न्यायाधिकारी
(१)
आसीत्प्रावृषेण्य: सन्ध्यासमय:। न्यचीयन्त नभसि नीला नीरधरा:। एतस्मिन्नेव समये 'बुद्धगया’ग्रामे धर्मपालब्राह्मणस्य गृहद्वारे समायासीदेक: पारदैशिको लोक: प्रावोचच्चासौ- 'अपि रात्रिव्यतिगमनाय लभ्ये ताऽत्र किञ्चित्स्थानम्?’।
धर्मपालोऽस्मिन् ग्रामे सर्वतोऽधिकं निर्धन:। घोरेण दारिद्र्येण क्षुत्क्षामस्य वृक्षभस्येव प्रकटं प्राकाश्यताऽस्य दीनोऽस्थिपञ्जर:। एतस्य जीविका स्वल्पतमाया भूमेरायोपरि कथञ्चित्स्म निरुह्यते। तथाप्यागन्तुकं सम्प्रति निजद्वारोपरि विलोक्य तस्य मुखं प्रासीदत्, सूर्योदये कमलमिव तन्नितरां प्राफुल्लत्। स्मयमानोऽसौ सोल्लासमवदत्-'नि:शङ्कमुपगम्यताम्, अतिथिचरणाभ्यां पूयतां मे पाकस्थानम्।’
अतिथिब्राह्मणश्चोभावपि प्राविशतां गृहाभ्यन्तरम्। भारते चिरात् प्रचलितामतिथि-सत्कारप्रथां प्रत्यक्षमादर्शयामास धर्मपालस्याऽऽचरितम्। ब्राह्मणस्य पुत्र: प्रेम्णा प्राकरोत्सप-र्यामतिथे:। अभूत्प्रणयमुग्धो वैदेशिक:। स ह्यवादीद् ब्राह्मणम्- 'भवदीयस्तनयो नूनमत्यन्तं कर्मशील:। सेवयाऽमुष्य समजनिषि भूयस्तरामहं प्रसन्न:।’
धर्मपालस्तादृशभावेन शिर: समुदतोलयद्यथा पन्नग: केनचित्प्रकोपित: स्यात्। अक्षिभु्रवमुन्नाम्य समगादीदसौ- 'भवानस्माकमतिथि:। अन्यथा ब्राह्मणो न श्रोतुमभ्यस्त एवंविधान् शब्दान्।
पारदैशिको निजप्रमादे विलक्षो भूत्वा प्रावोचत्- 'क्षाम्यतु भवान्, नासीन्मे तादृशोऽभिप्राय:। किन्तु साम्प्रतमेवंविधा विप्रा: क्वोपलभ्यन्ते? साम्प्रतं हि वितृष्यतो नयने तादृशानां दर्शनाय।’
धर्मपालो दृढतया प्रत्यवदत्- 'ब्राह्मणास्तु सन्ति साम्प्रतमपि, किं तु न्यूनतास्ति केवलं क्षत्रियाणाम्।’
'नाहमवगच्छं भवतोऽभिप्रायम्।’
धर्मपाल: सुदीर्घामेकां वक्तृतां प्रादाद्यामवाकर्ण्य वैदेशिक: समभूच्चकित:। तस्य सङ्कथा एव युक्तियुक्ता: प्रभावशालिन्यश्चासन् याभिर्वैदेशिकोऽसौ भृशमाक्रम्यत प्रभावेण। एवंविधे लघुग्रामे एवंविधो विद्वान् तत्त्वदर्शी चापि भवितुं शक्नोतीति नासीत्तस्य कल्पनापि। स हि धर्मपालस्य युक्तियुक्तं तर्कं शासनपद्धतेरेवंविधमसामान्यं ज्ञानं चावगम्य चाकित्येनावोचत्- 'श्रीमन्! जासीन्मे प्रबोधो यत्पङ्केऽस्मिन्पङ्केरुहमुत्फुल्लमिति। सम्राडशोको यदीदमवेदिष्यत्तर्हि न्ययोक्ष्यत भवन्तमुच्चाधिकारे।’
धर्मपालस्य शुष्कयोरोष्ठयोरखेलत्स्मितरेखा। यस्यान्त:करणं सर्वदा पुटपाकमनुभवेत्, यस्य नेत्रे सर्वदा वाष्पं वर्षेताम्, यस्य मस्तिष्कं न भवेत्सुस्थं तस्यौष्ठयोर्हास्यरेखा तादृशी भासते भयङ्करी यथा श्मशाने चन्द्रिका। धर्मपालस्य व्यनमतां नयने। स हि किञ्चिद्विलम्ब्य शिर: समुदतिष्ठिपत्प्रावदच्च- 'दिनेष्वेषु महानन्यायो राष्ट्रे। यदाऽहमवलोके तदाह्युत्कथतीव मे रक्तम्’।
वैदेशिको विप्रतिपद्य साभिनिवेकशमब्रवीत्-सिंहच्छागमेकस्मिन् घट्टे पय: पिबति।’
'अपैतु तदिदम्, सर्वमेतदहं जाने’।
'दोषदर्शनं सुकरम्, किञ्चित्कृत्वा प्रदर्शनं तु दुष्करं नूनम्!’
