करुणा कपोती च युवती च
(१)
अङ्गणस्य कोणे राशीकृतस्याऽवकरनिकरस्योपरि सुन्दरौ द्वौ विहगौ कपोतश्च कपोती च भक्षयन्तावास्तां धान्यकणान्। द्वावप्यानन्दमग्नौ। कन्धरां फुल्लयित्वा मन्दमन्दमगुञ्जतां मध्ये मध्ये। एतयो: समीप एव विमला च महेशश्च पाञ्चालिकाभिरक्रीडताम्। समयेऽस्मिन् क्रीडातो विनिवृत्त्य समपतत्कपोतयोरुपरि विमलाया दृष्टि:। विमला व्यग्रतयाऽवदन्महेशम्- 'महेश अयि महेश! त्वरितमुपेहि, एतौ गृह्णीम:। अहो पश्य, कीदृक्सुन्दरौ द्वावपि। सत्यं महेश, निश्चितमिमौ पञ्जरे पालयाव:।’
महेश: प्रत्यषेधद्विमलाम्। सह्यभाषिष्ट- 'अकथयन् तातचरणा:- विमले! पक्षिण: कस्यचिद्वन्दीकरणं नोत्तमं भवति’।
विमला- 'उत्तमं किं न भवति?’
महेश:- 'पापं भवति विमले!’ 'ऊँ, पापं किं भवति?’ वदन्ती विमला बलान्महेशस्य हस्तमाकर्षन्ती कपोताभिमुखमनयत्। तत्र च द्वावप्यमू बालकौ कपोतयोर्ग्रहणाय सुभृशं प्रायस्यताम्, किन्तु विफलम्।
आसीद्विपिने हरितमहीरुह:। तस्योपरि सुनिर्मिते नीडे न्यवास्तां द्वावप्यमू कपोतौ। द्वयोरासीदगाध: प्रेमा। द्वयोर्देहौ द्वौ प्राणा: पुनरेके। द्वावपि सहैव गगनमगाहताम्, क्षेत्रेषु धान्यकणान्प्राश्य सानन्दमतृप्यताम्, सरित्सरोवरेषु सहैव सलिलमापिबताम्, विमलमारुते सहैवाक्रीडताम्, कमलकोमलायां नद्या वालुकायामानन्दातिरेकत: पक्षौ प्रसार्य सुचिरमलोठतामक्रीडताम्! न कदाचिदपि मिथो व्ययुज्येताम्।
स्वर्णवर्णा ह्युषा अनयोर्नीडस्य तृणनिर्मितौ कपाटौ यदा समुदघाटयत्तदा बहिर्निर्गत्य द्वावप्यमू अनन्ते नभसि सुदीर्घमुड्डीनमवालम्बेताम्, अभ्रमतां च सुचिरं तत्रैव। पुनर्दूरम्, दूरातिदूरं प्रान्तरे कुत्रचिद् भूमाववातरताम्। अभक्षयतां शालिकणान्, अपूरयतामुदरम्, पुन: सायं परावर्तेतां च तदेव निजनीडम्। द्वयोरयमेव नित्य: कार्यक्रमोऽभूत्, आस्तां द्वावपि पूर्णसुखिनौ।
कपोतौ द्वावप्यभूतां नभस्युड्डीयमानौ। द्वयोरपि दृष्टिरकस्मात्पपात प्राङ्गणेऽस्मिन् विकीर्णानां धान्यकणानामुपरि। समीप एव पूर्वौक्तौ द्वावपि बालकाविमौ (विमलामहेशौ) निर्भयमक्रीडताम्। कपोतौ शनैरवातरताम्, अभक्षयतां च धान्यकरणान्। आमन्त्रणं विनैव विहगाविमावभूतां निमन्त्रितौ, प्राङ्गणे परिवेषितं पदार्थं चेमं सप्रेम मिथो मुखमवलोकयन्तौ प्रारभेतां भक्षयितुम्। विमला व्यलोकयदिदम्। अभूत्सावधाना, अतिसतर्कतया सा निजं चोलकम् (कुर्ता) अवतार्य त्वरिततरं पक्षिणोरुपर्यपातयत्। कपोती सरभसं पक्षौ हस्तपदं चास्फाल्य ततो निरगच्छत् पलायाञ्चक्रे च ततो दूरे। परं दैवात्कपोत: पटे निबद्धपदोऽभूत्, न प्राभवदसावुड्डयितुम्।
निर्मुक्ताऽपि कपोती कञ्चित्कालं भ्रान्ता व्याकुला चेतस्ततो व्यलोकयत् अन्ते उड्डीय भवनपृष्ठस्य वृतेरुपर्यतिष्ठत्। कपोती आसीद् बन्धनमुक्ता स्वतन्त्रा च। किन्तु सैयं स्वतन्त्रताऽद्य तस्या: कृते लक्षलक्षबन्धनेभ्योऽपि दु:सहा विषादकरी च। हृद्येव सा व्यालुठत्, दीनमरुदत् प्राणास्तस्या न जाने किमवस्था:। हन्त तस्या: पीडामद्य को वा वेदितुं प्रभवेत्?
वक्षसि आशाव्रततिं चक्षुषि वाष्पसन्ततिं च दधत्या: कपोत्या नि:सहावस्थया वृतेरुपरि तिष्ठन्त्या: समभूत्सन्ध्या। किन्तु बालकौ वराकस्य कपोतस्य मोक्षं न किञ्चिदस्मरताम्। कपोती श्रान्ता क्लान्ता दीनं मनस्याक्रन्दन्ती तथैव विषण्णा वृतेरुपर्यतिष्ठत्। आसीत्कपोत्या नीडम्, किन्तु तदद्य शून्यमभूत्। सर्वस्वं गमयित्वा नीडे तस्मिन्नकिञ्चनं तिष्ठन्त्या: किमेतस्या: शान्ति: सम्भवेत्?
विमला गृहात्तण्डुलानानयत्। महेश: पानीयमाहरत्। द्वावपि संगत्य कपोतं भोजयितुं पाययितुं च प्रायस्यताम्, किन्तु कणमपि कपोतो नाऽस्पृशत्। अद्य क्वासीत्तस्य क्षुधा? यदीमौ द्वावपि सहैव बन्धने न्यपतिष्यतां तर्हि मरणमपि तस्मै पर्यरोचिष्यत। किन्त्वेकाकिनोऽद्य कपोतस्य नि:सहायमिदं बन्दीजीवनं कियन्नि:सहम्, कियच्च ममताशून्यमासीत्!
विमलामहेशौ कपोतं समासाद्य नि:सीमं प्रासीदताम्। द्वावपीमौ वंशकण्डिकाया अधस्तात् कपोतस्य निवासमकल्पयताम्। इतो विषण्णं सशङ्कं च चित्तमादधती कपोती भवनपृष्ठस्योपरि तथैव नि:सहा निश्चला च तिष्ठति।
(३)
निशीथिन्या निबिडे तमसि समस्तापि जगती यदा ह्यासीन्नि:। सहं निद्राणा तदा नित्यनित्यं निद्राभ्यासिनौ द्वौ प्राणिनौ [कपोतश्च कपोती च] एको वंशकरण्डिकाया अधस्तात्, द्वितीयो गृहपृष्ठस्य वृतेरुपरि निरन्तरं जागरूकावास्ताम्। तयोर्नेत्रयोर्नासीन्निद्रा, न चालस्यम्। आसीदेकमात्रमभिलाष: पुन: समागमस्य। किन्तु क इदमज्ञासीद् यद् अद्यतनमिदं तयोर्जागरणं सर्वदार्थं कपोतस्य तस्य कृते दीर्घनिद्रा भविष्यति।
अशेषे प्रतिवेशे भ्राम्यन्ती मार्जारी अङ्गणेऽमुष्मिन्नप्युपागात्, यत्र हि करण्डिकाया अधो बालकयोरनयो: क्रीडनकं, कपोत्यास्तस्या जीवनधनमासीन्निहितम्। मार्जारी पूर्वं करण्डिकायास्तस्या: प्राचीरस्याऽकरोत्प्रदक्षिणाम्। तत: करण्डिकामजिघ्रत्। ततश्चौर इव निभृतपदं करण्डिकामिमामुपर्यपसार्य शनै: कपोतमिमं मुखे निष्पीड्य निभृतं पलायिष्ट। उपरितस्तदिदं दृश्यमपश्यत्कपोती, अपश्यच्च नयनयो: समक्षमेव विलुण्ठ्यमानं निजस्य जीवननिधिम्। पुनरपश्यत् नि:सह निरीहावस्थायां वेदनया विलुठतो निजान् प्राणान्। यद्दृश्यं तयाऽदृश्यत तदभूत्तस्या असह्यम्। अन्तर्वेदनया निरसरत्तस्यामुखाच्चीत्कार:। चीत्कारमिमं निशम्य वृक्षेष्ववस्थिता अन्येऽपि पक्षिण: सहानुभूत्यां चीत्कृतिमकुर्वन्। इतोऽधिकं किं वा ते कर्तुं प्रभवेयु:?
कपोती नेद् बीभत्संदृश्यमशक्नोद् द्रष्टुम्। सा हि कपोतस्य रक्षायै भवनपृष्ठादुड्डीय नीचैस्तथा न्यपतद्यथा मार्जारीं निगलिष्यति दयितं कपोतं च कृतान्तस्य दंष्ट्रात: समाकर्क्ष्यति। किन्तु दीनाया वश एव क्वासीत्? निराशा सा म्रियमाणचित्ता पुनस्तस्या एव वृतेरुपरि न्यपप्तत्। विवशं निर्निमेषं विलोकयन्त्यामेव कपोत्यां विडाली सा निजमाखेटं शनैरुदरस्थमकरोत्। न च किञ्चित्पर्यशेषयत्। स्मृते: संरक्षायै पक्षानेव कश्चित्कपोतस्य सा पर्यत्यजत्!
