एकोनविंशः सर्गः
( १ )
भारतमातः! पुत्र एष ते ‘लालबहादुर’-नामा ।
गरलं पिबति ताशकन्दे तव पदयोः शतं प्रणामाः ।। १।।
अयि परमेश्वरि! महामहेश्वरि! जगदीश्वरहृदयेश्वरि ।
कुरु करुणां क्षणमिहापि कर्णौ वितर विश्वविभवेश्वरि ।। २।।
प्रैति प्रसभं तनय एष ते भूतपिण्डकं त्यक्त्वा ।
अनुनयति त्वां जननि! वत्सले! प्रणयमन्तिमं कृत्वा ।। ३।।
प्रणयमिमं कृपया शृणु मातः, पुत्रकमिमं क्षमस्व ।
प्रतिप्रयाणक्षणे कृतं मे विनयमिमं विषहस्व ।। ४।।
भारतमातः-शतं प्रणामाः
( २ )
जन्ममही मम गङ्गातीरे रामनगरमधिकाशि ।
किन्तु त्यजति ताशकन्देऽसौ गात्रं स्वकं विनाशि ।। ५।।
इयं धृष्टता घनकृतघ्नता परमो ममापराधः ।
विवशः किन्तु तथैवाचरितुं क्रियतामत्र न बाधः ।। ६।।
मा विमुखीभव जननि! वत्सले! तव पदयोर्निपतामि ।
देहमोक्षसमये मम मातर्! नान्यं परं स्मरामि ।। ७।।
पापे मयि मम पावनि! मातः संप्रति कृपां कुरुष्व ।
प्रतिवचनं मम भारतमातः श्रोतुं क्षणं दयस्व ।। ८।।
भारतमातः-शतं प्रणामाः
( ३ )
अहमकिञ्चनो मातस्तुभ्यं किमपि न दातुं शक्तः ।
अहमविवेकी त्वया प्रदत्ते विभवेऽप्यलं प्रमत्तः ।। ९।।
अहमतिकृपणः परातिसन्धिं नैव समर्थो भङ्क्तुम् ।
अहमतिभीरुः परास्कन्दिनः स्वयं न शक्तो हन्तुम् ।। १०।।
अथापि मातर्मदधीनं यत् तत्र न वै कृपणामि ।
अशक्तिशक्ती उभे अपीमे तुभ्यं समर्पयामि ।। ११।।
मम समर्पणे त्रुटिर्यदि स्यात् तर्हि भव त्वं विमुखा ।
पश्य न मे मुखमपि प्रकृष्टे! परमेश्वरि! भव विमुखा ।। १२।।
भारतमातः-शतं प्रणामाः
( ४ )
आजन्मनः समर्पितभावस्तव सेवायामेषः ।
यथाकथञ्चन चरितार्थीकृत-निजबलबुद्धिविशेषः ।। १३।।
संप्रति मातर्मम नतमेतं मूर्धानं न जहीहि ।
मयि शवपटं जननि! तव वत्सलमञ्चलमेव विधेहि ।। १४।।
त्वत्पदपङ्कजपरागशुद्धे भाले मम, मम मातः ।
व्रजतु तिलकतां तवैव पादालक्तकरसः कृपातः ।। १५।।
अथ मम पिण्डं मया विहीनं त्वं तव कोपानलतः ।
रचय भस्मसादयि न ततोऽहं हीनो विधिहरिहरतः ।। १६।।
भारतमातः-शतं प्रणामाः
( ५ )
परः पुमर्थः स एव मातर्मम न परः खलु कश्चित् ।
तव सेवायां देहविसर्गो ब्रह्मपदं मम शश्वत् ।। १७।।
अथापि पश्चिमतमो ममायं प्रणयस्तत्र दयस्व ।
कृपया तमपि स्तुतौ तवाम्ब प्रतिपद्यस्व सहस्व ।। १८।।
नाहं कर्माऽकर्म-विकर्म-प्रविवेकेण समृद्धः ।
नाहं शान्ति-दान्ति-करुणा-समभाव-तितिक्षा-सिद्धः ।। १९।।
किन्तु दयामयि! जले शैत्यमथ गान्धिमहात्मनि सत्यम् ।
यथा तथा मयि तव पदपङ्कजयुगलनतौ सातत्यम् ।। २०।।
भारतमातः-शतं प्रणामाः
( ६ )
मातर्! गङ्गा वहति हिमाचलशृङ्गात् कुत्र च याति ।
मातर्! भागीरथीयमम्भोनिधिं कथं न जहाति ।। २१।।
अस्यास्तीरे पुण्यशरीरे वाराणसी-प्रयागौ ।
कथं नु वासं भजतो मातः स्वेच्छातः श्रितरागौ ।। २२।।
अत्र सरसता प्रथमो मन्त्रः स्वच्छहृदयता चरमः ।
मध्येऽनयोः प्रसिद्ध्यति लाभः समन्वयाख्यः परमः ।। २३।।
समन्वयोऽयं राजति तारं द्यावाभूम्योर्यद्वत् ।
भूमिसमुद्र-दम्पति-द्वन्द्वेऽप्ययं विराजति तद्वत् ।। २४।।
भारतमातः-शतं प्रणामाः
( ७ )
भागीरथं तपः श्रम ऊर्ज्जा समर्प्पणं स्वविसर्गः ।
कपिलरोष-भस्मीकृत-नानालोक-मुक्ति-तनु-भर्गः ।। २५।।
भागीरथं तपः प्रणबन्धोऽचलोऽच्युतोऽप्रतिगामी ।
कर्म्मयोगिनां ज्योतिस्स्कम्भोऽनन्तः शिवः स्वकामी ।। २६।।
तदिदं तपस्त्रिपथगा गङ्गा भागीरथी न दहनः ।
आप्यायनं तारणं तस्मिन् स्पृशति समस्तः पवनः ।। २७।।
शिवसंकल्पं मनः शरीरि प्रतिबिम्बितं हि तत्र ।
प्रतिफलितं गायत्रीमातुः स्तन्यं धवलं तत्र ।। २८।।
भारतमातः-शतं प्रणामाः
( ८ )
विश्वमेकनीडीकृतमस्मिन्नत्र सुपर्णो विष्णुम् ।
प्राप्य भ्राम्यति परमे व्योमनि परात्परं भ्राजिष्णुम् ।। २९।।
