पञ्चदशः सर्गः
यस्मिन्नचीकृतदिलां भरतस्य धाता
तं वत्सरं स्मरति हन्त यदा चितिर्नः ।
काले गते बहुतिथेऽपि तदैष नूत्नः
कश्चिद् व्रणो रुजति तां बत वह्निगर्भः ।। १।।
वाणिज्यमात्रमहहा मम नाडिकासु
रक्तायते स्म न तु पैतृकमार्यमोजः ।
एकं स्तनं दशति शत्रुदले परेण
पातिव्रतं प्रतिपिपादयिषुस्तदाऽऽसम् ।। २।।
धिग् विस्मृतिं नु गमितं मम सिन्धुतीरं
यत्सैकतेषु निगमानृषयो न्यभान्त्सुः।
काव्यं यदङ्घ्रितलतः प्रबभूव दिव्यं
सा शारदाऽपि ननु नारुणदन्तरं मे ।। ३।।
गान्धिन्! गतं क्व हृदयं स्म तदा त्वदीयं
स्वा भूरदायि तु यदा त्वयका परस्मै ।
कस्तूरवाऽपि न ममर्श तव स्मृतिं किं
तस्मिन् क्षणे प्रसविनी यदि विस्मृताऽभूत् ।। ४।।
रे रे जवाहर! भवान् ध्रियते स्म तस्मिन्
क्रूरे क्षणे यदि लयं गतवान् सुभाषः ।
किं न स्मृतिं स्म कमला तव रोहति स्वा
माता तदा स्मृतिपथं यदि नाध्यरुक्षत् ।। ५।।
कृष्ण स्वयं स भगवान् मुखपद्मकोषे
यां सञ्चिकाय च ददर्श च यत्र विश्वम् ।
सेयं मही यदि परं मृदिति प्रसिद्धया
व्यापाद्यते कृतमहो निजतन्त्रताभिः ।। ६।।
एकातपत्रमहिषी सुतमात्मवन्तं
प्राप्तुं मुखे बकुलशीधुसुगन्धितेऽपि ।
यामादधे भरतभूमृदमार्य्यचित्ता
तां मृत्तिकेति यदि नाम जडा विदन्तु ।। ७।।
कस्यावमाननविषस्य महाकृशानुः
संहाररात्रिमिह ताण्डविनीं चकार ।
वङ्गे च पञ्चसरितां प्रसरे च पूर्वं
स्वातन्त्र्यकाष्ठपुरुषाधिगमात् स्वदेशे ।। ८।।
तूर्य्योत्थितेन महता ध्वनिना कथं वा
देशेऽत्र हन्त युगपद् द्वितयं लुलोके ।
न¤णां नृभिः क्षतजपानमिह त्रिरङ्गो
धर्मध्वजश्च निटिले भरतस्य भूमेः ।। ९।।
सौभाग्यबिन्दुरबलालिकसीम्नि योऽयं
प्राचीललाटफलके रविवद् व्यराजत् ।
सोऽसौ महापुरुषमातृजनस्य पापै-
राकालिकीं बत कथानकतामवापि ।। १०।।
सीमन्तपालिषु मधुव्रत-वर्णचौरा-
स्वेतासु यासु कुसुमावलयो विचेरुः ।
ता एव संप्रति सतीव्रतरक्षिणीना-
मुल्का-निपातन-शतान्यनुबोभुवत्याः ।। ११।।
सौभाग्यसिन्धुषु बलीपलितेषु काक-
पक्षप्रभेषु पुरतः कुलकामिनीनाम् ।
केशेषु कर्बुरकपोतमहांसि हन्त
क्रूरै रजांसि सुचिराय निवासितानि ।। १२।।
याः स्थण्डिलेऽपि चरणार्पणिकास्वशक्ताः
प्रेयोजनाङ्कशयनीयसुखान्यवापुः।
ताः सेहिरे विवसनीकृतगात्रयष्ट्याः
केशेषु भूमिपतिताः परिकर्षणानि ।। १३।।
नौद्वाहिको विधिरगादधुनाऽवसानं
प्रेयानदादलिकसीमनि कुङ्कुमं नो।
यावत्तु तावदपकारिभिरेतदस्याः
सौभाग्यचिह्नमसमं विलयं व्यसोढ ।। १४।।
कस्तूरिका-मकरिका विशदे कपोले
स्वेदद्रुतीरनुबभूव तु यावदेव ।
तावद्विलोलकबरीषु धृताः कृषाङ्ग्यो
धिग् रक्षसामसिषु सञ्चरमाश्रयन्त ।। १५।।
तार्चि\कर्भटीरिव कपिः, विसिनीर्नु कुम्भी,
मुस्तां नु शूकरकुलं सुभगा रिपौघः ।
क्रूरं चचर्व परितः पिशिताशनो नु
गृध्रः शबान्त्रलतिकाः पितृकाननेषु ।। १६।।
पत्रावली-विरचना-चतुरेषु वीरे-
ष्वस्तङ्गतेषु यवनैर्महिलाजनानाम् ।
अङ्गानि तप्ततमतैलकणान् निषिच्य
भेरीरवैर् विवसनान्यभिचालितानि ।। १७।।
याः काश्चन द्रुतमुपेत्य वनानि वृक्षे-
ष्वाबध्य पाशमुपघातमवापुरार्य्याः ।
तासामपि क्षितिशयानि विधाय गात्रा-
ण्येभिः कृतान्तहतकैर्विधुरीकृतानि ।। १८।।
यासां कृते समभवत् पतिपुत्रिणीनां
पार्श्वप्रवर्त्तनमपि प्रथितं श्रमाय ।
ता एव साध्वससमाकुलिताङ्गयष्ट्याः
कूपेषु पेतुरबलाः कनकोत्पलाङ्गयः ।। १९।।
वापीषु काश्चिदपतन्नपतँश्च काश्चित्
कूपेषु, वह्निषु च काश्चिदहो निपेतुः ।
वीराङ्गना अथ च काश्चिदुपात्तखड्गाः
साम्मुख्यमापुररिभिश्च जहुश्च देहान् ।। २०।।
येषु स्तनेषु मधुरैर्हरिचन्दनानां
लेपेन वल्लभकरैररुणोदयोऽभूत् ।
तेष्वेव बर्बरकरैरधुना कृपाणी-
घातेन हन्त रुधिरावलयो विसस्रुः ।। २१।।
येषां विमुग्धहसितैरुषसीव बाल-
कुन्दैः पयांसि जननीजनताऽभ्यवर्षत् ।
तेऽप्यर्भका बत बत ज्वलनैधितेषु
शूलेषु हन्त परिभावनमावहन्त ।। २२।।
बध्वा पतिं तरुषु रज्जुभिरस्य पार्श्वे
नग्ना विधाय वनिता द्विपदैः प्रकाशे ।
किं किं न नग्ननटनं किल कर्त्तयित्वा
वक्षोजयुग्ममहहा विहितं समक्षम् ।। २३।।
जानीमहे जनकजा दशकन्धरेण
स्तम्बेरमेण नलिनीव समृद्धृताऽऽसीत् ।
तस्या कृते परमसौ भरतस्य धात्र्याम्
़ऋक्षैः सवानरखगैः प्रलयोऽतनिष्ट ।। २४।।
आर्या सती द्रुपदजा परिधर्षिताङ्गी
चुक्रोश यत् तदभवत् सगुणत्वहेतु ।
ईशस्य, हन्त, परमत्र सहस्रशस्ताः
संख्यावतामपि मनःसु न विक्रियायै ।। २५।।
हा हन्त हन्त परमद्य मनस्विनीनां
व्यूहस्य कारुणिकदारुणचीत्क्रियाभिः ।
आपूरितं गगनमस्ति समस्तमेतत्