(४)
सम्प्रति बालकौ तौ विमलामहेशौ नवकिशोरौ, मिथो वैवाहिकबन्धनेन सम्बद्धौ च। दाम्पत्यस्य सुखविलासे विस्मृतवन्तौ तौ व्यतीते पापपुण्ये। तयो: स्मृतयो मलिना भूत्वा न जाने कस्मिन्ननन्ते सर्वदाऽर्थं व्यलीयन्त। तयोर्द्वयोरेव सकामे हृदये रागसागरस्तरलं तरङ्गायितोऽभूत्। मनसि व्यहरन्ननन्ता आकाङ्क्षा:। आकाङ्क्षा: अपि ता: किशोर्य:। आसीद् हृदयमुद्वेलितमिव। मन्ये द्वयोरप्यभ्यन्तरे प्रमोदपयोधिरुल्लासे कल्लोलित: सन् सीकरासारै: परस्परं परिषेक्तुमासीदुत्कण्ठित इव। द्वावप्यमू जगत्या विषाद-वेदनानामास्तामनभिज्ञौ। सुखानि केवलमासन् तयो: सीमायाम्। पूर्णप्रमुदितौ तौ।
आसीद् ग्रीष्मस्य भीष्म: समय:। समस्तं दिनमत्युष्ण: प्रचण्डो वायुर्लोकान् व्यकलयत्। सर्वेऽपि कण्ठागतप्राणा:। सायं किञ्चिदशाम्यद्वायोरुष्णता। विमला विशिष्टाऽऽग्रहेण महेशमवोचत्- 'समुपेहि, अद्य नद्यां स्नातुं चलाव:। रात्रौ तु यथाकथञ्चिल्लप्स्यावहे निद्राम्। समस्तदिनस्य सन्तापेन प्रज्वलतीव शरीरम्।
महेश: प्रत्यषेधत्प्रथमम्। प्रावोचदसौ- ''विमले! सायंकालोत्तरं गृहाद्बर्हिर्दूरगमनं न प्रशस्यते प्राज्ञै:।’ विमला प्रत्यवदत्- ''अहो किं न प्रशस्यते?” इत्युक्त्वा च महेशस्य वाञ्छातो विरुद्धमपि सा प्रापयत्तं सरित्तटम्। ततो द्वावपि तौ परस्परस्य हस्तं गृह्णन्तौ समवातरतां सलिले। अवतीर्य च शीतलाभिर्जललहरीभि: प्रकाममक्रीडताम्। सलिले इतस्तत: प्रक्रीडन्तौ तौ समस्तदिनस्य तापसन्तापं शीतलजलधारायां व्यसर्जयतामिव। विमला महेशम्, महेशश्च विमलां पय: प्रक्षेपैरौक्षतां परस्परम्। द्वावप्यास्तां जलक्रीडामग्नौ। सर्वमपि विस्मृत्य समभूतां द्वावपि साम्प्रतं सुखसमाधिगौ।
पयसि परिक्रीडमानयोस्तयोर्यदा समभूद् भूयान् कालविलम्ब:, प्रासरच्च यदा परितस्तमोलहरी तदा महेशो विमलामवादीत्- ''विमले! अलं सम्प्रति। एहि व्रजावो भवनम्। अभूद् भूयान् विलम्ब:। कोपिष्यन्ति तात....” एतावदेव तेनोक्तमासीत्। एतावतैव सोऽकस्माज्जलाभ्यन्तरे प्राविशत्। अभूच्चाऽदृश्य:।
किञ्चिद्दूर एव विमलया दृष्टं यदेको महाकायो जन्तुर्महेशमतिगभीरे पानीये नीत्वा उदरसात्कर्तुं मुखेनोन्मज्जयन्निमज्जयंश्च त्वरितमपगच्छति।
विमला पलाय्य तटमुपारोहत्। नाभूत्तस्या रोदनं, न च मुखाच्चीत्कार:। किंकर्तव्यविमगूढेव सा यत्किञ्चित्पृच्छद्भ्यामिव नेत्राभ्यां, कृतान्तमुखमाविशन्तमेकवारं महेशम्, एकवारं चानन्तानन्तं तं जलराशिं प्रति पश्यन्ती काष्टपुत्तलिकेव निभृतमस्थात्। चक्षुषो: समक्षमेव तस्या जीवनधनमासील्लुण्ठ्यमानम्, सा च निश्चलमवस्थिता केवलमासीत्पश्यन्ती। सा यदि कञ्चिदाह्वयेत्सहायतायै तर्ह्यपि कम्? न कोऽप्यासीत्तत्र।
वाष्पपूर्णाभ्यां तस्या नयनाभ्यां मुक्तास्थूलौ जलबिन्दू तत्रैव भूमौ न्यपतताम्। हन्त स्मृतिपथमुपागच्छद् भूमौ विलुठन्ती वराकी सा कपोती।
मृगयु:
(१)
अतीव दीर्घा सा शीतरजनी आसीत्। दन्तवीणां (शीतवेगजनितेन कम्पेन दन्तशब्द:) प्रवर्तयन् हिममारुत: परित: प्रवहति स्म। न केवलं मनुष्यस्यैव, प्राणधारिमात्रस्य रक्तं जडीभूतमिव। मनुष्योऽयं समर्थ इति नीरन्ध्रनिर्वाते गृहे निलीयते। वस्त्रवह्न्यादिभिरात्मानं रक्षति। ईश्वरमात्रसहायका: पशुपक्षिणस्तु वराका: प्राणधारणाय प्रयतन्ते यथासाध्यम्। यदि प्रभवन्ति, कालमतिवाहयन्ति अन्यथा नि:शब्दं मृतानां तेषां शवशरीराणि स्थाने स्थाने प्राप्यन्त एव।
नद्यास्तटे चित्रकपोतस्य नीडम्। रजन्या: शिशिरो वायुर्वारं वारं नीडमाक्रामति। नूनं प्रतीयते, प्रचण्ड: पवनो हस्ताघातैस्तं निपातयितुमिच्छति। हन्त वराकी कपोती शीतेनाऽऽकुञ्चितसर्वाङ्गा; तथापि मुहुर्वेपते। किन्तु न तस्या: स्वशरीरे दृष्टि:। शिशिरपीडया मुहुश्चुङ्कुर्वत: शावकस्य यथा रक्षा स्यात्तथैव तस्या: प्रयत्न:।
उष्णेन निजवक्षसा सङ्गोप्य पक्षाभ्यां तमाच्छादयामास। शावक एवायं सम्प्रति तस्या जीवनेऽवलम्बनम्। कतिपयदिनानि व्यतीतानि, कपोत: श्येनेन नीत:। तत: प्रभृति सर्वत: खिन्नापि वराकी शिशोरस्य मोहेन जीवति। 'प्रातरुदयति सूर्ये शिशुरयं क्रीडेत्, अहं च क्षेत्रस्य धान्यकणान् प्रसन्ना भोजयेयम्।’ आशयाऽनया सर्वारण्याक्रमणानि सोढवती।
व्यतीता रजनी। अभूत्प्रत्यूष:। किन्तु शीतस्य प्रभातम्। नद्यास्तटम्। गगनं चापि घनाऽऽच्छन्नम्। तदुपर्यपि शीत: पवन: प्रवहति स्म सन् सनिति।
(२)
नद्यास्तटे, एकस्य विशालवटवृक्षस्य शाखायामेका कपोती स्थिता, किन्तु सङ्कुचितसर्वाङ्गा, उत्फुल्लतनूरुहा। समीपे च शावकस्तिष्ठति।
''ठाँय”
नलिकास्त्रस्य भयानक: शब्दो वायौ परित: प्रतिध्वनितोऽभूत्। भयत्रस्ता: पक्षिण: फडितिपक्षरवं कुर्वन्तो गगनमुत्पेतु:। निशि जागरणेन सम्प्रति निमीलितनयना कपोती भयातिशयादुन्मीलयामास सहसा नयने!
आ:, तस्या: स्वल्पवयस्क: प्राणप्रियश्च शिशुर्भूमौ लोठति। रक्तधूलिभ्यां लिप्त: स मृत्युयन्त्रणया दीनदीनतरं भुवि विपरिवर्तते। भग्ना तस्य शिरोधरा न सम्प्रति चलति।
सा सर्वमबुध्यत। इदमपि च तया सम्यग् ज्ञातम्-मृत्युर्मे शिरशि खेलति। अतीवासीत्सङ्कटसमय:। एकत: प्राणप्रियस्य शिशोर्ममता, अपरतश्च प्राणानां भयम्। किन्तु नासीदधिकविचारसमय:। वेपमाना सा वृक्षविटपादुदपतत्।
मृगयुर्निजनालिकास्त्रस्य मुखमुपर्यकरोत्- तां प्रति लक्ष्यमवध्नात्। सन्धानस्य प्रयत्नं कुर्वाण आसीन्मृगयु:। इत: कपोती तु प्राणप्रियस्य शिशो: शवोपरि मण्डलेन गगने भ्राम्यन्ती आसीत्। प्राणव्याकुलतावशाददृष्टपूर्वो वेग: समभूत्तदा।
स हि लक्ष्यं सन्धातुं नाऽशकत्। प्रतीक्षते स्म-यथैव कपोती मन्दा स्यात्तथैवाहं लक्ष्यानुसन्धानेन प्रहरेयमिति।
सम्प्रति व्यचारयन्मृगयु:-'किमित्यहमेवमशान्तचित्तो मुधैव? कपोती मृतस्य प्रियशिशो: समीपे स्वयमेवायास्यति।’
मातृहृदये शिशोरनुराग: सर्वथाऽदम्यो भवति। तत्रापि तत्कालमृतं वत्सं सम्मुखमालोकमानायास्तस्या: प्रणय: सर्वथा उद्वेल एव भवति। किन्तु जानीथ, को वाऽस्य हृदयरहस्यस्य तत्त्वज्ञो भवति? यस्य सविधे हृदयमस्ति, हृदये च मानुषरक्तं सञ्चरति।
मातुर्दृष्ट्यां निजजीवनस्य मूल्यं किञ्चिदपि न भवति यदा सा निजसुतस्योपचारे तत्परा भवति। मृगयुरवश्यं मृगयु:, परमयं मनुष्य:। कठोरचित्तोऽपि मानुषस्य हृदयविकारान् स जानाति। स गृहे वसति, गृहिणी बालकाश्च तस्यापि। यदि संसारत्यागी अभविष्यत्, संसारयात्रानिर्वाहार्थं किमेवमकरिष्यत्?
मातुर्निजसुते ममतामन्वमात्स:। निजशावकस्य कृते सा मरणाय सन्नद्धा। यत: सा माता, नानाक्लेशै: पालित: प्रियशिशु: सङ्कटगत: सम्मुखे। किमियमुपेक्षां कुर्यात्? किन्तु मृगयुर्ममताया उपयोगं कस्मिन् कार्ये कर्तुमिच्छति?
(३)
मृगयोर्नालिकास्त्रं साम्प्रतमपि लक्ष्याभिमुखमासीत्, परम्-अयमनुभवति यत् तस्य हस्तयो: शक्ति: क्षणे क्षणे क्षीयमाणाऽस्ति। तस्य हृदयं मूर्च्छति।
मण्डलेन भ्रमन्ती कपोती सम्प्रति भूम्यभिमुखमपतत्। विक्षिप्तेव निरालम्बेव विसंज्ञेव सा सुतस्य शवनिकटे निषसाद। किन्तु सा किं कुर्यादिति न निश्चेतुं प्राभवत्।
नालिकास्रं मृगयाकारिण: करगतमासीत् किन्तु नानेन निजलक्ष्यमभिनत्। नासीत्तस्याङ्गुलिषु सा शक्तिरवशिष्टा, यया स नालिकस्य कीलकं निष्पीडयेत्।
कपोती सम्प्रति मृतशावकस्यात्यन्तं निकटगताऽऽभूत्। विषादपूर्णया दृष्ट्या सा एकवारं परितो वनोद्देशं ददर्श। सा निश्चितं जानाति स्म-मृगयुर्मम लक्ष्यसन्धानाय सन्नद्धोऽस्ति। किन्तु मम प्रियशावकस्य केयं दशा जाता! रात्रौ कियन्ति कष्टानि सोढानि? हन्त प्रातरयं परिणाम:?
