त्रयोदशः सर्गः
क्रमेण सायंतनसूर्य्यकल्पः पिताप्यभूदस्य जवाहरस्य ।
मातापि हेमन्तसरोजिनीव ग्लानिं प्रपेदेऽवयवेषु तीव्राम् ।। १।।
फीरोजशाहेन विदां वरेण श्रुत्वेन्दिरायाः प्रणयानुबन्धम् ।
महद्भिरामन्त्रय कृती स चक्रे ततः सहर्षं परिणीतियागम् ।। २।।
सुखानि कश्मीरगतौ नवीनौ तौ दम्पती सम्यगथान्वभुङ्क्ताम् ।
साम्मुख्ययोगादथ तस्य धातुः परस्य माताऽभवदिन्दिरापि ।। ३।।
सा पुत्ररत्नं सरसीव दिव्या राजीवमादौ सुषुवे शुभाङ्गी ।
पितामही तस्य चकार संज्ञां राजीव इत्येव यथार्थवर्णाम् ।। ४।।
दौहित्रलाभात् स जवाहरोऽपि श्रीमान् प्रहर्षं परमं प्रपेदे ।
वैराग्यमग्नोऽपि शिशुं निरीक्ष्य पुमान् न हृष्येन्न हि स स्वभावः ।। ५।।
पत्युः समक्षं प्रजहाति पत्नी देहं प्रथेयं नितरां पुराणी ।
स्वरूपरानीति पतिव्रतानामग्रयाऽपि तां वै चकमे क्रमेण ।। ६।।
पुत्रं स्वपौत्रयामभिवीक्ष्य तुष्टा पुत्रस्य वैधुर्य्यविषेण दिग्धा ।
स्वरूपरानी कठिनान् कृशाँश्च श्वासानवापच्चरमाननुष्णान् ।। ७।।
श्रीमोतिलालः कमलाविपत्तेः प्रागेव खिन्नोऽपि गृहस्य लक्ष्म्याः ।
स्वरूपरान्या विरहेण लेभे क्षते यथा क्षारमपारपीडम् ।। ८।।
राष्ट्रस्य वैदेशिकपाशबन्धान्मोक्षे नितान्तं निरतः स वाग्ग्मी ।
कारुण्ययोगादधिकं मनांसि वाग्भिर्जनानां चकृषे तदानीम् ।। ९।।
अनेकशो राष्ट्रपतिः स जातो राष्ट्रीयकाङ्ग्रेस-महादलस्य ।
अनेकशश्चापि चकार कारागृहाण्यकम्पः स्वनिवासभूमीः ।। १०।।
श्रीशारदाद्वैतविभूतियोगः स मूर्त्तिमान् कोऽपि वदान्यभावः ।
प्रपूरयामास निजेन भास्वानिव स्वराष्ट्रं परमेण धाम्ना ।। ११।।
भीष्मो यथा रणभुवि व्रणिताच्छरीरा न्निर्गत्य सोऽथ वसुमान् वसुवन्महात्मा ।
भूयोनिवृत्तिरहितानगमन्महार्हांल्लोकान् प्रवाह्य निजभस्म च तीर्थराजे ।। १२।।
याते तस्मिन् पितरि तनयः पुण्यपाकैकलभ्याँ-
ल्लोकानासीदिव निपतितो भूमिलोके द्युलोकात् ।
देशोऽप्येषोऽभवदतितरां नष्टसंज्ञः कबन्धो
यद्वन्मूर्ध्ना विरहिततनुर्ध्वान्तराशौ नु मग्नः ।। १३।।
आनन्दाख्यं भवनमथ तत् स्वामिना केवलेन
यातायात-व्रतपरिगतेनान्वभूच्छून्यभावम् ।
कस्यात्यन्तं विभवपरता दृश्यते वा विधातु-
र्वैलक्षण्यक्षणपरतया भूतधात्रयाममुष्याम् ।। १४।।
क्षारक्षारां गतिमनुभवन् बान्धवानां कविः स
प्रत्याहृत्य प्रतिपदमिदं चिन्तयामास धीरः ।
वृक्षो हालाहलरसमयोऽपीह शक्यः स्वकीयैर्
हस्तैर्नैव क्षपयितुमिति ब्रह्मणे नास्ति मान्यम् ।। १५।।
अथैकदा भावकतातिशीतिं गतः स मृत्युं परिलक्ष्य धीरः ।
सनातनेन ग्रथितार्थबन्धं काव्योत्तमं कञ्चिदिमं पपाठ ।। १६।।
मृत्यो! त्वं खलु कः प्रमीलनकला द्राघीयसी किं दृशोर्
दीव्यद्दीपदशार्च्चिषोः क्षणमितः किं विप्रयोगोऽसि वा ।
बू्रहि प्रस्फुटमद्य मित्र! भवसि त्वं किं चितागर्भयोः
सन्धिर्, ज्ञातमहो नवीननटने नान्दीनिनादो भवान् ।। १७।।
मृत्यो! कुतो निपतयालुरसि त्वमस्माद्
वातायनादुत दिवो यदिवा धरित्रीम् ।
उद्भिद्य निर्भरमिमां किमुवा भुजङ्ग-
लोकोदराद् वद वद क्व नु ते निवासः ।। १८।।
कीदृग्विधं तव मुखं वद मित्र मृत्यो!
किं भीषणं ज्वलनजालपरीतगर्भम् ।
यद्वा मनोज्ञमुषसि प्रविभिद्यमान-
कह्लारकोपममथो मुखमस्ति किं नो ।। १९।।
नो नो भवान् न विमुखो मुखहीनता
ते व्याघात एव वदतः, कवलीकरोषि ।
येनैतदापरपितामहमर्थजातमेतस्य ते
बत मुखस्य कथं न्वभावः ।। २०।।
धिक् किन्तु येन तव दृष्टमिदं स बन्धो!
