वाग्वधूटी
माङ्गल्यमेव भूयात् !!
मधुरं विचिन्तयामो मधुरं हि मानसे स्यात्
मधुरे तु जीवनेऽस्मिन् माधुर्यमेव भूयात्!!
कलहादिकेन किं स्यात्
विरहादिकेन किं स्यात्
सङ्गममये हि लोके सायुज्यमेव भूयात्
मधुरे तु जीवनेऽस्मिन् माधुर्यमेव भूयात्!!
मन एव बन्धहेतुः
मन एव मोक्षहेतुः
अतएव मानसेऽस्मिन् मासृण्यमेव भूयात्
केचिद् वदन्ति नीतिम्
केचिद् दिशन्ति भीतिम्
प्रतिपलमहो समेषामायुष्यमेव भूयात्
स्वजनेषु काऽपि रागी
विजनेषु काऽपि रागी
निखिले भवे परं हि तस्यैव दर्शनं स्यात्
भूयात् स्वराष्ट्रनीतिः
भूयात् स्वदेशगीतिः
प्रतिदिनमहोऽस्मदीयं माङ्गल्यमेव भूयात्
मधुरे तु जीवनेऽस्मिन् माधुर्यमेव भूयात्!!
प्रीतिकरं जीवनं भवेत्!!
नवं नवं प्रीतिकरं जीवनं भवेत्
अहर्निशं भीतिहरं जीवनं भवेत्!!
किसलयसरला स्यान्मृदुभाषा
कुवलयतरला स्यात्सुखदाशा
शुभं शुभं नयनयुगलमीलनं भवेत्
अहर्निशं भीतिहरं जीवनं भवेत्!!
घवलायितगङ्गा चरितानाम्
गगनायितयमुना सुकृतानाम्
द्रुतं द्रुतं सरस्वतीमेलनं भवेत्
अहर्निशं भीतिहरं जीवनं भवेत्!!
नन्दनवनमिव स्यात्सुविभुत्वम्
वेणुरणमिव वाङ्मधुरत्वम्
श्रुतं श्रुतं स्मृतिप्रभं प्रेरणं भवेत्
अहर्निशं भीतिहरं जीवनं भवेत्!!
तवाभिरामं कवित्वगीतम्!!
गतेऽपि काले धरालवाले
जलायमानं रसार्द्रशीतम्!
सुशोभतेऽलं न किं प्रकामं
त्वाभिरामं कवित्वगीतम्!!
सुधेव देवं रमेव रामम्
शचीव वज्रिणमुमेव शम्भुम्
पुनाति सुकवे! विलोललोकं
ह्यदीरितं प्रेरणाप्रणीतम्
तवाभिरामं कवित्वगीतम्!!
सुवाङ्गमयं व्यञ्जनाऽतिगम्यम्
निरत्ययं वेदनाऽतिरम्यम्
करोति भव्यं सदाऽतिनव्यं
पिकायमानं निलीय पीतम्
तवाभिरामं कवित्वगीतम्!!
क्व धेनुसेवा क्व वंशवृद्धिः
क्व यक्षदैन्यं क्व मेघसिद्धिः
त्वयैव सुकवे! शुभं समेषां
चिरन्तनं चिन्तितं विनीतम्
तवाभिरामं कवित्वगीतम्!!
भवातिगतं यत् त्वदीय चरितम्
मनोऽतिगं यत् त्वदीयकलितम्
असंशयं धीग्रहक्षमं तत्
कृतं त्वया यन्मुदीपरीतम्
तवाभिरामं कवित्वगीतम्!!
समीरणोऽयं प्रवाति यावत्
कलाऽपि चान्द्री विधौ यथावत्
जयन्तिकेयं विभाति तावत्
न कालिदासामृतं व्यतीतम्
तवाभिरामं कवित्वगीतम्!!
अयि मम हृदन्तरवेदने
अयि मम हृदन्तरवेदने! क्रुधमीदृशं कुरुषे कथम्!!
समुपासिताऽसि मयैव किम्
सुभगीकृताऽसि मयैव किम्
अयि गगनगोचरजल्पने! पदमीदृशं लभसे कथम्!!
गतमेव सम्प्रति वैभवम्
हतयौवनं हृतसैशवम्
अयि तूलिकाऽहतकल्पने! सुखमीदृशं तनुषे कथम्!!
मधुरं प्रवाति न चानिलः
मधुरं विरौति न कोकिलः
अयि निकृतिदुर्व्रतपारणे! श्रममीदृशं कुरुषे कथम्!!
विदधसि किं कटुकैतवम्
न ददासि यज्जननान्तरम्
अयि निशितदारुणलोचने! क्षतमीदृशं सहसे कथम्!!
न बिभेति बन्धनपाशतः
न बिबेमि पापविपाकतः
अयि वितथमन्थनधारणे! स्वयमेव संहरसे कथम्!!
अयि मम हृदन्तरवेदने! क्रुधमीदृशं कुरुषे कथम्!!
श्रीमत्मेव भजामहे!!
श्रीमन्तमेव भजामहे प्रतिपलमनाथपुरन्दरम्
वरवेणुवादनसुन्दरं कलिजलधिमन्थनमन्दरम्!!
नवनीरनीरदनीलतनुतनुजनितशाद्वलवैभवम्
निश्शेषदुष्कृतसुकृतगणकृतमसृणमङ्गलकैतवम्!!
मुचकुन्दहृदयङ्गमितछविसमरूपसद्गुणमन्दिरम्
श्रीमन्तमेव भजामहे प्रतिपलमनाथपुरन्दरम्!!
अतिसुभगनयनविलासलास्यललामहृतकटुपापकम्
स्मितमधुरवदननिशीथिनीशमहर्निसं नु दुरापकम्!!
बलसान्द्रकपिनिकुरम्बनिर्जितकठिनदशमुखसङ्ग्रम्
श्रीमन्तमेव भजामहे प्रतिपलमनाथपुरन्दरम्!!
स्मरामि सौख्यकरम्!!
स्मरामि सौख्यकरं सन्ततं विपाकहरम्
ब्रजेशमीतिहरं गोपिकाप्रतीतिकरम्!!
न यस्य जन्मजरावेदनं न मृत्युभयम्
न यस्य कामगतं प्रेरणं विलूनदयम्
स्मरामि मौढ्यहरं भक्तभावतोषकरम्
व्रजेशमीतिहरं गोपिकाप्रतीतिकरम्!!
क्व बल्लवीषु कृतं लोक मङ्गल नटनम्
क्व चापि वंशकथा द्वारकापुरेऽनुदिनम्
स्मरामि पार्थसखं योधनं सुवीरवरम्
व्रजेशमीतिहरं गोपिकाप्रतीतिकरम्!!
न येन राज्यपदं क्वापि वैभवाय हृतम्
न चापि राष्ट्रहितं स्वार्थसाधनाय कृतम्
स्मरामि चौर्यचरं द्वापरैककीर्तिधरम्
व्रजेशमीतिहरं गोपिकाप्रतीतिकरम्!!
क्व गता प्रिये त्वदीया प्रीतिः?
क्व गता प्रिये! त्वदीया प्रीतिः
सम जीवनाय रम्या गीतिः!!
मधुरभाषणं तदमृतसारम्
नयनवीक्षणं विकलितमारम्
अयि शोभने! क्व याता रीतिः
मम जीवनाय रम्या गीतिः!!
निशितपीडनं किमिव न भुक्तम्
मया तव कृते किमिव न युक्तम्
तदपि प्रभाङ्गि! छिन्नाऽधीतिः
मम जीवनाय रम्या गीतिः!!
त्वमतिकैतवं कलयसि चित्रे
न खलु मानसं रमयसि मित्रे
अयि तूलिके! गता ते स्फीतिः
मम जीवनाय रम्या गीतिः!!
गौरवं तदेव!!
गौरवं तदेव येन दुर्गुणोऽपि जीयते
मानवेन मानवाय बन्धुताऽनुभूयते!!
यश्चरत्यनारतं स एव विन्दते फलम्
यश्च वीतपौरुषो न तस्य जीवनम् कलम्
योऽनुयाति साहसं स एव साधु गीयते
यश्च कुब्जकैतवं स निन्दया विलीयते!!
सर्वमेव राजते भुवि प्रभूतमात्रकम्
दृश्यते सुधा क्वचित्क्वचिच्च लूनयात्रकम्
लोकमङ्गलं विहाय शातनं विधीयते
आत्मशौर्यसम्पदैव शासनं प्रभूयते!!