शोकेन विसंज्ञा सर्वं व्यस्मरत्कपोती। तस्या निश्चला च निरुद्देश्या च दृष्टिर्मृतशावके निमग्राऽऽसीत्। सा प्रतीक्षते स्म-पुनरप्येकवारं 'ठाँय’ इति शब्दं श्रोतुम्।
स एवासौ कू्ररो ध्वनिर्येन तस्या: प्रियशावकस्येयं दशा कृता, तस्या जीवनाधारो विच्छिन्न:। अहह प्रियशावकस्येव ममापि जीवनस्यान्तं स कुर्यात्।
आ:, आन्तरिकव्यथया तस्या: किंविधेव दशाऽऽसीत्? हा हन्त न मृता, नापि जीविता।
(४)
मृगयोर्हस्तान्नालिकास्त्रं न्यपतत्। अन्यदीयवेदनया तस्य हृदयमद्यैव उन्मथितमिवाभवत्। अयमेव स प्रथमो वारो यत्र मृगव्यं दृष्ट्वा तस्य हृदयं विषीदति। नयनयो: कारुण्यस्य गङ्गा प्रावहत्। प्राणिषु विजयं प्राप्तं सञ्चरन्नद्य स स्वयं पराजितोऽभवत्।
असौ प्रतिज्ञामकरोत्- अद्यप्रभृति नाहं हिंसाया: पातकेनाऽपराधीस्याम्। न च कञ्चित्प्राणधारिणं प्रभवन् पीडयेयम्। हा हन्त! मांसं भुक्तवा मांसोपचयापेक्षया घासोपजीवनमेव श्रेय:।
दानी दीनेश:
(१)
१कैलामातुर्मेलकमतीव सङ्कुलमासीत्। देहली-कलिकत्तादिभ्य: समागतैर्धनिक-परिवारैर्ग्रामस्य प्रत्येकस्थानमरुध्यत। दूरदूरत: समाजग्मुरापणिका यैर्नानाविधानि विक्रय्यवस्तूनि पुरत: प्रसारितानि। प्रत्येकम् आपणश्चमत्कुर्वद्भि: पण्यैर्दर्शकानां नयनाऽऽहरणायाऽलम्। स्थाने-स्थाने कौतुकानां समारोह:। 'लाँगुरिया’पदचिह्नितानि प्रेमगीतानि सप्रमदं गायन्तो लोका: प्रतिपदमदृश्यन्त। सह कांस्यतालेन डमरुकध्वनिं कुर्वन्त: प्रपदलम्बिरक्तप्रावारकवाहिनो याचक-गायका: परितोऽभ्राम्यन्। कैलामातु: सत्यस्य साम्राज्यस्य जयध्वनिभिर्गगनमगुञ्जत्।
यात्रिणां संघर्षेण नाऽऽसीदितस्तत: सञ्चलनस्याऽप्यवकाश:। प्रतिवर्षमागामिनो लोका: कथयन्ति यन्नैवंविधो मेलकसमारोह: पूर्वं कदाचिददृश्यत। प्रत्येकजनो भक्तिप्रह्वो मातुर्दर्शनलालस: संघर्षाद् व्यग्रश्चालोक्यत, नासीत्कस्यचिदिततस्ततो भ्रूक्षेपस्याऽप्यवसर:।
किन्तु मालत्या नासीन्मेलके मनागपि मनोयोग:। भवनपृष्ठस्था सा लोकानामाग्रहान्मेलकाभिमुखमवश्यं स्थिता, परं तस्या नयने किञ्चिदन्यदेव पश्यत:। हृदयमन्यदेव ध्यायति। तस्या मानसे प्राणप्रियस्य शिशोर्मुग्ध-मधुरा अस्पष्टाश्च ते ते आलापा:, क्रीडाश्च तास्ता: सुभृशमभ्राम्यन्। 'गतवत्सरेऽस्मिन्मेलकदिने स कियदुल्लासमयो व्यवहरत्। अतीव हठेन मां मेलकमनयत्, नानाविधानि च क्रीडनकान्यक्रैषीत्। हा हन्त, क्रूरेण कृतान्तेन तन्मे हृदयधनमकस्मादपहृतम्। निष्करुणा किमहं पुनरपि मेलकं गमिष्यामि, क्रीडनकानि च क्रेष्यामि? हन्त नेदं मे शरीरात्सम्भाव्यम्।
(२)
पृष्ठतोऽश्रूयत-'मातुलि! अयि भो मातुलि! किमद्य मेलकदर्शनार्थं बहिर्न चलिष्यसि?’
''किमिति?”
'ह्यस्त्वया किं स क्रीडनकविक्रेता न दृष्ट:?’
'अये कीदृश: क्रीडनकविक्रेता?’
'मातुलि! स एव यो नानाविधानि विविधवर्णानि चमत्कारीणि क्रीडनकानि सप्रमोदमनर्तयत्’।
'तर्हि पुन: किं तेषां दर्शनेन? तान्येव क्रीडनकानि, स एव च मेक्षको यो गतदिने दृष्ट:।’
'प्रिये मातुलि! तस्य क्रीडनकान्यतीवोत्तमानि’।
'कामं भवेयु:’।
स्निग्धमधुरस्य प्रश्नस्योत्तरं मातुली रूक्षकर्कशमदात्। अत एव बालकस्य दिनेशस्योत्साहपूर्णं हृदयं नितरां व्यषीदत्। मातुल्या रूक्षं स्वरं विषण्णां च मुखाकृतिमालोक्य स मौनमतिष्ठत्। क्रीडनकं क्रेतुं पणयाचनार्थमवश्यमागच्छत् परमिदमवस्थाया मातुल्या: सकाशाद्याचनस्य नाभूत्सम्प्रति साहसम्। किन्तु क्रीडनकस्य लालसां नाऽसौ त्यक्तुमशकत्। अत एव आरुद्धेन स्वरेण स मन्दमकथयत्- 'मातुलि! एकं क्रीडनकम् अहमपि....’
'दिनेश! क्रीडनकविक्रेता तु स प्रतिगत:।’ इत्युक्त्वा सा दीर्घमेकं नि:श्वासममुञ्चत्। दिनेशस्य संलापेनाऽनेन निजप्राणधनस्य प्रियशिशो: सर्वेऽपि पूर्वसंलापास्तस्या: स्मृतौ जागरूका अभूवन्। अत एव पूर्वकथा: स्मृत्वा दु:खितं व्याकुलं च तस्या हृदयं शोकसागरे न्यमज्जत्।
हन्त अबोध: स शिशु: कथमिदं बोद्धुं प्रभवेत्- यन्मातुल्या हृदयस्य साम्प्रतं करुणा दशा। किन्तु सम्प्रति मातुल्या नम्रेण स्वरेण वर्द्धितसाहसोऽसौ नम्रमवादीत्- 'मैवं मातुलि! मया पृष्टोऽसौ ह्य एवाऽवदत्- यदहं दिनद्वयं यावन्मेलके तिष्ठेयमिति। मातुलानि! अहमप्येकं क्रीडनकं नेतुमिच्छामि।’
'क्रयणाय पणा: क्व सन्ति?’
'हुम्। एकेनैव पणेन तु तत्क्रीडनकं लभ्यते। किमेकमपि पणं मे न दास्यसि? मदनाय कथं ह्यस्त्वया बहव: पणा दत्ता:?’
अबोधो दिनेशो नेदं तारतम्यं परिजानातिस्म यन्मदनस्तस्या: साक्षाद्भगिन्या: सुत:, अहं च तत्पत्युर्भगिन्या इति।
बालस्वभावोक्तेनाऽप्यनेन वाक्येन शोकस्य स्थाने मालत्या: किञ्चित् क्रोधोऽभूत्। क्रोधावेशादस्फुटं बडबडायन्ती सा झगिति समुत्थाय नीचैर्भवनं प्राविक्षत्।
(३)
दिनेशस्य दृशौ अश्रुभाराऽऽक्रान्ते अभूताम्। भग्नोत्साहस्य तस्य न पुनर्मातुलीं प्रति पणयाचनस्य साहसमभूत्। 'मातुलो न जाने कदा आगच्छेत्, तावत्कालं क्रीडनकविक्रेता किं तत्रैव तिष्ठेत्।’ अयमेव विचारस्तस्य लघुनि हृदये वारं वारमावर्तत। एवं-विधा निराशता नेत: पूर्वं कदापि तेनाऽनुभूता। अत एव शून्यगृहस्यैकस्मिन् कोणे निभृतं निलीय जानुनोरन्तर्निहितमुखोऽसौ करुणमरोदीत्।
खिन्नस्य तस्य मानसे स्वर्गताया मातु: स्मृति: सहसैवाऽजाग:। जनन्यास्तद्वात्सल्यम्, निरवधि: प्रेमा च हृदयमाच्छादयामास। तप्तहृदयादुद्गत: शोकाऽऽवेगो नेत्राभ्यां बहि: प्रावहत्। व्यचिन्तयदसौ यदद्य ममापि माताऽभविष्यत्तर्ह्यहमपि किमेकपणार्थमेवमवमानितोऽभविष्यम्? स्नेहमयि जननि! क्वासि, या त्वमेकं क्रीडनकं याचिता बहूनि मह्यमदा:। दिनेशस्य हृदये मातुरवसानकालिकी घटना सा जागृताऽभूत्। पथ्याऽऽसेवनेन नितरां व्याकुलायै तस्यै यदाऽन्तसमये अभिरुचितं भोज्यमदीयत तदा दिनेशोऽपि तत्रोपातिष्ठत्। अबोधोऽयमप्यङ्कमारुह्य भोज्यमयाचत्। अश्रुकलिलाक्षी माता किञ्चिन्मात्रमास्वाद्य सर्वमस्मै प्रायच्छत्।
इदमपि च दृश्यं तस्य नेत्रयो: सम्मुखमनृत्यत्-यदा हि तस्य माता मातुलं सम्बोध्य प्रार्थयत-'भ्रात:! दीनोऽयं दिनेशोऽद्यप्रभृति त्वदायत्त:। मातुरभावं यथाऽयं नानुभवेत्तथा करिष्यसि। अयमेव मे दीनाया हृदयसर्वस्वम्। यद्यस्य कष्टं भवेत्तर्हिं न ममात्मा शान्तिं लभेत।’ अन्तिमं वाक्यमिदं जल्पन्त्येव सा शयनीयेऽशयिष्ट। तथा चाऽशयिष्ट यथा न पुन: कदाचिदपि जागरितुं प्राऽभवत्। बाढमारुदन्मातुलो मामुरसाऽऽश्लिष्य बहुतरमसान्त्वयत्। करुणापूर्णा मातुल्यपि मामङ्कमारोप्य प्राबोधयत्- 'वत्स माता ते सम्प्रति शेते, यदा सा जागृयात्तदा त्वया संलपेत्। अङ्कमारोप्य ते स्नेहं कुर्यात्’ इत्यादि।
बहिस्त: समागतश्चारुचन्द्रो दिनेशमदृष्ट्वा मालतीमपृच्छत्- 'किं दिनेशो मेलके गत:? एकाकी स किमिति प्रेषित:।’
'किमहं जानीयाम्?’
'त्वं न ज्ञास्यसि तर्हि कोऽन्यो जानीयात्?’
