सप्तदशः सर्गः
वितथानिति पाकचीनयोरपवित्रान् विदधन्मनोरथान् ।
स बभौ प्रियदर्शिनीपिता ग्रहयुग्मादिव रेचितः शशी ।। १।।
अभनक् किल तस्य मानसं तदिदं क्रूरमरि-प्रचेष्टितम् ।
उचितैकपरैर्न सह्यतेऽऽनुचितानुष्ठितिवज्रसूचिका ।। २।।
उचितः स हि साहितीसृतौ हृदयेनाप्यभवज्जवाहरः ।
नितरामृजुरार्जवं विना क्व नु वाणी रसमश्नुते सताम् ।। ३।।
नृपनीतिचतुष्पथे स्थिता मतिनाम्नी खलु शालभञ्जिका ।
युगपद् बहुवर्णरञ्जनां दधती सत्यमुदीर्यते बुधैः ।। ४।।
वचन-व्यवसाययोर्मिथो यदि नामास्ति विलोमता नये ।
अनयः खलु स, क्षणोत्यसौ मनुवंशस्य महीयसीं स्थितिम् ।। ५।।
स्वगृहे कुशला मम स्थितिः स्थितिमन्यस्य निभालयामि नो ।
इति यस्य नयः स कीदृशो मनुजः स द्विपदः पशूत्तमः ।। ६।।
मनुजो मनुजस्य मूर्धभिर्यदि खेलां ननु कन्दुकैर्यथा ।
विदधत् परितोषमश्नुते स पिशाचः खलु मानुषाकृतिः ।। ७।।
बलवानपि मानवो बिभेत्यधिचित्तं निभृतस्थितेः प्रभोः ।
अथ यो न बिभेति नास्तिकः स हि, तक्रं स समाज-पायसे ।। ८।।
परमाणुभिरुच्छ्रितिं परामधिगम्यापि नरोऽद्य मानसीम् ।
विभुतां हहहा न साम्प्रतं प्रतिपत्तुं व्यवसायमश्नुते ।। ९।।
अयि विष्णुपदेऽपि पक्षिवड्डयसे त्वं यदि कस्ततो गुणः ।
हृदयं तव मानव! प्रयात्यधुना हन्त रसातलान्तरम् ।। १०।।
भवनानि वनानि शोभनान्यथ भोज्यानि च भोजनानि च ।
मनुज! व्यतिरेचयन्ति किं पशुतस्त्वां यदि नास्ति संस्क्रिया ।। ११।।
अनुशासनमेव मानसं विदुरार्य्या ननु संस्क्रियां पराम् ।
यदि तत् परिभज्यते बकः किमु योगीति न पूज्यते बुधैः ।। १२।।
बहुभिः परिवारितोऽप्यसौ सुमुखीभिर्वनिताभिरात्मवान् ।
विचचाल न वै जवाहरो हृदयेनैवमलं विभावयन् ।। १३।।
स चतुर्द्दश वत्सरानभूत् प्रथमे मन्त्रिपदे विराजितः ।
सुतयैव तयाऽभिरक्षितः क्रममाणश्च पथि प्रजोन्नतेः ।। १४।।
अभवन् खलु तस्य मण्डले प्रकृतीनां वहवो हि मन्त्रिणः ।
सरदारपटैलसंज्ञको गृहमन्त्री तु बभूव वल्लभः ।। १५।।
पुरुषः स हि लौहनिर्मितः प्रबभूवात्मभुवि प्रतापवान् ।
स जवाहरलाल-संज्ञकोऽप्यभवत् तं प्रति यत् समादृतः ।। १६।।
अवधाविह भारतावनेर्हृदयं भञ्जयितुं समुद्धुराः ।
बहवो लघुराज्यभूभृतः पृथगेवासितुमुद्यमं दधुः ।। १७।।
अखिलानपि तान् स वल्लभो गरुडः पन्नगडिम्भकानिव ।
विलयाय धृतस्पृहान् व्यधादिह देशे प्रविहाय हैदरम् ।। १८।।
अरुणत् तमसौ स्वसेनया प्रविभज्य स्थितया तु पञ्चधा ।
मृगराडिव पञ्चभिर्नखैर्मृगशावं नु युयुत्सयोत्सुकम् ।। १९।।
जगृहे गृह एव तत्पतिर्यवनः कोऽपि कविः समं सुतैः ।
शतकद्वयसंख्यया युतैरथ दारैश्च ततोऽधिकैर् बलैः ।। २०।।
कृतवान् स यदा समर्पणं भरतानां भुवनाय हैदरः ।
उदराणि शिलोच्चयैरपि क्षपितांहांसि तदा प्रचक्रिरे ।। २१।।
स्वयमेव तु मेदपाटभू-नृपतिः शासनमत्यजत् स्वकम् ।
अभवत् किल नः स्वतन्त्रता परमं लक्ष्ममिमां गता इति ।। २२।।
अचलेश्वर-वर्धमानयोः सममेवार्वुदसंज्ञकेऽचले ।
विदधे खलु मेदपाटपो वरिवस्यामितिहास-साक्षिकाम् ।। २३।।
शिवतामथ वर्धमानतां शिवसंकल्पधनो महामनाः ।
भजते स्वयमेव कीर्त्तिभिः परमां स्थास्नुभिरापितः श्रियम् ।। २४।।
