विषमपरिणयम्
पात्रसूची
सुन्दरदासः - कश्चिद् वणिक् ।
लावण्यवती - तस्य पुत्री ।
शान्तिदासः - तस्य भ्राता ।
देवीदासः - कश्चिद् वृद्धवणिक्; सुन्दरदासस्य जामाता ।
जयसिंहः - सुन्दरदासस्य श्यालः ।
मनोहरः - लावण्यवतीं कामयमानः कश्चिद् युवा।
दुःशीला - सुन्दरदासस्य भगिनी, देवीदासस्य भ्रातृजाया।
मञ्जरी - मनोहरस्य भगिनी ।
अन्याः स्त्रिय, श्मशान मनुष्यः, पुरोहितः, नापितः,
संरक्षकः, प्रतिवेशी इत्यादयः।
अथ विषमपरिणयम् ।
प्रथमोऽङ्कः ।
वंदे देवगणाधिनाथ! विमलं श्रीशारदाभीप्सितम्
साहित्याक्षरगव्यसागररतं त्वामम्बिकाबिम्बितम्।।
जिह्वाग्रेण सरस्वतीकृतजगल्लालाम्बुबिन्दुं यथा
प्रीत्या धारयता त्वया मुखबिले देवो वराहो जित : ।।१।।
त्वां विधिविहितगुणनिधिंदृष्ट्वा स्त्रीरत्नयुग्ममुपयातम् ।
लज्जामुपनीतोऽतः क्रोधाद्गर्जति रत्नाकरः ।।२।।
(नान्द्यन्ते सूत्रधारः)
सूत्रधारः- अद्याज्ञप्तोऽस्मि मित्रजनेन यथा देशरीतिरूढ्यादीनामुन्नतिकरं युगसदृशपरिवर्तनकरं च किञ्चिनाटकं नाटयितव्यम् । मया च गुर्जरत्रदेशे सूर्यपुत्र्यास्तपत्याः पुण्योदकेन प्लावितोपकण्ठे चतुःसीमान्तगतमहादेवदेवालये सूरताख्यनगरे निवसतः साहित्यविलासिपण्डितलालशङ्गरसुतगजेन्द्रशङ्गरेण वडनगरानागरज्ञातावुत्पन्नेन श्रीहयग्रीवदेवताप्रसादाल्लिखितं विषमपरिणयं नाम नाटकं समधिगतम्। तन्नाटयितव्यमिति प्रियायै निवेदितम् । अद्यापि तया किमनुष्ठितमिति विविधकार्यव्यग्रेण मया न ज्ञायते । (नेपथ्याभिमुखं दृष्ट्वा) कुत्र गता त्वम् ।
नटी-(संभ्रान्ता प्रविश्य) त्रायस्व त्रायस्व त्रायस्व नाथ ! त्रायस्व वराकीं बालिकां मूर्खजनैः पीड्यमानाम् ।
सूत्रधारः- किमापतितम् । (नेपथ्ये कलकलः)
नटी-श्रूयतां हृदयतन्तुविदारक आर्तनादः । निवारितगृहप्रवेशस्य भवतो
भ्रातुः सुन्दरदासस्य पञ्चदशवर्षदेशीयाऽज्ञातसंसारा बाला लावण्यवती नाम
मृत्युदंष्ट्रागृहीतस्य लालाप्लावितमुखस्य वणिजो देवीदासस्य हस्तं ग्राह्यते ।
श्रुतिशास्त्रप्रमाणैर्वाऽऽर्यजनसमुचितवर्तनोपदेशैर्वा तस्याः पितरं वारयितुं भवदितरो न कोऽपि शक्तः ।
सूत्रधारः - आर्ये ! किमेतत् ? प्रतिज्ञातासीत्सा मनोहराय । कथमनेन समयभङ्गः कृतः ।
नटी - तेन वृद्धेन सह तथा निभृतमतिसुगुप्तं च भवतो भ्रात्रा समयः कृत आसीद्यथा केनाप्यस्य गन्धलेशोऽपि न लब्धः । अनयैव घटिकया वर आहूतः पुरोहितोऽन्ये नरनारीजनाश्च।
सूत्रधारः - अहो ! मूर्खजनसोमोहः । मनोहरो वाराणसीं गतः । स अस्यां दृढबद्धभावो वर्तते । अनेन तावदेवमनुष्ठितम् । अपि च न वर्तते परिणयस्येदृशस्य प्रतिबाधनार्थवसरो न्यायाधीशस्याज्ञालेखं लब्धुम् । तथापि यतिष्ये यथाशक्ति ।
कोलं वल्लरीवृन्तं संवर्ध्यामृतबिन्दुना ।
प्रवृत्तो वज्रपातेन दग्धुं मूर्खः कृषीवलः ।।३।।
(इति निष्क्रान्तौ)
प्रस्तावना
(लग्नमण्डपे लावण्यवती पित्रा साक्रोशं देवीदासस्य हस्तं ग्रहीतुमाज्ञाप्यते ।
सा च तस्यादेशपराङ्मुखी रुदती तत्स्थानात्पलायितुं प्रयतते ।)
लावण्यवती-(समाक्रोशन्ती) रे ! रे ! युवकगणः ! रक्षत रक्षत मामेकाकिनीं पाषाणहृदयेन मातुलेन बलात्कृष्यमाणामदूरंस्थितं वधस्तम्भमिव जराजर्जरितवृद्धं परिणाययितुम्।
सुन्दरदासः-अयि दुर्विनीते ! आचारं प्रतिपद्यस्व । न जाने क्रोधप्रज्वालितमानसोऽहं किं करिष्ये । जयदास ! कथं मूढ इव स्थितः । आनयैनां केशेषु गृहीत्वा ।
लावण्यवती- (जयदासेन पीड्यमाना) मातुल ! मातुल ! मा तोलय मां केशैः। एनां केशरज्जुं मम गले कृत्वा कृतान्तमिवात्मानं संदर्श्याकृष मे प्राणान् । अथवा निबिडिताङ्गीं मां कृत्वा पातय वृश्चिकसर्पादिपूर्णे कस्मिंश्चिदपि कूपे यत्र स्थिताऽनेकजीवानां दुर्बलाङ्गानां भोजनविषयं प्राप्ताऽहमात्मानं कृतकृत्यं मंस्ये । अनेन तु मृत्युदन्तैश्चर्व्याणेन जरठेन गृहीताया एकस्यापि जन्तोः प्राणधारणां कर्तुसमर्थायाः कुतो मे जीवितसाफल्यम् ।
सुन्दर- पण्डिते ! मुञ्च ते वाक्वलकलम् ।
देवीदासः- (स्वासनात् कथंकथमप्युन्नमय्यात्मानम्) अहो ! शोभनाङ्गि ! मा मामन्यथा वर्णय । ज्योतिर्विद्भिर्मायुष्यं पञ्चाशदधिकशतमिति शास्त्राधारेणानेकश आयुर्भवनं समालोच्य निर्णीतम् । अद्य तावन् मम सप्ततिवर्षदेशीयस्य तदनुसारेण युवावस्थाप्रवेश एव ।
लावण्यवती - विगतरसवृक्षस्य जीर्णशाखापत्रैर्नवमालिकासमालिङ्गने कीदृङ्मनोरथः । पश्यत पश्यत नवाम्बुबिन्दुप्राशनोत्सुकाश्चातकयुवतयः-
ग्रीष्माग्रे गगनाङ्गणे रविकरेणाप्लाव्यमाने शुभे
कश्चिद्भ्रष्टजलाम्बुदो धवलितो रेखावशेषं गतः ।
मन्दं वक्तुमपि प्रयासितमुखः श्वासोपरुद्धः स्थितः
शुष्कौष्ठः स्वमुखादसौ कृशकरो दातुं प्रवृत्तो जलम्।।४।।
अपि च
आकाशे विपुलोदरे कृशतनुर्धृत्वा स्थितिं मात्स्यिकीं
संबन्धाज्जलधेश्च मूढजलदः पूर्वां स्थितिं स्मारयन् ।
स्वातेर्योगमपि क्षणं विगणयन् क्षीणोदकोऽसौ जलम्
शुक्तिं पाययितुं प्रवर्तत अहो ! पश्याम्बुदं वारिजम् ।।५।।
जयदासः- किमेभिः प्रलपनैः । न सुविद्यालंकृतस्य त्वादृशस्य कन्यारत्नस्यैष समुदाचारः समुचितः । संवृतोऽसौ तव पित्रा त्वया सर्वथा पतिरिति पूजनीयः।
लावण्यवती - अहो ! न कोऽपि युवको ज्ञातिबन्धुर्दृश्यते । मातुल ! कथं भवता कंसवृत्तेः प्रथमं किरणमाविष्क्रियते । कथं विनाशपथं नीयते कुलोत्सादनवृत्त्याऽऽर्यजनसमुचितो हृदयभावः ।
(प्रत्युत्तरमलब्ध्वा) हन्त ! कुत्र परित्राणं लभ्येत यद्यातपत्रमेव तपनत्रासमुद्भावयति ।
(ज्योतिर्विदो मुहूर्तवेलामाघोषयन्ति।)
सुन्दरदासः- मूढे ! परिहीयते मुहूर्तवेला । न श्रूयन्ते किं त्वया ज्योतिर्विद्भिराघोष्यमाणा मुहूर्तघटिकाः । पश्याधुना तेऽपि जडीकृता इव दृश्यन्ते । मुकुलितनयनास्ते विह्वलाबद्धतारा विकसितमुखरन्ध्राभासमाना रदाग्राः।