मानसी यथेरणा तथैव भाति वैखरी
तिन्तिडीफले क्व सा रसालमञ्जुमाधुरी
काव्यकौशलं निपीय पानकं प्रणीयते
सोऽपि कौशलप्रभुः प्रमादिना न चीयते!!
सर्वमेक सार्थकं यदप्युपैति भूतलम्
यच्च सार्थकं तदेव भङ्गुरं विचञ्चलम्
ज्ञानिना तथाऽप्यलं सदेव सम्यगीयते
राजहंसगौरवेण दुग्धमेव पीयते!!
यन्न लोकसंस्तवो बभूव हन्त तेन किम्
जीवनं मृषा कलङ्कितं बभूव तेन किम्
श्रीवरस्य शासने न पुण्यमेव मीयते
पीतलोकवाग्विषोऽपि शम्भुनोपमीयते!!
त्याजितोऽल्पशैशवे कथं पितेव शाल्मलिः
केन बन्धुना निवारितः पदे-पदे कलिः
केन शुद्रकेण रे सभाजनं प्रदीयते
कन्यया कया शुकोऽयमात्मनोपनीयते!!
वन्दे सदा स्वदेशम्!!
गङ्गा पुनाति भालं रेवा कटिप्रदेशम्
वन्दे सदा स्वदेशम्
एतादृसं स्वदेशम्!!
काशीप्रयागमथुरावृन्दाटवीविशालाः
द्वारावतीसुकाञ्चीविदिशादितीर्थमालाः
सम्भूषयन्ति कामं यस्य प्रशान्तवेषम्
वन्दे सदा स्वदेशम्
एतादृसं स्वदेशम्!!
सलिलं सुधामधुरितं पवनोऽपि गन्धवाही
चरितं विकल्पकलितं धर्मो दयावगाही
यत्प्राङ्गणं शबलितं कौतुहलैरशेषम्
वन्दे सदा स्वदेशम्
एतादृशं स्वदेशम्!!
गायन्ति यस्य देवाश्शुभगीतकानि नित्यम्
सर्वे भवन्तु सुखिनो यस्यैतदेव कृत्यम्
अभयप्रदोपदेशाः शमयन्ति पापलेशम्
वन्दे सदा स्वदेशम्
एतादृसं स्वदेशम्!!
अचलो नु देवताऽऽत्मा वसुधाऽपि रत्नगर्भा
कुलिशायते यदस्थि प्रचुरं वनी सुदर्भा
केचिन्नमन्ति गिरिजं केचिच्च शालुवेशम्
वन्दे सदा स्वदेशम्
एतादृसं स्वदेशम्!!
अद्यापि यस्य नीतिर्विस्मापयत्यनल्पम्
उद्घोष्य विश्वशान्तिं भावञ्च मित्रकल्पम्
वन्दे ध्वजं त्रिवर्णं वन्देऽगृहीतकेशम्
वन्दे सदा स्वदेशम्
एतादृसं स्वदेशम्!!
मानिनि ! गणय न खलु मम दोषम्!!
मानिनि! गणय न खलु मम दोषं
परितोषय मृदुमारम्!
न कुरु विलम्बं यौवनमिच्छति
तव वदनामृतसारम्!!
हृदयमनारतमेति विशरणं श्रितकलरवमतिमात्रम्
दिशि-दिशि वचसि-वचसि ननु पश्यति वयसि-वयसि तव गात्रम्
हंसगृहिणी! शकलय बिसतन्तून्
प्रशमय निखिलविकारम्!
भवदनुलीनं स्खलितखलीनं
चिन्तय विरहितदारम्!!
जननान्तरसौहृदमथवा हृतयुवजननियमविवेकम्
मृदुलावण्यमतीतधृतिपथं मदयति तव मामेकम्
क्व नु गमनीयं किं करणीयं
यतनीयं किमुदारम्?
मृद्वीकाऽसि तदपनय कृपया
नियुतगुणितभवभारम्!!
कृतनूतनसंस्खलनमुताहो प्राग्जनिकलुषवेपाकम्
भृशमनुभूय शनैरूपयामि प्रचुरविरतिपरिपाकम्
वारय विपदम्भोनिधिमग्नं
तारिणि! विलुलिततारम्!
द्रुतमभिसर लघु नय सहचरणं
स्वजनमिमं हृतसारम्!!
अयि कुदेन्दुतुहिनसितवदने सितवसने सितकाये
कुवलयनयनकलितलघुकलनैर्वितरितशतशतमाये
इन्द्रजालयोजिनि! राजेन्द्र
सम्भावय सहकारम्!
किन्न मोदयति मुदी शारदी
निशि कैरवकान्तारम्?
वितथमिदं जननं प्रतिभातम्!!
वितथमिदं जननं प्रतिभातम्!!
छलिता मृगतृष्णया पिपासा
निहिता कटुहालया सुखाशा
तैलिकवृषमनुगतं सुयातम्
वितथमिदं जननं प्रतिभातम्!!
अहमहमिकयाऽऽश्रितं न तत्त्वम्
तत्त्वचिन्तया गतं निजत्वम्
उभयसरणिहीनमनवदातम्
वितथमिदं जननं प्रतिभातम्!!
गीतं तदपि न वाणी प्रीता
पीतं तदपि न तृषा व्यतीता
अप्रियतमं प्रतिपलं जातम्
वितथमिदं जननं प्रतिभातम्!!
व्यर्थो दाशरूपकावलोकः
तेन बभूव जगति को धनिकः
धनञ्जयत्वं पुनरतियातम्
वितथमिदं जननं प्रतिभातम्!!
मृदुलाहितचिन्त्याऽभिराजम्
दहति विधिर्ननु कविपदभाजम्
स्मरः स्मरायति कसाभिघातम्
वितथमिदं जननं प्रतिभातम्!!
अनजानिहि कवनकरणाय!!
अनुजानीहि कवनकरणाय!
अम्ब वरटवाहिनि! वरदायिनि
देहि दिशं निजपदवरणाय!!
कलय हृदयमनिशं भावनया
शमय विलयमचिरं प्रार्थनया
पुत्रीयति मयि वितर विकसनं
भवतु कृपा तव भवतरणाय!
अनुजानीहि कवनकरणाय!!
स्मरसि जननि! नः स्तनन्धयत्वम्
लघुविक्रमं रुदितविपुलत्वम्
अयि कुन्देन्दुतुहिनरवसने
सरणिमुपगमय सञ्चरणाय!
अनुजानीहि कबनकरणाय!!
मुरलिकेवं मम देहलतेयम्
प्रतिपदमेव छिद्रविकलयेम्
मृदुकलनादमयी स्यान्मातः
तव कृपयाऽत्मवशीकरणाय!
अनुजानीहि कवनकरणाय!!
यत्कवयामि तदसि जननि त्वम्
सा प्रतिभाऽपि ययाऽस्ति कवित्वम्
त्वामन्तरा भवामि न किञ्चित्
तनुजस्ते जगदुपकरणाय!
अनुजानीहि कवनकरणाय!!
मातस्तव चरणकमलकृपया!!
अरुणिम्ना सुकृतफलं
धवलिम्ना हृदयतलं
मातस्तवचरणकमलकृपयाभवताल्लसितम्!!
प्रार्थनमुत्सर्पि शुभं साधनमभिरामम्
चिन्तनमुद्योतकरं धारणमभिरामम्
चन्द्रिकया नयनजलं
मालिकया सहजबलं
मातस्तव चरणकमलकृपया भवतादमृतम्!!
श्रावणघनवर्षणमिव कवलनम्मे प्रीतम्
रोदरमृदुगुञ्जनमिव सुखदम्मे गीतम्
इन्दिरया सुखसदनं
गीतिकया मधुवदनं
मातस्तव चरणकमलकृपया भवतान्महितम्!!
एकप्रख्यौ भवतां प्रकटनपरिणामौ
एकप्राणौ भवतां प्रवरधर्मकामौ
वन्दनया व्याहरणं
क्रन्दनया संस्तवनं
मातस्तव चरणकमलकृपया भवताज्जनितम्!!
निखिलं जगन्मदीयम्!!
द्विद्विगुणितं तुरीयम्
निखिलं जगन्मदीयम्!!
धरा मदीया नभो मदीयम्
दिशो मदीया जलम्मदीयम्
अखिलं स्थिरम्मदीयम्
निखिलं जगन्मदीयम्!!
गतिर्मदीया फलम्मदीयम्
मतिर्मदीया शुभम्दीयम्
विपुलं सुखम्मदीयम्
निखिलं जगन्मदीयम्!!