भरतावनिसंस्कृतेरिमं सुनृपः प्रत्ययमर्वुदाचले ।
उदकीर्णयदद्भुताद्भुतैः स्फटिकैराहित-शिल्पकौस्तुभैः ।। २५।।
धनमस्ति धनाय नो, धनं यजमानाय हि केवलाय नः ।
यदिदं च शिलासु शिल्पिभिर्निहितं जीवितमुत्तमोत्तमम् ।। २६।।
मनुजो यदि शिल्पकल्पनैः श्वसितं ग्रावणि धातुमीश्वरः ।
द्विपदं पशुमेतमेष किं वशयेन्नैव तथाविधैः क्रमैः ।। २७।।
स हि भामहशाह ईड्यतां भरतानामधुनाऽपि भूतले ।
स्वधनं निजभूपतेः कृते प्रविहायेश्वरमार्पिपत् तु यः ।। २८।।
स च भूपतिरप्यहो महान् स्वमपास्यैक्षत यः स्वतन्त्रताम् ।
अथ तामपि संस्कृति-श्रिया निजया मण्डयितुं य ऐहत ।। २९।।
ननु सा निजतन्त्रताऽपि का नहि यस्यां प्रमुखाऽऽत्मसंस्कृतिः ।
यदि वा पशुता स्वतन्त्रतां नतमामर्हति रेचिता धिया ।। ३०।।
कपये किमु दीयते बुधैः करवालः कृपणेतरान्तरैः ।
क्षयजीर्णतनौ वृथा न किं परिभोगस्य कथाऽपि मानुषे ।। ३१।।
प्रणतिं प्रतनोति संसृतिर्ननु मेवाडमहीभुजे, तृणैः ।
परिपालयते शिशून् वने वसते च स्वभुवः स्वतन्त्रणे ।। ३२।।
धृतिरेव चरित्रसंज्ञके ननु नाभिः सुरथाः! रथोत्तमे ।
मलयानिलवत् प्रभञ्जना अपि तस्यां पुरुषा! न न प्रियाः ।। ३३।।
विनिमाय कृतार्थतां व्रजेद् द्रविणैर्द्रव्यमसौ वणिक्सुतः ।
असकौ पुनरात्मवान् कृती स्वशिरः कृन्तति, न व्रतं महत् ।। ३४।।
पुरुषो यदि पाण्डुसंज्ञितः पुरुषत्वं परिहाय जीवति ।
धृतराष्ट्र! ततो न चक्षुषोस्तव दृष्टिः समुदेष्यतेतराम् ।। ३५।।
परदुर्बलता परस्य चेदुदयस् तं प्रणमाम दूरतः ।
नहि सेतुतयाऽभिमन्यते विबुधैर्गर्तगुहान्धतामसम् ।। ३६।।
उदधाविव वाहिनीगणो विलयं प्राप्य नरेन्द्रशासनम् ।
विदधे भरतावनौ पुनर्निखिलायामपि पूर्णरूपताम् ।। ३७।।
निदधे च महत्त्वमस्मितामयमात्यन्तिकमत्र भारते ।
विरहो खलु यस्य गामिमामसृजाऽरञ्जयदन्यदा नृणाम् ।। ३८।।
अयि! मानववंश! तावकी तुलना नास्ति चराचरात्मके ।
निखिलेऽपि विधेर्विधानके परितो व्यापिनि पश्य चेतसा ।। ३९।।
त्वयि शीर्यत एषका हरेर्ननु नेमिस्, त्वमु चक्रपुष्करः ।
यदिदं च समन्तपञ्चकं सकुरुक्षेत्रमिदं त्वमेव हि ।। ४०।।
अरुणं वरुणोऽनुवर्त्तते यदि चेन्नास्ति भयं मनीषिणः ।
अरुणो यदि नानुवर्त्तते वरुणं संतमसैर्मलीमसम् ।। ४१।।
प्रतिगामिनि नानुरज्यति प्रभुता संप्रभुतामयी चितेः ।
पुरतो यदि नो, न पृष्ठतः प्रसरीसर्त्ति रथो महाधृतेः ।। ४२।।
अविवेकवरं क्षतौजसं वृणुतां नाम धृतीतरा वधूः ।
धृतये व्रियतेऽत्र भारते प्रविवेकः पुरुषोत्तमः परम् ।। ४३।।
अणुमुत्सृजता यदीप्स्यते महदेतत् खलु नीतिकौशलम् ।
परिपश्यति नो महानसं परकीयं स्वमुखेऽधिकारवान् ।। ४४।।
यदहापि ततोऽधिकं गृहे सुखमेवापि महीतलं तु यत् ।
तदिदं खलु बुद्धिवैभवं सरदारस्य महामतेर्नये ।। ४५।।
न जवाहरलालमन्तरा सरदारः क्रमते स्म तन्त्रणे ।
न जवाहरलाल एव वा सरदारं स्म विना प्रवर्त्तते ।। ४६।।
इति यद्यपि तौ परस्परं सततं सौहृदिनौ बभूवतुः ।
सरदारपटैल आत्मनः परकीयाँश्च परो जनानधात् ।। ४७।।
यदिवा मनसो महात्मनो ननु गान्धीविरुदस्य तावुभौ ।