किमिदमननुरूपं न्यस्तमत्रेत्यतर्काः
स्थिरशुचिरसनाग्राश्चित्रभावं भजन्ते ।।६।।
अपि च
काश्चित्कन्या वलितवदनाः किञ्चिदानम्र मुख्यः
काश्चित्कान्ता मथितमदनाः किञ्चिदाकुञ्चिताक्ष्यः।
काश्चित्प्रौढाः सुनतनयनाः किञ्चिदुन्मीलिताक्ष्यः
जातोद्वेगास्तव कुचरितैस्त्वामतस्तर्जयन्ते ।।७।।
अपरं च
काश्चिन्नार्यः सुधुरतया कोकिलाः स्मारयन्त्यो
रक्तोष्ठाभ्यां जलकमलजं रागमुन्मीलयन्त्यः।
गातुं गीतं मुदितमनसा यावदेताः प्रवृत्ताः
तावद्दृष्ट्वा विपथगतिकां भग्नकण्ठाः स्थितास्त्वाम् ।।८।।
लावण्यवती- मा मवैम् । यथा मामुद्दिश्य भवानतेच्छ्लोके त्रयमुद्गिरति तथा भवन्तमनुलक्ष्याहमपि तथैव वच्मि । मम तु तावदेतदन्यत्कथनीयं वर्तते ।
अग्निः प्रज्वलितः पुनः पुनरसौ संधूयमानेन्धनो
नाभेश्चालितवायुपूरितमुखाद्विप्रेण संभावितः।
साक्षाद्भावगतोदयेरित इमां दुर्भागिनीं मानयन्
शैत्यं याति पुनः पुनः प्रकुपितः शीतेन ते कर्मणा ।।९।।
सुन्दरदासः- जयदास ! न ते पौरुषं विद्यते यथा त्वमप्यसंबद्धप्रलापिन्या ईदृशसंभाषणे दत्तकर्णस्तिष्ठसि । आकृष बलादेनामत्र ।
देवीदासः- श्वशुरवर्य ! सुको ललता कशाप्रहारेणाभिहता मार्दवं त्यजति। हताङ्गी च विरूपा भवति । यथाऽस्याः शरीरसौष्ठवं सौन्दर्यं चाहते स्यातां तथा शनैः शनेरानयैनाम् ।
लावण्यवती- अहो ! वृद्धशृगालस्य हरिण्यां दयाभावः ।
देहो जर्जरितस्तथैव नयने श्वेतास्त्वचो मूर्धजाः क्षीणा वाग्वदतो मुखं रसनया लालाभृतं दृश्यते ।
शीतः श्वेतकरः कृतान्तविततो देहं खलु स्पृष्टवान्
जीर्णं सर्वनेन किन्तु हृदयं जीर्णं कथं नो कृतम् ।।१०।।
सुन्दरदासः- आनय सत्वरं शशकवदेनाम् । अथवा हस्तपादौ संयम्य मुखं च कर्पटपूर्णं कृत्वा विकृष ।
(जयदासस्तथा कर्तुं प्रयतते । लावण्यवती चावधीरयते ।)
जयदासः- दुर्विनीते ! विनयं प्रतिपद्यस्व ।
लावण्यवती- प्राणमोक्षं वरं मन्ये न तु वृद्धहस्तग्रहणम् ।
जयदासः- तर्हि त्वरितमनुभव पितृमातुलकोपप्रसादम् ।
(ताडयति बद्धुं च प्रवर्तते।)
लावण्यवती- (समाक्रोशन्ती) त्रायताम् त्रायताम् यदीदृशस्य परिणयस्य विरोधी कलियुगेऽस्मिन्नथवाऽबलाजनस्य दुःखेन समदुःखः श्रुणोति माम् ।
सुन्दरदासः- एवमेव समाकृष द्रुततरम् ।
लावण्यवती- (पुनः प्रलपति ।)
(नेपथ्ये)
शान्तिदासः- तिष्ठ ! तिष्ठ ! रे मूढ ! कथमुन्मत्तो दुर्गज इव कमलनालिकां निष्पीडयितुं प्रवृत्तः ।
सुन्दरदासः- (समाकर्ण्य चकितः) क एष विनीतवेशोऽत्रैवाभिवर्तते ।
शान्तिदासः- (प्रविश्य) किमनया पिशाचवृत्त्या ।
(जयदासहस्ताल्लावण्यवतीं मोचयति, जयदासस्तु पुनरेनां गृह्णाति ।)
पिशाचादुद्भूतिस्तव मतिरभूद्वा यमकृतौ
किमुद्वृत्त्या लब्धं जडहृदयमाखेटकजनात् ।
गवादिभ्यो दत्तस्तव हृदयभावोऽत्र विधिना
कृता वा येनैते सदयहृदयास्त्वं च विगुणः ।।११।।
मुञ्च मुञ्चैनामथवा वज्रमुष्टिर्मे विगतसंज्ञं त्वां पातयिष्यति ।
(लावण्यवतीं मोचयति।)
सुन्दरदासः- अहो ! शान्तिदासः । भ्रातर् ! ननु बाललग्न- विरोधप्रचारकस्त्वमागतः । निष्क्रम निष्क्रम इतः स्थानादनेनैव क्षणेन । अथवा न जाने किं मया कृतं भविष्यति ।
शान्तिदासः- रे धनलोलुप ! अस्या बालिकाया विप्रियकरणे प्रवृत्तस्य तवाऽपि किं विप्रियं मया कृतं स्यात्तदहमपि न जानामि । कस्मैचित्सुवयसे सुवर्चसे सुविनीताय मनोहरसदृशयुवकाय प्रयच्छैनामित्येव मे कथनीयम् ।
सुन्दरदासः- कस्मै दातव्या मे कन्येति विचारणायामहमेव प्रमाणम् ।
अनिमन्त्रितस्त्वं छिन्ननासिकः कृतापमानोऽपि पुनरायातो मङ्गलकार्यबाधामुत्पादयितुम्। अपेहि ! मूढ ! अपेहि -
अर्थो हि कन्या पितुरेव जात -
स्तस्य प्रदाने जनकः प्रमाणम्।
कस्मै प्रदेयं निजशुक्तिजातम्
रत्नाकरः पृच्छति किं समुद्रम् ।।१२।।
शान्तिदासः- लावण्यवती ते कन्या । तथाप्येषा त्वत्तोऽन्यो जीवः। कथं स्वार्थवृत्तिमाश्रित्य प्रवृत्त एनां विनाशयितुं भवान् । न कर्णपथं समायातं भवतो यथालब्ध्वा
तोयनिधेर्जलं जलधरः संप्राप्तकाले निजाम्
वर्षाभावगतां तथा दुहितरं दातुं प्रवृत्तो भवेत् ।
त्यक्त्वा येन मरुस्थलं गिरितटं प्राप्नोति सा चोन्नतम्
दुग्धं शर्करया हि स्वादु भवति ज्ञातं न किं तत्त्वया ।।१३।।
सुन्दरदासः- मामपि सम्बोद्धुमुपालब्धुं च प्रवृत्तस्त्वम् न च मे कन्यादानावकाशं प्रयच्छसि । रे गणदास ! सत्वरं समाहूयन्तां रक्षकाः ।
अर्धचन्द्रप्रदानेनैवासौ निष्कासयिव्यः ।
देवीदासः- पितृव्येशशुर ! शरदां द्विशतं जीवेति ज्योतिर्विद्भिर्दत्ताशीर्वादोऽहम्। धृतप्लुतरोटिकाभक्षणे प्रवृत्तस्य बिडालस्य इव साभिलाषं मे मनोऽस्यां कन्यकायाम्। पश्य कियन्मूल्यानि कियन्त्याभरणानि कियन्ति च बहुमूल्यानि काशीखण्डबसमाख्यानि सुवर्णस्वस्तिकालंकृतोपान्तपल्लवानि क्षौमवस्त्राणि ममास्या वल्लभायाः कृते क्रीतानि ।
शान्तिदासः- जरठ ! गलितदन्तः शृगाल इव कथं त्वं मृगीभक्षणे प्रवृत्तः। प्रकृत्याऽपि वर्जितो नवयौवने वर्तमानायाः पूर्णचन्द्रिकायाः क्षीणनिशानाथेन संबन्धः।
यो जीर्णदेहशकलं शशकं नु वैकम्
दैवाद्गतोऽप्यमरतां नहि भर्तृशक्तिः ।
योगो हि कृष्णनिशया कथमस्य भाव्यः
क्षीणेन्द्रियस्य सितया क्षपया कथं वा ।।१४।।
देवीदासः- मा मैवम् । यथा भवतो बन्धुर्मया निष्कसहस्त्रं दत्त एवं च सुपरितोषितस्तथा भवतोऽपि पारितोषं कुर्याम् । एहि बन्धो ! गृहाणाभरणानि ।
शान्तिदासः- अरे ! किमनेन कन्या विक्रीता । (सविषादम्) रे बन्धो ! कस्मात्त्वयेदं पापतमं कृत्यमनुष्ठितम् ।
अलंकृत्य निजकन्या देया न गृह्णीयाद्धनलेशमपि ।
स्वकुलमप्यात्मना सह पातयसि नरके न चोद्धरसि ।।१५।।
अपरञ्च !
