अष्टमः सर्गः
प्रतिपादितपुत्रा सा कवये दिव्यचक्षुषे।
बभावर्पितशब्दार्था प्रतिभेव सुमङ्गला ।। 1।।
संकेतः-सुमङ्गला कल्याणी, न तु विनाशिनी।। 1।।
सोऽपि बालान्, कणान् दीर्घसत्राग्निज्योतिषो यथा।
अभ्यासैश्चन्दनैर्यद्वत् पोषयन्नुग्रवद् बभौ ।। 2।।
संकेतः-दीर्घत्वेन तादृशशिक्षासत्रस्यापि नित्यप्रवृत्तत्वमाक्षिप्तम्। अभ्यासाः पाठाः। उग्रो दीक्षितात्मनि समाविष्टस्तन्नामा शिवः।। 2।।
चातुर्विद्यवने मत्तमातङ्गत्वमुपागतौ।
सच्छात्रस्य शुभां वृत्तिं तावपि व्याख्यतामलम् ।। 3।।
संकेतः-चत्वाऐ विद्या एव चातुर्विद्यम्, भावे ष्यञ्।। 3।।
साङ्गेषु सर्वशास्त्रेषु भावितौ वीक्ष्य तौ कविः।
समावर्तनसंस्कारहेतोः काव्यं निजं जगौ ।। 4।।
संकेतः-काव्यं रामायणम्।। 4।।
एवं सीता, सुतौ तस्याः, स चापि गुरुरेतयोः।
अन्वार्थयन् निजैर्धर्मैराश्रमत्रितयं निजम् ।। 5।।
संकेतः-आश्रमत्रितयं गार्हस्थ्यम्, ब्रह्मचर्यम्, वानप्रस्थं चेति। तत्र सीता गार्हस्थ्यम्, सुतौ ब्रह्मचर्यम्, वाल्मीकिश्च वानप्रस्थम्। तदत्यागश्च पुत्र-पालनार्थः।। 5।।
निरस्त-तमसावन्त-र्बहिर्ध्वस्तरुजौ च तौ।
अन्वहार्ष्टां समुल्लेखशुद्धौ रत्नमहोपलौ ।। 6।।
संकेतः-समुल्लेखः शाणोत्कषणम्।। 6।।
आत्मेन्द्रियमनो-बुद्धि-प्रसाद-शुभ-विग्रहौ।
रक्षितुं क्ष्मां क्षमामेतौ दिङ्मातङ्गाविवोहतुः ।। 7।।
संकेतः-‘‘प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयत’’ इत्यभियुक्तोक्त्या स्वस्थाविति फलितोर्थः।। 7।।
अनुभावातिभूभूताविमावाश्रमिणां पदम्।
ररक्षतुस्ततस्तेजोव्ययं चापि महामुनेः ।। 8।।
संकेतः-अनुभावः प्रभावः। ततः आश्रमपदरक्षणात् तद्रक्षणे संभाव्यं तेजोव्ययं च ररक्षतुरिति योजना।। 8।।
वटुभिर्वेष्टितौ तौ हि सदृशैर्भूरितेजसौ।
ख्यापयामासतुर्वीतध्वान्तां स्वाध्यायपद्धतिम् ।। 9।।
संकेतः-छात्राणामुत्तमं स्वास्थ्यं समानत्वं च स्वाध्यायपद्धतेः शुद्धिं प्रमाणयतः।। 9।।
पर्याप्तवक्षसो दीर्घंबाहवः पीनकन्धराः।
शातोदराश्च ते शिष्या वर्णदण्डैर्हि भेदिनः ।। 10।।
संकेतः-वर्णा ब्राह्मणादयः, तत्र ब्राह्मणस्य पालाशः, क्षत्रियस्य पैप्पलः, वैश्यस्य चौदुम्बरो दण्डः।। 10।।
अनुशासितचेतःसु तेषु दायित्वधूरभूत्।
पर्याप्तप्रसरा लक्ष्मीर्यथा वक्षसि शार्ङ्गिणः ।। 11।।
कुलं कुलपतेरासीद् विनीतैस्तैर्वृतं तथा।
यथा तस्यैव सद् वर्ष्म दान्तान्तःकरणेन्द्रियम् ।। 12।।
संकेतः-तस्यैव कुलपतेरेव वर्ष्म शरीरम्, दान्तानि अन्तःकरणानि मनआदीनि इन्द्रियाणि ज्ञानकर्मणोरिन्द्रियाणि चक्षुःपाणिप्रभृतीनि।। 12।।
राष्ट्रमुच्छ्वसिति स्मात्र प्राणिति स्म च संस्कृतिः।
सदाचार-विचारौ हि तयोः प्रभव आदिमः ।। 13।।
संकेतः-संश्चासावाचारः संश्चासौ विचारश्चेति विग्रहः। तयोः राष्ट्रसंस्कृत्योः। तत्र राष्ट्रस्य प्रभवः सदाचारः, राष्ट्रस्य कर्मंरूपधर्माश्रित्वात्, संस्कृतेश्च प्रभवो विचारः, तस्या दर्शनाश्रितत्वात्।। 13।।
मुनेः पदं कल्पतरोश्छायामिव श्रिता।
सीता संपूर्णकामाऽभूद्, विफलत्वं क्व सत्पदे ।। 14।।
संकेतः-संपूर्णकामत्वं च पुत्रसंस्कारात्, आत्मनो दर्शनाच्च।। 14।।
अथ खण्डत्वमुद्वास्य कर्त्तुमेकात्मतां भुवः।
दिग्जयायाश्वमेधाश्वं व्यसृजत् कोसलेश्वरः ।। 15।।
संकेतः-पृथिव्याः खण्डत्वं निराकर्तुं रामेणाश्वमेधश्चिकीर्षितः, न तु स्वर्गायेति नूतनता यज्ञफले।। 15।।
तद्रक्षणप्रसङ्गेन बलेन महता वृतः।
लक्ष्मणस्यौरसश्चन्द्रकेतुराश्रममाप तम्।।16।।
तद्वीराणां जयोद्घोषानन्यक्षत्रावमानिनः।
सोढुं नाशक्नुतां सीतासुतौ वीरौ स्वभावतः ।। 17।।
तावश्वस्य निरोधं हि तादृशामुत्तरं गिराम्।
अमन्येतां, कटूक्तीनां कटूक्त्या प्रशमः कुतः ।। 18।।
चन्द्रकेतुबलं मत्वा पूर्वं तद् बालचापलम्।
हेलयैव हयं ताभ्यामायसत् कर्त्तुमात्मसात् ।। 19।।
पश्चात् तयोर्धनुर्मेघ-शर-वर्षैर्निपीडितम्।
तद्धि प्रधनमेवात्र साधनं प्रत्यपद्यत ।। 20।।
संकेतः-प्रधनम् युद्धम्। साधनमश्वप्राप्त्युपायम्।
एकतो मुनिबालौ द्वावन्यतो महती चमूः।
आश्चर्यसाहसोत्साहा आसँस्तत् तत्र दर्शिनः ।। 21।।
एकत्र तमसातीरतपोऽन्यत्र बलोदधिः।
कारुण्यैकरसं तस्मात् पूर्वं युद्धं व्यभाव्यत ।। 22।।
पश्चाद् बालावदृश्येतां कन्यावृषरवी यथा।
सैन्याम्बुदसमुद्रेऽस्मिञ्छोषाय शररश्मिभिः ।। 23।।
तयोः शस्त्रे च शास्त्रे च समानं वीक्ष्य विक्रमम्।
भारती भारतस्यास्य प्रीतिलास्यं तदाऽऽददे ।। 24।।
कविः कारुण्यभूर्यो हि पित्रे रामायणं व्यधात्।
आसीदद्य स पुत्राभ्यां शौर्यबन्धाय बाधितः ।। 25।।
तटस्थत्वाद् विकारेभ्यः शुभोदर्कतया च सः।
युद्धमेतन्निरोद्धुं नो मुनिरैच्छन्महामतिः ।। 26।।
हन्त पर्जन्यधारासु विभावसुकणा इव।
बालयोरस्त्रवर्षासु चमूबाणा वृथाऽभवन् ।। 27।।
यद्वा प्रलयकालाग्नौ यथा तेजसि बालयोः।
महतामपि योद्धृणां पतङ्गत्वं शरा ययुः ।। 28।।
क्व रथाः क्व च भत्तेभाः क्व हयाः क्व च पत्तयः।
इति यत्र न योद्धारोऽबुध्यन्त कृतबुद्धयः ।। 29।।
क्व तलं क्व जलं क्व द्यौः क्व ग्लौः क्वाग्निः क्व भानुमान्।
इति यत्र न धूलीनां पटले प्रत्यपद्यत।।30।।
चन्द्रकेतुभटानां तत् प्रधनं निधनं व्यधात्।
ब्रह्मबालास्त्रसंपाताद् देहे पश्चात्, पुरा मतौ ।। 31।।
संकेतः-ग्लौरिति युद्धस्याहर्निशप्रवृत्तत्वमनेकदिवसव्यापित्वं च सूचितम्।। 30।।
आत्मना सा हि रामस्य युयुत्साऽऽसीत् परिच्छदे।
अद्वैत-द्वैतयोर्यद्वत् संख्या काऽत्र जयाजये ।। 32।।
संकेतः-रामस्येति आत्म-परिच्छदाभ्यां काकाक्षिगोलकवद् योज्यम् युयुत्सा चात्र परिच्छदैकवृत्तिरभ्युपेया। संख्या बालयोर्द्वित्वम्, सैन्यानां चासंख्यत्वम्, इति योयं संख्याव्यतिरेकः स जये अजये वा अप्रयोजकतामात्राश्रयः। परिच्छदपदेन शरीरादीनामपि ग्रहणाद् यथा आत्मनि कृपा-सुधां वर्षत्येव शरीरादीनि सक्रियाणि तिष्ठन्ति, येन च तेभ्यः सकाशाद् आत्मन एव बलवत्त्वं सिद्धयति, तथैव प्रकृतेऽपि।। 32।।
सुप्तौ ताटस्थ्यमापन्न आत्मनीन्द्रियवत् ततः।