भवतः स्म शरीरधारिणाविव पक्षौ निजराष्ट्ररक्षणे ।। ४८।।
सुखिनो ननु पुण्यभाजनं, यदि पुण्यं सुखतोऽनुमीयते ।
अथ दुःखिनि पापपात्रता प्रतिपत्तुं ननु शक्यते स्वतः ।। ४९।।
यवनायवनत्व-दर्शनं विदुषां निस्तुषया मनीषया ।
सुखदुःखफलानुमाभृता सुतरां हन्त ततो व्युदस्यते ।। ५०।।
हृदि मज्जिममञ्जुले नृणां प्रणयाख्यो ननु रक्तवञ्जुलः ।
परिपुष्यति चेतनावधूचरणाघातमृतेऽपि भूतले ।। ५१।।
कथमस्ति तवान्तरङ्गके द्विपद! स्वर्णमयी महापुरी ।
कथमत्र च रावणाभिधा दशकण्ठी कुणपाशनायते ।। ५२।।
अयि घस्मर! मानव! त्वया स्वपताऽथ प्रतिजाग्रताऽऽत्मनि ।
अवधावकले न भुज्यते किमु तस्मिन् मुदिता सुधामयी ।। ५३।।
सुखमान्तरिकश्चितेर्गुणस्त्रिगुणी तत्र हि निर्गुणा परम् ।
अयि मीलितलोचन! द्विपाद् दृशमेतां न हि सन्दधासि किम् ।। ५४।।
सरदार-जवाहराविमां प्रतिभामात्मनि सप्रजागराम् ।
प्रतिपद्य सदा गतस्मयौ समयं स्वं स्म मुदैव रक्षतः ।। ५५।।
अशनं प्रविहाय भारतद्रविणं हन्त बलाददापयत् ।
रिपवे स्थविरः स मोहनः समयेऽस्मिन् ननु पाकसंज्ञिने ।। ५६।।
व्यसहिष्ट न तामिमां क्षतिं धरणीयं भरतस्य दुस्सहाम् ।
अपिबद् भुजगीव गोडसेगुलिकीभूय तदीयमस्रकम् ।। ५७।।
कलशैः सह गान्धिसक्थिपूर्णैर्विससर्जावनिरेषका क्रमेण ।
सलिलेषु च बाष्पवारिपूरान् हृदयेष्वाशु शुचं च वेगपूर्णाम् ।। ५८।।
अपमार्जयते स्म बाष्पमस्या नयनोत्थं भरतस्य भूतधात्रयाः ।
रिपुरद्मर एक एकतोऽसौ परतश्चापरतिः स्वहानिजन्मा ।। ५९।।
न हि मुञ्चति वज्रमिन्दुरभ्राद् यदि मा नाम मुचत् ततो न मेघः ।
विरतिं भजते ततः स्वतः स ध्वनिमुत्सृज्य दृढं प्रचेष्टमानः ।। ६०।।
विरतिं भजताद् युधिष्ठिरो यदि नाम प्रधनाद्, य एषकः ।
पवमानसुतो वृकोदरः स कथङ्कारमुपाश्रयेत शम् ।। ६१।।
सुषिराणि न तस्य पूरितान्यसृजा केनचनाधिनाडिकम् ।
कुलिशानि तु तेषु तन्वते भ्रमिमुच्चैः क्रथितुं विरोधिनः ।। ६२।।
न स पश्यति संयमाभिधं द्रविणं प्रत्युपदिष्टमागमैः ।
प्रतिशोधकृपीटयोनिना प्रसभं तस्य चितिः प्रदह्यते ।। ६३।।
गदनं न, गदां हि वज्रवद् दृढयोस्तोलयते स हस्तयोः ।
निखिलेन बलेन रंहसा सकलेनाशु च तां सिसृक्षति ।। ६४।।
भविता ननु कि फलं, क्व वा विधिलेखः श्रयिताऽनुकूलताम् ।
इति पश्यति रोषमूर्च्छिता न चितिः, शत्रुषु कालकालिका ।। ६५।।
न हि नीतिपथे पदाभिधा प्रमुखत्वं प्रतिलम्भ्यते बुधैः ।
अनुवाक्यगणोच्चयोदितं ननु तात्पर्यमुपास्यते तु तैः ।। ६६।।
अपवादमयी सृतिर्विधेरपवादश्च विधेर्विपर्य्ययः ।
द्वितयं तदिदं यथायथं प्रतिपद्यार्य्यपथोऽध्यवस्यते ।। ६७।।
सरदारपटैल आशु तामवधूयातुरतां महात्मनः ।
विदधे विधिमन्त्यमुत्थितैर्जयशब्दैः सह यामुने तटे ।। ६८।।
विजयो जय एव वाधुना मनुवंशस्य जनैरुदीर्यताम् ।
हृदयस्य तु भावना द्वयोरनयोः स्पष्टतयाऽध्यवस्यते ।। ६९।।
इतिहासवपुः परीक्षकस्तमिमं हन्त सुखं परीक्षताम् ।
अनुमामुपमामनन्वयं यदि वाऽसाविह संप्रपद्यताम् ।। ७०।।
कवितामयमात्मनिश्चयं पदबन्धेषु समर्प्य कह्लणाः ।
विविधास्तु तरङ्गिणीरिह प्रथयेयुर्मतिपर्य्यये नृणाम् ।। ७१।।
