अथ
सनातनकविश्रीरेवाप्रसाद्विवेदिकृतौ
उत्तरसीताचरिते
प्रथमः सर्गः
विभूष्य पौलस्त्यशिरोभिरीश्वरं महीतनुं तस्य सुतां समुद्वहन्।
वनव्रतान्ते भगवान् रघूद्वहः सहानुजाभ्यां गृहमीयिवान् निजम्।।1।।
संकेतः-रघूद्वहः श्रीरामः पौलस्त्यानां रावणप्रभृतीनां शिरोभिः कमलभूतैः महीतनुं पृथ्वीमूर्त्तिम् ईश्वरं शिवं विभूष्य तस्य प्रसादभूतां सुतां सीतां समुद्वहन् वनव्रतान्ते चतुर्द्दशाब्दावधिकवनवासरूपव्रतपारणोत्तरम्, अनुजाभ्यां लक्ष्मणः, नन्दिग्रामे संगतो भरतश्चेति लघुभ्रातृभ्यां सह निजं गृहम् अयोध्यापुरीम् ईयिवान् प्राप्तः। रावणं निहत्य सीतां चासाद्य वनावधिं समाप्य प्रत्यावृत्त इति यावत्। अन्योऽपि व्रतान्ते स्वेष्टदेवतां पुष्पादिभिः पूजयित्वा ततो लब्धया शेषया विभूषितवपुर्नद्यादिपरिसराद् बान्धवैः सह स्वं नगरं प्रत्यावर्त्तते। सोऽयमत्र पर्यायोक्त-रूपक- समासोक्तिभिर्वंशस्थेन वस्तुनिर्देशः।।1।।
स रामनामा भगवाँश्च मानवः स चापि कश्चिद् भरताभिधानवान्।
विनिर्ममाते मिलितौ, हिमाचलो महोदधिश्चापि यथाऽऽर्यभूमिकाम्।।2।।
संकेतः-आर्यभूमिकापदे रामभरतपक्षे कर्मधारय, तेनोच्चैस्तम-सच्चारित्र्यभूमिका तदर्थः, हिमाचलमहोदधिपक्षे च षष्ठीतत्पुरुषः, तेन भारतराष्ट्रस्य स्थलवेदिस्तदर्थः। समानानुपूर्वीक- शब्दवाच्यत्वेन तादृशभूमिकाद्वयेऽभेदात् तन्निर्मातृत्वसामान्यात् पक्षद्वयौपम्यविश्रान्तिः। तत्र पूर्व-दक्षिण-पश्चिमासु दिक्षु विततमूर्त्तेर्महोदधेरेकात्मत्वमेव विवक्षितमिति न प्रकृताप्रकृतयोः संख्यावैषम्यम्। हिमगिरेः पूर्वापरसागरावगाढत्वं ‘पूर्वापरौ तोयनिधी वगाह्ये’ (कुमार 1.1) त्यादिमहाकविप्रयोगात् प्रतीतचरमेव।। 2।।
स सीतया भ्रातृयुगेन चान्वितस्तदा स्वपुर्यां शुशुभे गभीरहृत्।
कुमारिकायामिव भारतोदधिः ससिंहलश्रीरुदधिद्वयाञ्चितः।।3।।
संकेतः-कुमारिकायां कन्याकुमारीतिव्यपदिश्यमानायां भुवि भारताब्धिः सांप्रतं हिन्दमहासागरनाम्ना प्रख्यातो महोदधिः। उदधिद्वयपदेनात्र पूर्वापरसागरौ विवक्षितौ। दिग्विभागेन सागरभेदकल्पनयात्र साम्यविश्रान्तिः। गम्भीरहृत्त्वं महोदधिष्वपि योज्यम्।।3।।
तदुत्पल-श्याम-शुभं वनावधेः शुचेरिवान्ते वपुरक्षिभिः पिबन्।
पयस्विमेघप्रभमाप चातकव्रतानि साकेतनिवासिनां व्रजः।। 4।।
संकेतः-चातकोऽपि शुचेर्निदाघस्यान्ते उत्पलश्यामं पयःपूर्णं मेघं पश्यति तृप्तिं च विन्दति।।
तदोत्पलाक्ष्या नवनीतसोदरां विदेहपुत्र्यास्तनुवल्लरीं जनाः।
रिपोर्महेभस्य करान्मृणालिनीं यथोद्धृतां वीक्ष्य मुदा निशश्वसुः।।5।।
संकेतः-रिपो रावणस्य करात् हस्तपाशात्। महेभपक्षे करः शुण्डादण्डः।
जनैः सुमित्रातनयेऽग्रजं प्रति प्रजावतीं चैव दृढव्रते ततः।
उदीरितालोकपदैर्नभःस्पृशः स्वरादसामान्यकृतावभूयत।।6।।
हरिद्दलालंकृततीर्थवारिभिः सधूपवासैर्यवदन्तुरैर्घटैः।
शुभैस्तथान्तःकरणैः प्रजावतां पुरस्कृतास्ते भरतानुयायिनाम्।।7।।
सपुष्पवर्षं वियतोऽप्सरोगणा जगुर्यथा तस्य महत्पराक्रमान्।
तथा पुरो लाजकणप्रवर्षणैः समं प्रबुद्धा नवबालिका अपि ।। 8।।
संकेतः-महत्सु रावणेन्द्रजित्प्रभृतिषु, न तु क्षुद्रेषु, पराक्रमान्
स दर्शनाकाङ्क्षिभिरुत्कटं जनैर्निरुद्धवर्त्मा गृहमीयिवांस्तथा।
यथा तरङ्गैरमृतांशुविग्रहस्तटप्रदेशं समुपैति वारिधेः ।। 9।।
निरीक्ष्य पूज्यान् सचिवान् वियोगतः पितुर्निजस्यापि च तत्र धीरधीः।
शुशोच मीनानिव वारिदात्ययात् सरोविशोषाच्च विवर्णितद्युतीन् ।। 10।।
तदा शुचिं वर्णविभक्तिमीयुषा स्वरेण मैत्रावरुणेन बोधितः।
निजां सुमित्रासहितां स मातरं नुनाव सा चापि परात्परं प्रभुम् ।। 11।।
उवाच माता सममाशिषां शतैर्ममैव मन्ये सुतभाग्यविप्लवात्।
निदाघवर्षाशिशिरेषु काननान्यगाहथाः पङ्कजपेशलोऽपि सन् ।। 12।।
क्व कौतुकेनाध्वनि पुष्पसंवृते पुरा दधाति स्म पदाम्बुजद्वयम्।
क्व वा स वध्वालमलम्बुषाश्रिया सहानुजेनासि च कण्टकैः क्षतः ।। 13।।
त्वमद्य वन्द्यो जगतां परिष्कृतैः शरीर-धी-चित्त-चितां पराक्रमैः।
तव प्रसूत्या मम चापि धन्यतां समं कुलेनैव रवेर्गतं जनुः ।। 14।।
स्नुषां स्वकीयामथ तां तनीयसीं व्रतेन पत्युर्नयनाम्बुभिर्द्रुता।
उवाच माता ममता-दया-तट-द्वये वहन्तीव सुवत्सला स्रुतिः ।। 15।।
सुते! विधौ वामविधायिनि व्रतं सुताय मे स्निग्धमना न याऽत्यजः।
पतिव्रतानामभिरक्षितत्रपा त्वमेव वन्द्याऽसि ममैव साधुना ।। 16।।
न राक्षसीं संस्कृतिमार्यसंस्कृतौ कृतस्थितिः कोऽपि भजेत सन्मतिः।
वगाह्य गङ्गां न हि कर्मनाशिनीं वगाहितुं कोऽपि समीहते सुधीः ।। 17।।
त्वयापि पुत्रि प्रथितामिमां सृतिं विहातुमुत्प्रेरितयापि रक्षिता।
चरित्रमुद्रा यदियं गरीयसी ततोऽसि रामादपि लक्ष्मणादपि ।। 18।।