तूष्णीं स्थिता च जगती, मृतपुत्रिकेव ।। २६।।
धारां न तिग्मयति शोणितनाडिकासु
प्रस्पन्दमानवपुषं प्रबलोऽपि दोषः ।
यस्मिन् गृहे पितृवनादपि तन्निकृष्टं
क्रोशद्वृकान्वयमुखादिति घोषणा नः ।। २७।।
श्रुत्वाऽपि सीमनि निजे परकीय-
मत्याचारं जुगुप्सितजुगुप्सितमार्त्तमार्त्तम् ।
ये नो भवन्ति सरुषः, पुरुषा न वै ते,
श्वानोऽपि नैव खलु ते, ननु ते पिशाचाः ।। २८।।
ते बर्कराः खलु भवन्ति विषाणहीनाः
सूनां गता अपि न येऽवहिता भवन्ति ।
रात्रिन्दिवं परिनिमीलितचेतनास्ते
स्वापं धयन्ति, न कदापि युगप्रबोधम् ।। २९।।
पुंसां तु भूषणमिदं युधि वीरभूमि-
मासाद्य धर्मपरिरक्षणदक्षता यत् ।
युद्धं च तद् यदबला जननी जघन्यैश्
चञ्चूर्ण्यमाणपृथुका सति शासकौघे ।। ३०।।
अंचल स्तनः
स्तन्यप्रदाऽपि जननी गलदश्रुधारं
तारं च रोदिति यदि क्वचिदप्यवन्याम् ।
धर्मो हतो ननु, दिवा सह भूमिरेषा
याता रसातलमथो प्रसभं, न शङ्का ।। ३१।।
एको बभूव शिवराज इत प्रतीतो
लब्घ्वापि यो यवनमानवतीमहासीत् ।
तस्य स्थलेऽत्र यवनैर्बत तत्स्वसॄणां
गुह्येषु भल्लशिखराणि निवेशितानि ।। ३२।।
येनाबलाजन-पयोधर-कर्त्तनानि
बालव्रजस्य गृहभित्तिषु खानितानि ।
देशे तपोधनतपोमहिते कृतानि
स्वातन्त्र्यमेतदयि भो वद किंगुणं नः ।। ३३।।
स्वातन्त्र्यमेतदिह केवलमस्मिताया
ग्रन्थ्रिर्न येन निजता परिरक्ष्यतेऽत्र ।
स्त्रीणां पतिव्रतपरायणमानसानां
पुंसाञ्च वीरललनाञ्चलपालकानाम् ।। ३४।।
याते श्रुतिं भरतभूजननीशिशूनां
तादृग्विधे हृदयदारुणवृत्तजाते ।
दूरं घृणाकवलितः स्वशरीरबन्धं
श्रीमालवीयचरणो द्रुतमुत्ससर्ज ।। ३५।।
ईदृग्विधः परमहंससमानभावोऽ-
प्यार्यां स्वसंस्कृतिमुपासितुमेकनिष्ठः ।
पीडामयेन जननीपरिधर्षणासु
व्रीडाव्रणेन मथितः स कथास्वशेषि ।। ३६।।
क्रान्तिस्तु मानवगुणः स न शान्तभावै-
र्दूरीविधातुममरैरपि नाम शक्यः ।
एतेन सत्वरमधर्मतमो विनाशं
नेनीयते निखिलधार्म्मिकता-हितेन ।।३७।।
नो चेत् स विश्वजनता नतमस्तका यं
मान्यं मिनोति भगवान् कथमेष कृष्णः ।
योगीश्वरस्य पदवीं भजमान आर्ये
कार्ये विनाशकलुषे नियुयोज वीरान् ।। ३८।।
मानेऽथवा यशसि वीरकथाप्रसङ्गे
किं भारतस्य जनता नहि सस्पृहाऽऽसीत् ।
येनेयमाग्रहगृहीतमना मनाग-
प्यन्यस्य नाशितवती नहि मन्दिराणि ।। ३९।।
एतेषु वीरललनाजनितेषु सूर्य-
कान्तप्रभेषु किमु मूर्च्छति नाऽन्यतेजः ।
एतान् नु निर्मितवते मृतमृत्तिकाऽ-
भून्नेपथ्यमुग्रनृपशूँश्च मणिप्ररोहः ।। ४०।।
देवस्य भर्ग इह धीमहि नित्यमेव
स प्रेरयत्यपि च नः सशिशून् सदारान् ।
ताँश्चापि सोऽकबर इत्यभिधानधारी
देवो विहाय नहि कुत्रचिदुत्प्रयातः ।। ४१।।
शैतान इत्यभिहितो यवनीसुतानां
मन्येत चेत् कृतपदो हृदि दैत्यराजः ।
संख्योत्तरा न किमिहापि खरैः परेतैर्
भूतैश्च नः खलु वपुष्षु वसन्ति रुद्राः ।। ४२।।
तन्त्रं किमत्र सति सर्व्वविधेऽपि सत्त्वे
धृष्टो रिपुः प्रसविनीस्तनकर्त्तको नः ।
शूलेशयान् नवशिशून् भगिनीश्च भग्नाः
प्रोद्दामडामररवः खलु चर्करीति ।। ४३।।
नूनं स केवलममुष्य, महीमहिष्या
वीरैः स्वकोष्णरुधिरैः परिरक्षितायाः ।
वक्षःस्थली-विभजनाऽघ-महाविपाक-
ज्वालोऽधमस्य निटिले प्रथितिं प्रयाति ।। ४४।।
सोऽयं पपात भिदुरो विदुरोदितार्थ-
प्रोल्लङ्घनाकृतिरुदग्रतरोऽत्र देशे ।
कौरव्यकेतुषु नियोजितचेतनानां
काऽन्या गतिर्नयपथाद् विमुखेक्षणानाम् ।। ४५।।
भिदुरो वज्रम्, पुंस्त्वमत्र प्रौढ्या।
ये भिक्षितैरभिलषन्ति समृद्धिलाभं
लाभा भवन्ति खलु हानियुता हि तेषाम् ।
वाणिज्यकं च वसुधातलशासनं च
द्रव्ये हि साम्यकणमेव समश्नुवाते ।। ४६।।
धर्मस्य यो ध्वजपटः स्थिरतां स धत्ते
नूनं महापुरुषकार-सुवर्ण-दण्डे ।
नो तत्र शत्रुकुल-वायस-पाद-पातः
शक्नोति हन्त भवितुं गरुडप्रतिष्ठे ।। ४७।।
रक्तेन रक्तमभिलष्यति तर्पितुं यः
स्वीयं परस्य पिशिताशन एष कश्चित् ।
नॄणां चितौ प्रसभमावसथं विधाय
धिग् धिक् प्रणृत्यति चिरस्य चराचरेऽस्मिन् ।। ४८।।
तेनैव पाण्डुतनयाः किल धार्त्तराष्ट्रै-
रुद्वासिता द्रुपदजा च कृता विवस्त्रा ।
तेनैव युद्धदयितेन मनुष्यलोकस्
तैस्तैर्दृढं व्यरचि दुश्चरितैः सशोकः ।। ४९।।
त्वक्, तत्र खर्जनमतीव कटु, प्रकर्षि
कण्डूयनं, ज्वलनमत्र, शमोऽदसीयः ।
एषा यदि स्थिरतराऽद्य नृलोकयात्रा
धन्या ततो बत चतुष्पदतैव धातः? ।। ५०।।
ये रावयन्ति जनतां रमयन्ति ये च
क्रूराश्च सौम्यहृदयाश्च शरीरभाजः ।
सीतेयमस्य नृभुवस्तनया युगस्य
द्वैधं विधाय विशति क्षितिमद्य भूयः ।। ५१।।
एषा कथा न हि विभीषयते कथं वा
रे रे मनुष्य! तव कर्कशमेतदन्तः ।