महावाक्यमिह नन्दगोपगृहसीमनि बालककृष्णः ।
महानटोऽस्मिन् नटति प्रीत्या सृष्टि-विसृष्टि-वितृष्णः ।। ३०।।
अस्मिन् भागीरथे तपस्यधुनापि सजीवे मातः ।
लसति गोखले-गान्धि-नेहरू-बोसादेः प्रणिपातः ।। ३१।।
मातर्गङ्गानामकमेतत् तपोऽधुनाऽपि भवत्याः ।
शान्तिपाठमुपगायति तेभ्यो ये खलु सुता जगत्याः ।। ३२।
भारतमातः-शतं प्रणामाः
( ९ )
अयि मम मातः सायं प्रातर्मध्याह्नेऽपि मनुष्यः ।
सन्ध्यामत्र कथं समुपास्ते धृतगायत्र-तपस्यः ।। ३३।।
इदमहममृतकुण्ड इममस्मिन्नात्मानं विजुहोमि ।
इदमहमघं मर्षितुं वै स्वं ज्योतिषि परे सुनोमि ।। ३४।।
द्यावाभूमी तथाऽन्तरिक्षं कुक्षेः कस्य नु लीला ।
कस्य नु तनया इमे नृदेवास्त्यागतपोव्रतशीलाः ।। ३५।।
इदमपि चित्ते करोति मातर्दर्शनमसौ तदानीम् ।
तत्र कारणं भारतभूमिः प्रज्ञां श्रयति पुराणीम् ।। ३६।।
भारतमातः-शतं प्रणामाः
( १० )
जननि! मनुष्यः सरित्सिन्धुवनशैलैः कथं विभक्तः ।
इदं मदीयं त्वदीयमेतत् क्षेत्रमिति स्थिति-माप्तः ।। ३७।।
अहो जडैश्चेतनो मनुष्यः कथं नु कृतो विहस्तः ।
कथं पाण्डवान् हन्तुमीहते कौरवगणो विरक्तः ।। ३८।।
न तत्र गोत्रं न वापि करुणा प्रतिबन्धाय प्रभवति ।
कथं पितृव्यपुत्रशतमन्यः पितृव्यपुत्रो विशसति ।। ३९।।
भोगा येन स देहः स्वयमपि मृत्युभोग इति बोधः ।
कीदृश एष च धिक् परमेश्वरि! निकृतौ स्वप्रतिशोधः ।। ४०।।
भारतमातः-शतं प्रणामाः
( ११ )
सत्यमहिंसा स्तेय-परिग्रह-विरहौ ब्रह्मणि चर्य्या ।
शौच-तपः-प्रणिधान-बन्धुरा स्वाध्यायस्य सपर्य्या ।। ४१।।
जठरगह्नरं भृतं यावता तावदेव मम वित्तम् ।
ततोऽधिके न स्पृहा मदीयेत्यदः क्व तुष्टं चित्तम् ।। ४२।।
क्व च मम मातः कोटिकोटि-वसु-भोग-रतो मनुवंशः ।
प्राप्य नाकमपि यस्य ललाटे विधिना लिखितो ध्वंसः ।। ४३।।
वर्षशतं मनुजस्य यदायुस्तत्र करोति स गर्वम् ।
विहसति परान् हिनस्ति भूतलं दलयति हहहा सर्वम् ।। ४४।।
भारतमातः-शतं प्रणामाः
( १२ )
को नु जननि! वद बुद्धिविपर्य्यय एष विवेकयुतस्य ।
मनुष्यनाम्नो द्विपादजन्तोर् धृतसंवेग-शतस्य ।। ४५।।
अयि मम जननि! प्रतिपत्तेर्मम दूरमिदं बत निखिलम् ।
विस्मितविस्फारितनयनोऽहं कलयाम्येव च सकलम् ।। ४६।।
येन द्रुतं परैमि जननि! मम वेद्मि न तं पन्थानम् ।
समुद्र एष प्रचलदूर्म्मिको लभे च नो मन्थानम् ।। ४७।।
इमाश्चतस्रो दिशो, महीयं, द्यौः, क्षितिजं च नितान्तम् ।
रोम रोम मम लुञ्चितुकामा वपुषि वमन्ति कृतान्तम् ।। ४८।।
भारतमातः-शतं प्रणामाः
( १३ )
अस्म्यसहायो विषमिव मातश्चराचरेऽस्मिन् व्याप्तम् ।
होलाकारैर्ज्वलनस्कम्भैरेतैरखिलं क्षिप्तम् ।। ४९।।
दंष्ट्राभीषणकराल-विवरोद्गत-लालारस-मेतत् ।
मातर्दिवि परिधावति वक्त्रं यमराजस्य हहा तत् ।। ५०।।
इतस्ततः प्रपतन्ति कीकसोत्कराः पृथिव्यामेते ।
नाद्य क्षिपति मेघमालेयं शोणितधाराः क्व नु ते ।। ५१।।
हहा वञ्चका वृका शृगालाः सालावृकाः समन्तात् ।
उत्पुच्छोर्द्ध्वमुखोन्नतकर्णाः हहा रुवन्ति पुरस्तात् ।। ५२।।
भारतमातः-शतं प्रणामाः
( १४ )
अयि मम जननि! दूर एषोऽहं त्वयि च वैशसं नृत्यति ।
किं नु करोमि, मृत्युरयि मातर्विवृतमुखो मयि धावति ।। ५३।।
इमे समुद्रा उद्गतबाष्पोद्गार-पर्व्वतावलयः ।
इमे वनस्पतयः परिमुक्तोच्छ्वास-पतग-शत-रुतयः ।। ५४।।
स्रंसन्ते बत सूर्य्यकरा अपि विभातकाले मेरोः ।
अहो निशीथेऽप्युदेति शतशतमुल्कानिचयः फेरोः ।। ५५।।
नृणां शरीराण्यभितो ज्वलितो दावानलः करालः ।
हहा ध्वाङ्क्षनियचेन चञ्चुभिः परिहन्यते मरालः ।। ५६।।
भारतमातः-शतं प्रणामाः
( १५ )
गङ्गाम्भसि मलनलिकापाथः कलुषितमिदं विमिश्रम् ।
अहो पुण्यसवितारं निगिलति संप्रति पापतमिस्रम् ।। ५७।।
गावः खादितुमनसः संप्रति मांसं रुधिरक्लिन्नम् ।