प्रेतः, स मुञ्चति न मौनमहाव्रतं स्वम् ।
येऽन्ये न तैस्त्वमसि हन्त कदापि दृष्टो
मृत्यो! तटस्थमिह लक्षणमेकलं ते ।। २१।।
मृत्यो! किमस्ति परिमाणमिह त्वदङ्गे
त्वं कं न वै गिलसि भूशशिसूर्य्यसंघे ।
तत्रापि मित्र परमाणुषु रक्तबीजप्रख्येषु
नास्ति नहि ते बत सन्निवेशः ।। २२।।
मृत्यो! वदासि ननु सप्तसु कः पदार्थस्
त्वं भावतां स्पृशसि वा यदिवास्यभावः ।
शेषो भवानयि न भावति नाऽन्यथा तु
ब्रह्माप्यभावतु विहाय तु भावभूयम् ।। २३।।
भूमेर्गर्भात् प्रचलति रसो याति काण्डे ततश्च
शाखारन्ध्रेष्वविहतगतिर् धावति प्राप्तरंहाः ।
पत्रं पुष्पं फलमथ तदीये विपाकेऽदसीये
भोगे पश्चाद् भवति रसनातल्पशायी रसो हि ।। २४।।
मृत्यो! बू्रहि त्वमिह महति प्रक्रमे सावकाशः
कस्मिन् सन्धौ क्व च रसमये पर्वणीक्षोरमुष्य ।
यः प्रोल्लङ्घ्य व्रजति पुरतस्त्वां रसश्चेत् स एव
संसारेऽस्मिन् बत रसमये त्वामभावं मनामः ।। २५।।
कालेन सर्ग-कलन-प्रतिसर्ग-सिद्धि-
संसिद्ध्यदात्म-सकलोत्तर-पौरुषेण ।
मृत्यो! तवास्ति वद कः खलु भावबन्धः
किं ते स तस्य यदि वा त्वमुताभिदा वाम् ।। २६।।
अहह विदितं मृत्यो! त्वं कालसर्पवधूर् दधा-
स्ययि जगदिदं कुक्षौ सूषे च यर्वयसे च तत् ।
त्वमसि जननी स्तन्यं यस्या न वक्षसि जायते
ज्वलति च सदा यस्याः कुक्षौ वृकज्वलनोऽक्षयः ।। २७।।
वदतु भगवन् मृत्यो! कस्ते पुमर्थचतुष्टये
प्रियतम इयं मुक्तिः किम्, सा प्रिया न दिवौकसाम् ।
भवति हि भवान् देवः स्वर्गो हि यत्र परायणं
स च विषयभूर्भोगारण्यं द्वयत्वसुधोज्ज्वलम् ।। २८।।
वदतु नु महामारीकाले भवान् क्व विराजते
यदमृतभुजः सर्व्वे नश्यन्ति नैव भवानयम् ।
अदितिसुतां यद्वन्मृत्यो भवानपरामपि
श्रयति नितरां गूढां काञ्चिद् विशेषकलां न नो ।। २९।।
प्रवदतुतरां नीत्वा संख्येतराञ् जगतीजनान्
वदतु स भवानेभ्यो वासं ददाति सखे! क्व वा ।
अथ किमु तदागारे कुत्रापि पिच्छलपिच्छला
भवति सुलभा काचिद् दिव्या मही कवितामयी ।। ३०।।
नहि यदि ततो मृत्यो! भीतोऽस्मि सा कवितैव या
तिरयति तमश्चेतोधातौ गुणैर्विनिवेशितम् ।
वपुषि शिवयोः काचिद् या वै परत्वमयी परा
परमतमता तस्या अस्याः प्रसूः कवितैव नः ।। ३१।।
अथ भवति सा मृत्यो! त्वं नो भवस्यपरैव सा
भवति वसुधा यस्यां नास्ति क्षमः प्रसरस्तव ।
परमशिवया सार्धं तस्यां स ताण्डवपण्डितो
नटति सततं स्वामी ते कोऽपि चन्द्रकलाधरः ।। ३२।।
नियतिवनिताभाले कस्तूरिकातिलकस्य चेद्
यदि नियमने शौण्डीर्यं तेऽस्ति निष्प्रतिघं सखे!
किमिति नियतिं दुर्व्वारां नो नियच्छसि नीरसां
रसवति जगन्नाट्ये काष्ठस्य पुत्तलिकामिमाम् ।। ३३।।
मृत्यो! प्राणास्तव वद नु के कश्च तेषां त्वमेषः
त्वं किं भोक्ता भवसि किममी सन्ति भोज्यास्त्वदीयाः ।
किं वा प्राणास्तव सहचरा भृङ्गराजस्य भृङ्गा
यद्वत्, किंवा दिनमणितनावंशवः स्वस्वरूपाः ।। ३४।।
आद्ये पक्षे भवसि भगवन् पन्नगः कालवर्णः
ख्यातो यो वै पवनकवलप्रक्रमे विक्रमाढ्यः ।
अन्त्ये मृत्यो! भवति भगवान् भैरवः कालमूर्त्तिर्
युङ्क्ते व्यालावलिमवयवालंक्रियायां य एषः ।। ३५।।
हंहो ज्ञातं भवसि भगवान् भैरवः काशिकायाः
स्वामी विश्वेश्वरपशुपतिप्रख्यया संप्रतीतः ।
देवः सोऽयं हरति सततं यः श्मशानं निवास-
त्यह्नयैव स्मरहरति यो यो भवत्वं च धत्ते ।। ३६।।
सत्यं सत्यं भवहर इह त्वं भवस्त्वं हरस्त्वं
हं हो स त्वं बत हरभवः शक्तिधर्त्ता षडास्यः ।
त्वं सेनानीः सुरपतिपरित्राणकृद्ब्रह्मचर्य्यः
सर्व्वोत्तीर्णः ‘शमनसमना’स् तुभ्यमेते प्रणामाः ।। ३७।।
एते शब्दा यदि तु भवतः संदिदृक्षाऽस्त्यमीषा-
मर्थव्राते नयनयुगलीकज्जले दुर्निरूप्ये ।
काशीं यातु श्रितसुरसरिन्मेखलां सान्नपूर्ण्णो
देवो यस्यां वसति सततं विश्वनाथस्त्वदीशः ।। ३८।।
यद्वा क्षिप्राजलपरिगतां श्रीविशालां विशालां
याहि क्षिप्रं यदिह वसति श्रीमहाकालनाथः ।
कुर्व्वंल्लीलां कवयतितरां यत्र सार्धं कपोतैः
शुक्लापाङ्गे नटति भगवान् स स्वयं कालदासः ।। ३९।।
बन्धो! मृत्यो! भवसि भगवानत्र पुर्य्योः शरीर-
त्यागे प्राप्ते नयनसुभगः कस्य नो दृष्टिभाजः ।
क्रीणाति त्वामिह हि चयनाध्वर्य्यवाचार्य्यवर्य्यं
दासं दासः पितृवनमहाराज्यनिर्द्वन्द्ववासः ।। ४०।।
एह्येहि त्वं सुहृदसि महान् मल्लयुद्धाय भूत्वा
सज्जः पुर्य्योरिह हि विजयो निश्चितोऽस्माकमेव ।
मृत्यो! जीवः पशुरथ पतिस्त्वं तदीयस्त्वदीशो
भाव्येषोऽहं पशुपतिपतिर्विश्वनाथाधिनाथः ।। ४१।।
पिपुरतुतरां बाणास्तूणीं तवान्तक! घस्मरा
निमिषतितरां चक्षुर्देवः स यावदुमाधवः!