मा परितापय मा परिपीडय
कमपि देहिनम्मा परिकीलय
सहजमेव गमनीयम्
निखिलं जगन्मदीयम्!!
यदवधि कलितमिदं तव रूपम्!!
यदवधि कलितमिदं तव रूपम्
नन्दनवनजविबुधतरुसुममिव निखिलयुवतिमुखभूपम्!!
तदवधि सुतनु! हृदयहरिणोऽयं ताम्यति भवदनुलीनः
शून्यमुपैति विरौति करुणमिव तपति सततमतिदीनः!!
गणयति न खलु दिवसपरिणमतं नैव च रजनिविभातम्
खादति पिबति चलति न निषीदति गृह्णाति न वरवातम्!!
इन्द्रियनिवहछलितपरितोषो रहसि विहितरतिरागः
रूपजलधिजलमज्जितकायः क्वापि न भवति सरागः!!
त्वमसि मृगाक्षि ! मृगान्वयरत्न यासि न कथमनुकूलम्
यन्नयनेन नयनवत्यसि भुवि दहसि तमेव समूलम्!!
शिखरिणि! शमय विलम्बमनल्पं विरचय नय सदुपायम्
सम्भावय वदनामृतकृपया स्ववशंवदगतमायम्!!
मदयत्यनिशं मृदुकं हृदयम्!!
गलदश्रुकथा त्वदपायमारौ प्रसभं निहता न हता जडता
मदिराक्षि! तव स्मृतिरेव कथं मदयत्यनिशं मृदुक्तं हृदयम्!!
नयनावधिरेव बभूव रतिः
ननु कण्ठपथातिथिरेव मतिः
हरिणाक्षि! तवाचरणं तदपि ग्लपयत्यनिशं मदुकं हृदयम्
मदिराक्षि! तव स्मृतिरेव कथं मदत्यनिशं मृदुकं हृदयम्!!
शिवहाससिता तवदेहलता
ननु मोहमयी कटुता मृदुता
वरटाक्षि! तव स्तिमितं नयनं द्रवयत्यनिशं मृदुकं हृदयम्
मदिराक्षि! तव स्मृतिरेव कथं मदत्यनिशं मृदुकं हृदयम्!!
त्वदृतेऽयमहं न भवामि शुभे
अणुकं परितोषसुखं न लभे
चटुलाक्षि! वचस्तव बोधहरं जड्यत्यनिशं मृदुकं हृदयम्
मदिराक्षि! तव स्मृतिरेव कथं मदत्यनिशं मृदुकं हृदयम्!!
दर्शं दर्शं त्वाम्!!
दर्शं दर्शं त्वामतिहर्षं हृदयं सुतनु जगाम
मलयसततगतिमन्दिरमथवा विधुकिरणानां धाम!!
मनसि सुखदरणरणकं जातम्
पुलकनिकायकरम्बितगात्रम्
कलितपुरन्दरविभमदृश्यत सार्थकमिव तव नाम
दर्शं दर्शं त्वामति हर्षं हृदयं सुतनु! जगाम!!
किन्नु कृतं सुकृतं मुद्रिकया
येन धृता खलु साऽनामिकया
नामवताऽपि मया नोऽवाप्तं तव कलकुन्तलदाम
दर्शं दर्शं त्वामति हर्षं हृदयं सुतनु! जगाम!!
अयि पाषाणि! शमयकौलीनम्
स्मर शुभवृत्तं प्राक् कालीनम्
संस्पर्शेण भवसि पतिकामा प्रकटय ननु निजधाम
दर्शं दर्शं त्वामतिहर्षं हृदयं सुतनु! जगाम!!
मृदुरहमस्मिगगनघनबन्धुः
त्वं मृदुरसि करुणामृतसिन्धुः
मत्वा त्वन्मयेव जगदयं निखिलं जनो ननाम
दर्शं दर्शं त्वामतिहर्षं हृदयं सुतनु! जगाम!!
तर्त्तुं विरहपयोधिविशालम्
शक्नोमि न कथमपि भवजालम्
तदपि तितीर्षा कापि बलवती चेतसि न खलु शशाम
दर्शं दर्शं त्वामतिहर्षं हृदयं सुतनु! जगाम!!
ईदृक् पिनाकपाणिं वन्दे!!
हलाहलमपि पायं पायं जगदमृतमयं विभयङ्करोति
शङ्करपदवीमप्यारूढः कल्पस्यान्ते प्रलयङ्करोति!!
दुरमङ्गलवेषधरोऽपि शुचिः
अभिरूचिहीनोऽपिविचित्ररूचिः
ईदृक्पिनाकपाणिं वन्दे
ईदृक्त्रिशूलपाणिं वन्दे!!
यः सन्नपि भूतपतिर्निस्स्वस्त्यक्ताहारोऽपि च पञ्चमुखी
कन्दर्पविनाशकृदपि नित्यं तुहिनाचलसुतया परमसुखी
दाता सन्नपि यो दिगम्बरः
मूण्डी तुण्डी ननु भवम्भरः
ईदृग् विचित्ररूपं वन्दे
ईदृक्पवित्रभूपं वन्दे!!
प्रतिपलं क्षालयतितरामहो गङ्गा यत्कज्जलजटाऽटवीम्
वाहनकर्मणि युक्तो नन्दी विधुलेखाऽऽप्नोति किरीटछवीम्
गणपतिस्तनूजौ सेनानि
जाया करुणार्द्रा रुद्राणी
ईदृङ्निधानमूलं वन्दे
ईदृग् विधानकूलं वन्दे!!
महानसधूमतामेति प्रिये! मम कौशलम् निखिलम्!!
भृशं मलिनायते नयनम्
गरलविशिखायते शयनम्
सुहासिनि! छिन्धि सम्प्रति बन्धनं संशयततीजटिलम्
महानसधुमतामेति प्रिये! मम कौशलं निखिलम्!!
अमोदा शर्वरी जाता
न चन्द्रोऽप्यस्ति यत्त्राता
त्वमेवैका नु माणवकं सभाजय मां तृषातरलम्
महानसधुमतामेति प्रिये! मम कौशलं निखिलम्!!
न ते पवनेऽपि सन्देशः
न वा प्रकृतौ लसद्वेषः
कथं खलु धारये सुभगे! वृथाऽऽत्मानं व्यथाविरलम्
महानसधूमतामेति प्रिये! मम कौशलं निखिलम्!!
नभसि विभाति चमत्कृतचन्द्रो भाति चन्द्रमसि छाया
सरसि विभाति सरागकमलिनी कमलिन्यामलिजाया
भाति भवने वधूटी षोडशी सदङ्गना
भाति गगने मुदी सतारका निरञ्जना!!
क्षणे क्षणे यन्नवतोपेतं प्रभवति तदेव रूपम्
क्षणे क्षणे यज्जडतोपेतं भवति तदेव विरूपम्
भाति विजने वसन्तकलकण्ठीवन्दना
भाति भवने वधूटी षोड्शी सदङ्गना!!
प्रीतिस्सा बध्नाति नायक हरिणं या वागुरया
भीतिस्सा या कृन्तति हृदयं बद्धा भिया विधुरया
भाति कवने विलक्षणा विरूढा व्यञ्जना
भाति भवने वधूटी षोडशी सदङ्गना!!
देहे भाति मनो दुर्ललितं प्रीतिर्मनसि विभाता
प्रीतौ निष्ठा भाति पुराणी, सैव पिता सा माता
भाति नयने दिशा प्रतीची मञ्जुदर्शना
भाति भवने वधूटी षोडशी सदङ्गना!!
अमृतं वर्षति नयनपयोदो हृदि जनयत्यनुरागम्
अनुरागोऽयं सृजति युगलकं सुखमन्दिरमविभागम्
भाति हवने हिरण्मयी हरेस्समर्चना
भाति भवने वधूटी षोडशी सदङ्गना!!
हृदयेन किन्न सोढम्?
हृदयेन किन्न सोढं गरलायितं त्वदीयम्
नयनेन किन्न सोढं शबलायितं त्वदीयम्!!
विकला निशा व्यतीता विकलं दिनं व्यतीतम्
अवलोकितं नु सर्वं विपदग्निना परीतम्
दूरीबभूव सौख्यं पीयूषजं मदीयम्
मनसैव किन्न सोढं गगनायितं त्वदीयम्!!
अङ्के निधाय चन्द्रं रजनी बभूव राका
पवनं निधाय शीर्षे दोधूयते पताका
लक्ष्यं ययौ समेषां परिपूरणं तदीयम्
कृपणेन किन्न सोढं कृपणायितं त्वदीयम्!!