रुदत्या मालत्या प्रोक्तम्- 'नाहं वेद्मि। अत्रैव कुत्रचित्स भवेत्। नाहमेनं ग्रन्थौ बद्ध्वा सञ्चरामि। भवानपरस्य सुखं दु:खं वा किमु कदाचिद्भावयति? अपरो म्रियेत जीवेद्वा न ते भ्रूक्षेपोऽपि।’
चारुचन्द्रो मृदुमधुरै: शब्दैरवादीत्- 'नेदमहं ज्ञातुं प्रभवामि यद् यत: प्रभृति मदनोऽत्राऽऽगतस्तत आरभ्य भवत्या हृदयभावो दिनेशं प्रति प्रतिदिनं किमिति प्रातिकूल्यं भजते। (निरूप्य) धिङ् मुग्धे किमित्यकाण्डे शोचसि। रात्रिन्दिवमपि निबद्धया चिन्तया किं भवेत्? संसारस्याऽस्य कर्ता धर्ता तु कश्चिदन्य एव। तव मम वा विचारैरत्र किं सिध्येत्? स एव सृजति स एव च संहरति। स शिशुस्तस्यैव निक्षेपोऽभूदस्मत्सविधे, अत एव यथेच्छमनेन प्रतिसंहृतोऽसौ। कोऽस्माकमत्राऽधिकार:? एतावत्कालार्थमेवाऽयमत्राऽऽगच्छत्। तस्य यावदेव ऋ णमासीत्तावत् प्रतिशोध्य परावृत्तोऽसौ। यत्किल सुखदु:खादिकमस्माभिर्भोग्यं तद्धि निष्प्रतिरोधं भोग्यमेव। किं वा मुधाविषादेन लभ्यते? भगवती कैलादेवी सर्वमवगच्छति। दृढमिदं विश्वसिहि यत्सा सर्वेषां प्रार्थनमाकर्णयति। वयमेतदर्थमेव तच्चरणमूलमुपयाता:। सा हि त्वरितमेव नो मनोरथं पूरयेत्। किन्तु वर्तमानकाले दिनेश एवाऽस्माकं विनोदस्थानम्। अयमेवाऽऽवयो: पुत्र:। न चेदग्रेऽप्ययमेवाऽवलम्बनं नो भवेत्।’
''हुम्! सत्यमेवाऽभिदधासि। तव यत्किञ्चित्तत्सर्वं। दिनेश एव। किमन्यैर्भवत: प्रयोजनम्?” संलापं विच्छिद्य मध्य एव प्रोक्तं मालत्या।
उपेक्षया सर्वमिदमनाकर्णयन्निव चारुचन्द्रो व्याकुलं च कम्पितकण्ठं चोच्चैराह्वयत्- 'अरे दिनेश! क्वासि, किमित्युत्तरं न प्रतिपद्यसे?’
'आम्, मातुल’ इति गद्गदकण्ठेन दिनेश: प्रत्यवदत्।
'अरे तत्रान्तर्निलीन: किं करोषि? एहि, बहिरागच्छ।’
नागच्छद्दिनेश:। चारुचन्द्र: स्वयं गृहाभ्यन्तरमगच्छत्। तमुत्त्थाप्याऽवदत्- 'अये किं रोदिषि वत्स! एहि, मेलके चलाव:। तत: क्रीडनकानि स्वादूनि भोज्यानि चाऽऽनयाव:। त्वयाऽद्यावधि भुक्तं न वा?’
शिर:कम्पेन दिनेश: प्रत्यषेधत्।
'एतावत्कालं किमिति न भुक्तवान्? हन्त मातुल्या पणो न दत्त इत्येवाकुप्य:? गृहाण, अयमहं ते पणं ददामि’ इत्युक्त्वा चारुचन्द्रो दिनेशस्य हस्ते पणं न्यदधात्। हासनाय चाऽस्य भुजमूलं करेणाऽऽमृशत्, येन सरलोऽसावहसत्।
(४)
मेलकमार्गो नीरन्ध्र इवाऽऽसीत्। स्त्रीपुरुषा:, बालकबालिका:, युवानो वृद्धाश्च सर्व एव मेलके भ्रमन्त: प्रमोदमविन्दन्। मधुराऽऽस्वादरसिकानां समूहेन यथा आग्रानगरीयो मधुरव्यञ्जनापण: सङ्कुलोऽभूत्तथैव बालकानां वृन्देन क्रीडनकविक्रेताऽप्यवेष्ट्यत। विक्रेताऽयं मधुरस्वरेण गायन् क्रीडनकमनर्तयद् येन बालकानामान्तरमपि बलादनृत्यत्। अस्मिन्नेव बालसम्मेलने एको लघुर्बालको वृद्धां निजपितामहीं वदन्नासीत्- 'अहमपि ग्रहीष्यामि।’
'किं वत्स?’
'क्रीडनकम्’।
'नेदं वत्स गृह्यते, अपि तु दूरत एव दृश्यते।’
'तर्हीमे बालका: कथमिदं गृह्णन्ति?’
वृद्धा सतृष्णनेत्राभ्यां क्रीडनकाऽभिमुखं निरीक्ष्य बालकं पुनरवोचत्- 'वत्स किं वदामि, किं वाऽऽचरामि? तेषां सविधे पणा: सन्ति। तेषां पितरौ स्त:। आवां चाऽनाथौ। नाऽऽवयो: कश्चिदाश्रय:। उपरि गगनं नीचैरिदं शून्यं धरातलम्। यदि ममापि सविधे पणोऽभविष्यत्तर्हि निजं जीवनधनं किमेवं भूतले अलोठयिष्यम्। क्रीडनकं किं नाऽदापयिष्यम्?’
बालक:- 'पितामहि? न मां वचनै: प्रतारय। अद्यैकं क्रीडनकं दापय, अहं ते चरणयोर्निपतामि।’
कारुण्यपूर्णैर्बालकस्य मार्मिकशब्दैर्वृद्धाया हृदयमभ्यन्तरे अरोदीदिव। सकृद् बालकं सकृच्च क्रीडनकानि निरीक्ष्य मर्माऽऽहता सा दीर्घं न्यश्वसत्। अतिकष्टेन चाऽऽत्मानमवष्टभ्य तत: स्थानात्प्रयाणस्य चेष्टामकरोत्।
दिनेशोऽपि मातुलेन सह तत्राऽऽगच्छत्, क्रीडनकं चाऽक्रैषीत्। सर्वमन्यद् विस्मृत्य प्रमोदेन नृत्यन्नसौ मातुलमवादीत्- 'दृष्टं मातुल! मे क्रीडनकं कीदृशं नृत्यति?’
समीप एव स्थितस्य वृद्धाया: शिशुपौत्रस्य कर्णयोरिमे शब्दा: पेतु:। 'अहो कीदृशं नृत्यति। अहो कीदृशमुत्तममस्ति’ इत्यादिभि: शब्दैर्बालकस्य धैर्यं नितरां चूर्णीकृतम्। दु:खादुच्छ्वसितहृदयोऽसौ सम्प्रति सचीत्कारमरुदत्, पितामहीं च वक्षसि सकरुणमालिङ्गत्।
वृद्धा पितामही नेदानीं सोढुमशकत्। विद्रुतहृदयायास्तस्या: कृते बालकस्येदं हृदयविदारकं दु:खमसह्यमभूत्। धैर्यविलोपेन किङ्कर्तव्यविमूढा सा नात्मने प्रबभूव। अत एव भिक्षां याचितुमनभिज्ञापि श्रेष्ठिनमेकं विवशतया सदैन्यदर्शनमवादीत्- 'एकं पणं मे दत्त। केवलमेकं ताम्रखण्डमहं याचे। शिशवेऽस्मै क्रीडनकमिदं क्रेतव्यम्। गृहादहं नाऽऽनीतवती। ग्रामश्च मे दूरे, तत् अबोधस्याऽस्य शिशोरुपरि दयां विधत्त।’
सर्वमिदं करुणदृश्यं श्रेष्ठी यदि सावहितमद्रक्ष्यत्तर्ह्यवश्यमस्य हृदयमद्रविष्यत्। पणमेकं किम्, रूप्यकमप्यदास्यत्। परं न सर्वस्य सविधे दर्शनाय नेत्रे भवत:। स हि तां भिक्षाव्यवसायिनीमविदत्, अत एव साऽवज्ञमवोचत्- 'गच्छ दूरम्, पश्यत! वृद्धापि क्रीडनकार्थिनी सेयं समागता! बालाय क्रीडनकमावश्यकं तर्हि पणं नि:सारय।’
मर्माऽऽहता वृद्धा स्तब्धेवाऽभवत्। मनस्येवाऽभावयत्सा-'हा हन्त इमेऽपि मनुष्या: सन्ति। एतेषामपि शिशवो भवेयु:। पश्यन्त्या एव मे ताम्बूलार्थमेवैभि: कियन्त: पणा नि:शेषिता: हन्त क्षणिकानन्दार्थम्, आमोदप्रमोदार्थं चेमे कियद् धनमपगमयन्ति, परं दीनानां जीवनरक्षायै एक: पणोऽपि दुर्लभ:। अस्मिन्समये सेयं बालकस्य जीवनरक्षा। किन्तु वास्तवे परोपकारे, नि:सहायानां साहाय्ये च दानं नूनं कठिनतमम्।’
प्रमुदितचित्तो दिनेश: क्रीडनकं नर्तयन् वृद्धाया: पार्श्वतोऽव्रजत्। वृद्धाया: शिशु: पौत्रो निकटाऽऽगतं क्रीडनकं दृष्ट्वा धैर्यं धातुं न प्राभवत्। अत एव रुदन्नसौ दिनेशस्य क्रीडनकाभिमुखं हस्तं प्रासारयत्। वृद्धा तमिमं सभर्त्सनं प्राबोधयत्- 'चपल किमिदं करोषि। न कस्यचिद्वस्तुनि हस्तं प्रक्षिपन्ति। सन्तोषं कुरु, दीनेभ्यो भगवानेव ददाति।’
विवशो बालको हस्तं समकोचयत्। सलालसमजल्पच्च-'अम्ब! स भगवान् क्वास्ति। शीघ्रमिदानीं तमाह्वय।’
इदं ब्रुवन्नेव समुक्ताक्रन्दमरोदीत्, भूमौ लुठंश्चाऽवदत्- 'भगवन्! शीघ्रमागम्यताम्। विलम्बेन क्रीडनकविक्रेता स्वगृहं गच्छेत्। अहमेकं क्रीडनकम्......’।
निसर्गतो दयालुर्दिनेशो नेदं सोढुं प्राभूत् अवादीदसौ वृद्धाम्- 'अम्ब! अस्मै क्रीडनकं किमिति न दापयसि?’
मर्माहता वृद्धा किमस्मै बालकाय बोधयेत्। प्रत्यवदत्सा सनि:श्वासम्- 'दापयिष्यामि वत्स!’।द
दिनेश: - तर्हि दापय। पश्य, दीनोऽसौ कियद्रोदिति?