भवसि तु यदा संधित्साभिर्मयि व्यतिलङ्घितः
स्मरसखयिता त्वामप्येषोऽद्य भालविलोचनः ।। ४२।।
कथमिति यदि स्पृष्टः प्रश्नेच्छया नचिकेतसे
परमशिशवे वक्रामुक्तिं विसृज्य कृती भवान् ।
शृणु, सति मयि त्वत्ता त्वामेव हास्यति मां यथा
सति परशिवे मत्ता, सत्ता शिवं हि पतीयति ।। ४३।।
कथमिति पुनः पृच्छा जागर्त्ति चेत् त्वयि, तामसं
विसृज महिषं पृष्ठे यस्य स्थितश्चपलायसे ।
वृणु च धवलं कञ्चित् सुस्थं वृषं, क्षमसे यदि
त्वयि वृषगते काचिच्चान्द्री कला समुदेष्यति ।। ४४।।
अयमहमहो तस्याः कोटिद्वयीमृदुविष्टरे
स्वपिमि शिशुकः पित्रोर्दृष्ट्या तयोः परिवीक्षितः ।
न खलु लभते त्वस्यां स्थानं मृगस्य शशस्य वा
किमपि कलुषं गात्रं का वा कथा महिषस्य ते ।। ४५।।
मयि चमरके रङ्कौ पुच्छं हि यत् प्रविकम्पते
विधिकरकृतालेखां तद्वै लिपिं लिखतीव याम् ।
पठतु जगती त्वस्यां रामायणीं कवितां स्वयं
जनकसुतया क्लृप्तां वाल्मीकिधाम्नि सगर्भया ।। ४६।।
शिखरिषु महोच्छ्रायेष्वात्यन्तिकीमणुताप्रथा-
मणुषु च महोत्सेधं सृष्ट्वासि काल! यदि प्रभुः ।
वद तदुभयं रे रे रे मूढ! कुत्र विभाव्यते
किमु मयि तनौ वा मे क्षौरात् तु बिभ्यति बालिशाः ।। ४७।।
भवसि समदो व्यालः शुण्डाभिराम्रवणीमिमां
क्षपयितुमहो काञ्चित् क्लिष्टां गतो बत राभसीम् ।
विकलकरण! स्प्रष्टुं काल! क्षमामपि किं क्षमो
भगवति शिवस्यार्द्धे नित्यस्थितिं जगदम्बिकाम् ।। ४८।।
अहमिदमथो द्वैतं दाम्पत्ययागसमेधितं
सृतिरियमथाद्वैतं किञ्चिन्निराकृतिराकृतेः ।
तदिदमखिलं संविद्भट्टारिका-चरणाम्बुजे
स्फुरदुरुमधूद्रेका काचित् स्वकाव्यकलालिपिः ।। ४९।।
रसयतु रसं चित्रे रात्रिन्दिवं भ्रमरीशतै-
रपि परिवृतः कामी भृङ्गो भवान् मम मानसे ।
भवसि न कृती कालव्याल! क्षणस्य कणेऽप्यहो
पदनखमणौ तस्यास्त्वं किञ्च कृत्स्नमिदं प्रभाः ।। ५०।।
अणुपरमतादुर्ग्गे वज्रादपि प्रखरे यदि
त्वमसि निभृतः काल! त्वं नासि हन्त सुरक्षितः ।
विलसतितरां तत्रैवासौ सहस्रभुजाम्बिका
मम, महिषकं या ते क्षिप्नुर्मुदैव तवास्यके ।। ५१।।
अणुबम! भवान् भ्रष्टो हीरोशिमासुभगाञ्चले
यदि, किमु फलं लब्धं, पृच्छामि वै, भवता ततः ।
विकिरणकलां दष्ट्वा क्रूरा कृतान्तकृकाटिका
किमपि गमिताऽऽभोगं भोग्ये तु कोऽपि न बंहिमा ।। ५२।।
कलुषकलुषं धिग् धिग् यत् ते करालकलेवरं
मुखमिदमहो व्यादानादत्युदग्रमिहेक्ष्यते ।
अणुसख! सखे! काल! त्वं कं नु भीषयसे ततः
शृणु मयि शिरस्कोटिस्ते मुण्डमालति भैरवे ।। ५३।।
तव मुखमहारन्ध्रं फूत्कृत्य हन्त यदृच्छया
सुषिररसितोल्लासं मत्ताण्डवेषु तनोम्यहम् ।
तव च महिषं मृत्यो! पादाहतैः शतशः करो-
म्यथ विलुलितं क्रीडाकन्दुं ममान्वयतन्तवे ।। ५४।।
अयि शठ! मृषावादे चाणक्यतातसि, लज्जसे
किमपि न मनागेष त्वं काल! यज्जरसं हि मे ।
विरसविरसां भुङ्क्षे ध्वाङ्क्षो यथाऽथ विकत्थसे
मम किल खिलीकारे त्रैकाल्यबाधितविग्रहे ।। ५५।।
अथ यदि लिपिं बाष्पोत्पीडैः कपोलतले कृतां
मम ममतया क्लिश्यच्चेतःसु दारसुतादिषु ।
पठति जगती बाष्पैरेवान्यथा करुणाक्षरैर्-
यम! वद न किं श्वेतं पत्रं भवाननुवादकृत् ।। ५६।।
भवति तु महान् ग्रन्थो जीवः स्वयं प्रविकासितः
क्षितिजधरणीसन्धौ पट्टे महीयसि कल्पितः ।
प्रतिनवनवां काल! त्वं संस्क्रियां कुरुषेऽस्य तद्
वणिगसि, न तु क्रेता, कर्त्ताऽथवा, किमु कत्थसे ।। ५७।।
सरति सततं याने सांसारिकेऽन्तक! को भवान्
निगदतु भवाँश्चक्रं तस्यारपङ्क्तिरथाऽस्ति वा ।
भवति यदि वा नेमिर्यद्वा सृतिः क्षितिजावधिः,
किमपि भविता, योक्ता त्वेषोऽस्म्यहं सकशस्तव ।। ५८।।
मम चपलताकाव्याटव्यामलङ्क्रियया रसैर्
ललितमधुरैस्तैस्तैर्विन्यासकैश्च मधुश्च्युति ।
अभिनवतमामन्दानन्दाऽदरादर-पक्त्रिमे
भवति तु भवान् सर्गे पार्यन्तिकी ननु पुष्पिका ।। ५९।।