धर्मपाल: पावके प्रपतितं पत्त्रमिव प्रज्वल्य प्रावोचत्-'यद्यवसर: प्राप्येत तर्हि दर्शयेयं न्याय: कीदृशो भवतीति।’
'तर्हि भवानवसरं प्रतीक्षते?’
'आम्-प्रतीक्षे कामम्’।
'तदा तु न सम्भवेदन्याय:?’
'न भवेत्सर्वथा।’
'कश्चिदपराधी न निर्मुच्येत दण्डात्?’
कदापि न निर्मुच्येत।
वैदेशिक: सहजभावेनावोचत्-'तदिदं महत्कठिनम्’।
'ब्राह्मणस्य कृते न किञ्चित्कठिनम्। अहं न्यायस्य विजयडिण्डिममाहन्यां सर्वत: संसारे’।
वैदेशिकस्य मुखे प्राखेलन्मन्दस्मितं नेत्रयोश्च मधुरं ज्योति:। स हि साभिप्रायं विहस्य समगादीत्-'यद्यहमशोको भवेयं प्रपूरयेयं तर्हि भवत: कामम्।’
सहसैव समदृश्यत ब्राह्मणस्य हृदये सन्देहरेखैका, किन्तु परं परस्तादेव दूरेऽभूत्सा यथा प्रबलवात्यया वारिदखण्ड:।
(२)
द्वितीयदिने महाराजाशोकस्य राजसभायां समाहूयत धर्मपाल:। सम्वादेनानेन ग्रामेऽप्यखिले प्राज्वलज्ज्वलन इव। आसीदयं स समयो यस्मिन् सम्राजोऽशोकस्य शासनं प्रारेभे, प्रचक्रमे च दुर्दमा दमननीति:। समयेऽस्मिन्महाराज: प्रासिध्यत्तादृशो निष्ठुरो यद् ब्राह्मणान् स्त्रियश्चापि समारोपयच्छूलायाम्। तस्य हि निष्ठुरदृष्टित: समशुष्यन्प्रवीराणामपि प्राणा:। लोका: समवाबुध्यन्त यद्धर्मपालाय तदिदमाह्वानं मृत्यो: सन्देश:। आसीद् दृढो विश्वास: सर्वेषां न परावर्तेत गृहं जीवितो धर्मपाल:। स्वल्प एव काले धर्मपालस्याखिला अपि सम्बन्धिनो दु:खेन भयेन चाऽभ्यभूयन्त, प्रारुदंस्ते मुक्ताक्रन्दम्। लोका यथाशक्यमाश्वासनाय प्रायतन्त किन्तु नासीदीषदपि भयरेखा धर्मपालभाले।
अभ्यधादसौ-यदा नाहं किञ्चिदपि विप्रियमवाचरम्, न च कञ्चन राजनियममुदलङ्घयं तदा किमिति मां कश्चिद्दण्डयेत्? नि:संशयमिदम्-राजा एवमन्यायो निर्विचारश्च न शक्नोति भवितुं यन्निर्दोषान् स मुधैव शूलायामारोपयेत्। दु:खानां साध्वसानां च प्रबलतरङ्गेष्वपि तादृशमसौ निश्चलभावेन समवातिष्ठत यथा सामुद्र: पर्वत:। प्राबोधयत् धर्मपाल: पुत्रं पत्नीं चापि, तत: प्रातिष्ठत पाटलिपुत्रं प्रति।