वृद्धा- जात! दीर्घमायुस्ते भूयात्। बालकेन सताऽपि त्वया इयत्तु परिसान्त्वितम्। भगवाँस्ते मङ्गलं क्रियात्। किन्तु पुत्र न मे सविधे पणोऽस्ति। यद्येकोऽपि पणोऽभविष्यत्तर्हि एकमात्रमपि मे जीवनावलम्बनमिमं किमित्येतावदरोदयिष्यम्।
दिनेश:- 'तर्हि भ्रात:! क्रीडनकमिदं गृहाण। क्रीडितं मया, इदानीं त्वमनेन क्रीड।’ वदन्नेवेदं दिनेशो झटिति निजं क्रीडनकं वृद्धाया: शिशोर्हस्ते न्यदधात्।
बालको रोदनाद्व्यरमत्। प्रमोदेन नृत्यन्नसाववदत्- 'अपि पितामहि! अयमेवाऽस्माकं भगवान्?’
वृद्धा-आम्। वत्स दीनानां दु:खे नि:स्वार्थभावेन ये साहाय्यमारचयन्ति त एव भगवत्स्वरूपा:।
हर्षाद्वात्सल्याच्च वृद्धा विद्रुतहृदयेवाऽभवत्। 'कदाप्यमङ्गलं ते मा भूत्’ इत्याशीर्भिरभिवर्धयन्ती सा बालकस्य हस्तमचुम्बत्, आनन्दाश्रुभिस्तमभ्यषिचन्मस्तके। दूरे तिष्ठन् दिनेशस्य मातुल: सर्वमिदं कौतुकमदर्शत्। स हि सरभसं धावित्वा दिनेशमुत्सङ्गेऽनयत्, वक्षसा चाऽश्लिक्षत्।
एष कारुण्यवृत्तान्त: कतिलक्षजनव्यापिनं सर्वमपि मेलकं क्षणादावृणोत्। तद्दिनादारभ्य दिनेशोऽयं दानी दिनेश इति नाम्ना सर्वत: प्रासिध्यत्।
वीरो बालचर:
(१)
दुर्गादेवी-भ्रातर्दीनेश! किमेतदद्य सज्जयसि? अहह परिपूरिता सेयं नानावस्तुर्भिर्महती ग्रन्थि:। अपि विवाहस्य वरयात्रायां क्वचित्प्रस्थातव्यम्?
दीनेश:- हन्त विघ्नायिता त्वमुपस्थिताऽस्येव। समागत्यैव च पुन: प्रारब्ध: सोऽयं प्रश्रकाण्ड:? सम्प्रति विततै: प्रश्नशतैर्मे मस्तिष्कमाकुलयिष्यसि। किन्तु नेमा वार्तास्तव बुद्धिगम्या इति विद्धि। अपि ज्ञातम्?
दुर्गादेवी- किमिदं भ्रात:? अहमपि तु विद्यालये पठामि। ततो मह्यं सूचने का वा भवतो हानि:? नाहं सहनयनाय भवन्तमागृह्णामि। केवलमहमिदमेव जिज्ञासे यत् इयन्त्युपकरणान्यादाय कुत्र वा भवान् कामयते गन्तुमिति।
दीनेश:- वस्तून्यमूनि दृष्ट्वाऽपि किं न शक्नोषि बोद्धुम्? न किं जानीषे यद्वयं बालचरा:। अद्य विद्यालयस्य सर्वेऽपि बालचरा वनभ्रमणाय बहि: प्रस्थास्यन्ते, परावर्तिष्यन्ते च दिनद्वये नगरम्। तदर्थमेव सेयं सकलापि सामग्री। अपि परिज्ञातमिदानीम्?
वस्तुत: सत्यमिदम्। सज्जाव्यग्रस्य दीनेशस्य न रात्रावपि समभून्निश्चिन्तनिद्रा। यथाकथञ्चित्स हि विचारैरेव व्यत्यगमयद्रजनीम्। प्रातरुत्थित एव च ऊहापोहेऽस्मिन्प्रसक्तोऽभूद् यद् बालचरयात्रायां किं किं वा मया सह नेतव्यमिति। य: कोऽपि सहचरोऽमिलत्स हि समपृच्छत्तम्- 'केषु केषु वस्तुषु सहनीतेषु यात्रायां न स्यादसुविधा?’ बहुतरमितस्ततो गवेषणां कृत्वा, सहचरान्पृष्ट्वा च स हि यात्रोपकरणानां विस्तृतामेकां सूचीं समलिखत्। सामग्रीतालिकां चेमां पुरो निधाय स हि सर्वाणि वस्तून्यकार्षीद् ग्रन्थिबद्धानि। एतस्मिन्नेव समये समागादेतस्य भगिनी दुर्गादेवी, या हि विपुलविस्तृतं वस्तुस्तूपमिममालोक्य समभूच्चेतसि चकिता।V
दुर्गादेवी- ननु बालचराणां का वाऽऽवश्यकता तत्र दर्पण-कङ्कतिका-केशतैलाङ्गरागा-दिप्रसाधनसामग्रीभि:? भ्रात:! भवता तु स्तूपायित: सोऽयं वस्त्रपुञ्जस्तथा राशीकृतो यथा द्वित्रवर्षाणां कृते क्वचित्प्रवससि। पुनश्चाय-विषकूटयो: समुद्गकैरेभि: किं तत्र कर्तासि? मन्ये, यदि सर्व एव च्छात्रा: सगृह्णीयुरेतावन्त्येवोपकरणानि तर्हि भवेद्धूमशकटेरेकस्या आवश्यकता!
दीनेश:- हन्त पुनरारब्धं बुद्धे: श्राद्धं भवत्या अत एव तु प्रोक्तं मया यत्त्वं नेदं बोद्धुं पारयिष्यसीति। अरे न वयं तत्र मरणाय तपश्चरणाय वा गच्छाम:। तत्र हि वनविहारेण सानन्दं मनो विनोदयिष्यामहे। चाय-विषकूटयो: प्रभावेण सर्व एव बालचरा मामनुवर्तिष्यन्ते, सर्व एव च मां प्रणयात्प्रतीक्षिष्यन्ते। चेदेकाकिन एव मे सेवानियोग: समापतेत्तर्हि सर्वे एव मे सहाय्यमनुतिष्ठेयु:। न च मे भवेदंशतोऽपि कष्टं किञ्चित्।
दुर्गा.- तर्हि तु साधीयान् बालचरो भवान्! यदा हि स्रस्तरोपधानादिसुखसामग्री सह सङ्गृह्यते तदा सम्यगेव साधयिष्यते लोकसेवा भवता!
दीनेश:- अत एव तु प्रोक्तं मया, कस्त्वया सह कुर्याद् वाग्व्ययम्। नूनमुल्लङ्घिता बुद्धेश्चरमसीमा भवत्या। अस्तु, इदानीं दर्शय पृष्ठं त्वरितम्। अन्यथा न ते हितं भवेत्। महामूढा पूर्णा च दुर्दुरूढा।
(२)
वह्ने: शिखा उत्तरोत्तरमचुम्बन्नम्बरम्। प्रथमतो निदाघस्य दिवसा:, ततो जलस्याभाव:, तदुपरि तृणनिर्मितं कुटीरम्। कहार्या वर्षद्वयवयस्क: शिशुर्गृहाभ्यन्तर एव रोदिति। सा च बही रथ्यायां स्थिता दीनदीनतरमाक्रन्दति। न च कस्यचिद् गृहान्त: प्रवेष्टुं साहसम्। बहवस्तु तस्यामेव दोषारोपणं कुर्वन्त: कलहायन्ते किन्तु न कोऽपि दुग्धमुखस्य तस्य शिशो: संरक्षणायाऽवदधाति। कहारी प्राणधनस्य निजशिशो: कृते कण्ठागतप्राणा। बालचरो दीनेशश्चकार सकृत्साहसम्, किन्तु करालाभिर्वह्निज्वालाभि: प्रशमित: सर्वोऽपि धैर्योद्यम:। स हि किंकर्तव्यवि-मूढस्तत्रैवावस्थितोऽभूत्। आन्दोलितोऽभूत्स ह्यस्मिन्नेव विचारचक्रे यत् बालचराणां कतमा युक्तिरत्रोपयुक्ता स्यादिति। सहस्रशिखा: समभूवन् वह्निशिखा:। अगलत्सर्वेषां साहसम्। पुत्रैकमात्रावलम्बना दीना कहारी शोकाद्विलुलोठविचेतना भूमौ।
एतावतैव दृष्टं दीनेशेन यद् वायुवेगेनैको बालचरस्तत्रागच्छत्, प्राविशच्च सहसैव गृहान्त:। प्रायतत दीनेश: सरभसमुपसर्प्य तं निवारयितुम्, किन्तु तडित्प्रतिमया तस्य शीघ्रकारितया व्यधीय ताऽसौ हतबुद्धि:। स हि चित्रलिखित इवावस्थितस्तदिदमेवाशोचद् यदस्य हन्त को भवेत्परिणाम:। बालचरस्यास्य साहसोपरि चित्रीयन्ते स्म सर्वेऽपि।
यस्मिन् समये स हि बालचर: कुटीराद्बहिरागच्छत्तदा तस्य हस्ताभ्यां विमुच्य निपपात भुवि रुदन्बालक:। स्वयं चाप्ययं निपपात विसंज्ञो मूर्च्छित: सन्। अदह्यन्त सर्वाण्यप्यस्य वस्त्राणि। आसंश्चास्य श्यामवर्णानि हस्तपादाद्यङ्गानि। यदा ह्यस्य समभूच्चेतना तदा दृष्टमनेन यद् दीनेशस्तस्य मस्तकमुत्सङ्गे वहन् प्रवाहयति शोकत: प्रेमाश्रूणि, पर्यवेष्टयच्चैनं परितो महान् जनसम्मर्द्द:।
यथैवाऽस्याऽक्षिणी उन्मीलिते तथैवालेखत्तस्यौष्ठयो: सूक्ष्मा स्मितरेखा। स हि क्षीणतरे स्वरे पप्रच्छ दीनेशम्- भ्रात:! बालचरस्त्वमसि अहं वा?’
दीनेशस्य मुखान्न निश्चक्रम किञ्चिदप्युत्तरम्। किन्तु पुनरयमप्राक्षीत्- 'उत्तर देहि मे भ्रात:?’। दीनेशेन तस्य मुखमाचुम्ब्य सस्नेहमुदीरितम्- 'त्वम्’।
अयं बालचरो नासीत्कश्चिदन्य:। अयं ह्यासीदस्य लघुभगिनी 'दुर्गादेवी’!!
