतारां यथा पुपोष प्रियदर्शिनीं ताम् ।
वधूं न किन्तु त्वरितां भवान्याः सायुज्यलाभादशकन्निरोद्धुम् ।। ४२।।
सा पद्मिनीह्रासमवाप मार्गशीर्षे च माघे च मधौ शुचौ च ।
आयुष्यतन्तौ तनिमानमाप्ते मुधा सुधाया अपि वर्षणानि ।। ४३।।
रुजा परीतापि न सा मुमोच स्वातन्त्र्यसांग्रामिकतां कृशाङ्गी ।
सत्यं स्वयं रक्षति दैवतात्मा सत्यग्रहस्थानिति भावितात्मा ।। ४४।।
ग्रीष्मे कदाचित् परिशुष्ककण्ठी संज्ञां जहौ कुत्रचिदुग्रतापा ।
भूतानि भूतैर्हि महेश्वरद्भिः पुष्यन्ति मर्त्ये वसुधातलेऽस्मिन् ।। ४५।।
अन्नं शिवो वारि शिवः शिवो हि वह्निः शिवः शाश्वतिको मरुत्वान् ।
शिवो नभः सूर्यविधू शिवौ, स्वं शिवः, शिवो धीः, शिव एव चित्तम् ।। ४६।।
योगः शिवः, कर्म शिवः, स्वधर्मः शिवः, स्वराष्ट्रं शिव, एतदीया-।
भक्तिः शिवा, हन्त शिवः शिवायै शिवः शिवा किञ्च शिवः शिवाय ।। ४७।।
नमः शिवायाथ नमः शिवायै नमः शिवाभ्यां च नमः शिवाभ्याम् ।
नमः शिवाभ्यामथ सन्ततं हि साहित्यभाग्भ्यां समवायभाग्भ्याम् ।। ४८।।
पृथक् स्थिताभ्यामपृथक् स्थिताभ्यां शृङ्गारशान्ताद्भुतरौद्रभुग्भ्याम् ।
भयानकाभ्यां च जुगुप्सिताभ्यां कारुण्यभाग्भ्यामथ हासिताभ्याम् ।। ४९।।
वीरैरनेकैः परिवारिताभ्यां विनायकैस्ताण्डवतोषिताभ्याम् ।
विषाणि पीत्वाऽपि सुधाम्बुवर्षैर्विश्वस्य सौस्थ्याय समुद्यताभ्याम् ।। ५०।।
शिवः शिवां प्रेप्सति मूर्त्तियुक्तां सपीतये चापि सजग्धये च ।
शिवा शिवं चेप्सति तासु तासु कलासु मूर्त्त्यैव युतं युवानम् ।। ५१।।
कामः शिवाद् भेदमितः प्रदग्धः शिवो हि कामः स्वयमेव देवः ।
यस्मादसौ नैव रतिं ददाह रतिप्रियः प्रीतरतिश्च कामः ।। ५२।।
जवाहराद् दूरमिताथ तस्य सत्याग्रहस्यैषु दिनेषु पत्नी ।
सतीव देहं विजहौ तुषाग्नौ वियोगकाष्ठैः परिवर्ध्यमाने ।। ५३।।
संसारचक्रे परिवर्त्तमाने विनिर्मिमाणे च कलाः सकालाः ।
अकालतां स्थायितया करोति रसस्य शृङ्गाररसो हि पुंसाम् ।। ५४।।
तत्रापि यूनां परिभोगयोगे निरन्तरं धीरधियामनङ्गः ।
मूले रसायाः सरसं रसानां स्रोतो नु गूढं नियतायते हि ।। ५५।।
अणीयसामिन्द्रियनिर्झराणां कैलासशृङ्गं खलु काम एव ।
उत्प्लुत्य विप्लुत्य सरावमुच्चै रेवाऽपि नित्याऽत्र हि सर्सरीति ।। ५६।।
