तृतीयः सर्गः
सा निसर्गमधुरस्वरा ततः सत्यहेम्नि लिखितेव देवता।
आजहार हृदयानि भाविनी बान्धवस्य पटुभाषिणी सती।।1।।
संकेतः-लिखिता उत्कीर्णा। हेम्नि नष्टे यथा तल्लिखिता मूर्त्तिरपि नश्यति, तथैव सत्ये नष्टे सीताया अपि नश्वरतात्र गम्या।। 1।।
तामवीवददनल्पतापिनी लोकनाथहृदयस्य विद्रुतिः।
स्वं परीत्य जगति प्रसर्पिणी कापि रात्रिरिव चक्रवल्लभाम् ।। 2।।
संकेतः-लोकनाथो रामः विद्रुतिः शोकक्षोभजनिता द्रवता, वैशसरूपो विद्रवश्च। स्वं सीतां परीत्य परिवेष्ट्य विषयीकृत्येति यावत्। पक्षान्तरेपि रात्रिः तदैव संतापयित्री भवति यदा सा चक्रवाकं दूरीकुर्वती चक्रवाकमपि परिवेष्टयति जगति प्रसर्पति च।। 2।।
द्यौर्न नीरदभरच्युतां विना विद्युतं श्रयति शब्दकारिताम्।
नैव मारुतविसर्पणादृते रौति कापि च मरालमानिनी।।3।।
संकेतः-मरालमानिनी हंसी।। 3।।
साऽब्रवीत्-प्रतिहतेन चक्षुषा सर्वथा स्वतमसाऽत्र मानुषः।
वीक्षते परपरिस्थितिं परं, वीक्षते न पर-धर्म-दर्शने।।4।।
संकेतः-स्वतमसा प्रतिहतेनेत्यन्वयः। परिस्थितिः लोकगता समविषमस्थितिः। सीतायाः लङ्कावासः परिस्थितिरेव। परस्य परे चेति, धर्मदर्शने तद्द्वयी। दर्शनं हि धर्मस्य प्रभवभूः। चक्षुःपदेनात्र स्वदर्शनं गम्यते।। 4।।
वीक्षते यदपि सूर्यबिम्बतः शैत्यमुद्भवति नैव जातुचित्।
एवमेव न निशीथिनीपतेः क्वापि नश्यति तुषारशीतता ।। 5।।
संकेतः-वीक्षते मानव इति पूर्वानुवर्ति।। 5।।
किन्तु विश्वसिति दूषणं प्रमापूतमेव जनता स्वतः सदा।
तोयजं भवति पङ्कजं हि तन्मानसे श्रयदपि प्रभां रवेः ।। 6।।
संकेतः-दूषणं स्वतः प्रमापूतं प्रमाणमिति भावः। कमलं हि जलादुत्पद्यते, न पङ्कात्, नालमात्रस्य पङ्कादुत्पन्नत्वात्। ततश्च पङ्कोत्पन्नत्वमस्य वितथमेव। यच्च तथ्यं तद्धि तस्य सूर्यप्रभाभासुरत्वम्। तदाश्रित्य केनापि कमलं न व्यपदिश्यते।। 6।।
विश्वसेदथ न वापि विश्वसेल्लोक एष विदुषे ततो न भीः।
स्वं प्रमाणयति कृत्यदर्शने सम्भवेन्न सुजनेऽन्यनेयता ।। 7।।
संकेतः-स्वं स्वान्तरात्मानं प्रमाणत्वेन स्वीकुर्वति सुजने संस्कारवति शिष्टे। ततो नाव्यवस्थाभीः। अन्यनेयता परानुशिष्टिसापेक्षता।। 7।।
किन्तु देव! यदि सौख्यवारिभिः शीतमस्ति तव राज्यमक्षयम्।
तेन मादृश-विगीत-वृत्तिना जन्तुना किमिह तापकारिणा ।। 8।।
संकेतः-सौख्यस्य वारिणोपमया तुच्छत्वम्, विगीता निन्दिता वृत्तिश्चरित्र्यं यस्य तेन जन्तुनेति तुच्छताप्रत्यायकम्।। 8।।
अस्तु मे भवदभीप्सिता स्थितिर्हन्त कुत्रचिदपि क्षमातले।
विश्वमस्तु तु विशल्यतां गतं काममद्य सह कीर्त्तिभिस्तव ।। 9।।
आर्य! यावदवधि प्रजाहिते दीक्षितोऽसि सुखमात्मनस्त्यजेः।
स्नेहदाहसहितो हि दीपको विश्वमुज्ज्वलयितुं प्रगल्भते ।। 10।।
कृच्छ्रपङ्कविधृतोपि निश्चलः शीर्यते न हि बुधः, स पद्मति।
यद्यशःपरिमलेषु भावकाः षट्पदन्ति विवशीकृताः स्वतः ।। 11।।
संकेतः-कृच्छ्रं विपद्।। 11।।
न प्रजा, न निजबन्धुता, परं जीवितात् सह समेति जन्तुना।
तत्र केवलमनाविलं मनस्तस्य साक्षिपदमश्नुतेतमाम् ।। 12।।
संकेतः-बन्धुता बन्धुसमूहः ‘‘ग्रामजनबन्धुभ्यस्तल्’’। जन्तुना सह जीवितात् परं न समेतीति योजना।। 12।।
तेन कोपि किमपि ब्रवीतु, ये पारमार्थिकविवेकमाञ्जनीम्।
आगमाक्षिनिपुणाः शलाकिकामाश्रयन्ति विचरन्ति तेऽभयम् ।। 13।।
संकेतः-तादृशविवेक एव आञ्जनी शलाकिका, ताम्।। 13।।
आर्य! यद्यपि मनस्विनीजनः स्त्रीति विश्ववचनीयतास्पदम्।