यद्वा विनाश उपसर्पति दाववह्नौ
वन्या लता भवति हन्त मतिर्नराणाम् ।। ५२।।
स्तम्बरेमस्य वपुषा निहतस्य सिंही-
पुत्रेण तर्पयति कुक्षिमसौ शृगालः ।
वह्निं च हन्त वमति क्षपितार्य्यवंशं
तस्मै नुमः समयमातृकयोपदिष्टाः ।। ५३।।
ऐतिह्यमेव गुरुरस्ति वने नराणां
रे बन्धवः किमु तदप्यवगाह्यते नो ।
कश्चिद् द्रुमो भवति कण्टकसंवृतात्मा
कश्चिच्च किं सुरभिसंवलितो न तस्मिन् ।। ५४।।
सप्तच्छदस्य पयसा यदि लोचनानां
सेकश्चिकीर्षित इदं खलु बुद्धिमान्द्यम् ।
अन्धन्तमो न खलु वाञ्छति संप्रवेष्टुं
ज्योतिष्पथस्य पथिको यदि नास्ति मत्तः ।। ५५।।
रामस्य जन्मभुवि किं ननु वृत्तमार्या
वीक्षध्वमेतदिह मीलितसामिनेत्राः ।
किं विश्वनाथपुरि वा बत विश्वनाथे
धिग् धिक् पुराऽघटत पश्यत तद् विनिद्राः ।। ५६।।
लक्ष्म्या न वै भवति कोऽपि पतिर्न पुत्रो
भोक्तारमेव खलु सा वृणुते क्षणाय ।
भोगश्च हन्त वपुषा प्रबलेन भाव्यः
स्थूलेन हेतिदलितारिबलेन लोके ।। ५७।।
हिंसा हिनस्ति न तथा पुरुषस्य भाग्य-
माहिंसकं व्रतमुदाकुरुते यथा, तत्- ।
चिन्तां करोति परकीयगृहस्य मूर्खः
कुक्षिं स्वकं तु परिपूरयते प्रबुद्धः ।। ५८।।
उज्जास्यते स्वमपरस्य कृते तु येन
पित्रोः कृतेऽपि तनयेन स एष सूर्ये ।
सम्यक् तपत्यपि करोति तमांसि दृष्टौ
कुक्षिं बिभर्त्ति न च नो गगनोदरेण ।। ५९।।
किं वा बिलं विशति नो भुजगः समक्षे
व्यात्ताननं च परिरेचितकुक्षिकं च ।
कं वा बलिं न खलु दूषयते श्वपुत्रो
मार्गे निरावरणमुज्झित-रक्षकं च ।। ६०।।
रे भारतस्य तनयाः! शृणुतात्मरक्षा-
मात्रात्मना न हि बलेन कृतक्रियत्वम् ।
यस्यालिके ज्वलति वह्निखरः प्रकाशो
नैवातपत्रममुमुत्सुकयेत घर्मे ।। ६१।।
पादे प्रहर्त्तुमुचितं यदि ताडिताः स्मः
पादेन तत्र न करस्य कृतेऽवकाशः ।
रे बुद्धिमन्! भरतभूतलपुत्ररत्न!
केयं मतिस्तव युधिष्ठिर-शिक्षितस्य ।। ६२।।
सीतापतौ तव युधिष्ठिर एव यद्वा
श्रद्धा विवासितचतुर्द्दशवत्सरे किम् ।
कृष्णो न किं भवति ते भगवान् प्रतीकः
सर्वंसहस्य नरनीतिपथस्य देष्टा ।। ६३।।
भीष्मो भवान् भवति किं परिपन्थितायै
स्वान्तश्चितेर्य इतिहासतनौ प्रतीतः ।
त्वं द्रोणतां श्रयसि वेतनमात्रबद्धः
किं, किं च शल्यसि पुरस्कृतसत्क्रियाकः ।। ६४।।
दौर्बल्यमस्ति हृदये यदि किं बलेन
देहे तपोभिरतिमात्रमुपार्जितेन ।
अश्रूणि मुञ्चति यथा विधवा तथा किं
त्वं नाश्रु मुञ्चसि विनाशितमित्रगोत्रः ।। ६५।।
आगन्तृ पत्रमुपपादयिता मदीयं
लक्ष्यं भजामि ननु मौनमतः श्रमार्त्तः ।
इत्थं विचिन्तयति यस्य पपात शीर्षे
नो वज्रमुल्बणतमोऽजगरः स सर्पः ।। ६६।।
स्वस्त्यस्तु दाशरथये दशकन्धराय
स्वस्त्यस्तु नास्ति मम कश्चन भेदभावः ।
इत्यामृशन्तमृषयो ममृषुर्मृषोद्य-
प्राणं तु यत् तनयमद्य विषायते तत् ।। ६७।।
स्यात्कोऽपि शासनधुरि स्थितिमान् वयं स्मो
दाशास्तथैव भवितास्म इमेऽग्रतोऽपि ।
तस्मादिलातल इमे पशुवच्चरामो
वीतस्पृहा इति मतौ बत निर्ऋतिस्ते ।। ६८।।
यो नित्यमेव परिपृच्छति कञ्चिदन्यं
कर्त्तव्यकर्मणि निजे स जघन्य एव ।
योऽन्यस्य संश्रयति यानमसौ प्रवासी
प्रावासिकीं क्व विपदं क्षमते विहन्तुम् ।। ६९।।
किं वा वदिष्यति मम प्रतिवेशवासी
मह्यं, भविष्यति महान् मम कीर्त्तिनाशः ।
इत्थं गृहाय ननु यो विचिकित्सतेऽन्धः
स्वस्मै विनश्यतितरां त्वरितं स किं नो ।। ७०।।
पात्रं शुना मम विलीढमिति स्वकीयं
स्वं विस्मरन् भवति यः खलु तत्तितिक्षुः ।
तस्मै स्थिरा कुमतये करपात्रतैव
यद्वा करस्थमपि तस्य हरिष्यति श्वा ।। ७१।।
कौलीनमप्यनुतमत्र य ईक्षते वै
सत्यात्मना, हृदि निजे विजुगुप्सते च ।
तस्मै कुठारति निजोऽपि करः कदल्या
गोत्राङ्कुराय जलमात्रकलेवराय ।। ७२।।
यक्षो वटे वसति निष्कुटसीमसंस्थे
युष्माकमित्यवहितः शणुते य उक्तम् ।
पादद्वयी-तल-गताऽप्यवनिस्तमेतं
श्वभ्रायमाणतनुका निगिलत्यदभ्रम् ।। ७३।।
हृत्वा श्रवस्तव समुड्डयते स काकस्
तत्पक्षतौ ज्वलति हेम, सुहृत् त्वरस्व ।
एतां निशम्य गिरमाप्ततमां च मत्वा
यो धावति क्षितिजमेत्य विलीयते सः ।। ७४।।
कारस्करं घुसृणचूर्णतयाऽभिमत्य
यो वै ललन्तिकति निर्भरमुग्रपित्तः ।
तन्मूर्धनि क्षिपति वज्रमपास्य गुञ्जद्-
भृङ्गाङ्गनाः सुमनसः सुरसन्निपातः ।। ७५।।
ग्राहोऽग्रतो मम, बिभेमि ततो न, सोऽयं
वाहोऽस्ति यत् प्रियतमस्त्रिदशापगायाः ।
इत्थं निमीलितमतिः प्रतनोति झम्पा
गाङ्गे ह्रदे य इह तत्र पतन्ति शम्पाः ।। ७६।।
व्याघ्रस्य कन्दरमसौ प्रविशामि भक्तः
शक्ते, स एष खलु वाहनमस्ति तस्याः ।