ये कामकामा न हि ते भजन्ते शान्तिं वियोगे, सति संप्रयोगे ।
अशान्तिरेतो प्रतियोगिभावं प्राग्भावभेदे ननु देहभाजाम् ।। ५७।।
वैराग्यढक्काध्वनिमुद्गिरन्तः क्रूरं समे दार्शनिकाः ब्रुवन्तु ।
चितिं स्वकीयां निभृतं स्पृशन्तः स्वतःप्रमा किं नहि रागसत्ता ।। ५८।।
प्रभौ सरागस्य हि रागशान्तिर्भूतेषु संभावयितुं क्षमा स्यात् ।
स्त्रीपुंसरागोऽपि स एव रागः सांसिद्धिकः प्रत्युत राग एषः ।। ५९।।
रे रे विरक्ताः कृपणत्वमेषु ब्रुवन्तु वै रागकषायितेषु ।
आस्ते नभश्चेदिह रागमेकं त्यक्त्वाऽपरः कः खलु पूर्त्त्युपायः ।। ६०।।
रागश्चिदाकाशगतो नभस्वान् ऊष्माणमन्तःस्थितिकं समेत्य ।
स एष झञ्झात्वमुपैति यस्मिन् वैराग्यशून्यं न बिभर्त्ति सत्ताम् ।। ६१।।
सत्त्वं च तत् क्षारतरं महाब्धेरम्भो नु यस्मिन् न गतिप्रवाहः ।
गतिं प्रवाहेण युतां हि सन्तो रतिं सकामां हृदि भावयन्ते ।। ६२।।
रामावियुक्तो ध्रियते न रामो दशाननश्चेन्म्रियते न साङ्गः ।
दशाननः कः परिभावयन्तु साहित्यशास्त्रं, स वियोग एव ।। ६३।।
रामश्च रामा च रतिः स्मरश्च शिवः शिवा चेति वचोधिदेव्याः ।
वक्रोक्तिविद्यैव घटोघटीयो न शाब्दबोधो घटतेतरां यत् ।। ६४।।
प्रकारतां वापि विशेष्यतां वा व्यवच्छिनत्त्यन्वयसाधुतार्थम् ।
प्रामाणिकस्तद्गतधर्म-युग्मभेदो हि, नानन्वय इष्यते चेत् ।। ६५।।
द्वितीयसादृश्यमयीं प्रथां चेदनन्वयो हन्ति, महीमहेन्द्राः ।
महाकवीन्द्रा उपमेयमेवोपमानतां वै गमयन्ति तस्यै ।। ६६।।
कामस्य वामां गतिमत्र लोके न्यायो नवो वेत्ति ततः स चापि ।
साहित्यरत्नाकर-मन्थनेषु मन्थायितुं साऽवसरः प्रकामम् ।। ६७।।
स्त्री वल्लरी पूरुष एव तस्याः कृते सदा वृक्षति सा प्रकामम् ।
सर्सर्त्ति, बर्भर्त्ति स चापि तस्यै शाखाशतं तां परिरिप्समानः ।। ६८।।
सुमानुषाणां प्रतियोगितैषा नैसर्गिकः कश्चन संपरायः ।
पराजयो यत्र जयाधिकत्वं पिपर्त्ति सौभाग्यरसप्रपुष्ट्यौ ।। ६९।।
चतुर्भिरप्याननपद्मकोषैः पितामहोऽस्माकमिहैव युद्धे ।
मरन्दवृष्टिं मधुसौरभार्द्ररसोत्तरां काञ्चन सन्तनोति ।। ७०।।
रेवातटे पुंगवमेतमेव स शङ्करो रोहति चारयित्वा ।
सास्नां तदीयां परिवाहयन्ती शिवा शिवादैतमुपैति चात्र ।। ७१।।
नास्त्येव मायाऽत्र सनातनीये रसाध्वनि द्वैतसहाद्वयोत्थे ।