कन्यामीदृशमानवाय ददता पापं त्वयैकं कृतम्
लब्ध्वा लुब्धकमानसेन च धनं पापं द्वितीयं कृतम् ।
निःश्वासो हृदयोद्गतस्त्रिभुवनं दग्धुं समर्थो भवेत्
ज्ञात्वैतद्विरमाथवा तव कुलं सच्छिन्नशाखं भवेत् ।।१६।।
सुन्दरदासः- अलमलम् । वेदमूढस्त्वं शास्त्रमधिकृत्य वदसि । अहं तु लोकव्यवहारं प्रकृतिनियमं चोद्दिश्याचरामि । पश्य-
दत्त्वा धान्यकणान्कृषीवल इमान् गृह्णाति तन्मूल्यजम्
दत्त्वा वारि च वारिजाय जलधिर्गृह्णाति तच्छुल्कजम् ।
पश्यैष प्रकृतेः क्रमोऽथ विहितः क्षेत्रोद्भवस्येदृशः
कस्मात्तेन पथेह नानुगमनं कार्यं सदा मानवैः ।।१७।।
लावण्यवती- (सविषादम्) अहो ! प्रत्युत्पन्नमतिर्मे पिता । धनप्राप्तिविषये सत्यमसौ गहनदृष्टिः। अथवा कोऽस्य दोषः । कस्मिंश्चिद्विषये संकीलिता दृष्टिरन्यत्र जडीभवेदिति प्रकृतेर्न्यायः ।
जयदासः- शान्तिदास ! मुञ्च मे हस्तमथवा मे हस्तलाघवं प्रेक्षिष्यसे ।
शान्तिदासः- विरमास्मात्सरंम्भादथवा मयाऽत्रवै महान् सरंम्भः कृतः स्यात्।
लावण्यवती- मातुल ! अन्यस्मिन् बद्धभावाया ममापरस्मै प्रदानेन कुतः फलम् । तस्मिन्मे पतिभावो नोत्पद्येत न वा पूज्यबुद्धिः ।
सुन्दरदासः- (साश्चर्यं सक्रोधम्) रे कुलविनाशिनि । कतमस्मिंस्त्वयाऽनुरागो विहितः ।
लावण्यवती- मम हृदयवल्लभे मनोहरदासे । तस्यैव मे प्राणा जीवितं संसारश्चेति प्रतिज्ञातमेकदा भवतः समक्षम् ।
सुन्दरदासः- स्मृतमुन्मत्ते ! स्मृतं तदंशतः सर्वम् । तथापि न चलेयं पदमपि मे संकल्पात् । विपरीततां गतेऽपि सूर्याचन्द्रमसोरुदयास्तक्रमे नान्यथा भवेन्मे निश्चयः।
धावत धावत गणपत ! भीमजी ! पाडुरङ्ग ! दुराग्रहिणं ममैनं भ्रातरं मुष्ट्या जर्जरीकृत्य दूरीकुरुत । जयदास ! क्षणमात्रमप्यविलम्ब्य वक्रीभूतमानसामेनामाकृष्यानयात्र ।
(ते तथा कर्तुं प्रवर्तन्ते।)
शान्तिदासः- दास्याः पुत्राः ! तिष्ठत तत्रैव । अथवा
यः स्पृशेत्कन्यकामेनामाकर्ष्टुं वा प्रवर्तते ।
सत्कारं तस्य जानीयाद्वज्रुष्ट्या ममैतया ।।१८।।
सुन्दरदासः- कथमेतेषामपि तर्जना ।
देवीदासः- श्वशुरवर्य ! कम्पेऽहमस्य वज्रमुष्ट्या रक्तनयनतीव्रदृष्टिपातैश्च।
मुञ्च माम्। न भवतो दुहितरं कामये । प्रयच्छ मे सुवर्णं वस्त्रालंकाराणि च ।
(उत्थातुमिच्छति।)
सुन्दरदासः- जामातर् किमेतत् । समयभङ्गं विधातुं प्रक्रममाणो न लज्जसे ।
शान्तिदासः- जरठ ! पलायस्व द्रुततरं यावत्सन्दंशिकासदृशा मम हस्तेन धृतस्त्वं कन्यकास्थानेऽर्धचन्द्रप्रदानेन निष्कासितो न भवेः ।
(उत्प्लुत्य हस्तेन गृह्णाति।)
देवीदासः- मृतोऽहं मृतोऽहम्। (कम्पते ।) देहि ममाभरणानि । प्रयच्छ मे सुवर्णम्। (आक्रोशति।)
सुन्दरदासः- गणपत ! मा तावन्मूढ इव तिष्ठ । जयदास । यावदेते प्रबाधेरंस्तावदानयैनाम् ।
शान्तिदासः- एवं तर्हि पश्य-
(सहसा गणपतादय एनं प्रबाधन्ते तावत्समाक्रोशन्तीं प्राणांश्च मोक्तुं यतमानां प्रबाध्य समाकृषति जयदासः । शान्तिदास आत्मानं मोक्तुं प्रयतते । किन्तु दृढं गृहीतो न शक्नोति।)
सुन्दरदासः- जामातर् गृहाणैनां कन्यकामग्निं साक्षीकृत्य।
देवीदासः- सुन्दरि ! गृह्णामि ते नवपल्लवसदृशं हस्तं यथा मूषकः सर्पं रज्जुं मत्वा गृह्णाति तथा । देवि ! परिपालयिष्ये त्वां यावज्जीवम्।
लावण्यवती- हा धिक् ! हा धिक् ! रे दुष्ट पिशाच दैवहतक ! धिक् त्वां च मां च दुर्भागिनीम् (मूर्च्छति।) ।
शान्तिदासः- (कथंकथमप्यागत्य) किमनुष्ठितम् । धनलोलुप कन्यामांसोपजीविन् पिशाच ! धिक् त्वां तुभ्यं च वृद्धवयसे कामीजनाय ।
उल्लुञ्च्य कलिकामेनां कूपे दुर्गन्धपूरिते ।
क्षिपता पातितः सत्यमात्मा त्वयैनया सह ।।१९।।
(सुन्दरदासो हसति । वृद्धः स्मयते । शान्तिदासः निश्वसति । लावण्यवतीं संज्ञामानेतुं प्रयतते।)
यवनिका
इति वृद्धृद्धलग्नं नाम प्रथमोऽङ्कः ।
द्वितीयोऽङ्कः ।
(प्रविशति रत्नादिभिः खचितां चन्दनकाष्ठपेटिकां गृहीत्वा मञ्जरी ।)
मञ्जरी- (सुन्दरदासस्य गृहद्वारमागत्योच्चैर्वदति) लावण्यवति ! अयि ! लावण्यवति ! (प्रत्युत्तरमश्रुत्वा) कथं नास्ति प्रत्युत्तरः !
(पुनराह्वयति) लावण्यवति !