त्वमेव भास्वत्कुल-कीर्ति-केतने वृषाङ्कमुद्रासि नृलोकवन्दिता।
त्वमेव रामायणनाम्नि मन्दिरे विभासि सर्वप्रमुखा च देवता ।। 19।।
संकेतः-भास्वतः सूर्यस्य यत् कुलं तस्य कीर्तिकेतने यशःपताकायाम् वृषाङ्का धर्मप्रतीकभूतस्य वृषस्याङ्को यस्यां सा मुद्रा। वृषस्य धर्मप्रतीकत्वादेव नृलोकवन्दितत्वम्, नृसमाजस्य धर्ममात्राश्रितत्वात्।। 19।।
त्वयोन्नतं दाशरथं शिरोऽद्य तत्, त्वया प्रकाशोऽन्वय एष भास्वतः।
त्वयाऽस्ति पूता ननु मानवी मही त्वया सगर्वं खलु राष्ट्रमस्ति नः ।। 20।।
अथार्करोचिःप्रतिमश्चरित्रतस्तया बभाषे भरतः सलक्ष्मणः।
मुदा च मातुर्हृदयेन चापि तत्कृतज्ञभावाच्च परिप्लुतात्मना ।। 21।।
इयं जटा चीरमिदं च वां सुतौ कुलस्य देशस्य च नः प्रतीकताम्।
समर्पण-स्वार्थधियो रणस्थले गते युगेभ्योऽत्र वसुन्धरातले ।। 22।।
संकेतः-समर्पणं स्वार्थश्चेति यौ परस्परं विरुद्धौ भावौ तयोः ये धियौ तयो रणस्य स्थले एव वसुन्धरातल इति योजना।। 22।।
न रामभद्रो जनकात्मजापि वा तथाऽद्य मह्यं रुचिरौ यथा युवाम्।
ययोः परार्थे निजसौख्य-वर्जन-व्रतं समाजद्रुममूलमीक्ष्यते ।। 23।।
संकेतः-स्वसौख्यपरित्याग एव समाजरूपस्य वृक्षस्य मूलमिति भावः।। 23।।
निशम्य तां क्षत्रियशोणितोदितां गिरं विवेकस्थिरसंविदुद्गताम्।
जहुर्महान्तं क्लममात्मनः सुताः सतां प्रसादः श्रमजोऽपि तोषदः ।। 24।।
संकेतः-क्षत्रियशोणितपदार्थेन कौसल्याध्यवसिता।। 24।।
निजागमोल्लासितसेवकं ततः प्रपूरितं तोरण-वाद्य-गुञ्जितैः।
शिखावलोद्वत्तितमेचकं पितुः प्रियं किरीटादपि सद्म ते ययुः ।। 25।।
संकेतः-तोरणस्थानां वाद्यानां गुञ्जितैरिति भावः। पितृपदार्थस्य काकाक्षिगोलकन्यायेन किरीटं सद्भ चेति द्वितयेनाप्यन्वयः।। 25।।
गृहं, विना तातममुष्य मानसं न पिप्रिये हन्त सुतव्रजस्य तत्।
तथा, यथा देवकुलं विदैवतं यथा च चैतन्यमृते कलेवरम् ।। 26।।
संकेतः-देवकुलं देवगृहम् विदैवतं देवप्रतिमारहितम्। पिप्रिये प्रीतिमत् चक्रुः दैवादिकः प्रीत्यर्थकः प्रीङ्। ऋतेयोगे ‘‘अन्येभ्योऽपि दृश्यन्त’’ इति द्वितीया।। 26।।
अमुत्र पूजाविधिमार्यजन्मनां ललाटपुण्ड्राय निजाग्रजन्मने।
विधातुमीशाय नु नन्दिकेश्वरोऽनुजस्तृतीयो ददृशे मुखावनौ ।। 27।।
संकेतः-आर्यजन्मानो भारतीया जनाः। त्रितयेऽप्यग्रजन्मानो राम-भरत-लक्ष्मणा मिलित्वा एकं शिवत्रिपुण्ड्रम् तन्मध्ये कुकुमश्रीश्च सीतेत्यर्थादायाताम्। तृतीयोऽनुजः शत्रुघ्नः। मुखं द्वारम्। नन्दिनामा रुद्रोऽपि यथा भगवत ईशादभिन्नस्तदंशत्वात् तथैव शत्रुघ्नोऽपि श्रीरामादभिन्नस्त- दंशावतारत्वात्।। 27।।
वदातवासा व्यपनीतभूषणः समाल्यपाणिर्द्युतिमान् कनिष्ठकः।
अदृश्यताग्रेजनुषां पुरः स्थितो यथा गुरूणां चरणे स्वधीतवान् ।। 28।।
संकेतः-कनिष्ठेषु कनिष्ठः कनिष्ठकः। चरणे आश्रमपदे च। स्वधीतवान् सुस्नातकः।। 28।।
उरस्सु तेषां विससर्ज कौसुमीः स्रजः स, ते तस्य च बाष्पनिर्मिताः।
अमन्यतानेन जनो नृपालयं गतं तदा स्नेहसुधा-प्रयागताम् ।। 29।।
संकेतः-प्रयागौपम्येन भावौचित्यातिशयो व्यञ्जितः
विधृत्य दोर्भ्यां परिरभ्य वक्षसा स्वबाल्यसेवारसिकाँश्च ते जनान्।
पितुर्वियोगात् तपसीव दीक्षितान् पुनः पुराणीं विदधुः श्रियं श्रितान्।। 30।।
संकेतः-सेवारसिकाः प्रेम्णा स्वसेवापरायणाः। पुराणीं प्राचीनां श्रियं शोभाम्।। 30।।
स्थितां ततः सद्मनि तत्र मध्यमां सुवं व्यपश्यञ्जनकं विना सुताः।
प्रभामिवास्तोदधिमज्जितात्मनो रवेर्निशीथे स्फुरितां विभावसौ ।। 31।।
संकेतः-मध्यमां सुवं कैकेयीम्। विभावसौ वह्नौ।। 31।।
क्षतात् सतस्त्रायत इत्यतीव सद् यशो यतः क्षत्रपदाभिमानिनः।
अपारयन् धातुमिमे सुवं तु तां सुवो निजाया अपि मेनिरेऽर्चिताम् ।। 32।।
संकेतः-‘क्षतात् त्रायत’ इति कालिदासः, सतस्त्रायत इति तु सनातनः। अत एव कालिदासस्य क्षत्राणां यशो यशोमात्रम्, सनातनस्य क्षत्राणां पुनः सद् यशः। तुः व्यतिरेके।। 32।।
इमां त्रपातो नतपूर्वविग्रहामुवाच रामो जननि! प्रभावतः।
तवैव यातः सुगतिं प्रजेश्वरः समं तलेनैव भुवो न संशयः ।। 33।।
संकेतः-प्रजेश्वरो दशरथः।। 33।।
विधातुमेतां जगतीमशल्यकां कृतं सशल्यं स्वमनो यतस्त्वया।
त्वमेव मातर्ननु दूरदर्शिनां धुरि स्थिता राजनये सुमेधसाम् ।। 34।।
यदस्ति पौलस्त्य-विनाश-नाटकं त्वमेव तत्र प्रणिधानवानृषिः।
त्वमेव तत्रासि च सूत्रधारिणी वयं तु मूका ननु तत्र पुत्तलाः ।। 35।।
संकेतः-ऋषिः नाटकोपनिषद्द्रष्टृभूता। सूत्रधारिणी पुत्तलाभिनयौपयिकं सूत्रं धरतीति।। 35।।
इतीव मूकां नियतिं यथा प्रभुर्मनः स्थितिं दर्शितसत्फलां सुवः।
निवेद्य तस्या भरतानुयायिनो जनस्य कृत्स्नस्य दृशं व्यशोधयत्।। 36।।