प्रियमप्रियमेव वा क्रमं प्रतिपन्नस्य जनस्य दर्शनम् ।
हृदये निभृतस्य चक्षुषस्तिमिरं हन्ति मलीमसं सताम् ।। ७२।।
समुदारहृदां चिदम्बरं जगतीस्वस्तिसुधापयोधरान् ।
अभिवर्षयितुं समीहते परितो, न त्वशनिव्रजोत्कटान् ।। ७३।।
करुणैव बुधैरुपास्यते हृदये प्रीतिरसामृतप्लुतैः ।
अपि जाग्रति संकटे पुरः सुहृदे वा यदिवाऽत्र दुर्हृदे ।। ७४।।
विलयं गमिते महात्मनि प्रलयं संस्कृतिरप्यगाद् भुवः ।
स्थिरता स्थविरैः स्वधर्मगा नरलोके यदि नाम धीयताम् ।। ७५।।
जनवल्लभ एष वल्लभोऽप्यगमत् क्षीणतनुः परं पदम् ।
स जवाहरलालनेहरूरथ सर्वामवहद् धुरं भुवः ।। ७६।।
स हि चीनमृधं, स एकलः प्रधनं पाकजमुद्व्यवर्त्तयत् ।
अथ सोऽप्यभवत् कृशस्तनौ स्मृतिशेषश्च बभूव सत्वरम् ।। ७७।।
राजीवगान्धिरकरोत् किल कृत्यमन्त्यं
मन्त्रैः समं विनिहितस्य चितामुखेऽस्य ।
पुत्रीयति स्म स हि तं दुहितुस्तनूज-
श्रेष्ठं गुणैश्च वपुषा च मनोहरन्तम् ।। ७८।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘जवाहरलालनेहरूपरिनिर्वाणो’ नाम सप्तदशः सर्गः।। १७।।
अष्टादशः सर्गः
यातो दिवं बत यदा स जवाहराख्यो
ज्योतिर्मयो भरतभूतनयोऽद्वितीयः ।
तत्स्थानमापदपवर्ग इवाङ्गशाली
शास्त्री महान् सपदि लालबहादुराख्यः ।। १।।
तस्मिन्नवाप्य सरदारजवाहराख्या-
वद्वैतमार्य्यवसुधामधिकं पिपूर्त्तः ।
वीक्षाञ्चकार गृह एष पुरा ततश्च
वैदेशिके निगमसंस्कृति-पूरितात्मा ।। २।।
सत्तामसद् भजति नैव कदापि सांख्यै-
र्योऽयं नयो भरतभूतनयैरघोषि ।
प्रामाणिकत्वमभजत् प्रतिपद्य नूत्नं
नेतारमद्य स हि लालबहादुराख्यम् ।। ३।।
आर्य्यत्वमस्य वचसा वपुषा च साक्षान्
मूर्त्तायते स्म नितरां म्रदिमाञ्चितेन ।
वव्रेऽमुमेव स च मन्त्रिपदेऽविभागे
संस्थापयन् निजपदाय जवाहरोऽपि ।। ४।।
गङ्गामतीतरदसावनवाप्तनौका-
शुल्कः स्वयं शिशुवया अपि धीरवीरः ।
कक्षामतीत्यजदसौ न, न दैन्यमेव
प्राजीघटन्मनसि संप्रतिपन्नविद्यः ।। ५।।
सारस्वते सवनकर्मणि संस्कृतिः स्वा-
स्वत्वं बिभर्त्ति, न धनं, न बलं, न वंशः ।
जात्ये मणावुदयते खलु यः प्रकाशो
बाह्यः स नो भवति नापि च मूल्यलभ्यः ।। ६।।
छायेव तस्य दयिता ललिताभिधाना
गार्हस्थ्यके सवनकर्म्मणि सावधाना ।
सीतेव शैलतनयेव मदालसेव
सावित्रिकेव यदि वाऽभवदार्य्यलक्ष्मीः ।। ७।।
तस्यामवाप स कृती हरिकृष्णसंज्ञं
पुत्रोत्तमं तदनुजाँश्च जगत्प्रकाशान् ।
याँल्लोकनीतिरुररीकुरुतेऽधुनापि
नेतृत्वसीमनि समान् जनकेन शुद्धौ ।। ८।।
सर्वंसहा भगवती वसुधैव साक्षान्
मूर्त्ता बभूव ललितावपुषाऽत्र देशे ।
आन्दोलनेऽपि महति प्रथितेऽवतस्थे
विष्णौ वराहवपुषीव बहादुरे या ।। ९।।
कस्तूरबेव यदि वा कमलेव सैषा
भर्त्तारमेव मनसाऽपि मुदान्वगच्छत् ।
पत्युः सुखेन हि सुखेन पतिव्रतान्त-
र्धातुः प्रसादमुपगच्छति भारतेषु ।। १०।।
शास्त्री प्रधानपदवीमपि भारताना-
मासेतुमाहिमगिरिं च समृद्धिभाजाम् ।
संप्राप्य न स्मयमवापदणीयसाऽपि
मानेन युक्तमनुशीलित-कर्मयोगः ।। ११।।
दुःखे सुखे समतया निजधर्मरक्षा-
दीक्षाभृतां स्मयकथा गगनप्रसूनम् ।
क्षेत्रज्ञतां च पुरुषोत्तमतां च लब्ध्वा
