चतुर्थोऽङ्कः ।
(ततः प्रविशन्ति काश्चित्स्त्रियोऽम्बिकाया देवायतनसमीपस्थं चत्वरं समाश्रित्य वार्तालापं कुर्वन्त्यः ।)
कामन्दकी- (चतुरिकां गच्छन्तीमाहूय) चतुरिके कथं पिहितनयना गच्छसि। ज्ञायते त्वं पतिसेवातत्परेति । एहि क्षणमात्रमत्र ।
चतुरिका- हला कामन्दकि ! अम्बिकायां वर्तमानचित्तया मया न दृष्टाः क्षणं भवत्यः । कथय यत्कथनीयम् ।
दुरोदरा- पलायस्व पलायस्व । पतिस्ते न मृष्यति विलम्बम् । किं तव लावण्यवतीवृत्तान्तेन ज्ञातेनाज्ञातेन वा ।
चतुरिका- सखि ! यावद्वयमज्ञातवैधव्यदुःखास्तावदेवैनां सदोषां पश्यामः। अज्ञातभर्तृसुखा सा विधवा जाता । तस्माद्यदि सा पुनर्विवाहं चिन्तयति तर्हि न किञ्चिदप्ययोग्यम् ।
दुरोदरा- पुनर्विवाहं यदि बहु मन्यसे तर्हि परिणायय ते पुत्रीं विधवां कृत्वाऽन्यस्मै।
चतुरिका- अज्ञातससांरसुखाया एव पुनर्विवाहमनुजानामि न सवर्षाम् । यदि काचित्स्वयमेव पुनर्विवाहविरुद्धा तर्ह्यपि बलात्कारेणास्याः पुनर्विवाहः कार्य इति न कस्यचिन्मतम् । तथापि कस्मान्मां कुवचनैरधिक्षिपसि।
कामन्दकी - समुचितमुक्तं भवत्या । तथाप्येनां विधवामकालक्षेपं कामोत्तेजकवचनोपन्यासेन स मनोहरः समुत्तेजयतीति न विनीतानां पन्थाः।
दुरोदरा - असौ दुष्टो विधवाशीलभङ्गरतो रौरवनरके पतिष्यति।
चतुरिका- अज्ञात्वा मनुष्यं न देयं मतम् । अनयोः प्रेमबाल्यकालादेव दृढबद्धमूलम् । तयोर्बाल्यकालान्महाधनकोशाभिलाषिणा सुन्दरदासेनानयोः प्रणयो निःशब्दमनुत आसीत् । यावच्छुल्कनिमित्ता सुन्दरदासस्य प्रार्थना मनोहरेण तिरस्कृता तावद्बलादेषा वराकी वृद्धत्वमापन्नाय देवीदासायाकस्मात्प्रदत्ता । अस्मिन्मृते यदि विधवाविवाहमेषाऽनुस्थास्यति तर्हि को दोषः ।
कामन्दकी- महाजनः किं विवाहमनुमंस्यते ।
चतुरिका- ईदृशस्त्वपवादरूपोऽनुमत एव । युवकजनबाहुल्याद्वृद्धैरपि शिथिलीकृतो विरोधो ज्ञातिसंगठनार्थपवाद एष इति ।
दुरोदरा- न कदापि सुन्दरदासोऽनुमंस्यते ।
चतुरिका- अनेनाऽपि संमानितो महाजनाभिप्रायः । अल्पैरहोभि- र्विवाहोऽनुष्ठितो भविष्यति ।
दुरुरुरोदेदरा- अधःपातः समीप एव ज्ञातेः । गत्वा ज्ञास्ये कथं वर्तते मे सखी दुःशीला।
(निष्क्रान्ता।)
चतुरिका-एहि कामन्दकि ! आवामपि गत्वा वराकीं लावण्यवतीमभिनन्दावहे।
(निष्क्रान्ते ।)
प्रवेशकः ।
प्रथमं दृश्यम्
(ततः प्रविशति क्रोधरक्तनयनः सुन्दरदासः)
सुन्दरदासः- कथं कथं मयाऽनुमतो मे पुत्र्याः पुनर्विवाहः । सर्वे नष्टा मे प्रयत्नाः। मनोहर ! यावद्वैरनिर्यातनं न कृतं तावन्न कुतोऽपि शान्तिं लभेय । कुत आविर्भूतस्त्वादृशो दुरात्मा येन युवकगणान्प्रोत्साह्य वृद्धानपि समुत्तेज्य लब्धाऽपवादरूपिण्याज्ञा पुनर्विवाहस्य। न जाने किं कृतं स्यान्मया संदीप्तमनसा यद्येष दुरात्मा मे नयनपथमायातो विजने ।
अङ्गं तप्तं विकृतमनसा कार्यमूढेन दग्धम्
क्रोधाविष्टैरततनयनै रक्तकोणैर्विरक्तम् ।
दष्टावोष्ठौ पुनरपि पुनः पीडितौ रक्तदिग्धौ
सूमूढात्मा मम न लभते शान्तिमेवं प्रतप्तः ।।१।।
क्रोधपूर्णं मनः सत्यं पन्थानं न हि पश्यति ।
येनास्मात्सा विरक्ता स्याद्दुष्टः सोऽपि च तां त्यजेत् ।।२।।
(संतप्त इतस्ततो भ्रमति।)
(ततः प्रविशति दुःशीला।)
दुःशीला- कथं सहेयास्याः पुनर्विवाहम् । केन कृतोऽनुज्ञात उपदिष्टो वा मे पुनर्विवाहः । किमहं नोत्पन्ना स्त्रीवर्गे किं न संजाताऽहं विधवा । नाभिलाषा संसारसुखोपभोगस्य ममापि किम् । यथा मयेदृशो दशाविपर्ययः सोढस्तथाऽनयाऽपि सोढव्यः । दुरोदरया सख्याऽप्येवमेव कथितम् । निश्चितं, सुनिश्चितं मया यथा मरिष्यामि किन्तु न मर्षयिष्यामि परिणयमस्या इति । कुत्र मे भ्राता । (पश्यन्तीस्तस्ततः) एष शून्य- दृष्टिश्चलति । (निरीक्ष्य) अस्य क्रोधाग्नौ घृतसिञ्चनं तथा करिष्ये यथा प्रबलप्रलयवर्षाऽप्येनं शामयितुं भग्नयत्ना भविष्यति । (सुन्दरदासमुपसृत्य) सुन्दर ! कुत्र कर्तव्या विवाहसामग्री ।
सुन्दरदासः- (विचारग्रस्तः) यमद्वारे । अतः परं कुत्र योग्या मृत्युसामग्री ।
दुःशीला- भ्रातर् ! किमुच्यते मृत्युसामग्री । कस्य ।
सुन्दरदासः- मनोहरस्य । कस्य वाऽन्यस्य ।
दुःशीला- (दन्तैरोष्ठौ निष्पीड्य) शान्तिं भजस्व । नोचितं मङ्गलकाले तथा वक्तुम् । आघोषितो विवाहः ।
सुन्दरदासः- तथैवाऽऽघोष्येत मृत्युः। (निर्वर्ण्यं) दुःशीला- (विचार्य) कथं त्वमत्र- (इत्यर्घोक्ते)
दुःशीला- (सस्मितम्) बन्धो ! महाजनेनाऽपि दर्शितदया सा न पुनर्विधवायोगमर्हति ।
सुन्दरदासः- (ससंभ्रमम्) पुनर्विधवायोगम् । किं मयैतदुक्तम् । दुःशीले ! तव देवरस्य मृत्युना संतप्तं मे मनो न जानाति वाक्प्रसरम् । श्वो लावण्यवती मनोहरं परिणेष्यतीत्येष एव विचारो मे हृदयं ज्वलयति ।
दुःशीला- (भ्रुवौ निबध्य कर्णे) बन्धो ! दुःशीला खल्वहम् । न काचित्सामान्या ।
सुन्दरदासः- यद्येवं तर्हि कुरु विवाहसामग्रीम् । निमत्रंय ललनामङ्गलगीतानि गातुम्।
दुःशीला- आज्ञापितस्त्वया घातकः ।
सुन्दरदासः- पुरोहितः ।
दुःशीला- मूढ ! मां वञ्चयितुमिच्छसि । न जानासि यथा मां विना कोऽपि ते प्रयत्नो बन्धनागाराभिमुखः स्यात् ! न ते वैरनिर्यातनं भवेदस्य मनोहरस्य जीवितापहरणेन ।
सुन्दरदासः- तर्हि तत्कथमविलम्बितं स्यादिति सत्वरं कथय ।
दुःशीला- महान्तं वृक्षसंघातं पर्वतसमूहमपि च विदग्धुं समर्था विद्युत्केन बन्दिग्राहं ग्रहीतुं शक्यते । कस्मान्मेघात्सा विद्युत् पतितेति निश्चित्य ज्ञातुमसमर्थः कस्तां दण्डयितुं समर्थः ।
सुन्दरदासः- किमुपक्षिप्तं भवत्या ।
दुःशीला- विहताशस्त्वं मे बन्धुरित्येव चिन्तितम् ।
सुन्दरदासः- किं लक्ष्यीकृतं भवत्या ।
दुःशीला- कीदृक् ते हृदयं, पुरुषस्य स्त्रीजनस्य वा ।
सुन्दरदासः- जात्या पुरुषः। पुरुषस्यैव मे हृदयम् ।
दुःशीला- (विहस्य) आकृत्या पुरुषस्तथापि हृदयं स्त्रीजनस्येति विचित्रा सृष्टिः ।
सुन्दरदासः- आज्ञापय । दुष्करमपि कर्म परिणतं तदेव क्षणं पश्यसि ।
दुःशीला- वर्तन्ते चतुराणकाः ।
सुन्दरदासः- बहवः, परन्तु किमेभिः ।
दुःशीला- जानासि त्वं विपणिपथम् ।
सुन्दरदासः- यथा सुन्दरोऽहमिति जानामि तथा ।
दुःशीला- आनय सोमलाख्यं विषम् ।
सुन्दरदासः- विषम् । दुःशीले ! विषप्रयोगः-
दुःशीला- ज्ञातमेव यथा पुरुषाः वाक्शूरा न तथा कर्मशूराः ।
सुन्दरदासः- कथमेतन्मनोहरे प्रयोक्तव्यमित्येव विचारणा मां पीडयति ।
दुःशीला- मूर्ख ! मनोहरे पञ्चत्वं गते कथं ते वैरनिर्यातनं भवेत् । अस्मिंस्तु म्रियमाणे तीव्रर्मभेदिन्या पीडया च पीड्यमाने त्वयाऽनृण्यं यातं स्याद्वैरस्येति मन्ये। तस्मात्ते दुहितैव विषेण योजनीया ।