फालतिलककलनं च दृश्यते सुभगानां बत भिन्नम् ।। ५८।।
अस्मिन् महाविनाशभैरवे नृत्यति कपालमालिनि ।
तालं ददति मुनीन्द्रा ह्येते नभसि समेता व्यापिनि ।। ५९।।
को नु साम्प्रतं महाविनाश-स्यन्दनचक्रं रोद्धा ।
कश्च साम्प्रतं ज्वलनप्रावृषि शमनोपायं बोद्धा ।। ६०।।
भारतमातः-शतं प्रणामाः
( १६ )
चन्द्रसौम्यवदने! मम मातस्तव चिबुके च स्फुरणम् ।
तव कपोलयुगले परिपाण्डुनि बाष्पजलस्य च्छुरणम् ।। ६१।।
तव सितमञ्चलमिदं साम्प्रतं कज्जलमलिनं मातः ।
धिग् धिक् कमलकोषकिञ्जल्के कौशिक-शत-प्रपातः ।। ६२।।
कोऽयमुपद्रव एष हन्त को विपर्य्ययः कः प्रलयः ।
आगम-निगम-पुराण-धर्म-विधि-कवितानामिव विलयः ।। ६३।।
कलाः कुमार्य्यः कुत्र नु संप्रति कटाक्षसृष्टिं कुर्य्युः ।
इमे क्व गगने सुकुमारा बत गीतिलयाः प्रचलेयुः ।। ६४।।
भारतमातः-शतं प्रणामाः
( १७ )
झञ्झावातैर्हहहा जर्ज्जरगात्राः कृता व्रतत्यः ।
सरोवरेऽस्मिन् गता विलोपं कमलिन्यो बत सत्यः ।। ६५।।
अथ विशरारुरयं हिमशैलश्चराचरं शातयिता ।
महासमुद्रः पुनश्च संप्रति भूमिमिमां पातयिता ।। ६६।।
को नु वराहो भविता संप्रति हिरण्याक्षवधशक्तः ।
को हिरण्यकशिपूदर-पाटन-दक्षे नृहरौ भक्तः ।। ६७।।
गतो महात्मा गतः पटैलो गतो नेहरूः संप्रति ।
उच्छृङ्खलता भ्राम्यति भूमौ गतलज्जं नौः कंप्रति ।। ६८।।
भारतमातः-शतं प्रणामाः
( १८ )
को नु ततो वदनं गतमौनं हन्त साम्प्रतं कर्त्ता ।
कश्च साहसी गृध्रमण्डले हंसः संप्रति मर्त्ता ।। ६९।।
ततश्चेतना लुप्यति, नश्यति धृतिश्चलति जीवात्मा ।
हृष्यतु मातर्मयि, करुणां कुरु, भवती मम परमात्मा ।। ७०।।
आशास्थानं भजतु निराशा, तव पदयोः प्रणिपातः ।
प्रजातन्तुरसकौ न विनश्येन्मानवताया मातः ।। ७१।।
तथा विदध्याः किमपि कथञ्चन झटिति विनैव विलम्बम् ।
यथा सुस्थता सुस्थिरचित्ता वृणुयाद् वसुधावलयम् ।। ७२।।
भारतमातः-शतं प्रणामाः
( १९ )
शपामि मातः पदे त्वदीये प्रतिवेशिनो विमर्द्दः ।
भारतराष्ट्रमत्तगजगण्डे सप्तपर्ण्णपरिमर्द्दः ।। ७३।।
आयातितबल एष नैव कस्तूरीमृगे मदीये ।
भारतराष्ट्रे मुञ्चति बाणं मुञ्चति वपुषि स्वीये ।। ७४।।
नास्ति तत्र मम चिन्ता मातः क्वाऽत्र वृकः नु सिंहः ।
हुङ्कृतिमात्रमस्य पर्य्याप्तं शोषयितुं मृगरंहः ।। ७५।।
मम वीराणां महाभटानां व्यपगत-मृत्यु-भयानाम् ।
बिभ्यति वक्षसि मृत्युकरा अपि पतितुं लौहमयानाम् ।। ७६।।
भारतमातः-शतं प्रणामाः
( २० )
तेषां भ्रुकुटिभङ्गमुपलक्ष्य क्षुभ्यति भाग्यमरीणाम् ।
तेषामूर्ज्जां स्पृष्ट्वा भ्राम्यति महिमा महागिरीणाम् ।। ७७।।
तेषां कौशलमुदीक्ष्य युद्धे विस्मयते द्यौरेषा ।
यया सहस्रं वारान् दृष्टा भूरेषा शवशेषा ।। ७८।।
मानवरक्तमहोदधिगर्भे जनितावर्त्तः शेषः ।
मुखसाहस्रीप्रसूतमद्भट-वीर्य्य-स्तवन-विशेषः ।। ७९।।
टैङ्क-कच्छपे युद्धमन्दरं जनयति यां खलु लक्ष्मीम् ।
तां प्रति पुरुषोत्तमो भवति मम सेनानीः प्रथिताक्षीम् ।। ८०।।
भारतमातः-शतं प्रणामाः
( २१ )
तां मम महाभटानां ललिताः पत्न्यश्चेटीभूताम् ।
कुन्तलचूर्ण्णैर्ददति लिखित्वा दिग्भ्यः सुस्थिरचित्ताम् ।। ८१।।
अस्मिन् महति प्रदानयज्ञे प्रवर्त्तमाने कियताम् ।
स्वर्णमयी जाता तनुरुच्चैर्नटतां कविनकुलानाम् ।। ८२।।
इतिहासाख्यः पुराणपुरुषश्चित्रायाऽस्मै भित्तिः ।
संप्रति तां मानवता पठिता भूयः सप्रतिपत्तिः ।। ८३।।
प्रपठन्ती तां मानवतैषा भूयः सुस्था भविता ।
उदेष्यतेऽस्या अभ्युदयाख्यः स्वधर्म्ममेरोः सविता ।। ८४।।
भारतमातः-शतं प्रणामाः
( २२ )
एषाऽस्माकं धृतिर्दर्शनोज्ज्वला न वै निर्बलता ।
यदत्र देशे विहितं राज्यं परैः श्रिता च कुशलता ।। ८५।।
यदा वयं जागरितास् तस्मिन् क्षणे गान्धिसूर्य्येण ।