(गृहद्वारमुद्धाट्य मुखं दर्शयति सुन्दरदासस्य भगिनी दुःशीला ।)
दुःशीला- का त्वं मूढा कर्णविवरं खण्डशः कर्तुमुद्यता इव काबेरवत् समाक्रोशसि । अपेहि दुर्विनीते ! नैषा मत्स्यविपणिः ।
मञ्जरी- भगिनी दुःशीले ! आगताऽहं मे प्रियसखीं लावण्यवतीं द्रष्टुम्।
मञ्जरी ते सहचरी वाराणस्या आगता सोत्कंठं त्वां द्रष्टुं प्रतिपालयतीति निवेद्यैनां प्रेषयितुं प्रसीदतु भवती ।
दुःशीला- ज्ञातम् । आगता त्वमेनां विपथगामिनीमधिकं विपथं नेतुम् ।
जानीहि मूढे ! दुःशीला खल्वहम् । अपसरेतः स्थानादथवा केशेषु गृहीत्वा त्वां जर्जरीकरिष्यामि ।
मञ्जरी- भगिनी ! बलवदुत्कंठिताऽस्म्येनां द्रष्टुम् । नैषा मया द्रष्टोक्ता वाऽऽषण्मासेभ्यः ।
दुःशीला- (चन्दनपेटिकां दृष्ट्वा) अहो पेटिका ! सा च चन्दनकाष्ठमयी रत्नजडिता । (सलालसं निर्वण्य) तर्कयामि तव सख्याः परिणयमुद्दिश्योपहारी- कर्तुानीतैषेति । यद्येवं तर्हि दीयतां मे । दास्ये यदा सा पतिगृहादत्रागच्छति ।
मञ्जरी - (साश्चर्यम्) कः पतिः कस्याः पतिः का च पतिगृहादागमिष्यति ।
अहं तावल्लावण्यवतीमुद्दिश्य पृच्छामि ।
दुःशीला- यदि न दातव्या यावत्साऽविधवा, तर्हि प्रतिपालय कानिचित्क्षणानि दिनानि वा । प्रेक्षिष्यसे यावत्त्वमेनां सौभाग्यचिङ्घविरहितां मामिव विधवाभूतां तावद्देहि वैधव्योपहारमिति ।
(तर्जंयन्ती निष्क्रान्ता।)
मञ्जरी- तिष्ठ ! तिष्ठ ! (गृहद्वारमास्फाल्य) पतिगृहं गता ।
(विचारयति)
लावण्यवती परिणीता । तस्याः पतिरपि मृत्युशय्यायां वर्तते सा च विधवा भविष्यति। अहो ! दैवहतक ! क एष वज्रपातः समुत्पातितः । (संभ्रान्ता) एषः स्वप्नः सत्यं वा? (आत्मानमभितः प्रदेशं च निर्वर्णयति ।) एतत्समाकर्ण्य कीदृशीमवस्थां नीतो भवेदस्यां बद्धानुरागो मे भ्राता । अद्यैवागत्य प्रेषिताऽहमेनमुपहारमस्यै निवेदयितुं स्वानुरागाभिज्ञानमिति । अत्र त्वेवमुपस्थापितं दैवेन । दुःशीलया कदाचिन्नामोचितमनुष्ठितं भवेदिति मे शङ्का । तस्मात्सत्यवृत्तमज्ञात्वा नोचितं
भ्रातरमुपस्रप्तुम् ।
(निष्क्रान्ता)
प्रवेशकः
(ततः प्रविशति श्रेष्ठिकुन्द नदासस्य पुत्रको मनोहर)
मनोहरः- अहो कीदृशी तत्रासीन्मोक्षपुरी । पुनः पुनः स्मरणपथमभिवर्तते।
मंदाकिन्यास्तरलसलिलैः प्लाव्यमाने शरीरे
स्वेदाज्जाताङ्गमलसहितैः क्षाल्यमानैर्नु पापैः ।
आनन्दो यो विमलमनसा तत्र देहेऽनुभूतः
कस्तत्तुल्यस्तदनुगुणतामावहेदत्र जातः ।।१।।
अपि च ।
प्रातःकाले द्विजवरगणैर्घोष्यमाणैश्च वेदैः
देवस्थानात् श्रवणसुभगैः श्राव्यघण्टानिनादैः।
स्त्रीणां गीतैस्त्रिभुवनपतेः स्तोत्रमालाभिरामैः
प्राप्ताह्लादौ हृदयसुखदौ कुत्र कर्णौ रमेते ।।२।।
अथवा हृदयनिहितां मे प्रियलावण्यवतीं मृगयित्वा दृष्टिविलोभनं करोमि कर्णसुखं चोत्पादयामि । यतः -
मंदाकिनीं मधुरवैः पदलीलया वा
दत्त्वाऽऽकृतिं जयति विेशविधातरं सा ।
तस्याश्च पुण्यविभवं नयनेन धृत्वा
तां सा पुनर्नु सृजती जयति द्विशस्तम् ।।३।।
कुत्र गतं भवेन्मे द्वितीयं हृदयम् । प्रेषिता मया भगिनी मञ्जरी । कथं चिरायतेऽनया। सुगन्धवृत्तरसास्वादलोलुपस्य ममानया नोद्द्रावितं प्रियाया वृत्तमद्यापि। अथवा कथं जानाति सा वराकी विरहव्यथितस्य मे हृदयदशाम् ।
स्पर्शं विनाऽग्नेर्न हि तत्स्वभावो
ज्ञातः कथाभिर्विविधैः सुबोधैः।
एवं स्थिते कस्य भवेन्नु शक्तिः
ज्ञातुं दशां तां हृदयस्य गुप्ताम् ।।४।।
कुत्र प्रतिपालयाम्येनाम् । (इतस्ततः परिक्रम्यावलोक्य सहर्षम्)
मंजरि ! (ततः प्रविशति मञ्जरी किंचिन्म्लानमुखी) कथं विलम्बितं त्वया ।
(मञ्जरी कथंकथमपि हसितुं प्रवर्तते।) आः ज्ञातम् । एतावन्तं कालं प्रीतिक्षुधापीडितस्य मम स्नेहभाजनात्त्वया निःशेषकवलानि मुखे कृतानि । अयि स्वार्थरते ! द्रुततरमुद्वह मे भोजनं यावत्तव जठराग्निना न पच्यते । कथय सर्वकलाक्षेपम् । कतमदङ्गं त्वया समाश्लिटम् । कतमेऽङ्गे तस्याः पुलकः संजातः । कथं च तस्याः पक्ष्मणा निमीलितम् । कथं च तारकेण कोणान्तगतो भावो निवेदितः । कथं च तया स्मितस्मेराननया लज्जावरणेन मुखं समावृतम्। कथं च कपोलरक्ततयोदयगतो बालसूर्यो लज्जाभावं प्रेषितः । सुधां निर्झरन्त्या दन्तावल्या कथं धृतमोहिनीस्वरूपो विष्णुः क्षणं विवर्णभावं गामितः ।
(साश्चर्यं परात्पृच्छति ।) कथं मूकमिव शब्दमपि न विसृजति ते वागिन्द्रियम् । वद वद भगिनी ! त्वां दृष्ट्वा वेपितमस्याः श्वासनिर्भरेण हृदयेन वा न वा।
कम्पेनापूरिताऽखिलाङ्गयष्टिर्वा न वा । किं कृतं हस्तलतया । कीदृश्यश्च भूता अङ्गुल्यः। कथंभूता कटी । कथं च संजातो नितम्बः । नितम्बगामी केशकलापः किं कथयितुारब्धो विस्त्रब्धमस्याः कर्णे। कथं च लोलायितं नयनतारकाभ्याम् । कथं न वदसि ।
(चिबुकं संस्पृश्य पुनरेनां सोत्सुकं पृच्छति।) हृदयगतभावकथनोत्सुकाया आनन्दभारेण किं वाक्परिबाधिताऽऽसीत्। अथवा मक्षिकावदनया किञ्चिदानम्रमूर्त्या गणगणितं किञ्चिन्मज्जुलमस्पष्टाक्षरम् अथवोद्वृत्तरसम् ।
मञ्जरी- बन्धो (गम्भीरानना क्षणं मूकीभूय) बन्धो ! कृष्णरात्रौ कुतो ज्योत्स्नाभिरामत्वम् ।
मनोहरः- कथं कृष्णरात्रिः । अद्य तु चन्द्रिकैवाभिरमते पूर्णेन्दुना सह पूर्णिमायाम्।
मञ्जरी- केतुबन्धोश्छाययाऽऽवृते नभसि तस्याप्यसंभवः ।
मनोहरः- (सावेगम्) किमेतत् । मम तव भ्रातुः प्रियोदन्तश्रवणोत्सुक स्योपहासः ।
मञ्जरी- न मञ्जरी कदाप्युपहसति यथा दुर्दैवम् ।
मनोहरः- (सभयम) कथं दुर्दैवमुपहसति । गता मे हृदयवल्लभा पञ्चत्वं किम्।
अथवा न खलु संक्रान्तः स्नेहभावोऽन्यस्मिन् स्त्रीजनसहजहृदयदौर्बल्यात् ।
मञ्जरी- न तथा संभावनीयं निष्पापाया ईदृश्याः ।
चूतं वृक्षं परित्यज्य कोकिला कुत्र गच्छति ।
जलाशयाद्धि नान्यत्र रमते नलिनीमनः ।।५।।
मनोहरः- तर्हि किमापतितम् । कथय सत्वरम् । निर्बलतरं संजातं मे मनस्तर्कावकाशकालं प्रतिपालयितुं न सहते ।
मञ्जरी- नैष काल आवेगस्य । अस्या वराक्याः षष्टितमे वर्षे वर्तमानः पतिर्यदेवस्य पाशवर्त्मनि पतितः ।
मनोहरः- मंजरि ! किमुच्यते त्वया । कस्याः पतिमनुलक्ष्य वदसि ।
मञ्जरी- समोशसिहि बन्धो ! तव वल्लभा लावण्यवती बलादुद्वाहिता ।
मनोहरः- (साश्चर्यं वज्रपातमनुभवन्) मम लावण्यवती अरे मम वल्लभतमा परिणीतपूर्वा । (सक्रोधम्) कथं केन कुत्र ।
मञ्जरी- अस्याः पितुर्धनकोशमाकण्ठं कुर्वता जरठेन देवीदासेन ।
मनोहरः- (सोद्वेगम्) मञ्जरि ! मम बिडम्बनायाः कुतस्ते परितोषफलोद्गमः।
मञ्जरी- मातले पितरुादेशाद् बलान्नीयमाना रक्षार्थं युवकगणं समाक्रोशन्ती प्राणमोक्षं कर्तुमलब्धावकाशा निःसंज्ञैव हस्तं ग्राहिता ।
मनोहरः- बलाद्धस्तं ग्राहिता ! कुत्र गता अबलाजनरक्षिका देवताः ।