सुन्दरदासः- (विचार्य) लावण्यवत्यामेव विषप्रयोगः । पितैव पुत्रीघातको भवेत्।
दुःशीला- घातकेन विषेण वा यदि मनोहरो इतः स्यात्तर्हि त्वयैवास्य मृत्युर्विहित इति पातालेऽप्यङ्गरक्षकैस्त्वं सप्रमाणं गृहीतः स्याः । अत्र त्वावामस्मद्गृहे तथा योजयिष्यावो तथा केनाऽपि त्वमात्तगन्धि न भवेः ।
सुन्दरदासः- वेपते मे हृदयं स्त्रीहत्याविचारेण ।
दुःशीला- कातर ! एकेनैव प्रयोगेण द्वावर्थौ साध्येते । प्रथमं तावदेषा विधवाविवाहजनितपापाद्बाध्यते । अपरं चास्यां मृतायां ज्वलितसंसारो मनोहरः प्रतिक्षणं शोकसागरे निमज्जन्नसह्यहृदयव्यथागृहीतः क्षणमपि शान्तिं न लभेत । तस्मात्स्थिरहृदयो भव । लग्नसमारम्भेऽङ्गीकृते कन्यायां चालंकृतायां त्वयि च दर्शितोल्लासे को ज्ञास्यति केन किमनुष्ठितमिति । तर्कातिशयं हृदयं निर्बलीकरोति निश्चयं च शिथिलयति । तस्मान्मा देहि तर्काणामवकाशम् । गच्छामि तव लग्नोत्साहं निवेदयितुम् । त्वमप्यशिथिलितमना उत्साहं दर्शय ।
(निष्क्रान्ता।)
सुन्दरदासः- (परिभ्रमन्विचार्य) तथैव करिष्ये । कस्मान्न करोमि ।
द्वितीयस्मिंल्लग्ने द्विगुणयितुमैच्छं मम धनम्
प्रतार्यैतान्मूढान्सुविहितनयेनैव बहुलम् ।
पुनर्लग्नं पुत्र्या विमतमपि तन्मे त्वनुमतम्
विना किञ्चिच्छुल्कं तदिति मम संजातमसहम् ।।३।।
ज्वलति च ममात्मा । अङ्गानि दह्यन्ते । मनः संतप्यते । क्षणमात्रमपि विलम्बं न सहे । कुत्र विषम् । कुत्र मे पुत्री । कुत्र गता च रात्रिः । दुष्ट दिनकर ! अद्यापि न मुञ्चसि नभस्तलम् । (कानिचित्पदानि गत्वा गवाक्षाभिमुखं) किमनुभूयते मया हृदये।
कस्मादेतद्वेपते। दुष्कर्मणि रतोऽहमिति को ध्वनिरुद्भवति। किं दुष्कर्म । कथं चैतद्दुष्कर्म। पादेन ताडितः कुक्कुरोऽपि घुर्घुरायते । अग्निरपि हस्तेन निष्पीडितो दहति। तस्मान्नैतद्दुष्कर्म । वैरनिर्यातनमेव । यमदूत ! क्षणं कुरु विनिमयमावयोर्हृदययोः। एकं क्षणं तिमिरान्धकारेणावृणु मे नयने हृदयं विहायसं च । घटिकामेकां मे मनो विचारशून्यं कुरु । कानिचित्क्षणानि का सा कश्चाहं किमहं कर्तुमुद्यत इति प्रश्नान्मोद्भावय। पूरय मे हृदयं कठोरतया । अभितो मां पूरय सृष्टिं घोरताप्रेरकवायुना। प्रेरयोलूकादीनां चीत्कारं मामुत्साहयितुम्। (चलन्) कुत्र मध्यरात्रिं प्रतिपालयामि। लोकेषु व्यवहरन्मन्दोत्साहो भवेयम् । (विचारयन्) किं कुर्यामेतावत्कालम् । वाचयामि घोरकर्मविषयाणि पुस्तकानि। स्ववल्लभं द्रष्टुं गताया लावण्यवत्या मुखं कथमपि तावत्कालं न द्रक्ष्यामि । (पुस्तकानि विलोकयितुं प्रवृत्तः।)
अन्तर्यवनिका
दृश्यं द्वितीयम् ।
(ततः प्रविशतो मलबारगिरिभूभागं वर्तमानौ लावण्यवतीमनोहरौ।)
मनोहरः- (लावण्यवतीं प्रकृतिरमणं दर्शयन्) । प्रिये ! पश्य संध्याभिरा- मत्वम्।
गतप्रायः सूर्यो गगनतलकण्ठाद्द्रुतपदः
मुखेनारक्तेनामलकमलिनीं चुम्बितुमनाः।
अहो काश्मीराक्तं जलधिमवगाह्य प्रमुदितः
प्रियामालिङ्गेत्स्वां गतहृदयचिन्तो नतमुखाम् ।।४।।
अपि च
प्रियं यातं दृष्ट्वा त्वरितगमना सेर्ष्यहृदया
सपत्न्याः सौभाग्यं क्षणमपि न सोढुं स्थितवती ।
तथा निर्गच्छन्त्या गलितपदरागेण चपलम्
सुलिप्तं संध्यायाः प्रतिपदममेघं नु गगनम् ।।५।।
अपरं चेतरदिग्विभागे -
क्षिप्रं क्षिप्रं घनतिमिरजाः संपतन्त्यत्र रेखाः
दृष्ट्वा सूर्यं त्वरितगतिकं सागरान्तः पतन्तम् ।
तेजोध्वान्तं गगनतुलया तोलयत्यत्र दैवम्
स्तोकं तेजस्तदपि चपलं यात्यधस्ताद्विचित्रम् ।।६।।
लावण्यवती- अथात्राऽपि पश्य ।
यावन्मग्नः पयसि तरणिस्तावदुत्क्षिप्तमम्बु
प्रक्षिप्ता ये जललवकणास्तेऽत्र लग्नास्तमिस्त्रे ।
कृत्वा नेत्रे विविधशतके मार्गणार्थं रिपूणाम्
रात्रिर्दृष्टिं क्षिपति सततं संवदन्त्यत्र लोकाः ।।७।।
मनोहरः- वल्लभे ! कीदृशी मुम्बापुरी दृश्यते ।
लावण्यवती- (परावृत्य पश्यन्ती) जाने खलु प्रियमभिसर्पन्त्या विह्वलाया रजन्या उपवस्त्रं सुवर्णरेखाबिन्दुभिरलंकृतं च्युतमिति ।
मनोहरः- भवेत्तदपि । मम त्वेवं भाति ।
दृष्ट्वा दीपसमूहयुक्तशकलं पृथ्व्यास्तमिस्रावृतम्
तेजोभासमथैव तत्र विहितं क्षीणैश्च दीपैर्युतम्।
गंगां व्योमगतां तथाऽत्र विहितां सौन्दर्यमातन्वतीम्
मन्येऽहं रजनीमरीचिसमरे खण्डो दिवः पातितः ।।८।।
लावण्यवती- मनोहर ! सुवर्णाभिरामा संध्या कालरात्र्या संपूर्णं ग्रस्तेति वेपते मे हृदयम् । कदाचिदेषा मामपि ग्रसितुं हस्तं प्रसारयेत् ।
मनोहरः- भीरु ! कुतस्ते भयमधुना ।
कालो गतः सुचरिते भयमादधानः
वात्सल्यभावमधुरं स्मयते विधाता।
विच्छेद्य मेघशकलान्निजरश्मिपातैः
कण्डूयते हरितकानि यथा मरीचिः ।।९।।
अपि च -
प्रभाते संजाते रविकिरणपातैर्धवलिते
प्रकृत्याः संगीते विहगगणकण्ठेन कलिते।
समक्षं मित्राणां सदयहृदयानां तनुभृताम्
ग्रहीष्ये सानन्दं तव करमहं कङ्गणयुतम् ।।१०।।
लावण्यवती- (किञ्चित् स्मितस्मेरानना) वल्लभ ! उत्ताम्यति मे हृदयम् । हृदयभावं निवेदयितुं जिह्वाऽपि मे न चलति ।
मनोहरः- तव नयनात्क्षरत्यमृतम् । निःशब्दा ते वागधिकतरं स्नेहमाविष्करोति । प्रिये ! षष्टिघटिकासु व्यतीतासु किं किं सुखं तव निर्मलहृदयान्न लभेय ।
लावण्यवती- (सलज्जं हस्तेनांशुकपल्लवं परामृश्य नतनयना) एकेनैव ते दृष्टिपातेन हृतसर्वस्वाऽहं किमपि दातुसमर्था ।
मनोहरः- अक्षयपात्रं ललनाहृदयम् । प्रतिक्षणं नूतनसुकुमारभावप्रसादं जनयति । वदनाविष्कृतभावेन च तदेवास्वादयति ।
बीजस्कंधफलं विनाऽपि रसजं स्वादामृतं लभ्यते
यस्मिन् विस्मृतदुःखभावनिखिलं संतुष्टमेतज्जगत्।
संतापो हिमशैलशीतलतया नेतुं न यः शक्यते
स्वादेनास्य रसस्य तत्क्षणमसौ नीयेत शान्तिप्रदम् ।।११।।
लावण्यवती- रसेन्द्रेण त्वया रसवर्षया महेन्द्रोऽपि जीयते । मनोहरः- अहो ! त्रैलोक्यनाथः संवृत्तोऽहम् ।
लावण्यवती- मम तु त्वं हृदयवेदिकायां स्थापितः परमात्मा । मम दृष्टिक्षेत्रे मनोभूमौ प्रकृतौ च त्वं सततं लब्धप्रसरः । दूरस्थितोऽपि समीप एव ।
मनोहरः- धन्योऽस्मि । (घटिकायन्त्रेण दूरे घटिका वाद्यन्ते ।) अहो व्यतीतो दीर्घकालः ।
लावण्यवती-प्रियसमागमेऽखिलोऽपि युग क्षणसमः। सेर्ष्यैषा घटिका न सहतेऽस्मत्सुखयोगम्।
मनोहरः- नैषा तवोपालम्भस्थानम् । अनया तु उपकृतावावाम्। यथा -
रसास्वादे कियान् नौ कालो व्यपगत न ज्ञायते हि तत्।
स्मारयत्येष अधुना तस्मात्कुर्वो यद्यथोचितम् ।।१२।।
तस्माद्गृहं गत्वा प्रभातकरणीयेषु दत्तावधाना भव ।
लावण्यवती- गृहाभिमुखं गच्छन्त्याः पदानि मे स्खलन्ति किञ्चिदज्ञातमिव वर्तते मे हृदये दुःसहभारम् । कथमेनां दीर्घरात्रिं नेतुं शक्नुयाम् ।