जृम्भकास्त्रोदयादासाञ्चक्रे सैन्यं गतासुवत् ।। 33।।
संकेतः-सुप्तिर्निद्रा। आपन्ने आपद्यमान इत्यर्थः, आद्यकर्मणि क्तः। गतासुर्मृतः।। 33।।
प्रतिबिम्बं प्रतीबिम्बाभ्यां यथा लक्ष्मणात्मजः।
रामात्मजाभ्यां संघर्षमज्ञानादातनोत् ततः ।। 34।।
संकेतः-प्रतिबिम्बसंघर्षः 44-पद्येऽत्रैव सर्गे द्रष्टव्यः।। 34।।
आसीद् विक्लवता तेषु को नु कं प्रहरेदिति।
आत्माऽऽत्मानं विजानाति प्रमाणं तत्र नेष्यते ।। 35।।
संकेतः-तेषु लव-कुश-चन्द्रकेतुषु। विजानातीति अबोधपूर्वं प्रत्यभिज्ञानम्।। 35।।
परस्परमुखालोकोज्जासितामर्षयोरपि।
औचित्यमात्ररक्षायै ततज्ये धनुषी तयोः ।। 36।।
संकेतः-उज्जासित उत्सारितोऽमर्षो ययोः तयोः। तते रोपिते ज्ये प्रत्यøो ययोस्ते।। 36।।
उत्साह-क्रोध-वार्त्ताऽपि तयोरासीन्न पक्षयोः।
नटयोरिव किन्त्वासीत् प्रयोगे पटिमा परः ।। 37।।
संकेतः-नटे अभिनेतरि स्थायिनो रसस्यापि वा अभावात्।। 37।।
लाधवातिशयं प्रेक्ष्य प्रयोगेऽस्त्रस्य तत्क्षणे।
अस्त्रवेदोऽपि कार्तार्थ्यं बालाभ्यां प्रत्यपद्यत ।। 38।।
मेघनादस्तयोः कण्ठे रावणश्चापयोस्तथा।
कुम्भकर्णश्च सैन्येषु तदानीमाश्रयं गताः ।। 39।।
तदानीं चापनिर्घोषैरस्त्रनिष्पेषणैस्तथा।
आपूर्यत दिशां कुक्षिः सिंहीनां तु व्यरिच्यत ।। 40।।
अग्नावग्निमिवाहूय वज्रे वज्रं निपात्य वा।
यत्र युद्धं प्रवृत्तं स्यात् तत्र का तारतम्यधीः ।। 41।।
जगच्चतुर्द्दशी तत्र कुहूत्वमिव जिघ्रती।
अकालप्रलयाशङ्कामतनिष्ट चराचरे ।। 42।।
पूर्वापरसमुद्रोर्मि-विडम्बि-शरवर्षिणोः।
विग्रहो विग्रहायैव स तयोः समपद्यत ।। 43।।
एकस्यैव तु सूर्यस्य प्रभामादाय भास्वतोः।
आदर्शयोस्तु संघर्षे तेजोहानिः क्व जागृयात् ।। 44।।
रामरावणयोर्युद्धे जयो रामस्य निश्चितः।
रामराघवयोस्त्वस्मिम् जयः कः कः पराजयः ।। 45।।
अप्राप्तानां शरीरं तु रामलक्ष्मणपुत्रयोः।
सायकानां हि युद्धं तत् परस्परमदृश्यत ।। 46।।
तत्र घातप्रतीघातौ कौशलस्य हि दर्शकौ।
हिंसा वा रक्तपातो वा न मनागप्यदृश्यत ।। 47।।
एकत्र यज्ञसंरक्षा मदग्लानिः परत्र च।
उद्देश्यं यत्र, युद्धं तच्छस्त्राभ्यासात् परं नु किम् ।। 48।।
हृतेऽपि यत्र नाश्वेऽभूदश्वमेधक्षतिः, परम्।
माहात्म्यं तद्धि रामस्य, तस्य वा महतः कवेः ।। 49।।
अथाधिकारमर्यादां वर्णानां संविधानतः।
पातुमुत्प्रेरितोऽमात्यै राजा शम्बूकमीयिवान् ।। 50।।
संकेतः-अधिकारमर्यादा स्वस्वकर्मसंविभागः। संविधानम् धर्मशास्त्रम्। उत्प्रेरितः अत्यन्तं प्रार्थितः।। 50।।
मुनिवृत्तेरमुं शूद्रं विनिवार्य महामतिः।
उपोद्घातेन तेनैव हयमप्यदिदृक्षत ।। 51।।
पुष्पकेण क्षणेनैव मनसेव स राघवः।
वाल्मीकिपदमानिन्ये कारुण्याच्छौर्यमागतम् ।। 52।।
तत्रावतारं रामस्य विदित्वा स महाकविः।
प्रत्युद्ययौ फलैः पुष्पैर्मधुश्च्युद्मि पदाद् बहिः ।। 53।।
द्रष्टृ-दृश्य-द्वयी तत्र पारेसाम्यं व्यवस्थिता।
प्रणिपाताशिषां यत्रोपाधयोऽप्यैक्यसूचकाः ।। 54।।
आसीच्च तत्र कैवल्यं द्वयोर्द्वैत-विवर्जितम्।
अतः सीतापि मायेव तदा लेभे न तत् पदम् ।। 55।।
संकेतः-द्वावपि तत्रैकाकिनावेवास्तामिति प्रकृते। अप्रकृतं तु यद् तद् विबुधैः स्वयमुत्प्रेक्ष्यम्।। 55।।
एकस्य चरितं गूढं सूक्ष्ममन्यस्य दर्शनम्।
याथात्म्यमेतयोः को वा परः स्याद् वेदितुं प्रभुः ।। 56।।
संकेतः-परः तयोरन्यः वेत्तुमिति पूर्वपाठे लब्धुम्।। 56।।
कैवल्यधाम्नि तस्मिंस्तु काव्यपुंसे कविर्निजम्।
काव्यं समर्पयामास बिम्बाय प्रतिबिम्बवत् ।। 57।।
सोऽपि तस्मिन् निजं रूपं प्रत्यभिज्ञाय पूरुषः।
तद् युद्धं तच्च कौलीनमात्मपूजाममन्यत ।। 58।।
कृतार्थसंविदोः पश्चादपरां भूमिमीयुषोः।
सूनुपक्षद्वयी पक्षौ तयोरास्तां महीयसोः ।। 59।।
संकेतः-वाल्मीकिः कुशलवपक्षमासेदिवान्, रामश्च चन्द्रकेतुपक्षमिति भावः।। 59।।
कविरेकत्र, काव्यं च तस्यैवान्यत्र, तत्र कः।
पक्षो वाथ विपक्षो वा जयो वा यदिवाऽजयः ।। 60।।
संकेतः-राम एवात्र काव्यत्वेनाध्यवसितः। रामायणस्य तन्मात्रशब्दरूपत्वात्।। 60।।
स्व-स्व-पूज्य-प्रणामाय त्यक्तसंरम्भयोर्द्वयोः।
शिशूनां पक्षयोस्तत्र संघर्षो विनयेऽप्यभूत् ।। 61।।
चक्षुषे कृतवान् सूर्यः प्रणामं हन्त तत्क्षणे।
स्वप्रकाश-प्रकाशाय रामो यत् कवयेऽनमत् ।। 62।।
संकेतः-प्रकाशयतीति प्रकाशः प्रकाशकः। चक्षुर्विना सूर्यप्रकाशस्याऽप्रकाशनात् तत् तस्य प्रकाशकम्। एवमेव रामस्यापि कविः।। 62।।
ऐकात्म्यमात्रसाम्राज्यं यत्र जागर्त्ति संविदाम्।
तत्राजयो हि पुण्डेड्रेक्षुर्जय एव महाकटुः ।। 63।।
संकेतः-पुण्डेड्रेक्षुस्तन्नामा सर्वोत्कृष्ट इक्षुभेदः। महाकटुः अत्यन्तं कटुः निम्बश्च।। 63।।
सत्काव्यस्य महावाक्यं नीतेर्मन्त्राक्षरं नु वा।
स कविः स च काव्यात्मा मेने तान् वीरबालकान् ।। 64।।
संकेतः-काव्यात्मा रामः।। 64।।
पूज्ययोरेकतां दृष्ट्वा बाला अप्येकतां ययुः।
अभिन्नत्वे समुद्राणां को नु भेदस्तदूर्मिषु ।। 65।।
अन्योन्यभुजवीर्यं ते पूजयित्वास्त्रदैवतैः।
इदानीं मिश्रयामासुः परीरम्भापदेशतः ।। 66।।
एतेषां वक्षसां घर्षे वज्रग्राव्णां यथाऽऽर्यभूः।
उच्छश्वास, सदा वीरमैत्र्यां राष्ट्रं निषीदति ।। 67।।
रामो लवकुशौ, तौ च रामं ज्ञात्वापि रूपतः।
तत्त्वतः पर्यचिन्वन्नौ तदानीं कव्यनीहया ।। 68।।
संकेतः-कविर्वाल्मीकिः। स च सद्गुरुरूपः। तदनुग्रहं विना जीवस्य परमात्मसाक्षात्कारासंभवः। अयं विशेषो यदत्र परमात्मापि कविकृपां विना जीवं प्रत्यभिज्ञातं न प्रभवति।। 68।।
अबोधपूर्वमात्मैक्यं स्मरन्तः सर्व एव ते।
प्रसादमपि चेतःसु विषादोन्मिश्रमादधुः ।। 69।।
संकेतः-अबोधेति यथोक्तं महाकविना ‘‘तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि’’-इति शाकुन्तले।। 69।।
कविरथ महान् वीरैस्तैरात्मजैः परिवारितं
रघुपरिवृढं रामं धाम स्वकं खलु नीतवान् ।
जनकतनया ज्ञात्वाप्येतद् बभूव पराङ्मुखी
न खलु वशिनां त्यक्ते वस्तुन्युदेति पुना रतिः ।। 70।।
संकेतः-त्यक्तं वस्तु श्रीरामस्य स्थूलं वपुः।। 70।।