इत्थं जडीकृतचितेः पुरुषस्य काये
प्रावेशितस्य तु पशोर् यम एव बन्धुः ।। ७७।।
विश्वास एव मनुजस्य परं निधानं
विश्वास एव मनुजस्य परो विनाशः ।
योग्यादयोग्यमपसार्य ततश्च तं वै
ये विश्वसन्ति विभवन्ति हि ते त्रिलोक्याः ।। ७८।।
वाणी सुधारसमुदञ्चति वक्त्रमिन्दुं
न्यग्भावयत्यथ परिष्वजतेऽस्य दृष्टिः ।
इत्थं रिपौ विभवलोभितमोहितानां
नॄणां गृहाणि पितृकाननतां व्रजन्ति ।। ७९।
काकः पिको भवति वर्णत एव, कण्ठे
तस्यास्य या खलु भिदा नयनाञ्चले वा ।
तस्यां निबद्धहृदयाः शिशिरात्ययेभ्यो
बध्नन्ति नो धृतिमुदारधियो नदीष्णाः ।। ८०।।
शोणप्रवाहपतितोऽपि समुद्रमेव
प्राप्तास्म्यसौ पतति यत् सुरदीर्घिकायाम् ।
सा वै कलत्रमुदधेरिति तर्कमार्गे
ये निर्भरन्ति निपतन्तकि तेऽपि कूपे ।। ८१।।
येषामुरस्सु रमते कमठस्य दार्ढ्यं
येषां च सिंहनखरायति पञ्चशाखी ।
गर्जन्ति तान् प्रति मनागपि नो दिगन्त-
स्तम्बेरमा अपि चमत्कृतचित्तकोषाः ।। ८२।।
ये दन्दशूकलपनेषु मयूरचञ्चू-
चातुर्य्यमिद्धधिषणा दधते प्रकृत्या ।
आस्ते भुजेषु खलु पौरुषभूषणानां
तेषां हि कश्चन षडाननशक्तिधर्त्ता ।। ८३।।
वात्याः प्रवान्ति परितः परिपातयन्त्यो
वृक्षान् शिलोच्चयशिरस्सु विराजमानान् ।
रे कूपदण्ड! मम, पालयिता तरीं त्वं
मार्गेण केन बत दुर्बलपाणिदण्डः ।। ८४।।
अक्षीणि मीलयति कश्चन, दर्शयित्वा
पृष्ठं पृथक् सरति कश्चन, कश्चिदेषः ।
उत्तानबुद्धिरधिभूतलमूर्ध्ववक्त्रः
शेते, विपत्सु निखिलोऽपि धृतिं लुनीते ।। ८५।।
हिन्दूर्हिनस्ति नहि हिन्दुमसौ न, कृत्य-
व्राते पृथग्धनमुपार्जितुमात्तमार्गः ।
स्वार्थं परार्थयति यश्च परार्थजातं
स्वार्थत्वमापयति यश्च तयोर्न जाती ।। ८६।।
आत्मा विभुः प्रतिजनं परिसीमितं च
चित्तं सभूतकरणं, पुरुषार्थसिन्धुः ।
अस्मिन्, द्वये प्रवहतीति समेऽपि सन्त-
स्ताटस्थ्यमेव परमार्थयितुं यतन्ते ।। ८७।।
ताटस्थ्यमेतदुपदीकुरुते विरक्तिं
यां चेतसि द्रुतिमुपेयुषि दृष्टिभेदात् ।
रे प्राज्ञ! रे भरतभूपरिपाल! बालो
व्यामुह्यतीह, न तु कश्चन सत्यवर्त्मा ।। ८८।।
पापं किमस्ति किमु पुण्यमिति प्रमायै
प्रामाण्यमस्ति यदि सुस्थिरविश्वशान्तेः ।
हत्वाऽपि घातयति कञ्चिदतो न कश्चिद्
युद्धेऽपि धर्ममवधारयते स धीरः ।। ८९।।
गीता १८.१७, ०२.३३
लालित्यमुल्बणतया परिणम्य माध्वीं
धारां हलाहलयितुं क्रमते तदानीम् ।
धर्मध्वजा दधति कर्म्मपथोपदेशे
सत्येऽनृतस्य कलनां निभृतं यदानीम् ।। ९०।।
यो वै जिजीविषति सम्यगिलातलेऽस्मिन्
सम्यक्त्वमस्य विबुधैर् विशदीक्रियेत ।
सामाजिकत्वगगनाङ्गणपूर्णिमायां
सामासिकत्वमपि किञ्च विधूक्रियेत ।। ९१।।
हंहो बिभेति पुरुषस्य चितिः कुरङ्गी
सिंहादिवात्र सयमान्नियमाद् वराकी ।
भूगोलभेदमुपजीव्य धृतापवादा
यस्यां परिस्रवति नैव मतिः पवित्रा ।। ९२।।
कार्पण्यदोषकलनोपहता विवेकं
नो शक्नुवन्ति यदि नाम विधातुमत्र ।
तानेव शिक्षयति चङ्क्रमणं युगानां
चक्रस्य कृत्यविधिवर्त्म फलेतिहासैः ।। ९३।।
यं वै कुलीनयति वाङ्मयचक्रमेतद्
विस्फारिताक्ष-मुपदीकृतशुद्धबुद्धि ।
राजानति स्वयमसौ सुभगो धरित्री-
सौभाग्य-सीमनि कृतस्थितिकः स्वशक्त्या ।। ९४।।
भग्नैकपादमपरं परिभज्य पादं
यः पङ्गुतामिह निनीषति काणनेत्रः ।
अन्धं विधित्सति सनातन एतमस्य
प्रोत्पाट्या शिष्टमपरं च सरश्मि नेत्रम् ।। ९५।।
तं केवलं श्रुतिशिरांसि विगर्हयन्ति
शास्त्राणि संस्कृतिलतां खलु यश्छिनत्ति ।
कुक्षिम्भरिष्णुभि-रुपस्थितवारिवस्य-
राद्धान्तिकैश्च चरितैर्विषमेषु लोके ।। ९६।।
यानीतिहासतितउः परिपाव्य शष्पा-
ण्यन्नेभ्य उत्किरति शोणितशक्तिधुग्भ्यः ।
तान्येव यः खलु वृषस्यति निर्विषाण-
स्तिर्यक्चितिर्नरतनुः स पशुर्विपाशः ।। ९७।।
नाडिन्धमन्ति पुरुषार्थपुरस्क्रियासु
कूलङ्कषन्ति परिपन्थि-तिरस्क्रियासु ।
अभ्रंलिहन्ति परमार्थ-महोन्छ्रयेषु
ये तान् स्वयं हि वृणते निजराष्ट्रलक्ष्म्यः ।। ९८।।
यः कान्दिशीकतिविपत्सुविभज्य कृत्स्नान्
सेतून् समस्तजनतारणकीर्त्तिकेतून् ।
स्पृष्ट्वाऽघमात्रतनुमेतमिमे पतन्ति
वाता दवाग्निषु दिशां विजुगुप्समानाः ।। ९९।।
तं पावयन्ति पवमानसमुच्चया नो
राष्ट्रस्य यस्य निटिले न समुत्पतन्ति ।
कर्त्तव्यकृत्यतपसा जनिताः श्रमाम्भो-
मुक्ताः स्वभूमि-परितापमपक्षिपन्त्यः ।। १००।।
पस्त्या भवन्ति खलु ते, न नरा,
धयन्ति सूनापथेऽपि ननु ये मधुरं सतृष्णाः ।
मोघं हि जीवनमिमे रसयन्ति मृत्यू-
त्सङ्गे स्थिताश्च परिमीलितचेतनाश्च ।। १०१।।
कादम्बिनीजठरतो न पतन्ति तेषु
स्फाराणि हन्त सलिलानि मृषानराणाम् ।