मनोहरः- एष भूतकालवृत्तस्य परिणामः । विस्मृत्य सर्वं पितरं च संमान्य प्रतिपालय प्रभातकालम् । एहि गच्छावः । कदाचित् पितृष्वसाऽपि त्वां प्रतिनिवर्तमानामपेक्षते ।
(निष्क्रान्ते)
अन्तर्यवनिका
दृश्यं तृतीयम् ।
सुन्दरदासः- (पुस्तकं क्षिप्त्वा) कदा भवेन्मे हृदयमीदृशम् । मीरा भर्त्रैव विषं पायिता। कृष्णाकुमारी मात्रा पित्रा च हालाहलं दत्ता । अपि च श्रूयते यथा क्षीरसागरसमुद्भुतं भयङ्करहालाहलं शंकराय देवैर्दत्तम् । अनेन च पीयमानस्य प्रिययाऽम्बिकया विना संक्षोभं यावत्कण्ठपर्यन्तं गतं तावद्द्रष्टम् । (इतस्ततश्चलति) हस्तौ वज्रीभवताम् । आगता रात्रिः । यद्येषा स्वयं न पिबति तर्हि कण्ठेन गृहीत्वा एनामेतत्पाययन्तौ मा भैष्टम् ।
(प्रविशति दुःशीला।)
दुःशीला- (स्मयमाना तमनिमीलितनयना पश्यन्ती) गृहीतो मत्स्यो बडिशेन।
(उपसर्पति।)
सुन्दरदासः- (आकाशं प्रति दृष्टिक्षेपं कृत्वा) कथं स्थिरीभूता रात्रिः ।
(घटिकायन्त्रं दृष्ट्वा) कियतः कालादेतद्यन्त्रं दशमीमेव घटिकां दर्शयति । रे मू‹ढ ! द्रुततरं मध्यरात्रिं समानय अथवा ते यन्त्रविभागान्पृथक् पृथक् कृत्वा तवास्तित्वं विफलं करिष्ये।
दुःशीला- (घटिकायन्त्रं प्रहरन्तमेनं हस्तेन गृहीत्वा) बन्धो ! नूनन्त्वं पुरुष एव। सज्जीभव। आगच्छति ते दुहिता ।
सुन्दरदासः- कुत्र वर्तते विषम् ।
दुःशीला- (सक्रोधम्) कथयामि दुहिता तेऽत्रागच्छतीति । वर्तते चानया सह मनोहरः । मा दर्शय हृदयगतविचाररेखां मुखतलभागे । स्मितं कुरु । चकित इव मा तिष्ठ । स्पृशैनां मस्तके । तां च समाजिघ्र । देहि मधुरवचनयुक्तामाशिषम् । गद्गदकण्ठेनोच्चारय वत्सलभावमिश्राणि वचनानि । कञ्चित्कालं सुमधुरवार्तालापेनैनां चकोरामनुरञ्जय । मा देहि स्थानं शङ्कालवस्याप्येतयोर्हृदये ।
(प्रविशति सलावण्यवतीकः मनोहरः।)
(मनोहरमुद्दिश्य सस्मितम्) गृहीतभोजनरसो दृश्यते भवान् । लावण्यवति ! देहि ते स्वामिने तव करेण रसमयं ताम्बूलम् । जामातर् ! न खलु किंचिद्भवतो न्यूनमस्मत्तः।
मनोहरः- सानुकूले विधौ सर्वमप्यनुकूलं संतोषावहं च परिणमति। तत्रापि व्यवहारकुशलायां भवत्यां कथं न्यूनतायाः संभवः ।
दुःशीला- बन्धो ! न ज्ञातमस्मामिः पूर्वं यथा मनोहरदास इति कश्चिन्मानवविशेषो येन कृतः सम्बन्धोऽस्मत्कुलप्रतिष्ठां प्रगुणयेत् ।
लावण्यवती- (स्वगतम्) कम्पते मे हृदयमस्याः शर्करासदृशैर्वचनैः ।
दुःशीला- गच्छतु भवान् । प्रभातं सोत्कण्ठं प्रतीक्षस्व । उषैव प्रत्युद्गता भवन्तमभिनन्दिष्यति । (स्मयते।)
लावण्यवती- (स्वगतम्) अस्याः स्मितं कथं न मे रोचते ।
दुःशीला- अतिकार्यव्यग्रत्वात्पिता ते परिश्रान्तः । तस्मात्त्वमेव स्वामिनं दर्शय द्वारपर्यन्तं मार्गम् । श्वस्तः प्रतिपदं त्वयाऽस्यैव सेवाऽऽदरणीया ।
(गच्छति लावण्यवती स्वामिना सह द्वारपर्यन्तम्।)
दुःशीला- (कर्णे सुन्दरदासम्) सुन्दर ! कथं मूढ इव स्थितः । न दृष्टं त्वया तीक्ष्णदृष्टिरासीन्मनोहरस्त्वयीति ।
सुन्दरदासः- एनं दग्धुं प्रवृत्ते नयने कथं कथमपि मया निवारिते । न क्षमेऽहं कालक्षेपम् । कुत्र लावण्यवती ।
लावण्यवती- (आगत्य) इयमस्मि तात ! वस्त्रालङ्करणानि मयाऽपनेतव्यानीत्यहम् -
सुन्दरदासः- (तर्जयन्) नापनेतव्यानि । एभिरेव त्वयाऽत्र चिरं सुचिरं निद्रा कार्या।
दुःशीला- बन्धो ! किमुपालम्भेन । एहि भूमिगृहम् । श्वो मङ्गलकार्यं भविष्यतीति मया नूतनानि सुवर्णरत्नमयान्याभरणानि लग्नसमययोग्यानि वस्त्राणि च निधिनिहतान्यस्यै देयानि । लावण्यवति ! त्वमप्येहि । स्वयमेव वृणु । एतानि सर्वथाऽयोग्यानि ।
सुन्दरदासः- किमर्थम् -
दुःशीला- नैतत्पुरुषकार्यम् । प्रथमं लग्नमुद्कोकरं संवृत्तमिति द्वितीयमानन्दप्रदं परिणामयितव्यम् । लावण्यवति ! सन्ति बह्व्यः कञ्चुलिकास्तत्राभरणानि च ते मातुः। का कञ्चुकी तवोरसा संगता भवेदिति स्वयमेव पश्य ।
लावण्यवती- (स्वगतम्) न जाने किमेताभ्यां प्रवृत्तम्।
क्रोधाक्ते नयने पितुर्हि यमिमं भावं सुवाते क्षणम्
निह्नोतुं तमगम्यमेनमधुना शब्दैरसौ व्यापृता।
मध्ये वाचमसौ भिनत्ति सहसा कृत्वार्थलुप्तां तथा
साकूतं स्मयते मुखेन मधुरं तिर्यक् क्षणं प्रेक्ष्य माम् ।।१३।।
अथवा काऽत्र शङ्का कार्या । गर्जन्तो मेघा न वर्षन्ति । एकामेव रात्रिं कथं कथमप्यपनेष्यामि ।
दुःशीला- एहि भ्रातृजे । कालो वृथा क्षीयते । प्रभाते बहुकरणीयं वर्तते ।
महति प्रत्युषसि चोत्थातव्यम् । एहि।
(सर्वे परिक्रामन्ति भूमिगृहं च प्रविशन्ति।)
लावण्यवती- (साश्चर्यं स्वगतम्) कथं द्वारौ पिदधाति । बहिर्गन्तुं शक्नुयां न वेति शङ्कते मे मनः ।
स्थितैवं स्थानेऽस्मिन्यमगृहसमे शोशतभये
तथा दृष्ट्वा तातं यमशतभयं संप्रददतम्।
समाक्रोष्टुं जिह्वा न हि चलति भीत्या प्रमथिता
न जाने यत्किञ्चिद्भवति हृदये मे किमिव तत् ।।१४।।
सुन्दरदासः- (गर्जन्निव) किं विचार्यते । उपविशात्रासने ।
दुःशीला- भ्रातृजे ! पिता ते यच्छति तुभ्यमन्तिमममृतरसम् ।
प्राग्वस्त्रादिवरणादास्वादयैतत् ।
सुन्दरदासः- (सगर्जनम्) नहि नह्येदममृतम् । हालाहलं विषमेतत् ।
लावण्यवती- (सभयं सक्रोधम्) किं विषं पाययितुमहमत्राऽऽनीताऽलंकारा- दिवरणमिषेण ।
दुःशीला- भूमिगृहं त्वमानीता यथा न कोऽपि तवाक्रोशं श्रोष्यति अत्र वाऽऽगन्तुं शक्ष्यति ।
सुन्दरदासः- (विषपात्रं दर्शयन्) एतत्ते पुनर्लग्नम् । एतत्ते वल्लभः । एतत्ते संसारः। तव सर्वा अभिलाषा अस्मिन्नेव परिसमाप्ता इति मोदस्व ।
लावण्यवती- तात ! कथय ! किं मया भवतोऽपराद्धं यथैवं प्रवृत्तो भवान् ।
सुन्दरदासः- प्रथमलग्ने तावत्त्वेयदृशः संक्षोभ: कृतो यथा ज्ञातिजनसमक्षमहं मूर्खः स्थापितः । पत्यौ च ते मृते त्वया तथाऽऽचरितं यथा न्यायाधीशेनाप्यात्तगन्धिर्ल ज्जास्पदं नीतः । ममेच्छाविरुद्धं त्वया पुनः स युवकः संवृतो येन निन्दायाः परिसीमां प्रापितोऽहम् । महाजनोऽप्यनेन स्वमतानुसारीकृतोऽनुनीतेश यथाऽत्राऽपि पुनर्विवाहे ममेच्छाविरुद्धमेव करणीयमापतितम् । एवं स्थिते त्वया विषं पातव्यं मया च वैरनिर्यातनं कर्तव्यम् ।
लावण्यवती- तात ! कथं संभवति पितुः पुत्र्या सह वैरम् ।
सुन्दरदासः- यथा संभवत्यन्यजनेन तथा । यदि त्वं मे संततिः स्यास्तर्हि न कदापि मम हृदयविरुद्धमाचरितुं प्रावर्तिष्यथाः । त्वया तु तथाऽनुष्ठितं तस्मादहमेवमाचरामीति को दोषः ।
दुःशीला- बाले ! कस्य जनस्य प्राणरक्षां कर्तुमिच्छसि तव वा तव वल्लभजनस्य वा ।