यदपि च ममच्छन्दः स्वाच्छन्द्यमान्द्यखिलीकृतिं
किमपि जुषते काञ्चिच्छन्दस्वदागमनिस्सृताम् ।
वद वद सखे! काल! त्वं तत्र या यतिसंकुला
पदगतिरपोद्घाते तस्या नु कश्चन सोदरः ।। ६०।।
पटवृतमुखो दस्युः, पाटच्चरः, प्रतिरोधकः,
क्षपणक उदाचारी पापर्द्धिकृत् पथि तस्करः ।
भवति यदि वा स्तेनः श्येनः स कोऽपि भवान् वद-
त्वनुगृहरतो नित्यं रे काल! यो व्रतयत्यदः ।। ६१।।
भवति न भवान् दस्युः, कस्मात्, स रज्यति कुत्रचित्
रसयति रसाँस्ताँस्तान् दारैः समं निभृते कृती ।
त्वमसि तु रसातीतोऽश्वत्थे श्मशानतटोत्थिते
विहितवसतिः कश्चिद् वात्यानुगः कुणपाशनः ।। ६२।।
परिणमयिता शाकम्भर्या उदुम्बरकानने
मरकतरुचामीषत्पक्वात्मनां फलसम्पदाम् ।
भवति नु भवानन्तर्जाग्रच्छताधिककीटकाऽ-
करुणविघसव्यग्रो नाडिन्धमो विषसञ्चरः ।। ६३।।
प्रकृतिनटने कृत्स्ना वृत्तीरुपास्य विमूर्च्छिते
धरति हि भवान्नान्दीनादानुगं ननु सूत्रकम् ।
भरतवचनोच्चारोदन्याऽपि यं परिबाधते
स च न हि परस्त्यक्त्वा त्वां काल! किं भरतस्त्वमु ।। ६४।।
न खलु भरतो भावी श्रीमान् भवान् प्रतिभानवान्
भवति भरतो निर्माणाख्ये मखे सृतिमङ्गले ।
भवति तु भवान् भोक्ता भोग्योच्चयस्य विनाशने
प्रविततबृहत्कुक्षिः कालाद्मरोऽति बुभुक्षितः ।। ६५।।
अलमलमियं गाथा क्लिश्नाति मे मतिवाटिकां
प्रतिगजपरिक्लिष्टोद्घृष्टेव दुष्टकरेणुका ।
प्रमथनकलावैलक्षण्येन यः प्रमथायसे
कुरु बत कृपां स त्वं काल! प्रभुं प्रति सर्प्पणे ।। ६६।।
व्रजति तरुतां मृत्स्ना, पत्रत्वमेति तरुः सुमं
फलमथ परीणामस्तस्यापि चक्षुषि भासते ।
तनयति यदा तातस्त्यक्त्वा पृथक्त्वमहो तदा
व्रजसि कृतितां काल! त्वं, कोऽन्यथा तु, शृणोषि किम् ।। ६७।।
क्षपयसि लतां त्यक्त्वा तस्याः प्रियं बत शाखिनं
क्षपयसि तरुं त्यक्त्वा तस्य प्रियां च लतां हहा ।
भवसि तु ततो मृत्यो! क्रूरोऽतिमात्रमथापि धिक्
प्रथमकवितुः शापस्त्वां नोपयाति विसृत्वरम् ।। ६८।।
भवति धरणिर्दीर्णा, पूरं प्रयाति महोदधिः
पतति गगने चारी कश्चिद् विमानसुपर्णकः ।
ज्वलति च वने यद्वद् ग्रामे पुरे च कृशानुपा-
दिति शतशती लोपे न¤णां कुलस्य निगीर्यते ।। ६९।।
एतत् सर्वं विकलकरणो भावयन्नन्तरेव
न प्रत्यक्षं किमपि वदितुं चक्षमे धीरचेताः ।
ऊर्ध्वान् सर्वानपि स हि विधीन् प्रेतपिण्डानुसक्ताँ-
श्चक्रे तैस्तैर्द्विजसुमनसां कर्मकाण्डैर्विधिज्ञः ।। ७०।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘जवाहरपरिदेवनो’ नाम त्रयोदशः सर्गः ।। १३।।
चतुर्दशः सर्गः
अथ स दयितस्वातन्त्रयात्मा बभूव जवाहरो
निखिलनिगडोन्मुक्तो गेहेऽपि देहसखः परम् ।
चलति नियतेः किञ्चिच्चक्रं शरीरभृतां कृते
रचयितुमिव श्रेणीं पूर्वं हि निश्चितदिग्दशाम् ।। १।।
परिणयवतीं नेत्रज्योत्स्नां नु तां प्रियदर्शिनीं
हृदयसदने स्वर्णप्रस्थो गिरिर्नु पिता सुताम् ।
सुखितसुखितां शश्वद् दृष्ट्वा बभूव कृतक्रियो
दुहितरि महाभाग्याः केचिद्धि यान्ति विचिन्तताम् ।। २।।
भरतभुवनस्वातन्त्रयाग्नौ धनञ्जयतां पिता
सततसुखिता तूणीरत्वं तथैव दधे सुता ।
स च दृढमना फीरोजाख्यो युवापि रथो यथा-
ऽप्रतिहतगतिर्धीमान् साह्यं चकार तयोर्भृशम् ।। ३।।
अधित कमलाभूयं पुत्री जवाहरतां तथा
स खलु सुभगो जामाता तदा, स जवाहरः ।
अपि धृततनू रागातीतो विदेह इवाभव-
च्छकलिततमःस्तोमः स्वातन्त्र्यवासरभास्करः ।। ४।।
सकलनिगडोन्मुक्तः स्वातन्त्रयविग्रह एकलः
सुकृतविशदो लोकस्वान्तैकवल्लभ-वल्लभः ।
स खलु विदधे सेवां श्रीगान्धिनः सुगतात्मनो-
ऽर्जुन इव पुनःप्राप्तौ राष्ट्रश्रिया निजसारथेः ।। ५।।
पितरि निरते राष्ट्रस्वातन्त्र्यरुद्रमहाक्रतौ
दुहितरि पदं लेभे पुत्रोऽपरः किल सञ्जयः ।
अरुणमिव यं प्रातर्वेला स्वराष्ट्रतपस्विता-
तनुमिव परं दिव्यं प्रासोष्ट सा प्रियदर्शिनी ।। ६।।