कुत्राऽऽसीद्वृद्धलग्ननिषेधकमण्डलस्य प्रमुखः शान्तिदासः । कन्यकां विक्रीयमाणां दृष्ट्वा न कस्यापि हृदयमुन्मथितम् ? अये निष्ठुर संसार ! अबलाजनरक्षणे तत्रैकौऽपि समर्थो युवको न जात इति कीदृक् ते पापफलं समुद्भूतम् ।
मञ्जरी- न्यायाधीशस्य प्रबाधपत्रकं सावकाशं प्राप्तुमसमर्थो लग्नविधिमुत्सादयितुमुद्युक्तः सुन्दरदासेन व्यापृतरक्षकैर्मृत्युमारं मारित एनां परिणीयमानां रक्षितुसमर्थ आसीच्छान्तिदासः ।
मनोहरः- किं तथाऽनुष्ठितमनेन मानवराक्षसेन । भो दुरात्मन् ।
पिशाचवृत्तिमनुतिष्ठता त्वया न चिन्तितं यथा क्षीरोदकेन संवर्ध्य क्षीयमाणाङ्गरसमूहे पातिता सुकुमारकलिकामाला । तिष्ठ तिष्ठ रे पिशाच ! को लाङ्ग्याः रक्तपिपासोस्ते जिह्वां मनोवृत्तिं हृदयरागं च तवाङ्गानि शतधा कृत्वा तथा शोषयिष्ये यथा न कोऽपि त्वादृशोऽन्यधनलोलुपस्तवानुकृतिं प्रतिपत्तुं चिन्तयेत् ।
गृहीत्वा कण्ठे त्वां गजपतिनिपातेन सहसा
विधूयोच्चैर्नीचैर्भुजबलनिबन्धेन विपुलम्।
विरूपो यावत्त्वं गलितरदचक्षुश्च न भवे
श्चपेटां तावत्ते द्रुतमिह विधास्ये मुखबिले ।।६।।
अपि च
कन्यां तव प्रददतो जरठस्य गेहे
हस्तो न यो विधिवशाच्छतधा विदीर्णः।
तं खण्डशो दशशतं प्रविलुञ्च्य कुर्याम्
येनेतरः कलियुगे सदृशं न कुर्यात् ।।७।।
मञ्जरी- भ्रातर् ! उचितो वाऽनुचितः समुदाचारो भवितव्यतयैवमनुष्ठितः। एवं च वर्तमान उद्दामवृत्तिस्त्वं नगररक्षकैर्लोहकङ्गणं परिधापितः स्याः, न्यायनियमभङ्गानुष्ठानात्कदाचिद्दण्ड बाधामप्यनुभवेः । कन्याविक्रयिणां चोपहासविषयं गच्छेः। तस्मात्समाह्रियतामावेगः ।
मनोहरः- नहि नहि संवेग एषः । अत्र तु सूचिभिन्नानि सर्वाण्यङ्गानि प्रतिमुखमङ्गारकैर्दह्यन्ते ।
जातं किं मम मन्दभागिन अहो ! यावन्न मे कल्पितम्
स्वप्ने यन्न गतं ममाक्षिविषयं जातं तदस्याः कथम्।
क्रोधादेवमिदं प्रतप्तहृदयं संक्षुभ्यते सर्वतः
शान्तं तन्नु भवेत्कथं यदधुना संताप्यते ज्वालया ।।८।।
तस्मादनुजानीहि मे गमनमथवा दूरारूढः कोपः सर्वंनाशावहो भविष्यति।
मञ्जरी- सुलभकोपः प्राकृतमानवः । सुविनीतैस्तु संयतचित्तैर्भाव्यम् ।
अन्यथा विनीतानामविनीतानां को भेदः । पश्य-
वङ्घिना दुर्विनीतेन केवलं दह्यते जगत्।
अनेनैव विनीतेन पश्येदं ध्रियते तथा ।।९।।
मनोहरः- भगिनि ! नानुभूयते त्वया या मर्मच्छेदिनी हृदयव्यथोत्पादिताऽतर्कितोपनिपातैर्दुर्दैवस्य । किं मया चिन्तितं किं चापतितम् । किं मयाऽपेक्षितं किं चोपलब्धम् । किं मया वाञ्छितं किं चानुभूतम् । कं भावं हृदये कृत्वोत्ताम्यता हृदयेनागतं कथं चासौ भावः संवृत्तः। आगामिकालस्य कीदृश्युज्वलताऽपेक्षिता कीदृशश्चानन्द उदीक्षितः कीदृशं च स्वर्गोत्तरसुखं निमीलितनयनेनाधन्येन मया कल्पितम् ।
इयं पुष्पश्रेणिर्मलयजसुगन्धं विदधती
समुद्भूतैर्भार्वैधुपतनुभिः सा परिगता।
स्थिता कण्ठे दद्यादमृतजसुखं स्पर्शजनितम्
कथं धन्योऽन्यः स्यादिति कलयतो मे परिहृता ।।१०।।
अपि च -
असारे संसारे विविधरसतां साऽनुजनयेत्
तथा कार्योत्साहं मृदुलवचनैः सोपविसृजेत् ।
अहं चैवं तस्या अनुगुणितभावं प्रगुणयन्
मृगाक्षीं कुर्यां तामिह सुफलितार्थां प्रमुदिताम् ।।११।।
अन्यच्च-
कदा रेवातीरे तरलजलवाताननुभवन्
लभेयानन्दं मे दयितजनसंगीतजनितम् ।
कदा वीणावाद्यैर्नदकलरवैर्बृंहितमुखैः
पिबन्तौ कुर्यावो नयनजसुधां कालगमनम् ।।१२।।
मञ्जरी- दैवं सर्वदाऽभिलषितं न संपादयति । कदाचित्तद्विपरीतसम्पादनेऽपि तस्य मनोरथः ।
मनोहरः- पश्य, पश्य, मंजरि ! विस्फारितनयनाभ्यां ते पश्य । एवं दैवमवलम्बमानस्य ममाखिलः संसारः प्रलयजलेन परिप्लुत इव दृश्यते । कीदृशः कालक्षेपः संसारे मया परिकल्पितः कथमसौ घटच्छिद्रन्यायेन जलवन्निःसृतः ।
मञ्जरी- अत एवैतद्दैवम् । तस्य बलवतो विधेर्विहितं प्रतिविधातुं कः प्रभवति।
मनोहरः- केन सृष्टोऽसौ दुरात्मा विधिर्यः पुरुषार्थमुन्मूलयति विहस्य चाशाभिलाषामयं जीवनं सर्वतो ज्वालयति ।
न यावन्मे भावी फलकगतरेखाङ्गितकृतम्
मनः पिच्छं यावद्धृदयगतभावान् सुविदधत्।
सुवर्णैः सम्पूर्णं सफलकृति मुक्तं न च मया
मसी तावत्क्षिप्ता विमतविधिना हन्त सहसा ।।१३।।
अपि च
मृदुलमधुरभावासङ्गमत्रैव मुक्त्वा
हृदयमपि कठोरं त्यक्तरागं करिष्ये।
प्रणयविषयमन्यं सर्वथा संप्रतोद्य
प्रबलतमविधातुः क्रौर्यभावं हसिष्ये ।।१४।।
(नेपथ्ये कलकलः ।)
(नेपथ्ये)
दुःशीला- हा धिक् ! हा धिक् ! खण्डितं मे भ्रातृदुहितुः सौभाग्यम्।
मञ्जरी- (संभ्रान्ता) हन्त ! सोरस्ताडनमाक्रन्दते दुःशीला लावण्यवत्याः पितृष्वसा । दुर्दैवं खलु संजातमिति तर्कयामि । अनुयाहि माम् । सा वराकी खलु समोशासनीया ।
(नेपथ्ये पुनः कलकलः)
(नेपथ्ये)
लावण्यवती- अत्याहितमत्याहितम् । क्रूरः खलु लोको मे कङ्कणभङ्गं कर्तुं समुद्यतः । त्रायतां मां कोऽपि युवकजनोऽस्माद्दुराचारात् । अहो न कोऽप्यबलाजनरक्षक आभिरमङ्गललब्धानन्दाभिर्दुष्टाभिः संबाध्यमानाया मे रक्षणे समुद्यतः ।
मनोहरः- आः किमेतत् । के दुरात्मानोऽतर्क्यदुःखार्णवे वर्तमानायाः कन्यकाया आर्तस्वरतां हृदयपीडनादुद्भावयन्ति । रे मूढाः ! न जानीथ यथा -
संयातः खलु कालरात्रिसमयः स्त्रीदुर्दशाकारकः
यस्मिंस्त्रीजनदास्यभावविपुले पुंभिः कुकर्मारतैः।
दुष्टाभिः प्रमदाभिरप्रतिहतैरासुर्याचेष्टितम्
संसारो नरकाददूरपतितं स्थानं सदा प्रापितः ।।१५।।
मञ्जरी- बन्धो ! किं वचनोत्सर्गेण । यद्येवमेव तव हृदये तत्त्वतो वर्तते तर्ह्येष एव कालोऽज्ञानकूपपतितानां जनानां रूढिभङ्गक्रममुपस्थापयितुम् । असौ तु कन्या वृद्धं बलात्परिणायिता । असौ च परिणयादूर्ध्वकालक्षेपं पञ्चत्वं गतः । स्त्रीजनश्चैनां दुःखार्तां पीडयति । अतः कोऽन्योऽवसरः प्रत्यक्षदृष्टातेन नवरूढिप्रचारकरो युक्तः।
मनोहरः- शान्तिदासं सर्वं निवेद्य न्यायसहायं यथाशक्ति त्वरितं संप्राप्य सत्वरमेहि । तावत्कालमहम् -
रूढिूलान्यथोन्मूल्य चूर्णीकृत्य तथैव च ।
पञ्चाग्नावेव क्षेप्स्यामि लोकस्यामुष्य पश्यतः ।।१६।।
(निष्क्रान्ते)
यवनिका
इति हृदयसंतापाख्यो द्वितीयोऽङ्कः ।
तृतीयोऽङ्कः ।
(ततः प्रविशन्ति दुःशीलादयःस्त्रियो लावण्यवतीं परिवेष्ट्य तस्याः कङ्कणं भङ्क्तुमुद्यताः । लावण्यवती तथा कर्तुं नानुजानाति।)
लावण्यवती- (समाक्रोशन्ती तर्जयन्ती च) मुञ्चत मुञ्चत मे हस्तौ ।
एका- अयि मर्खे ! पश्यते पितृस्वसारम् । कियताऽन्तर्दुःखेनेषा परिपीड्यते।
रुधिरपरिदिग्धमुरः सा पुनः पुनस्ताडयति । त्वं तु मूढेवोन्मत्तेवाऽभार्येव कथमेवं तिष्ठसि।
दुःशीला- हा धिक् ! हा धिक् ! (सोरस्ताडनं रोदिति ।) रे दुष्टविधे !