क्षेत्रोत्सुको भवति किं नु कदापि योगी ।। १२।।
स्कन्धा भवन्तु विविधा यदि वा भवन्तु
मध्यप्रमाणकलुषाण्यणुपुद्गलानि ।
मुह्यन्ति धीरधिषणा न विनश्वराणा-
मास्रावणासु जगतां सततं स्वतुष्टाः ।। १३।।
मात्सर्यमेव विबुधेषु बुधेषु यद्वत्
स्थायीव तिष्ठति सदा प्रतिबुध्यमानम् ।
नैवाक्षमन्त खलु लालबहादुरीयां
सिद्धिं श्वपाकसदृशा ननु येन पाकाः ।। १४।।
भूयोऽपि ते भरतभूमिमिमां प्रसह्य
प्राधर्षयन् प्रधनहव्यभुजा प्रतीच्याम्।
निर्दोषमानुष-शरीर-समुद्गता-
साहस्रिकारुणिमनि स्नपिताङ्गयष्ट्यास्रिम् ।। १५।।
शास्त्री शकारपरवर्त्तिनमाशु हित्वा
नाम्नो निजस्य गुरुवर्णमवर्णनीयाम् ।
रौद्रीं श्रियं समधिगत्य चमत्कृतान्त-
र्धातूनि हन्त विदधे जगदण्डकानि ।। १६।।
तस्य प्रथिम्नि निटिलस्य करालवक्त्रा
काली, म्रदिम्नि मनसश्च चकार वासम् ।
दिव्याऽम्बिका भगवती ललिता, द्रढिम्नि
पाण्योः पुलोमतनयेव पविं श्रयाणा ।। १७।।
सैन्याधिपे न्यधित निर्मलचित्तकोषः
सर्वं मृधस्य स महानधिकारमार्य्यम् ।
शङ्कालुता स्पृशति लोभिनमेव लोभा-
तीतस्य चेतसि तु राजति बन्धुतैका ।। १८।।
सोऽप्याजिदैवतमिव प्रतिशस्त्रमुच्चै-
रभ्यासमुत्तममवाप्नुवतां वरिष्ठः ।
वीरेष्वतेजयदसून् पटिमाऽतिशीति-
नीतिक्रमोज्ज्वलतमां पदवीं प्रदर्श्य ।। १९।।
पाकस्य युद्धमभवद् व्ययसाध्यमेत-
च्छस्त्राणि सन्ततमिस्तत आजिहीर्षोः ।
क्रीतेन काष्ठचरणेन कथं नु खञ्जः
शैलस्य मूर्धनि पदं निदधीत सद्यः ।। २०।।
शस्त्रे स्वनिघ्नविभवप्रभवश्च देशोऽ-
स्माकं व्ययं परमरातिकृतं हि सेहे ।
शस्त्राणि यानि गृह एव विनिर्मितानि
तानीति तानि मृगनाभिनिभान्यभूवन् ।। २१।।
यः सांयुगीनमभियानमपास्तबुद्धि-
रादित्सते स बलवानपि जातशङ्कः ।
नित्यं प्रजागरकृशो व्यथते विधातुर्-
लेखाधिकारपुरुषैर् विजुगुप्स्यमानः ।। २२।।
पश्यत्सु लोकनयनेष्वतिमात्रदान्त-
शान्तो रहस्यथ नितान्तविरुद्धवृत्तः ।
युद्धाग्निना न स कदा हृदयस्थितेन
पापच्यमान-करणो-ऽशरणीक्रियेत ।। २३।।
स्वप्नेऽपि यः खलु लुनाति धृतिं विवेकं
व्यालुञ्चति स्पृशति लोभमिलातलेऽस्मिन् ।
स्वामी भवन्नपि सदैव स दासतायै
बद्धाञ्जलिः पथि पथि प्रतिपर्स्पृधीति ।। २४।।
उत्तानपादतितरां स विनाऽऽत्मजेन
ध्रौव्याञ्चितेन विभवेन महीतलेऽस्मिन् ।
तस्यान्तरे हृदि तमोग्लपिते सझम्पा
शम्पाशती प्रतिपदं कटु नानटीति ।। २५।।
माता सुतीयति न तं, न पतिव्रताऽपि
पत्नी पतीयति च तं व्यभिचारजुष्टम् ।
का वा कथाऽस्य चरतोऽचरतश्च नित्यं
दन्द्रम्यमाण-नियतेर् जगतस्तदर्थम् ।। २६।।
आक्रम्य कान्तिमति यः प्रतिवेशिनि स्वं
धन्यं समाकलयते मनुजोऽपि भूत्वा ।
तस्मै शुनोऽपि तनयो न धुनोति पुच्छं
तुच्छं तमिच्छति तृणस्य कणोऽपि नोच्चैः ।। २७।।
उत्क्रम्य गच्छति विधिर्न हि तं, निषेधो
नो तं निषेधति जिजीविषया परीताः ।
जीवास्तमात्मसुहृदं कलयन्ति यो वै
मानुष्यकं न खलु गर्हयतेऽपकृत्यैः ।। २८।।
अर्वाग् दिवो यदुदितं प्रथितं च भूम्याः
पृष्ठे, यदद्य किमपि प्रतिमानभूतम्- ।
विश्वस्य, पादकरनेत्रयुगीपरीतं
सत्त्वं रहस्यमिदमद्भुतमेव सृष्टेः ।। २९।।