विगतो वसन्तकालो मलयानिलोऽपि यातः
अवधिः प्रतिक्षणानां प्रलयावधिस्तु जातः
गलितं मरन्दवृत्तं पलिता लतावलीयम्
मधुपेन किन्न सोढं कुटिलायितं त्वदीयम्!!
अयमेव मे सुमेरुः कल्पद्रुमोऽप्ययम्मे
अयमेव मेऽन्तरात्मा स्वर्गाश्रमोऽप्ययम्मे
आलिङ्गतिस्म दीपं मत्वेति शं स्वकीयम्
शलभेन किन्न सोढं प्रलयायितं त्वदीयम्!!
आकर्ण्य वेणुनादं विस्मृत्य कृत्यजातम्
अपहाय वैभवं स्वं कुञ्जं वनं प्रपातम्
विश्वस्य यत्यगन्ध पदमाययौ त्वदीयम्
हरिणेन किन्न सोढं वधिकायितं त्वदीयम्!!
भवसागरं न जाने भवतारणं न जाने
त्वामेकमेव जाने त्वामेकमेव जाने!!
तरणी न वर्तते मे धरणी न वर्तते मे
शरणं न विद्यते मे मरणं न विद्यते मे
आत्मानमेव सर्वं भवतोऽपरं न जाने
त्वामेकमेव जाने त्वामेकमेव जाने!!
कुत आगतोऽस्मि भूमौ कस्मात् कदा किमर्थम्
विकलेन्द्रिये शरीरे कियदस्त्यहो मदर्थम्
समधीत्य सर्वशास्त्रं न तदेव साधु जाने
त्वामेकमेव जाने त्वामेकमेव जाने!!
ब्रह्माऽसि सृष्टिमूलं वैशेषिके विशेषः
न्याये त्वमीश्वरोऽसौ सांख्येऽप्यसङ्गवेषः
तदपि त्वदीयरूपं मुरलीधंरं विजाने
त्वामेकमेव जाने त्वामेकमेव जाने!!
वचनीयता गता मे दृष्ट्वा तवाधिकरणम्
ननु दीनता मृता मे दृष्ट्वा तवैकशरणम्
जननं स्थितिं प्रयाणं त्वामन्तरा न जाने
त्वामेकमेव जाने त्वामेकमेव जाने!!
न तथा बिभेमि लोकाद् यदि वा पतामि पङ्के
इदमेव यचनम्मे प्रभवान्यहं त्वदङ्के
पितरं सखायमिष्टं स्वजनोत्तमं नु जाने
त्वामेकमेव जाने त्वामेकमेव जाने!!
नलिनदलनिलीना वसति मधुकरीयम्
मृदितमधुरलीला स्मरति शं स्वकीयम्!!
करुणकटुनिदाधे दर्शिता येन रीतिः
अपर इव स कान्तो मल्लिकाऽऽबद्धगीतिः
दयितसुखविहीना विगणयति तदीयम्
मथितमदनलीला स्मरति शं स्वकीयम्!!
तरुषु न दलजालं वल्लरी नो लतायाम्
नभसि न च हिमांशुः कौमुदी नो निशायाम्
विपदुदधिविलीना भवति भवदरीयम्
शमितगमनलीला स्मरति शांचकीयम्
इह न कमुपयाता भाग्यचक्रारपङ्क्तिः
मिलतिमधुविभाते पतति निशि विपत्तिः
कलितनियतिलीला वयति हृदि तुरीयम्
अहह! परमदीना मधुपसहचरीयम्!!
अलमलं कथनेन कामिनि
अलमलं व्यथनेन कीमिनि!!
तव मुखेऽमृतलहरीलेखा
ननु मनसि कटुगरलरेखा
अलमलं ग्रथनेन भामिनि
अलमलं कथनेन कामिनि!!
वर्तिकै कज्जलवति त्वम्
नयसि नाशं स्नेहतत्त्वम्
अलमलं ज्वलनेन मानिनि
अलमलं कथनेन कामिनि!!
मनसि किञ्चिद्वचसि किञ्चित्
दृस्यते कर्मणि च किञ्चित्
अलमलं छलनेन दामिनि
अलमलं कथनेन कामिनि!!
तवकृतेमृत्पात्रशेषः
अयमहोऽस्मि विलीनवेषः
अलमलं व्यसनेन यामिनि
अलमलं कथनेन कामिनि!!
अये प्रभाता रजनि प्राच्यामुदयति दीधितिमाली!!
वहती सगन्धसमीरोऽमन्दम्
वितरति दिशि दिशि सुममकरन्दम्
विलसति सरसि सरसिजं रम्यं म्लायति ननु शेफाली
उदयति दीधितिमाली!!
देवायतने नदति मृदङ्गः
प्रतिशाखं प्रयटति विहङ्गः
गायति पिको विकचसहकारे नृत्यति शिखी कपाली
उदयति दीधितिमाली!!
उतिष्ठ न कुरु मृषा विलम्बम्
नभसि निभालय दिनकरबिम्बम्
श्रियेप्सितः स्यात्कथं दुरापो भव रे साहसशाली
उदयति दीधितिमाली!!
पुनरायाति न विगतः कालः
कं खलु जहाति कालव्यालः
द्रुतमनुकूलय जीवनलक्ष्यं त्वं गुणगणमणिमाली
उदयति दीधितिमाली!!
चिन्तय सकृदथ भारतदेशम्
जलधित्रयनगपतिपरिवेशम्
एतद्रजसा सज्जय भालं कलिता यदङ्कपाली
उदयति दीधितिमाली!!
जयत्वियं वसुन्धरा जयत्वीयं वसुन्धरा
रघोरियं यदोरियं कुरोरियं वसुन्धरा!!
अनन्तलोकतोऽपि शान्तिदायिनी गरीयसी
पुरन्दरस्य बज्रतोऽपि पुष्कलं द्रढीयसी
वयं यदीयरक्षणे निरन्तरं पुरस्सराः
तुषारशैलमण्डिता जयत्वियं वसुन्धरा!!
न हिन्दवो महामदा न नानकावलम्विनः
न शाक्तशैवतान्त्रिका न जैनबौद्धयोगिनः
परस्परं पृथङ्मता न वर्ततेऽन्यथा धरा
ऋतम्भरा सनातनी जयत्वियं वसुन्धरा!!
मुखे जयध्वनिस्तथा करे त्रिवर्णकध्वजः
पदद्वये दृठा गतिर्गले विचञ्चलस्रजः
वयं प्रभञ्जनोपमा अरातिरोधतत्पराः
शकारिशौर्यरक्षिता जयत्वियं वसुन्धरा!!
न दुर्नयं सहामहे न दुर्नयो विचीयते
स्वराष्ट्रगौरवोचितं हि केवलं विधीयते
वयं प्रयाणगत्वराः प्रतिक्षणं प्रसृत्वराः
सुरैरपि प्रभाविता जयत्वियं वसुन्धरा!!
वयं हि लोकतान्त्रिका ऋतैकपक्षपातिनः
सुहृत्तमाः परन्तु वैरिणां कृतेऽतितापिनः
न भेददर्शिनो वयं न चापि वृत्तमत्सराः
त्रिलोकतो महीयसी जयत्वियं वसुन्धरा!!
हे विदे! गतोऽसि यदनृतं
किम्मया तवाहितं कृतम्!!
जीवनं कथं प्रभापथं न नीयते
निष्कलङ्कपरिचयः कथन्न दीयते
केन राहुणा समावृतम्?
किम्मया तवाहितं कृतम्!!
ये मया निरन्तरं जनास्समर्चिताः
ते विश्चितोऽपि मां प्रतीषुभिर्धताः
हन्त कीदृसं प्रकल्पितं?
किम्मया तवाहितं कृतम्!!
दृश्यते न कैरपि प्रभो! ममोद्यमः
गृह्यते न कैरपि प्रभो! मम श्रमः
भाग्यदोरकं न मे धृतम्
किम्मया तवाहितं कृतम्!!
प्रेषितोऽहमस्मि तातमन्तरा त्वया
धारितोऽस्मि दुर्ग्रहैरनारतं त्वया
क्वास्ति मह्यमीश! तेऽमृतम्
किम्मया त्वाहितं कृतम्!!
एकलोऽस्मि भूतले न में सहव्रती
साग्रहं समर्च्यते सदा सरस्वती
जीव्यते तयैव साम्प्रतम्
किम्मया तवाहितं कृतम्!!