अश्रूणि हन्त नभसो द्युसदङ्गनानां
तेषां छलेन निपतन्ति विमानितानाम् ।। १०२।।
एकं क्षणं श्वसिति वीरजनो जगत्यां
संमानतः, स खलु जीवति जीवनार्हः ।
धिक्कारणाकलुषिताः शरदां शतानि
जीवन्तु नाम, मृतकाः खलु ते श्वसन्ति ।। १०३।।
लत्तायुगं सरभसं परिपातयन्तीं
ये वै खरीं न विसृजन्ति खरस्य पुत्राः ।
तेभ्योऽवमान-कलुषाशन-पोषितानां
पुंसां भिदां कलयितुं न वयं क्षमाः स्मः ।। १०४।।
आरुह्य विष्णुपदमाप्य परां प्रतिष्ठां
विश्वं प्रकाश्य परिभाव्य तमश्च योऽयम् ।
अस्तं प्रयाति रविरस्तमितप्रतापः
प्रातः पुनः प्रभवितुं खलु सास्य नीतिः ।। १०५।।
वायुः शुचौ क्षपयते गरलैर्नु वृक्षान्
वर्षासु पोषयति तान् स हि वृष्टिपातैः ।
अन्यत् क्रियेत किमु वा जडताप्रधानैः
सत्त्वैरुपाधिपरमैः करणैकबद्धैः ।। १०६।।
मान्या! मनीषितमिमे न मनीषिमुख्या
यूयं न वित्थ नृभुवः कलि-शोषिंतायाः ।
यच्छिष्यते तु तदिदं तप एव लब्धुं
सिद्धीः, तपो हि दुरतिक्रममामनन्ति ।। १०७।।
तद्वै, परन्तु, न तपः परितापवज्रैर्
दृष्ट्वापि मातरमभिसु्रतरक्तगात्रीम् ।
पुत्रात्मनो नरपशोरसुभिर्ज्वलद्भि-
र्बोभूयते न खलु संयमिनो यदस्मिन् ।। १०८।।
भवतु शिशिरो भूयो भूयः कृशानुरिलासुतां
प्रति परमसौ वीरो लङ्कां दिधक्षति नैव नो ।
भरतभुवनोद्भूताः शूराः! यथासमयं क्षमां
वृणुथ च परित्यक्तुं भूयास्त किञ्च तरस्विनः ।। १०९।।
सनातनकवेरिमां कुरुत दीनदीनां श्रवः-
पुटाहितकलेवरां गिरमिमे समे बान्धवाः ।
स्वमात्रपरमार्थता सृजति मृत्युघण्टारवान्
परार्थपरमार्थता स्पृशति किञ्च शान्तिं पराम् ।। ११०।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘नोवाखालीरक्तपाते परिदेवनो’ नाम पञ्चदशः सर्गः।। १५।।
षोडशः सर्गः
जाते तस्मिन् प्रकृतिपुरुषे भारतानां प्रधाने
मौतीलालौ स्मर इव दृशां द्वौ जनानापिपूर्त्तः ।
रूपाजीवास्विव ननु कलास्वाधिराज्याभिषेकः
शस्त्रेष्वस्त्रेष्विव च परमः स्वावलम्बाभियोगः ।। १।।
प्रकृतिपुरुषो मन्त्री।
विश्वे कोषा ववृषुरवनौ भारतानां प्रकामं
शैला गर्त्ताः सलिलनिधयः प्राभवँस्तान् न रोद्धुम् ।
लक्ष्मीर्लौहं यदि, न भजते चुम्बकत्वं न तस्मिन्
नेतुः स्वच्छस्फटिकविशदं शुद्धिमुग्धं चरित्रम् ।। २।।v
‘माता भूमिर्भवति च सुतो मानुषो ज्येष्ठ’ एषा
श्रौती पद्या क्व नु न हि बभौ कालखण्डे प्रदीप्रा ।
आढ्या नो चेत् कथमिव दृशं पातयेयुर्दरिद्रे
रिक्तश्रीका अपि च किमिवाभ्यर्थयेरन् धनं तान् ।। ३।।
यद्वा शक्तं भवति खलु यत् तस्य वै यौवराज्यं
प्रातःकाले शितकरवपुर्यद्वदौत्सर्गिकं हि ।
शम्भोर्बाणो भवति खलु यः पार्थिवो यश्च जात्ये
रत्ने व्यक्तो भजति समतां भक्तिभाजोऽत्र किं धीः ।। ४।।
पादा लक्ष्म्या यदि दश, गता येषु चत्वार एभ्यः,
तेषामेषामपि भरतभूः प्रीतिपात्रायते स्म ।
सामर्थ्यं वै प्रभवतितरामत्र यत्, तत्र भव्यं
मन्त्रित्वं वै न खलु कमलाभर्तुरासीन्न तन्त्रम् ।। ५।।
यस्यां मिष्टं भवति पतितं तां दिशं वै प्रकृत्या
संसर्पन्ति स्वयमिह समे पङ्क्तिबन्धैः पिपीलाः ।
यत् स्वातन्त्रयं भरतभुवने प्रादुरासीत् तदीया
लक्ष्मीश्चित्तं समधिकमिदानीं समेषां चकर्ष ।। ६।।
स्वातन्त्रयं वा उदधिमथनादुद्गतं दिव्यदिव्यं
पीयूषं वा सुरभिजनितं सर्ववीर्यप्रदायि ।
यद्वा चिन्तामणि-मणिशिलानिर्मितं कौतुकाख्य-
मागारं वा न खलु कमु वाऽतत् समाक्रष्टुमीष्टे ।। ७।।
त्वं वै बन्धुर्मम, मम सुहृत् त्वं, त्वमस्या धरित्र्यास्
त्राता, तुभ्यं भवति मतिमन्नप्रदेयं न किञ्चित् ।
इत्थङ्कारं विकसिततमा भूतभूत्याऽऽभिरूप्ये
श्रेष्ठा ज्येष्ठा अपि भुवमिमां प्रीणयन्ति स्म देशाः ।। ८।।
यद् वै कालायसमिह भुवो वक्षसि स्रष्टुराद्यात्
स्पन्दादेव स्थगितमभवद् यच्च तैलं जलं वा ।
तद् वै सर्वं भरतभुवने यन्त्रतन्त्रैर्धरित्र्या
अस्याः पुत्रोत्तमविरचितैः स्वाधिकारे व्यधायि ।। ९।।
सत्यं सत्यं भरतभुवनस्यास्य ते शैलराजा
भ्राजिष्णुश्री-परिगतशिलाः किं न लक्ष्म्याः समुद्राः ।
एका धारा प्रवहति यतः शीर्षदेशात् सरित्सु
गर्भादन्याऽऽयसरसमयी किञ्च संयन्त्रकेषु ।। १०।।
या वै मन्थादभवदुदधेः शार्ङ्गिणः शेषशय्या-
शृङ्गाराय प्रथितविभवा सा हि राष्ट्रेऽत्र लक्ष्मीः ।
या त्वेतस्मिन्नभिनवयुगाऽऽध्वर्यवे शैलकुक्षे-
रन्तर्देशादुपसरति नः, साऽम्बिका, तां नमामः ।। ११।।
काशीवासिन्! निटिलपटले विश्वनाथ! त्वदीये
कुण्डो वह्नैर्ज्वलति सततं यस्तदीया बुभुक्षा ।
क्लिश्नाति त्वां यदि पशुपते! याहि सद्यो भिलाई-
मष्टौ कुण्डाः उदरदहराद् यत्र हेमोद्गिरन्ति ।। १२।।