पारतन्त्रयतम उद्वासितमिदमतिलघु-मतिवीर्य्येण ।। ८६।।
पुनरास्कन्दनमकारि सीमा-मायाविभिरिह तैस्तैः ।
तत्रोत्तरमुचितं प्रदत्तमधुनैव जनैः समवेतैः ।। ८७।।
वीरजवाहरलाल-हिमाचल-वक्षसि घर्षणमाप्तः ।
भग्नः शत्रुवज्रपरमाणुः किमु नाधुनैव मातः ।। ८८।।
भारतमातः-शतं प्रणामाः
( २३ )
उच्छृङ्खलता प्रभवति पूर्वं तदनु धीरता कुरुते ।
सौराज्यं वसुमतीतलेऽस्मिन्निति को नो जानीते ।। ८९।।
दण्डशस्त्रमन्तिमं मृत्युकरवाल-सयोगक्षेमम् ।
तत् परिहारदिशैव धाविताः पुरातना अस्माकम् ।। ९०।।
तत्र मयाऽपि चक्षुरयि मातः प्रहितं मम वैवश्यात् ।
विनिमय-मये युगेऽस्मिँल् लब्धुं लभ्यमधिकमाशास्यात् ।। ९१।।
क्षुद्रमरिं परितोष्य मृत्तिकां दत्त्वा काञ्चन, मित्रम् ।
महाबलं प्रियमाप्तुं यतितोऽस्म्यहं पवित्रचरित्रम् ।। ९२।।
भारतमातः-शतं प्रणामाः
( २४ )
तत्र भावना देशवासिनां मया विशस्ता नियतम् ।
वीरभटानां रुधिरमूल्यमयि मया शत्रवे कलितम् ।। ९३।।
दस्युरेव मयका पात्रीकृत इदं प्रददता मुष्टम् ।
व्याघ्र एष मयका गोः क्षतजैः परिपूजितः प्रकृष्टम् ।। ९४।।
द्रुघ्णमहं लतिका-कुसुमाञ्जलि-सपर्य्यया प्रणमामि ।
सूनाध्यक्षे गृहशकुन्तिकामहमहहा विसृजामि ।। ९५।।
ज्वालामुखशिरसि स्थित्वाऽहं शान्तिमहो गायामि ।
हं हो मरुमरीचिकागर्भे सलिलमहं मृगयामि ।। ९६।।
भारतमातः-शतं प्रणामाः
( २५ )
मातर्यदपि करोमि न तद् वै प्रियं देशजनतायाः ।
किं नु परन्तु करोमि न मार्गान्तरं शान्तिदयितायाः ।। ९७।।
अतः कपोतं त्यजामि लब्धुं महामयूरं सद्यः ।
वहन्तु भारतमातस्त्वयि पुनरिमाः शुभाः सुरणद्यः ।। ९८।।
प्रायश्चित्तमहं परमेतत् कर्त्तुं वपुस्त्यजामि ।
मम वीराणां रणे हतानां दिवि सङ्गीतिमुपैमि ।। ९९।।
नात्र दोषमुपकल्पयितुं प्रयतेत परत्र विधिज्ञः ।
यया गता मम युद्धयाजिकास्तस्याः सृतेरहं ज्ञः ।। १००।।
भारतमातः-शतं प्रणामाः
( २६ )
मम ललिता, मम सुनील एषोऽनिलो हरिर्वपुरेतत् ।
भारतमातस् त्वयैव दत्तं तुभ्यं ह्यर्पितमेतत् ।। १०१।।
मम प्रणामान् परमं पूतानेतान् स्वीकुरु मातः ।
एष ताशकन्दो मम साक्षी कृतो मया नहि घातः ।। १०२।।
अप्रियशबलं प्रियं प्रियत्वे कलयन्ते नहि लोकाः ।
महाप्रयाणं वृणे ततोऽहं सन्तु दिशो गतशोकाः ।। १०३।।
ऊर्ध्वमूलमश्वत्थमिमं विसृजामि भवामि सुपर्णः ।
उड्डीये, सुहृदः! शृणुतासौ भवतामस्म्यधमर्णः ।। १०४।।
भारतमातः!-शतं प्रणामाः
इति निजकरलेखं शास्त्रिणः प्रातरेतज्ज-
गदलभत पार्श्वे खण्डितश्वासरज्जोः ।
उदयगिरिशिखाया उत्थितेऽप्यर्कबिम्बे
तिमिरनिकर उच्चैरद्य विश्वं न्यगारीत् ।। १०५।।
भरतभुवनसूर्य्यः खण्डितारातिरात्रिञ्चर-
दशनसमूहो व्यूहमेवं विसृज्य ।
अभजत चरमाद्रिं कर्मयोग-प्रसिद्ध्या
भरतवचनमार्ये नाट्यायोगे नु योक्ता ।। १०६।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘लालबहादुरशास्त्रिदेहविसर्गो’ नाम एकोनविंशः सर्गः।। १९।।
विंशः सर्गः
विलपति कविः काले ह्येवंविधे समुपस्थिते
विहसति कलिस्तीक्ष्णान् दन्ताङ्कुरान् परिघर्षयन् ।
विसृजति दृशां बाष्पोत्पीडाँस्ततिः परिबृंहिता-
नपि सुमनसां प्रत्यक्चैतन्यमात्र-विहारिणाम् ।। १।।
भवति हृदयं द्वैधीभावेन तीव्रहलाहल-
प्रतिभटधुरं वोढुं शक्तेन हन्त खिलीकृतम् ।
व्रजति विलयं सद्यो लोकेऽत्र यत् प्रतिमापरं
मह उपचितीः श्लिष्टा अन्धं तमः प्रतिपद्यते ।। २।।
हिमगिरिरसौ मूर्धा राष्ट्रस्य यस्य, स मेखलो
भवति च गिरिर्यस्मिन् रेवोत्तरा मणिमेखला ।
अनुपमशिराः सह्यो गुल्फं महेन्द्रमहागिरिः
पदनखमणिज्योत्स्नामालाऽश्रु मुञ्चति हाऽद्य तत् ।। ३।।
उटजपटले वर्षा-वात्यादरिद्रितकुड्याके
निगमवचसां स्तोमं यो वै रिरक्षिषति द्विजः ।
शपति नयनोत्सङ्गोद्भूताम्भसां प्रययेन स