बलमपि च तदानीं जृम्भकास्त्रस्य मोक्षाद्
घनतुहिनविमोक्षाल्लोकवद् दीप्तिमापत् ।
अथ च तुरगलाभाद् दृष्टमप्यत्र घोरं
प्रधनममनुतैतत् स्वप्नवृत्तान्तमात्रम् ।। 71।।
इति सनातनकवि-श्रीमद्रेवाप्रसादद्विवेदिकृतौ ‘सीताचरितापर’- नाम्नि उत्तरसीताचरिते सर्गबन्धे कुमारायोधनं नामाष्टमः सर्गः।। 8।।
नवमः सर्गः
अथ प्रभाते गुरुणा समेता रामस्य सर्वाः ससुता जनन्यः।
स चापि राजा जनकः कवीन्द्र-संकल्पतस्तस्य पदं प्रपन्नाः ।। 1।।
त्रिभिर्मुनीन्द्रैस्तिसृभिश्च सूभिर्वृतो बभासे पुरुषोत्तमोऽत्र।
यथा त्रिवेण्या सहितः प्रयागस्त्रिभिः समुद्रैश्च यथैष देशः ।। 2।।
संकेतः-पुरुषोत्तमः श्रीरामः चूलिकाक्रमेणोपमायोजनायां न दोषः।। 2।।
आसीद् विदेहाधिपतेः सुता तु तथा तटस्था निखिलेषु तेषु।
यथा विलीनात्मनि राजहंसी यद्वापि गीः कापि परा स्वपुंसि ।। 3।।
संकेतः-आत्मनि स्वरूपेऽपि, हंसशब्दस्य युक्तयोगित्वसूचकत्वमपि। परावाचः पुरुषव्यतिरिक्तत्वा- भावाभिमानात्।। 3।।
क्व द्वेषरागौ क्व च लोभमोहौ क्व क्रोधकामौ मदमत्सरौ वा।
यदात्मलाभे परमात्मसंज्ञं ज्योतिः परं किंचिदुदेति पुंसि ।। 4।।
न देहभेदेन विभिद्यते स्वं विभिद्यते यच्च तदस्ति न स्वम्।
स्वनाम्नि भूम्नि स्थितिमान् बिभेति न वा वियोगान्न च देहपातात् ।। 5।।
सा हन्त विद्वत्परिषत् तदानीं ज्ञानस्य भक्तेरथ कर्मणोऽपि।
योगत्वलाभादिह भारतीयमात्मानमुद्भासयति स्म पूर्णम् ।। 6।।
संकेतः-ज्ञानभक्तिक्रियायोगत्रितयसामञ्जस्यमेव भारतीयत्वम्। आत्मा व्यक्तित्वमिति लोके प्रसिद्धम्।। 6।।
वाल्मीकिराहूत-समस्त-सेना-जनस्ततस्तत्र वनाधिदेवैः।
उपास्यमानं फलमूलकन्द-मधु-प्रसूनैर्विदधे समाजम् ।। 7।।
संकेतः-समाजो महती सभा।। 7।।
अध्यक्षतां श्रीजनकोऽत्र चक्रे परावरप्रत्यय-निश्चितार्थः।
य आबभासे मुनिभिर्वृतोऽत्र यथात्मयोनिर्दिवि नारदाद्यैः ।। 8।।
मध्येसभं तत्र च भूर्जपत्रैर्वृतं महत् स्थण्डिलमेकमासीत्।
यत्पार्श्वभागे वनदेवतानामासीत् समाजो मधुवर्षिणीनाम् ।। 9।।
किमेतदस्तीति तु तत्र कश्चित् प्रष्टुं कविं नो चकमे समाजे।
आप्तेषु वाचां प्रसरः क्रमेषु न भारतीयैरुपधीयते यत् ।। 10।।
कुतूहलाक्रान्तहृदां च तेषामतीव विस्फारितलोचनानाम्।
औत्सुक्यमासीत् प्रपतन्नु सौम्यात् पक्ष्माग्रभागात्, कमलान्नु भृङ्गः ।। 11।।
मुखेषु मौना अपि ते तदानीं मनःसु चाञ्चल्यभृतो विरेजुः।
सरोवरा यद्वदनुत्तरङ्गाः परन्तु मध्ये चलमीनसङ्गाः ।। 12।।
अत्रास्ति नेता कविरेव, रामो भूत्वापि नेतास्ति विनेय एव।
का नाम शक्तिः परमेश्वरस्य जगत्प्रसिद्धयै निगमेतरस्य ।। 13।।
संकेतः-निगमा वेदाः, तेभ्य इतरस्य भिन्नस्य। भिन्नत्घं च तदप्रमाणकत्वेन।। 13।।
मौनेऽपि लीलां कवितुर्वसिष्ठो नासीत् तदानीं न हि संविदानः।
परार्धपाथोधितिमिङ्गिलानां किं वा परोक्षं कविपुङ्गवानाम् ।। 14।।
संकेतः-कवितुः कवेः वाल्मीकेरिति यावत्। संविदानः प्राप्नुवानः, विद्लृ लाभे कानच्। प्राप्तिश्च ज्ञानरूपा। परार्धम्, मायोत्तरमर्धम्, मायिकस्यार्धस्य पूर्वार्धत्वेन प्रतिपन्नत्वात्। तत्र तिमिङ्गिला महामत्स्याः तदवगाहनशौण्डाः। कविः क्रान्तसाक्षात्कारी, तेषु पुङ्गवाः श्रेष्ठाः।। 14।।
ता मातरस्ते च चमूचरेन्द्रास्ते वा मुनीन्द्रा स च रामचन्द्रः।
सभासदो यत्र परात्पराः सा सभा क्व भूता क्व च संभवित्री ।। 15।।
अथोदतिष्ठत् कुशपूतपाणिर्निजासनात् कारुणिकः कवीन्द्रः।
यः क्रौञ्चशोके कृतवान् दयां च निषादकं चाप्यभिशप्तवांश्च ।। 16।।
संकेतः-एतेन कवेरपि समाजे सक्रियतोक्ता।। 16।।
तमुत्थितं वीक्ष्य विनिर्मितं च तत् स्थण्डिलं सभ्यजनान्तरङ्गम्।
दोग्धारमायान्तमवेक्ष्य गां च वत्सो यथातीव समुच्चचाल ।। 17।।
संकेतः-तं वाल्मीकिम्।। 17।।
दर्भासने पिङ्गरुचि स्थितः स प्राचेतसो भास्वरदिव्यदेहः।
मेरोः शिलायामुषसि स्थितस्य बभार कान्तिं रविमण्डलस्य ।। 18।।
श्रीशारदायाः स्फटिकाक्षमालामिव प्रसन्नां स ततः कवीन्द्रः।
विशुद्धतर्कां च विनिश्चितां च च्छन्दस्वतीं वाचमिमामुवाच ।। 19।।
यज्ञेन देहानलभन्त विश्वे भावा रयिप्राणवशंवदेन।
अनुक्रियां तस्य विधित्सुरेष रामोऽश्वमेधं तनुते यदीह ।। 20।।
संकेतः-‘मिथुनमेतत् प्रजननं कुरुते रयिश्च प्राणश्चेति’ वेदवाक्यात्, ‘‘सहयज्ञा प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः, अनेन प्रसविष्यध्वमेष वोस्त्विष्टकामधुगि’’-त्यादिभिः स्मृतिवचनैश्च यज्ञस्य रयिप्राणात्मकत्वं सृष्टिमूलत्वं च न न प्रतीतम्। अस्मदादिभिः क्रियमाणस्तु यज्ञस्तस्यैव भगवतः प्रकृतियज्ञस्यानुक्रियेति संप्रदायवेत्तारः।। 20।।
तदर्थमेते वयमत्र साधुवादाशिषां वृष्टिमुदीरयामः।
परन्तु सम्यक्त्वविनिश्चयाय सभ्यानिमान् वो विनिवेदयामः ।। 21।।
संकेतः-सम्यक्त्वविनिश्चयः प्रामाण्यग्रहः।। 21।।
किं प्राणमात्रेण रयिं विनास्य चराचरस्यास्ति वपुःप्रसिद्धिः।
यद्वाऽग्निमात्रेण विहाय सोमं ब्रह्माण्डपिण्डं प्रथतेतरां किम् ।। 22।।
संकेतः-वपुःप्रसिद्धिः स्थूलशरीरनिर्वृतिः। चितिरूपमिदं स्थूलपिण्डजातं रयिप्राणरूपाभ्या- मग्नीषोमाभ्यामेव जायते।। 22।।
नैवेति चेद् यज्ञविधौ रयित्वं तथा व सोमत्वमुपाश्रयन्तीम्।
विहाय पत्नीं यजतोऽश्वमेधविडम्बनेयं न विडम्बना किम् ।। 23।।
संकेतः-विडम्बना अनुकरणम्। विडम्बना अनुकरणाभिनयः।। 23।।
यद्यस्ति हेम्नः प्रतिमां विदेहपुत्र्याः प्रतिष्ठाप्य कृतः समाधिः।
विचार्यतां तत्र, कृतोऽपराधः स्वयं तया को नु विदेहपुत्र्या ।। 24।।
श्यामायते यन्न कृतेऽपि दाहे तदेव हेमात्र निगद्यते चेत्।
रक्षःकपीन्द्रत्रिदिवौकसां किं साध्यक्षमासीदनले न शुद्धा ।। 25।।
सा चेद् विशुद्धापि जनापवादाद् वज्रात् सबीजा धरणीव सीता।
हेम्नः सजीवा प्रतिमा विनाशमनायि दोषेषु सहस्रनेत्रैः ।। 26।।
संकेतः-इन्द्रो हि कुपितः सन् सबीजां धरित्रीं वज्रेण हिनस्ति। तद् यथाऽनुचितं तथैव सीतायाः परित्यागोऽपीत्यर्थः। सहक्रनेत्र इन्द्रोऽपि।। 26।।