लावण्यवती- (सक्रोधम्) दुष्टे ! जानास्येतदाङ्ग्लराज्यम् । यत्रेदृशं मारणं न कदापि प्रच्छन्नं भवेत् ।
दुःशीला- अत्रावाभ्यां निश्चितमेव । घातको नियुक्तः । यदि त्वं विषं न पास्यसि तर्हि बहिः स्थितं तं प्रेष्य तव भर्तारं गतजीवितं कुर्वः ।
लावण्यवती- रे दुष्टौ ! मम भर्तर्यपि प्रसृतो युवर्योमृत्युकरः करः । विरमतं विरमतमस्माद्दुराचारात् ।
दुःशीला- तथा करिष्यावो यदि त्वं स्वयमेव विषं पाययित्वाऽऽत्मानमेव विषपानहेतुं स्वहस्तलेखेन समाख्यास्यसि ।
लावण्यवती- हृदय ! सांप्रतं विकासितं मखुं शृगालेन । तव भतू कालकम्पः केवलमेतयोरधमहृदयान्तर्गतघोरविचारानिनादस्य प्रतिध्वनिरेवाऽऽसीत् । बन्दिनीव स्थिता कमहमत्राक्रोशामि कस्य वा सहायं याचे ।
कपाटे संरुद्धे स्थलमिदमपि क्षोणिनिभृतम्
स्थितावेतौ दुष्टावसुहरणकार्ये कृतधियौ।
तथा मध्या रात्रिर्गहनतिमिरा सुप्तमनुजा
कथं त्राणं स्यान्मे न चलति मतिर्लुप्तविभवा ।।१५।।
यदि मे माताऽजीविष्यत्तर्हीदृशी दशा नाऽपतिताऽभविष्यत् । अथवा विषमेऽस्मिन्संसारे भेद एवैष जनकजनन्योः ।
पिता वाञ्च्छेत्पुत्रं धननिधिमलं यः प्रगुणयेत्
तथा माता पुत्रीं क्रमविहितकार्याभिलषेत् ।
प्रसूतीनां मातुर्नहि भवति दुःखं क्षणमहो
मृता माता येषां मृतमपि नु तेषामिह जगत् ।।१६।।
अथवा कन्याविक्रयीणां गृहे कन्यकानां भविष्यं कीदृग्भाव्यम् ।
कन्या लक्ष्मीरिति च कथनं भूतपूर्वं हि जातम्
लोकेऽस्मिन्सा जडविषयवत्पण्यते साभिलाषम् ।
जातैवैषाऽन्यतरमनुजैर्दुग्धनष्टा क्रियेत
कस्मात्कन्या जगति जनिता दुर्दशायां प्रणष्टुम् ।।१७।।
सुन्दरदासः- क्षिप्रं धावति रात्रिः कोऽर्थो विलम्बेन ।
दुःशीला- श्रुणु । आत्महत्या संसारनिर्वेदान्मया कृता । पितुराज्ञामुल्लङ्घ्य तस्याजानत एव विषं पीतम् नात्र कस्यचिद्दोषः । एतल्लिखित्वा त्वया हस्ताक्षरं लेख्यम्। यदि क्षिप्रं न लिखसि तर्हि प्रभातमप्येष ते पतिर्न द्रक्ष्यति अत्रागच्छन्त्या द्वारसमीपस्थो दृष्टो मनुष्यो मया व्यापृतोऽस्मिन्कर्मणि । तस्मात्त्वरस्व ।
लावण्यवती- अनिच्छतोऽपि मे दर्शनीयेच्छाऽऽत्मघात इति कठोरताया अवधिः। रे दैवहतक ! किं दुष्कृत्यमाचरितं मया पूर्वस्मिञ्जन्मनि तथा तस्येदृशः परिणामः समुपनीतः ।
सुन्दरदासः- किं विचारयसि। दुःशीले बहिः स्थितः घातकः सुवर्णशतेन प्रेष्यतां मनोहरम् ।
(क्षिपति निष्कप्रसवम् । दुःशीला तद्गृहीत्वा गच्छति।)
लावण्यवती- (स्वागतम्) अरे प्रियं मे हन्तुमुद्युक्तौ । (प्रकाशम्) तिष्ठ ! तिष्ठ ! दुःशीले ! (दुःशीला घातकमानीय प्रविशति तं दृष्ट्वा) घातक ! विरम ! विरम ! रे दुष्टौ ! अस्माद्धोरपापाद्विरमतम् । अस्य घोरकृत्यस्य प्रत्युत्तरः परमात्मने देय इति क्षणं विचारयतम् ।
सुन्दरदासः- दुःशीले ! कस्माद्विलम्ब्यते । प्रेषयैनम् । तत्कार्येऽनुष्ठिते स्थापयैनामप्यस्मिन्नेव भूमिगृहे यावज्जीवम् ।
दुःशीला- (घातकम्) सदो ! गच्छ सत्वरम् । कुरु तत्कार्यम् । अत्र ते श्रममूल्यम् ।
(घातको गन्तुं प्रवर्तते ।)
लावण्यवती- (संभ्रान्तचित्ता स्वगतम्) रे प्रभो ! किं करोमि । नास्ति मे जीवनं प्रियतमस्य प्राणेभ्योऽधिकम् । (प्रकाशम्) अधमे ! आह्वय तं यमसहोदरम् । निष्कृष मे प्राणान् यावत्तृप्तं भवेत्ते हृदयम् । एवमनुष्ठितेऽपि यदि मे प्रियस्य प्राणाः संशयिताः स्युस्तर्हि निर्दोषहृदयप्रज्वलनादुत्पन्नोऽग्निर्युवयोर्जीवनं भस्मसात्कुर्यात् ।
(दुःशीला घातकं सूचयति ।)
दुःशीला- तिष्ठ बहिः ।
सुन्दरदासः- गृहाणैतद्विषम् ।
दुःशीला- प्रथमं तावल्लेखो लेखनीयः ।
(मसीभाजनं पत्रं लेखिनीं च ददाति)
लावण्यवती- (तयोक्तं लिखित्वा) एवं युवां मुक्तौ हननदोषादत्र संसारे ।
अधुना मे प्रार्थना । भवद्भ्यां नाशितो मे संसारः हृतं च सर्वस्वम् । लिखितुमिच्छामि श्लोकत्रयेण मे स्वामिनेऽन्तिमं स्नेहसन्देशं येन मम प्राणत्यागं श्रुत्वाऽसावपि प्राणमोक्षं न कुर्यात् ।
(दुःशीला घातकं सूचयति।)
सुन्दरदासः- (दुःशीलां पश्यति।)
दुःशीला- सदृशमतेतत्पतिवत्रायाः । तथापि स्नेहसन्देशान्यतरं यदि लिखितं स्यात्तर्हि -
सुन्दरदासः- तदग्निसात्कुर्व इति किं कथनीयम् ।
लावण्यवती- (निःश्वस्य दन्तैरोष्ठं च निष्पीड्य विचार्य च लिखति।)
रे रे त्वं प्रियवल्लभो नु रजनीमेनां कथं वाहयेरेक
की च कथं त्वमस्य जगतः पारं लभेथाः परम् ।
यत्प्रोक्तं च मया त्वया न हृदये सत्कृत्य तत्स्थापितम्
पापं मे गतजन्मनः परिणतं कस्मै च तत्कथ्यते ।।१८।।
मरिष्यामीत्येवं न हि दहति शोको मम मनः
वियोगे त्यक्तव्या असव इति मे त्रासजनकम् ।
तवाङ्के सुप्ताऽहं तववदनसंसक्तनयना
विलीयेऽहं नूनं हसितवदना मुग्धहृदया ।।१९।।
गतप्राणा काभ्यां मम तनुरियं वल्लभ कृता
त्वया न ज्ञातव्यं व्यवसितमथैवं हि विधिना ।
यथा मृत्योर्हेतुर्न हि मदितरः कोऽपि मनुजः
कथं किं किं कस्मै जगति कथनीयं ननु मया ।।२०।।
दुःशीला- भवत्वेष सन्देशः। पिबाधुना तेऽमृतम् । प्रभातगामिनी दृश्यते रजनी ।
लावण्यवती- (सकम्पं गृहीत्वा) रे हालाहल ! मां मा पीडय ! न किञ्चित्ते वाऽन्यस्य वा मयाऽपराद्धम् । अपहर मे प्राणान् द्रुतम् (पिबति।)
सुन्दरदासः- (सहर्षम्) अहो ! पीतम् ।
दुःशीला- माऽऽक्रोश यावन्मृत्युस्त्वां गृह्णाति तावच्चीत्कारांशमप्युद्गिरसि तर्हि जानीहि न ते भर्ता जीविष्यति । सुन्दर ! (तं हस्तेन गृहीत्वा गच्छति।) नास्य वृत्तस्य छायाऽपि तव मुखोपरि द्रष्टव्या ।
(निष्क्रान्तौ ।)
लावण्यवती- गतौ यमदूतौ । विषं प्रसरत्यङ्गेषु । किं भवति हृदये । कथं च प्राणा गच्छेयुः । वल्लभ ! वल्लभ ! न दृष्टं प्राणान्तसमयेऽपि ते मुखम् । त्वयोपकृतं मम मया दुर्भागिन्या तु तवाऽपकृतमेव ।
न संस्पृष्टौ श्रान्तौ दयितचरणौ ते दयितया
न दत्तं पानीयं प्रसृतकरपात्रेण च मया।
न दत्तं पक्वान्नं मम च करसिद्धं तव मुखे
निराशीभूताया इदमुपरतं जीवनमहो ।।२१।।
न नीतः कालोऽयं सुमधुरवचोभिस्तव कदा
न मे कर्णौ शुद्धावमृतसमशब्दैरुपयुतैः ।
न पीतं पीयूषं नयनरसदिग्धं च सुचिरम्
तदा तत्संवृत्तं मनसि न मया यत्कृतमिदम् ।।२२।।
मया भर्ता लब्धो हृदयसुखदाता प्रियगुणः
गता रात्रिः कृष्णा विलसति सुधांशुः शतगुणः।
यदैवं सौभाग्यं विवृतमधुनेति प्रमुदितम्
तदैवं तद्द्वारौ प्रसभमवरुद्धे कुविधिना ।।२३।।
पतत्वेवं दुःखं मम बहुषु जन्मस्वविरतम्
प्रणष्टा लक्ष्मीर्मे भवतु विविधा भाग्यविहिता ।
सपात्रा भिक्षार्थं वनमधि वनाद्यामि सततम्
तथाप्येवं भर्तुः क्षणमपि वियोगं न हि सहे ।।२४।।
ममेच्छा नह्येषा .........................