लोकनायकविवेकदीपकस्तत्कृते न परिहीयते परम् ।। 14।।
यद्यपि प्रतिविधित्सुरप्यसौ मानवो न विधिलेखमुत्खनेत्।
चित्तसाक्षिकतयाऽनुवर्त्तते शुद्धिमेष यदि नो न तुष्यति ।। 15।।
अद्य यावदियमावयोर्मनःस्निग्धभूमिविधृता प्रतानिनी।
पुष्यति स्म युगमङ्गलं सुमं, साद्य यद्यपि विशस्यतेतमाम् ।। 16।।
किन्तु पूर्वसदृशं चराचरं विश्वमेतदनया प्रसाध्यताम्।
सौमनस्यमभिवर्ष्य, माधवी मिष्टता च खलु तत्र धीयताम् ।। 17।।
आवयोर्हृदयदुग्धसिन्धुनोत्थापितोऽयमनुरागनीरदः।
दुर्दिनेष्वपि चिराय जायतां विश्वतापहरणाय सक्षमः ।। 18।।
संकेतः-सुमं कुसुमम्। विशस्यतेतमाम् जनैरिति शेषः। चराचरं चराचरात्मकम्। प्रसाध्यताम् अलंक्रियताम्।। 16-17।।
संकेतः-दुर्दिनेषु वार्षिकेषु विषमेषु च दिनेषु।। 18।।
सैव काचिदपि शाश्वती स्थितिः प्रेम्णि हेम्नि रुचिरा यथा द्युतिः।
विप्रियाग्निषु न यत्र विक्रियालेशमात्रमपि नैव जन्यते ।। 19।।
अन्तरिक्षमवनिर्दिवानिशं विश्वकर्मणि भवन्ति साक्षिणः।
किन्तु दैवहतकेन वाग्ग्मिता तेष्वपि द्युकुसुमायिता कृता ।। 20।।
संकेतः-द्युकुसुमायिता अभावात्मिका।। 20।।
आर्य यद्यपि शुचित्वमात्मनः सेद्धुमर्हति न साक्षिणं विना।
किन्तु वश्यमनसां महात्मनां वर्त्मने न परतः प्रमाणिता ।। 21।।
मेति मेति निगदन्तमीश्वरं साब्रवीत् पुनरपूर्वभाषिणी।
आर्यपुत्रचरणाब्जयो रजः किन्तु कुत्र सुलभं भविष्यति ।। 22।।
हन्त सर्वमपि तावदस्यतां नाथ ते प्रणयभिक्षुकीमिमाम्।
क्षीरसिन्धुविशदस्य चेतसः पार्श्वदूतिपदतो न हास्यसि ।। 23।।
पश्चिमा प्रणतिरङ्घ्रितीर्थयोर्नाथ तेऽद्य मयका विधीयते।
मातरश्चरणरेणुरद्य वः स्वाञ्चलेऽत्र मयका निधीयते ।। 24।।
प्राणतोपि यशसि स्पृहा गुरुः सूर्यवंशिषु हि या प्रशस्यते।
तां विभाव्य कलुषा स्नुषाऽद्य वो याति दूरमनुमन्यतान्तमाम् ।। 25।।
येन सौभगमपि स्वकं पुरा त्याजिताः स्वकुलगौरवं हि तत्।
वीक्ष्य मातर इहापि दुःक्षणे वत्सलत्वमवमन्यतान्तमाम् ।। 26।।
पुत्रिकेव भवतीभिरुक्षिता याञ्चलेन सततं पयोमुचा।
राजधर्मपरिपालनव्रतं वीक्ष्य सापि परिहीयतान्तमाम् ।। 27।।
राजमातृपदवी गरीयसी मातरो द्रुतिमुपेत्य चेतसः।
प्राणतोपि यदि पाल्यते व्रतं तर्हि सा मम कृते न दूष्यताम् ।। 28।।
विश्वचित्ररचनापटीयसी वेधसो मतिरतीव चित्रिता।
तत्र हन्त परिवर्त्तनं प्रियं चक्रयोरपि तथाध्वनोरपि ।। 29।।
संकेतः-चक्रं हि परिवर्त्तमानं सत् तदीयं पन्थानमपि क्षोदयत् परिवर्त्तयति यद्यपि तत् स्थिरमिवैव भासते। प्रकृते च केन कस्य साम्यमिति स्वमनसैवोन्नेयम्।। 29।।
विश्वदैवतमुपास्य कार्मणं यस्तु वाञ्छति चराचरप्रियम्।
तेन पादपनिभेन केवला पूज्यतेऽनुपहिता परार्थता ।। 30।।
संकेतः-कार्मणं वशीकरणम्। अनुपहिता उपाधिरहिता निश्छला निष्कामा चेत्यर्थः।। 30।।
यामि मातर इतः स्वतस्ततो यामि, यामि विपिनं न मे व्यथा।
कीर्त्तिकायमवितुं सुमानुषा मृत्युतोपि न हि जातु बिभ्यति ।। 31।।
आह साथ विषमेपि सेवया पूजितुं गुरुजनं दृढव्रतम्।
लक्ष्मणम्, ‘‘गुरुरसि त्वमेव मे धर्मपालनविधाविह क्षणे ।। 32।।
अग्रणीरसि सदा सनातने कालचक्रपरिचङ्क्रमे नृणाम्।
आत्मनः प्रियमपास्य यो गुरूँश्छायया सम इहानुगच्छसि ।। 33।।
याम्यहं विपिनमेकला गुरुं त्वं पुरेव परिरक्ष सर्वतः।
त्यक्तधारमपि वारि शैत्यतो विप्रकर्षमिह नैव लिप्सते ।। 34।।
साथ नेत्रसलिलप्रकाशितं कातरत्वमवरुध्य चेतसः।
प्राञ्जलिर्भरतमन्वयाचत प्राग् वने विधृतमात्मवल्कलम् ।। 35।।