तदद्य तस्या गतचेतनायाः किं शालभञ्ज्या अपि संग्रहेण।
अशुद्धसत्त्वस्य मुखं जनस्य न चित्रकर्मण्यपि वीक्षणीयम् ।। 27।।
संकेतः-गतचेतनेति शालभञ्जीविशेषणतया नेयम्। चित्रकर्म मूर्त्तिः, विष्णुधर्मोत्तरे चित्रसूत्राध्याये तथादर्शनात्।। 27।।
यद्यस्ति संप्रत्यतिमात्रधन्या, ‘सीतास्ति शुद्धे’-ति मतिस्तदाद्य।
सा ह्येव पूर्वं निखिलैर्गवेष्या ‘सती न देशेऽत्र विपद्यते यत्’ ।। 28।।
संकेतः-अत्र देशे भारते, वाल्मीकिजनपदेऽपीति च।। 28।।
सा ह्येव विश्वम्भरयज्ञपूर्त्त्यै विश्वम्भराया दुहिताऽद्य पूज्या।
सा का नु पूजा सुरभेर्विधिज्ञाः! या सौरभेय्याः क्षतजैः क्रियेत ।। 29।।
संकेतः-यज्ञ एव विश्वम्भरः, पृथ्वी च भगवती विश्वम्भरा, तस्या अपि यज्ञरूपत्वात्। यथा चैतत् तत् वेदविद्मिर्न नावगम्यते। सुरभिः कामधुक् सौरभेयी च तस्या अपत्यं स्त्री गोमात्रम्। क्षतजं रुधिरम्। पृथिवीरूपस्य यज्ञस्य पूर्त्यै पृथिव्या एव पुत्र्याः सीतायाः परित्यागस्तथाविध एव।। 29।।
महार्थमेवं स निवेद्य सभ्यान् वाग्ग्मी कवीन्द्रो विरराम वाग्भ्यः।
आवश्यकाद् योऽभ्यधिकं ब्रवीति स शारदायाः कुरुतेऽवमानम् ।। 30।।
सा वाग् बभूवाश्रु वसिष्ठनेत्रे द्रुतिर्विदेहाधिपचेतनायाम्।
रामे विसंज्ञत्वमथापरेषु सीतापुनःप्राप्तिकृतेऽतितृष्णा ।। 31।।
तदन्तरात्मस्वनुभूय तीव्रं लोकस्य सीताधिगमोत्सुकत्वम्।
वसिष्ठनामा स महामुनीन्द्रो महाकवीन्द्रं प्रणयादवोचत् ।। 32।।
महाकवे! संप्रति ते नियोगं दधामहे मूर्ध्नि यथा विधातुः।
चराचरं ते प्रतिभेन्दुमूर्त्तिः प्रकाशमर्कस्य यथा व्यनक्ति ।। 33।।
संकेतः-इन्दुमूर्त्तिः अर्कस्य प्रकाशमिवेति वास्तविकस्य कलास्पर्शेन सौम्यतालाभं प्रतिपादयितुम्, सूर्यप्रकाशस्य चन्द्रद्वारा सौम्यतासंपादनात्।। 33।।
मृषा न ते दर्शनमस्ति विद्वन् संकल्पमात्रं तव कल्पवृक्षः।
सत्यं भवाँस्तत् कुरुतां स्ववाक्यं ‘सीता स्वदेशेऽत्र सुरक्षिते’ति ।। 34।।
लोकप्रवाहोऽयमुदात्तचितैर्वृक्षैस्तटस्थैरिव विज्ञ! विज्ञैः।
कृपाप्रसूनान्यभिवर्ष्य सूरे! सुगन्धनीयः स्वरसप्रवृत्तः ।। 35।।
संकेतः-नदीप्रवाहस्तटस्थितस्य वृक्षस्य शिखरं न स्पृशति, वृक्षः स्वयमेव तं पुष्पाण्यभिवर्ष्य सुगन्धयति।। 35।।
इत्येवमामन्य्र्ा विदांवरोऽसौ सरस्वतीं स्वामकरोदशब्दाम्।
मितं न यद् यच्च न हन्त सारं विग्लापनामात्रमिदं हि वाचः ।। 36।।
कविश्च सूक्तेः परमार्थबोधे प्रतिष्ठितं वीक्ष्य मुनिं जहर्ष।
ध्वनिस्मृतिं यत् सुहृदां मुनीनां विना न सूक्तं सफलं कवीनाम् ।। 37।।
संकेतः-सूक्तं वेदमन्त्रः, काव्यं च, तदुभयं सहृदयग्राह्यं ध्वनिं मुनिग्राह्यमर्थ च विना विफलम्।। 37।।
लोकोऽपि मैत्रावरुणस्य मान्यं प्रस्तावमेतं स्वहृदाऽभ्यनन्दत्।
अब्धेः स्वभावः स यदेष चान्द्रं प्रकाशमन्वेति विना विकल्पम् ।। 38।।
मुनेर्नियोगं जनतानुरोधं स्वभावनां चापि ततः समर्च्य।
राज्ञो मुखं नीरदचातकीयां प्रसूय शोभां कविरालुलोके ।। 39।।
संकेतः-चातकोऽयं लोकप्रतिनिधिः न तु याचकमात्रम्।। 39।।
न वाङ् न लेखो न सखा न चान्यन्निवेदनाय स्वहृदस्तदानीम्।
उपार्जि राज्ञापि सुमानुषेण बाष्पप्रवर्षेण तु सर्वमूचे ।। 40।।
सीतावपुर्मात्रमनेन मुक्तं पुराऽनुरोधाज्जनभावनायाः।
बुद्धिप्रधाना न हि सूर्यवंश्या देहेऽनुषक्तिं दधतीन्द्रियार्थे ।। 41।।
गर्भं प्रजायै गृहमेधयाजी निषिच्य जायां भजते यदर्थम्।
स एव सेवावसरोऽस्य हस्ताद् विच्यावितस्तेन हि दूयतेऽसौ ।। 42।।
इत्यादिभिर्नैकविकल्पनाभी रामाश्रु लोकान् नितराममथ्नात्।
परस्य शोकः परचेतनायां कारुण्यमूर्त्त्या परिवर्त्तते हि ।। 43।।
वाल्मीकिरप्यान्तरतम्यमेक्ष्य स्वसंविदा सर्वजनस्य तत्र।
संकेतयामास वनाधिदेवीर्मध्येसभं स्थण्डिलरक्षयित्रीः ।। 44।।
ताश्चापि भूर्जावरणं शमादिप्रवृत्तयस्तामसमान्तरं नु।
शनैः शनैर्दूरयितुं प्रवृत्तास्तत्त्वस्य गूढस्य निरूपणायै ।। 45।।
तस्मिन् क्षणे लोकमनांसि यज्ञकुण्डे पतङ्गा इव तत्र पेतुः ।
तेषु स्थविष्ठस्य शरीरकस्य महत्वबुद्धिर्न मनागशेषि ।। 46।।
ततो ‘जयः स्याज्जनकात्मजाया’ विद्याधरीणामिति तारतारैः ।
दिव्यैः स्वहस्तच्युतपारिजातप्रसूनवृष्ट्या सहितैर्निनादैः ।। 47।।
स्तम्बेरमाणां दशदिक्पतीनां शुण्डाभिरावर्जितपङ्कजाभिः ।
स्वर्वाहिनीपद्मरजोविमिश्र-दिव्याम्बुविप्रुट्परिवर्षणाभिः ।। 48।।
वनान्तपुष्पद्रुमसंहतीनामामोदमादाय सह प्रसूनैः ।
तपोनिधीनां तपसेव मिश्रैस्त्रिमार्गगायाः पयसा मरुद्भिः ।। 49।।
कलापिनां छत्रकनैर्मितीभिः सहैव षड्ज-ध्वनन-प्रतानैः ।
प्रतानिनीनां च सभाज्यमाना सच्छिद्रवेणुस्वरहर्षनृत्यैः ।। 50।।
पद्मसनस्था कमलेव नूत्नात् पयोधिमन्थादुपजायमाना ।
प्रज्ञेव पूर्णा विमले मुनीनां पदे पुनर्भास्वरतां दधाना ।। 51।।
ज्योतिष्मतीवेन्दुकलेन्दुमौलेर्नेत्रेषु लोकस्य सुधां दुहाना ।
वपुष्मतीवागमसंस्कृतिश्रीः संन्यासकाषायकमाश्रयाणा ।। 52।।
छन्दस्वतीव प्रतिभादिसूरेः प्रसादसौम्याशयतां स्नुवाना ।
सा संघशक्तिर्मुनिशोणितस्य सा कापि पुत्री पृथिवीतलस्य ।। 53।।
सा कापि पत्नी पुरुषोत्तमस्य सा कालरात्रिर्दशकन्धरस्य ।
भूर्जे हृते स्थण्डिलमण्डलेऽस्मिन् राष्ट्रस्य देवी च पुनर्व्यलोकि ।। 54।।
संकेतः-कमलया पद्मासनस्थितिः, नूत्नपयोधिमन्थेनाध्वसितातिमहत्कृच्छ्रलब्धत्वं च साधर्म्यमूलम्, प्रज्ञया पूर्णत्व-भास्वरत्वे, इन्दुकलया ज्योतिष्मत्त्व-सुधा-धुक्त्वे, श्रुतिसंस्कृत्या संन्यासकाषाययुक्तत्वे, प्रतिभया च प्रसादसौम्याशयता। तत्र प्रसादः प्रतिभापक्षे काव्यगुणः, सीतापक्षे प्रसन्नता। सीता हि भारतराष्ट्रस्य देवीपदमधिकरोति। सेयमत्र राष्ट्रस्य देवीति राष्ट्रियः पक्षीत्यादिव्यपदेशवद् उदारा वाक्।। 51-54।।
लघुत्वमोजस्यणिमा शरीरे तस्यास्तदानीं महिमा च वृत्ते ।
वशित्वमन्तःकरणे यशःसु प्राकाम्यमासीद् गरिमा च बुद्धौ ।। 55।।
तां मञ्चकस्थां भुवनेश्वरीं वा पीताम्बरां वा त्रिपुराम्बिकां वा ।
दिव्यानुभावां प्रति सर्वलोको भीत्या च भक्त्या च बभूव नम्रः ।। 56।।