(वक्तुमशक्ता श्वासं कथंकथमपि गृह्णन्ती)
जिह्वा मे न प्रसरति । कण्ठः शुष्यति । (इतस्ततो दृष्ट्वा) पानीयमपि न वर्तते ।
अथवा स्नेहविरहितेऽस्मिन्गृहे कस्माज्जलं याचे । (पतति । शून्यमुखी भवति । कथं कथमप्यात्मानमुन्नाम्य) प्रभो ! उद्वाहय मे हृदयध्वनिम् । उत्क्रामय मे स्नेहरश्मिम् ।
(पुनः पतति ।) भर्तारं..... प्रि..... नि-नि-वेदयत-गृ.....ह-दे-व-ताः- (स्वरः क्षीयते।).... कीदृशं-म-म-हृ-द-य-म् ।। (अङ्गसंक्षोभं नाटयति । आलुट्यति ।)
दुःशीला- (प्रविश्य) मृता। (समीपं गत्वा निर्वर्ण्य) न हि, मृतप्राया दृश्यते । प्राणवृत्तिरद्यापि ध्रियते । जाने पादघटिकया निष्प्राणा भविष्यति । (हसति।)
शिरोमुण्डनात्कम्पमाना पतिसुखाभिलाषिणी पुनर्विवाहकारिण्येवं म्रियते । (लावण्यवती मृतावस्थां नाटयति।)
दुःशीला- (निर्वर्ण्य) मृता । कण्टकवल्लर्युद्धृता । निवेदयामि सुन्दराय ।
अत्रान्वेषणं भविष्यति । आगमिष्यति च नगररक्षकाणामधिपतिः ।
(नेपथ्ये)
सुन्दरदासः- लावण्यवति !
दुःशीला- (तच्छ्रुत्वा) शान्तिदास आगत इति भाति । (अवलोक्य) प्रभातं संजातम् । मनोहरोऽपि पथि वर्तत इति तर्कयामि । कथमाचरितव्यमिति सुन्दरोऽपि मया पुनः पुनः ज्ञापितः ।
(नेपथ्ये- पुनः)
सुन्दरदासः- लावण्यवति ! कुत्र वर्तसे त्वम् । सत्वरमागच्छ)
दुःशीला- वर्तते सा यमसदनपथि । (हसति।) (विचार्य) अन्वेषणात्पूर्व मेव मयेतः स्थानात्तथा पलायितव्यं यथा न कोऽपि मामत्रागतां पश्येत् ।
(पुनः लावण्यवती मृतेति प्रतीत्य सानन्दा निष्क्रमति ।)
अन्तर्यवनिका
दृश्यं चतुर्थम् ।
(स्थलम् - उपरितनापावरके)
सुन्दरदासः- लावण्यवति । आगतस्ते पितृव्यः कथं चिरायते त्वया ।
दुःशीला- (वस्त्राणि सुसंगतानि कुर्वत्यागच्छन्ती) न वर्तते सा तस्या अपावरके । अत्रैवागता भविष्यति ।
सुन्दरदासः- नागताऽत्र । पश्य यदि सखीं चतुरिकां द्रष्टुं गता ।
दुःशीला- न तथा । चतुरिकादय आगता ममापावरके वार्तालापं कुर्वन्ति।
(निष्क्रान्ता ।)
सुन्दरदासः- तर्हि कुत्र गतैषा । परिहीयते मुहूर्तवेला सर्वेऽप्यत्र सज्जीभूताः। न प्रथमलग्नवदत्र करणीयानि वर्तन्ते ।
शान्तिदासः- मृग्यताम् । युष्मद्गृहे स्थितैषा कुत्र गता स्यात् ।
सुन्दरदासः- भ्रातर् ! मनोहरदास आगत इति तर्कयामि । गच्छ त्वम् । आनय लावण्यवतीम् । पश्य जयदास ! समुचितं दृश्यते मे शिरोवेष्टनम् । अहो जामाताऽऽगतः।
(ततः प्रविशति मनोहरः । तत्क्षणं श्रूयते शान्तिदासस्यार्तस्वरः ।)
(नेपथ्ये)
शान्तिदास- एहि एहि सुन्दर ! दुष्करमापतितम् ।
मनोहरः- (प्रणम्य सुन्दरदासम्, आर्तस्वरं च श्रुत्वा चकितः) कस्यार्तस्वर एषः।
सुन्दरदासः- न जानामि । चिरायितायां लावण्यवत्यां वारंवारं शब्दायितायां चोत्तरमददत्यां च तस्यां गतः शान्तिदास एनामन्वेष्टुम् ।
मनोहरः- किं निमित्तमधिकृत्य गता ।
सुन्दरदासः- अद्याऽधुनैव लग्नमित्यात्मानमलंकर्तुम् । आगच्छतु भवानपि। पश्यावः कस्यार्तस्वर एषः ।
(निष्क्रान्तौ सजयदासौ ।)
अन्तर्यवनिका
दृश्यं पञ्चमम् ।
(भूमिगृहे)
शान्तिदासः- (सुन्दरादीनागतान्दृष्ट्वा) सुन्दर ! (लावण्यवतीं दर्शयन्) केन कृतमेतत् ।
सुन्दरदासः- (साश्चर्यम्) भ्रातर् ! किमनुष्ठितं केन च ।
(लावण्यवतीमपश्यन्निव पश्यति।)
सर्वे (संभ्रान्ता आगत्य) किमापतितम् ।
सुन्दरदासः- (लावण्यवतीं शान्तिदासेन दर्शितां दृष्ट्वा) अत्याहितमत्याहितम्, प्रियपुत्री मे लावण्यवत्युपरता । (मस्तकं ललाटं च प्रहरति)
शान्तिदासः- जयदास ! आह्वय भिजषम् । (जयदासो गच्छति।)
दुःशीला- (निर्वर्ण्य) न हि नह्येषोपरता मूर्छितैव । पश्यैवं संज्ञां प्रत्यागमिष्यति। (पल्लवेन वायुं विदधाति ।)
मनोहरः- शान्तिदास ! आह्वय नगररक्षाधिपतिम् । केनाऽपि विषप्रयोगोऽनुष्ठित इति मे भाति ।
दुःशीला- (सोरस्ताडम्) रे दैवहतक ! कथं सहस्रधा न शीर्णं ते हृदयमस्याः परिणयमभिमुख्याः प्राणान्हरतः ।
सुन्दरदासः- लुप्तपुत्रीधनोऽहम् । मया तु ज्ञातमासीद्यथा साऽलंकृता परिणीताऽनुभविष्यति पतिसुखम् । (तारस्वरेण रोदिति ।)
शान्तिदासः- मा रुदिहि । अत्र द्वे पत्रे । एकेन भवान्निर्दोषः प्रमाणीक्रियते । अपरेण च सुन्दरदासः-
सत्यमहं निर्दोषः । न जाने कथं सा मृता ।
दुःशीला- (तारस्वरेण रोदिति।) हा धिक् ! हा धिक् ! अत्याहितमहो मङ्गलकार्येऽमङ्गलं समापतितम् ।
शान्तिदासः- मनोहर ! एतत्तेऽपरं पत्रकम् ।
मनोहरः- (अश्रुण्वन्) तिष्ठ तत्रैव । न केनाऽप्येषा स्पृष्टव्या । न वा पत्रेऽपि वाचितव्ये । आगच्छामि स्वयमेवाहूय वैद्यं नगररक्षाधिपतिं च । वर्तते मे शङ्का । सुन्दरदासः- वारय मनोहरम् । अधिक्षिपत्येष मां पुत्रीमरणदुःखार्णवे पतितम्।
शान्तिदासः- अहो ! आगतो वैद्यराजो नगररक्षाधिपतिरपि ।
(द्वावुपसर्पतः।)
रक्षाधिपतिः- शान्तिदास ! सुप्रभातमद्य ते । वैद्यराजेन निवेदितं यथा युष्मद्भ्रातृजा विषेण मृतेति । असौ तु निदानार्थं भवताऽहूतोऽहमपि स्वाधिकारमनुष्ठातुागतः । (अभितो दृष्ट्वा) निगमय सर्वान् बहिः । त्वमेवात्रैकाकी तिष्ठ। आगमिष्यत्यत्र राज्यभिषङ्मया समाहूतः ।
(ततः प्रविशति राज्यभिषक्।)
शान्तिदासः- सर्वेऽपि बहिर्निःशब्दं तिष्ठन्तु । मनोहर ! त्वमपि सुज्ञ इव प्रशान्तचित्तस्तत्र प्रतिपालय ।
(सर्वे निष्क्रामन्ति । राज्यभिषक् विचिकित्सते । )
मनोहरः- (स्वगतम्) सत्यं के नाऽप्यनुष्ठितः प्रयोग: । मम प्रियतमा न कदापि स्वयं विना कारणं विवाहदिवसप्रभाते आत्महत्यां कुर्यात् -
नैवं त्यजेत्सा निजदेहवृत्तिम्
विद्येत हेतुर्न हि कश्चिदत्र ।
ज्योत्स्ना न लुप्ता भवति स्वयं चेत्
राहुं विना को ग्रसते शुभां ताम् ।।२५।।
यवनिका
इति विषप्रयोगेगाख्यश्चतुर्थोऽङ्कः ।
पञ्चमोऽङ्कः ।
मञ्जरी- हा धिक् ! हा धिक् ! उन्मत्त इवातीव संभ्रान्तचित्तो मनोहरो लावण्यवत्या मृतदेहं गृहीत्वागतः ।
चतुरिका- सखि ! समाश्वसिहि ! गतो धैर्यशीलः शान्तिदासोऽन्ये जना अपि। न तस्य चिन्ता कार्या । शान्तचित्ताऽत्रोपविश ।
कामन्दकी- सखि ! दुःशीलया प्रोत्साहितेन सुन्दरदासेन बलाद्विषं ग्राहिता लावण्यवतीति सिद्धं न्यायमन्दिरे । तथापि मनोहरस्य हृदयसंक्षोभो न शान्त इति किम्। मञ्जरी- स्नेहप्राबल्यमेवाऽत्र कारणम् ।
एका- सुन्दरदासो वधस्तम्भमारोपयितव्यः किन्तु केवलं यावज्जीवमसौ देशान्निष्कासितः । दुःशीलाऽपि तादृशं दण्डमनुभूतवतीत्यपि हृदयसन्तापशमनाय नालाम् ।
मञ्जरी- ननु कथयामि स्नेहातिशय ईदृशे समये बुद्धिमान्द्यमुत्पादयति ।
द्वितीया- सत्यमेतत् । परन्तु कथमेतौ सदोषौ प्रमाणीकृतौ । मया तु श्रुतं यथा लावण्यवत्याः स्वहस्तलेखेनैतौ निर्दोषौ स्थापयिष्येत इति ।