धर्मधनयोर्युद्धं धर्मस्य विजयश्च
(१)
विश्वव्यापिनो युरोपयुद्धस्य माहात्म्याद्देशमात्रे धान्यस्य महर्घतापिशाची भयानकं रूपमापेदे। प्रचुरधान्योत्पत्तावपि भारतीया जना एकैकमुद्राया अपि न प्रापुरन्नं समये। दुर्लभमभूद् गोधूमानां दर्शनम्। धान्यव्यापारिभिरितोऽप्यधिकमहर्घतालोभेन स्थाने स्थाने गुप्तीकृत्यं धान्यम्, विक्रयाय न बर्हि प्रसारितम्। अत एव राजतन्त्रेणा(कंट्रोल)ऽधिकृतमखिलं धान्यम्। राजाज्ञामन्तरेण न कश्चिद्धान्यं सङ्ग्रहीतुम्, न च स्थानात् स्थानान्तरं प्रेषयितुं शक्नुयात्। राजानुमतेषु परिमितेष्वापणेषु एकमनुष्याय एकमुद्रामात्रस्यादीयत त्रिप्रस्थमात्रं गोधूमम्। एतदपि नियते समये। समयमुल्लङ्घय समागतानामेकादशी तिथिरेव सम्मुखगताऽभवत्। अत एव राजनियतधान्यापणेषु तावान् सम्मर्दोऽभवद् यद्धान्यं क्रीत्वा बहिरागतस्य पुनर्जन्मेवाऽगण्यत सर्वमन्यत्सोढुं शक्येत, किन्तूदरज्वाला केन केन वा शक्येत मर्षयितुम्? सापि च धनसत्तायाम्। अत एव धान्यव्यापारिणां कृते समपद्यत स्वर्णमय: समय:। प्रचुरधनलोभाद् गुप्तरूपेणाऽचलद्धान्यस्येतस्तत: प्रवाह:।
यद् गोधूमं षोडशप्रस्थमितमेकमुद्राया अलभ्यत तस्य हि घृततोऽप्यधिकमहर्घतामालक्ष्य धान्यव्यवसाय: सुवर्णाकर: पर्यगण्यत जनै:। दुर्लभगोधूमेषु स्थानेषु राजाज्ञाविरोधेऽपि गुप्तरूपेण प्राहीयत गोधूमराशि:। राजतन्त्रेण धान्यबहिर्निर्गमनस्य घोर कठोर: प्रतिषेध: प्रचारित: परं सीमाधिकारिणां लोभाग्रे: सहस्रजिह्वतया न यथावत्कर्तुमपार्यत। नानाविधानां छलप्रपञ्चानां सृष्टिरभूत्। केऽप्युत्कोचेन, तर्ह्यन्ये कपटजालेन स्वार्थं साधयामासु:। निर्गमनसीमाधिकृतस्य पदं सुवर्णष्ठीवि समभूत्। तत्पदप्राप्तये धनकर्षणशीलानां वाक्कीलानामपि लालसाऽङ्कुरिताऽभूत्। राजनियम (कानून)- शिक्षां परिसमाप्य पं. गङ्गाधरोऽप्यधिकारप्राप्तये गृहाद्बहिरभवत्।
तस्य वृद्ध: पिता पुरातनोऽनुभवी, स ह्यबोधयत् 'वत्स! शिक्षाव्ययादिना गृहस्य या दुष्परिस्थितिस्तां प्रत्यक्षं पश्यस्येव। ऋणभारेण गृहस्य मेरुदण्डो भङ्गोन्मुख:। साम्प्रतं त्वमेवास्य सहायक:। सेवाकार्ये अधिकारपदस्य प्रतिष्ठाया उपरि न दृष्टिर्दातव्या। तत्कार्यमङ्गीकार्यं यत्र संसिध्येदुपरितनोऽप्याय:। मासिकवेतनं हि पूर्णिमायाश्चन्द्र: यो ह्येकस्मिन् दिने दृश्यमान: सन् प्रत्यह क्षीणक्षीणो लुप्यतेऽन्तत:। उपरितन आयस्तु प्रवहत्, स्रोतो येन सर्वदैव तृष्णा निर्वाप्यते। वेतनं मनुष्यो ददाति, अत एव न तस्मिन् समृद्धिर्भवति। उपरितनं लाभमीश्वरो वितरति, अत एव हि तेन गृहं समृद्ध्यति। त्वं साम्प्रतं शिक्षासम्पन्न:, किं ते बोधयितव्यम्। एतस्मिन्विषये विवेकस्यावश्यकता। पूर्वं हि मनुष्य: परिचेतव्य:, ततस्तस्याऽऽवश्यकता निर्धारणीया, अन्ते चावसरोऽनुपालनीय:, एतदुत्तरं यदुचितं प्रतीयेत, कर्तव्यम्। अपेक्षावत: पुरुषस्योपरि कठिनताऽऽचरणेऽपि चतुर्दिक्ष्वेव लाभ:, किन्तु निरपेक्षस्याऽऽयत्तीकरणं महत्कठिनम्। अस्तु, अवधारय तावत् स्थूलतममिदं तत्त्वम्।’
शुकनासोपदेशोत्तरं ददौ स पुत्रायाऽऽशीर्वादम्। आज्ञाकारी पुत्र: सर्वमिदमवधार्य उपार्जनस्य यत्नायाग्रेसरो बभूव। धैर्यं तस्य मित्रं बुद्धिश्चासीत्पथिप्रदर्शिका। शुभशकुने चासौ गृहात्प्रतस्थे, अतएवास्याभूत्सफलो यत्न:। अभूदयं धान्यनिर्गमनसीम्रोऽधिकारिपदे प्रतिष्ठित:। पुष्कलं वेतनम्, बाह्यस्याऽऽयस्य तु नासीत्परिसीमापि। सुखसंवादमिदं श्रुत्वा वृद्ध: पिता न ममौ स्वाङ्गेषु।
(२)
शिशिरर्तुस्ततोऽपि रात्रे: समय:। गुल्मस्य कर्मचारिण:, प्राहरिकाश्चे सर्वेऽपि मदमत्ता निद्रायामासन् विचेतस:। पं. गङ्गाधरस्य षण्मासतो नाभूदधिक: समयोऽत्रागतस्य, किन्त्वेतस्मिन्नेव समये कार्यकुशलतया सदाचरणेन चायं सर्वानप्युच्चाधिकारिणो वशीकृतवान्। तस्याधिकारिणामासीत्तस्योपरि पूर्णो विश्वास:। सीमाधिकरणस्थानस्य पूर्वदिशि क्रोशार्द्धे प्रावहद् बाणगङ्गा। आसीत्तदुपरि नौभिर्निर्मित एक: सेतु:। गुल्माधिकारी गङ्गाधरो निद्रानुषङ्गादासीत्सम्प्रति विचेतन:। किन्तु सहसैव यथा तस्य प्रबोधो भवत्तथैव नद्या: प्रवाहोपरि भारशकटानां खडखडारवं, कैवर्तानां कलकलं चाश्रौषीत्। शयनीयादुदतिष्ठत्। एतस्मिन् घोरनिशीथे किमिति शकट्य: सेतुमुल्लङ्घयन्ति? अप्यस्ति काचित्कपटकल्पना? स हि नियोगपरिधानीयमधात्। पार्श्वपुटकेगुलिकास्त्रकं निधाय त्वरितमेव तुरङ्गमारूढोऽसौ प्राप्तवान् सेतूपरि। शकटीनां पङ्क्तिमालोक्य सोत्तेजनमवादीत्- 'कस्येमा: शकट्य:?।’
अभूत्स्वल्पं समयं निस्तब्धता। प्रावर्तत मनुष्येषु निभृतनिभृतं मन्त्रणा। तत: प्रमुख: शकटिवाहोऽवदत्- पं. नरेन्द्रनारायणस्य’
'को नरेन्द्रनारायण:?’
'राजपुरस्य’
गङ्गाधरस्याङ्गानि समकुचन्नेकवारम्। पं. नरेन्द्रनारायण: प्रान्तस्यास्य सर्वप्रतिष्ठितो भूम्यधिकारी। न केवलं भूम्यधिकार्येव, परोलक्षमुद्राणां कुसीदव्यवसायमसौ५चक्रे। अस्मिन्प्रान्ते लघुमारभ्य को वा महानपीदृशो भवेद् योऽस्य न स्यादधमर्ण:६। व्यापारोऽप्यस्य विपुलोऽभूत्। एतदन्तरा लवणाकरस्य, पाषाणखनेश्चाप्यस्याधिकारोऽभूत्। आसीदपारा सम्पत्ति:, प्रान्तमात्रे च महती प्रतिष्ठा। अवसरचतुरोऽप्ययमेक एवासीत्। सर्वेऽपि राजाधिकारिणोऽस्य संव्यवहारिण:। प्रान्तीय: शासक: समये समयेऽस्य गृहे जगाम, लेभे च सर्वत: प्रमोदवर्द्धकं सत्कारम्।
पृष्टं गङ्गाधरेण-'शकट्य: क्व गमिष्यन्ति?’ उत्तरमलभ्यत 'विजयपुरम्’। किन्तु 'शकटिषु किमापूर्णम्’ इति यदा प्रश्रोऽभूत्तदा पुनर्नीरवता व्याप्यत। किञ्चित्कालमुत्तरस्य प्रतीक्षां विधाय गङ्गाधर: कोपानुषङ्गादुवाच-'किं यूयं मूका:? अहमापृच्छे ''शकटिभि: किमुह्यते?”