तनयविशदोत्सङ्गां वीक्ष्यात्मवानथ नेहरू-
र्दुहितरमसौ हर्षोत्कर्षेण कण्टकितो बभौ ।
विधुरिव सितां दृष्ट्वा वेशन्तिकां सितकैरव-
प्रसवसुषमोत्कृष्टां भूयस्तरां विशदैः करैः ।। ७।।
व्यरुचदथ सा भ्राजद्मास्वद्विभास्वर-गात्रको-
दयगिरितटी यद्वत् पुत्राञ्चिता प्रियदर्शिनी ।
जगति जननीभावः स्त्रीणां फलेग्रहिता लता
प्रभवति दृशोः किंवा सौख्याय निष्फलविग्रहा ।। ८।।
अधिगतसुता सेयं सस्यान्वितेव मही दिशां
भरतभुवनस्यैतस्यासीत् प्रणम्यतमा ततः ।
सृतिरियमलंकारं धत्ते प्रसूतिमयं यदा
प्रतिनवतमं नृत्यत्यद्धा तदा स्वजयोन्मदा ।। ९।।
प्रियशिशुरसौ मौतीलालिश्च लालितपालित-
प्रिय-हृदयको दृष्ट्वा राजीवसञ्जययुग्मकम् ।
व्यसृजदचिरादेकाकित्वव्रणं चिरसञ्चितं
मनसि निभृतां क्षीणां प्रीतिं पुपोष च वत्सलः ।। १०।।
जनकरहितः कान्ताहीनो विवाहितपुत्रिकः
स खलु ककुभः सर्वाः शून्या विलोकयते पुरा ।
अभवदधुना भूयो नूत्नश्चिकाय च संमद-
प्रगुण-गरिमस्वातन्त्रयाजिप्रजित्वरपौरुषम् ।। ११।।
इयमपि दृढा पत्यौ पुत्रद्वये च मृगेश्वरी
वन इव पितुर्यत्नव्राते बभूव तरस्विनी ।
स्थिरमतिरसौ फीरोजाख्यश्च गान्धिरपि स्वयं
मृध इह जजागारोन्निद्रालु-राष्ट्र-समिन्धनैः ।। १२।।
पर इव महान् सांख्ये गान्धी च मोहनसंज्ञकः
प्रतिदिनमुदाकर्त्तुं तं पारतन्त्रयनिशाचरम् ।
उदयमभजत् सर्वो लोकश्च तं पितरं यथा-
ऽनुगमनदृढः पूज्यं संभावनाभिरुपाचरत् ।। १३।।
स्वकररचितं वस्त्रद्वन्द्वं वदातरुचि श्रयन्
मधुरवचनः सङ्गोन्मुक्तो यमैर्नियमैर्वशी ।
स खलु महतीं दृष्ट्वा राष्ट्रस्य दुर्गतिमार्थिकीं
शिशिरसमये वार्त्तापत्रेऽशयिष्ट तिरोहितः ।। १४।।
धनविरहितं लोकं दृष्ट्वा तदार्त्तिवशीकृतः
स खलु बुभुजे शाकं क्षीरं च बर्करिकार्पितम् ।
भवति विगुणाचारः कश्चित् कथं ननु नायक-
श्चरितपरमे लोके स्तोकेन भक्तिमुपेयुषि ।। १५।।
दिशि दिशि निजं कार्यं स्वीयैः करैर्हि विधित्वरान्
स खलु विविधाँश्चक्रे विद्वान् कुटीरमयाश्रमान् ।v
विभवभरिते विज्ञानाढ्योऽपि यैः समये तदा
मुनिजनतपोऽरण्यान्याविष्क्रियामिव लेभिरे ।। १६।।
मणिभिरुचिता क्रीडा येषामभूत् प्रथमे वय-
स्यपि नवनवास्ते ते यूनां व्रजाः सजवाहराः ।
स्वकररचितैर्वस्त्रैस्तुष्टा अनैषुरिमान्यहा-
न्युपचितदृढोत्साहा आङ्ग्लानितोऽपनिनीषवः ।। १७।।
यवनजनतां भेत्तुं तद्भिन्नधर्मजनावले-
रथ विरलितोत्साहा वैदेशिका जिनसंज्ञकम् ।
प्रथितयशसं प्रज्ञावादेषु सम्यगसाधयन्
विफलमभवद् यस्मिन् गान्धीजवाहरयुग्मकम् ।। १८।।
विविधविविधैर्यत्नैर्देशान्तरस्थितिमीयुषा-
मपि विचलितं जातं चक्रं पदेऽत्र महीयसाम् ।
अथ जलनिधिश्रुत्यङ्केन्दोरगस्तशरेन्दुके-
दिवस उदगात् स्वातन्त्रयेणैव साकमहर्पतिः ।। १९।।
उदयशिखरे साहस्री पारतन्त्रयशरन्मयी
विनिहितपदा पूर्व्वं यासीदजायत साऽधुना ।
अपरजलधौ मग्ना येनाऽभवत् स दिवस्पति-
र्भरतभुवनाकाशे मुक्तो नु राहुपरिग्रहात् ।। २०।।
क्व नु खलु तदा नासीत् कल्लोलिनी परिवाहिता
प्रमदमनसां सोल्लासानां प्रहर्षमयी सताम् ।
प्रतिगृहमदेदीप्यन् दीपा ध्वजाश्च समुन्नता
नभसि हृदयप्रख्या लोकस्य तीव्रमनीनटन् ।। २१।।
अपि कृपणतागर्त्ते मग्नास्तदा मुदितान्तराः
स्वकरयुगलात् स्वर्णप्राग्भारमद्य समाकिरन् ।
अपि च विधना मुक्तोत्कण्ठा जयानुदघोषयन्
मुदितमुदिता रन्ध्रं व्योम्नस्तदा समबीभरन् ।। २२।।
जयति स महान् नेता गान्धी स वीरजवाहरो
जयति जयति श्रीमान् स्वातन्त्र्यसूर्यमहोदयः ।
इति परिगता वाग्भिः काष्ठाः प्रसादमवाप्नुवन्
निगमनिगदैर्यद्वत् पुष्पाञ्जलेः प्रविसर्जने ।। २३।।
विरचितमिदं गेहं पूर्व्यैर्ममैव परन्त्वहो
विहितवसतिः कश्चिद् वैदेशिकोऽत्र विसंस्कृतिः ।
मम हि नितरामस्मिन् वैदेशिकत्वमुदीर्यते
मम च भवने पूज्या देवाः प्रयान्ति तिरस्कृतीः ।। २४।।
अयमहमिह स्वीये पैत्रये गृहेऽस्मि खिलीकृतिं