कण्डूतिमुद्रुजति तस्य जगत्त्रयान्तः-
पाति प्रभूतमपि वस्तु न लेशतोऽपि ।
कामक्रुधोरुपचितः खलु भावबन्धो
यस्यान्तरे प्रतिपलं प्रसरीसिसर्त्ति ।। ३०।।
अह्नाय तं प्रकृतिरुज्झति चीवरेषु
प्रेतोदरात् समुदयत्सु जुगुप्समाना ।
यस्यान्तरात्मनि पिशाचति पूतिगन्धिः
काचिन्मनुष्यविरुदेऽपि दितिर्युयुत्सा ।। ३१।।
हिंसाख्य-पुष्कर-पयोदमभिष्टुवाने
वामे विधातरि विरज्यति शारदाम्बा ।
तं बर्हिणं नु वरटा प्रतिपक्षभूतं
प्रेम्णाभिसर्त्तुमभिलष्यति चिन्न तस्याः ।। ३२।।।
पाणिद्वयीं यदि दधौ नरि पद्मयोनिः
पद्मेन दिव्यमधुना भरितेन तुल्यम् ।
पत्रे निजे तु स विवेचकसार्वभौमे
हंसे दधौ, न कलापिनि, तत्सुहृत्त्वम् ।। ३३।।
भव्येन भव्यमभिपर्चयितुर्विधातु-
र्भद्रेण भद्रमभियोजयितुं समीहा ।
प्राह्णेतनादुप निशामुखमानिशीथात्
प्रत्यूषकालमुप पुष्पवतोश्चकास्ति ।। ३४।।
एषा न यस्य मतिदर्पणिकान्तरङ्गे

बाभाति बिम्बमिव दृष्टिमतोऽपि पुंसः ।
अन्धस्य तस्य धृतराष्ट्रकुरूत्तमस्य
दुर्योधनन्ति न हि सन्ततयो न लोके ।। ३५।।
आयोधनैः स हि धिनोति भुवो दिवश्च
रक्तोक्षणासु पटुभिर्हृदयं करालः ।
व्यालो नु पद्मसरसीं प्रसभं तदीयां
वंश्यावलीं क्रथयते त्वचिरेण कालः ।। ३६।।
प्रोल्लासनासु न, मतिश्च चितिश्च येषां
प्रोज्जासनासु नृसृतेर्हहहा रमेते ।
तान् रक्तबीज-महिषासुर-शुम्भ-चण्ड-
मुण्डाग्रजान् न खलु चर्वयते न काली ।। ३७।।
प्रात्यक्षिकं हि परमायति यः, पृदाको-
स्तस्यास्यतः प्रसृमरासु महासरित्सु ।
हालाहलं वहति वह्निपरीतमुच्चै-
श्चीत्कुर्वतां प्रसभमद्मरमङ्गभाजाम् ।। ३८।।
यस्यास्यतः सरति तर्पणमात्रसारा
धारा सरोजमधुनः खलु तारतारा ।
हारावलीविरचनासु समुत्सहन्ते
मारा अपि प्रमहसोऽस्य कृते सदाराः ।। ३९।।
रे विश्वमानव! चिकीर्षुरसि प्रकृत्या
नासीः कदाचिदपि रे विचिकीर्षयेद्धः ।

किं कान्दिशीकसि, गवेषयसे दिशं किं
तुभ्यं मधु त्वमसि धिग् गरलायसे किम् ।। ४०।।
त्वं भक्षयिष्यसि तवाञ्जलिगर्त्तपूर्ण-
पात्रोदरान्तरुषितं मुषितं यदन्धः ।
तेनान्धसा यदितरामुदसिष्यते क्षुत्
क्रुत् त्वां त्वदङ्गजनिता न न भोक्ष्यतेऽद्धा ।। ४१।।
त्वं कण्टकैरपनिनीषसि कण्ठकूपती-
रोदरान्तिकचरीं परुषामुदन्याम् ।
तैः कण्टकैर्निशिततीक्ष्णतमक्षुरप्र-
प्रत्यन्तरेषु खलु येषु समिन्धतेऽर्काः ।। ४२।।
गन्तुं भवान् प्रचलितः स्वगृहं विहाय
पाद्मं सरः किमपि सौरभभारतारम् ।
धिक् प्रत्यपद्यत परन्तु विकूणिताक्षः
पद्यामिमां समुपसर्पति याऽन्धमन्धुम् ।। ४३।।
आशालताभिरभितः परिवारितान्त-
र्धातूत्तमे परिमलैः सुभगाभिरस्मिन् ।
बद्धस्पृहो भवति तिष्ठति वामभागे
माता पिता च परतः स मृगाङ्कमौलिः ।। ४४।।
त्वं नो भवस्यभवनं भवनायते चेत्
त्वद्दर्शने पितृवनादुदिते नु धूमे ।
साम्बः शिवस्तु भगवान् भव एव साक्षात्
सत्ता पतीयति तमेकमिमं श्मशाने ।। ४५।।
यो वै खुदा यम इवास्ति जगन्नियन्ता
यो वै पिता परमकारुणिकश्च यीशुः ।
वाणी कुराणतु च बायबिलत्वथासौ
योऽर्थस्तयोरिह भिदा नभसो हि वल्ली ।। ४६।।
प्राग् जन्मनो भजसि यत्र गृहेऽतिथित्वं
त्वं तत्र मित्र! वद दृष्टचराणि किन्नु ।