पियभ्रातृदुहितरं विधवां कुर्वता त्वया कथमहं न मारिता । अहमेवाधुना प्राणमोक्षं करिष्ये । यत एवंभूताया भ्रातृदुहिर्तुदुखं द्रष्टुं न शक्ष्यामि ।
(कण्ठपाशं कर्तुमुद्युक्ता ।)
अपरा- अरे गृहाणैनाम् । अतीवदुःखावेगेनोह्यमाना कदाचिन्मृत्यु कालं समाश्लेक्ष्यति ।
अन्या- हन्त ! देवरपत्नीभूताया अस्या उन्मत्तायाः साम्राज्ये कथमेषा वराकी जीवनकालं नेष्यति । (रोदिति।)
अपरा- सखि ! त्वं निराधारा संजाता । समाश्वसिहि । समाश्वसिहि । त्वां रुदतीं दृष्ट्वा ममाऽपि नयनेऽश्रुप्लुते भवतः ।
(नयनाश्रूणि प्रमार्ष्टि।)
इतरा- पश्य पश्य । ज्येष्ठपत्नी प्राणत्यागं कर्तुमिच्छति हृदयद्रावकं च रुदनं करोति तथापि वज्रीभूतहृदयैषा विधवाभूताऽप्यानन्दमुपभुञ्जाना नयनादेकमप्यश्रु न मुञ्चति । अहो ! कलियुगेन कलुषितः खलु संसारः ।
दुःशीला- वाहय वाहय मां चितास्थानं मे देवरस्य, पातय मामग्नौ । न क्षमेऽहमस्मत्कुलोचितसंस्काररीतिनामुच्छेदमनया विधवाभूतया क्रियमाणं द्रष्टु्। रे स्त्रीजन ! देहि मे छुरिकां वाऽऽनय विषभाजनं येनात्मोत्सर्गं कृत्वैनां सन्तोषयामि । एका- रे वधु ! कथं त्वं दुःखार्ता ना में वराकीं श्वश्रूस्थाने स्थितां ते ज्येष्ठजायां दुःखयसि । त्यज कुजनोचितं वर्तनम् । चतुरे ! आनय पाषाणमस्याः कङ्कणभङ्गाय।
लावण्यवती- (सक्रोधम्) अपेहि । न मे कङ्कणस्पर्शः कार्यः ।
अपरा- कथं न कार्यः । विधवा खलु त्वं संजाता । ईदृश्याः केशवपनं कार्यं कङ्कणानि च भङ्क्तव्यानीति लोकरीतिः कुलरूढिः शास्त्राज्ञा च ।
इतरा- किमनया लौकिकविमुखया शास्त्रेण रीत्या नीत्या वा । एषा तु श्व एव पुनर्विवाहमनुष्ठास्यति । तदनु येन केन प्रकारेण परिणीतं च हत्वाऽन्यं जनमन्वेष्यति तं च हत्वाऽपरमित्यनेकान् नरान् परिणीय हत्वा च कुलटावृत्तिमनुवर्त्स्यति ।
लावण्यवती- विरम जिह्वाचाञ्चल्यात् । न क्षमिष्ये शब्दमप्येकमतः परं मे सद्वृत्तिबाधकम् ।
दुःशीला- प्रहर मां रे कुलोत्सादिनि । अमङ्गलपदया त्वया लग्नकाल एव तथाऽमङ्गलं रुदितं यथा मृतो मे युवावस्थोऽपि देवरः । मारय मामप्यधुना कामरुदेशीयप्रयोगेण । पिब पिब मे रुधिरं किन्तु मां मा शोषय पिशाचवृत्त्या ।
(मस्तकं पाषाणेन ताडयति।)
एका- रे मन्दभागिनि ! त्रुट्यतेऽस्या हृदयेन । मा विलम्बस्व । आनय ते हस्तम् । स्वयमेवाहं ते कङ्कणानि भंक्ष्यामि ।
(तस्या हस्तं ग्रहीतुमिच्छति।)
लावण्यवती- मा कुरु स्पर्शं मे हस्तस्य कङ्कणस्य वा । यदि काऽपि मां स्प्रक्ष्यति तर्हि न जाने किं मया कृतं स्यात् ।
(तर्जयति।)
दुःशीला- (सक्रोधम्) रण्डे ! सौभाग्यं विनष्टं तथाऽपि तच्चिह्नं धारयितुमिच्छसि।
लावण्यवती- कस्याः सौभाग्य विनष्टं । कथं च विनष्टम् । न मया पतिरित्यषे संवृतः न च मया पतिरिति संभावितः । एवं स्थिते कस्याः पतिभावः कस्मिन् । पतिपत्नीनिबन्धको भावो यदि न विद्यते तर्हि तन्मूलकं दुःखं कथं दृश्यते । कथं च सौभाग्यनाशः ।
दुःशीला- यावत्स्वयं न दर्शयामि तावत्त्वं स्वच्छन्दमनु वर्तसे किम्।
(यष्टिं गृह्णाति।)
लावण्यवती- दुःशीले ! नाऽहं ते दासी ।
दुःशीला - त्वं तु राजमहिषी । मम वृद्धप्रमाता । सुगन्धपुष्पैः पूजनीया। एहि ते पादप्रक्षालनं करोमि ।
एका- मङ्गले ! यमुने ! यशोदे ! कथं शून्यमुख्यः पश्यन्त्य इह तिष्ठत। कैषा। गृह्णीतैनाम् । अनिमेषमस्या कङ्कणानि भङ्क्ष्यामि सौभाग्यचन्द्रकं च मार्क्ष्यामि नापितश्च लीलयैव केशवपनमनुष्ठास्यति ।
नापितः- मा बिभीहि बालिके ! निपुणोऽहं केशवपने । एता सर्वा विधवाः केशमुण्डने ममैव हस्तलाघवं प्रशंसन्ति । भगिन्या मङ्गलायाः केशवपनसमये तथा निपुणतया मया क्षुरश्चालितो यथाऽनयैकोऽप्यश्रुबिन्दुर्न पातितो मया चारक्तपातं शिरो मुण्डितम् । एहि पश्य, कीदृशो मे तीक्ष्णतमः क्षुरः ।
(दर्शयति।)
लावण्यवती- अपसर पिशाच । अथवैकया लत्तया ते तुण्डं खण्डशः करिष्यामि।
नापितः- मा कुप्य । हृदयहारिणी वार्ता ते मनोरञ्जनम् -
लावण्यवती- (इत्यर्धोक्त एनं प्रहरन्ती) चाण्डाल ! अपेहि, सत्वरमपेहि ।
मङ्गला- गृहाणैनां दुराचारप्रवृत्ताम् ।
(सर्वा लावण्यवतीं गृह्णन्ति सा चात्ममोक्षे प्रयतते ।)
लावण्यवती- त्रायस्व ! त्रायस्व !