भृतिभिरुदरं बिभ्रत् सोढुं परैर्विवशीकृतः ।
मम हि कनकस्थाल्यामेते क्षुधा परिपीडितान्
मम हि शिशुकान् दर्शं दर्शं धयन्ति घृतौदनान् ।। २५।।
इयमिह ममोदन्याक्लिष्टा पुरन्ध्रितमा रमा-
ऽऽनयति सलिलं मूर्ध्ना कूपादतीव दवीयसः ।
अयमथ परीपाकः पापस्य मे यदसौ परः
स्नपयति ततः श्वानं स्वीयं मयि प्रतिगर्जितम् ।। २६।।
प्रददति पयो यद्वै गावो मर्मार्धमृताङ्गकाः
प्रविरलबुसाः क्षामक्षामैः करैर्मम पीडिताः ।
अहह तदिदं पापैरेतैः परैः प्रभविष्णुभिः
प्रसभमनले पातं चायार्थिभिः परिलम्भ्यते ।। २७।।
चणकबहुलं यद्वै गोधूमचूर्णमियं वधू-
र्दिवसविगमे स्थाल्यामस्यां पिपक्षति गर्भिणी ।
न खलु सुषिरं तस्याः शक्नोमि पूरयितुं तथा-
प्ययमहमहो क्रूरान् दातुं बलीन् विषयीक्रिये ।। २८।।
इयमपि मही माता प्रत्यब्दमेव कुसूलका-
दपगतमणुप्रख्यं धान्यं मम स्वयमत्ति वै ।
अयमथ करः शास्तुः प्रत्यब्दमेव धनं यथा
प्रचयमयते क्रूरक्रूरस्य वार्धुषिकस्य वै ।। २९।।
अनलमनिलैः शीतोद्धाते हिमेन खरीकृतै-
र्बहिरुपशमं यातं प्राणाः प्रधुक्षयितुं स्थिताः ।
यदिदमुदरं दग्धुं क्रूरो ममौदरिको महान्
विषमविषमो वह्निः क्षोभं ह्यसौ प्रतिपद्यते ।। ३०।।
मम वसुमती सूते शिम्बीः, हरेठुलतोद्गताः,
मरकतशुकस्वच्छच्छायाच्छटाः, मसृणत्वचः ।
अथ च शलभा दीर्घग्रीवा उदित्वरविग्रहा
गगनजठरे सार्धं वर्षोपलैरिह पातुकाः ।। ३१।।
प्रसरति महामारी, दावानलस्य नु हेतिषु
प्रखरविसरा वात्या, सर्वङ्कषा मम सीमनि ।
प्रभवति तदा रोद्धुं को वा यमस्य विसृत्वरं
बत बत महापाशं प्राणेषु घस्मरमद्मरम् ।। ३२।।
विविधविविधा न्यायागारा इहार्य्यमनीषयो-
ज्ज्वलतरकृतिप्रेष्ठैः श्रेष्ठैर्जनैर्ध्युषिते पदे ।
अनुचिति-चितैस्तैस्तैर्मार्गैरधर्म्म-समृद्धये
दधति परमां शक्तिं मायोत्तरां हहहाधुना ।। ३३।।
उदयमयते व्यक्तिर्, ह्रासं व्रजत्यधुना नृणां
निखिलफलदः कल्पाभिख्यः समाजमहाद्रुमः ।
स्वसरि भजते कंसप्रख्योऽग्रजो न दयामथ
स्वसुरपि मतिर्भ्रातर्यद्याऽस्ति हन्त कषायिता ।। ३४।।
दधिशरतया भुङ्क्ते चूर्णं यवस्य विमिश्रितं
पयसि युवको द्रौणिर्यद्वत् क्व नाऽद्य पदे पदे ।
कथमयमलंभूष्णुर्भावी महीयसि मङ्गले
पथि सुमनसां धर्त्तुं पादान् दृढान् धरणीधरान् ।। ३५।।
छलयति सुखं कृत्वा पुण्ड्रं ललाटतटेऽधुना
द्विज इति जनान् सर्वोऽखर्वो हहा द्विजराडसौ
न च कलयते तस्मिन्नस्मिन्नवद्यकलामपि
प्रतनुतनुकामल्पादल्पामपि प्रतिपालकः ।। ३६।।
विकिरति सुधामेषा रागैः स्नुषा मम गीतिषु
श्रुतिसुखलयैस्तालैस्तारैः स्वरैर्ननु सप्तभिः ।
प्रथमति परं या वै प्रेष्ठा प्रभोः सुदती, यद-
प्यभिनयति सा मञ्चे पाश्चात्त्यके भरतावनिम् ।। ३७।।
अतिशयकृतान्वीक्षास्तत्त्वेषु शास्त्रशतेऽप्यमी
विपदि पतिताः दंद्रम्यन्ते बुधाः प्रतिभाजुषः ।
इयमिह विदामाङ्ग्लीभाषाविदां परिषत् सुखं
ग्रसयतितरां सर्वान् राशीन् निजैर्निभृतं चरैः ।। ३८।।
अपि निवसनं वैदेशिक्या श्रिया परिमण्डितं
य इह विबुधा वस्तुं केचित् परं प्रभविष्णवः ।
भवति तरुणा तेषु स्वैरं प्रभोः करुणा परा-
त्पर-पद-कृतस्थानस्याशास्यदूरतरा परा ।। ३९।।
न च परतमेष्वाविष्कर्त्तुं नवां पदवीं क्षमे-
ष्वधिगतपुराकल्पेष्वात्मेश्वरेषु बुधेषु नः ।
विरमपि मतेः शाठ्यां वैदेशिकस्य महाप्रभोः
प्रसरतितरां श्रद्धाह्रासश्च भारतवासिनाम् ।। ४०।।
इति कलयतां यूनां चित्तेषु वार्धकशालिना-
मिव भृशतरस्तापः संवावृधीति यथा यथा ।
भरतभुवनस्यात्मन्याविष्क्रिया प्रसरीसरी-
त्यनुदिनमथोल्लासस्याशोत्थितस्य तथा तथा ।। ४१।।
हृदयमभितश्चक्रं किञ्चत् परिभ्रमति प्रियं
मधुमयमभिष्यन्दं सौन्दर्यशालिनमुद्गिरत् ।
भरतभुवने तास्ताः सूतेतरां तदिदं कलाः
स्वरलिपिपरीणाहोन्नद्धाः स्म, तच्च जहौ गतिम् ।। ४२।।
सपदि तदिदं स्वैरं भूयः प्रवृत्तिमुपागतं