संकेतः-भरतानुयायित्वं कैकेयीनिन्दकत्वे।। 36।।
विलक्षितोऽन्तर्विकृतेश्च लक्ष्मणः प्रणम्य मध्यां प्रसुवं निजाश्रुभिः।
पदे तदीये द्रुतिमीयुषा हृदा यथैव सम्यक् स्नपयांबभूव सः ।। 37।।
संकेतः-विलक्षितो लज्जितः। अन्तर्विकृतिः अन्यथाभावः। द्रुतिं द्रवताम् ईयुषा गतवता हृदा यथैवेत्युत्प्रेक्षा। अश्रूणामपह्वश्चात्र गम्यः।। 37।।
परस्परं सम्मिलिता नृपात्मजा इमेऽन्तरङ्गेण च कर्मणापि च।
चकासिरेऽर्था जनुषो यथा यथा प्रदीपधर्मा यदि वान्ववायिनः ।। 38।।
संकेतः-जनुषो जन्मनः अर्थाः फलानि धर्मादयः। प्रदीपधर्माः प्रकाशकत्वादयः। अन्ववायिनः समवायभाजः, अपृथक्स्थिता इति यावत्। धर्मादिषु समवायः पुरुषप्रयत्नसाध्यः, अत एवौपाधिकः, प्रदीपधर्मेषु तु स स्वाभाविकः। अन्तरङ्गकर्मभ्यामेष उपमानद्वयेऽपि योज्यः।। 38।।
चतुष्टयं तद् रघुवंश-कल्पद-द्रुमालवाले शुशुभे कृतात्मनाम्।
चरित्र-पीयूष-पयोमुचां यथा त्रिलोकमाङ्गल्यवपुः प्रवर्षणम् ।। 39।।
संकेतः-रघुवंश एव कल्पानभिलाषान् ददतीति कल्पदा द्रुमाः कल्पवृक्षाः तेषाम् आलवाल आधारः तस्मिन् चरित्रमेव पीयूषं तन्मयानां मेघानामेव तेषां कृतात्मनां राजपुत्राणां तच्चतुष्टयं त्रिलोकमाङ्गल्यरूपं प्रवर्षणमिव शुशुभ इत्यन्वयः।। 39।।
वनीव पुंस्कोकिलकूजितेन सत्प्रियेव वीरप्रियसौभगेन वा।
सचेतेनेवोत्तरकोसलौकसां जयस्वनेनाजनि सा तदा पुरी ।। 40।।
संकेतः-सत्प्रिया अपंश्चली भार्या। सौभगं प्रियवाल्लभ्यम्।
प्रक्लृप्तकेशा अपनीतवल्कला नरेन्द्रनेपथ्यसमेधितश्रियः।
नृपात्मजास्ते प्रचकाशिरे यथा समग्रभूषा मधुकल्पपादपाः ।। 41।।
संकेतः-नरेन्द्रनेपथ्यं दुकूलालंकारादि तेन समेधिता श्रीः स्वकीया शोभा येषां ते। कल्पपादपा अपि दुकूलहारालंकारशोभिनो भवन्तीति महाकविषु प्रसिद्धमेव। कल्पवृक्षसामान्यमपि यदा मनोहरच्छवि तदा का वार्ता वसन्तपरिस्पन्दशोभिनां तेषामिति भावः।
मनोरथानामिव पूर्तिरग्रिमा ततः प्रजाया यदि वार्यभूश्रियाः।
गजाश्वरत्नैरथ वाद्यमङ्गलैः शुभा समायोजि पुरप्रदक्षिणा ।। 42।।
संकेतः-आर्यभुवो भारतस्य श्रियाः साम्राज्यलक्ष्म्याः।। 42।।
बभूव यस्यां जनतामनःसखी प्रसूनवृष्टिर्मधुराग-निर्भरा।
द्विरेफमालासचिवाऽक्षिसन्ततिस्तथा पिशङ्गद्युतिरश्रुमण्डिता ।। 43।।
संकेतः-जनतामनःसखी तत्सदृशी, सादृश्यं च मधुरागनिर्भरत्वेन। तच्च मनःपक्षे मधुरानुरागातिशयस्वरूपम्, प्रसूनपक्षे च मधु पुष्परसः, रागो रक्तिमा तत्प्रचुरत्वरूपम्। द्विरेफमाला भ्रमरपङ्क्तिः, तत्सचिवा तत्सहकृता तत्समा च। साम्यं च पिशङ्गद्युतित्वेन। उपमेयमत्राक्षिसन्ततिः। अश्रु चात्र हर्षाश्रु। तेन चाक्षिसन्ततेः प्रसूनवृष्ट्यापि सह साम्यमवाप्तपर्याप्तप्रसरम्। तदा च द्विरेफमालासाचिव्यं तत्सहितत्वरूपमेव। पिशङ्गता च प्रसूनेषु न न प्रसिद्धा।। 43।।
सदश्वभाण्डैरिभवर्णकम्बलै रथाङ्गजाम्बूनदनादि-नूपुरैः।
पदातिवीरांशुक-हीरकांशुभिर्वधूर्नवेयाय सरित्तटं च सा ।। 44।।
संकेतः-सन्तश्च तेऽश्वाश्च, तेषां सन्ति चेमानि भाण्डानि तैः, इभानां गजानां वर्णकम्बलैः कुथभूतैः रथाङ्गेषु चक्रेषु जाम्बूनदस्य हेम्नो नादीनि गीतिमन्ति नूपुराणि तैः पदातयो ये वीराः, तेषां यान्यंशुकानि तेषां ये हीरकाः तेषामंशुभिः किरणैः नवा वधूः सा प्रदक्षिणा तत्कर्तृभूता जनतेति यावत्, सरितः सरय्वास्तटं प्राप।। 44।।
पदोर्गृहीतोदकयोस्ततस्तदा निजाग्रजस्योत्तमपूरुषस्य, ते।
प्यधायिषातां भरतेन पादुके कृते पृथिव्या अधिदेवतेव ये ।। 45।।
संकेतः-अग्रजस्य पदोः पदयोस्ते पादुके प्यधायिषातां ये द्वे मेलयित्वा पृथिव्या एका अधिदेवता अधिष्ठात्री देवतेव कृते इत्यन्वयः।। 45।।
नृपात्मजानामनुभूय तादृशं विकश्मलं प्रेम पुरौकसस्तदा।
बभूवुरत्यन्त-विकासितेक्षणा विकोशिताब्जाः कमलाकरा यथा ।। 46।।
संकेतः-नृपात्मजेषु प्रेम्णः प्रायिकत्वात् पुरवासिनां तथा स्थितिः।
अवेक्ष्य तां प्रीतिमयीं पुरौकसां प्रवृत्तिमाह्वादितमानसो गुरुः।
ऋचां विधानादपि यं न लब्धवानलब्ध तं तोषरसं स्थितेः स्थितेः ।। 47।।
संकेतः-स्थितेः मर्यादायाः स्थितेः सत्त्वात्। मर्यादा धारणा स्थितिरित्यमरः। राजप्रजयोः सौमनस्यमेव सौराज्यमिति विचार्येति भावः।
सभां समावर्जित-कर्ण-शष्कुलीं विधाय सौम्येन ततः स्वरेण ताम्।
स पूर्णकामो भगवान् प्रवर्षयन्निवामृतेनोपदिदेश साम्प्रतम् ।। 48।।
संकेतः-पूर्णकामत्वेनोपदेशस्य परार्थैकवृत्तित्वं प्रतीयते। साम्प्रतं तत्कालोचितं धर्मम्।। 48।।
शुभा घटीयं शुभ एष वासरो फलान्वितं कृच्छ्रतमं च नस्तपः।
यदार्यधर्मे नितरां शुभाशया स्थितिः समेषां भवतां विभाव्यते ।। 49।।
संकेतः-शुभाशया शुभहृदयभावा।। 49।।