संकेतः-मञ्चकस्थां श्रीमद्देवीभागवते मणिद्वीपवर्णने प्रसिद्धे चिन्तामणिगेहस्ये मञ्चके स्थिताम्। पीताम्बरां श्रीवगलामुखीं भगवतीम्। त्रिपुरां त्रिपुरारहस्यादिषु प्रसिद्धचराम्।। 56।।
तां सर्वसभ्यैरभिनन्द्यमानामवेक्ष्य हृष्टः स सभापतिश्च ।
सर्वोऽपि गेही तनयाजनस्य समादरे हृष्यति हि स्वभावात् ।। 57।।
अथोद्गता तस्य मुखाच्च वाणी पुत्रीं प्रति प्रीतिभृतः प्रसह्य ।
‘वत्से मम’ त्वं सिततां गतानां लज्जासि सिद्धा मम मूर्धजानाम् ।। 58।।
सा राममाता च पुनः प्रतिष्ठामवेक्ष्य लोके तपसः सतीनाम् ।
‘हृदि स्थितस्यापि दशाननस्य जाताद्य लोके मृतिरि’-त्यमंस्त ।। 59।।
तस्मिन् क्षणे सागरमेखलायास्तृणानि कश्मीरभवान्यभूवन् ।
अभूदथो भारतसिन्धुतोयं सुवासिताशं नवपाटलाम्भः ।। 60।।
संकेतः-सागरमेखला पृथिवी। कश्मीरभवानि तृणानि केसराः। भारतसिन्धुः हिन्दमहासागरः। पाटलस्य गुलाबेतिप्रसिद्धस्य अम्भः गुलाबजलमिति लोकभाषायां प्रतीतम्।। 60।।
द्र. स्वातन्य्र्बसंभवे 14.49-50
प्राग्ज्योतिषो वंक्षुतटानि यावत् त्रिविष्टपात् सिंहलकं च यावत् ।
अष्टादशद्वीप-शुभार्यभूमिर्वधूविभूषां नु तदाऽऽससाद ।। 61।।
संकेतः-प्राग्ज्योतिषः असम-घात-क्षेत्रात्। वंक्षुः आक्ससनामा नदः। त्रिविष्टपम् तिब्बतदेशः। अष्टादशानि द्वीपानि सुमात्राबालिप्रभृतीनि सागरद्वीपानि। आर्यभूमिः भारतभूमिः।। 61।।
भवेद् विदेहो यदि वाऽवधूतो युक्तोऽथ योगी यदि वा जडोऽपि ।
चारित्र्ययशुद्धयै भरतस्य भूमौ वधानदानं निखिलः करोति ।। 62।।
व्युत्थाय सा च तनया जनकस्य शिष्टा-
चारं व्यपेक्ष्य निखिलानपि तान् ननाम ।
मित्रं रिपुः शिशुजनः प्रवयाश्च पूर्ण-
कामे भवन्ति विबुधे सममेव वन्द्याः ।। 63।।
रामं कृशं, कृशतरां तनयां, समाजं
तत्राभिवीक्ष्य मुनिधाम्नि शुभां च शोभाम् ।
मेने तदा स जनकोऽपि सुताविवाह-
माङ्गल्यकालमिव तत्र पुनः प्रवृत्तम् ।। 64।।
तुष्टापि पुत्रमभिवीक्ष्य मुखं च वघ्वाः
संबन्धिसन्निधिमवेक्ष्य परन्तु माता ।
भर्त्रे तदाश्रुकलुषाऽऽस, कुटुम्बिनीनां
योऽयं कुटुम्बरस एष हि नाकलाभः ।। 65।।
इत्येवं, सा मुनिजनसमिन्मातरस्ताश्चमूः सा
तौ स्त्रीपुंसौ नयनकुहरे स्फारतारः स बाष्पः ।
या नामासीत् सहृदयदशा सत्कवेरस्य धाम्नि
स्यात् को वा तां कथयितुमलं मानुषेषु प्रवेकः ।। 66।।
संकेतः-मुनिजनसमित् इति शान्तरसः, तौ स्त्रीपुंसौ सीतारामौ इति शृङ्गारः, बाष्प इति करुणः, चमूरिति वीरः, मातर इति वात्सल्यम्, इत्येवं वाल्मीकेराश्रमे रसभावानामेव समाजः। तं को वर्णयितुं क्षमेतेति भावः।। 66।।
इति सनातनकवि-श्रीमद्रेवाप्रसादद्विवेदिकृतौ ‘सीताचरितापर’-नाम्नि उत्तरसीताचरिते सर्गबन्धे मातृप्रत्यभिज्ञानं नाम नवमः सर्गः।। 9।।
दशमः सर्गः
साकेतिनां तत्क्षणमेव तेषां तत्सन्ततावुत्सुकता मनःसु ।
अजाग उद्वास्य समस्तमेव भावान्तरं सा पतिपक्षवृत्तिः ।। 1।।
संकेतः-तत्सन्ततौ सीतासन्ततौ।। 1।।
चमूचरैर्जृम्भक-हेति-सिद्धौ रूपेऽनुभावेऽपि च राघवस्य ।
निरीक्ष्य साम्यं प्रतिपक्ष-वीर-बाल-द्वये तत्सुतताऽन्वमानि ।। 2।।
क्व ताविति प्रोत्सुकचेतसश्च ते स्वान् चतस्रोपि दिशोऽक्षिभृङ्गान् ।
कस्तूरिकानाभिमृगौ नु बालौ गवेषयन्तः क्रमयाम्बभूवुः ।। 3।।
अवेक्ष्य सीतां प्रसवाय तस्याः समुत्सुकास्ते च, वसन्तकाले ।
गृहाद् गता आम्रलतां निदाघे निवृत्य पश्यन्त इव व्यराजन् ।। 4।।
पिता च माता च पितामही च मातमहश्चापि तदात्र सर्वे ।
विना कुमारैर्न तथा विरेजुर्विनाङ्कुरैर्मूर्ध्नि यथा द्रुमाद्याः ।। 5।।
आसन् कुमारास्तु तदा निजेषु स्वाध्याय-शस्त्राभ्यसनेषु लग्नाः ।
य उत्सवाद् बिभ्यति शस्त्र-शास्त्राभ्यासे स्वराष्ट्रं पिपुरत्यमी हि ।। 6।।
स चन्द्रकेतुश्च वयस्यभावात् तेष्वेव बालेष्वभवत् स्वधीतिः ।
स उत्सवो यो हि वयः-प्रवृत्ति-साम्येन सम्यक् प्रथते प्रहर्षात् ।। 7।।
स आश्रमश्चापि तदास्य सूरेस्तैः स्नातकैर्हन्त तथा चकासे ।
यथा खलो निस्तुष-मुष्टि-राशि-व्रातैः कृषाणस्य गृहे चकास्ति ।। 8।।
संकेतः-स्नातकैरवाप्तविद्यैः। खलः खलिहानेतिभाषायाम्। निस्तुषत्वेन स्नातकानां संस्कृतता, मुष्टिः फसल इति भाषायाम्। तस्य राशिः रास-पदेन भाषायां वाच्या। कृषाणः कृषीवलः। कृषीवलस्य धान्यमपि परार्थमेव भवति।। 8।।
वाल्मीकिरुद्वीक्ष्य सभान्तरङ्गं चकार शिष्टागमनावकाशम् ।
शास्त्रेषु विद्या पदवाक्यरूपा शिष्टेष्वथो साऽर्थतया चकास्ति ।। 9।।
गुरोर्नियोगाद् वटवो विरेमुः स्वाध्यायतो नैव निजप्रवृत्त्या ।
माध्वीकतः किं मधुकृत्समूहः स्वयं विरज्यत्यसति प्रवाते ।। 10।।
वयस्यभावादथ चन्द्रकेतुः कुशं लवं चापि हठान्निनाय ।
सभाप्रदेशं, न भवन्ति सिद्धा न तत्क्षणं हन्त सतां समीहाः ।। 11।।
तानागतान् वीक्ष्य सभा प्रहर्षोदधाविवाब्रूडदुदूढबाष्पा ।
अनिश्चयः किन्तु समेषु कुम्भोद्भवस्य चुल्लूत्वमभिप्रपेदे ।। 12।।
संकेतः-अब्रूडत् निममज्ज। अनिश्चय इमावेव सीतातनयावेवेति निश्चयस्याभावः। कुम्भसंभूतः समुद्रशोषयिता भगवानगस्त्यः।। 12।।
ननाम सौमित्रिसुतोऽर्चितेभ्यः संकीर्त्त्य नाम स्वपितुः, परन्तु ।
तौ पित्रबोधाद् बत मातुरेव नाम्ना प्रणामाय नतावभूताम् ।। 13।।
संकेतः-अर्चिताः पूज्याः। स्वपितुः लक्ष्मणस्य, तथा समुदाचारात्।। 13।।
वाक् साऽत्र सीता-जन-मानसेषु निःश्वासवीचित्वमवापदुच्चैः ।
अस्वत्वबोधेषु जनेषु किन्तु नेत्राम्बुधारावपुषा व्यगालीत् ।। 14।।
संकेतः-सीता च जनाश्चेति द्वन्द्वः। अस्वत्वबोधेषु नास्ति स्वत्वस्य बोधो येषां कृते कुशलवयोस्तेषु।। 14।।
ततः कविः कारुणिकः स्वकाव्यप्रबन्धपूर्तिं नु निरीक्ष्य हर्षात् ।
रामं च सीतां च निदर्श्य ताभ्यां वचःप्रसादं प्रददावितीव ।। 15।।
पुत्रौ श्रुतं यन्मम रामकाव्यं यस्तत्र रामः स हि राम एषः ।
या तत्र सीता ननु सैव सीता भवत्सवित्री, न तु काचिदन्या ।। 16।।
संकेतः-रामकाव्यं रामं नायकतयाश्रित्य कृतं काव्यं रामायणम्।। 16।।
तौ चक्षुरुन्मीलनपण्डितेन वाल्मीकिना सद्गुरुणा तदेत्थम् ।