शं प्रयाति पश्यतस्त एव वर्तिका
प्राणकामिनी विभाति दूरभर्तृका
भागधेयमस्ति निर्जितम्
किम्मया तवाहितं कृतम्!!
तव न जाने हृदयम्
प्रेयसी! तव न जाने हृदयम्!!
ननु रथाङ्ग इव हृद्विहगो मम कलयति कटुसमयम्!!
सन्ध्यारूचिरिव नभसि निलीना
कोकनदं व्यपहाय विलीना
हृद्भ्रमरो मम रोदिति धावति गणयति गरलमयम्!!
नादृश्यत सम्प्रति तव सुषमा
नाश्रूयत कलकण्ठमधुरिमा
हृद्विधुरो मम ताम्यति मुह्यति पृच्छति तव विषयम्!!
पार्वण शशिनि तवाननकान्तिः
पारावतमिथुने तव शान्तिः
हृद्गुह्यकआलपति पयोदं तव कुशलं सभयम्!!
पारेजलधिजलं त्वं नीता
केनाभिनवरक्षसा क्रीता
हृद्राधव उन्मद इव ककुभः पश्यति हृतविनयम्!!
वैधेयेषु वसतिरिह विहिता
प्रालेयेषु यथा नवकलिका
हृद्वयतितो ज्वलदलनपरीतो दाहयति प्रणयम्!!
प्रेम भवति भुवनेश्वर देयम्
श्रुतमिति मया श्रवणपुटपेयम्
हृच्छलितो न विश्वसिति सम्प्रति सत्यं विगतदयम्!!
त्वां विना दिनम्मया यापितं यथातथा
न च मनो गतं सुखं न च शमं गता व्यथा!!
तव विलोलकैशिकं नो मयाऽवलोकितम्
तव शिरोविभूषणं नो मयाऽनुलोचितम्
गृहशुकेन शोभने! श्राविता न ते कथा
त्वां विना दिनम्मया यापितं यथातथा!!
तव दिदृक्षया शुभे! प्रयतितं नु निद्रया
रुचिरकल्पनाचयं समनुभूय तीव्रया
नतसमुत्थिताश्रुभिः किनेतु नाशिता प्रथा
त्वां विना दिनम्मया यापितं यथा तथा!!
नभसि शून्यमण्डिते यन्मया प्रकल्पितम्
मनसि दैन्यखण्डिते यन्मया प्रजल्पितम्
आधिभिस्सुदुस्सहैस्सम्बभूव तद् वृथा
त्वां विना दिम्मया यापितं यथा तथा।।
आशया नियन्त्रितं निजविनोदवैभवम्
प्रोद्गते निशामुखे भव्यमेति कैरवम्
किन्तु कौमुदी घनैर्भाविता न खलु तथा
त्वां विना दिनम्मया यापितं यथा तथा!!
जीव्यते नु साम्प्रतं समवलम्ब्य ते स्मृतिम्
मतकृतेऽनपायिनीं हृतरतीशरतिसृतिम्
अस्मिता महीयते ह्येवमेव नान्यथा
त्वां विना दिनम्मया यापितं यथा तथा!!
तादृशमेव नयनयुगलं मम लक्ष्यम्
यस्य कदापि न भवति जनोऽयं भक्ष्यम् !!
यस्मिन् प्रवहति सुरतटिनीजलधारा
अयुतनियुतकटुकलुषनियंत्रणकारा
तादृशमेव नयनयुगलं मम गेयम्
यस्य कदापि न भावति जनोऽयं हेयम्!!
यस्मिन् विलसति सजलपयोधरमाला
समुपचिते तपने कृतवृष्टिविशाला
तादृशमेव नयनयुगलं मम लोच्यम्
यस्य कदापि न भवति जनोऽयं शोच्यम्!!
यस्मिन् प्रभवति पारसमणिरिव शक्तिः
धृतलौहस्वर्णीकरणामृतभक्तिः
तादृशमेव नयनयुगलं मदपेक्ष्यम्
यस्य कदापि न भवति जनोऽयमुपेक्ष्यम्!!
यस्मिन् वाति मरुद्गङ्गासुस्नातः
जितनन्दनवैभ्राजचैत्ररथवातः
तादृशमेव नयनयुगलं मम याज्यम्
यस्य कदापि न भवति जनोऽयं त्याज्यम्!!
यस्मिन् सततं समुच्छलति वात्सल्यम्
करुणकृपापाथेयकलितसाकल्यम्
तादृशमेव नयनयुगलं मम पद्यम्
यस्य कदापि न भवति जनोऽयमवद्यम्!!
क्व नु रुचिरं विशोध्य गन्तव्यम्
जीवनं वर्तते न हन्तव्यम्!!
न ममास्थीनि याचते मधवा
क्व नु रुचिरं विचार्य दातव्यम्!!
भोजराजो न मां पुरस्कुरुते
क्व नु कवनं विधाय गातव्यम्!!
नावजानाति राजकन्याऽपि
कालिदासेन तत्कथं भाव्यम्!!
हर्षदेवैर्भुजङ्गतां नीतः
क्व नु चरितं तदीयमाश्राव्यम्!!
न च मथ्नाति कोऽपि हृत्सिन्धुम्
लसदमृतं कथन्नु पातव्यम्!!
न कलौ प्राप्यते मुरारिपदम्
क्व नु सरसं मनो विधातव्यम्!!
दावदहनैर्जगत्परीतमहौ
क्व नु शरणं विधाय यातव्यम्!!
सकृदेव यद्यपि लक्षितं मुषितस्तथापि वरानने
सलिलल्मया परिरक्षितं तृषितस्तथापि वरानने!!
घनसारचम्पकचन्दनम्
सुरतरुपुरन्दरनन्दनम्
किमहो मया न वशीकृतं छलितस्तथापि वरानने!!
सुखदा न पर्वनिशीथिनी
कैरवकदम्बकदीपनी
प्रतितारकं नु शशीकृतं ग्लपितस्तथापि वरानने!!
वाते वहति ननु शीतले
आह्लादिते जगतीतले
तव कायसौरभमादृतं क्षपितस्तथापि वरानने!!
श्रुतिसुखदरोदरगुञ्जनम्
स्वरपञ्चमैः पिककूजनम्
मृदुशिञ्जितं दयितीकृतं भ्रमितस्तथापि वरानने!!
क्वव नु याचते मम याचना
क्व नु वन्दते मम वन्दना
विनिवेदनं सततं कृतं क्षुधितस्तथापि वरानने!!
त्वयि कल्पितं विबुधार्चनम्
सौभाग्यमपि मणिकाञ्चनम्
त्वय्युपचितिर्विनिवेशिता वलितस्तथापि वरानने!!
शशिनं विहाय सुखं न ते
कुमुदिनि! वदामि हिताय ते
तुहिनीकृतो विरहानलो ज्वलितस्तथापि वरानने!!
श्रृणु रे हृदय ! कोऽपि मन्त्रयते
अनृतं भवति सदा गतिहीनं सत्यमेव जयते!!
नक्षत्राणि वियति दृश्यन्ते
भानुरूचिं न तथापि लभन्ते
स्थानबलेन किमपि नहि सिद्धयति नियतिनटी तनुते
श्रृणु रे हृदय ! कोऽपि मंत्रयते!!
अर्को भवति रविर्घनसारः
भवति स एव विटपिमन्दारः
नामबलेन किमपि नहि सिद्धयति पौरुष एव गते
श्रृणु रे हृदय ! कोऽपि मंत्रयते!!
सजलजलधरो वर्षति सलिलम्
तमनुकरोति दृगम्बुजयुगलम्
अश्रु तदपि सागरतटिनीनां गुरुतां नो सहते
श्रृणु रे हृदय! कोऽपि मंत्रयते!!
हृद् विद्राव्य संस्फुटति गीतम्
देवानाम्प्रियकैर्न गृहीतम्
कोटिजनानाममृतमिदं यद्विषमेकस्य कृते
श्रृणु रे हृदय ! कोऽपि मंत्रयते!!
प्रतिदिनमेव निमज्जति सविता
भिन्नेऽहनि भुविकोऽपि न भविता
स्मृतिपथमेति न किमपि जनानामुपकारेभ्य ऋते
श्रृणु रे हृदय ! कोऽपि मंत्रयते!!
आलोचयन्ति येऽपरं पश्यन्तु ते स्वयम्
संशोधयन्ति येऽपरं शुध्यन्तु ते स्वयम्!!
अन्यस्य दोषदर्शने व्यर्थं प्रयत्यते
निन्दन्ति येऽपरं सदा निन्दन्तु ते स्वयम्!!