मनुष्यजातिं पुरुषार्थसाधनैर्विधातुमेतां परिपूर्णकामनाम्।
व्यवस्थितिर्यास्ति कृता महात्मभिर्व्यपेक्ष्यते तामवितुं दृढः क्रमः ।। 50।।
संकेतः-पुरुषार्थानां साधनैः सिद्धिभिः।। 50।।
नयस्तदर्थं किल दान-सामनी सभेददण्डे समुपास्य योज्यते।
पदेषु तेष्वेव हि सृष्टिरूपिणी प्रवृत्तिशीला सुरभिः प्रवर्त्तते ।। 51।।
संकेतः-दान-साम्नोः साम्नः प्रथमतया प्रसिद्धत्वेपि अर्थरूपस्य दानस्य बलवत्तरत्वात्, सामफलत्वाच्च तस्यैवात्राभ्यर्हितत्वम्, ततश्च प्रथमोपादेयत्वम्। तेष्वेव दानादिष्वेव चतुःसंख्याकेषु पदेषु सृष्टिरूपिणी संसृतिमयी, प्रवृत्तिशीला, निवृत्तिपराङ्मुखी सुरभिः धेनुः, कामगवी च, प्रवर्त्तते।। 51।।
नयाङ्कुशेनैव, समाज-संस्कृतिः प्रतिक्षणं ध्वंसयमस्य दंष्ट्रिकाम्।
विविक्षुरेषा, विनिवार्यते यतो बिभर्त्ति सत्तामधुनापि शोभनाम् ।। 52।।
संकेतः-दंष्ट्रिकां विविक्षुः नयाङ्कुशेनैव विनिवार्यत इत्यन्वयः। वाच्यप्रवाहात् नात्र विरुद्धमतिकृत्त्वम्।। 52।।
नयः स दीपस्तमसि स्थिताञ्जनान् प्रकाशमार्गे परिचालयेत यः।
तृतीयमुद्भासिततथ्यमान्तरं स एव नेत्रं सततं प्रबोधभाक् ।। 53।।
संकेतः-तथ्यं सत्यम्। सातत्येन प्रबोधभाक्त्वे नेत्रान्तरव्यतिरेकः फलम्।। 53।।
स दुर्बलानां प्रबलं बलं स वै बलीयसां मत्तमहागजौजसाम्।
मदप्रहाणाय महामृगेन्द्रति प्रशासको येन स एव निर्भयः ।। 54।।
संकेतः-निर्भयत्वमेव प्रशासकस्य प्राणप्रदो धर्मः।। 54।।
विकासमार्गः स निसर्गजन्मनां गुणावलीनां नृषु भासितात्मनाम्।
स एव मृत्युञ्जयभूमिकां प्रति प्रधानसोपानपथः सदोज्ज्वलः ।। 55।।
संकेतः-निसर्गजन्मनां सहजानाम्। भासित आत्मा याभिस्तासाम्। सदोज्ज्वलत्वेन तमःस्पर्शस्यैकान्तनष्टत्वमागतम्।। 55।।
स वीतरागैः परिपूर्णदर्शनैर्महामुनीन्द्रैरुपजीव्य तत्स्मृतीः।
भुवस्तले प्राणितुमेषणाभृतां कृते कृतः शाश्वतिकः सनातनः ।। 56।।
संकेतः-वीतरागत्वेन विप्रलिप्सानिवृत्तिः, परिपूर्णदर्शनत्वेन भ्रमपरिहारः। तेषां ताश्च स्मृतीः उपजीव्य, न तु स्वैरतया। सः नयः। शाश्वतिको नित्यः अत एव सनातनः सनातनाख्यः।। 56।।
ऋते नियन्तारमसौ न तत्त्वतोऽध्वरो विनाचार्यमिव प्रतिष्ठते।
समित् तु तस्यैव कृतेऽभिकाङ्क्ष्यते हविष्प्रदानामिव मन्त्रिणां बुधैः ।। 57।।
संकेतः-समित् मन्त्रिणां समितिः
अतोऽत्र दृष्ट्वा भरतेन पादुके समर्पिते स्वाग्रजनेः पदाब्जयोः।
गता कथंचिच्छरदां चतुर्द्दशी यदिष्यते संप्रति तद् विमृश्यताम् ।। 58।।
संकेतः-संप्रति चतुर्द्दशवार्षिक-दुर्दिनावसाने।। 58।।
उदीर्य तर्कैर्विशदां सरस्वतीं सभामिमां धातृसुतः सुमेधसाम्।
उपाविशत् सूनृतवाग्, बृहस्पतिर्यथा सुधर्मां त्रिदिवे दिवौकसाम् ।। 59।।
संकेतः-धातृसुतो वसिष्ठ। सुधर्मा देवसभा।। 59।।
ततश्च रामं प्रति तैः सभाजनैरघोषि तारं सह राजसूनुभिः।
कुलागते राजपदेऽभिषिच्यतां त्रिलोकशोकापनुदेष राघवः ।। 60।।
संकेतः-राजसूनुभिः सह सभाजनैरिति सर्वसंमतत्वम्। त्रिलोक-शोकापनुत्त्वेन विनीतत्वम्।। 60।।
प्रतिस्वनैः किं च दिशां चतुष्टयी तदेव निर्व्याजशुभं जगौ वचः।
तदेव हेमाम्बुजरेणुभिः समं दिवः प्रतीयाय भुवस्तलं वचः ।। 61।।
संकेतः-वचोद्विरुक्तावपि कथितपदत्वमत्र नोदेति वाक्यार्थस्य प्रवाहमयत्वात्, पौनःपुन्येन च तस्यैव समर्थनेनादरातिशयस्य च द्योतनात्।। 61।।
स दीर्घिका-वीचि-परिप्लुताम्बुजव्रजे स्वनद्भिश्च मरालिनीसुतैः।
वचोधिदेवीपरिवादिनीमिव प्रवादयद्भिः सदकारि सत्स्वरः ।। 62।।
संकेतः-दीर्घिकेत्यादिना मारुतस्य मन्दः संचार आक्षिप्तः। मरालिन्यो मरालसहिता मराल्यः, तत्सुतैः हंसैः वचोऽधिदेवी सरस्वती तस्याः परिवादिनी वीणा ताम्। सतां संश्चासौ स्वरश्चेति।। 62।।
स्वनिष्कुटाभ्यन्तरचारिबर्हिणां विलासलास्यैः सह षड्जवादिनाम्।
मिषाच्च तं ब्रह्मसरः.समुद्भवा-समीपभूमिः सममानयत् स्वरम् ।। 63।।
संकेतः-निष्कुष्टाः समीपस्था आरामाः। ब्रह्मसरो मानसं सरः, तत्समुद्मवा सरयूः, तस्याः समीपस्था भूमिः।। 63।।
दिवा हविर्धूममिषाच्च तत्क्षणं सितातपत्राणमकारि राघवे।
बलाहकैः किं च शरत्समुद्गतैरवीजि वालव्यजनं सुधोज्ज्वलम् ।। 64।।
संकेतः-दिवा द्युलोकेन। सितातपत्राणं श्वेतं छत्रम्। वालव्यजनं चामराणि।। 64।।
स्वपुष्कराग्रैः सुरवर्त्मपुष्करं प्रवादयन्तीव च दिग्गजावलिः।
दिशां स्नुतं क्षीरमिवास्य तीर्थजं पयस्तदा वर्षयति स्म शेखरे ।। 65।।
संकेतः-स्वं दिग्गजावलिः तस्य यत् पुष्करं शुण्डादण्डः तदग्रैः, सुरवर्त्मैव व्योमैव पुष्करं वाद्यविशेषं प्रवादयन्तीव सती पयो वर्षयति स्म। ‘‘पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले, व्योम्नि खड्गफले पद्मे तीर्थोषधिविशेषयो-’’ रित्यमरः। एतेनाभिषेकमङ्गलमभिव्यञ्चितम्।। 65।।