इदानीमपि यदा नोत्तरमलभ्यत तदा गङ्गाधरस्तुरङ्गायाग्रे गन्तुमिङ्गितमकरोत्। एकस्या: शकटे: समीपमुपगत्य बोरकमेकं विदार्यं दृष्टं यच्छकट्यो गोधूमै: पूर्णा:।
पंण्डित नरेन्द्रनारायण: सर्वविधाभिरामण्डिते निजरथे किञ्चिच्छयान: किञ्चिच्च जाग्रत्समायाति स्म शकटिपङ्क्ते: पृष्ठत:। समुपस्थितसंशयेऽस्मिन व्यापारविषये स्वयमपि सहैव यात्रामुचितां मेने। सम्भ्रान्तै: शकटिवाहकै: समागत्य सहसैव जागरितोऽभूत भूम्याधिकारी। उक्तं च ते -'महाराज ! सीमाधिकारिण: शकटयो निरुद्धा:। सेतुतटेऽवस्थित: स भवन्तमाह्वयति।’
पं. नरेन्द्रनारायणस्य भगवत्या लक्ष्म्या उपर्यासीदखण्डो विश्वास:। स ह्यकथयद्बहुधा- 'का कथा संसारस्य, वैकुण्ठेऽपि भगवत्या लक्ष्म्या एव राज्यम्।’ मन्ये यथार्थमेतत्कथनम्। न्यायो नीतिनिर्णयो नियमाश्चेमे निखिला अ पि सम्प्रति भगवत्या: कमलालयाया: क्रीडनकानि। यथा सा साम्प्रतमिच्छति तथैव नर्तयति नि:शङ्कम्। शयान एव स हेलया कथयामास- 'गच्छत यूयम्, अहमागच्छामि’।
निश्चिन्ततया ताम्बूलमेकमासज्ज्य मुखे पूरयामास, ततस्तूलैकसारं नीशारं सर्वत: परिवेष्ट्य सीमाधिकृतस्य समीपमुपगत: प्रावदत् 'महाभाग!’ उपस्थितोऽयं जन:। आदिशत्, कीदृशोऽपराध: सुंवृत्तो येन शकट्य इमा अवरुद्धा:। ब्राह्मणानामुपरि तु श्रीमतां कृपादृष्टिरेवाशास्यते’।
गङ्गाधरो रूक्षतया प्रोचे- 'राजाज्ञा’।
नरेन्द्रनारायणो विहस्यावोचत्- 'अस्मदादयो न जानन्ति राजाज्ञाम्, नापि राजानम्। अस्माकं राजा भवानेव। मम भवतां च गार्होव्यवहार:। किमहं भवतां सकाशाद्दूरे भवितुं शक्नोमि? व्यर्थमेवात्र परिश्रान्तं भवता। नेदं कथमप्युचितं यत्क्षेत्रे गच्छाम:, क्षेत्रपालश्चापूजितो भवेत्। अहं तु स्वयमेव सेवायामागच्छन्नासम्।’
सर्वानुरञ्जकेनाप्यैश्वर्यस्य प्रबलप्रकाशेन नाऽदृश्यत गङ्गाधरोपरि रङ्गावेश:। कर्तव्यपालनस्यासीदारम्भिक: सोत्साह: प्रवाह:। अतएव सोल्लुण्ठनमवादीत्- 'नाहं तेषु कापुरुषेषु ये कतिपयकपर्दिकानां कृते कर्तव्यं कदर्थयन्ति। भवान् सम्प्रत्यभियुक्त:। प्रातर्नियमानुसारं प्रेषयिष्यामि भवन्तमधिकरणे। न च साम्प्रतमधिकसंलापस्य कृते मे समय:। गुल्मरक्षक गजसिंह! अहं त्वामादिशामि नयेतान् निजनिरीक्षणे।’
नरेन्द्रनारायणो निस्तब्धं न्यषीदत्। शकटिवाहकवर्गे समाच्छाद्यत सम्भ्रम:। नरेन्द्रनारायणस्य जीवने कदाचित्सोऽयं सर्वप्रथमोऽवसरो यत्रेवंविधा नग्रा कठोरता सम्मुखगताऽभवत्। गजसिंह: किञ्चिदग्रेऽवर्द्धत्, किन्त्वैश्वर्यस्य महाप्रभावतया नेदं साहसमभूद् यन्नरेन्द्रनारायणस्य हस्तं स्पृशेत्। धर्मद्वारा धनस्यैवं निरादरो नादृश्यत नरेन्द्रेणेत: पूर्वम्। मनसि व्यचिन्तयत्- 'सोऽयं सम्प्रत्युद्दण्डो नवयुवक:। मायामोहजाले नाधुनापि पतित:। किञ्चिच्च भीरुरपि, भयानकादस्मात्कार्यात्सम्प्रति सङ्कुचित।’
अतिदीनभावेनाऽवादीत्-'बाबुमहोदय! नैवं कठोरता मय्याचरणीया। मानसम्भ्रम: सर्वोऽपि मे व्यालुप्येत। जीवनं कलङ्कितं स्यात्। न च ममापमानेन भवतोऽपिलाभ:। सज्जोऽस्म्यहं भवतस्तोषणाय।’
रौक्ष्यानुषङ्गाद् गङ्गाधर: परुषतरमुवाच- 'नाहमेवंविधां वार्तां श्रोतुमपि वाञ्छामि’।
नरेन्द्रनारायणो यं तावदाश्रयं पाषाणशिलां मेने स हि चरणतलाददूरमपासरत्। स्वाभिमानस्य धनैश्वर्यस्य चाप्युपरित: समभूद् घोर: समाघात:, किन्तु साम्प्रतमपि धनस्य संख्याशक्तेरुपर्यासीत्पूर्णो विश्वास:। स ह्यवदन्निजकर्मचारिणम्। 'भाव! एकसहस्रस्य शुल्कपत्रमुपनय तत्रभवत: सेवायाम्। अस्मिन्समये श्रीमान्पूर्णतया कोपमापन्न:।’
शान्तिभङ्गाद् गङ्गाधर: सरोषमुवाच-'एकसहस्र’ किम्, एकलक्षमपि मां सत्यमार्गन्न प्रच्यावयेत्।’
धनं धर्मस्य बुद्धिशून्यायामस्यां धृष्टतायाम्, देवदुर्लभे त्यागे चापि महत्क्रुद्धमभूत्। सम्प्रति समघटत द्वयो: शक्त्योर्मध्ये भीषण: सङ्ग्राम:। धनेनोत्प्ल्युत्योत्प्ल्युत्य भीषणमाक्रमणमकारि। एकस्मात्पञ्च पञ्चतो दश, दशत: पञ्चदश, पञ्चदशतो विंशतिसहस्रपर्यन्तमक्षिप्यत, किन्तु धर्मोऽदृष्टपूर्वया वीरतया सह बहुसंख्यकस्याप्यस्य सैन्यस्य सम्मुखमविचलभावेनाऽचलवदवस्थित।
नरेन्द्रनारायणो निराशो भूत्वाऽभाषत- 'इतोऽधिका न मे शक्ति:, साहसमेव वा, सम्प्रत्यधिकारो भवताम्।’
कोपतरङ्गाद् गङ्गाधरस्तर्जयामास कर्तव्यपालनाय गजसिंहम्। स हि मनसि गङ्गाधरमङ्गारेषु निपातयन् नरेन्द्रनारायणस्याभिमुखं धैर्यं बद्ध्वा प्रासरत्। नरेन्द्रो भयाकुलो भूत्वा द्वे पदे पश्चादुपावर्तत। स हि पूर्वमनभ्यर्थतयापि दीनतया सह सकरुणं प्रार्थयत-'बाबूमहोदय! ईश्वरमभिलक्ष्य दयाभिक्षा मे दीयताम्। एषोऽहं पञ्चविंशतिसहस्र व्यतिकरोपशमाय सन्नद्ध:।’
'असम्भवम्’
'तर्हि त्रिंशत्सहस्त्रैरस्तु।’
'दुरापास्तमिदम्।’
'किं चत्वारिंशत्सहस्रैरपि न स्यात्?’
गङ्गाधरोऽङ्गार इव भूत्वाऽभर्त्सयत्- 'चत्वारिंशत्सहस्रैरेव न, चत्वारिंशल्लक्षैरपि नेदं सम्भवति। गजसिंह! नयैनं नरं निगडे। नाहं सम्प्रत्येकमपि शब्दमिच्छामि श्रोतुम्।’
धर्मो धनस्य धृष्टतां धूलिसादकरोत्। स हि तस्य चपलतां चरणचपेटाभिश्चूर्णयामास। नरेन्द्रनारायणो हृष्टपुष्टमेकं सैनिकं हस्तनिगडमादाय निजसम्मुखमागच्छन्तमपश्यत्। नि:सह-निराश: स हि कातरदृष्ट्या समन्ततो व्यलोक्यत् तत: सहसा मूर्च्छितो भूत्वा भूमावपतत्।
(४)
संसार: स्वयमशेत् परं तस्य जिह्वाऽजस्रं जागर्ति स्म। प्रातरेव पर्यन्ततो बालक-वृद्ध-युवकानां सर्वेषामेव मुखात्सेयं वार्तैवाऽश्रूयत्। प्रत्येकपुरुष: पं. नरेन्द्रनारायणस्य व्यवहारोपरि टीकाटिप्पणीरकरोत्। सर्वतो निन्दाया निर्झरा: प्रावहन्। मन्ये संसारात्पापस्य नामैव नि:शेषीभूतम्। पानीयं दुग्धनाम्ना विक्रीणानोगोप:, श्वेतमपि कृष्णीकुर्वन्तोऽधिकारिण:, विना त्रिकटं रेलयात्रापरा बाबुवरा:, कूटाऽऽयव्ययलेखका: श्रेष्ठिन:, सर्वेऽप्यमी देवता-वत्पुण्यमूर्तय: सन्तो जिह्वां ग्रीवां च सञ्चालयामासुर्युगपत्। द्वितीयस्मिन्दिने नरेन्द्रनारायणोऽभि-युक्त: सन् हस्तयोर्निगडम्, हृदये ग्लानिम्, कन्धरायां च लज्जाभारं वहन् यदा हि राजपुरुषै: सह न्यायालयाभिमुखोऽभूत्तदा नगरमात्रे विक्षोभोऽभवत्। मेलकेष्वपि नैवं नरनयनानि कदाचिद् व्यग्राण्यभूवन्।
किन्तु न्यायालये गमनमात्रस्यैवासीद्विलम्ब:। नरेन्द्राणां नारायणोऽयमगाधेऽस्मिन् सागरे सर्वदैव नि:संशयं शेते स्म। अथवा गहनस्याप्यस्य वनस्यासीत्सोऽयं सिंह:। अधिकारिवर्गोऽस्य भक्त:, तत्परिकरोऽस्य सेवक:, वाक्कीलास्तस्याज्ञावाहिन:, प्रतीहारि-यामिकादयस्तस्य गृहदासा:। तं दृष्ट्वैव सर्वेऽपि समन्तत: ससम्भ्रममभ्यगमन्। आसन् सर्वेऽपि विस्मिता:। नाऽनया घटनया यत्किमिति नरेन्द्रनारायणेनैवमपकर्माऽऽचरितम्, अपि त्वनेन, यन्नियमनिर्मातृणां जामातृकल्पोऽपि राजनियमशृङ्खलायां कथमयमापतित:। यस्य सविधे असाध्यसाधनं धनम्, अनुपमिता च वाक्पटुता स किमिति निपतेन्नियमनियन्त्रणायाम्?
प्रत्येकमनुष्यस्तेन सह समदर्शयत्सहानुभूतिम्। असम्भावितमिदमाक्रमणं प्रतिकर्तुं वाक्कीलानां महत्येका सेना सन्नद्धाऽऽसीत्। न्यायस्य पवित्रेऽस्मिन्क्षेत्रे धर्मधनयोर्मिथस्तुमुलयुद्धमाबध्यत। गङ्गाधरो ह्यङ्गान्यवकुच्य तूष्णीमस्थात्। तस्य सविधे सत्यातिरिक्तं न किञ्चिद्बलम्, स्पष्टभाषणातिरिक्तं न किञ्चिच्छस्रम्। आसन् तस्य साक्षिण: किन्तु लोभात्सर्वेऽपि क्षोभापन्ना:।
अभियोग: शीघ्रमेव समाप्तोऽभवत्। प्रधानाधिकरणिकेन निजनिर्णये लिखितम्-'पंण्डितनरेन्द्रनारायणस्य विरोधे दत्तानि प्रमाणानि निर्मूलानि भ्रमात्मकानि च। अयं हि सम्पत्सम्भारशाली सम्भावितपुरुष:। तदिदं कल्पनातो बहिर्भूतं यदनेन महोदयेन स्वल्पस्य
लोभस्य कृते दुस्साहसमिदमाचरितं स्यात्। यद्यपि सीमाधिकृतस्य पं. गङ्गाधरस्य नाऽस्मिन्नधिको दोष:, किन्तु सोऽयं महान् खेदो यत्तस्योद्दण्डताया अदूरदर्शितायाश्च कारणादेक: सम्मानितपुरुष: कष्टभारबभूव। वयं प्रसीदामो यत्सीमाधिकृत: स्वकार्ये जागरूक:, किन्तु सीमाधिकारिण: सेयं जागरूकता सीमालङ्घिनी बभूव। भविष्यति भाव्यं तेन सतर्केण।’
वाक्कीलैर्यथैवायमाकर्णितो निर्णयस्ते हर्षभरान्निर्भरमनृत्यन्। पं. नरेन्द्रनारायण: स्मितमुखमागच्छद्बहि:। स्वजनबान्धवास्तस्योपरि रौप्यमुद्रा अवर्षन्। उदारताया: सागर एव समुद्वेलितोऽभूद् यस्य तरलतरङ्गैर्न्यायालयस्य भित्तयोऽप्यकम्पन्त। यदा तु गङ्गाधरो न्यायरङ्गाद्बहिरभूत्तदा समभूवँस्तस्योपरि व्यङ्ग्यबाणवर्षा, प्रकर्षात्। अद्य हि संसारस्य खेदजनको ह्येको विचित्रोऽनुभवस्तस्याऽभवत्। न्यायश्च विद्वत्ता च, दीर्घदीर्घा उपाधय:, नाभिप्रलम्बा: कूर्चा:, पादविलम्बिप्रावारका:, नैतेष्वेकमात्रमपि सत्यादरस्य पात्रम्।
(५)
धनेन सह घोरविरोधं निर्मूल्यमेव क्रीतवान् गङ्गाधर:। सम्प्रति तस्य मूल्यपरिशोधनमासीदनिवार्यम्। सप्ताहोऽपि कठिनतया व्यत्यैत, एतावतैव पदच्युतेरादेश: प्राप्यत। कर्मपरायणताया: प्रत्यपद्यत पुरस्कार:। खेदेन निर्वेदेन च भग्रहृदय: स्वगृहाभिमुखोऽभवत्। वृद्धो गङ्गाधरपिता पूर्वमेव पुत्राय कुप्यति स्म यद् गमनसमये बहुतरमवबोधितोऽपि नायं किञ्चित् कर्णे करोति। अस्माभिरपि अधिकरणकर्मचारिता पुरा निर्वाहितैव किन्तु यत्कार्यं कृतं तत्सर्वथा फलेग्रहि। एष तु धारयति धर्मिकधुरन्धरताम्। गृहे सर्वतोऽन्धकारम्य साम्राज्यम्, किन्तु देवालये दीपोऽवश्य प्रज्वाल्येत। धन्य ईदृशो विवेक:! अप्येतदर्थमेव शिक्षाव्ययोनिरूढ:?’