मञ्जरी- सत्यमाविलयितुं न कोऽपि शक्तः । ताभ्यां दुष्टाभ्यां लावण्यवती बलाल्लेखं लेखिता । तत्र विषं दत्तं काभ्यामित्यनया मनोहरमुद्दिश्य लिखितेऽपरस्नेहसंदेशपत्रे स्थितया पङ्क्त्या सिद्धं यथा तया विषं स्वयं न पीतम् । अपि च परिणयाभिमुख्याः कस्याश्चिदपि कन्यकाया ईदृश संसारविरागो न संभाव्यः। अपरं च मनोहरदासेन सा पितुर्गृहं प्रापिता तावन्नासीत्किञ्चिदपि निर्वेदकारणम् । तथा च सोमलाख्यं विषमौषधिमिषेण दुःशीलया क्रीतमिति कस्माच्चिद्विक्रेतुर्नगररक्षकैः समुपलब्धम् । अन्ते हेतुवादिना सयुक्तिकं परीक्षितेन सुन्दरदासेन सत्यमुद्वान्तम् । दुष्टया दुःशीलयाऽपि प्रथमं स्त्रीचरित्रं कृतं तथापि सुन्दरदासाल्लब्धसत्येन हेतुवादिना सत्यमुद्वामिता ।
एका- कीदृशो भयङ्करः पिता ।
द्वितीया- भगिनी च ।
चतुरिका- कदाचिदीदृशः संसारः । तथापि शुल्कग्रहीतेदृशः पुत्रीघातकः पिता तु विरलः ।
अपरा- (मञ्जरीं निर्दिश्य) चतुरिके ! चतुरिके ! अस्वस्था दृश्यते मञ्जरी । सत्वरमुपायः क्रियताम् ।
चतुरिका- सखि ! आनय पानीयम् । स्मशानादाहूयतां मनोहरदासः । अथवाऽऽह्वय वैद्यम् ।
(इति मञ्जरीं संज्ञां प्रापयितुं प्रवर्तते।)
प्रवेशकः ।
(ततः प्रविशति शान्तिदासेनानुगम्यमानः सोद्वेगो मनोहरः स्मशाने।)
मनोहरः- अहो ! नष्टं सर्वं जगति नु कलत्रे त्वयि गते
लभे किंचिन्नैवं हृदयसुखदं नेत्रविषयम्।
तदकिं नेत्राभ्यां यदि न शतधा तेऽप्यभवताम्
नखैस्तीक्ष्णैरेवं ननु सपदि लुंचेयमधुना ।।१।।
(तथा कर्तुं प्रयतते।)
शान्तिदासः- अहह ! मनोहर ! नैतत्ते समुचितम् ।
(निवारयति ।)
मनोहरः- कस्त्वं मां निवारयितुम् । रे निर्दय हृदय ! पश्य जीवन्तं मां दृष्ट्वा हसति मे प्रिया ।
कुटिलनेत्रजतीक्ष्णसायकै-
रविरतं हसता वदनेन सा ।
नयनजं त्रिपुरारिहुताशनम्
मम तनौ क्षिपति प्रवितापकम् ।।२।।
अपि च
विषेणाक्तावौष्ठौ हतसहजरागौ मुकुलितौ
स्फुरन्तौ संस्तब्धौ हृदयगतभावस्य कथने
तथाऽधत्तामेनं वदनगतरेखं सुविहितम्
न तौ द्रष्टुं नेत्रे प्रभवत इमे भावचकिते ।।३।।
शान्तिदासः- वाराणस्यां सुशिक्षितः सुजनो नैवं प्रलपति । सुशिक्षणमिति मनोनिग्रहः । अनुभूतिस्तु पुनरावृत्तेः कार्यस्य प्राप्तेः कार्यदक्षता प्रत्युत्पन्नमतित्वं च । त्वयैते द्वे संप्राप्ते कथं तर्हि निर्बलमानसः संजातः ।
मनोहरः- भावविशेषप्रधाना मानवसृष्टिः । तस्यामुत्पन्नोऽहम् । यदीदृशे संयोगे मे हृदयं न द्रवेत्तर्हि को भेदो मम च पशोश्च । इयं तु विपदः पराकाष्ठामनुभूय गता कथं मे हृदयसंक्षोभं न कुर्यात् ।
सकष्टं गच्छन्ती स्वपदगतिभङ्गेन रुदती
क्षमा नासीद्देहं गलितवसनेनावरयितु् ।
प्रदत्ता निःसंज्ञा परिणतवयस्काय धनिने
श्रुतं तल्लोकान्मे मनसि बहुतापं जनयते ।।४।।
अपि च
तथैवं दृष्टा सा कुटिलललनाभिः परिगता
धृता केशैस्ताभिः पुनरपि पुनः केशवपने ।
कथं स्यात्तच्चित्रं हृदयमनुषक्तं विगलितम्
क्षुरस्तीक्ष्णो यावद्व्यलसदभितो नापितकरे ।।५।।
अपरं च
मया सार्धं याता गिरिशिखरमेषा सुवदना
रसोल्लासेनैवं प्रतिपलमषिञ्चन्मम मुखम् ।
समक्षं चैतस्या जगदिदमतिष्ठद्रसमयम्
तदाशाभग्नाया दहति न कथं मामविरतम् ।।६।।
अथवा -
विधेश्चित्तात्स्रस्ता कथमपि हि रक्ष्या मम वधूः
तया दुःखं सोढं यदितरजनैर्नाप्यवगतम् ।।
वराक्या अस्या वा भवति कथमीद्दङ् नु मरणम्
न सद्वृत्तानेवं प्रहरति विधिर्निन्दिततरम् ।।७।।
शान्तिदासः- निरङ्कुशा भवितव्यता । केनाऽस्याः प्राबल्यमधिक्षिप्यते ।
पश्य-
सकष्टं लब्धा या शिवशिरसि गङ्गा स्थितवती
पुनर्विष्णुं त्यक्त्वा कृपणमनुजान्श्रीरुपगता।
यथा यद्यल्लब्धं निजतनुसुखार्थं सुमहताम्
तथा तत्तत्तेषां भवति विपरीतं ननु कथम् ।।८।।
मनोहरः- निरङ्कुशता संभवति न तु निर्दयताऽस्याः ।
अनया तु न दृष्टं यथा -
क्व हर्तृ प्राणानां विषमिदमियं क्वाऽत्र सुतनुः
क्व घोरं रूपं तत्क्वं मधुधुरेयं रसवती।
यदा हन्तुमैच्छत्कुसुमदलदेहां कथमपि
प्रवृत्तोऽयं लब्धुं परुषतरशस्त्रं कथमहो ।।९।।
तथा च
श्वसन्त्येवं दुष्टा इह जगति दुष्कर्मणि रताः
न लब्धः कोऽप्येषां प्रबलहननेच्छां शमयितुम् ।
भवेद्वा हन्तृणां किमु वरणवृत्तिर्बलिगणे
क्षणं भक्ष्यं दृष्ट्वा चिरयति गरुत्मा न हि खगे ।।१०।।
(अन्ये जनाश्च काष्ठादीन् गृहीत्वा चितां रचयितुं प्रवर्तन्तेऽदूरम् ।)
(प्रविश्य)
मनुष्यः- (उपसृत्य शान्तिदासम्) श्रीमन् ! सज्जीक्रियते चिता । यदुचितं तदारभस्व कार्यम् ।
मनोहरः- चिता ! कस्याश्चिता । न खलु मम प्रियामग्निसात्कर्तुं प्रवृत्ताः।
(अन्यजनानुपसृत्य) रे निर्दयाः अस्यां दशायां वर्तमानां वराकीमेनां पीडयितुं कथं चिन्तितं भवद्भिः ।
प्रसुप्ता शय्यायां कथमसमकाष्ठेषु शयिता
कथं तस्या देहो हुतवहशिखां वाऽनुभविता।
मृदुत्वं तन्वङ्ग्याश्चपलनयने केशकबरी
तथा दग्धेऽङ्गे स्यादहह निखिलं दग्धमधुना ।।११।।
मनुष्यः- बन्धो ! मृतकस्य त्वेवंविधो निरस्तित्वोपायः । प्राणा गताः । निश्चेतनं चेदं वपुः । कुतो भवदीयशङ्काभयमत्र ।
मनोहरः- मूढ ! कथं कथ्यत एतन्मृतकवपुरिति । पश्य-
मृता नैषा सत्यं सुकृततनुध्या सुनयना
गता दुःखस्यान्तं स्वपिति सुचिरं शान्तमनसा।
कपोलौ रागाक्तौ गतसहजवर्णौ गमयतः
प्रमाणं दुःखाब्धेर्यदियमवतीर्णा सुमहतः ।।१२।।
अपि च -
वपुः शीतं सौम्यं श्रमघटितमेतत्प्रतिमुखम्
तथैवं प्रत्यङ्गे तुलितनिहितं सौष्ठवमिदम्।
विधातुर्नैपुण्यं प्रथममनुसृष्टौ यदभवत्
तदेवाविष्कुर्वन्कथमिह विहन्यात्कृतिमिमाम् ।।१३।।
मनुष्यः- (शान्तिदासम्) श्रीमन् पुरोहितो भवन्तमाह्वयति । पश्य एवं चितायां निधातुं प्रवर्तन्ते जनाः ।
मनोहरः- (सहसा तत्रोपसृत्य) तिष्ठत ! तिष्ठत ! कथमुन्मत्ता इव प्रवृत्ताः।
विषेणैवं दग्धा कृशतनुरियं तन्न किमलम्
यथा यूयं सर्वे कृतमतय एनां ज्वलयितुम्।
कृतान्तो युष्माकं सरलहृदयं प्रेरयति वा
तृणं सर्वं दग्धुं प्रभवति समिद्धं हुतभुजा ।।१४।।
शान्तिदासः- यां त्वं ध्रियमाणां मन्यसे सा तत्त्वतो मृतैव । यथा
नहि श्वासोच्छ्वासश्चलति हृदयं चालयति वा
न रक्तस्रोतो वा प्रवहति शिरासु प्रशमितम् ।
तथाङ्गानामुष्मां ननु विगलितां पश्य सकलाम्
कथं प्राणाः शक्या यदि भवति जीवो न हृदये ।।१५।।
तथा च
वपुः शैत्यं यातं स्फुरति न खलु स्तम्भितमिदम्
नहि स्तब्धे तारे नयनगतभावं विसृजतः।
क्षतः क्षुण्णो दग्धः क्षणमपि न पीड्येत च यदा
तथा त्यक्तो देहः कुणप इति दह्येत मनुजैः ।।१६।।