वज्रपातमिव वल्लरी सतीभाषितं तदुपकर्णमागतम्।
सोढुमक्षमतया सभाभवद् भूविलुण्ठितनुर्विचेतना ।। 36।।
संकेतः-भूविलुण्ठिततनुत्वेन मूर्च्छितत्वमनुभाव्यते।। 36।।
मातरस्तदनु लब्धचेतना बाष्परुद्धवचसः कथञ्चन।
प्रास्तुवन् निजवधूं प्रचेतसः सूनवेऽर्पयितुमाप्तसंविदे ।। 37।।
संकेतः-निजवधूं सीताम्। प्रचेतसः सूनुः वाल्मीकिः आप्तसंवित्त्वेन तस्य सीता-विषये वास्तवदर्शितायाः शंसा।। 37।।
राघवोपि जननीजनोदितं तद् वचः समभिनन्द्य लक्ष्मणम्।
यन्त्रवत् तदभिधानुधाविनं ‘‘पूर्यतामिदमि’’ति व्यजिज्ञपत् ।। 38।।
‘‘तात मातरमहं कथं न्विमा’’-मित्यपूर्णवचनं हि लक्ष्मणम्।
वज्रकष्टहृदयः स राघवो व्याक्षिपन्निदमवोचदच्युतः ।। 39।।
वेत्सि नो, ननु विहाय जानकीं कुण्डली शिरसिगां यथा मणिम्।
भेत्स्यते शिरसि तेऽयमग्रजो नूनमेव शतधा सहस्रधा ।। 40।।
संकेतः-मणिर्द्वयोरित्यमरः।। 40।।
किन्तु हन्त मुकुलैरुपस्कृतां नूतनैः किसलयैश्च संवृताम्।
मल्लिकां परशुना निकृन्तता चर्ममात्रहृदयेन किं मया ।। 41।।
यो हि नीलघन-कुट्टिमाम्बरोद्यानलास्य-पटु-मुग्ध-चञ्चलाम्।
प्रीतिपूतमनसा मनस्विनीं न क्षमेत, वद सोऽपि मानुषः ।। 42।।
संकेतः-नीलं च तद् घनं च, नीलश्चासौ घनश्च तद्वच्चेति नीलघनम्, अर्शआदिभ्योऽच्, तच्च तत् कुट्टिमं गृहमध्याङ्गनं तदेवाम्बरोद्यानमाकाशोपवनं तत्र लास्ये पटुः मुग्धा चासौ चञ्चला विद्युत् तद्वत्स्फुरणसुभगा ताम्।। 42।।
तेन तां गगनपुष्पितां कथां रामसौख्यमवलम्ब्य तस्थुषीम्।
मा स्म चिन्तय नियोगमात्मनः पूरय त्यज तव प्रजावतीम् ।। 43।।
संकेतः-गगनपुष्पितेति सर्वथाभावाभिप्रायकं वचनम्। प्रजावती भ्रातृजाया।। 43।।
पुत्रभावमवलम्ब्य तात यां काननेषु विचरन्नुपाचरः।
सैव गर्भभरनिर्भरालसाप्यद्य शस्यत इदं च मृष्यताम् ।। 44।।
संकेतः-शस्यते हिंस्यते। शसु हिंसायाम्।। 44।।
यूयमेष भवदग्रजश्च ये क्षात्रकुक्षिषु विपाकमापिताः।
तैः समग्रमतिभिः प्रजाहितं सूर्यवच्च शशिवच्च पाल्यताम् ।। 45।।
संकेतः-एष भवतामग्रज इति वक्तू रामस्यात्मानं प्रति निर्देशः।। 45।।
यावदेव शृणुतेऽस्य शासनं लक्ष्मणो विमुखमानसः प्रभोः।
आर्षशोणितभवा विदेहजा तावदेव निपुणं न्ययुङ्क्त तम् ।। 46।।
मात्र कापि महती शरीरिणो वासना भवतु तत्कलेवरे।
तत्र गूढगतिरस्त्यवस्थिता तोयदेषु चपलेव चेतना ।। 47।।
संकेतः-कलेवरे स्थूले करणग्रामे।। 47।।
तत्र कल्पलतिकेव सौमनस्याभ्रसिन्धुरुपबृंहते न वा।
सा परिस्थिति-समौचिती-तटद्वन्द्वतो निरवधीयते न वा ।। 48।।
संकेतः-तत्र चेतनायाम्। सौमनस्यं हि कामधुक् अतः कल्पवल्लिसाम्यम्। तस्यैव पुण्यत्वबुद्वयै अभ्रसिन्धूपमा। परिस्थितिः सीताजीवने लङ्कावासः, रामजीवने वनवासः, समौचिती पुनरत्र चारित्र्यरक्षणम् निरवधित्वमनन्तत्वं बिभुत्वं च।। 48।।
तात जीवनरथस्य चक्रयोः प्रेयसोः परमिदं निरीक्ष्यताम्।
दम्पतीतिपरतत्त्वमूर्जितश्रि स्पृहास्ति यदि वीक्षितुं जने ।। 49।।
मानवी निज-चिति-त्रिमार्गगां गर्वशैलशिखरान्निपातयेत्।
किं च तां समरसाद् वसुन्धरापृष्ठतोऽम्बुधिमनन्तमापयेत् ।। 50।।
संकेतः-समरसाद् इत्यनेन सामरस्यमेव वसुन्धरापृष्ठमिति सूचितम्। तत्र वसूनि धरतीति योगार्थमादायार्थान्तरमपि शक्याक्षेपम्।। 50।।
स्नेहसिन्धुमथ पूरुषाश्रयं प्रोत्तरङ्गमसमं प्रकर्षयेत्।
आर्य-भूतल-रजोरुहं ततः प्राप्तजीवितफलं स्वमुद्दिशेत् ।। 51।।
संकेतः-सिन्धुः समुद्रः स्वमात्मानं प्राप्तजीवितफलमुद्दिशेदित्यन्वयः स्वम्पदार्थविशेषणमेवेह आर्यभूतलेत्यादि।। 51।।