समभवत्सन्ध्या यदा हि धर्मपाल: प्राप्रोत्पाटलिपुत्रम्। नासीदस्य किञ्चिदपि कस्यचित्साध्वसं यावदसौ राजहर्म्यमवाप्रोत्। राजहर्म्यत्वालोक्य प्रादुरासीत्सहसाऽस्य भयम्। राजसौधस्य श्री: कान्तिश्चापि समचारयत्साध्वसं हृदयेऽमुष्य। मनुष्यो हि स्वल्पसलिले समवस्थितो न जानाति भयम्। किन्तु यथा यथानुभवति गहनतां तथा तथाऽभिभूयते भयेन। प्रादुरभवंस्तस्य हृदये नानाविचारा:। कदाचिदचिन्तयत्- 'केनचित्पिशुनेन मे दोषस्तु मुधा न सूचित:। अहं हि स्वैरमुपजल्पामि निजनिवेशने यत्किञ्चिदपि, अप्येतस्य फलमुपभुञ्जीय साम्प्रतम्?’। कदाचिदभावयत्- 'स पारदैशिको न जाने कोऽभूत्। सम्भवोऽस्ति स भवेद् गुप्तचर:। भवेच्चायमग्रिस्तेनैव प्रयोजित:। तदा तु प्रोक्तं स्यात्तेन निखिलमपि। हन्त कीदृशीयं मूर्खताभूद् यदेकेनाऽपरिचितेन विश्रब्धमहमालपम्। हन्त भूयस्तरामनुतप्ये साम्प्रतम्।’
कदाचिदाध्यायत्- 'मम दारिद्र्यसङ्कथा कदाचिदेतत्पर्यन्तं प्राप्ता स्यात्। महाराज: किञ्चित्प्रदातुमेव मामाह्वयेदेतदपि तु सम्भवति।’ विचारेणानेन मुखकमलं तस्य प्राफुल्लत् परं समुपगच्छत्येव विचारान्तरे सुभृशमम्लासीत्तत्। एतावत्येव व्याजहार प्रतीहारी-'समागच्छति महाराजाधिराज:’।
अकम्पत सहसा धर्मपालस्य हृदयम्। प्रतिभासते स्म तस्य यत्प्राणा: प्रापुरोष्ठपर्यन्तम्। पृथिवीपते: प्रताप: कीदृशो भवतीति प्रतीतमभूदद्य प्रथमवारम्। दृष्टिर्द्वारि दुर्दुरूढाभूत्। महाराजोऽशोक: समागमत् सदानाभ्यन्तरे राजसम्भारेण। समवोचच्च स्मयमान:- 'विप्रचूडामणे! स्यामहं तु प्रत्यभिज्ञात एव भवता?’
धर्मपालो भयसम्भ्रमेण समभूदुत्थित:। प्राकम्पत तस्य रोमरोमापि समयेऽस्मिन्। अयमासीत्स एव पारदैशिक:!!
(३)
आम्, अयमासीत्स एव प्राघुणिक:। स्तब्ध इवातिष्ठद् धर्मपाल:। क इदमजानीत यच्छीतकालस्य भीतकारिण्यां रात्रौ दीनब्राह्मणस्य गृहे समाश्रयं ग्रहीतुं विनीतप्रार्थी पारदैशिको भारतस्यास्य सम्राड्भवितुमर्हति। धर्मपालस्त्वरितमेव हृदयमवष्टभ्य समभाषत मन्दमन्दम्-'नैतदासीन्मे विदितं यत्तत्रभवानेव महाराजाधिराज:, अन्यथा नाहमालपेय तादृक् स्वतन्त्रतया’।
सम्राडशोक:। प्रत्यवदत्- 'ओम्’।
'परं नाहमतिरञ्जितं किञ्चिदवादिषम्।’
'ओम्’।
'प्रमाणान्यपि शक्नोम्यहं दातुम्’।
महाराज: प्रत्यवादीत्- 'नैतदहं वाञ्छामि’।
'तर्हि मत्कृते को नियोग:?’