इति प्रकृत्यैव नृपाभिषेचनं स्वयं तदानीं समपादि राघवे।
ऋचां तदुद्गीथशुभैर्विधानकैर्महर्षिभिः केवलमभ्यनीयत ।। 66।।
संकेतः-तत् नृपाभिषेचनम् उद्गीथशुभैः विधानकैः केवलमभ्यनीयत।। 66।।
रघुपतिरिति कृत्यैरात्मनस्त्यागशुद्धै-
र्जनमनसि यथार्थं लब्धवानास्पदं यत् ।
अजनि स खलु सत्यस्तस्य राज्याभिषेको
य इह विधिभिरार्षैर्लौकिकं मङ्गलं तत् ।। 67।।
निमिकुलतपसां वा सत्फलं, पुण्यपाको
रविकुलजनुषां वा जानकीत्यार्यलक्ष्मीः ।
व्यरुचदवनिपालस्यार्धभद्रासनस्था
श्रितवपुरिव लोकस्योदयायौषसी श्रीः ।। 68।।
संकेतः-जानकीति जानकीनाम्नी आर्यलक्ष्मीः आर्यावर्त्तवासिनाम् आर्या राष्ट्रश्रीः भद्रासनं सिंहासनम्।। 68।।
नरवानरराक्षसास्तदेत्थं जनताया नृपतेश्च भावबन्धम्।
अभिवीक्ष्य बभूवुरार्यधर्मेऽभ्यधिकं बुद्धिविशुद्धयोऽस्ततर्काः ।। 69।।
इति श्रीमत्सनातनोपाह्व-रेवाप्रसादद्विवेदिकृतौ ‘‘सीताचरितापर’’-नाम्नि उत्तरसीताचरिते सर्गबन्धे राष्ट्रपतिनिर्वाचनं नाम प्रथमः सर्गः।। 1।।
द्वितीयः सर्गः
उपेत्य राज्यं विधिवत् प्रजाजनानुपप्लवेभ्यः परिरक्षयन् महान्।
स रामनामा भगवान् निजानुजानमंस्त शक्तित्रयविग्रहानिव ।। 1।।
संकेतः-उपप्लवा उपद्रवाः। परिरक्षयन् परिपालयन्। शक्तित्रयं प्रभावोत्साहमन्त्ररूपम्।। 1।।
यथा विकीर्णा नभसः पयःकणाः समानमानाः खलु बीजपुष्टये।
तथा रवेः सा खलु सन्ततिः प्रजाभिवृद्धयेऽभूदपवर्जितान्तरा ।। 2।।
संकेतः-पयसां जलानां कणा बिन्दवः। रवेः सन्ततिः तद्वंशजाः। अन्तरं भेदः। नभो-जल-पृथिवी-सूर्याणां शिवमूर्तित्वात् परार्थैकपरत्वमाक्षिप्यते। तदुक्तं कुमारसंभवकृता ‘विदितं वो यथा काश्चिन्न मे स्वार्थाः प्रवृत्तयः। ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः’ (6.26)। पृथिव्या बीजप्रकृतित्वमपि शाकुन्तलमङ्गले प्रथितमेव-‘यामाहुः सर्वबीजप्रकृतिरिति’ इति।। 2।।
स राघवो भूमिमधिज्यकार्मुको वृषा स वज्री च दिवं ररक्षतुः।
परस्परं यज्ञहविर्भिरम्बुद-प्रवर्षणैश्चापि समेधितश्रियौ ।। 3।।
संकेतः-यज्ञहविर्भिरिन्द्रो रामेण समेधितश्रीः, अम्बुदानां प्रकृष्टैर्यथाकालं जातैः वर्षणैरिन्द्रेण रामश्च समेधितश्रीः। अधिज्य कार्मुकत्वेन यज्ञविलोपाभावः वज्रपाणित्वेन मेघानां नियन्तृता, वेदेषु मेघानां वृत्रत्वेन निरूपणात्।। 3।।
सनातनं शाश्वतिकं समाश्रिता प्रकाशमिन्दोरिव शुक्लयामिनी।
विपश्चितस्तस्य न हि प्रजा क्वचित् तमःप्रवृत्तिं भजते स्म सत्पथा।। 4।।
संकेतः-सनातनं तदाख्यं धर्मम्। धर्मो हि बुद्धिमाश्रित्य प्रतिष्ठते। बुद्धेश्च प्रतीकः सूर्यः तेनात्र तदौपम्यमेवोचितम्, तथापि सूर्यस्य तीक्ष्णरश्मित्वेन धर्मेपि जनोद्वेजकत्वं मा प्रसाङ्क्षीदिति तस्यैव भासा भासमानेन सौम्येन्दुनात्रौपम्यं घटितम्।। 4।।
स धर्मनीत्या विशदेन चेतसा प्रजास्तथाऽतोषयदीश्वरोत्तमः।
यथा यमेऽपि व्रजिता अभीततां यथा च कल्पेऽपि गता अयाचिताम् ।। 5।।
संकेतः-चेतोविशदत्वं प्रजातोषश्चेति द्वितयमपि धर्मनीतेः प्रयोजकतयात्र विवक्षितम्। ईश्वरेषु शक्तिमत्सु जनाधिपेषु उत्तमोऽनन्यसदृशः। यमाभीतत्वेन पूर्णायुष्ट्वं कृतकृत्यत्वं च व्यक्तम्, कल्पे तदाख्ये कामनापूरणे देवतरौ। न याचत इत्ययाची तद्भावमयाचिताम्, एतेन प्रजायाः पूर्णकामत्वमाक्षिप्तम्। ‘पञ्चैते देवतरवो मन्दारः पारिजातकः, सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनमि’ति नामलिङ्गानुशासनकृता चतुर्थो देवतरुर्वृक्षोत्तरेण कल्पपदेनोच्यते तथापि तत्रैव देववृक्षान्तरनामवदस्यापि वृक्षपदाघटितस्यैव पदविशेषस्य वाचकत्वमभ्युपेयम्।। 5।।
तथा च सौराज्यसुखं भुवस्तले स भूमिपालः कृतवान्, यथा दिवः।
अमर्त्यभावात् स्खलिता दिवौकसश्चकांक्षुरेतन्निजकर्मभूमिकाम् ।। 6।।
संकेतः-एतत् भुवस्तलम्।। 6।।
चतुर्षु वर्णेषु तथाश्रमेषु स स्थितिं व्यधात् किं च तथाविधां प्रभुः।
यथाऽस्य कृत्स्नापि वशंवदायितं बभार धर्मादिपुमर्थसंहतिः ।। 7।।
अथैकदार्यः कृतदोहदव्यथां विनोदयिष्यन् स विदेहनन्दिनीम्।
विमानशृङ्गाद् भगवाञ्छ्रियः पतिर्यथैक्षत ब्रह्मसरःसमुद्भवाम् ।। 8।।
संकेतः-अथ सौराज्यसंपादनानन्तरम्। विमानं साप्तभौमिकं भवनम्। भगवतो विष्णोः श्रियः पतित्वेनोल्लेखात् श्रिया अपि सान्निध्यमागूरितम्। ब्रह्मसरःसमुद्मवा सरयूः।। 8।।
तदैव पौरेषु विसर्जितश्चरो विषेण दिग्धो यदि वाऽपरः शरः।
उपेयिवांस्तं रघुवंशकेतनं महाविनाशाय नु धूमकेतनः ।। 9।।
स तं प्रणम्य प्रथमं प्रजेश्वरं जयेति चोक्त्वा समतर्पयत्, ततः।
अनुज्ञया तस्य विशुद्धवर्णया गिरा स्वचेतो व्यवृणोदिति ब्रुरवन् ।। 10।।
प्रजाः प्रजानाथ पितेव पालयन् क्षितौ भवान् वा यदि लोचनोत्सवः।