एतस्य स्वल्पैरेव दिनैर्जीविकाभङ्गाद्यदा गङ्गाधरो निजगृहमगात्, वृद्ध: पिता चेदमशृणोत्तदा दुखाल्ललाटमाहन्। नानाविधैरनुतापै: पुनर्नवीचकार हृदयव्रणान्। वृद्धाया मातुरत्यातुरता भृशं ववृधे। जगन्नाथ-रामेश्वरयात्राया मनोरथा मनोरथा एवाभूवन्।
व्यत्ययासीदेवमेव सप्ताह:। आसीत्सन्ध्यासमय:। वृद्ध: पिता ह्यलिन्देऽवस्थाय मन्देन मनसा रामनाम्रो मालामावर्तयति स्म। एतस्मिन्नेव समये सर्वत: प्रसाधित एको रथस्तस्य द्वारदेशे व्यश्राम्यत्। महान्तौ नागोरवृषभौ ययो रौप्यच्छटाविच्छुरितौ विषाणौ, कन्धरायां च बन्धुरा स्वर्णशृङ्खला व्यलम्बत्, अनेके स्कन्धधृतदण्डा: पुरुषप्रकाण्डास्तं परित: पर्यचलन्। वृद्ध: सादराभिगमनायाऽधावत्। दृष्टं यत्सोऽयं पं. नरेन्द्रनारायण:। सादरं प्रणम्य चाटुभिश्चेत:प्रसादनस्य चेष्टामकरोत्- 'अद्य मे महान् भाग्योदयो येन महादयो मे दीनस्य गृहमुपगत:। भवान्न केवलं ममैव, अपि तु प्रान्तमात्रस्याभ्यर्हणीय:। किन्तु केन मुखेनाहं संलपामि? अभाग्येन कुपुत्रेण कलङ्कितं मे जन्म। सत्यम्, वरं नि:सन्तानता, पुनर्नैवंविधा सन्तति:।’
न्यगादीन्नरेन्द्रनारायण:-'भ्रातृवर! मैवं वादी:’। चकितो वृद्ध: प्राह- 'एवंविधे संताने किमन्यदहं कथयेयम्?’ नरेन्द्रो मन्द्रेण स्वरेणाऽवदत्-'निजपूर्वजानां कीर्तिमुज्ज्वलयन्त: कियन्त: स्युरेवंविधा: संसारे ये निजकर्तव्यस्य निर्वहणाय धर्मस्य च रक्षणाय निजसर्वस्वार्पणेऽपि सन्नद्धा: स्यु:?’
ससङ्कोचमलिन्दकोणेऽवस्थिताय प्रोक्तं च तेन गङ्गाधराय-'सीमाधिकारिमहोदय! इयमुक्तिर्न मे चाटुश्चिन्तनीय:। चाटुकारितायै इयद्दूरागमनस्य नासीन्मे प्रयोजनम्। तस्यां रजन्यामधिकारबलेनाऽहमभवं निगडे नियन्त्रित: किन्त्वद्याहं स्वेच्छया भवन्नियन्त्रणे समागतोऽस्मि। मया परश्शता भूस्वामिनो दृष्टा: ,परस्सहस्राश्च धनादिकारिणोऽधिकृता:, सहस्राधिकाश्च राजपदाधिकारिणो मे व्यवहारिण:, किन्त्वहं चेत्पराभूतस्तर्हि भवतैव। मया ह्यखिला अप्यमी निजस्य निजधनस्य च दासीकृत्य विसृष्टा:। अस्तु. अनुमन्ये यत्त-किञ्चिदहमभ्यर्थये भवन्तम्।’
विनयानुषङ्गाटुत्थाय गङ्गाधरो नरेन्द्रस्याभ्यर्थनामकरोत् किन्तु स्वाभिमानसहितम्। मनस्यतर्कयत् यदयं महाशयो मामनुतापयितुं लज्जया ग्लापयितुं च समागत:। नायमकरोत् क्षमाप्रार्थनस्य मनागपि चेष्टाम्। प्रत्युत पितुश्चाटुकारिताप्यस्यासीदसह्या। परं सम्प्रति नरेन्द्रनारायणस्य भाषितमभ्याकर्ण्य मनोमालिन्यमगलत्। निरैक्षतायं नरेन्द्रं प्रति निस्पृहनय-नाभ्याम्। प्रकटं प्रतीयतेस्म तस्मिन् सद्भाव:। गर्वोऽपि लज्जाया: सम्मुखे सम्प्रति मौलिमनयत्। स हि सलज्जमजल्पत्- 'सेयमुदारता भवतां यदेवमुदीर्यते। क्षम्यतां स मेऽविनयो यो हि पुरा निष्पन्न:। आसमहं तदा कर्तव्यशृङ्खलया निगडित:, अन्यथा सोऽहमनुचरो भवताम्। यत्साम्प्रतमाज्ञाप्येत्, संस्थाप्येत तच्छिरसि।’
विनयपरायणेन नरेन्द्रनारायणेनोक्तम्-'नद्यास्तटे न मे प्रार्थना पुरा स्वीक्रियते स्म, किन्तु पितुर्निकटे साऽवश्यमद्य स्वीकार्या स्यात्।’
गङ्गाधरोऽभ्यधात्-'अनर्होऽयं किंयोग्य:, किन्तु या सेवा मे साध्या न तस्यां त्रुटिरापाद्येत’।
राजमुद्राङ्कितमेकं पत्रमाकृष्य गङ्गाधराभिमुखे स्थापयन्नवादीन्नरेन्द्रनारायण:-'पदमिदं स्वीक्रियताम्, क्रियतां च हस्ताक्षरैरिदमङ्कितम्। अहमस्मि ब्राह्मण:, यावन्न मे प्रार्थनं स्वीक्रियते न तावद् द्वारदेशं वो मोक्ष्यामि’।
पपाठ पत्रमिदं गङ्गाधर:। किन्तु कृतज्ञताऽनुषङ्गादभूत्साश्रुनयन:। पं. नरेन्द्रनारायणेन निजाया: सम्पूर्णसम्पत्ते: सर्वप्रधानं प्रबन्धकोऽयं नियमित:। षट् सहस्त्राणि वार्षिकं वेतनम्। आरोहणायाऽश्व:, परिचर्यायै भृत्या:, निवासाय सौध:, एतदादि पृथक्। कम्पितस्वरेणाऽण्गादीद् गङ्गाधर: 'पण्डितमहाभागा:! न मे तादृक् सामथ्र्यं यद् भवतामिदमौदार्यं शक्नुयां प्रशंसितुम्। किन्तु नाहमेवंविधस्योच्चपदस्य योग्य:’।
नरेन्द्रनारायण: सहासं प्रत्यवदत्-'मम हि सम्प्रत्ययोग्यस्यैव मनुष्यस्याऽपेक्षा।’
गङ्गाधरो गम्भीरभावेनाऽगादीत्-'अहं भवतामनुगत:। भवादृशस्यागाधहृदयस्य सेवनं मे सौभाग्याय। किन्तु न मे विद्या, न बुद्धि:, न चापि सोऽनुभवो यो ह्यनयोर्द्वयोस्त्रुटीरपि निराकरोति। ईदृशस्य महत: कार्यस्य कृते महानेको मर्मज्ञ:, अनुभवो च पुरुषोऽपेक्ष्यते।’
नरेन्द्रनारायणेन लेखसम्पुटकाल्लेखनी नि:सारिता, तां च गङ्गाधरस्य हस्ते प्रदायाऽवदत्- 'मम हि न विद्याऽपेक्ष्यते नानुभवो न मर्मज्ञता, न चापि कार्यकुशलता। एतद्गुणानां महत्त्वस्य पूर्णं परिचयं प्राप्तवानस्मि पूर्णतया। मत्सौभाग्येन तादृशं मौक्तिकं मे सम्मुखगतं यस्य सम्मुखे योग्यताया विद्वत्तायाश्च कान्तिस्तिरस्कृता भवति। शिक्षायाश्चरमचूडामणयो राष्ट्रस्य प्रतिनिधयोऽपि लोभस्य सम्मुखे धर्मस्य बलिं ददतो दृष्टा:। गृह्यतामियं लेखनी, नाधिकविचारस्यापेक्षा। क्रियन्तामत्र स्वाक्षराणि। परमात्मानमिदमेवाऽर्थये यत्स भवन्तं नदीतटनिकटगतं निरनुरोधमुद्दण्डं कठोरं किन्तु कर्मनिष्ठं सीमाधिकारिणमेव सर्वदा कुर्यात्।’
गङ्गाधरस्याङ्गानि न तावन्तं कृतज्ञाताभारं निश्चेष्टं सोढुमशकन्। नेत्राभ्यां प्रादीयत् वाष्पोपायनम्, अङ्गै: प्राकाश्यत पुलककुलम्। अयं ह्येकवारं पुनर्नरेन्द्रनारायणं भक्त्या श्रद्धया चावेक्ष्य कम्पितकरेण नियोगपत्रे व्यधान्निजहस्ताक्षराणि।
नरेन्द्रनारायणोऽपि प्रफुल्ल: सन् वक्षसा तमालिलिङ्ग:।