राउर्केला यमसदपुरी दण्डकारण्यगर्भः
पुण्यश्लोका अथ च बहवः साम्प्रतं तीर्थराजाः ।
हे विश्वात्मन्निह तव गृहे भारताख्ये क्षमन्ते
त्वां सत्कर्त्तुं शमयितुमिमं व्याधिमक्ष्णश्च सद्यः ।। १३।।
यन्त्रं मुञ्चति यत्र लौहनिभृतान् ग्राव्णः परं विद्रुतान्
प्रज्वालेन समाददाति च बहिर्नीत्वा च मुञ्चत्यहो ।
तस्मात् स्वर्णजलं नु वह्नितरलं कुल्यात्मना निर्गल-
त्यागत्याथ च कुण्डगर्भकुहरे स्तम्भत्वमापद्यते ।। १४।।
स्तम्भास्ते जलवर्षणैर्विगमितान्तर्वह्नयः कुत्रचि-
न्नीयन्ते खलु रेलयानविधृता कार्यालये याचिताः ।
रेलं चक्रचयं च यत्र चलति प्रत्यक्षतस्ता इमाः
पङ्क्तीरेव विधाय नाययति वा कुत्रापि तद् यन्त्रकम् ।। १५।।
त्वं भूपालं व्रज पशुपते! नर्मदाक्षेत्ररत्नं
यद्वा गङ्गाजलपरिगतं श्रीहरद्वारतीर्थम् ।
द्रक्ष्यस्यत्र द्वितयमपि तद् भारताख्यस्य लीला-
मूर्त्तेः शम्भोस्तव वितनुते रत्नवर्षैः सपर्य्याम् ।। १६।।
कश्मीरेभ्यो यदि विचलिता शारदे! मा शुचस्त्वं
मुम्बाम्बायाः करसरसिजं त्वां समाजोहुवीति ।
यो वै पूर्वं क्षपितरुधिरो रक्तबीजस्त्वयासी-
दर्चामस्मिन्नणु-मयतनुः स त्वदीयां चिकीर्षुः ।। १७।।
यत् काश्मीरं गिरिशदयिते! देवि! ते स्तन्यधारा-
शृङ्गारेभ्यः प्रभवति, तृणं तद्धि दूर्वाग्रजातम् ।
भाभातीर्थाद् यदिदमधुना मुम्बयीमातुरङ्कात्
प्रादुर्भावं भजति तदिदं वन्द्यते रत्नराजैः ।। १८।।
देवायत्ता कृषिरिति नदीमातृकाणामिदानी-
मस्माकं नः स्पृशति हृदयं नैव गाथा पुराणी ।
वारां राशीनपि लवणितान् न्यक्चिकीर्षन्त्यमी नः
पीयूषाम्भोनिभृतजठरास्सेतुबन्धा महान्तः ।। १९।।
तार्क्ष्यं लक्ष्मीपतिरयमितः सस्मितं सारयित्वा
नेटाभिख्यं श्रयतु भगवानद्य जेटं च यानम् ।
स्मारं स्मारं हृदि बहुविधं यच्चमत्कारमुग्रा-
दुग्रोदग्रा अपि गगनगा विस्मरन्ति स्मयान् स्वान् ।। २०।।
सस्यैः श्यामामवनिमधुना भारतीयां द्युगर्भाद्
दर्शं दर्शं कविकुलगुरुः कालिदासोऽपि वक्ति ।
धातर्भूयो रचयतु तनुं भारते मामकीयां
शिल्पैः सर्वैरपि समुदितां साम्प्रतं स्तोतुमेतत् ।। २१।।
शप्तो यक्षैरिह धनपते! याहि सार्धं कलत्रैः
सर्व्वैर् गोदापरिसरभुवं साम्प्रतं भारतेषु ।
कुर्व्वन् क्रीडामिह बहुविधां मुम्बयीसिन्धुतीरे
शप्तुं यक्षान् न खलु भविता येन भूयः समुत्कः ।। २२।।
या वै पुंसां हृदि विनिहिता वल्लकी साहितीति
ख्याता व्यक्तिं व्रजति लपनालेखनोत्कीर्णनाभिः ।
रेवा-गङ्गा-दिनकरसुताद्यादि-धारावलीव
स्वत्वं तन्त्रे दधति समयेऽस्मिन्नसौ पोपुषीति ।। २३।।
भेत्तुं जातिः प्रभवति न वै मानवस्याद्य रक्तं
व्यक्तौ वर्णः प्रभवति न वा संविभेदाय पुंसः ।
कोषाः सर्व्वे बलमपि समं भैषजावासविद्या-
स्वातन्त्रयाद्या अपि च सकलाः स्वस्तियोगः समेषाम् ।। २४।।
अभ्युत्थातुं प्रभवतितरामद्य संभूय सर्वो
व्यष्टौ सुस्थं प्रभवतितरामद्य तन्त्रं समष्टेः ।
आ प्रालेयाऽचलमुदधितः काश्यपी भारतीया
श्रीसौभाग्ये प्रतिपथमियं निर्भयं वावृधीति ।। २५।।
तिष्ठन् यात्री भवति मनुजः साम्प्रतं यानराजैर्
निष्पक्षोऽपि भ्रमति खगवत् व्योम्नि दिव्यैर्विमानैः ।
सिन्धोर्गर्भे स्वपिति सुतरां शेषशायीव, शैलान्
पादाक्रान्त्या पशुपतिरिवाक्रामयन् देदिपीति ।। २६।।
कुड्यो कुड्यो चयनयजनं गेहमेधेषु मूर्च्छ-
न्नद्य स्वर्गं रचयति महीं दिव्यभव्येष्टकाभिः ।
गेहे गेहे विभवगुरुता वैभवे वैभवे च
स्वातन्त्रयाढ्या विलसतितरामद्य सौन्दर्यसिन्धुः ।। २७।।
धात्री व्योम्ना विहरतितरामद्य सार्धं समाभि-
र्दिग्भिर्दिव्याभरण-ललित-श्रीवितानाभिराभिः ।
नाट्यां सर्व्वे विदधतितरां मारुता वल्लरीणा-
मन्तर्वत्नीरससुमनसां पुष्पभारैः परीताः ।। २८।।
शम्भुः संप्रत्यनुशयमिवासादयत्यन्तरङ्गे
हं हो व्यर्थं विषमविशिखः प्रापितोऽस्माभिरन्तम् ।
द्वन्द्वाः, भूतिः, स्फुरणचतुरा चित्तटी, संगमेच्छा,
जाग्रत्यद्य प्रतिपरिसरं चेत् स्मरे को नु दोषः ।। २९।।
आयुक्तानामिह सुमनसां योजनाभिर्विधातुः
स्थूला सृष्टिर्व्रजति सुभगां सूक्ष्मतामन्वहं यत् ।
मन्ये वर्णी पुनरुपगतः शैलकन्याश्रमं स्वां
सौभाग्यानामुपचिततमां संपदं मातुकामः ।। ३०।।
सौराज्यानामभिनवतमा कापि गाथा पुराणीर्
गाथाः कृत्स्ना अभिभवति वै भारतेऽस्मिन्नवीने ।
इक्षुं दृष्ट्वा गगनकुहरं व्यश्नुवानं तदीयैर्
वंशाः स्तोत्रैः सुषिरमुखराः धन्यतामद्य यान्ति ।। ३१।।
शालीस्तम्बाश्चणकविटपैः स्पर्धितुं कामयन्तेv
पूर्वं, संप्रत्यहह विततस्तद्विपर्यास एषः ।
मोचास्तम्भान् फलभरनतान् साम्प्रतं गोस्तनीनां