स्वबिन्दुसिन्धू पितरौ पुरस्तात् संप्रत्यभिज्ञाप्य कृतौ कृतार्थौ ।। 17।।
संकेतः स एव सद्गुरूः यः शिष्य चक्षुः सम्यगुन्मीलयति। एवमात्मा, स, एव, बिन्दुरेकशः लदर्थः सिन्धुभूतौ समाष्टिभूतौ ।। 16 ।।
आनन्दसिन्धावनयोरिदानीं कः सेतुबन्धं रचयेत् कलावित् ।
एकस्तटो यत्र स राम एव तटान्तरत्वं च बिभर्त्ति सीता ।। 18।।
संकेतः-इदानीं परमात्मप्रबोधक्षणे च। लङ्काभिषेणनक्षणे येन सेतुबन्धो रचितः स राम एव यदा तटतां गतः, यस्या आसत्तये च रचितः सा सीतैव च तटान्तरत्वमासादितवती तदा सेतुबन्धस्य प्रयोजनमेव नावशिष्टम्। सत्यपि प्रयोजने च क्षमतापि रामादतिरिक्ते नावशिष्टा। लब्धे च निस्सीमे परमात्मनि को नु बन्धार्थमुद्यमः। सत्यपि च तादृशानन्दप्रतिपादनाभिलाषे कविनापि वा केन क्षमेण भवितुं शक्येतेति विविधार्थव्यञ्जनस्थानमिदम्।। 18।।
ज्ञात्वापि तातं, जननीं निजां तौ विलोकयामासतुरुद्गताश्रू ।
रविं प्रति प्रीतिभृतोऽपि वृक्षाः शिरांसि भूमिं प्रति नामयन्ते ।। 19।।
संकेतः-रविरेवेन्द्रः। भूमिरेव शची। तयोर्दाम्पत्यं प्रतीतमेव।। 19।।
सोद्यानभूर्यद्वदुदास माता महाकविस्तत्प्रसवौ परन्तु ।
उद्यानपालप्रतिमस्तदानीं तत्स्वामिने दातुमियेष हर्षात् ।। 20।।
संकेतः-उद्यानपालो हि उद्यानस्वामिने तदीयोद्यानप्रसूतानि फलानि समर्पयत्येव।। 20।।
रामस्तु नात्मानममंस्त योग्यं गुरौ वसिष्ठे सति पुत्रलब्ध्यै ।
ममत्वतो यद् विनियोग एव राष्ट्राय बालस्य सतां प्रशस्यः ।। 21।।
गुरुर्वसिष्ठोपि च पारिजाताविवाश्रमाब्धेरुपलभ्य तौ द्वौ ।
मनोरथान् भारतराष्ट्रमातुः स्वायत्त-संपूर्ण-फलानपश्यत् ।। 22।।
संकेतः-स्वायत्तेति स्वतन्त्रताऽभिव्यक्ता। अनेवंविधेषु बालेषु स्वतन्त्रापि भारतमाता किमिव वा संपूर्णफला भवेदिति चान्तरङ्गम्।। 22।।
न यायजूकस्य परन्त्वदृष्टं स्प्रष्टुं कदाचित् क्षमते पुरोधाः ।
रामाय तद् द्वावपि बालकौ तौ वर्णाश्रमाणां गुरुवेऽदिशद् सः ।। 23।।
स चापि वाल्मीकिवसिष्ठदृग्भ्यां परीक्षितौ प्राप्य सुतावहृष्यत् ।
न पिण्डमात्रं नृपसन्ततीनामार्यावनौ राष्ट्रपतित्वमेति ।। 24।।
संकेतः-नृपपुत्रो हि नृपस्योत्तराधिकारमर्हतीति सामान्यं शास्त्रम्। तत्र ‘‘विनीत एवे’’-ति विशेषः। स एवायमत्रोपजीव्यः।। 24।।
कथं न शिल्पोत्तम एषकोऽत्र प्रशस्तिपात्रत्वमुपाददातु ।
यत्रोपलः सूर्यमणिः, कवीन्द्रः शिल्पी, वसिष्ठश्च परीक्षकोऽस्ति ।। 25।।
संकेतः-शिल्पोत्तमत्वेनात्र कुशलवौ विवक्षितौ। सूर्यवंशरूपः सूर्यकान्तमणिः मणिः उपलः शिल्पायापेक्षितः प्रस्तरः। स आदिकविः वाल्मीकिः।। 25।।
स राजवंशो मिलितः सुताभ्यां तथा तदानीं निपुणं विरेजे ।
लौहित्य-सिन्धु-द्वितयेन युक्तो विराजते हन्त यथैष देशः ।। 26।।
सीतातटस्थत्वविषाददिग्धा प्रसन्नता राजकुलस्य तस्य ।
निदाघतप्तस्य सरोवरस्य प्रसन्नताया भगिनी बभूव ।। 27।।
तावश्रुणार्घ्यं पटुसीत्कृतैश्च शुभागतं मातृजनेषु लब्ध्वा ।
यन्मङ्गलं प्रापतुरस्य दास्ये को नाम माङ्गल्यविधिः कृती स्यात् ।। 28।।
संकेतः-शुभागतम् स्वागतशब्दम्।। 28।।
मातामहस्यापि विना स्वपुत्रीं दौहित्रयोर्हन्त तयोः प्रसादः ।
जातोऽनवाप्तप्रतिके स्वशास्त्रे स्वभ्यस्तयोः शास्त्रकृतः प्रसादः ।। 29।।
संकेतः-न प्राप्ता प्रतिः पुस्तकं यस्य तस्मिन्, सु सुष्ठु अभ्यस्तयोः शिष्ययोरिति यावत्, शास्त्रकृतः तच्छास्त्रकर्तुः प्रसादः प्रतोषः।। 29।।
तस्मिन् क्षणे लक्ष्मणसंभवोपि ज्येष्ठां सुवं प्रापदथो शिरः स्वम् ।
ननाम तत्पादकुशेशयाभ्यां सादृश्यतोऽद्याप्यविमानिताभ्याम् ।। 30।।
संकेतः-लक्ष्मणसंभवः चन्द्रकेतुः ज्येष्ठा सूः सीता! सादृश्यमेव विमानना सा नास्ति याभ्याम्। पादयोः कुशेशयत्वं शिष्टोक्तिमात्रम्, नतु साम्यनिबन्धनम्। पतिव्रतान्तरसादृश्यमत्र विमाननात्वेन ग्राह्यम्।। 30।।
सीताङ्घ्रितीर्थे प्रणतस्य तस्य द्वावेव शोभामनुहर्त्तुमीशौ ।
कुमारिकायां निजराष्ट्रभूम्यै नतो विवेको यदि वा महाब्धिः ।। 31।।
संकेतः-कुमारिकायां कन्याकुमारीति प्रसिद्धायां भारतस्थलवेदिपादभूतायां भुवि विवेको विवेकानन्दनामा स्वामी।। 31।।
तन्मूर्धजानामरुणे समूहे मातुर्वदातद्युति पादपद्मम् ।
शोणारुणाम्भःपरिवेषरम्यामुवाह लक्ष्मीं द्युसरिज्जलानाम् ।। 32।।
संकेतः-शोणो नाम नदः।। 32।।
प्रियस्य पुत्रं निजदेवरस्य सा चापि नप्तारमिवाशु मूर्ध्नि ।
शिशिङ्घ, किन्त्वस्य तपोवनीयान्यपाचिकीर्षन्न रजांसि तस्मात् ।। 33।।
संकेतः-तस्मात् मूर्ध्नः।। 33।।
वतीर्य सा स्थण्डिलतस्ततश्च प्रभूतपुष्पेष्टिरजोविमिश्रैः ।
रजोभिरस्यालिकहेमपट्टे तपोवनीयैस्तिलकं वितेने ।। 34।।
संकेतः-अलिकं मस्तकमेव हेम्नः पट्टः तत्र। प्रभूतानां पुष्पाणाम् इष्टीनां च रजोभिः विमिश्रैः रजोभिः। कथितपदत्वमत्र न संभाव्यम्, रजोद्वन्द्वस्यैवात्र मिश्रताया विवक्षणात्।। 34।।
तस्मिन् क्षणे स्वानि मितानि मत्वा भाग्यानि पुत्रस्य तु पुष्कलानि ।
स्थितोऽपि तूष्णीं बत लक्ष्मणोऽपि सेर्ष्यश्च हृष्टश्च बभूव वीरः ।। 35।।
संकेतः-मातृभूमिरजस्तिलकं प्रति वीरस्य नितान्तं साभिलाषत्वात्, लक्ष्मणस्य च वीरत्वात्, सीतामातुः सकाशात् तथाविधसंभावनस्य चाप्राप्तत्वात्।। 35।।
सा मातृभूमे रजसा विधाय भाले विशेषं विससर्ज पुत्रम् ।
पुत्रस्त्वसौ नैव शशाक मोक्तुं तां मातरं तच्च तदङ्घ्रितीर्थम् ।। 36।।
वात्सल्यशान्त्योरिति मिश्रभावे तस्यां स्थितेऽस्मिन् विदधातु धीरः ।
इयं सितेदं पय एष सिन्धुरयं घटो वेति परिच्छिदां कः ।। 37।।
संकेतः-माधुर्याय सितापयसोः, परिमाणाय च सिन्धुघटयोरौपम्यम्।। 37।।
तां मातृनिर्वेददशामिदानीं तां वत्सकप्रीतिदशाञ्च दृष्ट्वा ।
अधीरतां हन्त गतं मुनित्वं, दीर्घं निशश्वास च सद्गृहित्वम् ।। 38।।
संकेतः-मुनित्वापेक्षया गृहित्वमात्मानं प्रगुणं मन्तुमारभतेति पर्यायेणोक्तिः।
को वा ब्रवीति ‘क्षणशः प्रयाति संसार एष प्रलयाग्निगर्भम्’ ।
स मीलिताक्षो बत ‘मातृकुक्षि-कुमारशक्ति’-द्वितये वराकः ।। 39।।