तस्माद्धैर्यवलम्बस्व । मा शोकं कुरु । यदि मृतो देहो न दह्यते तर्हि विकृतो गन्धं प्रेरयति । जनारोग्यं च क्षपयति । तस्मात्पञ्चमहाभूतादुत्पन्नः पञ्चमहाभूतत्वमेव नेयः । यथा-
य एवासीज्जीवो निजकृतिमनुष्ठाय चलितः
गतश्चान्यं लोकं कृतफलमवाप्तुं द्रुततरम् ।
क्व सः स्वर्गे गन्ता क्व च वपुरिदं तस्य पतितम्
न संबन्धः कश्चिन्मृतमृतकर्योमृत्युमनुगः ।।१७।।
अपि च जीवस्यावतारदेहः कर्मफलोपभोगार्थो नूतनकर्मकरणाय च । तद्देहसम्ब न्धः प्रारब्धापेक्षया चलः । एवं सति का संभावना रुधिरास्थिमांसमेदआदिसंघातरू- पस्याऽनेकावतारप्राप्त्यर्थं मोक्षार्थं वा सेतूभूतस्य देहस्य । पश्य -
भवेच्छूरो युद्धे भट इति पदं सोऽत्र लभते
तथैवं सेनानीर्भटगणमुखे स्यादधिकृतः।
यथैवं ज्ञायन्ते क्रमपदगतेनैव मनुजाः
तथा त्यक्त्वा पूर्वे जननमिव जीवाः प्रगमिताः ।।१८।।
अथैवं संभूते मनुजगणजीवाः प्रमथिताः
ऋणच्छेदं कर्तुं निजकृतिनिबद्धाः प्रजनिताः।
अथैकस्मिन्योगे जनकतनये येऽत्र भवतः
भवेतामन्यस्मिन्दयितदयिते ते विधिवशात् ।।१९।।
शालायामपि त्वयैतत्सुवचनं श्रुतम्-
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ।।२०।।
तस्मात्स्थिरीकृत्य हृदयं तिष्ठ यावदग्निं प्रज्वालयामि ।
(गन्तुमारब्धः)
मनोहरः- न हि न हि तत्त्वज्ञानमेतत्संभवति । भावमूला हि सृष्टिः । भावमूलं हि सूक्ष्मशरीरम् । अनेन वेष्टितो जीवः प्रतीक्षते प्रतिव्यक्तिममुत्र । यदि तावत्कालं सा प्रतिभावं न व्यनक्ति तर्हि दुःखपूर्णानसः स जीवो दुःखार्णवे निमग्नोऽतिशयं पीड्यते।
निबद्धो भावेन भ्रति ननु जीवः परिगतः
प्रियं वक्तुं किंचित्प्रभवति न वाचा विरहितः।
प्रतिव्यक्तिस्तोषं जनयति यदा भावरुचिरम्
कथं मोक्षोऽसाध्यः प्रियतमजनस्याभिलषितः ।।२१।।
तथा च भगवता वासुदेवेनाप्युक्तम् ।
यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम्
तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ।।२२।।
तदनुसारेण मय्यारोपितचित्तैषा मद्भावमुपगता । यद्यहमप्येनां स्मरन्निदं कलेवरं त्यजेयं तदाऽहमपि तामेव यास्यामीति कः संदेहः । अपि च -
प्रियां त्यक्त्वा किञ्चिज्जगति मम नान्यत् प्रियतरम्
न वाऽन्या काचिन्मे हृदयविषयेऽत्राभिरमते।
तदीया मे सृष्टिस्तदनुकलिता दृष्टिरिह मे
विनैनां संसारः कथमपि न मे स्यात्सुखकरः ।।२३।।
शान्तिदासः- भवतु । तर्हि यथा साऽग्निसात्कृता स्यात्तथा विधायागच्छयेम्।
(चितामभिसर्पति ।)
मनोहरः- (विचारे निमग्नः) यद्येषा मृता जीवोऽस्या देहान्निसृतस्तर्हि किं प्रयोजनं ममास्य देहेन । तिष्ठ ! तिष्ठ रे देवि !
अदूरं त्वां यातामहमनुगमिष्यामि चपलम्
कुरु क्षीणं शब्दं पतति च तथा मे श्रुतिपयम्।
गतानां जीवानां जगति च तथा त्वामुपलभे
त्वया संयुक्तोऽहं पुनरपि लभेयात्मविभवम् ।।२४।।
(श्रुतमिति किञ्चित्समाकर्ण्य ।)
अहो श्रूयन्तेऽत्र श्रुतिसुखकराः शब्दनिकराः
यथा वीणानादस्तवमृदुकरेणैव जनितः।
यथा कश्चिद्दन्ती पिहितनयनो मन्दगमनो
समाकृष्टो यायाद्रवमनु तथेयं मम गतिः ।।२५।।
अशक्तोऽहं स्थातुं हृदयमपि मे तामनुगतम्
तथा शून्या दृष्टिर्न जगदनुबद्धं मम मनः।
किमेभिः प्राणैर्वा किमपि च वृथा देहभरणे
प्रिया शब्दैरेवं यदि सुतनुरेषाऽह्वयति माम् ।।२६।।
विरम विरम देवि ! त्वाऽनुयाम्येष तूर्णम्
त्वरितचरणपातैरात्ममोक्षं विधाय।
ज्वलति दहन एष ज्वालया धारयित्वा
द्रुतमभिगमयेन्मे त्वामसून् वै शिखाभिः।।२७।।
जलदरथममुं वै प्रेषितं वासवेन
प्रचुरसुकरणैस्ते पक्वतामद्य यातैः ।
पवनहयसुयुक्तं नन्वधिष्ठाय शीघ्रम्
कृतिविहितसुलोकं संगमिष्यावहे तम् ।।२८।।
विहितपरिणयौ चेत्तत्र दैवेन चावाम्
ननु तदपि भवेद्वा संशयो नात्र कार्यः।
यदनवगतमत्र स्यान्मनुष्यस्य भाग्यात्
तदनुगुणमथैवं प्राप्यते देवलोके ।।२९।।
तत्र स्थित्वा विविधविभवान् प्राप्य भोगान्सुयोगात्
तत्सामीप्याज्जनितरसतास्वादमास्वाद्य यावः।
संयुक्तौ वै रसमयतनू अन्यलोकांश्च विश्वे
यातौ तत्राऽप्रतिमपरमां शक्तिमालोकयात्रः ।।३०।।
मनुष्यः- (चितां प्रज्वाल्य) शान्तिदास ! मन्येऽहं सुप्रज्वलिता चिता अल्पनैव कालेन शवं भस्मसात् करिष्यति । तथाप्यवशिष्टं घृतं क्षिप्त्वा पात्रं क्षालनयोग्यं करोमि।
मनोहरः- (तच्छ्रुत्वा ससंभ्रमम्) प्रज्वलिता चिता तथा करोति यथा मे प्रियतमायाः शरीरं दह्यते ।
घोरा ज्वाला हुतवहसृता व्याप्य तन्वङ्गमस्याः
सौन्दर्यांशं यदविगलितं भक्षणेऽस्य प्रवृत्ता।
पुष्टं या यद्विविधविधिर्भिर्भक्ष्यते तत्तदेवम्
कस्माज्जीवस्तमभिलषते यस्य भाव्या दशैषा ।।३१।।
क्षुधा क्षुब्धश्चासौ दहति दयितां निर्दयतरः
वसां स्रस्तां देहान्ननु रसनया लेढि मुदितः।
तथा कृष्णीभूतं बत विकृततां यान्तमधुना
विनष्टं कुर्यात्सोऽपर इव कृतान्तः कृतभयः ।।३२।।
त्वया लब्धो देहः शव इति विजीवो हुतभुजा
तनुस्तावत्सोष्मा ह्यविकृतसजीवा तव कृते।
मया दत्ता स्यात्ते यदि दयितया मां द्रुततरम्
नियुञ्ज्यास्त्वं प्रेम्णा सुहृदिव सुजातः प्रमुदितः ।।३३।।
(अग्निः सविशेषं ज्वलति।)
शान्तिदासः- (मनुष्यं समुपस्थितम्) सुप्रज्वलितः । एकां घटिकां प्रतिपालयिष्यामो मनोहरदासस्य समीपम् । यावदग्निः स्वकार्यं करोति मनोहरश्चस्माभिरितरविषयमुद्दिश्य प्रोक्तः प्रशान्तो भवेत् ।
(मनोहरं प्रति गन्तुं प्रवर्तते।)
मनोहरः- (अग्निं प्रति बद्धदृष्टिः)
ज्वलसि मम वचोमिर्मित्रकार्यानुषक्तः
त्वरितसृतशिखाभिश्चाह्वयन्मां स्थित त्वम्।
प्रसृतविटपिशाखां सत्वरं लम्बमानः
तव मुखविवरान्तो मध्यभागे पतिष्ये ।।३४।।
(वृक्षमारोहति ।)
शान्तिदासः- (तं तथा कुर्वन्तं दृष्ट्वा) मनोहर ! कस्माद्वृक्षमारोहसि। ननु न गृहीत पन्था उन्मत्तानाम् ।
मनोहरः- (वृक्षस्योपरि स्थितः) प्रिया मामाह्वयति । अग्निर्मां त्वरयति । कथय मे सन्देशमार्यजनसमुदायाय यत् स्नेहलग्नभङ्गस्य कृतवृद्धलग्नस्य परिणाम ईदृशः।
(त्वरितगतिः शाखां लम्बितुं प्रवर्तते ।)
शान्तिदासः- (आक्रोशन्) विरमोन्मत्त ! विरम ! रे नन्दन । वृक्षमारुह्य गृहाणैनम्।
(नन्दनस्तथाकर्तुं यावत् प्रवर्तते तावत् मनोहरः शिखामालम्बितः पतत्यग्नौ ।)
अहो ! अत्याहितमत्याहितम् ।
अन्ये - आगच्छत ! आगच्छत ! धावत ! धावत ! एनं बहिराकृषामः।
शान्तिदासः- विरमत । अतीव दग्धाङ्गो बहिराकृष्टो भृशं पीड्येत ।
पीडितोऽपि न जीविष्यति ।
अहो ! स्नेहादर्शो जगति मम दृष्टौ न पतितः
यथेदृक् संदृष्टोऽप्रतिमयुगलेनात्र विहितः।
न वार्तश्चीत्कारो हुतवहपरीतस्य वदना
च्छ्रुतो वाङ्गं किञ्चित्प्रमथितमहो भूतमनले ।।३५।।
मनुष्यः- किं कार्यमधुना ।