आकाशशथूत्कृतैर्न किं हानिर्निजाभवेत्
संक्षोभयन्ति येऽपरं क्षुभ्यन्तु ते स्वयम्!!
गन्धं ग्रहीतुमिष्यते यैरेव पाणिना
विज्ञापयन्ति येऽपरं जानन्तु ते स्वयम्!!
वेदानधीत्य सर्वत- षड्दर्शनानि च
सम्बोधयन्ति येऽपरं बुध्यन्तु ते स्वयम्!!
आरोप्यतेऽधिबालुकं यैरेव भित्तिका
संस्थापयन्ति येऽपरं तिष्ठन्तु ते स्वयम्!!
प्रज्ञा पथिप्रदर्शिका जाता न किं तया
विद्रोहयन्ति येऽपरं द्रुह्यन्तु स्वयम्!!
विद्यामवाप्य यैरहो विनयो न रक्षितः
सन्तापयन्ति येऽपरं ताम्यन्तु ते स्वयम्!!
किं जलेन तर्पणं स्वयम्मृता यदा तृषा
किं पथा मुदर्पणं स्वयंस्मृता यदा दिशा!!
व्योम्नि रे बलाहकाः परिभ्रमन्ति सत्वरम्
नर्तयन्ति विद्युतो नदन्ति च प्रसृत्वरम्
किं वृथैव गर्जनेन मेदिनी मदालसा
नो यदाऽवमज्जिता जलप्रवाहकैः कृशा!!
निद्रयाऽभिभावितो निमील्यनेत्रकद्वयम्
नागरोऽभिवाञ्छति प्रियोपगूढमव्ययम्
किम्मुधाऽऽत्मवञ्चनेन शून्यया च किं दृशा
सत्यमेव चुम्बिता यदि प्रिया व्रतङ्कषा!!
याहि रे द्विरेफ! मङ्गलं न मेऽनुचिन्तितम्
वैभवे समागतोऽसि सादरं समीहितम्
मल्लिकेति धिक्करोति लम्पटं सुमत्विषा
किम्मधुव्रत! त्वया मयाऽनुकूलिता दशा!!
अग्रजोऽनुजोऽथवा पिता जनन्यभीप्सिता
बन्धुराश्च बन्धवो वयं न कैर्विनाकृताः
किं कुटुम्बबन्धनेन बन्धनं न किं मृषा?
किं पितृव्यकेण हन्त! भङ्गुरेण विद्विषा??
शैशवे न लालिता न यौवने समादृताः
हन्त रे समाज! यत्त्वयैव भिक्षुकीकृताः
साम्प्रतं न विद्यसे कृतघ्न! कानु ते दशा
साम्प्रतं वयं समुत्थिता विरूढसाहसाः!!
कमलया न हसितं मृदुलया न हसितम्
अये भाग्यबाले! त्वयैवोपहसितम्!!
स्फुरच्चन्द्रिका शर्वरीप्राणभूता
चकोराङ्गनायाः हृदानन्दपूता
सुखं रे तथापि क्षणं नैव मिलितम्
अये मेघमाले! त्वया किन्न छलितम्!!
तपोभिर्निबद्धो विहायात्मवासम्
स्वयं योऽभ्युपेतो हरस्त्वत्सकाशम्
समालिङ्गनं नो तथापि प्रभवितम्
अये शैलबाले! त्वया किं विफलितम्!!
पिपासाकुलीभूय हा चञ्चरीकः
विलीनस्त्वयि प्रोषितश्चाप्यभीकः
गते वासरे तत्सुखं क्वापि गलितम्
अये पुष्पहाले! त्वया किन्तु कलितम्!!
सदा गोपितं यत्प्रयत्नैर्मदीयैः
समाराधितं मौनमन्त्रैस्त्वदीयैः
तदेवाद्य दुःखं कथञ्चित् प्रबलितम्
अयेऽपाङ्गशाले! त्वया किं विलुलितम्!!
धनं नैव याचे जनं नैव याचे
शपामि प्रभो! सम्पदं नैव याचे
समीहे मनो मे भवेत्त्वच्छबलितम्
मुकुन्देन ललितं विकलितं तरलितम्!!
सहजं न कृतं येन तमहं न कृतं मन्ये
सहजं न वृतं येन तमहं न वृतं मन्ये!!
वधिकस्तु सदा घासैः छागं ननु पालयते
तल्लक्ष्यमपि स्पष्टं मांसार्थमिदं कुरुते
सहजं न मृतं येन तमहं न मृतं मन्ये!
सहजं न कृतं येन तमहं न कृतं मन्ये!!
उद्यानभृता नूनं सुमनानि निषेव्यन्ते
स्वार्थान्धतया किन्नो वृन्ताद्धि वियोज्यन्ते
सहजं न चितं येन तमहं न चितं मन्ये
सहजं न कृतं येन तमहं न कृतं मन्ये!!
क्षीरेण समं सख्यं सलिलस्य भुवि ख्यातम्
दौर्जन्यमलम्पाके तस्यापि तथा ज्ञातम्!
सहजं न धृतं येन तमहं न धृतं मन्ये
सहजं न कृतं येन तमहं न कृतं मन्ये!!
प्रेम्णा न यदिह सिद्धं तद् बाहुबलैराप्तम्
न तथापि पथा स्वल्पं केनापि यशौऽवाप्तम्
सहजं न जितं येन तमहं न जितं मन्ये
सहजं न कृतं येन तमहं न कृतं मन्ये!!
प्राणाश्च परित्यक्ताः शलभेन शिखालोके
केनापि न विज्ञातं प्रीतौ नु मनश्शोके
सहजं न हुतं येन तमहं न हुतं मन्ये
सहजं कृतं येन तमहं न कृतं मन्ये!!
क्व नु वसतिः? हरिभवने
क्व नु विरतिः ? भुजगजने!!
क्व नु शरणम्? शम्भुमतौ
क्व नु मरणम्? तीर्थपतौ!!
क्व विकारः ? वपुषि सखे
क्व विचारः? मनसि सखे!!
क्व नु शान्तिः? सदुपकृतौ
क्व नु कान्तिः? हृद्वधृतौ!!
क्व नमस्या? शमितरवे
क्व तपस्या? भ्रमितभवे!!
क्व नु शोध्यम्? नवलगृहे
क्व नु बोध्यम्? कटुकलहे!!
क्व नु कवनम्? शुभचरिते
क्व नु हवनम्? शिखिनि तते!!
विधुमभिसरति कुमुदिनी रे मातः किमु करवाणि
प्रोषितपतिका विरहिणी रे मातः किमु करवाणि!!
पवनो वहति मलयगिरिसूतः
रोवातटगतवञ्जुलपूतः
वितरति सुममधु नलिनी रे मातः किमु करवाणि!
प्रोषितपतिका विरहिणी रे मातः किमु करवाणि!!
रौति रसालतरौ कलकण्ठी
श्रुतिकुहराय भवति ननु शुण्ठी
न खलु भवामि कुशलिनी रे मातः किमु करवाणि
प्रोषितपतिका विरहिणी रे मातः किमु करवाणि!!
वर्षति दृगिह सततसलिलौघम्
तदपि न शमयति विलुलितशोकम्
भाति सपत्नीव रजनी रे मातः किमु करवाणि
प्रोषितपतिका विरहिणी रे मातः किमु करवाणि!!
निर्दय दयति! वयसि कलिकाताम्
प्रेषयसे न समागमवार्ताम्
हसति ननाम्दा विभविनी रे मातः किमु करवाणि
प्रोषितपतिका विरहिणी रे मातः किमु करवाणि!!
व्यर्थमहो विहितौ व्रतनियमौ
द्वावपि विधुतपनौ हतकयमौ
प्रभवति नियतिनियमिनी रे मातः किमु करवाणि
प्रोषितपतिका विरहिणी रे मातः किमु करवाणि!!
रौति कोकिला मदालसा रसालतरौ
गोपिता तमालतरौ रे!!
क्षणं पल्लवे निलीय
मञ्जरीरसं निपीय
स्तौति सम्मुखं वसन्तकं रसालतरौ
गोपिता तमालतरौ रे!!
नन्दनन्दनं विहाय
कीर्तिनन्दिनी सुखाय
वेत्ति नेषदप्यनामयं रसालतरौ
गोपिता तमालतरौ रे!!
मन्दमन्दगर्जनेन
भूरिभूरि वर्षणेन
मेघमालिका महीयते रसालतरौ
गोपिता तमालतरौ रे!!
मृगी शाद्वलं चिनोति
शिखी नर्तनं करोति
केकिनी च दुर्मनायते रसालतरौ
गोपिता तमालतरौ रे!!