गतियुतमिव भ्राम्यद् देशेऽधुना समलक्ष्यत ।
न खलु परतां लोकस्तात्पर्यतः स्वति, या स्वता
परति यदपि ह्यस्यां कामं स एष कटू रुषा ।। ४३।।
दलितदलिता भूमिर्याऽभूदितः प्रथमं निजा
शतशतपराघातैः सा साम्प्रतं पुनरप्यभूत् ।
उदितनिटिला, पङ्कव्रातं विदार्य्य सरोजिनी
विकचकमला यद्वत्, सौरभ्यमेदुरितान्तरा ।। ४४।।
स खलु भगवानादौ श्वेतो वराह इलामिमां
सलिलनिहितां पूर्वं पातालगामुददीधरत् ।
अथ मतिमतां श्रेष्ठं गान्धीजवाहरनामकं
युगलमधुना गौराङ्गाणां ग्रहादसमग्रहात् ।। ४५।।
न खलु विहितं युद्धं, शस्त्रं न वापि करे कृतं,
न च विपदपि द्वन्द्वं यद्वा परान् समजिग्रसत् ।
अथ च विजहू राष्ट्रं हैमं नु भूमितलं परे
स खलु महिमा सत्याहिंसाव्रतस्य महात्मनाम् ।। ४६।।
महिषविरुदे रक्षोराजे चराचरजित्वरे
जन-धन-परीवार-व्राताद्मरेऽखिल-घस्मरे ।
अलमलमभूद् दुर्गा शक्तिः पुरापि सुरौजसां
मिलितमिलितैः संघैर्व्यूढा स्व-तन्त्र-पुनःस्थितौ ।। ४७।।v
हिमगिरिगुरुग्राव्णां सङ्गीतमङ्गलपौष्करी
जलनिधिमहावीचिव्रात-स्वरोत्तममूर्च्छनाः ।
अपि बहुतिथात् कालाद् भेजे पुनश्च दिगङ्गना
भरतभुवने तेनुस्तेनाऽथ लास्यमहोत्सवान् ।। ४८।।
सलिलनिधयो जातास्तस्मिन् क्षणे त्रितयेऽपि ते
घुसृणमसृणाः सर्वे जाम्बूनदस्य यथा द्रवाः ।
मलयगिरिगाः कृत्स्नास्तद्वद् वनस्पतयश्च ते
परिमलभरान् मोक्तुं स्पर्धां यथा दधिरेतराम् ।। ४९।।
धरणिहृदये रूढास्तस्मिन् क्षणेऽथ तृणाङ्कुरा
अपि ददृशिरे रागोन्मत्ता नु केसरदीप्तयः ।
अपि बलिभुजां कण्ठो रागं दधे किल पञ्चमं
न खलु रिषभोद्गारः कुत्राप्यलक्ष्यत जन्तुषु ।। ५०।।
अपि गतधवा नार्य्यः सौभाग्यसौख्यमिवाप्नुवन्
स्थविरतनवोऽप्यासन् नो नो युवान इवोन्मदाः ।
चमदचकरत् कं न स्वातन्त्र्यलाभमहोत्सवः
सुभगललितः कश्चिन्नाट्याप्रयोग इवोत्थितः ।। ५१।।v
समुदममिलँस्तस्मिन् काले समेऽपि महोत्सवा
अनतिकलितानेहोवेलाः परं प्रतिमापराः ।
क्व नु नहि बभौ होला सत्कुङ्कुमा क्व न दीपिका-
शतशतवृतं ज्योतिष्पर्वापि शश्वदिह क्षणे ।। ५२।।
इति जलनिधेर्मन्थाद् यद्वत् कथञ्चिदुदित्वरां
श्रियमिव परां स्वातन्त्रयोल्लासहर्षपरम्पराम् ।v
कठिनतपसस्तुष्टस्वान्ता जना भरतावने-
स्त्रिदिवनिलया यद्वद् भूम्ना समादरिणोऽगृणन् ।। ५३।।
अमृतवितरे राहुर्यद्वत् स्वमात्रपरायणो
यवनतनयव्रातो यो वै पुरा मिलितोऽभवत् ।
स खलु विदधे द्वेधा स्वातन्त्र्यविष्णुसुदर्शना-
दथ च वितथां पाकिस्तानाभिधामगमत् पृथक् ।। ५४।।
प्रथममभवत् कश्चित् कुत्रापि नो यवनाभिधो
न च खलु तथैवाभूद्धिन्दूरपि श्रुतिसंहतौ ।
तदपि पशुभिः सीम्ना भौगोलिकेन हहाऽधुना
व्यधित पृथिवीमातुश्चैतन्यभाग्भिरुरस्त्रिधा ।। ५५।।
अहमिह दधे याज्ञं सूत्रं शिखासहितं स च
श्रयति न तयोर्युग्मं नासौ ममाहममुष्य नो ।v
इति पिशितभुग् वेश्यासक्तः सुराप्रिय आस्रपः
क इह कथयेदात्मा यस्यास्ति राक्षसतोऽपृथक् ।। ५६।।
अथ निगदतो मिथ्या हन्तच्छलप्लुतचेतसः
पितुरपि शिरश्छेदे नित्योद्यतस्य पशोः कथम् ।
भवतु मुसलिम्नाम्नी सत्यप्रियाऽभिहितिर्यतः
स खलु मनुते भिन्नं स्वीयादपि स्वमुदस्तधीः ।। ५७।।
वदतु भगवान् कश्चित् सत्यं मनुष्यमहीतले
क्व नु खलु बभूवादौ हिन्दूः क्व वा बत मुस्लिमः ।v
वचनरचनद्वैधीभावात् कथं चरिताऽपृथक्
पृथगिव हहा जातो जीवो मनुष्यसमाह्नयः ।। ५८।।
रुधिरविकृतेर्जन्तौ भेदो यदि श्रुतिविद्वराः
किमिति दितिजाः कथ्यन्ते ते पुलस्त्यकुलोद्भवाः ।
न खलु न दधू रक्तं ते ब्राह्मणस्य कथं तत-
स्तपसि निरतानघ्नन् विप्रान् हि ते प्रशमे स्थितान् ।। ५९।।
अपि च कुरुभिर्हिन्दूजातेः पुराणनरोत्तमै-
र्यदिह चरितं किं तन्म्लेच्छादमून् व्यतिरेचयेत् ।
किमिति च ततः शब्दे भेदं निरीक्ष्य मनुष्यकं
त्यजति मनुजश्चारित्रेणैकतामपि बिभ्रतम् ।। ६०।।