संकेतः-प्रतिक्षणपरिणामिनो हि सर्व एव भावा इति क्षणभङ्गवादी बौद्धः। मातृकुक्षिर्हि कुमारशक्तिं नित्यं नूतनयति, ‘नवो नवो भवति जायमान’ इत्यागमिनस्तु तत्रात्मनित्यत्ववादितया प्रतिष्ठन्त इति भेदः।। 39।।
सा कोसलेन्द्रस्य सुता नवीना स चापि नूत्नो बत लक्ष्मणो हि ।
अयं विशेषो वृणुतेऽत्र मातैवारण्यवासं, न च राति पुत्रः ।। 40।।
संकेतः-कोसलेन्द्रस्य सुता कौसल्या। सा सीता वधूः, कौसल्याया एव प्रतिमूर्तिः। स चन्द्रकेतुश्च नूत्नो लक्ष्मण एव। यथा च साकेते लक्ष्मणो ज्येष्ठां मातरं वनवासमयाचत सा चान्वमोदत तथैवात्रापि स्थितिः। विशेषस्त्वयं यदत्र मातैव पुत्रं स्वतो वने स्थातुं याचते, पुत्रश्च न राति ददाति नानुमनुते।। 40।।
देहेन रामं च हृदा च सीतां भजँस्तदानीं ननु यौगपद्यात् ।
स लक्ष्मणोऽपि प्रतिमापरोऽभूत् स्थितिं च सत्यं च सहैव रक्षन् ।। 41।।
संकेतः-हृदा चन्द्रकेतुरूपेण। पुत्रो हि पितुर्हृदयमेव।। 41।।
सा चन्द्रकेतौ स्वसुरुर्मिलायाः स्वदेवरस्यापि च लक्ष्मणस्य ।
सुमानुषाद्वैतमवेक्ष्य जाता प्रसह्य मातृत्वरसे निमग्ना ।। 42।।
संकेतः-सुमानुषयोर्दम्पत्योः अद्वैतमेकत्वम्। पुत्रे पित्रोराकृतेरैक्यात्।। 42।।
क्षणेऽत्र सा बष्कयिणीव सीता स्निग्धेऽञ्चले यां समुवाह धाराम् ।
निपीय तां मृष्टवपुर्मुनित्ववत्सः समुत्पुच्छयितुं प्रवृत्तः ।। 43।।
यो मातृभावे महिमाऽस्मदीयः स वै महाकारुणिकः प्रभुर्वः ।
सा ब्रह्मसिद्धिः स शिवत्वलाभस्तत् सार्वभौमं ननु मुक्तिसत्रम् ।। 44।।
संकेतः-मातृभावे महिमा महामातृत्वम्, अस्मदीयः अस्माभिरङ्गीकृतः, वोऽस्मद्भिन्नानां महाकारुणिकः प्रभुः। सार्वभौमं मुक्तिसत्रं काश्यां प्रसिद्धम्।। 44।।
तं मातृभावं शिशुवद् भजद्भ्यो हस्ताम्लकं भुक्तिरथो विमुक्तिः ।
सा पिच्छला वत्सलताभिधाना काचिन्महायानसृतिर्बुधानाम् ।। 45।।
संकेतः-सा महामातृत्वरूपा। महायानसृतिः महायानमार्गः, न तु यथा बौद्धेषु प्रसिद्धा बालवृद्धस्त्रीपुरुषयादृच्छिकप्रवज्याप्राणा।। 45।।
सा विश्वविध्वंसविरामभूमिः सा विश्वशान्त्यै पटु सामरस्यम् ।
ज्ञानक्रियाभक्तिमयी च काचिद् योगत्रिवेणीप्रतिमापि सैव ।। 46।।
संकेतः-पद्यमिदं तस्मिन् दिने निष्पन्नं यस्मिन् वियतनामदेशे नरसंहारोऽसूचि।। 46।।
सा ब्रह्मकाव्ये मधुगीतिवीणा तत्तत्त्वधन्वन्यमृताम्बु सैव ।
तत्रास्ति बोधस्य न साधकत्वं प्रपत्तिमात्रं बत तत्र सर्वम् ।। 47।।
संकेतः-ब्रह्म यदि काव्यं तर्हि महामातृता तत्र मधुमयी गीतिदात्री पद्यतासंपादयित्री वीणाऽस्तीति योजना। एवमेव तद् यत् तत्त्वं तत्पदव्यपदेश्यं तद्रूपिणि धन्वनि मरौ सा महामातृतैवामृतमयजलरूपा। प्रपत्तिमात्रं शरणमात्रम्। ऋते ज्ञानान्न मुक्तिरिति यदुच्यते तदपि तत्र न विरुध्यते, तादृशप्रपत्त्या सर्वविधज्ञानसंभवात्।। 47।।
तामेव मातृत्वदशां तदानीं विदेहपुत्र्यामुपलक्ष्य सर्वः ।
लोकः स्वरं केवलमेकमूचे ‘माता तु सीतैव चराचरस्य’ ।। 48।।
धन्यासि पत्यावथ पुत्रगर्भे धातुं स्वराष्ट्रस्य पतित्वमुच्चैः ।
कालप्रबुद्धा स्वयमेव तेपे राज्यं समुत्सार्य वने दृढं या ।। 49।।
संकेतः-पुत्ररूपो गर्भः पुत्रगर्भः कालप्रबुद्धा समये जागरिता।। 49।।
रामाधिकौ रामसुतौ, न शङका, गतो वनं राम उदूढभार्यः ।
इमौ तु गर्भाद्धि विदेहपुत्र्याऽनयैव सार्धं तपसां वनानि ।। 50।।
किं नाम हेमात्र तुलाविधाने विनाग्निसंस्कारमिमौ विशुद्धौ ।
आस्तथ्यमेतद् यदियं पुरैव वह्नौ विशुद्धास्त्यनयोः सवित्री ।। 51।।
हन्त प्रजाराधनतत्परत्वे रामं प्रभुं कोऽतिशयीत लोके ।
यस्तत्कृते गर्भत एव सत्त्वरूपां प्रजां स्वां विनयत्यदभ्रम् ।। 52।।
संकेतः-‘प्रजा स्यात् सन्ततौ जने’ इत्यमरः।। 52।।
सुदक्षिणायां रघुरेव, त्द्वच्छकुन्तलायां भरतो हि जज्ञे ।
अस्यामिमौ द्वौ, ननु हेतुरत्र द्वयोस्तपो मातुरथो पितुश्च ।। 53।।
संकेतः-सुदक्षिणा दिलीपभार्या। तत्र रघोः संभवे प्रधानं पितृतपः। शकुन्तला दुष्यन्तपत्नी, तत्र भरतस्य संभवे प्रधानं शकुन्तलायास्तपः। कुशलवयोः संभवे पुनर्द्वयोरेव, रामस्यापि सीतायाश्चापि। तपोद्वयप्राधान्यादेव पुत्रद्वयसंभवः।। 53।।
सा कूटनीतिर्ननु राममातुः सीता-प्रवादो यदभूत् स मिथ्या ।
सा यौवने नैव चकाङ्क्ष भूयः पौत्रेषु संस्कारकृते तपांसि ।। 54।।
संकेतः-राममाता कौसल्या। स सीताया लङ्काधिवासकालुष्यविषयकः। रामो संस्काराय यौवने तपांसि चक्रे ततो राष्ट्रपतित्वमवापत्। पौत्रा जन्मत एव संस्कृताः स्युरिति कौसल्याहृदयभावना।। 54।।
सा नैव रामस्य च लक्ष्मणस्य प्रसूतिभेदं रुरुचे ततश्च ।
एकप्रसूति द्वयमत्र सून्वोरिदं स्ववध्वां निपुणा विलेभे ।। 55।।
संकेतः-प्रसूतिभेदो मातृभेदः। एकप्रसूति एकमातृकम्।
इत्येवमादि-प्रतिपत्तिमग्नो बभूव लोको हृदये तदानीम् ।
गुणाय सर्वोऽपि जनः प्रणौति द्रुह्यत्यसौ यद्यपि तत्प्रसूत्यै ।। 56।।
सा संविदेतस्य सभाजनस्य द्राग् वैखरीभूय वियद्वितानम् ।
प्रपूर्य तं लक्ष्मणसूनुपक्षं समर्थयामास ममत्वमुग्धम् ।। 57।।
संकेतः-लक्ष्मणसूनुश्चन्द्रकेतुः तस्य पक्षं मातुरपरित्यागरूपम्।। 57।।
मातः प्रसीद कुरु कैरवसोदरं नः
साकेतकं पदनखेन्दुमयूखहृष्टम् ।
एते वयं मधुकरायितुमत्र यस्मात्
सम्यक् क्षमेमहि चिरात् प्रभृति प्रतृष्णाः ।। 58।।
घूकस्वरैर्निबिडितेऽपि कुहूसुहृद्भिः
किं व्योम्नि हंसमधुराऽऽसजते न राका ।
कालक्रमेण परिवर्त्तनमश्नुवाने
चक्रात्मके जगति वत्सलतैव नेमिः ।। 59।।
संकेतः-घूका उलूकाः। हंसमधुरा हंसैर्मधुरा हंसेभ्यो मधुरा चेति।। 59।।
कविरिमामुपकर्ण्य सरस्वतीमतितरां विशदोऽभवदात्मनि ।
अनुशयः कलुषस्य विनिष्क्रयः सुजनताऽजन-तापरुचिश्च यत् ।। 60।।
स जनको जनकोपपराङ्मुखो दुहितरं हितरञ्जित-भूतलाम् ।
जन-मनो नमनोदितपुण्यतामृतमथैक्ष्य बभूव कृतक्रियः ।। 61।।
स रविवंशगुरुश्च सनातन-स्थविरतां विरतामिव तत्क्षणम् ।
न मनुते स्म न, किं च सतीव्रतं तपसि काञ्चन काञ्चनतां गतम् ।। 62।।
संकेतः-सनातनस्य धर्मस्य स्थविरता शिथिलता।। 62।।