अश्रुपातमाचरन्ति
वत्सकान्न लालयन्ति
अन्तरेण हरिं धेनवो रसालतरौ
गोपितास्तमालतरौ रे!!
राधा वादयति मुरलीमये माधव!!
प्रस्थितोऽसि किं विहाय
वैरिणां विनाशनाय
माता मार्जयति मुरलीमये माधव!!
रासमण्डलस्मृतेन
कापि गोपिका करेण
धीरा धारयति मुरलीमये माधव!!
क्व माधवेति भणन्ती
शून्यगगनं पठन्ती
स्निग्धा सारयति मुरलीमये माधव!!
सीघ्रमेहि हे मुकुन्द
नन्दनन्दन गोविन्द
चौरी चोरयति मुरलीमये माधव!!
नन्दनन्दनेन गोकुलं निकेतनीकृतम्!!
इतस्ततः परिलुठन्
धूलिधूसरीभवन्
क्वचिन्नृत्यति प्रगायति स्वमन्दिरे द्रुतम्!!
क्वचिच्चन्द्रमण्डलाय
क्वचित्तरूविहङ्गमाय
मातरं विलोकयन् विरौति चातकव्रतम्!!
क्वचिदुलूखलेऽच्युतः
जनन्यैव निगडितः
मणिग्रीवकूबरौ पुनाति लोकविस्मितम्!!
सङ्गचारिणां हिताय
चौरयोजनां विधाय
निभृतनिभृतमेव माधवोऽटतीह सन्ततम्!!
वेणुमोष्ठपुटीकृत्य
भुवनमण्डलं विजित्य
साम्प्रतं जगद्धिताय हरिर्याति सद्गतम्
नन्दनन्दनेन गोकुलं निकेतनीकृतम्!!
मुञ्च कोपने! मृषैव कृतं मानं रे!
मुञ्च मुञ्च कोपने! व्यलीकमानं रे!!
मेघमालिकाऽभ्युपैति
श्रावणे न को विभेति
हन्त! पापिना पिकेन हृतं ज्ञानं रे!!
दूरदेशतोऽनुधाव्य
कान्त आगतोऽनुभाव्य
साम्प्रतं न युज्यतेऽपरं प्रमाणं रे!!
द्वारदेहलीमुपेत्य
प्रीतिनिर्झरं समेत्य
त्वामुदीक्षते नताननो विमानं रे !!
मा विलम्बमयि कृथाः
मा प्रतीपमेव गाः
यच्छ सत्वरं प्रियाय रहः पानं रे!!
किं वृथैव रोदनेन
किं मृधैव कोपनेन
प्राघुणाय दीयते कथं न दानं रे!!
कान्त दुर्गति विभाव्य
याति कौतुकं न काऽद्य
चिन्त्यते कथं न सौहृदं विधानं रे!
मुञ्च कोपने! मृषैव कृतं मानं रे!!
हृदयमपि निर्घृण! तव नहि जाने!!
इन्दीवरमपि मधुकरमलिनम्
दृस्यत इह विधुरं ह्रदपुलिनम्
नयनमपि निर्दय! तव नहि जाने!!
मदयति नो पिकपञ्चमगीतम्
नोबध्नाति मनस्सदधीतम्
श्रवणमपि निष्ठुर! तव नहि जाने!!
वहति न परिमलमद्य समरः
मल्लीतरूरपि भवति करीरः
दयित! तव नासामपि नहि जाने!!
सुखयति नो गृहशुकसंस्पर्शः
न च रमयति नवतल्पविमर्शः
करभमपि निर्मम! तव नहि जाने!!
प्रोषितदयिते स्नेह उदारः
ध्वंसी भवति न किं सुखसारः
सुकृतमपि सहचर! तव नहि जाने!!
त्वयि ननु वृत्तमनोरथकामाम्
तपति बलीयः पञ्चशरो माम्
प्रणतिमपि मधुकर! तव नहि जाने
हृदयमपि निर्घृण! तव नहि जाने!!
गृहे-गृहे साधवो न वने-वने चन्दनम्
गजे-गजे मौक्तिकं न केन हन्त भाषितम्!!
आत्मनस्तमनूजा शुभा पार्वतीव पूता
मेनकाघृताचीसमा स्नेहसिन्धुभूता
कस्य पुत्रको न हरिर्वाटिका न नन्दनम्
गजे-गजे मौक्तिकं न केन हन्त भाषितम्!!
द्रौपदीव का न पाण्डवाभिभूतिकारणम्
रेणुकेव का न कल्पते दुरन्तमारणम्
ऊर्वशीव का न नर्तयत्यहो किरीटिनम्
गजे-गजे मौक्तिकं न केन हन्त भाषितम्!!
वल्लकीस्वरैरवाप को गजो न बन्धनम्
तृष्णयाऽतिसन्धितो न को रुरुर्मृतोऽचिरम्
कः कपोतको बबन्ध तण्डुलैर्न जीवनम्
गजे-गजे मौक्तिकं न केन हन्त भाषितम्!!
पीडयन्ति के न शक्तिभिर्निजं सहोदरम्
विद्ययैव के न योधयन्ति रे परस्परम्
दृश्यते धरातले मदाय कस्य नो धनम्
गजे-गजे मौक्तिकं न केन हन्त भाषितम्!!
साम्प्रतं मृषैव भाति पूर्वजाभ्युदीरितम्
यद्वृतं तदेव साधु सुन्दरं नु यत्कृतम्
यत्स्थिरं तदस्थिरं यदुज्ज्वलं तदञ्जनम्
गजे-गजे मौक्तिकं न केन हन्त भाषितम्!!
दुरितानि विधुतीनि कुरुते शुभानि साधु विदधाति रे
गङ्गे! तव नीरगाहनं वितनुते विबुधलोकमनुयाति रे!!
कमलारमणचारुचरणाब्जजनिते! त्रिपथगे!! त्वया
गङ्गे! विहितं न कस्य पापहरणं मनुजदेवदनुजस्य रे!!
धवलाम्बुलसितानि पुलिनानि सिकताविकसितानि रे
गङ्गे! बकहंससारसप्रचुरितानि नयनानि जडयन्ति रे!!
तव नीरमुकुरे विलसितं निशीथिनीशमवलोक्य रे
गङ्गे! प्रतिभान्ति मानसाम्बुनिवहे तरतिकोऽपिवरटो यथा
सुरलोकमुपगन्तुमथवा विरञ्चिना विरचितानि रे
गङ्गे प्रतिआन्ति रोहणाध्वफलकानि पवनैस्त्तरलितानि रे!!
श्रुतिसौख्यमुपयाति बधिरोऽन्धकोऽपि दृष्टिरचनामहो
गङ्गे! गलितोऽपि कुय़्टरोगदहनेन सुषमां वितनुते नरः!!
भुवि येऽपि पतिताश्शबलिताः कलङ्कपापलसिताश्च रे
गङ्गे! तव दर्शनेन तेऽपि सुगतिं समधिकां नु कलयन्ति रे!!
नन्दनायै न जीवनं जातम्
वन्दनायै न जीवनं जातम्!!
कर्गजं प्राप्य चापि निर्वर्णम्
तूलिकायै न जीवनं जातम्!!
प्रत्यहं सत्कृतं नु वात्याभिः
कल्पानायै न जीवनं जातम्!!
मन्दिरे राक्षसी समाविष्टा
अर्चनायै न जीवनं जीतम्!!
प्रीतिमालोक्य हन्त! वेश्यायाः
पिङ्गलायै न जीवनं जातम्!!
द्वेषमनुबूय मुञ्जदेवानां
बावनायै न जीवनं जातम्!!
दृष्टशौर्ये परातिसन्धाने
सान्त्वनायै न जीवनं जातम्!!
अर्गलां वीक्ष्य भागधेयानां
एषणायै न जीवनं जातम्!!
श्रृणोति कोऽपि न मे वाचिकं ददे कस्मै?
वृणोति कोऽपि न मे वाचिकं ददे कस्मै?
व्यथाकथेयमहो मामकी पुरावृत्ता
अनिर्व्यथे हि भवे वाचिकं दधे कस्मै?
विनम्रसौम्यघनैर्भो न किं ममापकृतम्
कदर्थितेऽत्र मरौ वाचिकं सुवे कस्मै?
विरोपितोऽपि न शं याति हा व्रणो भीमः
अवैद्यके हि पुरे वाचिकं स्तुवे कस्मै?