शुचिव्यपाये यदि वा बलाहको द्वयं हि लोकेऽद्य सुधाभिवर्षणम्।। 11।।
शरत्सु हंसो दिवसेषु भास्करः सुधांशुरह्नो विगमेषु दीव्यति।
नृनाथ! कालेष्वखिलेषु पावनं यशस्तु ते दीव्यति दीप्रमोजसा ।। 12।।
संकेतः-दीव्यति प्रकाशं विकिरति। दीप्रं दीप्तिमत्। राज्ञो यशसि प्रतापोन्मिश्रताया ऐकान्तिकत्वं राजनये प्रसिद्धमपि लोकानुभवसिद्धम्।। 12।।
अनुक्षणं काञ्चिदचिन्तितां गतिं प्रयान्ति भूतानि, तथापि, हे प्रभो।
धियः परिच्छित्तिमुदस्य तार्किकीमिमानि नैव प्रतियन्ति कुत्रचित् ।। 13।।
संकेतः-धियः तार्किकीं परिच्छित्तिमुदस्येत्यन्वयः। प्रतियन्ति विश्वसन्ति।। 13।।
यदीश्वरो मानवमभ्रविस्तृतां मतिं मनश्चापि महाब्धिनिर्भरम्।
वितीर्य, कुर्यादविनश्वरं तनौ दुरत्ययेच्छां न तथाप्यसौ त्यजेत् ।। 14।।
संकेतः-ईश्वरो यदि अभ्रं व्योम तद्वद् विस्तृतां मतिं सिन्धुनिर्भरं समुद्रगभीरं च मनो वितीर्य प्रदाय मानवं तनौ शरीरे अविनश्वरं कुर्यादित्यन्वयः। तस्य प्रवाहोच्चार्यत्वान्न विरुद्धमतिकृत्त्वम्।। 14।।
इमां प्रभो वेदितुमीश्वरो हि कः प्रवृत्तिवल्लीं मनसो नृजन्मनः।
तटं न यत्रास्ति न वास्ति लक्ष्यभूस्तथापि या हन्त नदीयतेतमाम्।। 15।।
संकेतः-तटलक्ष्यभुवोरभावेऽपि नदीतुल्याचरणं स्वैरताज्ञापकम्।। 15।।
क्षितौ कियन्तो न बभूवुरीश्वरा विशश्वसुः क्वापि न किन्तु मानवाः।
दिलीपतुल्या अपि हन्त भूमिपा गतास्तिरश्चामपि धिक् परीक्ष्यताम् ।। 16।।
संकेतः-रघुवंशद्वितीयसर्गाख्यानौपयिकमत्र दिलीपपरीक्षणम्।। 16।।
इति ब्रुरवाणो जगदीश्वरस्य यच्चरो निजे न प्रबभूव वाक्क्रमे।
बभूव रामः किल तेन शङ्कितो न हि स्थितिस्त्रुट्यति वैशसं विना ।। 17।।
संकेतः-स्थितिर्मर्यादा। वैशसमब्रह्मण्यम्।। 17।।
स शान्तचेताः स्थिरधीः क्षणेन तं प्रसाद्य भृत्यं प्रियदर्शनः प्रभुः।
कृपाञ्चितैः प्रश्नवचोभिरार्जवादनाविलाचारपथोऽन्वकम्पत ।। 18।।
किमन्यदीयैरुत कर्मभिः स्वकैः प्रजासु शङ्का विषवल्लरीयति।
प्रसन्नचेता यतबुद्धिरात्मनः प्रभुश्च भूत्वा वद भद्र यद् यथा ।। 19।।
संकेतः-विषवल्लरी, विषलता, तद्वदाचरति विषवल्लरीयति। यद् यथेत्यप्रियमपि सत्यं वदेति भावः।। 19।।
तथानुयुक्तः प्रभुणाऽप्यनीश्वरो निजे विधाय स्थिरतां रहस्यसौ।
विदेहपुत्रीं प्रति संशयालुतां विषं यथोद्गीर्य गतो विसंज्ञताम् ।। 20।।
संकेतः-तथा पूर्वोक्तेन प्रकारेण अनुयुक्तः पृष्टः। निजेऽनीश्वरोपीत्यन्वयः। विसंज्ञतां मूर्च्छाम्।। 20।।
निशम्य दूतेन निवेदिताक्षरं प्रियातिरस्कारमयं वचोविषम्।
घनायसाघातमवाप्य वारिभूर्यथा विदीर्णो बत सोऽपि मूर्च्छितः ।। 21।।
संकेतः-वारिभूः कमलं घनायसम् अयोघनः तदाघातम्। आप्तेत्याङ्पूर्वो धातुः। सोऽपि रामोऽपि।। 21।।
गवाक्षलग्नाम्बुरुहाप्तसौरभो मरुत् सरय्वा हृत-पुण्य-सीकरः।
प्रवीज्य तौ सानुशयः प्रियाशयो यथा मुहुर्त्तात् कृतवान् ससंज्ञकौ ।। 22।।
विसृष्टदूतो भगवान् स राघवो विलापकातर्यमवाप निस्सहम्।
विरौति चेतो निखिलस्य राक्षसीमवेक्ष्य वृत्तिं प्रियवैशसे रताम् ।। 23।।
अहो असंख्यैः कलुषैरुपद्रुतं नृजीवनं राष्ट्रपतिर्न यो नयैः।
व्यशोधयत् तस्य पदोपभोगिनो धिगेव सत्त्वं विजुगुप्सितात्मनः ।। 24।।
मनोवचःकर्मभिरार्यसंस्कृतिं सदैव या शुद्धतमां मनस्विनी।
निषेवमाणा न बिभेति मृत्युतोऽप्यहो जनस्तामपि हा जुगुप्सते ।। 25।।
ममैव किन्त्वत्र परिच्युतात्मनस्त्रुटिर्यदेषा जनतास्त्यशिक्षिता।
पितुः स दोषः शिशुरत्ति यद् विषं भिषग्हि वाच्यो यदि वर्धते रुजा ।। 26।।
कथं नु रक्षो-गृह-वास-दौर्भगं स्वतःप्रमाणं, न च वह्निशोधनम्।
अवैमि नष्टो वपुषाप्यनङ्गवज्जनान्तरङ्गेषु कृती स रावणः ।। 27।।
कृते ममैषा नृपमन्दिरादितो वनान्यपि प्रीततराण्यमन्यत।
निनाय या ताः शरदश्चतुर्दश प्रसन्नमुद्रैव फलैरुपोषितैः ।। 28।।
संकेतः-मम भर्तुरित्यर्थः। प्रीततराणि प्रेयांसि। त्रयोदशवर्षाणि फलैः, लङ्कायामेकं वर्षं च उपोषितैः सततमुपवासैः। प्रसन्नमुद्रेति सीताया मनःकर्मणोरैक्यम्। अनेन सीताचारित्र्यस्य जनतागतं प्रत्यक्षमदर्शि।। 28।।
अदर्शि या चीरधरापि केनचित् कदापि धीरा न दुकूलकाङ्क्षिणी।
ममाङ्गरक्षां सततं समन्ततः प्रतिक्षणं या विदधे च ताः समाः ।। 29।।
संकेतः-चीरधारण-पतिशरीररक्षाभ्यां च दुर्जातावप्यशिथिलपातिव्रत्यमनुमानविषयः।। 29।।
हनूमता किंच सताऽधिसिंहलं चरित्रशुद्धावचला निरूपिता।
अहो प्रमाणत्रितयेऽपि मे प्रजा विरुद्धबुद्धिः कलिकालगा यथा ।। 30।।
संकेतः-सता आप्तेन अधिसिंहलं लङ्कायां विषमतमायामपि स्थितावित्यर्थः, चरित्रशुद्धा निरूपिता वर्णिता। यथा-‘‘शीलमासाद्य सीताया मम च प्रीणितं मनः’’ (सुन्दरे काण्डे)-इति। एतेन शब्दप्रमाणमुक्तम्। प्रमाणत्रितयेपि विरुद्धबुद्धिरिति चार्वाकतोऽपि गर्हितत्वम्। कलिकालेति भगवतो रामस्य युगान्तरे जातत्वात्।। 30।।