'वाञ्छाम्यहं भवत: परीक्षां कर्तुम्’।
धर्मपालस्य हृदि समुदैषीद्विचार: सहसा- अपि मद्विचिन्तितं तत् सत्यं भवेत्?
प्रत्यभाषत महाराज:- 'प्रोक्तमासीद्भवता यन्मह्यं चेदवसरो दीयेत तर्हि न्यायस्य डिण्डिममहमाहन्याम्। वाञ्छाम्यहमस्मिन्विषये तत्र भवत: परीक्षाम्। अपि सम्मतो भवान्?’
मराल इव धर्मपाल: पर्यचालयद् गलनालमूर्ध्वम्, समालपच्च- 'यदि महाराजाधि-राजस्य सेयमेवेच्छा तर्ह्येषोऽहं सन्नद्ध:’।
'श्व: प्रात:कालादेव भवान्नियतो न्यायमन्त्री। सम्पूर्णनगरोपरि भवेद्भवत: प्रभुत्वम्’।
'बाढम्’।
पाटलिपुत्रस्य रक्षाविभागीय: प्रत्येकमधिकारी भवेद्भवदधीन:। शान्तिरक्षायाश्चोत्तर-दायित्वमापतेत केवलं भवत्येव।’
'सम्यक्’
'यदि घटेत काचिद् घटना, संघटेत चेत्प्राणहत्या, जायेत चेज्जनताविद्रोहस्तर्हि भवेद्भवत एवोत्तरदायित्वम्।’
'सम्यक्’
'यदि भवेन्न्यायनिराकरणं सम्भवेदन्यायाश्रयणं तर्हि गृह्णीयां त्वत्त एवोत्तरम्’।
'सम्यक्’
अतिष्ठन्महाराजाधिराज: क्षणकालमवाक्। हस्ताच्चाङ्गुलीयकमामुञ्चन्नवोचत्- सेयं राजमुद्रा। त्वं श्व: प्रात:कालस्य प्रथमकिरणोद्गमेनैव साकं न्यायाधिकारी परिबुध्येथा:। द्रक्ष्याम्यहं केन प्रकारेण त्वमात्मानं सफलशासकं साधयितुं प्रचेष्टसे।
(४)
व्यत्यमान्मास:। न्यायाधिकारिणो न्यायस्य सुप्रबन्धस्य च प्राचरत् परित: प्रख्याति:। धर्मपालेन पुरस्यास्योपरि मोहनमन्त्र एव प्रयोजितो भवेदित्येव प्रतीतमभूत्। दस्यवश्चौराश्च तेन तथा वशे कृता यथा गारुडिकस्तुम्बीवाद्येन पन्नगान्। दिनेष्वेषु सेयमासीत्परिस्थितिर्य्यज्जना द्वारमप्युन्मुक्तमवमुच्य प्रायान्बहिर्गृहात्, किन्तु कस्यासीद्दर्पो यत्कस्यचित्कोऽपि हानिंकर्तुं शक्नुयात्। धर्मपालस्य न्यायो ह्यन्धश्च बधिरश्चासीत् यो न कस्यचिन्मूर्तिं प्रत्यैक्षत न च कस्यचिदनुरोधमश्रौषीत्। स हि केवलं दण्डप्रदानमाज्ञासीत्। दण्डोऽप्यसौ शिक्षाप्रद:। नगरस्य पूर्वपरिस्थित्यां समघटत नूनमाकाशपातालयोरिवान्तरम्।
आसीद् घोरनिशाया: समय:। पर्यखेलद्विहायसि तारकाराजि:। धनिक: कश्चिद्विशालस्यैकस्य भवनस्य खटखटायाञ्चकार द्वारमधुना उपरिगवाक्षान्मुखमभिनिष्क्रमय्य महिलैका पर्यपृच्छत्-''कोऽस्ति?”