एताः शिखा मुखमिदं कृपणं करालैः
कूर्चैरियं गलगता च यमस्य रज्जुः ।। ४७।।
मा भूच्छुनीतनय एष मम क्वचिद् वै
भ्रष्टश्चतुष्पथ इहेति भियाऽदसीये ।
कण्ठे स्वलाञ्छनमुदारतरार्थसिद्धि-
सौस्नातिकाः पटुधियो न न सञ्जयन्ति ।। ४८।।
यं सम्प्रदायमुररीकुरुषे नर त्वं
पश्चादिमं स्वजनुषः खलु भूमिसीम्नि।
किं संग्रहालयगतानि तदन्यदीयै-
स्तल्लक्षणानि कलहायितुमुद्यतन्ते।। ४९।।
नो मस्जिदेन कलहायति मन्दिरं ते
नो मस्जिदं च कलहायति मन्दिरेण ।
यस्त्वत्र हन्त कलहायति सोऽतिमान-
नामाभिमानगरलः खलु दर्पसर्पः ।। ५०।।
माहिष्मतीपरिसरेषु सहस्रबाहु-
र्नो रेवमाणसलिलां तनुते स्म रेवाम् ।
पारेसहस्रमवनौ प्रविभज्यमान-
व्यूहामसौ स्म विनिकृन्तति संस्कृतिं स्वाम् ।। ५१।।
सा पर्शुरामपरशोरसितां क्षुरप्रां
धारां प्रविश्य विनिकृन्तति यस्य बाहून् ।
सोऽयं सहस्रभुज एव महाशिवस्य
भक्तश्च हन्त कृतवीर्यमुनेः सुतश्च ।। ५२।।
हिंसां हिनस्ति परमः प्रभुरव्यपेक्षो
जातौ कुले वपुषि चेतसि भक्त्यभक्त्योः ।
वज्रं पिपातयिषवः स्तनयित्नवः किं
दुद्रूषुतां दधति दैवत-मन्दिरेभ्यः ।। ५३।।
माहिष्मतीपतिरुमावतरः शरीरी
धर्मः सनातन इति प्रथितः प्रजाभ्यः ।
दुष्टं स्वमेकमपि पुत्रमिभाय ‘माताऽ-
हल्या’ ददे दलयितुं न च कम्पिताऽभूत् ।। ५४।।
आकार्य पाकपृतना भरतस्य वीरान्
आजौ दिनानि कतिचिद् द्रढिमानमार्च्छत्।
पश्चाच्च हन्त विचचाल भयातुरा च
प्रत्यैक्षत प्रधनशान्तिमपास्तलज्जा ।। ५५।।
इच्छोगिलाम्भसि विरच्य यदैव सेतुं
लाहौरमाप भरतावनिसैन्यरत्नम् ।
पाकश्रिया खलु तदैव निजे ललाटे
वैफल्यदुर्यश उदित्वरमालुलोचे ।। ५६।।
लाहौरनाम्नि नगरे समयेऽत्र नासी-
दन्यस्य कस्यचिदधीश्वरता, विहाय ।
सेनापतेर्भरतभूमिगतस्य वीर्योदग्रं
बलं दलयितुं प्रसितस्य शत्रुम् ।। ५७।।
सम्पूर्णमेव ननु तन्नगरं पुराणं
सारस्वतं किमपि केन्द्रमभूत् पुरा नः ।
प्राचीकशन् खलु यतो निगमागमानां
संपादिताक्षरशुभा विविधाः प्रबन्धाः ।। ५८।।
उष्णीबन्ध-परिशोभित-फालपट्टाः
स्निह्यत्सकाकुपदवाक्यमुखाम्बुजाताः ।
नर्मस्वपूर्वरसवाहिषु संपटिष्ठा
यन्नागरा लसतु तत्र न किं विभूतिः ।। ५९।।
पाञ्चापिकेषु निखिलेष्वपि तेषु तेषु
नीवृत्सु सस्यशबलेष्वलसत् सजानिः ।
प्रत्येकमङ्गिषु सुखं विषमेषुरीष-
दीषत्प्रगाढ-परिणाहि-रस-प्रणालः ।। ६०।।
नो पार्वतीं त्यजति तत्र शिवस्तपस्या-
वह्नौ न पातयति तां स शशाङ्कमौलिः ।
नो हस्तिनापुरपतिश्च शकुन्तलां तां
विस्मर्तुमिच्छति सुतामिह काश्यपानाम् ।। ६१।।
कौलीनवज्रमिह रावणकालरात्रौ
दारेषु पातयति दाशरथेर्न लोकः ।
तत्रापि यत्र चरितानि महाकवीन्द्रा
ग्रथ्नन्ति सूक्ष्मरसभावितसर्गबन्धाः ।। ६२।।
काले कलाविह मनोर्मनुजस्मृतिः स्वां
संपादनामभिनवामिव विद्वरेण्यैः ।
संप्रापिता प्रतिनवां प्रतिपद्य हिन्दु-
त्राणक्षमां परतरां क्षमतामदीव्यत् ।। ६३।।
यस्मिन्नकालपुरुषः करवालपाणि-
र्गान्धार-मारव-चतुष्पद-भीषिकाभ्यः ।
आर्यां महीं स्वयमवत्यतसीप्रसून-
श्रीकैर् भयानकमुखः खलु कूर्चकोषैः ।। ६४।।
आज्यं विशुद्धमथ धान्यचयः समृद्धः