गुच्छाः सुस्थाः सुखमतितरां न्यक्चिकीर्षन्ति दूरम् ।। ३२।।
एरण्डानां फलमतिचरत्यद्य कूष्माण्डकायं
वृन्ताकानामिव पृथुतनूँल्लम्बिताङ्गानलाबून् ।
भिण्डीशिम्बी परिभवति वै नेनुवायाः शरीरं
का वै वार्त्ता तदितरजगद्वस्तुसार्थस्य वृद्धेः ।। ३३।।
शालाक्यं चरकं प्रसीदतितरामस्मिन् क्षणे भैषजी
विद्या वर्धत एव न ज्वर इति ख्यातात्तु रोगाद् भयम् ।
आयातो ज्वर एष, सेवितमिदं तस्यौषधं स्वस्थतां
प्राप्तश्चेति भवन्ति बालकजना अप्यद्य वैद्योत्तमाः ।। ३४।।
देहात् पुंसामपगममिताः साम्प्रतं मृत्युकीटाः
क्षीणक्षीणाः कथमपि जनुर्धारयन्तेऽत्र देशे ।
मार्य्यः सर्वा उपशममिता औषधानां प्रभावात्
क्रूरक्रूरा अपि च विलयं सन्निपाताः प्रयाताः ।। ३५।।
मस्तिष्काणामपि लघुतमाः सूक्ष्मसूक्ष्मा नितान्तं
श्लक्ष्णश्लक्ष्णा अपि धमनयः शल्यशालाक्यविज्ञैः ।
सम्प्रत्यक्ष्णामिव परिकृशाः कोशिकाः कर्त्तरीभि-
श्चञ्चूर्य्यन्ते व्यपगतरुजश्चाद्य तूर्णं क्रियन्ते ।। ३६।।
चक्षुर्गोलाः श्वसिति मनुजे सूक्ष्मसूक्ष्मैः क्षुरप्रै-
रादीयन्ते पृथगथ तनोः प्राणवन्तो विभान्ति ।
चित्रं चैतद् यदितरतनोः साम्प्रतं नेत्रकोशे
पुंसो भूयोऽप्यनुपमकरै रोप्यमाणा लसन्ति ।। ३७।।
सूचीवेधैर्द्रुततरमपो नाडिकासु क्षिपन्त-
स्तास्ता दिव्यौषधशबलिताः वैद्यराजा इदानीम् ।
मृत्योश्चित्तं व्यथयितुमलंभूष्णवो दस्रसंख्यां
द्वित्वोत्तीर्णां प्रतिदिशमिमे चेक्रियाणा दिपन्ति ।। ३८।।
ये दुस्साध्याः प्रथममभवन्नामयाः साम्प्रतं तै-
र्वैद्या बालाः श्वभिरिव सुखं क्रीडितुं प्रोत्सहन्ते ।
उत्सार्यन्ते विषमविषमास्तत्परीपाकगाथा
भूमेः पृष्ठादिह बत युगे स्वर्गपृष्ठायमानात् ।। ३९।।
तापस्तापादपि न मनुजे साम्प्रतं, नैव शैत्या-
च्छैत्यं स्वैरं तदुभयमपि श्लेषयित्वा प्रहृष्टे ।
यानं चन्द्रे चलति चलति स्वैरमेतस्य यन्ता
भूमावस्यां युगपदिति यत्सत्यमेते सुराः स्मः ।। ४०।।
ग्रीष्मः शैत्यमथापि मेघसमयः कस्यापि नो दुस्तरः
सर्वैः साधनिकैरिदं क्षण उदाकर्त्तुं क्षमा आपदः ।
वस्त्रैश्चिक्कणभासुरैश्च निखिलाः संवेष्टिताः स्वर्गिभिः
सुस्थैर्गात्रचयैश्च न क्वचिदपि प्रेक्ष्या जने दौर्विधी ।। ४१।।
इत्थं सर्वास्वपि समुदितप्राज्यसौराज्यराज्यं
दिग्बालासु प्रबलतितरां प्रत्यहं स्मैष देशः ।
मात्सर्याख्यो रिपुरुदभवत् तेन सीमान्तराष्ट्र-
द्वन्द्वे पुंसां भवति तदिदं प्राकृतं दुर्बलत्वम् ।। ४२।।
चीनाभिख्यो हिमगिरिशिरोऽक्षोदयद् देश उच्चै-
रासामानामुपरि विलसत् तैलमादित्समानः ।
पाकिस्तानं निजिगिलिषया किञ्च कश्मीरकाणां
छम्बक्षेत्राद् भरतभुवनं प्राहरद् वज्रटैङ्कैः ।। ४३।।
आसीदेषा कुटिलमतिता शुद्धिमुग्धेऽत्र नीत्यां
राष्ट्रे, सैन्यं निजपरिसरं रक्षितुं यत् पिपर्त्ति ।
कश्मीरार्धं त्रिपिटकमहीं चापि सख्याय तूष्णीं
दित्सौ दस्यू भरतभुवि धिक् पाकचीनावभूताम् ।। ४४।।
दस्युः पूर्वं प्रहरति दहत्येष उद्यानवृक्षान्
काण्डे काण्डे द्विजपतिशतैः सेवितान् स्वस्तिकामैः ।
कीलालोत्थैर्विलिखति न नो विस्फुलिङ्गैः स किन्तु
व्योम्नो वक्षस्यपयश उडुच्छत्रकान्ते स्वकीयम् ।। ४५।।
सत्याहिंसे व्रतचरितयोर्मानुषस्येतिहासे
स्वीकारोक्ती क्व न खलु धरामण्डले बन्धुतायाः ।v
मातुः स्तन्यं कलुषयति यस्तत्र मोहान्मनुष्यो
भूत्वाऽप्यन्धः प्रहरति यमं तर्पयिष्यन् स्वरक्तैः ।। ४६।।
श्रद्धत्ते को विषकलुषिते दंदशूके, बके कः
शुद्धौ बुद्धानपि परिहसत्याश्वसित्यन्तरज्ञः ।
दुर्दान्तानामपि परिणतौ बाष्पमेवावशिष्टं
दृष्ट्वाप्यार्य! प्रहरणकलां शिक्षितः केन धत्से ।। ४७।।
मौतीलालिः सुगत इव यां पञ्चशीलीं विशुद्ध-
स्वान्तर्धातुर्नरि नरि महीमण्डलेऽस्मिन्नपुष्यत् ।
तारं सोच्चैररुददबला युद्धयोरत्र, सोऽयं
बद्धो हंसः श्वगणिभिरिमान् दीक्षयिष्यन्नहिंसाम् ।। ४८।।
किं कौटल्यश्चरमपरमो मानवात्मान्तरज्ञः
प्रत्येयं यो न खलु कलयत्यर्थमार्गेऽपि पुत्रम् ।
आस्ये हास्यं मनसि परमं दास्यमाशीविषाणां
यन्मानुष्ये प्रसरणकलामश्नुवातेऽद्य लोके ।। ४९।।
सत्यं सत्यं भवति नितरां दुर्बलं, दुर्बलात्मा-
ऽसत्यं सत्यं भवति नितरां वीर्यवत् किञ्च लोके ।
नो चेत् सीतामहरत कथं रावणो रामहस्तात्
कुन्तीपुत्रानगमयत किं धार्त्तराष्ट्रो वनान्ते ।। ५०।।
रे रे कामिंस्तव कति रदाः किंच तेषां प्रमाणं
किं वा वीर्यं विलसतितरामायुरप्यत्र कीदृक् ।
द्वाभ्यामाभ्यां पशुरिव कराभ्यामुपादाय विश्वा-
नर्थानास्ये क्षिपसि नयने मीलयित्वाऽद्य यत् त्वम् ।। ५१।।