एवमार्य-महिला-समीरिता भारती विरत-भावमाश्रिते।
लक्ष्मणेऽभिनवचेतनाङ्कुरं प्रोद्बिभेद मुकुलं यथा द्रुमे ।। 52।।
संकेतः-आर्यमहिलेति साभिप्रायं विशेषणम्। तेन भारतीयत्वमाक्षिप्यते।। 52।।
एकतोऽग्रजनियोग एकतः स्वाभिमान ऋषिशोणितात्मनः।
तद्द्वयेऽस्य परमानुरागिता मेघ-वात-पथ-दीपिकाऽभवत् ।। 53।।
संकेतः-अग्रजनियोगो रामाज्ञा। ऋषिशोणितात्मा सीता। अस्य लक्ष्मणस्य मेघवातपदेन वायौ सीकरसान्द्रता प्रवेगत्वं चोन्मीलिते। दीपिकापदेन दीपस्यापि लघुत्वमुद्मावितम्।। 53।।
अञ्जलिं भरतमूर्घ्नि निश्चलं साभिवन्द्य रिपुघातियोजितम्।
स्यन्दनं तत उपारुरोह खं वैधवीव शुभदर्शना कला ।। 54।।
संकेतः-रिपुधाती शत्रुघ्नः।। 54।।
शुभ्रकेतुरवदात-वाहनः श्वेतरश्मिरतिशुद्धसंस्तरः।
द्योतते स्म रथ एष तां वहन् तद्विशुद्धिपरिवेष्टितो यथा ।। 55।।
संकेतः-रथ एष सर्वशुक्लः। एष एव हि भारतीयतायाः प्रतीकः।। 55।।
मातृभिर्विहितमङ्गलक्रिये भ्रातृभिः स्वयमुदस्तसञ्चरे।
यत्र वर्त्मनि रथः स संस्थितो धौतमेतदमराश्रुवृष्टिभिः ।। 56।।
तं निरस्तममतोऽथ लक्ष्मणो बाष्पपूरितदृगञ्चलो रथम्।
आर्यधर्ममिव मौनिना हृदा यन्त्रवत् किमपि रोढुमायसत् ।। 57।।
राघवोपि शितिकण्ठवत् ततः क्ष्वेडपानमिव मीलितार्धदृक्।
जानकीगतमुपांशु वैशसं तन्नितान्तपरुषं न्यपीपिबत् ।। 58।।
रामवासभवनस्य देहलीमुद्गताश्रु मुहुरीक्षमाणया।
सीतया प्रियमवीक्ष्य सा पुरी सूचिकेव नयने व्यभाव्यत ।। 59।।
संकेतः-रामो देहलीं यावदपि सीतागमनावसरे नायात इति गुह्यम्।। 59।।
लक्ष्मणेरितरथाऽथ साऽचलच्चेतनेव रघुवंशिनां पुरः।
तां विसृज्य बत पूश्च सा सतीं न व्यशिष्यत सुरद्रुहां पुरः ।। 60।।
स्वस्य जीवनमखस्य जीवितं तां विसृज्य सुरभिं रघूद्वहः।
दृश्यते स्म बत निष्परिष्क्रियो यूपदण्ड इव वेदिकाच्युतः ।। 61।।
संकेतः-सुरभिः गौः, मनोज्ञा च, वेदिकातश्च्युतो वेदिकाच्युतः।। 61।।
वस्तुतो यदि सुमानुषी सृतिः पद्मिनी, श्रयति पद्मतां प्रिया।
साऽस्ति चेद् यदि शिखा विभावसोरूष्मतां स्पृशति तत्र च प्रिया।। 62।।
संकेतः-यदि सुमानुषी दाम्पत्यमयी सृतिः सृष्टिः पद्मिनी तर्हि प्रिया पद्मतां तत्प्राणतां श्रयतीत्यन्वयः।। 62।।
सैव जीवनसुधांशुचन्द्रिका सैव संस्कृतिवसन्तकोकिला।
तां विना न चरितार्थता सृतेः कल्पवल्लिमिव नन्दनावनेः ।। 63।।
पूरुषोऽग्निपरमाणुरप्चितिः सत्प्रियैव ननु तत्र, तां विना।
नाम-रूप-कलना-प्रसूरियं संहितापि ननु कच्छपीपयः ।। 64।।
संकेतः-वेदविज्ञानानुसारेणाग्निपरमाणावपां चितिश्चयनमेव नाममूलां भिन्नतां तदाश्रयभूतां रूपतां च याति। सैवेयं परा कला, तस्याः प्रसूर्माता संहिता संघातभावः। सा कच्छपीपयोऽभावात्मिका।। 64।।
ज्योतिरिङ्गण-मयूखतो हि या भास्करावधि विभाव्यते प्रभा।
संविदक्षिणि ततोऽप्यसौ परा मातृशक्तिरनुबिम्ब्यते परम् ।। 65।।
संकेतः-ज्योतिरिङ्गणः खद्योतः। ततः तस्याः प्रभायाः सकाशात्।। 65।।
तां हि दुग्धदशनो यथा जनः कश्चिदप्यतितरामधिष्ठितः।
याति हन्त यजमानतां परां याति हन्त जनुषः कृतार्थताम् ।। 66।।
संकेतः-यजमानता ‘‘सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोस्त्विष्टकामधुक्’’ इति गीताचार्यवचनात् प्रजातन्तुवितानरूपयज्ञकर्तृत्वम्। तदेव च जनुषो जन्मनः कृतार्थताया मूलम्।। 66।।
हृदयं हृदयेन संवदेदयमात्मा च वपुःपरिच्छिदाम्।
अपनीय परात्परं विशेदिति हेतोर्गृहमेधिता सताम् ।। 67।।