ज्वलति मृतकस्त्वेषामस्माकमेष सुखं स्वपि-
त्यधिमहि, पुनर्जन्मश्राद्धा इमे न वयं तथा ।
इति मतिरपि द्वैधीभावाय किं ननु कल्पतां
खनति न हि किं हिन्दूर्भिक्षुं पुनर्भव-रेचितम् ।। ६१।।
वयमिह नमस्कुर्म्मः प्राचीमिमे बत पश्चिमां
रविममुमिमे चन्द्रं चामी वयं खलु मन्महे ।
अयमपि मृषावादः, सायन्तने सवने प्रति-
प्रतिपदमिहाप्यैक्यं नो कुत्र केन नु वीक्ष्यते ।। ६२।।
निजनिजमतिस्थेमा, पूर्वग्रहः, करणक्षुधा,
बहुविधपथाध्वन्यानेतान् विभाजयते यदि ।
तदिह न मृषैवैष न् यक्कारपात्रतया महान्
कलुषितमते! जन्तो! स्वात्मा त्वया परिभर्त्स्यते? ।। ६३।।
यदिपरमसौ यूथप्रीत्या पशुर्द्विपदो गृहं
नगरमथवा राज्यं राष्ट्रं च कल्पयते स्वकम् ।
विशति च परद्वेष्टा स्रष्टा च नीतिविषस्य ता-
न्युदय-विलय-द्वन्द्वोद्घर्ष-क्षत-स्व-ललाटदृक् ।। ६४।।
न खलु महिता कैश्चित् ‘त्यागोत्तमा हि भुजिक्रिया
प्रभवतितरां पुंसां निश्श्रेयसाय सदे’ ति धीः ।
भवति कलहो दैवीसम्पद्वतां परिरक्षणे
स च न कलितो विद्भिर्यूथप्रियैरविवेकिभिः ।। ६५।।
विषकलुषितोऽङ्गुष्ठोऽप्यच्छेद्य एव मतः समैः
स्व इति ममतामन्दैर्गात्रे हि दृश्यनरत्वकैः ।
अहह सकलं, ‘निस्संदेहा वयं कलहामहे’
व्यधित कलुषं विश्वं श्वासप्रपूर्णधवित्रकैः ।। ६६।।
एकाऽसौ भूतधात्री तुहिनधवलिता क्वापि कुत्रापि शैलैर्
नीलाब्धीनां पयोभिः क्वचिदतितरला मारवी क्वापि रूक्षा ।v
अस्या भोगे प्रमाणं भवतु किमपि, यत् सत्यमेकं स्थिरं वै
तत्रैतत् तद्धि नान्यन्ननु विपदमृते काञ्चिदेकां समेषाम् ।। ६७।।
यातो हन्त मुहम्मदोऽपि भगवान् कालस्य कुक्षौ लयं
यस्यान्तःकरणे पदं न विदधे स्वप्नेऽपि हन्तच्छलम् ।v
यः शस्त्राय मनश्चकार यदि तद् धर्मस्य हेतोरतो
योऽभूत् कोऽपि युधिष्ठिरः शुभमतिर्भूयो धरित्रीमितः ।। ६८।।
यातो हन्त युधिष्ठिरोऽपि धृतिमान् धर्मे नितान्तं क्षयं
नो दुर्योधन एव शाश्वतिकतां दध्रेऽनुजातैः समम् ।
रामो रावणवद् विहाय वसुधां यातो हि कृष्णो यथा
कंसः संप्रति शिष्ट एष कवितामात्रेऽत्र को वा स्थिरः ।। ६९।।
यो गर्त्ते शयितो न तस्य वदने धातुं विधाताप्यलं
पाथोबिन्दुमुदन्यया कृशतरे का चास्य सत्त्वे प्रमा ।
रे रे पूर्वजगर्वशैलशिखराण्यारुह्य संकत्थनाः
पादद्वन्द्वयुताः, खगा भवथ किं यूयं न, यद् युद्ध्यथ ।। ७०।।
भुञ्जानस्य निरन्तरं वद कदा वैश्वानरः शाम्यति
प्रेक्षावँस्तव तृप्तिरेव कियतः स्थात्री क्षणानेषका ।
यत्त्वं पस्त्यमिव प्रियं प्रियतरं प्रेष्ठं च सृष्टेः परं
रत्नं हन्त निहत्य वाञ्छसि धरां भोक्तुं जडामेकलः ।। ७१।।
यः सोमेश्वररत्नमन्दिरमिलापृष्ठे समग्रेऽप्यलं-
कारत्वं दधदद्भुतं व्यरुजदाः सोऽयं क्व वा दस्युराट् ।
उन्मादप्रभवेषु हन्त विभवेष्वासक्तिभाजः समे
दिग्पालाः शृणुथोत्तरं च ददथ प्रीतिर्जडे किंफला ।। ७२।।
रे रे मीलितलोचनाः! प्रतिमुखं पश्चादिमे धावितुं
व्यग्राः स्वर्णमयीं महार्हकशिपुं प्राप्याऽपि किं जाग्रथ ।
किं निद्रां न लभध्व एव उदितैश्वर्या स्वकण्डूयन-
प्रत्यग्रीकरणोद्यता वदथ का क्लिश्नाति वै वो रुजा ।। ७३।।
इतः पाकिस्तानं प्रविदधुरमी केचन पर-
प्रतीच्यां पञ्चापेष्वथ च परवङ्गेषु च यतः ।
शताब्द्येषा जाता कलुषिततमैतिह्यमनुजा
नरास्रक्संस्रावैः पशुसमुचितैश्चापचरितैः ।। ७४।।
प्रधानं मन्त्रित्वं प्रथममगमद् विश्वपुरुषं
जवाहर्लालाख्यं विशदहृदयं भारतभुवः ।
विरेजे ह्यस्मिंस्तद् भगवति नु काकोदरवपुः
कलङ्को वा चन्द्रेऽमृतवपुषि भृङ्गो नु कमले ।। ७५।।
जिनः पाकिस्तानेऽभजदथ तदा मन्त्रिपदवीं
प्रधानत्वोदग्रां विधिवदुपक्लृप्तां मतिबलात् ।
चतुर्द्दश्यां रात्रिः पिशितरुधिरैः पूरिततनुः
शितौ पक्षे यस्माद् बत बत पिशाचीवदुदभूत् ।। ७६।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘भारतविभाजनो’ नाम चतुर्दशः सर्गः।। १४।।