सौस्थ्यं समेषु शुचिधातु चरित्रमार्य्यम् ।
सा चामृतस्य सरसी ननु यत्र तस्य
पञ्चाप! ते क्व तुलना वद भूतधात्रयाम् ।। ६५।।
यस्यान्तिके वसति काचन शारदाम्बा
सारस्वतो वहति यत्र रसप्रवाहः ।
यं बालुकाब्धिरपि पार्श्वयुगे वृणोति
पार्श्वद्वये च भजतो हिमशैल-वार्धी ।। ६६।।
चक्षूंषि यस्य नितरां विपुलानि शान्त-
श्रीह्रीशुभानि ललितान्यभिकर्षकाणि ।
ज्योत्स्नावितानि च मुखाब्जमवालुलोक
लोको रसेन गुरुरत्र स नानकोऽभूत् ।। ६७।।
पञ्चापभूमिसलिलाग्निमरुद्विहायः-
संघोत्थितत्रिपुरसुन्दर-मातृ-भक्तः ।
आसीदसावभिनवः खलु कोऽपि गेही
भिक्षुश्च शङ्कर इति प्रथितो गुरुर्नः ।। ६८।।
लालोऽत्र लाजपतराय इति प्रतीतः
पालो नु वङ्गभुवि बाल इवापरान्ते ।
तामेव यत्र धुरमत्र युगे महार्हां
राष्ट्राय हन्त वहति स्म सकर्मयोगः ।। ६९।।
लाहौरभूमिमधिगत्य विराडसौ तां
देशोत्तमः पुनरवाप मुदामुदाराम् ।
धारां धराधरसुतामिव रात्रिजानि-
शृङ्गारितोत्तमतनुर् वितनोर् विनेता ।। ७०।।
तां किन्तु शास्त्रिविरुदः स महान् मनीषी
नैवाक्षिपत् स्वतनयामिव दत्तपूर्वाम् ।
अर्थेषु यः खलु शुचिः स शुचिर्मनुष्यः
स्वप्नेऽपि तं न परिरिप्सति वै परश्रीः ।। ७१।।
को वाऽपरो वसुमतीवलयेऽत्र भूम्ना
कालेन पश्यति विचित्रचरित्रनाट्यो ।
यः सुन्दरीमुपगतां स्वयमार्य्यशीलः
कामेक्षणो न परिपश्यति, नापि लक्ष्मीम् ।। ७२।।
एको बभूव शिवराज इति स्वराष्ट्र-
रक्षाचणः सुचरितैरधुनापि काले ।
अन्यश्च शास्त्रिविरुदः सुमहानसौ सन्
नेता यतीव न हि संयममच्छिनद् यः ।। ७३।।
धीरः स एव खलु यो विषमेऽपि वात्या-
चक्रे चराचरचमत्करणैकदक्षे ।
नो पस्पृशीति चलतां क्षरणां स्वचेतो-
धातोर्नु काञ्चिदपि धिक्करणां च मातुः ।। ७४।।
सक्तून् पिबन्ति निजधर्मरता महान्तः
सन्तः सुखं ससुतदारकुटुम्बवर्गाः ।
दृष्टिं क्षिपन्ति न हि किन्तु परस्य पिण्डे
ब्रह्माण्ड! तैस्त्वमसि हन्त धृतं नृदेवैः ।। ७५।।
नन्नन्ति तान् हि परितोऽत्र वरूथिनीना-
मासां चराचरतया परिभाषितानाम् ।
सर्वेऽपि सन्ततममी पतयः शिरःस्थान्
शम्भोर्भगीरथतपः-प्रभवान्नु बिन्दून् ।। ७६।।
सर्वेऽपि धर्मपरिषत्पतयः समेऽपि
श्लोक्याः प्रभातसमये ककुभां पतीन्द्राः ।
साभ्रं नभो हरितकाननमालिनीयं
धात्री च सत्रशतमत्र हि ताययन्ते ।। ७७।।
त्रुट्यान्ति नैव यदमी खलु सन्धिबन्धाः
प्रत्नोत्तमा अपि दिशां स किलानुभावः ।
पुण्यात्मनां भुवि सुरद्रुमसन्निभानाम्
एषां हि शस्त्रशतशास्त्रमहार्थभाजाम् ।। ७८।।
रूसा अयूबमिव शास्त्रिणमेतमस्मिन्
सन्धानसेतव इवाऽतितरां कराले ।
काले समाजुहुवुरार्त्तिहरत्वदीक्षादक्षाः
परस्य नगरे ननु ताशकन्दे ।। ७९।।
यत्सन्धिपत्रमिह लालबहादुरेण
संभावितं मतिमतापि निजाक्षरेण ।
प्रेतप्रशान्तियजनेन समानमाने
तस्मिन्नसावधित हन्त हविः स्वमेव ।। ८०।।
यदपि निजभटानां शोणितानां मषीभिः
कविकुलतिलकोऽयं राष्ट्रकाव्यं न्यभान्त्सीत् ।
अतितनिषत सोऽस्मिन् पुष्पिकामन्त्यसर्गो-
त्तमपरिणतिभूतामात्मनः शोणितेन ।। ८१।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘भारतपाकसन्धिबन्धो’ नाम अष्टादशः सर्गः।। १८।।