प्रभुममुमुमाजानिं तुभ्यं विषं हि परं प्रियम् ।। ४।।
उपवनलता-द्रोणीमेणीप्रियस्य विविक्षतः
क्षिपति नयने दीर्घे कारस्कारः स्वमहो रजः ।
तदपि च विषं काकोदर्य्या ज्वलत् परिपर्स्पृशी-
त्यहह नियतेश्चित्तेऽप्येषोऽद्य वेपथुरीक्ष्यते ।। ५।।
भरतभुवने सर्वेऽशोकद्रुमाः प्रतिगुच्छकं
दधति धगिति क्रूरक्रूरं ज्वलन्तमुषर्बुधम् ।
न खलु त इमे सीतामाश्वासयन्तमिमं प्रभो-
र्दयितदयितं दूतं दूरादपीक्षितुमातुराः ।। ६।।
शरटनिटिलं काकोदर्या मुखात् प्रविसृत्वरे
स्तवनचतुरे जिह्नाद्वन्द्वे निशाम्य निजां स्तुतिम् ।
इह हि समये कम्पाञ्झम्पोत्तरान् दधदीक्ष्यते
रचयतितरां चित्रं तस्यैव किञ्च रसाज्जगत् ।। ७।।
अहह पृषती शृङ्गे यस्याद्य विश्वसिताक्षिणी
शमयितुमना दीर्घापाङ्गस्य पार्श्वमुपस्थिता ।
तमिह जरठः शृङ्गी पादद्वयेन विरेचितः
पदयुगयुतः कश्चिद् व्याघ्रो हठान्निरजीगरत् ।। ८।।
अधिकनखलं शृङ्गाद् गौरीगुरोर्निपतत्यसौ
निखिलसुकृतप्रध्वंसात्माद्य कर्मविनाशिनी ।
अधिशरशतं तस्यास्तीरे पितामहसंज्ञितः
कुरुपरिवृढो भीष्मां पीडां व्रणेषु सिषत्सति ।। ९।।
अतिचरति नः प्रत्यक्षात्माऽनुमां निशितेक्षिकै-
रशिशिरतमैस्तर्क्कैर्व्याप्तिं परां गमितामपि ।
अधिहरिवपुर्मेरोः शृङ्गेषु संप्रति शेरते
स्मर-कवलिताः शेषा धूम्राम्बरावृतविग्रहाः ।। १०।।
सुरभिरसकौ हेषामश्वस्यती विसृज-
त्यथ द्रुततरमिमां दस्रावेतौ दृढं वरिवस्यतः ।
उपशममथाप्येषा नैवोपयाति मलिम्लुचां
चितिनयनयोर्निद्रां धिक् सन्निपातभवां गता ।। ११।।
यमनियमयोर्ज्जीर्ण्णां कन्थां जिहासुषु साम्प्रतं
मसृणमसृणा शाटी विज्ञानसूत्र-समुद्भवा ।
अहह गमिता गाढां प्रीतिं तदञ्चलमृच्छत-
श्छलयति खला दीर्घापाङ्गानिमाननुवासरम् ।। १२।।
हिमगिरिदृषद्वक्षःपट्टोच्चयो द्रुतिमीयिवान्
विलयमसमं प्राप्य स्रोतांसि यान्यधुनाऽकिरत् ।
तरुणकरुणान्येतान्यग्नीनिवोदगिरन् गिरा-
मविषयमिमं तापं सृष्टिः कदा शमयिष्यते ।। १३।।
अचलदचला, पाटीराणां वनी व्यसृजद् विषं,
वियदुरुजवान् झञ्झावातानमूर्च्छयदुन्मदान् ।
उदधिवलयो विस्फूर्जद्भिर्महोर्मिभिरातुरी-
मधिचिति दृढं स्यूतामुच्चैस्तरामुदजीघटत् ।। १४।।
क्षितिजवदनान्यासन्नत्यन्तमेव मलीमसा-
न्यनुदितरविर्वारो रात्रिर्व्युदस्तनिशापतिः ।
स्थिरयतितरां रंहः सांवत्सरः सततक्रमो
रथ इह रथिश्रेष्ठे काले दिवं समुपेयुषि ।। १५।।
नयनसलिलोत्पीडानर्चावतारवपुः प्रभुः
प्रतिसुरगृहं तूष्णीं तिष्ठँस्तदा स्म सिसृक्षति ।
स च कुवलयापीडं भूयो गवेषयते हरि-
र्भुजयुगगतां खर्जां जातां पुनः प्रतिसंहरन् ।। १६।।
अथ ललितया याते पत्यौ दिवं सहसा तदा
न खलु जगदे किञ्चित् संज्ञां विहाय विहस्तया ।
निपतति तडिद् यस्यां वल्ल्यां दिवः स्फुरदुल्वण-
द्युतिरुरुरवा घोरा किं वा न सा निपतत्यधः ।। १७।।
अवहत दशां तां सा संज्ञां गतापि पतिव्रता
क्षितदशरथा यां वै रामप्रसूः समवीवहत् ।
विमलचरितैश्चेतोधातुर्विधातरि वामता-
मपि गतवति स्थैर्यं हातुं कदापि न दीयते ।। १८।।
भ्रमति नियतेश्चक्रद्वन्द्वं सदैव, तया दिशा
व्रजति च निराबाधं यां वै विधिः कुरुते स्थिराम् ।
न खलु ललिता तस्मादेवान्वगादमुमात्मनः
प्रियतममितो यान्तं रूसच्छलादनिवृत्तये ।। १९।।
दिवसरजनीद्वन्द्वे मातेव पुत्रमियं पतिं
प्रतिपलमनुध्यानैस्तैस्तैरवेक्षितुमुत्सुका ।
अनुशयमतिक्षारक्षारोदयं हृदयान्तरे
निगडितुमलम्भूष्णुर्नाभूद् विनाकृतिनिष्ठुरम् ।। २०।।
विकलकरणग्रामा सेयं हृते मणिसञ्चये
व्यलपदबला रात्नी मञ्जूषिकेव निरन्तरम् ।
न च खलु शृणोत्यस्याः कश्चित् तमातुरमार्त्तिदं
रवविरहितं चेतोरावं तदा स्म सुतादिषु ।। २१।।
व्यथयति न मे चित्तं यातो भवान् प्रविहाय मा-
मिति बत कथा नाथ! क्रूरं तथा हतदैवताम् ।