इति भावितमानसो नृपः प्रविवेशाश्रममेष यं पुरः।
शलभादिव दीपकस्ततो निरवेदीन्न हि तद्वियोगतः ।। 68।।
संकेतः-यमाश्रमं गार्हस्थ्यम्। निरवेदीत् निर्विण्णो जातः।। 68।।
निज-नरपति-धर्म-रक्षणायां हिमगिरि-निश्चलतां वहन् निराशीः।
धृतवपुरिव कर्मयोग एष क्षपित-ममत्वतया तदान्वभावि ।। 69।।
इति सनातनोपाह्व-श्रीमद्-रेवाप्रसादद्विवेदिकृतौ ‘‘सीताचरित’’-नाम्नि सर्गबन्धे जानकीपरित्यागो नाम तृतीयः सर्गः।। 3।।
चतुर्थः सर्गः
तनयां जनकस्य लक्ष्मणो भुवमिक्ष्वाकुकुलस्य सन्ततेः।
विदधीत वनेचरीं कथं कथमार्यस्य वचश्च लङ्घयेत्।।1।।
संकेतः-इक्ष्वाकुकुलसन्ततिभूत्वेन गर्भिणीत्वमाक्षिप्यते। आर्यस्य श्रीरामस्य।। 1।।
इति पीडितहृत् स लक्ष्मणश्चिरमश्रूणि विमुच्य जानकीम्।
भगिनीभिरथोर्मिलादिभिः परिसंभावयितुं गृहं ययौ ।। 2।।
संकेतः-परिसंभावयितुं परिपूजयितुम्।। 2।।
अथ तां भ्रमरीमिवाब्जतः परिहीणामनवेत्य हृष्यता।
स्वहृदा कमलामिवोर्मिला सपदि प्रत्युदियाय सोदराम् ।। 3।।
संकेतः-हृदः कमलौपम्यं गम्यम्।। 3।।
शिरसाऽलकशोभिना पदे प्रणनामोर्मिलमानसोर्मिला।
जनकात्मभुवो विधित्सती कमले केचन शैवलाञ्चिते ।। 4।।
संकेतः-पदे कमलोपमे, सालकं। शिरश्च शैवलोपमम्।। 4।।
द्वितयं द्वितयेन संगतं लभते स्मानुपमां द्युतिं तयोः।
अरुणद्युति चूर्णकुन्तलं नखराग्रं च पलाशपेशलम् ।। 5।।
श्लथबाहुलताऽऽनिनाय तां भगिनीमन्यमनस्कतां गता।
उरसि ज्वलिते विदेहजा नलिनीं यद्वदतीव शीतलाम् ।। 6।।
संकेतः-अन्यापि या तापमपाचिकीर्षति सा नलिनीं हृदये दधाति।।6।।
वरटामिव वारिदावली तरला साश्रुजला च सा सती।
भगिनीं न हि सस्वजे दृढं, क्व विषादे हृदयं प्रवर्त्तते ।। 7।।
संकेतः-वरटा हंसी। वारिदावलीपक्षे अश्रुतुल्येन जलेन सहिता साश्रुजला वारिदावल्यपि हंसजातिं मानसं यावत् सहायितया परिगृहण्न्त्यपि विद्युतमिवाश्लेषबहुमानेन न मानयति।। 7।।
कुसुमास्तरणे कृतस्थितिर्भ्रमरी चेत् करकाभिरर्द्यताम्।
बिभृयादियमत्र दुःक्षणे मृदु साम्यं यदि जानकीचितेः।।8।।
संकेतः-अत्रास्मिन्। मृदु साम्यं न तु पटु साम्यम्। यदीत्यनेन तत्रापि न नितान्तं निर्भरता। तस्यां गर्भकदर्थनाया अभावात्।। 8।।
विदुषी तदनूर्मिलापि सा स्वसुराधिं मनसोऽभिलक्ष्य तम्।
भगिनीं विहितार्चनक्रिया मसृणं मञ्जु च तां व्यजिज्ञपत् ।। 9।।
अयि दुर्ललिते! पितुः, प्रभोर्घनसाराञ्जनवर्त्तिके दृशोः।
किमिति श्रयसे स्वसः श्रियं विधुमूर्त्तिर्नु विभातचन्द्रिकाम् ।। 10।।
संकेतः-विभातचन्द्रिका हि परिम्लानायाः श्रिय उपमानम्।। 10।।
तव मामपि वीक्ष्य वत्सले! प्रणयाच्छोदसरोनिमज्जनात्।
कथमद्य न पुण्डरीकतां नयनद्वन्द्वमिदं समश्नुते ।। 11।।
संकेतः-प्रहर्षाभावस्य पर्यायेणाभिव्यञ्जनात् पर्यायोक्तमत्र।। 11।।
छविशालिनि किं न शीलति प्रणयाब्धिस्तव वीक्ष्य मामपि।
तरलत्वमथोत्तरङ्गतासचिवं ह्लादमितः पुरा यथा ।। 12।।
संकेतः-विलोकने दर्शने। इतः अस्मात् पूर्वं यथा।। 12।।
नयनं भ्रमरद्वयं यथा सितपद्माद्वयगात्रयष्टिके!।
तव मामपि वीक्ष्य निर्भरं वद मातर्वद किं न मोदते ।। 13।।
संकेतः-सितपद्मस्याद्वयो गात्रयष्ट्यां यस्यास्तत्संबुद्धौ। ज्येष्ठाया भगिन्या मातृपदेनामन्त्रण- मौचित्याविरोधि।। 13।।
कथमद्य नभोमरालतां दधदप्यम्बुधिदुग्धफेनताम्।
अविमुञ्चदपि क्षपाकृतो वपुरासादितसोदरं न हि ।। 14।।
संकेतः-आसादिता सोदरा पद्मा येन तत्। अत्र सीताया मुखपद्मस्य क्षणाकृद्वपुष्टयाध्यवसायः।। 14।।