अहो यया प्रीतिपुरस्सरं तथा गतेन कालेन वनं गृहीकृतम्।
जनैस्तिरस्कारवचोभिरद्य सा श्रवोविषैर्हन्त पुरश्चिकीर्ष्यते ।। 31।।
संकेतः-तावतेति सुदीर्घत्वम्। श्रवसोः कर्णयोः विषैः दाहकैः।। 31।।
अहो विधातः कथमीदृशो ग्रहः सुरापगा-पावक-तुल्य-जीविताम्।
मदेकचित्तामघ-मारुतैरिमां लतामिवाक्षेपयसे मम प्रियाम् ।। 32।।
संकेतः-ग्रहः हठः। सुरापगा गङ्गा, पावको वह्निः तत्तुल्यं जीवितं यस्या ताम्, तुल्यत्वं च विकश्मलत्वेन। अघानि मारुता इवेति प्रियापक्षे, अघानीव मारुता इति च लतापक्षे। ममेत्यर्थान्तरसंक्रान्तं ममत्वाधिक्यद्योतनं च पदम्।। 32।।
अयि प्रिये, वैशसदारुणे मयि प्रतीतभावे ऋजुतापरिप्लुते!।
क्व ते विगानग्लपितं सतीव्रतैर्विशुद्धमेतद् वपुरत्र शोत्स्यते ।। 33।।
संकेतः-प्रिये इति संबोधनम्। अहं वैशसदारुणः, त्वं च प्रतीतभावा विश्वस्तचित्तेति स्वस्य गर्हितत्वं प्रियायाश्चार्यत्वं व्यञ्जितम्। विगानं निन्दा। सतीव्रतैरिति बहुवचनेन विशुद्धमिति सोपसर्गेण शुद्धिवचननेन पुनःशुद्धिसंभवोऽपहस्तितः। अत्र लोके शोत्स्यते शुद्धं भविष्यति।। 33।।
किमत्र कार्यं विपरीतताकटुः स्थितिः समक्षं मम संप्रति स्थिता। त्यजानि किं, किं स्वचितिं, जनानथो, विशानि वह्नौ यदि वाद्य वारिधौ।। 34।।
संकेतः-चितिपदेन सीताया अध्यवसायः, तेन तस्या दयिततमत्वम्। वह्निवारिधीति पक्षद्वयगत्योभयत्राप्यक्षेम इति।। 34।।
समाजधर्मः स्थित एकतोऽन्यतः स्थिता च वैयक्तिकता पुरोऽद्य मे।
उदस्यतामत्र लता, द्रुमोऽथवा, परस्पराश्लिष्टतमात्मनोर्द्वयोः ।। 35।।
संकेतः-द्वयोरिति सामान्येन निर्देश। तेन लतावृक्षयोरिव व्यष्टि-समष्ट्योरपि परस्परोन्नद्धत्वमायातम्, तदेव च भारतीयायाः संस्कृतेर्जीवितसर्वस्वम्।। 35।।
तदेत्थमन्तश्चलमस्य वैशसाद् ययौ विभोरुत्तरकोसलौकसाम्।
प्लवत्वमब्धौ तरले प्रभञ्जनात् सरोरुहत्वं यदि वा सरोवरे ।। 36।।
संकेतः-अन्तः अन्तःकरणम्। विभोः व्याप्तमहिम्नः प्रभोः प्रभञ्जनात् तरलत्वं पयोधाविव योगशक्त्या सरोवरेऽपि योजनीयम्।। 36।।
स वृक्षवृत्तिर्जनताकृते प्रियां लतामिव त्यक्तुमनास्ततोऽभवत्।
भवन्ति चेतांसि महात्मनां सदा परार्थसंपादनसौख्यभाञ्जि वै ।। 37।।
ततः सतीं तां स्व-विकार-मूर्च्छितां महागजः पङ्कजिनीं यथा वहन्।
सभागृहं प्राप स पूरुषोत्तमो विसर्गरङ्गं नु महानटोत्तमः ।। 38।।
संकेतः-स्वं श्रीरामः तद्विकारः सीतापक्षे तद्ग्लानिः पङ्कजिनीपक्षे स्वं गजः, तद्धिकारो मत्तता, तज्जनितो विकारो विमर्दादिर्वा। विसर्गरङ्गः प्रलयताण्डवमञ्चः। नटोत्तमः शिवः ‘‘महावराहो धारिणी’’-मित्यपि वक्तुं शक्यते तथापि परित्यागवैशसद्योतनाय गजकमलिनीसाम्यमेवान्तरङ्गतमम्। वराहेण हि रक्षितुं धरणी समुद्धृता न नाशयितुम्।। 38।।
ततश्च माततृरनुजोत्तमाँश्च तान् समाह्वयत् तत्क्षणमेव राघवः।
निजस्य सर्गस्य निवेदनाय यन्न धर्मकृत्ये रघवो विलम्बिनः ।। 39।।
अनर्थ-शङ्काकुल-मानसस्ततः सुतैः समेतो जननीजनः क्षणात्।
सभागृहं वीचिचयः सहाम्बुजैस्तटं यथा मारुतमूर्च्छितोऽभ्यगात् ।। 40।।
संकेतः-विम्बप्रतिबिम्बभावमूला पूर्णोपमा। मूर्च्छितो वेल्लितः। उभयमपि प्रकृतमेवात्र ग्राह्यमुपमेयोपमानयोः, तेन चानिष्टलक्षणमपि संगृह्यते।। 40।।
अमी विभान्ति स्म तथा विशङ्कया विवर्णदेहा नरनाथबन्धवः।
विभान्ति पार्श्वे शशिनो यथा ग्रहाः समुज्जिहाने निशि धूमकेतने ।। 41।।
संकेतः-बन्धुपदेन भ्रातरो मातरश्चेति द्वितयेऽपि ग्राह्याः। विशङ्कापि सविशाल-पुच्छो मनःप्रकाशः।। 41।।
सशङ्कमेते मिलिताश्च तद्गृहे तथैव रामेण तटस्थचेतसा।
यथा महेन्द्रप्रमुखाः सुराः सतीवियोगिना दक्षगृहे पुरारिणा ।। 42।।
तटस्थवृत्तिश्च स तेषु राघवस्तथा बभासे निजबन्धुषु स्थितः।
यथा स कश्चित् पुरुषोऽवभासते गुणेषु सांख्ये महदादिभिर्वृतः ।। 43।।
संकेतः-बध्नातीति व्युत्पत्त्या बन्धुपदं महदादिष्वपि सार्थकम्, तैरपि ज्ञरूपस्य पुरुषस्य व्यक्ताव्यक्तत्वमुपेयिवद्भिरेवंविधा बन्धुता सांख्यशास्त्रे लभ्यत एव। तत्र ‘‘प्रकृतेर्महान्’’-इति कारिकावचनान्महत्पदेन प्रकृतेः प्रथमो विकारो बुद्धिर्ग्राह्यः तस्य व्यक्तत्वेन तत्कृतस्य बन्धनस्य सुगमत्वात् अव्यक्तायाः प्रकृतेरत्रानुपादानम्। आदिपदेन अहंकारः, तन्मात्राः, इन्द्रियाणि, भूतानि चात्र ग्राह्याणि। यदुच्यते भगवतेश्वरकृष्णेन-प्रकृतेर्महांस्ततोऽहंकार इत्यादि।। 43।।
विपक्वगर्भां च वधूं दृगम्बुभिर्निजैः संसज्ञां च निरीक्ष्य मातरः।
निशश्वसुर्मुष्टिमतीं यथा महीं तरङ्गितां वीक्ष्य कृषाणचेतनाः ।। 44।।