व्यथयति यथा चिन्ता यन्नाथ नाहमुपागते
विषमविषमेऽनेहस्यम्भोऽप्यपातयमानने ।। २२।।
तव मुखविधावस्मिंस्तस्मिन्ननेहसि यज्जलं
समुदितमभूच्छीतं तत् प्रोञ्छनाय समुत्सुकाम् ।
प्रियतम! पटीमेतां कस्मै गुणाय कलेवरे
बत कवलिते धात्रा दुर्मेधसा बिभराण्यहम् ।। २३।।
तव पदयुगं स्पृष्ट्वा तस्मिन् क्षणे करयोरिदं
मम युगलकं धिग् धिग् धन्यायितुं प्रबभूव नो ।
वदनविवरादस्माद् धिग् धिक् तदाऽभवमेषका
न खलु कुशला वक्तुं नारायणाक्षरमालिकाम् ।। २४।।
अयि भगवती माता भागीरथी कलशे स्थिता
मयि तव मुखं स्प्रष्टुं भीष्मायते मुखमात्मनः ।
इयमपि हहा श्यामा गौरेषका तुलसी हहा
विलपतितरां गीता माताऽपि हा त्वदसेवया ।। २५।।
न खलु भवतस्तस्मिन् काले मया मधुमिश्रितं
बत दधि मुखे त्यक्तं लिप्तं न वा हरिचन्दनम् ।
अहह कृपणो धाता नादादमुष्य जनस्य ते
नयनयुगलादन्त्यं ज्योतिश्च निर्गतमीक्षितुम् ।। २६।।
अहमहह किं पक्ष्मद्वन्द्वान्तरे स्थितिमीयुषी
क्षणमतितरां क्रूरे तस्मिन् क्षणेऽभवमार्य ते ।
नियतमभवच्चित्तं ते नाथ! धिग् रहिते तदा
विजनगगने भ्रामं भ्रामं नितान्तमिवाकुलम् ।। २७।।
न किल भवते नीतौ मुख्यं पदं रुरुचेतरां
रुचितमुचितं तद् वै यल्लोकमङ्गलकारकम् ।
छलयति महामायो धाता निरुत्सुकचेतसो-
ऽप्यहह कथमा एवंकारं कथास्ववशेषयन् ।। २८।।
न खलु कणिकामात्रेऽप्यन्यस्य हन्त धनस्य ते
हृदयमभजत् कृच्छ्रे कालेऽपि भावविपर्य्ययम् ।
पदमपि महत् प्रीत्यै नाभूत् स्वधर्मरताय ते
कृतयुगमिवाधातुं काले कलौ त्वमिहागतः ।। २९।।
क्षणमपि मयि स्निग्धां दृष्टिं विधेहि पुनः पुनः
क्षणमयि मम स्निग्धं प्रत्युत्तरं प्रतिपद्यताम् ।
न खलु ललितां त्यक्तुं श्रीमान् कदाचिदचिन्तय-
स्त्यजसि च विना हंहो संभाषणं किमिदं प्रिय ।। ३०।।
विसृजतितरां धारासारानसौ नयनाञ्चलाद्
अनिलसहितः स्निग्धः पुत्रः सुनील इयं वधूः ।
अयमिह हरिः, सर्वेऽप्येते तवान्तिकचारिणः
स्वपिति च भवानेवं तूष्णीं प्रयच्छति नोत्तरम् ।। ३१।।
इति ललितया बाष्पोत्पीडैस्त्रिवर्णपताकया
परिवृततनोर्हंसं त्यक्त्वा क्षितौ शयितस्य यत् ।
विलपितमहो पत्युः पार्श्वे ततश्चितिदारिका
मनुजवसुधासीमन्तिन्या बभूव हहा द्विधा ।। ३२।।
दिनकरसुतातीरे गान्धीजवाहरयोर्यथा-
ऽभवदथ समारोहैर्भव्याऽन्तिमाऽस्य तनोः क्रिया ।
अधित वसुधा दिल्ल्या येन प्रयाग-समानतां
त्रिभिरुपगता दिव्यैस्तोयैर्यथा पुरुषोत्तमैः ।। ३३।।
अधिमृधमभूत् प्राप्तं यत् क्षेत्रमस्य पुनःक्षयाद्
भरतजनताऽऽक्रोशं यं वै बभार तमेषका ।
परिणतिरहो नादादुत्थातुमात्मनि पिच्छलो
भवति नितरां सर्वः पादद्वयेन युतः पशुः ।। ३४।।
सरति सलिलं स्रोतस्विन्या निरन्तरतायुतं
जलनिधिमुरस्ताडं तारं च ताडयतेतराम् ।
भवति कलुषं वर्षास्वेतच्छुचौ विरलं परं
विशसनमुपैत्यस्मिन् धारा न पात्रतटाश्रिता ।। ३५।।
जगति जनताप्येषा संसारणाकुशला स्मृति-
क्षितिजजठरे तापाञ्छोकांश्च सत्वरमुज्झती ।
अनुपल-नवीकार-प्रत्यग्रभूय-समाचिता
स्थिरयति रसे चेतोधातून् धरापि यतो रसा ।। ३६।।
भरतभुवनं स्वेच्छामुक्तस्वसंहननं ह्रिया
हृदयविरुदे रात्ने पीठे निवेश्य तु शास्त्रिणम् ।
अचलदुचिते क्षुण्णे पूर्व्यैः प्रकृत्यनुमोदिते
पुनरपि पथि प्रेष्ठे नित्यं जिजीविषयाऽञ्चिते ।। ३७।।
गतवति दिवं तस्मिन् दिव्यापि लोकसभा विभा-
करविरहिता प्राचीसंध्येव या समजायत ।
तिमिरमहरत् तस्यां मूर्च्छत् पुनः समुपस्थिता
शिवशशिकलासौम्या प्रज्ञाम्बिका प्रतिभामयी ।। ३८।।
पुनरपि समे भूत्वा संसत्सदस्यवरास्तदा
विशदनयनाश्चक्रू राष्ट्रालिके तिलकोत्तमम् ।
अरुचततरां यस्मिन् गान्धीन्दिरा प्रियदर्शिनी
प्रमुखपदवीं प्राप्ता देवी मुरारिसमर्थिता ।। ३९।।