दशनद्वयमेतदद्य ते कुमुदाभं स्मितवत्सलान्मुखात्।
न निगच्छति, कुन्दकुड्मलं विसपत्नं च कथं विधित्सति ।। 15।।
भवतात् तव शोणिमोत्तरे दशनस्योत्तरवाससि स्वसः।
स्मितिशारद-चन्द्रशीतलैर्विशदैरंशुभिरुच्छ्रिता छटा ।। 16।।
संकेतः-शोणिम्ना उत्तरे महिते। दशनस्योत्तरवाससि उत्तरोष्ठे।। 16।।
शुक एष यथात्र दाडिमं मणिमात्रे विधृतं जिघृक्षतु।
पृथुकः कलहंससंभवोऽप्ययि कह्लारदलाम्बुविद्रुमम् ।। 17।।
संकेतः-एष पार्श्ववर्ती शुकः, अथ च शुक एष इति नासिकाया अध्यवसायः, मणिपात्रेणाधरस्य, दाडिमेन च दन्तद्युतेः। एवमेव कलहंससंभवपृथुकपदार्थेनापि नासिकाया एवाध्यवसायः कह्लारदलेनाधरस्य, अम्बुविद्रुमेण च दन्तस्मितस्य। तदेवमत्रातिशयोक्तिमाला।। 17।।
अपि चामृतसन्निभेन ते वचसा मामशिवेतरं दिशेः।
भगिनि! क्रशिमानमागतैर्मसृणस्निग्धकपोलकुञ्चितैः ।। 18।।
संकेतः-अशिवेतरं शिवेतरविपरीतं शिवमिति यावत्।। 18।।
अयि दुर्ललितां किमद्य मां पुनरप्यंशुमता स्वचक्षुषा।
विकचद्युतिनाम्बुजन्मना नलिनी हंसवधूमिवेक्षसे ।। 19।।
न नभो, जननी न वा मही, न दिशश्चापि भवन्ति मत्प्रियाः।
सकलेन मुखेन्दुना तव स्फटिकांशौ प्रविरज्य तिष्ठता ।। 20।।
संकेतः-जननी माता सीताप्रसूत्वात्।। 20।।
तदलं बहुना, निबोध मां हतधैर्यां, भगिनि! ब्रवीतु सत्।
प्रणतिप्रवणेषु साधवो न भवन्त्यान्तरबाह्यमुद्रणाः ।। 21।।
इति सोर्मिलया विनिद्रया कमलिन्या भ्रमरीव जानकी।
मुखरत्वमवापिता बलात् प्रणयामोदपरागपुञ्जया ।। 22।।
संकेतः-विनिद्रता जागरूकता, पक्षे च विकासः। प्रणयामोदः प्रणयरूप आमोदः प्रणयः आमोद इवेत्युभयथान्वयः।। 22।।
अयि साग्रहमानसे! तव स्पृशतु स्वच्छकपोलमद्य मे।
किमिव प्रणयाम्बुगर्भितं कदलीपत्रमिवानलः करः ।। 23।।
संकेतः-कदलीपदेनात्र सुवर्णकदली ग्राह्या।। 23।।
तव साञ्जनमेतयोर्युगं सरलेऽक्ष्णोरसिताब्जमित्रयोः।
किमिवाम्बुपरीतमिन्दिरे रघुवंशस्य विधातुमुत्सहे ।। 24।।
संकेतः-रघुवंशस्य इन्दिरा लक्ष्मीः, तत्संबुद्धौ।। 24।।
सुभगे! प्रतिपत्तिनिष्ठुरो विधिरेव व्यवसाययत्यमूः।
क्षणमात्रसखीरनर्गला विपथे पान्थमतीः कुतर्किणीः ।। 25।।
संकेतः-प्रतिपत्तिनिष्ठुरो निष्ठुरप्रतिपत्तिक इत्यर्थः। क्षणमात्रसखीः क्षणिकत्ववल्लभाः, अस्थिरा असमाहिता इत्यर्थः। पान्थः लोकयात्रापथिकः।। 25।।
स्मितमञ्जु परन्तु ते चितिः प्रियचेतोविटपैकवल्लरि!।
मधु-मिष्ट-निधीनुपाश्रयेदिति मे प्रार्थयते मनः सदा ।। 26।।
संकेतः-स्मितमञ्जु यथा स्यात् तथा। प्रियो लक्ष्मणरूपः, तस्य चेतो विटपरूपः, तत्रोर्मिला वल्लरीरूपा। वल्लरी च यदि मधुनो मकरन्दस्य मिष्टतां न बिभृयात् तर्हि दुर्भगैव सा भवेत्, उर्मिलायाश्चितिश्च। मधु दाम्पत्यसौभाग्यप्रसूत आनन्दः।। 26।।
नवशाद्वलकोमलक्षितौ तव रोमन्थमुखी नवा मृगी।
रुचये भवतादुदञ्चितुं प्रियगात्रं निजशृङ्गघर्षिणी ।। 27।।
संकेतः-संप्रयोगसौख्यं तव रुचये भवेदिति पर्यायेणात्र पिशुनितम्।। 27।।
कुलिशप्रतिमौ भुजौ भुजो भुजजाते! तव भर्त्तुरग्निवत्।
विदधान इव स्पृशेत् सदा निजदेशाय च सौभगाय च ।। 28।।
संकेतः-तव भुजः स्वभर्तुः भुजौ, हे भुजजाते क्षत्रिये, अग्निवत् अग्नितुल्यौ विदधानः सन् स्पृशेदित्यन्वयः। तस्य च फलं स्वदेशरक्षा, स्वसौभाग्यलाभश्च।। 28।।
तनुतां तनुवल्लरी तवाव्यय-भर्तृद्रुम-बाहुमाश्रिता।
किमपि प्रतिमापरं फलं जगती-मङ्गल-मूल-मात्मजम् ।। 29।।
संकेतः-आत्मजमेव फलमिति संबन्धः। फलमपि लताया आत्मजमेव।। 29।।