शान्तिदासः- एवमवे सर्वे शुल्कोपजीविनः पितरो जामातरो वा दग्धा भवन्तु। अपि चात्रैव चितास्थाने तादृशीनां रूढ्यादीनां क्षयकरः शिलालेखः कार्यः यथा -
न कश्चिद्गृह्णीयात्कथमपि हि शुल्कं परिणये
न वा कश्चित्कुर्याज्जरठजनलग्नं मतिभवम्।
यथा वृद्धेनोढा विषमपरिणामं प्रगमिता
तथाऽस्याः कान्तेन ज्वलदनलयोगादुपरतम् ।।३६।।
तथा च
वार्तैषा प्रसृता च भारतजने देशात्प्रदेशं गता
शुल्कादिग्रहणं च तत्र विहितं कुर्यात्समूलं गतम् ।
वृद्धानां च विवाहकार्यकरणं सर्वांशमुन्मूलयेत्
संसारं युवतीजनस्य कुशलं कुर्याच्च संस्कारिणम् ।।३७।।
यवनिका
इति चिताज्वलनाख्यः पञ्चमोऽङ्कः।
।। समाप्तमिदं विषमपरिणयं नाम नाटकम् ।।
अग्निः प्रज्वलितः ....................१.९
अङ्गं तप्तं ............................४.१
अथैवं संभूते ...................... ५.१९
अदूरं त्वां यातां .................... ५.२४
अरे ! मे कन्याया ................... ३.१०
अर्थो हि कन्या ..................... १.१२
अलंकृत्य निजकन्यां ................ १.१५
अशक्तोऽहं ........................ ५.२६
असारे संसारे ...................... २.११
अहो नष्टं ............................५.१
अहो श्रूयन्ते ....................... ५.२५
अहो ! स्नेहादर्शो .................. ५.३५
आकाशे विपुलोदरे ...................१.५
इयं पुष्पश्रेणिः ...................... २.१०
इह तव सदृशा .......................२.६
उन्मूलयेत्स्वकुलधर्म .................३.८
उल्लुञ्च्य ......................... १.१९
कदा रेवातीरे ....................... २.१२
कदास्यान्मे गेहं ......................३.९
कन्यामीदृशमानवाय ................ १.१६
कन्यां तव ...........................२.७
कन्यां प्रार्थयता ......................३.५
कन्या लक्ष्मीरिति ................... ४.१७
कपाटे संरुद्धे ....................... ४.१५
कालो गतः सुचरिते ..................४.९
काश्चित्कन्या .........................१.७
काश्चिन्नार्यः ..........................१.८
कुटिलनेत्रज ..........................५.२
कोलं वल्लरीवृन्तं ....................१.३
क्रोधाक्ते नयने ...................... ४.१३
क्रोधपूर्णं मनः ........................४.२
क्व हर्तृ प्राणानां .......................५.९
क्षिप्रं क्षिप्रं घनतिमिर .................४.६
पद्यसूची
क्षुधा क्षुब्धश्चा ..................... ५.३२
गतप्राणा काभ्याम् .................. ४.२०
गतप्रायः सूर्यः .......................४.४
गृहीत्वा कण्ठे त्वां ....................२.६
ग्रीष्माग्रे .............................१.४
घोरा ज्वाला ....................... ५.३१
चूतं वृक्षं ............................२.५
जातं किं मम .........................२.८
जलदरथ .......................... ५.२८
ज्वलसि मम ....................... ५.३४
तत्र स्थित्वा ........................ ५.३०
तथैवं दृष्टा सा .......................५.५
त्वया लब्धो देहः .................. ५.३३
त्वां विधिर्विहित .....................१.२
दत्त्वा धान्याकणान् ................. १.१७
दृष्ट्वा दीपसमूह .......................४.८
दृष्ट्वा दूरत एव .......................३.१
देहो जर्जरितः ........................१.७
द्वितीयस्मिन् लग्ने .....................४.३
न कश्चिद्गृह्णीया .................... १.३६
न नीतः कालोऽयं .................. ४.२२
न यावन्मे .......................... २.१३
न संस्पृष्टौ ......................... ४.२१
न हि श्वासोच्छ्वास ................. ५.१५
नारीं नरं समं दृष्ट्वा ....................३.३
निबद्धो भावेन ...................... ५.२१
नैवं त्यजेत्सा ....................... ४.२५
पतत्वेवं दुःखं ...................... ४.२४
पर्णं नलिन्या .........................३.४
पिता वाञ्छेत्पुत्रं .................... ४.१६
पिशाचादुद्भूतिः .................... १.११
प्रभाते संजाते ...................... ४.१०
प्रसुप्ता शय्यायां .................... ५.११
प्रातःकाले ...........................२.२
प्रियं यातं दृष्ट्वा .......................४.५
प्रियां त्यक्त्वा ...................... ५.२३
बीजस्कंधफलं ..................... ४.११
भवेच्छूरो युद्धे ...................... ५.१८
मन्दाकिनीं ...........................२.३
मन्दाकिन्याः .........................२.१
मया भर्ता लब्धो ................... ४.२३
मया सार्धं याता ......................५.६
मरिष्यामीत्येवं ..................... ४.१९
मुकुलितनयनास्ते ....................१.६
मुग्धा शक्रनयेन .................... ३.१२
मृता नैषा सत्यं ..................... ५.१२
मृदुलमधुर ......................... २.१४
य एवासीज्जीवो .................... ५.१७
यथा काष्ठं च ....................... ५.२०
यं यं वापि ......................... ५.२२
यः स्पृशेत्कन्यकामेनां ............... १.१८
यावन्मग्नः पयसि .....................४.७
यो जीर्णदेहशकलं .................. १.१४
रसास्वादे कियान् ................... ४.१२
रूढिूलान् ........................ २.१६
रे रे त्वां प्रियवल्लभो ................. ४.१८
लब्ध्या तोयनिधेः .................. १.१३
वन्दे देव गणाधिनाथ .................१.१
वपुः शीतं सौम्यं ................... ५.१३
वपुः शैत्यं यातं .................... ५.१६
वङ्घिना दुर्विनीतेन .....................२.९
वार्तैषा प्रसृता ...................... ५.३७
विधेश्चित्तात्स्रस्तं .....................५.७
विरम विरम ........................ ५.२७
विस्फार्य नेत्रे ....................... ३.१४
विषेणाक्तावोष्ठौ .......................५.३
विषेणैवं दग्धा ...................... ५.१४
विहितपरिणयौ ..................... ५.२९
श्वसन्त्येवं दुष्टा ..................... ५.१०
संयातः खलु ...................... २.१५
संसारस्य महोदधेः ....................३.२
सकष्टं गच्छन्ती ......................५.४
सकष्टं लब्धा या .....................५.८
सूत्रस्य ग्रथनां ........................३.७
स्थितैवं स्थाने ..................... ४.१४
स्पर्शं विनाग्नेः ........................२.४
स्वार्थान्धता ....................... ३.१३
हताशां दृष्ट्वेमां ..................... ३.११ ६२