कडङ्गरीयोऽप्यकडङ्गरीयोऽप्यत्राद्मरेऽग्नौ क्षिपति स्वमाज्यम् ।। ७२।।
स्वरूपरान्या अथ मुक्तरक्ताभिख्यस्य तस्यापि महामहिम्नः ।
स्नुषाऽपि भूत्वा कमला न सौस्थ्यं लब्धुं विषेहे शिशिरेऽब्जिनीव ।। ७३।।
स्वातन्त्र्य-संग्राम-निरन्तराय-प्रबन्ध-सान्तत्य-समेधितात्मा ।
संज्ञां कदाचिद् विजहौ विनिन्ये फीरोजशाहेन गृहं च तूष्णीम् ।। ७४।।
अकुक्षिजेनापि च पुत्रकेण तेनाऽभवत् पुत्रवतीव सैषा ।
मातृत्वमाकाङ्क्षति वत्सभावं कस्तत्र कुक्षिर्ननु किं नु जन्म ।। ७५।।
फीरोजशाहः प्रियदर्शिनी चासमुद्रजातामपरां नु लक्ष्मीम् ।
तां मातरं धातुरपूर्वनारीशिल्पोत्तमं चारु सिषेविषाते ।। ७६।।
तां हा कृशाङ्गीं स्वत एव चान्द्रीमाद्यां कलां कृष्णचतुर्द्दशीवत् ।
रुजा व्यधादाः पुनरुक्तकार्श्यां बन्धूत्तमैः साश्रु निरीक्ष्यमाणाम् ।। ७७।।
श्रीनेहरूवंशसमुद्रमध्यादाविष्कृतात्मा नवपारिजातः ।
श्रीमोतिलालः ससुतस्तदानीमत्यन्तमासीन्निरतः स्वराष्ट्रे ।। ७८।।
सा मोतिलालस्य महोदयस्य स्वरूपरानीति कुटुम्बिनी च ।
कृष्णस्य पक्षस्य शशाङ्कलक्ष्मीं विडम्बयन्ती भृशमालुलोके ।। ७९।।
स्नुषा च पत्नी च समं शरीरस्वास्थ्ये प्रकामं परिवृत्तिमाप्ते ।
विरेजतुः पक्वफले नु मोचे पत्रेषु काण्डद्वितये च पीते ।। ८०।।
गृहस्थितिं ह्रासमुपेयुषीं तां वध्वाश्च पत्न्याश्च रुजा स देवः ।
दृष्ट्वापि राष्ट्राय न हि व्युदासाञ्चक्रे स्वराष्ट्रं स्वगृहाद् वरिष्ठम् ।। ८१।।
अत्रान्तरे सा कमलाभिधाना लक्ष्मीः स्वकीयं विससर्ज देहम् ।
तया विनाऽऽनन्द इति प्रतीतं धामाऽभवद् दीपिकयेव हीनम् ।। ८२।।
तस्मिन् समुद्भासितविद्युदुद्यद्दीपेऽपि लेभे न तमः कृशत्वम् ।
चित्तेषु शोकग्लपितेषु बाह्यस् तामिस्रतामाचरति प्रकाशः ।। ८३।।
जवाहरस्योत्सववैजयन्ती प्रभञ्जनेनेव हृता तदानीम् ।
पुनः-प्ररोहं न रुरोह दग्धा लतेव सा दावहुताशनेन ।। ८४।।
तस्याक्षिशुक्ती सृजतः स्म यानि मुक्ताफलाश्रूणि निरन्तराणि ।
तानि स्रजीकृत्य रतिप्रियोऽपि धिग् धिक् शिवेऽजायत जञ्जपूकः ।। ८५।।
तस्यान्तरेण क्वथनेन तीक्ष्णा निश्श्वास-सन्तान-कवोष्णधारा ।
कपोलपालीमरुणां प्रकृत्या चक्रेतरां वै पुनरुक्तसान्द्राम् ।। ८६।।
दिङ्मण्डली तस्य ललाटपट्ट-स्फुटानल-प्लुष्ट-नभोविताने ।