अहमस्मि न साम्प्रतं स्वसो रविवंशस्य वधूः परात्परा।
अधुनास्मि वराटचेटिका भुवनस्यास्य पुनर्वनेचरी ।। 30।।
स्वसुरेवमुदीर्यमाणया नववाचाऽभवदूर्मिलोर्मिला।
उपदेशगिरो वयस्ययोर्न हि ताटस्थ्यमृते भवन्ति यत् ।। 31।।
संकेतः-नवत्वमिदंप्रथमतया श्रूयमाणत्वात् ऊर्मिला तरङ्गवती शङ्कातरला।। 31।।
अथ तामवदद् विपद्भयात् तरलान्तःकरणा लघुः स्वसा।
क्रियते मुखरा प्रभञ्जनैर्न पिकी नो यदि शस्यते लता ।। 32।।
कथयस्व निबोधयस्व मामयि मे शैशवसङ्गिनि! स्वसः!।
विपदा नु कया तिरस्कृतं तव चेतःकुसुमं विभाव्यते ।। 33।।
कतरत् तव पायसोपमे दधिविप्रुट् शिवजीविते स्वसः।
कुत आपतदाः कुतः पुनर्विधिरास्ते विपरीततां गतः ।। 34।।
अथ यावदियं प्रसादनप्रणतिं तत्पदपद्मयोर्व्यधात्।
श्रुतकीर्तिरथात्र माण्डवी, द्रुतमाजग्मतुरङ्घ्रिपङ्कजैः ।। 35।।
प्रिययोर्मुखपुण्डरीकतः श्रुतवृत्तं भगिनीद्वयं तु तत्।
अकरोत् तदनूर्मिलामपि प्रतिपन्नामतिमूर्च्छितान्तराम् ।। 36।।
संकेतः-प्रतिपन्नामगवतार्थाम्।। 36।।
अथ सा निमिवंशजासमिद् वचसां शोधयति स्म पद्धतिम्।
विवृतैर्ललिताननाधरैर्मधुरैर्योगमवाप्य तस्थुषीम् ।। 37।।
समजेषु निरर्गलेष्वपि श्रयते निर्घृणता न तां प्रथाम्।
श्रयते मनुजेषु यां, खगाः किमु नो नीडकृतः प्रजाकृते ।। 38।।
अबला प्रथमं ततो वधूः परिणीताथ निषेकपाकभृत्।
अपि चेन्दुमरीचिनिर्मला विबुधैर्हन्त तथापि साऽस्यते ।। 39।।
संकेतः-अस्यते क्षिप्यते।। 39।।
अपि मुद्रयितुं जनाननं स्वसती-त्यागविधिः किमौचिती।
नियतं विधुमूर्त्तिमप्यसावनृताङ्कां न कदापि पूजयेत् ।। 40।।
यदि लोकमतेन केवलं क्रियतां धर्मविनिर्णयो बुधैः।
तदधर्म इति श्रवस्तपा श्रुतिरेवास्तु निघण्टनिःसृता ।। 41।।
संकेतः-श्रवः श्रोत्रम्, तत् तापयतीति। निघण्टात् कोशात्।। 41।।
ऋतमेकमुपासितुं जने यतमानेऽनृतभाषिणः शतम्।
उदिते रविमण्डलेऽन्यथा प्रलपन्तो न न कौशिकोपमाः ।। 42।।
संकेतः-शतं शतसंख्याकाः। कौशिक उलूकः।। 42।।
अयि मातरुदस्यतां त्वया जनकोपे प्रतिकोप ईदृशः।
न हि कुक्कुरधिक्कृतौ गजो बुधवन्द्यो भजति प्रतिक्रियाम् ।। 43।।
तव साहसमीदृशं स्वसो नियतं वन्द्यमथापि नः कृते।
प्रसवावधि केवलं त्वया क्रम एष व्यपनीयतां यदि ।। 44।।
क्व ममत्वमयी गुरुः स्वसा क्व वनान्ताः क्व दशा तवेदृशी।
क्रकचान्नलिनीं सुपुष्पिणीं वद चेद् दारयितुं क्रमः क्षमः ।। 45।।
कियती ननु रे विडम्बना नियतेर्मानवदेहधारिणाम्।
शतचक्रतयाऽद्य यावदाः शिरसि प्रोद्भ्रमति प्रमाथिनी ।। 46।।
क्रियतां परमत्र किं जनैः कटुसामाजिकरीतिभीषितैः।
हृदय-द्रविणेऽथ दुर्विधैर्यदि न प्रत्ययभूमिकाऽर्च्यते ।। 47।।
यदि विश्वसनस्य भूमिकामुपरिष्टाच्च मनुष्यभावनाम्।
अधिकृत्य न संप्रवर्त्यते न समाजः स, महद्धि तच्छलम् ।। 48।।
परमार्थविचारणेऽत्र चेत् सदसन्नीररजोविवेचिनीम्।
कतकोपमितां मतिं महान् भजतां, मानवता कृतक्रिया ।। 49।।
श्रुतमस्ति न वंशदारणो भ्रमरः पङ्कजकोषमिच्छति।
रसपायिभिरात्मनः करैरपकर्त्तुं, पटुरत्र किन्तु ना ।। 50।।
अलमत्र भृशं प्रलप्य, ते चरणावङ्गुलि-निर्गत-द्युती।
तमसामपनुत्तये चितेः श्रयतां नः परिसेव्यतां स्वसः ।। 51।।
वयमप्यनिषिद्धनिर्गमा भवतीमत्र विहातुमक्षमाः।
गृहवद् वनमप्यसौ समं निमिकन्यासमितिः सुखं व्रजेत् ।। 52।।
यश एव यदीन्द्रियार्थतः प्रगुणं तत्कृतमत्र वैभवैः।
ननु भारतभूमिरस्ति नः सकला सूः शरणं च सर्वदा ।। 53।।