मुरारजीदेसाईसमर्थितेति प्रकृते। गान्धिन इन्दिरा, इन्दिरागान्धी च।
अरुणवदना दीर्घापाङ्गाम्बुजा भगवत्यसौ
प्रियविरहिता पित्रा हीनाऽपि पुत्रयुगादभूत् ।
उभयतटगा सिन्धोर्धारेव रक्षितविग्रहा
पितृपतियुगी पुत्रयाः पुत्रत्वमेति निसर्गतः ।। ४०।।
पुरुपरिवृढाल्लघ्वी यामाप कण्वशकुन्तिका
सुत इति परां काञ्चिच्छक्तिं मरीचितपोवने ।
पुनरिव धरां सेयं देव्याऽनया द्विगुणीकृता
सुतयुगमिषात् प्राप्ता राजीवसंजयसंज्ञिता ।। ४१।।
शकुन्त एव शकुन्तला श्रौतेन लचा।
प्रथममभवन्मन्त्री सञ्चारगः खलु या पुरा
पितुरपि युगे काङ्ग्रेसाध्यक्षतां च गतेन्दिरा ।
यदि भजति तां राष्ट्रप्राधान्यमत्र किमद्भुतं
नयनजनितो बिन्दुर्भक्त्या शिवत्वमुपैति हि ।। ४२।।
भवति जननी यस्या आनन्दमय्यनुकम्पिता
चरितवपुषोः पारेसाम्यं स्थिता कमलाऽमला ।
भवति च पिता हंसः कश्चित् त्रिवेणिकया स्वयं
परिणतिमितः श्रीह्रीधीरूपयाऽपि जवाहरः ।। ४३।।
अभिनवगुरोरानन्दोल्लास-पूर्णसरः-सित-
द्विज इव कविश्रेष्ठोऽप्यन्वीक्षया परयाऽञ्चितः ।
परिणमयिता बुद्धेर्यस्या बभूव गुरू रवि-
र्जनकदुहितुर् यद्वत् त्यागावधौ कविरादिमः ।। ४४।।
रविः रवीन्द्रनाथः।
शरणमभजद् यस्या द्वारावतीपतिरुच्चकै-
र्नयपथमहासूर्योऽप्याप्तुं पुनः पदवीं निजाम् ।
अभजत तथा यस्याः काशीसुतः कमलापति-
र्द्विजपतिरुमामातुर्यद्वत् स्मितेन परां गतिम् ।। ४५।।
द्वारावतीपतिः द्वारकाप्रसादमिश्रः।
अपि दिनपतिः सिंहो विश्वान्धकारमृगार्दने
त्यजनभजने यस्याः स्मेराननः परिपिप्रिये ।
अपि स जगतीजीवो रामो व्यरीरमदात्मनः
परममहतः पारम्पर्यागताच्च यतः पदात् ।। ४६।।
जगतीजीवो रामः जगजीवनरामः। दिनपतिः सिंहः दिनेशसिंहः।
अपि जलनिधिः प्राच्या यस्या धृतौ धृतिमात्मनो
गणयतितरां सिन्धौ बिन्दुं यथा लघुताजुषम् ।
विषमनियतीन् वङ्गान् संख्येयभावपृथक्कृता-
नपि हृदि निजे या वै सद्वत्सला समुपादधात् ।। ४७।।
अजगणत या पाकस्थानं प्रतीचिकया दिशा
छविकरपतेः सीमन्तिन्या नु चित्रितमात्मने ।
चपलचपलं तत्ताश्चेष्टा जुषाणमनुक्षणं
प्रतिनवतमं नाट्यां बिभ्रन्नु कृत्रिमपुत्रकम् ।। ४८।।
शरदिव शुभा राजीवोल्लासदा विविधैर्गुणैः
कुरुकुलमहागाथारम्या च संजयशोभिनी ।
भुजयुगवती काचित् प्रत्यर्थिशोणितभक्षण-
व्रतनिपुणिमोत्कृष्टा कालीव या प्रियदर्शिनी ।। ४९।।
अचकथत यां देवः शृण्वत्सु नेतृषु निर्भयं
भरतधरणीस्वालक्षण्येन राजितविग्रहाम् ।
अनुवदति वै तां हि स्मेराननः सुभगां कथां
नरहरिरपि श्रीमान् नारायणः सह शङ्करैः ।। ५०।।
५०-५१ नरहरिः नरसिंहरावः, नारायणाः = नारायणदत्त तिवारी, राजनारायणः, जयप्रकाशनारायणः, शङ्कराः = डॉ० शङ्करदयालशर्मा, श्रीमानुमाशङ्करः, बहुगुणाः हेमवतीनन्दनप्रभृतयः, शुक्लाः श्यामाचरणविद्याचरणप्रभृतयः, बुभूषा = तत्तत्पदपतिबुभूषा।
अपि बहुगुणाः शुक्ला विद्यावतामविपश्चिमा
भ्रुकुटिलतिकाभङ्गे यस्याः स्वभाग्यमजीगणन् ।
अपि पतिरिदंराष्ट्रस्यास्यां बभार बुभूषुतां
नियतिमुदयात् पूर्वं यद्वन्नितान्ततिरोहिताम् ।। ५१।।
सकलकलता यस्यां सिन्धौ विधौ जनतानने
सममनुदिनं लेभे वृद्धिं चमत्कृतिसाक्षिणीम् ।
रुचिररुचिरा नूत्ना शाटीव यां खलु चारुता
नखमनु शिरोभागाद् दासीव वा स्म निषेवते ।। ५२।।
निखिलभुवनाधीशा यस्यां ववर्षुरुदित्वरा-
दरसमधिकप्रीतिस्फीतान्तराः प्रतिमापरान् ।
अपि मतिमतां ज्येष्ठैः श्रेष्ठेरनाकलितार्हणान्
प्रतिनवतमान् राशीन् रत्नोत्तमोल्लसितच्छबीन् ।। ५३।।
उदयमयते मीरा माताऽरविन्दकविक्षितेः
प्रतिपलमिमां स्मारं स्मारं यतः खलु संयमात् ।
अपि विवृणुते तस्य स्फीतिं महाशिववल्लभा
हृदि विनिहिता यस्या रुद्राक्षसुन्दरमालिका ।। ५४।।
यतः यस्मात् संयमात्। तस्य संयमस्य।
भवति तनयो यस्याः पोतः स संजयसंज्ञको