भ्राष्ट्रायमाणे विदधे नृजातिं ततस्तदानीं चतुरस्रदाहाम् ।। ८७।।
तस्य ज्वलल्लोचनविस्फुलिङ्गाः संकल्पयोन्युज्ज्वल-पट्ट-वस्त्रे ।
अनङ्गतां तां पुनरुक्तिदिग्धां चक्रुस्तदानीं प्रणयीतिहासे ।। ८८।।
उदस्ततादृक्कमलाश्रयेस्मिन्नुड्डीन-सौभाग्य-मरालजाले ।
जवाहरे कृत्रिम-पद्म-कल्पे तल्पे च नालक्ष्यत तस्य कान्तिः ।। ८९।।
कश्मीरलक्ष्मीः कमलैव तस्मिञ् जवाहरेऽभूत् प्रतिभा कवीन्द्रे ।
तस्यां गतायामितिहासमात्रपात्रायितत्वं खलु तत्र शिष्टम् ।। ९०।।
तस्मादसाविन्दिरयोत्सुकः सन् पत्राणि तस्यै हिनुते स्म धीरः ।
यान्यद्य विश्वस्य परं निधानं जातानि मुद्राक्षरयोजितानि ।। ९१।।
बालेन्दिरा शान्तिनिकेतनादीनाशिश्रिये संस्कृतिकेन्द्रभूतान् ।
सदाश्रमांस्तादृशतात-पुत्री क्वान्यत्र हन्ताश्रयमश्नुवीत ।। ९२।।
स्त्रीपुंससृष्ट्या यदिवा सुधाया वृष्ट्या नृलोके त्रिजगद्विधात्रा ।
यद्यन्वकम्पि ग्रथितः कथं नु क्रूरोऽधृतान्तःकरुणः कृतान्तः ।। ९३।।
अलम्बुषायामिव संसरन्त्यां सौभाग्यलक्ष्म्यां कृपणः कृतान्तः ।
यत् प्रस्तराम्भोदति तत् क्षिणोति चेतस्तटिन्यास्तटमार्द्रमार्द्रम् ।। ९४।।
मन्यामहेऽस्मिन् नियतैव दंष्ट्राप्रावेशिकी ‘मृत्युमुख’-प्रयोगे ।
परन्तु सन्धौ प्रथमे द्वितीये यद्वाऽसकौ कं न दुनोति सन्तम् ।। ९५।।
निशान्तराले सुधया विलिम्पत्यलं प्रियां कैरविणीं सुधांशौ ।
अकाण्डमार्त्तण्डक-ताण्डवानि पूर्वाद्रिशृङ्गे किमु साम्प्रतानि ।। ९६।।
या कापि कैश्चिन्नियतिर्नियन्त्रीत्येषा विपश्चिद्भिरुपास्यते धीः ।
न श्रद्दधत्यत्र बुधा नियत्याः सदैव धात्राऽन्वितिमीक्षमाणाः ।। ९७।।
अदृष्टनामा यदि नाम कश्चित् स्वकृत्यजन्मा प्रभुरत्र भोगे ।
कृतं दिवा तेन परेण सार्धं पित्रा कृपा-वर्षण-वार्षुकेण ।। ९८।।
जवाहराख्यः सुभगोत्तमः क्व क्व तादृशः स्फूर्ज्जथुरत्र धृष्टः ।
अतः स्वतः प्रच्युतिमाप्नुयाद् वै जगद्विधाता कविशब्दमेरोः ।। ९९।।
धगिति हृदये क्रूरः कश्चिद् दिधक्षति दाहको
ज्वलन इह धिग् धिग् धातून् समस्तशरीरिणाम् ।
विषमविषमाः कुर्म्मस्तत्रापि लौकिकभेषजं
विषमविषमं मृत्यो! तुभ्यं नमस्त्वमसि प्रभुः ।। १००।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘कमलामहाप्रयाणो’ नाम द्वादशः सर्गः।। १२।।