पुरुषः पुरुषार्थचत्वरे पदवीं ज्ञातुमितोऽभिलष्यति।
महिला समयं परीक्ष्य तां दिशतीत्येवमुभौ महाव्रतौ ।। 54।।
संकेतः-समयः कालः, शास्त्रस्थितिश्च।। 54।।
द्वयतापरिधेर्विमोक्षणादथवा लोकमतेर्विशोधनात्।
पुरुषः प्रमदासखः क्षमो जनताघ्वान्तमपोहितुं स्वसः ।। 55।।
प्रमदाप्यथ मानवं श्रिता सदशं दीपमिव प्रभा तमः।
परिवर्त्तयितुं प्रगल्भते जगतीमानसकल्मषं भृशम् ।। 56।।
संकेतः-दशा वर्त्तिः।। 56।।
पुरुषः स्थितिमीदृशीं यदि प्रतिहन्तुं क्रमते स्वतस्ततः।
अबला प्रबलात्वमीयुषी किमु न स्याज्जगती-शिवेच्छया ।। 57।।
संकेतः-स्थितिः मर्यादा। जगतीशिवम् विश्वकल्याणम्।। 57।।
तदलं विचिकित्सयाऽऽज्ञया परमेताः परिवर्धयस्व नः।
विपिने निजकुक्षिजन्मभिः सममेता वयमप्यटाम यत् ।। 58।।
पृषती पृषतीदृशस्तव स्पृशतु स्वङ्घ्रितलं रसज्ञया।
अपनोदयितुं व्यथां स्वसः शिशवोऽस्याश्चपलैश्च वीक्षितैः ।। 59।।
धवलैः खग-पक्षतेः पुटैः प्रचयैश्चापि दलस्य भूरुहाम्।
शुकपक्षविमिश्रितं भवेच्छयनीयं तव कोमलं वने ।। 60।।
संकेतः-पक्षतिः पक्षमूलम्। एवमेव दलस्येत्यत्रापि। तत्र पक्षपुटैर्धवलत्वम्, शुकपक्षैश्च नीलहरितत्व- मिति शयनीयगतमनेकवर्णोत्तरच्छदत्वमुत्प्रेक्ष्यम्।।
तव नेत्रजलं मनोव्यथाजनितं मानिनि! पेशलाशया।
अटवी हरितां शिरःस्थितैर्नवनीहारकणैर्विडम्बयेत् ।। 61।।
संकेतः-एतेन प्रकृतेः समदुःखत्वं सूचितम्।। 61।।
कलवादिनि! देववाहिनीपुलिनश्वेतमरालसन्ततेः।
चलितेषु मनागपि स्थिरा तव रम्येषु कनीनिका भवेत् ।। 62।।
अपि नाम कुहूनिशा विभामयतां यातु मुखेन्दुना तव।
न भवन्तु यथोत्पलाकराः शितिपक्षेष्वपि मुद्रिताननाः ।। 63।।
तव वत्सलमञ्चलं स्मितैः सितिमानं विकिरद्मिरार्जवात्।
विकचाम्बुरुहेक्षणाः क्षणं न हरिण्यश्चलयन्तु नाननैः ।। 64।।
अपि सोदरभावभावितादटवीशाखिगणाद् फलग्रहैः।
वयमप्यनुभूतकानना भवितास्मो भवतीपदार्चनात् ।। 65।।
संकेतः-फलग्रहैः भवतीपदार्चनादित्यन्वयः।। 65।।
विसृजेन्नरमुग्रवेदनं प्रणिधायाश्मचयस्य मानसम्।
शतशः कलनादमिश्रितं विपिने प्रस्रवणं ततस्ततः ।। 66।।
ऋषिशोणितसंभवाथ सा सबलेन स्वहृदा स्वविप्रियम्।
विषमात्मजनोदितामृतैः शमितप्रख्यमवोचदुज्झती ।। 67।।
संकेतः-स्वाविप्रियमेव विषम्।। 67।।
परिदेवनाविलमनोभिरेव मे प्रियकाङ्क्षिणीभिरपि यद् विचारितम्।
यदपि स्थितिं तदपि रक्षयत् स्थितं, गृहमेधितास्तु परमा परन्तु वः ।। 68।।
प्रियशतमवदन् यदप्यमुष्या व्यसनकृशा न हि जानकी तथापि।
अनुसृतिमनुमोदितुं स्वससृणामलमभवद्, गुरवो निजार्थबाह्याः ।। 69।।
संकेतः-प्रियशतवदनक्रियायां व्यसनकृशपदार्थभूतानां स्वससृणामपि कर्तृत्वेनान्वयः।। 69।।
रघुकुलसुखसंपदां समृद्धयै निजभगिनीररुणद् गृहाय सीता।
अपकृतिमभिलष्यति प्रियस्य प्रणयिजनो न हि कृच्छ्रगोपि यस्मात् ।। 70।।
अथ दिवसविरामाशंसिनि ध्वान्तपुञ्जे
पटहपटुनिनादैः सार्धमुज्जृम्भमाणे ।
भुवनविवरतुल्यं राजपुंसां मनांसि
विशति च भुजगांशः स्यन्दनं संयुयोज ।। 71।।
संकेतः-राजपुरुषमनोवेशक्रियाकर्तृतया विवक्षितं ध्वान्तं शोकरूपम्। भुजगांशः लक्ष्मणः।। 71।।
अथ श्रियमिवोल्वणा विपदपामिव स्वच्छता-
मकालपवनः, कुहूर्विधुकलामिवानाविलाम् ।
विदेहतनयां महामुनितपःप्रसूतां शुभां
विशुद्धिमिव मानसीं तिरयदाः कठोरं जगत् ।। 72।।
इति सनातनोपाह्व-श्रीमद्-रेवाप्रसादद्विवेदिकृतौ ‘‘सीताचरितापर’’ नाम्नि उत्तरसीताचरिते सर्गबन्धे साकेतपरित्यागो नाम चतुर्थः सर्गः।। 4।।