नय-जलनिधेः क्षारक्षारस्य संतरणक्रतौ ।
स च भवति वै राजीवाख्यः सतां प्रमुखः कृती
परयवनिकानान्दीनादाय सूत्रभृतां वरः ।। ५५।।
नान्दी पुष्करवाद्यं तस्यां हतायां यवनिकाऽपैति दृश्यतां याति च तया तिरोहितं सर्वम्। परेषां प्रतिपन्थिनामियमेव स्थिती राजीवे।
युवजनमहाशक्तिं यः कार्त्तिकेय इवात्मवा-
नतिशयधृतिर्देशोद्धाराय धारयते सुधीः ।
स खलु सुदृढश्चित्ते सौमित्रिरेव परोऽभव-
न्निज-जनकवन्मुक्तो भीतेर्यमादपि सञ्जयः ।। ५६।।
स खलु कृतवान् सिन्धूः सप्तापि पञ्चनदावनौ
गहनगहनास्तासामुद्धृत्य कर्दमसञ्चयान् ।
अधिजनपदक्षेत्रं रथ्या उदित्वरविद्युतः
सलिलनिभृताः स्फाराः कुल्याश्च निर्मितवान् महान् ।। ५७।।
न खलु यवनो यस्मै हिन्दोरभूदधिकं प्रियः
शमयितुमभूद् यो वै न्यायेन विप्लविनो व्रती ।
शिरसि दधिरे यस्यादेशान् विना विचिकित्सया
प्रतिदिशमपि क्षेत्राधीशाः प्रजाहितसन्ततान् ।। ५८।।
न हि विदधते भावस्यैक्यस्य सेतुहिमाचला-
वधि सुमतये यस्मै भूर्भारते सुषुवे रिपून् ।
स खलु गरुडो, वेगाद् यस्योत्थितः पवनोऽचला-
नपि चलयितुं धैर्यं दाधार, सत्यमभूद् युवा ।। ५९।।
स न शिथिलतां कर्म्मक्षेत्रे व्यसोढ धृतव्रतः
क्वचिदपि गतोन्मादः केनापि काञ्चिदपि श्रिताम् ।
प्रखरमधुरालापे तेजस्विनामपि तेजसां
स्तिमितयितरि ह्यस्मिन् सह्यो बभूव न वृत्तहा ।। ६०।।
स खलु तनयस्तस्या देव्याः प्रधानतमे पदे
स्थिरतमतया स्थातुं मन्त्रानदर्शनयदुज्ज्वलान् ।
अथ भगवती सापि श्रीवैष्णवीव हिमाचले
तदुदितवचःस्तोमे संप्रत्ययादचिनोत् स्थितिम् ।। ६१।।
अधिनिजदलं दर्पोन्नद्धान् विनेतुमुदारधीः
स च धृतिमहानस्या ज्येष्ठः सुतोऽप्युददीधरत् ।
निभृतनिभृताञ्छङ्कून् सूक्ष्मेक्षणः स्मितिमानपि
क्षपितमहसस् तर्त्तुं शत्रून् प्रभातविभाकरः ।। ६२।।
इति सुतयुगशक्त्या भारतीयां धरित्रीं
निजकर-युगनिघ्नामिन्दिरा देव्यकार्षीत् ।
यदि भवति बलिष्ठं पक्षतिद्वन्द्वमीष्टे
पिकशिशुरपि तर्त्तुं व्योम ताराविचित्रम् ।। ६३।।
एकः कर्षति पूर्वतः रथधुरं वाहोऽपरः पश्चिमां
मन्यश्चोत्तरमध्यवाचि च ततो भिन्ना वदन्तु प्रियाः ।
शक्तश्चेत् क्रमितुं पदात् पदमपि स्याद् वै शताङ्गः पथि
प्राशस्त्येन युतेऽपि, संविदकयैवोत्थानयोगायते ।। ६४।।
संवित्तिः कलहश्च मानुषमहीपृष्ठे हि नो केवलं
वैषम्यं भजतः, कदापि भवतो नैकस्थले संगतौ ।
मार्गः स्याद् यदि नाभसो, गतियुतः स्यादेकचक्रोऽपि सन्
नो चेत् कोऽपि रथो लभेत तु गतिं चक्रद्वयी-रेचितः ।। ६५।।
एकं चङ्क्रमणां तनोतु न परं चक्रं यदि स्यात् कथ-
ङ्कारं मार्ग-महाब्धिपारगमनं मानुष्यके धाम्नि नः ।
नाभौ स्निग्धपटीं च धूर्वहयुगीं च प्राजितां धारयन्
सारथ्येन शुभेन दर्शितपथः स्यादेव वेगी रथः ।। ६६।।
मार्गे स्निग्धतले खनत्यधिनिशं गर्त्तं पुमानेकतः
पृष्ठे पीडयते कशाभिरपरश्चाश्वान् परत्र स्थितः ।
काऽत्र स्यान्नियतिर्निपातनमृते गन्तुः कृतप्रत्यय-
स्याग्रे यातुमथो स्वराष्ट्रनियतेरौज्ज्वल्यतो यास्यतः ।। ६७।।
एकः कीर्त्तयताद् विदेहतनयाजानिं परो रावणं
मन्दाक्षेण विभूषितः प्रथमको निर्लज्जभावः परः ।
पूर्वः शब्दपतिः परश्च भगवानर्थाधिपत्वं गतः
को वा स्याद् विजयी पराजयकृशः कश्चाऽपरः कथ्यताम् ।। ६८।।
यो वै योजनया विधेः शमयते शङ्कां प्रदातुर्धनं
लब्ध्वा भक्षयते स्वयं च, कुरुते पूर्णां क्रियां तापसः ।
एतद्द्वन्द्वभिदा न यत्र पृथिवीपृष्ठे प्रधाने जने
जागर्त्त्यस्य फलेग्रहित्वमफलैकात्म्यप्ररूढेर्वदेत् ।। ६९।।
देश एष बुभूषां च प्रबिभर्त्ति गरीयसीम् ।
शुद्धामध्वर्युतां चापि नैव पश्यत्यणीयसीम् ।। ७०।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘मातृप्रतिष्ठा’ नाम विंशः सर्गः।। २०।।