अये ममाम्रतरौ दृश्यते नु निम्बफलम्
स्वभाग्यचक्रमिदं वाचिकं लभे कस्मै?
अयाचितं न विधात्रा समर्पितं किं किम्
अयाचकेऽर्थिजने वाचिकं वृणे कस्मै?
पिकोऽधुना स विलीनोऽभिराजराजेन्द्रः
अशारदोपवने वाचिकं सहे कस्मै?
जीवनं रे जीवनं त्वां विना किमु जीवनम्
अयि विदलिते प्राणतलिके! त्वां विना किमु जीवनम्!!
वहति शीतलमन्दवायुः झम्पते सहकारवल्ली
कोकिलोऽपि विरौति मधुरं सौरभं वितनोति मल्ली
उपवनं रे ह्युपवनं त्वां विना किं ह्युपवनम्!!
नयनकज्जलजलवतीयं भाति पश्य कलिन्द कन्या
नन्दनन्दनचरणपङ्कजवहदमृतमाध्वीकधन्या
मधुवनं रे मधुवनं त्वां विना किमु मधुवनम्!!
स्तम्भितेयं कण्ठसरिणः मौक्तिकाम्बुविमण्डिता दृक्
चञ्चलौ चरणौ तदपि किं स्थीयते विमनायितं धिक्
बन्दनं रे वन्दनं त्वां विना किमु वन्दनम्!!
व्योम्नि पुनरपि जलदरसना भाति शम्पाकिङ्किणीका
ननु घनागमसुन्दरीयं प्रकटयति मदनं ह्यभीका
वर्षणं रे वर्षणं त्वां विना कुमु वर्षणम्!!
सौख्यमभवद् गगनकुसुमं यमनिशा मधुयामिनी रे
प्रणयरचना वागुराभून् मकररथ्यावासिनी रे
तर्पणं रे तर्पणं त्वां विना किमु तर्पणम्!!
तव सुकोमलबाहुपरिधौ बन्धनं यदहोऽनुभूतम्
अधरमदिरा या निपीता स्मरसुखं कलितं प्रभूतम्
बन्धनं रे बन्धनं त्वां विना किमु बन्धनम्!!
मयि समर्पितनिखिलजीवितवैभवेऽनुभवामि नित्यम्
अन्तरा मां मुक्तिरपि ते सुखकरी न वदामि सत्यम्
वैभवं रे वैभवं त्वां विना किमु वैभवम्!!
मया जीवनं जीवितं जीवितं रे!!
चरन्वै निकामं यदा मध्वविन्दम्
मयाऽऽकण्ठमास्वादितं स्वादितं रे!!
प्रदत्तं कयाचिद् यदा सानुरागम्
मया तत्सुमं स्वीकृतं स्वीकृतं रे!!
अतीतं न दृष्टं भविष्यं न जुष्टम्
मया केवलं वर्तितं वर्तितं रे!!
समाहृत्य पीडां छलं वञ्चनं वा
मया हृद्गृहं पूरितं पूरितं रे!!
समुत्था यदोद्भ्रान्तकौलीनवात्था
मया तत्कृतं नन्दितं नन्दितं रे!!
पिशाचं समालोक्य देवस्य पीठे
मया मन्दिरं वर्जितं वर्जितं रे!!
सुधाकुम्भमाशङ्क्य हालाहलान्तरम्
मया मार्दवं थूत्कृतं थूत्कृतं रे!!
न कस्यापि शत्रुर्न कस्यापि मित्रं
मया बन्धनं मोचितं मोचितं रे!!
समाहृत्य चेतो हृषिकानुबन्धं
मया चिन्मयं रञ्जितं रञ्जितं रे!!
न दुःखान्ततामेतु नाट्यं त्वदीयम्
मया व्योन्नि सम्भाषितं भाषितं रे।।
विनश्येन्न राजेन्द्रमिश्राभिजात्यम्
मया गीतमाश्रावितं श्रावितं रे।।
मधुरमधुरं गच्छ सुन्दरि! पिच्छिलः पन्थाः!!
घनपयोधरभारनमिता तव कटी विकटम्
ननु तदधिकं चित्रमपरं वहति सलिलघटम्
मुखरहंसकयुतचरणयोः का नु दीनकथा?
पिच्छिलः पन्थाः!!
त्वयि समर्पितचित्तवृत्तिर्मुषितहृदयोऽयम्
पश्य! पश्यति निर्भरं दयितः सदृक्तोऽयम्
आननाम्बुजमीलनं कथमिष्यते न वृथा!
पिच्छिलः पन्थाः!!
पतसि यदि तनुकं तरुणि! निपतेद्धि सौजन्यम्
मार्दवं रूद्यादहो जीयान्न सौन्दर्यम्
प्रकृतिभूता त्वं त्रिजगतां शिवशिवत्वकथा !
पिच्छिलः पन्थाः!!
तमीशकले! कथमसि दिने-दिने दीना?
कस्तव तापो रे का तव पीडा
कस्तव शापो रे मनसो व्रीडा
जाता येन त्वं सततं क्षीणा!!
चन्द्रस्तव रमणो रजनी दासी
कुमुदं तव मित्रं ककुभः काशी
म्लायसि तदपि त्वं परिभवपीना!!
क्व त्वाह्लादो रे क्व नु खलु शैत्यम्
क्व नु तव पाण्डुरता मधुरिमचैत्यम्
क्व नु खलु तनुशोभा मसृणनवीना!!
दूरे सितपक्षश्चिन्तय बाले
भविता किं वृत्तं भाविनि काले
नंक्ष्यति संज्ञाऽपि प्रत्नयुगीना!!
सम्प्रति नो स्निह्यति समदचकोरः
कोऽयं दुर्घटितः समयो घोरः
दृष्टा पापकथा स्खलितखलीना!!
कलितं शिवशीर्षे यत्सौभाग्यम्
विगतं तत्सर्वं श्रितदौर्भाग्यम्
बहुगुणशालिनि रे! तमसि विलीना!!
तप्तः प्रणयिजनो विशदालोके
सम्प्रति बन्धुस्तव कः खलु शोके
अनुभव दुश्चरणं कलुषधुरीणा!!
रूपाय तस्मै नमः!!
यूपाय तस्मै नमः!!
छलितो हि येन पुरूरवाः
देवर्षिरपि विकलीकृतः
प्राणैर्वियुक्तो दशरथस्तस्मै नमस्तस्मै नमः!!
क्वचिदाम्रपालीसंश्रितम्
क्वचिदपिकपालिखलीकृतम्
उपभुज्यतेऽथ विगर्ह्यते तस्मै नमस्तस्मै नमः!!
व्यपहाय भर्तृहरिश्वरम्
पशुपालमेव हि सस्वदे
ननु पिङ्गलातनुवासिने तस्मै नमस्तस्मै नमः!!
यदमोघमोहविमोहितः
संयोगितारतिकामुकः
शलभायतेस्म तृषानले तस्मै नमस्तस्मै नमः!!
रत्नावलीत्वमुपागतम्
छलयतितरां दयितं स्वकम्
श्रीरामगाथामृतकृते तस्मै नमस्तस्मै नमः!!
विद्यागजाननकल्पितम्
अभिराजभक्तमनारतम्
गतमेव सम्प्रति पण्यतां तस्मै नमस्तस्मै नमः!!
रज्जावहिभ्रमसन्निभम्
प्रतिपलमहो नश्यद्विभम्
परिणमति यद्धि शुभाशुभं तस्मै नमस्तस्मै नमः!!
महामाये! को नु भणतु महिमानम्!!
अभयं वितरसि करकमलाभ्याम्
नयनाभ्यां वरदानम्!
वदनं शशी दृशौ मार्तण्डः
दिग्वलयं परिधानम्!!
क्रोधोऽग्निः स्मितमपि नवकुसुमम्
करूणा खगकुलगानम्!!
पदजलमुदधिरासनं धरणी
गगनं नीलवितानम्!!
विन्ध्यगिरौ मैहरशिखरे वा
काञ्च्यां वससि समानम् !!
त्वमसि जननि! धनजनसुखदात्री
नीखिलसमृद्धिनिधानम्!!
विनतजनानां हरसि विपत्तिम्
दृप्तानामभिमानम्!!
यमपि निजीकुरुषे करुणामयि
तं विदधासि वदान्यम्!!
तातविरहितं मामभिराजम्
पस्यसि किन्न शयानम्!!
श्रान्तोऽहं भवमृदुवञ्चनया
त्वमसि जननि! जलयानम्!!
जीवय पोषय हासय वर्द्धय
प्रेरय काव्यललामम् !!