कारस्कारं क्षिपसि किमु रे शान्तये मार्मिकीणां
कण्डूतीनां वपुषि सुभगे स्वे कराभ्यां निजाभ्याम् ।
कोऽयं मोहः पिबसि गरलं हन्त पीयूषबुद्ध्या
निद्रां दीर्घां भजसि च रसान्निर्विरामां यदित्थम् ।। ५२।।
इत्थं काष्ठा लिलिखुरुरसोरन्तरालेषु लेखान्
काव्याकारान् पिपठिषति यान् न स्म कोऽप्यत्र योद्धा ।
बुद्धेः खर्जां यदिपरमिह क्लिष्टकायां मनीषी
प्रादुर्भूतां बलवदभितो जाग्रतीं हन्त धत्ते ।। ५३।।
नैषा खर्जा क्षणमुपगता शान्तिमात्यन्तिकत्वं
धत्ते, धत्ते प्रगुणगतिकीभूय भूयोऽभ्युदीतिम् ।
शिष्टो वह्निर्भवतु शमितज्वालमालः परन्तु
नैतन्मूलं भवति नितरां लुप्तं हन्त कारीषकाङ्गे ।। ५४।।
द्वेषो वह्निर्वसति हृदये नैव वाचां विताने
सोऽयं घातादुदितवपुषैवानुमातुं हि शक्यः ।
जाग्रत्यस्मिन् क्व नु खलु मृषावादमुक्तिर्जनानां
तच्चच्छद्म द्विषदि परमं शोभमानं चकास्ति ।। ५५।।
गर्त्तेऽहं शयितो भवामि कटुभिर्दंशैर्विविग्नो न मे
जीवन्तोऽपिधयन्ति वाच मुदितां बाष्पैः समं बन्धवः ।
नो मत्पार्श्वमुपैति या मम भुजिष्यागर्भजाः पुत्रकाः
एते किञ्च समे हसन्ति धरणीपृष्ठे प्रमोदान्विताः ।। ५६।।
एते ह्येव भवन्ति बन्धुधिषणास्वन्तर्निविष्टाः हहा
भूत्वा हन्त पिशाचकाः विषमतां तानुत्तम्भयन्तेऽस्त्रिणः ।
नो चेत् कोऽपि दयां विशस्य लतिकां सौरभ्यवर्षक्षमां
खड्गेन प्रणिकृन्तितुं प्रयतते सौभाग्यमात्रप्रियः ।। ५७।।
नीलो नाम नदो मरुस्थलभुवां देहात्मवादोत्थितां
वात्यां हन्त निषेवमाण-सलिलो दोषेण नीलच्छविः ।
तद्धाराद्वयमन्तरीपमसृजद् यीजिप्टसंज्ञं तदो-
वाद्यत्वेऽपि पुराणतामपि गतं संचेष्टते पाकिषु ।। ५८।।
ये स्वार्थैकनिविष्टमानसिकताझञ्झाप्रवातोद्धृता
निर्मूलाः गगनौकसश्च तरवस्ते कस्य कुर्युः प्रियम् ।
वात्याऽप्यत्र कुतः समुद्भवति नोऽन्यस्मात् परस्मात् स्वका-
च्चित्कोषात्तु सदैव दूषिततमाद् द्वेषाग्निसंधूमितात् ।। ५९।।
मात्सर्योपहतान्तरात्मसु नृषु द्वेषाग्निरन्योदये

धग्धक् प्रज्वलतीति तत्तपनतो माघो निदाघायते ।
नैषां कापि विभावरीयति निशा नो वा दिनन्ति क्षपाः
शान्तावप्युषसा प्रकाशपरमा वारा उपद्राविणाम् ।। ६०।।
एके नित्यशमैकतानहृदया दान्ता निशान्तान्तरे
शय्यामप्युपसद्य दत्तवपुषो मुञ्चन्ति देवाङ्गनाः ।
अन्ये प्रोत्कटकामिनोऽधिशयनागारं धयन्ते सुखा-
न्यासां स्वप्नसमागमेषु सुलभानां भावैकसृष्टात्मनाम् ।। ६१।।
कामात्मा परमेश्वरः प्रकृतिरस्त्यस्तित्वसिक्तात्मनां
नो माया प्रकृतिर्न चापि गुणिनी, तं वीक्ष्य या लीयते ।
रे रे दार्शनिका द्रवन्तु भवतां चित्तानि तत्त्वं विना
सिद्धान्तोपनिषत्स्वनिश्चितधियां शान्ता वयं कामिनः ।। ६२।।
नियाग्रायाः पातो भवति नहि पातः स तु महा-
महोत्पातो वारां धरणितलघातातिशयजः ।
जनो मिथ्यादृष्टिर्वदति ननु नाशं जनिमतीं
विभूतिं भूतानां विनशनपराणामिह युगे ।। ६३।।
नोवाखाली कथयति कथां रञ्जितां यां नृरक्तैर्
गान्धीहत्याऽनुवदतितरां यत् पुराणं पुराणम् ।
आवृत्तिं ते पुनरुपगते भारते पाकचीन-
द्वन्द्वात् पादद्वयपशुरिति ख्यापयेते नरं स्म ।। ६४।।
काले ह्यस्मिन् विषमविषमे प्रोज्जजागार राष्ट्रे
पूर्णेऽप्यस्मिन् प्रबलविमलं किञ्चिदैक्यं जनानाम् ।
ह्रादिन्येषा भवति, पुरतोऽरातयो हन्त यस्याः
संचेष्टन्ते हरिणशिशवो यद्वदग्नौ वनोत्थे ।। ६५।।
जागर्त्त्येषा प्रतिचिति चमत्काररेखा पुराणी
नो नाद्यापि प्रकृतिविशदा यद् धरा मानवीया ।
रक्तस्नानं न हि विषहते सा हि रक्तेन रक्तं
पीत्वाऽरातीन् स्वयमपि महाकालिकावद् धुनीते ।। ६६।।
चीनान् रूसा भरतसुहृदः पीडयामासुरन्तस्
तैलापूर्त्तिं समरजननीं स्तम्भयित्वाऽऽत्मदेशात् ।
उद्योगाद् वै प्रणिववृतिरे स्वेच्छया येन चीनाः
प्रालेयाद्रेरधिहिमशिलं ग्रीष्मसौख्य-प्रसोतुः ।। ६७।।
कामं गर्ते स्वपितु मनुजस्त्यक्तदेहोऽनले वा
भस्मीभूतश्चरतु गणयन्नात्मनस्तेन भेदम् ।
ईशस्ताभ्यां न भजति भिदामन्तरात्मन्यमीषां
सर्वेषां नः किरति मधुरां प्रीतिधारां सदा सः ।। ६८।।
टैङ्काः पाका इव गुलिकया जिह्नया कालिकाया
यद्वद् दष्टाः कुलिशवपुषा छिद्रिताङ्गा बभूवुः ।
बालानां ते पुरि पुरि पुरः स्थापिता विस्मितानां
जाताः क्रीडा-रथतुरगवत् केवलं कौतुकेभ्यः ।। ६९।।
इयं प्रधनखर्जना यवनदेहिनः खर्जय-
न्त्यतीव विषमा स्थिता विषमपाकपातेऽधुना ।
क्षयं व्यलभताधुना युगलपक्षशक्त्युच्चयः
क्षयातुरजने यथा विविधसुन्दरी संकथा ।। ७०।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘चीनपाकाभिद्रोहो’ नाम षोडशः सर्गः।। १६।।