(ततः प्रविशति मनोहरः।)
मनोहरः- तिष्ठत! तिष्ठत! (आगत्यैनां मोचयति।) कोऽतिपात एष अनार्यजनसदृशः।
दृष्ट्वा दूरत एव मांसशकलं काका डयेरन् द्रुतम्
लुञ्चन्तः पतितं स्वचञ्चुभिरमुं कुर्वन्ति का का स्वरम्।
एवं प्राप्य सुभक्ष्यमेनमधुना यूयं कुकर्मारताः
ज्ञातव्यं घनराजिभिर्न तु कदा छिद्येत विद्युल्लता ।।१।।
अपरञ्च
सारस्य महोदधेश्च तरणं ज्ञाताः स्त्रियः स्वामिभिः
आख्याता व्यवहारविद्भिरितरैर्नारी गृहं मूर्तिमत्।
या भूता विषयः कवेः समुथितश्चन्द्रोऽपि लज्जां गतः
पश्याद्यैव रताः कुकर्मणि कथं धिक्कारयोग्या न ताः ।।२।।
एका- क एषोऽस्मत्कार्यविक्षेपकरः ।
अन्या- प्राचीनरीतिरूढीनामुच्छेदकस्य कुन्दनदासस्य पुत्रो मनु इति लब्धनामाऽयं लोके । अनेनैषा परिणेतव्याऽऽसीत् ।
लावण्यवती- (सहर्षम् ससंभ्रमं साद्वेगेम् अये मम हृदयवल्लभो ..मां. ..मां परिणीतां विधवाभूतां पश्यति । दैवहतक किमिदमनुष्ठितम् ।
(मूर्च्छति । मनोहर एनां हस्तेनावलम्बते)
मनोहरः- समोश्वसिहि लावण्यवति समाश्वसिहि । न जीवितुकामः कोऽपि त्वामङ्गुल्याऽपि निर्देक्ष्यति पश्येयमकृतकङ्कणभङ्गेति ।
(सुवासितकर्पटशकलेन वायुं विदधाति।)
दुःशीला- (समाक्रोशन्ती) त्रायस्व त्रायस्वैष कोऽपि मम देवरजायां स्पृष्ट्वाऽस्याः शीलं दूषयति ।
एका- (लावण्यवतीम्) निर्लज्जे! परपुरुषस्पर्शं सप्रकाशमङ्गीकुर्वती न जिह्रेषि किम् ।
(एनां मनोहरात्समाकर्ष्टुं यतते।)
लावण्यवती- (सहसा मनोहरमंसेनाश्रित्य) रक्ष ! रक्ष ! मनोहर ! स्त्रीसहजकेशकङ्कणचन्द्रकादिसौन्दर्यरहितां मां कर्तुमुद्यता एताः स्त्रियः । इतरा- पश्य पश्य रे लोका ! न केवलमनया कुलाचारोच्छेदः कृतः किन्त्वधुना नीतिबन्धनान्यप्युत्साद्यन्ते ।
अपरा- हा धिक् ! हा धिक् ! अद्य मतोऽस्याः पतिरद्यवामात्रान्यः समालिङ्गयते कुटिलयाऽनया ।
मनोहरः- सत्वरं समाहरत युष्मद्वचनम् । अथवा -
दुःशीला- अथवा किम् ! कथय कथय यदि शब्दमप्युच्चारयितुं ते शक्तिरस्ति। नैषा रङ्गभूमिः कुट्टिनीशाला वा यत्र स्थितस्त्वमेनां संस्पृश्य विटपात्रं नाटयसि।
दूरमपसर ।
मनोहरः- (तर्जयित्वा) रे चारित्र्यमस्या मम चाधिक्षेप्तुं प्रवृत्ता ।
नारीं नरं समं दृष्ट्वा शङ्का का क्रियते त्वया।
संत्यज्य सुदृढं वृक्षं कमन्यमाश्रयेल्लता ।।३।।
अपि च न ज्ञायते छिद्रान्वेषिभिरमुष्मिन् संसारे । यथा -
पर्णं नलिन्याः सलिले निमग्नम्
क्लिन्नं न दृश्येत यदा विकृष्टम्।
चारित्र्यमीदृग्यदि पर्णभाजाम्
तत्कीदृशं स्यादथ चेतनानाम् ।।४।।
अन्या- अहो ! पण्डितः खल्वागत उपदेष्टुम् । दुःशीला- नहि पण्डितः कुट्टिनीदूत एष एनां प्रलोभ्य कुट्टिनीशालां नेतुमागतः।
मनोहरः- मम कुलप्रतिष्ठामपि दूषयितुं प्रवृत्ताः रे-
प्रतिवेशी- (प्रविश्य) मनोहर ! (हस्तेनैनं गृह्णाति।) किमेतत् । न समुचितं तवैतासां कार्यविक्षेपमुत्पादयितुम्। स्त्रीजनकरणीयेषु न पुरुषबुद्धिप्रसरो योग्यः। गच्छ ते मार्गम् ।
मनोहरः- आगतोऽस्म्येनां रक्षितुं कुरीतिपिशाचिन्याश्च हस्ताद्विमोक्तुम् ।
लावण्यवति ! गच्छाग्रतः पश्येयं कस्ते पन्थानमावृत्य तिष्ठति ।
(लावण्यवती चलति।)
दुःशीला- कुजाते ! पदात्पदमपि न गन्तव्यंस्त्वया । गच्छसि चेन्नासिकाच्छेदं कृत्वा मुण्डितशीर्षां त्वां निष्कासिष्ये गृहात् ।
मनोहर- अहो ! ईदृशी ते गर्जना ! अहमपि तावत्पश्यामि कथमस्याः कङ्कणभङ्गादयोऽनुष्ठीयन्त इति ।
दुःशीला- करिष्ये करिष्ये तव पश्यतः करिष्ये कङ्कणभङ्गमस्याः; कारयिष्ये च केशवपनम् । चतुरे ! गच्छ, आह्वयास्याः पितरम् ।
(ततः प्रविशति पुरोहितेनानुगम्यमानः सुन्दरदासः ।)
सुन्दरदासः- लावण्यवति ! किमेतत् । कथं कुप्यते दुःशीलया। (मनोहरं दृष्ट्वा) आ आगतो मनोहरः ।
दुःशीला- सुन्दरदास ! त्वत्त एषा कुजाता जातेति कलङ्कितं ते कुलम् । मम देवरायैनां दत्त्वाऽस्य मृत्योरनन्तरमेनां विधवावेशमपरिधाप्य कथमस्मत्कुलं दूषयितुं प्रवृत्तः।
सुन्दरदासः- रे पण्डिते ! कथं नानुवर्तसे ज्येष्ठजायाया आज्ञाम् ।
लावण्यवती- न किञ्चिदप्यनुपालनीयं दृष्टमस्याः ।
सुन्दरदासः- मुञ्चैनं पुरुषम् । गच्छ गृहमध्यागारम् ।
(समाकृषति)
मनोहरः- महाशय ! यद्यमानुषभावं प्रतिपद्यैषा समाकृष्यते तर्हि मूर्धा ते शतधा भूत्वा भूमौ पतिष्यति ।
सुन्दरदासः- दूरमपसर कन्याप्रलोभक !
कन्यां प्रार्थयता त्वया निपतितं मत्पादयोः सन्मुखम्
थूत्कृत्यैव तदा मया च हसितं तत्किं त्वया विस्मृतम्।
विघ्नं कारयितुं त्वमद्य चलितो जानासि नो मे प्रभाम्
सत्यं यास्यसि लोहकङ्गणधृतो रक्षैः समालम्बितः ।।५।।
लावण्यवती- मनोहर ! दुर्भाग्यगृहीतां मां त्यज परिरक्ष चात्मानं नो चेद्दुरात्मान एते तव दुर्दशयाऽऽनन्देयुः ।
मनोहरः- अहमपि पश्येयं कस्य गतिः केशवपनकङ्कणभङ्गादिविचार- विरुद्धायास्तव विरुद्धमाचरितुस्मिन् प्रगतिशीलयुगे ।
सुन्दरदासः- मूर्ख ! न पतितं ते श्रुतिपथं यन्मयाऽनुष्ठितमस्या विवाहसमये।
इह तव सदृशा ये मौर्ख्यमालम्बमानाः
अनुपदमुपयाता रक्षणार्थाय मत्ताः।
विहसितमदभावास्ते कृता नष्टयत्नाः
घनशकलसमूहा वायुनेवावभग्नाः ।।६।।
मनोहरः- यद्येवं तर्ह्यन्यथैव विहितं तव भागधेयेनाद्य । न्यायेन परिरक्ष्यमाणैषा दुरात्मभिः समाघ्रातुपि न शक्यते ।
पुरोहितः- युवक ! शास्त्रोपहितं विधिमनुष्ठीयमानमुपहन्तुं न ते समुचितम्।
मनोहरः- एषा परिणीतेति स्थापयितुं केन शक्यते ।
पुरोहितः- साक्षीकृतोऽस्या लग्नविधिः ।
मनोहरः- यद्येवं तर्हि मुक्तैषा पितुर्निग्रहात् । परिणयानन्तरं पतिनिग्रह एव स्त्रीणां विद्यते । असौ तु पतिर्मृतः । एवं सा स्वतंत्रा यथा न कोऽपि पुत्रोऽनयोर्जातो दृश्यते । तथा स्थिते क एनां यथेप्सितं कुर्वाणां निग्रहीतुं शक्नुयात् ।
पुरोहितः- ज्ञातिः ।
मनोहरः- ज्ञातिरिति कश्चिज्जनसमुदायः । तेन च स्थापिता नियमा समयानुसारिणो यथाकालं विक्रियेरन् ।
दुःशीला- न जानात्येष मूढो यथा लग्नविधिना मनुष्यः स्वकुलपरंपरागताः कुलधर्मरीतिनीतीः पालयितुं निबद्धः । तस्मादस्मत्कुलरीतिरनयाऽनुसर्तव्या ।