स नृपतिश्च पतिश्च सतां चितेरुपचितां रतिमेक्ष्य शुभग्रहे ।
जनपदेषु पदेषु च नागरेष्वमनुत ज्वलितामसतां चिताम् ।। 63।।
कुश-लव-प्रसवा तु निशम्य ता जनगिरो निजकीर्त्तिपरा अपि ।
समतया मतया विदुषां दधे श्रुतिमतीति मतीन्दुकलां शुभाम् ।। 64।।
संकेतः-विदुषां मतया अभिमतया समतया समत्वेन श्रुतिमती विदुषी इति हेतोः शुभां मतिमेव इन्दुकलां दधे।। 64।।
तस्मिन् काले पतिपित्रादेः सान्निघ्यं
सूरेराद्यस्याश्रमतुल्यामथ भूमिम् ।
दृष्ट्वा, शिष्टं कृत्यमदृष्ट्वा स्वं चान्यत्
स्थूलं देहं स्वस्यै मात्रेऽदित्सत् सा ।। 65।।
संकेतः-मत्तमयुरं वृत्तम्। स्वस्यै मात्रे पृथिव्यै अदित्सत् दातुमैच्छत्।
सा सर्वेभ्यो विनयमधुरं चाञ्जलिं मूर्घ्नि धृत्वा
न्यस्याशीर्भिः करकिसलयं चन्द्रकेतोश्च शीर्षे ।
स्मेरं धृत्वा मुखसरसिजं शान्तभावा पुनश्च
भेजेऽभ्यासात् स्थिरसुखसमां पद्ममुद्रां सुभद्राम् ।। 66।।
संकेतः-स्थिरसुखमासनमिति योगिनः। सुभद्राम् शोभना भद्रा भद्रासनं यस्यां ताम्। पद्मासनं हि भद्रासनं विना न सिद्ध्यति।। 66।।
अक्ष्णोः प्रान्ताद् दरविदलितात् कैरवात् कैसरं नु
नासावंशं स्नपयितुमिव प्रांशुरश्मिप्रतानः ।
जिह्नामूलादुपरि कुहरं किं च पीयूषधारां
धातुं तस्या अचलरसनाकोटिरेतुं प्रवृत्ते ।। 67।।
संकेतः-केसराणां समूहः कैसरम्। जिह्वामूलेति स्थिरां खेचरीमाह।। 67।।
शब्दादिभ्यस्तदनु करणग्राम आसाद्य मोक्षं
तस्या आत्मन्यमृतजलधौ बिन्दुभावेन मग्नः ।
प्राणायामः स्वयमथ तदा प्राणरोधस्वरूपः
प्रादुर्भूतः सहजसुभगो ध्यानदार्ढ्यं दुहानः ।। 68।।
संकेतः-करणग्राम इन्द्रियग्रामः। सिन्धुबिन्दूपमया मायाब्रह्मणोरभेदः। प्राणायामः प्राणनिरोधरूपः। स च ‘ईश्वरप्रणिधानाद् वा’ इत्यादिभिः प्रतीतः।। 68।।
आनन्दं सा यमिह पुरतो भर्तृपुत्रादिदाये-
ष्वन्तं लब्ध्वाऽलभत महती लोकभूमौ क्षणेऽस्मिन् ।
तस्यैवात्र प्रतिकृतितनुं कञ्चिदानन्दसिन्धुं
कैवल्याढ्यं प्रशममहितं स्वात्मभूमावलब्ध ।। 69।।
इत्थं सैषा जनकतनया स्वात्मदेवस्वरूपं
ज्योतिष्कायं कमपि मुदिता राममासाद्य जाता ।
का भीरस्मिन् विरहजनिता, का च लोकप्रसूता
सत्त्वासत्त्वप्रथितिरबला, का च कालव्यपेक्षा ।। 70।।
स्थितावस्यामेषा स्थितिमलभतोत्थानरहितां
यतो ‘युक्तो योगी’ व्युपरतसमाधिच्युतिरभूत् ।
अगात् साधारण्यं तदनु तिसृषु व्यक्तिषु परं
नरो नारी क्लीबं क्व नु दधति भेदं रसलये ।। 71।।
संकेतः-काव्यरसलयेपि सहृदयो जनः साधारण्यं लभते।। 71।।
वसिष्ठो वाल्मीकिर्जनक इतरे चापि मुनय-
स्तदीयां तां दृष्ट्वा स्थितिमधिगतार्थाः कथमपि।
पुनर्भूर्जैस्तस्या व्यधिषत वृतिं किं च कतिचित्
प्रतीक्ष्याहोरात्रान् प्रणिजगदुरार्त्तान् निजजनान् ।। 72।।
अलं शोकावेगैरलमतितरां मोहकलुषै-
रलं स्वाधिक्षेपैरथ च पुनरुत्थानयतनैः ।
इयं कल्याणी तां गतिमुपगता यां स्पृहयते
मुनीन्द्राणामात्मा शतशततपोऽनुष्ठितिपरः ।। 73।।
प्रतिष्ठेयं जाता निमि-रवि-महावंशयशसां
प्रतिष्ठेयं जाता युगयुगकृते भारत-भुवः ।
प्रतिष्ठेयं जाता श्रुतिमहति मार्गे कृतधियां
यदेषा देहेन स्थितिमधित मृत्युञ्जयभुवः ।। 74।।
संकेतः-श्रुतिमहान् मार्गः सनातनधर्मः। देहेन स्थूलेन शरीरेण। मृत्युञ्जयभूः अमृतत्वभूमिका। स्थूलदेहेऽप्यमृतत्वमेव भारतीया सिद्धिः।। 74।।
संप्रत्यस्याः पशुपतितया पाशमुक्तोऽन्तरात्मा
वन्द्योऽस्माकं भवति जहित स्थूलदेहान्ववायम् ।
धन्यो रामः कुशलवसुता यस्य जाया त्रिलोकी-
माङ्गल्यात्मा व्रजति वपुषैवान्धकारात् परस्तात् ।। 75।।
इत्येवं ते बहुविधवचःसेतुबन्धैः समेषा-
मस्रस्रोतः स्थगयितुमलंभूष्णुतामीप्सवोऽपि ।
शेकुर्नैव, द्रुतिमुपगतां चेतनामक्षिमार्गा-
न्निर्गच्छन्तीं प्रति तितउतां याति वै सान्त्वनावाक् ।। 76।।
गाङ्गैस्तोयैरथ नयनजैस्तैर्विमिश्रैः पवित्रं
श्रद्धापुष्पैः शबलशबलं खातमेते विधाय ।
तस्या गात्रं पुनरपि महीमातुरेवाङ्कशय्याऽऽ-
सीनं चक्रुर्, न हि मृतवपुर्मन्यते योगमुक्तः ।। 77।।
सीता तस्मिन् स्वपिति पुनरप्यस्य विश्वस्य धर्म-
ग्लानि-ग्लान्यै श्रयितुमसकृद देहबन्धं तमेव ।
इत्येवं सा मुनिजनसमित् पुत्रकान् सान्त्वयन्ती
त्यक्त्वा सास्रं पुनरपि सुमं प्राप तस्याः कुटीरम् ।। 78।।
तस्य द्वारे निहितशिरसा केन वा नाश्रु मुक्तं
को वा नासीद्धृदयविपिने दावलग्नोऽत्र धीरः !
कैर्वा मृत्स्नां शतशतमहातीर्थमृत्स्नामिवास्य
धृत्वा मूर्ध्नि स्वजनुरिदमाः प्रापितं धन्यतां नो ।। 79।।
को वा वक्तुं प्रभवतु जगन्मातुरस्या यशांसि
केनावाप्तं मनुजवपुषि क्रान्तिमच्चक्षुरार्षम् ।
अस्याः पुण्यस्मरणसुधया पूरयेत्, पूरितुं चेद्
वाञ्छेत् कश्चित् स्वमतिसरितं विश्वधन्वप्रलुप्ताम् ।। 80।।
तस्यास्तस्मिन् प्ररुदितमृगे यद्धि शान्ते कुटीरे
काव्यं किंचित् स्वकरलिखितं राघवेणापि पुण्यम् ।
तस्यैकांशे चिरपतिचितेऽप्यर्पयन्नर्थजाती-
र्नूत्नाः ‘सीताचरित’-विरुदोऽसौ कृती, सर्गबन्धः ।। 81।।
मातुस्ताभ्यां पदसरसिजाभ्यां कृतिर्मेऽर्पितेयं
यन्माध्वीकं व्रजति लिपितां विश्व-काव्य-प्रबन्धे ।
अर्थत्रैधं दलपरिमलोल्लासिनी केसरश्री-
र्धत्ते यत्र, श्रयति पदतां किंच सा हंसकोक्तिः ।। 82।।
संकेतः-माध्वीकं मकरन्दः, तल्लिखितत्वात् विश्वकाव्यप्रबन्धस्य सुन्दरत्वं मधुरत्वञ्च, अर्थत्रैधं वाच्य-लक्ष्य-व्यङ्ग्य-रूपम्, तत्र केसरा लक्ष्यप्रतीकाः, दलानि वाच्यस्य, परिमलञ्च व्यङ्गस्य। लक्ष्यस्य मध्यवर्त्तित्वात् केसराणामिब तदितरद्वययुक्तताऽत्रोक्ता। विश्वपक्षेऽर्थत्रैधं सत्त्वादिगुणत्रयम् प्रातिभासिक-व्यावहारिक- पारमार्थिक-वस्तुजातं वा। चरणपक्षे दलेनाङ्गुलयः, केसरेण रेखाः, परिमलेन च सौरभमध्यवसितानि। हंस एव हंसक इति कमलपक्षे, हंस इव हंसको नूपुर इति च चरणपक्षे। पदता गीतिमयता शब्दता च।। 82।। द्रष्टव्यं स्वतन्त्रसंभवे 1.2 पद्यम् इति सनातनकवि-श्रीमद्रेवाप्रसादद्विवेदिकृतौ ‘सीताचरितापर’-नाम्नि उत्तरसीताचरिते महाकाव्ये समाधिमाङ्गल्यं नाम दशमः सर्गः।। 10।।
।।तत् सत्।।