संकेतः-मुष्टिः परिपक्वशुष्कं सस्यं ‘‘फसल’’-शब्दवाच्यम्। शोकस्थित्यै कृषकपक्षेऽवग्रह आक्षेप्यः।। 44।।
कृतप्रणामान् विहिताशिषश्च तान् यथायथं संश्रितविष्टरानपि।
कथंचिदुद्धूतविवासवेदनाननिष्टभीतिर्न हि भाषितुं ददौ ।। 45।।
संकेतः-तान् रामादीन्।। 45।।
ततः कथंचित् कुलिशान्तरात्मतामवाप्य तेभ्यो मितसारवाक्पतिः।
न्यशामयद् दूतमुखेन यच्छुतं स्ववंशकौलीनविषं विशांपतिः ।। 46।।
संकेतः-विशांपतिः नृपतिः श्रीरामः। कौलीनं जनप्रवादम्।। 46।।
स वाग्विसर्गो विदधे विदारितान्तरान् समस्तानपि तान् सभासदः।
भवन्ति कारुण्यवतां वपुर्भृतां मनांसि संवादशुभानि सर्वदा ।। 47।।
संकेतः-संवादः समानोऽनुभवः।। 47।।
निपीडिताः कर्णकुटीषु तद्वचोऽनलेन सर्वा अपि राममातरः।
अमूमुहन्नन्तरतीतपन्नथो व्यलीलपन्नेवमुदस्तसंविदः ।। 48।।
कथं विधातर्घनसारसन्निभामिमां कुलं शोधयितुं स्नुषामदाः।
कथं च तत्राग्निनिभं विपद्व्रजं विधातुमेतान् महतो ग्रहानगाः ।। 49।।
संकेतः-घनसारः कर्पूरम्। कर्पूरधूपेन शुद्धिः प्रसिद्धा। ग्रहान् हठान्।। 49।।
निषेकपाकं धरिणी वृषाकपेर्यथात्मजस्यास्य बिभर्त्ति मे वधूः।
विधेऽत्र वृत्रासुरवत् कथं ततः कलङ्कवर्षोपलमाः सिसृक्षसि ।। 50।।
संकेतः-निषेको गर्भः। वृषाकपिरिन्द्रः। वृत्रासुरो मेघः।। 50।।
क्व भूतधात्र्या दुहिता स्नुषा च मे, प्रतीपभावा क्व च तादृशी कथा।
उपांशु वल्ली न विषं, न चन्द्रिका तमो, न गङ्गा कलुषायितं, भजेत् ।। 51।।
संकेतः-भूतधात्री पृथिवी। मे ममेत्यर्थान्तरे संक्रान्तम्। सौरभ्यप्रकाश-शुद्धिं विकिरन्त्यो मल्ल्यादय उपांशु रहिते वैपरीत्यं न भजेरन्निति भावः।। 51।।
मरुस्थली सोर्वरतामुपेयुषी चिरेण मे पुत्र-वधू-युगेक्षणात्।
कलङ्कदुष्काल इमां पुनः कथं विधे समुञ्जासयितुं प्रवर्त्तितः ।। 52।।
संकेतः-सा विवासकालविकराला। दुष्कालोऽवग्रहः। समुज्जासयितुं नाशयितुम्, हिंसायाम् चौरादिको धातुः।। 52।।
इयं विमर्द्दे वकुलावली यथोत्तरोत्तरं सौरभमेव मे वधूः।
सृजत्यसौ चेत् कलुषा ततः शुचिर्जगत्त्रये का नु पतिव्रता भवेत् ।। 53।।
संकेतः-वकुलः मौलिश्रीः मोलसिरीति-नाम्ना व्यपदिश्यमानं केसर-पुष्पं तदावली। केसरं हि परिशुष्कमपि न विक्रियते, अभ्युक्षणेन हरितायते चेति प्रसिद्धमेव।। 53।।
सुतोऽस्ति में पङ्कजकोश एष मे वधूरियं तत्र च माधवी स्रुतिः।
अरातिभृङ्गस्य पदेन कीदृशस्तयोर्विभेदो विपरीततापि वा ।। 54।।
संकेतः-अरातिः शत्रुः, स चात्र रावणः। तद्रूपस्य भृङ्गस्य पदेन चरणेन स्थानेन च। बलादपहरणकाले रावणेन सीताशरीरस्य स्पर्शाद् इयमुक्तिः।। 54।।
कृपीटयोनौ प्रतिमेव हैमनी न कृच्छ्रयातापि सती विवर्ण्यते।
अथास्ति या वल्लभमीदृशं श्रिता शिवं कलन्दोरिव तत्र का कथा ।। 55।।
संकेतः-कृपीटयोनिः अग्निः। हैमनी सुवर्णनिर्मिता।। 55।।
प्रभा प्रदीपादिव रामजीवनादपैति सा चेदतिपेशलाशया।
तदाऽऽर्यपुत्रात् प्रथमं विनाकृतं कुलं रवेः को नु परः प्रकाशयेत् ।। 56।।
संकेतः-आर्यपुत्रो दशरथः रवेः कुलं परो रविभिन्नः।। 56।।
क एष मार्गो निजरक्षणे जनो धृतव्रतं दूषयते निजाधिपम्।
किमत्र कार्यं भगवानुषर्बुधो भवेद् दिधक्षुर्यजमानमेव चेत् ।। 57।।
संकेतः-उषर्वुधो वह्नि। स चात्र यज्मानपदसाहचर्याद् यज्ञीयः।। 57।।
इति शकललितचित्तास्तास्तथैवानुजाता-
नविरलगलिताश्रूँल्लोकनाथः स दृष्ट्वा ।
स्वयमपि निजसर्गं वक्तुमीशां न चक्रे
भवति हृदयभूमौ मानवो मानवो हि ।। 58।।
संकेतः-ताः जननीः अनुजातान् भ्रातृन् लोकनाथो राजा रामः सर्गं निश्चयं वक्तुं न ईशांचक्रे। व्यवहितप्रयोगस्य कालिदासाश्वघोषादिषु प्रचलितत्वात्, अपाणिनीयत्वेऽपि न क्षतिः।
‘‘ईशो न जात’’ इत्यादेः पाठस्यापि संभवे तथा प्रयोगो व्यवहारसौभाग्यमभिप्रेत्यैव कृत इति मन्तव्यम्।। 58।।
मनसि विधृतमोहा सा सभा राघवाणा-
मपि वचसि तदासीदङ्कवीणेव मूका ।
न हि भवति मनुष्यस्यान्तरङ्गे निवासी
विकृतिषु परमात्मा पक्षपाती मृषासु ।। 59।।
संकेतः-वीणा अङ्कमारोप्यते चेत् तदुद्देश्यं वर्णपरिचयः स्वरसंयोग एव वा भवति। तर्हि सत्यामपि स्वसंयोगस्पृहायां यथा तस्या मूकता विवक्षोन्मिश्रा भवति तथैव प्रकृते। मृषासु अलीकासु। अव्ययत्वाविवक्षायामेवं प्रयोगः।। 59।।
अथ रघुपतिजायैवात्मदेवस्य साक्ष्या-
ज्झटिति विमलचेता निश्चिकाय स्वधर्मम् ।
वदितुमथ च धैर्यात् किञ्चिदाकुञ्चिताक्षी
धृततनुरिव काशी प्रक्रमं सा चकार ।। 60।।
संकेतः-आत्मा हि देवः। अक्ष्याकुञ्चनेन विवेकबुद्धिरनुभाव्यते। काश्यौपम्येन च तस्या एव पोषः।। 60।।
इति सनातनोपाह्व-श्रीमद्-रेवाप्रसादद्विवेदिकृतौ सीताचरित-नाम्नि सर्गबन्धे जानकीकौलीनं नाम द्वितीयः सर्गः।। 2।।