मनोहरः- न तथा । लग्नमिति न पतिकुलक्रमागतरूढिपालनप्रतिज्ञा । न वासौ न्यायलेखः न वा विकारवृत्तेरुपशमनहेतुः । केवलं तत्स्नेहमूलो दीपो वर्तिकारहितः सुप्रभः । तस्मिंश्चाविखण्डमाभास्यमाने संसारदुःखमोक्षप्रसङ्गः । एवं सति बलात्कारेण विधीयमानं लग्नं कथं लग्नं भवेत् । परिणीयमानाया अस्याः स्वयमनुच्चार्याणा लग्नप्रतिज्ञा कथं प्रतिज्ञा भवेत् । संसारमूलः स्नेहो नोत्पादनीयः । स तु स्वयंभूः। यथा हि तत्र -
सूत्रस्य ग्रथनां विनाऽपि हृदयं बद्धं सदा दृश्यते
संक्राम्येत न यच्च दर्पणतले दृश्येत तद् बिम्बितम् ।
यद्दीप्तं न विभास्यते हुतभुजा संद्दीप्यते तत्स्वयम्
स्थानं स्याद्विपणेः कथं नु विरलः स्नेहः स्वयंभूः सदा ।।७।।
पुरोहितः- लग्नमिति कन्यायाः पित्रा वराय दीयमानं दानम् । तद्दत्तमद्दत्तं न भवति। एवं सति पुनर्विवाहस्यासंभवः । तस्माद्यथा विधवा विकारवशं गता न भवेत्तथा विधातव्यम् । सौन्दर्यं तु विकारोद्भावकम् । तस्मात्केशवपनादिनैनां विरूपां कृत्वाऽस्यै विकारविनाशकं भोजनं देयमिति शास्त्रविद्भिरुपस्थापितम् ।
मनोहरः- रे पण्डित ! ईदृश्यः कियन्त्यः विधवा विपथं न गताः । विकारो न केवलं सौन्दर्यादाकृतेः सौष्ठवाद्वोद्भवति । इन्द्रियसुखप्राप्तिहेतुरेवास्य कारणम् । न च भोजनादि । वनवासिनामपि मुनीनां तत्संभवात् । यदुक्तं कन्याया दानमिति अत्र तु दानमेव न संभवति। तस्य संभवे पुत्रस्यापि दानसंभवः । योनिभेदो न प्रबलकारणम्। दानप्रमाणेऽप्यङ्गीक्रियमाणे प्रदातुः प्रदानादूर्ध्वधिकारलोप एव । प्रतिग्रहीता मृत एव। प्रतिग्रहीतुराज्ञां विनाऽन्यस्य कस्यापि दानविषयोपरि नास्त्यधिकारः । एवमप्येषा मुक्ता स्ववृत्तिमनुसर्तुम् ।
पुरोहितः- भवेत्तद्यदि वर्तेतानियतः संसार एषः । वर्तमानकाले शास्त्रमपि परित्यज्य लोकेनासमतं, रूढेर्विरुद्धं, पण्डितैरननुतं च न कदाप्यनुगन्तव्यम् । तथा चोक्तम् -
उन्मूलयेत्स्वकुलधर्ममिह प्रसूतम्
यो लोकरीतिवधीरयते मनस्वी।
संसाररीतिपरिवर्तनयत्नशीलः
भ्रष्टः समापतति सोऽभिमुखं जनानाम् ।।८।।
मनोहरः- (संक्षुब्धः) कुलरीतिर्लोकाचारो लोकव्यवहारो रूढिरित्येवं घोषयन्तः स्वार्थरता मानवाः, कियत्कालमवनतिकूपे पतितं भारतवर्षं लक्ष्यभ्रष्टप्राचीननियमैः स्वार्थपरायणैः स्ववृत्तिमनुसृत्य विद्वद्भिरितरजनैश्च विवर्ण्यमानैर्दूषयिष्यथ । न तत्त्वतः प्राचीनधर्मस्थापना क्रियते । न च नूतनः समालिङ्ग्यते। न च वर्तानकालयोग्यः प्राचीनधर्मः क्रियते । कुत्र वर्तते भवतः संस्कृतिर्मन्त्रतन्त्रादिज्ञानं निष्पक्षपातिनी न्यायबुद्धिश्च । पश्य बालविधवानां प्रमाणम् । क्षिप दृष्टिं सुगुप्तं क्रियमाणमनुमोद्यमानं च तथा व्यभिचारं प्रति । निरीक्षस्वेदृशस्य धनलोलुपस्य विक्रयबुद्धिं हृदयनिर्दयत्वं भावहीनत्वं च येन मृत्युदंष्ट्रायां वर्तानाय जरठाय कन्या विक्रीता अपरं चैषा मर्मभिद्भिः कुरूढिप्रहारैः पुनः पुनः प्रह्रियते। सुन्दरदासः- पुरोहित ! किमर्थं व्यर्थकालक्षेपः। विसृजैनम् । यदि स्वयं न गच्छति तर्हि नगररक्षकानाह्वय । दुःशीले यथोचितान् लोकाचाराननुवर्तस्व ।
लावण्यवती- यदि वात्सल्यांशोऽपि वर्तते भवतो हृदये यदि वा जनसुलभसदयहृदयांशोऽपि विद्यते तर्हि विरमेदृशोऽनाचारात् । विचारमात्रेणाऽपि कम्पते मे हृदयं, कथं तत्सहिष्यत ईदृशोऽनाचारः । जनक मया भवान्न किञ्चिदपि याचितो जन्मनः प्रभृति । अद्यैव याचेऽहं, भिक्षेऽहं, देहि मे मुक्तिमिति पादयो भवतः पतामि।
(जानुनी भूौ निधाय पादयोः पतति।।)
सुन्दरदासः- रे दुष्टे ! पापविचारपूर्णेन ते मस्तकेन स्पृष्ट्वा मामपि मलिनीकरोषि। यदीदृशस्ते विचारस्तर्हि सहस्व मे पादप्रहारम् ।
(पादेन प्रहर्तुं पादमुद्धरति।)
मनोहरः- (सहसैनभिहत्य) न लज्जसे प्रहरन् याचमानामेनां कुसुमपेलवाम्। पिता वा पिशाचो वा त्वम् ।
कदा स्यान्मे गेहं मुखरितमपत्यैः सुकृतिभिः
तथैवं संवृद्धैर्नयनसुखदैस्तैः सुविहितैः।
यदा निःसंतानाः सुचिरमभिलाषेण मथिताः
सुशीलां प्राप्यैनां त्वमभिरत एवं कथमहो ।।९।।
अपि च
अरे! मे कन्याया नववयसि भूतं न किमिदम्
न दृष्टं लब्धं वा क्षणमपि सुखं संसृतिभवम्।
दशा का तस्याः स्यादनवगतसंसारविपदः
तथा चिन्तास्थाने प्रचलसि कथं निर्घृणतरः ।।१०।।
हताशां दृष्ट्वेमां रुचिरतनुसंसाररहिताम्
तथा मञ्जीराणामननुगतझंकारमधुराम्।
*विना चन्द्रं रात्रीमिव सितमुखीं तां च विकृताम्
कथं द्रक्ष्याम्येनामिति वहसि भावं न हि कथम् ।।११।।
सुन्दरदासः- पूर्वजन्मकृतानि पापान्यन्यजन्मनि फलान्याविष्कुर्वन्ति । अनया तु घोरं पापं पूर्वजन्मनि कृतं स्यात्तथेदृशः फलोद्गमोऽनिवार्यः । एवं सति वैधव्येनास्या मम हृदयपीडासंपादनात्को लाभः । स्वयमुत्पादितानर्थस्य नाऽन्यो भोक्ता लभ्यते।
मुग्धा शक्रनयेन गौतमवधूः शल्यैव भूता च सा
शक्रस्याप्यभवंस्तनौ दशशतं छिद्राणि शापादृषेः।
यः पास्यत्यमृतं स एव लभते मृत्योर्विक्तिं तथा
मृत्युं वा विषपो लभेत विषजं लब्धा न कोऽन्यो जनः ।।१२।।
लावण्यवती- हन्त ! पितैव ममैवं वदति।
(रोदिति ।)
मनोहरः- लावण्यवति ! वत्सलता पशुजातिं समाश्रिता । अत्र तु बुद्धिमती मानवजातिरनुमानलिङ्गसपक्षविपक्षादीनां प्रमाणेनाभिलषितार्थस्य प्रतिपादने प्रवृत्ता । एहि भद्रे मम गृहमेहि ।
स्वार्थान्धता मानवतां विहन्ति
देवांशमुन्मूलयति प्रसूतम्।
एवं स्थिते का गणनाऽत्र कार्या
प्रजा ममेयं जनकोऽहमस्याः ।।१३।।
सुन्दरदासः- तिष्ठ तिष्ठ । निर्लज्जायाः पन्था गृहीतस्त्वया तथापि प्रत्यानेष्ये त्वामेवमेव । (केशैर्गृहीत्वा ताडयति।)
मनोहरः- मुञ्चैनाम् -
(मनोहरस्य मुष्टिः सुन्दरदासस्य शीर्षे पतति । पुरोहित इतस्ततो धावति । स्त्रियःकलकलमुद्भावयन्ति । इतरे जनाः समुपधावन्ति ।)
(ततः प्रविशति शान्तिदासः संरक्षकैः न्यायाधीशात्प्रबाधकपत्रं गृहीत्वा ।)
शान्तिदासः- (उपसृत्य) मनोहर ! मुञ्चैनम् । लब्धं मया प्रबाधकमाज्ञापत्रं न्यायाधीशात् । यावदस्य वृत्तस्य न्यायो न्यायसभायां न क्रियते तावत्सा मुक्ता यथेच्छं विहर्तुम् ।
(रक्षकः सुन्दरदासं पत्रं दर्शयति । स च सक्रोधं स्वहस्ताक्षरं ददाति ।)
लावण्यवती- पितृव्य ! रक्ष रक्ष माम् (पतति तस्य हस्तयोः।)
शान्तिदासः- पुत्रि ! रक्षिताऽसि दैवेन । पश्य -
विस्फार्य नेत्रे कुटिले सुरक्ते
दृष्ट्वा तथा चित्रगतः स्थितोऽसौ।
दन्तैरमर्षादधरं च दुष्ट्वा
मां त्वां च वक्राक्षिगतौ करोति ।।१४।।
यवनिका
इति कङ्कणभङ्गव्याघातो नाम तृतीयोऽङ्कः ।