''अहमस्मि, द्वारमुद्घाटये:”।
'किन्तु न गृहे गृहस्वामी सन्निहित:’।
''भवेत्तथा, त्वं तु द्वारमुद्घाटयेस्त्वरितम्”।
क्षणं विचिन्त्य प्रत्युक्तं महिलया-'नाहमुद्घाटयेयम्। प्रयातु भवान् यथागतम्’।
धनिक: क्रोधेन समवोचत्- ''द्वारमपावृणु, अन्यथा भिन्द्यामहम्”।
स्त्रिया प्रत्युक्तम्- 'न किं विजानासि, नगरे धर्मपालस्य राज्यम्। नाधुना कश्चिदेवं बलात्कारायाऽलम्’।
धनिक: खड्गमवकृष्य द्वारमाक्राम्यद्बलेन। सहसा यामिक: कश्चित्पार्श्वत: समुपेत्य धनिकस्य करमवाष्टभ्रात् अभ्यधाच्च- 'किमेतत्त्वं विचेष्टसे?’
धनिकस्तं प्रति तथा दृष्टमक्षिपद्यथा वृकश्छागं प्रति। अगर्जच्च क्रोधेन- 'कस्त्वम्?’
'अहमस्मि प्राहरिक:’।
'कस्त्वां न्ययमयत्?’
'न्यायाधिकारी’।
'मा मूर्खतां विधा:। तमप्यहं भूमिसात्कर्तुं प्रभु:’।
प्राहरिक: साहसेन प्रत्यवोचत्-'परं त्वस्मिन्समये स्वयमशोकोऽपि सम्राट् समुपेवात्तदापि नाहं प्रतिगच्छेयम्।’
'किमिति मुधा मृत्युमाह्वयसि’?
यो मया प्रणो विहितस्तमहं निर्वहेयमाप्राणपातम्।
'कस्मात्प्रणो विहित:?’
'न्यायमन्त्रिण:’।
'कीदृश:?’
'अयमेव यद् यावन्मे वपुषि प्राणा: सन्ति, यावच्च रुधिरस्यान्तिमोऽपि बिन्दु: संधुक्षेत मे वक्षो न तावत्पश्चात्पदो भवेयं कर्तव्यात्’।
धनिक: खड्गमाकृक्षत्। प्राहरिक: पश्चादवसृत्य प्रावोचत्- 'प्रमादमाचरति भवान् साम्प्रतम्। अहमस्मि सम्प्रति सेवापदमारूढ:।’
परं धनिक: सर्वमिदमुपेक्षमाण: कौक्षेयकेणाक्राम्यत्तदुपरि। यामिकोऽपि करवालमवकोशयामास। पमासीत्स साम्प्रतं नवीन:। एकस्मिन्नाक्रमण एव स पर्यपप्तत् प्रागमच्च पञ्चत्वम्। रुधिरमशुष्यद्धनिकस्य, जडीभावमगच्छतां तत्करौ। नासीत्तस्येच्छा यत्प्राणेभ्यो वियोजयेयं प्राहरिकम्। स हि केवलं भीषयितुमवाञ्छद् यामिकम्, परं मण्डलाग्रो मर्मणि न्यपप्तत्। धनिकस्तस्य शवमक्षिपन्निभृतस्थाने स्वयं च पलायाञ्चक्रे त्वरिपदम्।
(५)
प्रातरेव प्रासरत्परितो नगरमेतस्या घटनायाश्चर्चा। लोका व्यस्मयन्त नितान्तं यत्कस्येदमभूत्साहसं यद्रक्षाविभागस्य रक्षापुरुषमेवं निहन्यात्, तदपि धर्मपालस्यास्य शासने? प्रासरद्राजधान्यामातङ्क: सर्वत:। रक्षाविभागीया: पुरुषा: पर्यधावन्परित: परिशोधनायैतस्य, यथा हीदमेतेषां जीवनमरणयोर्व्यसितं भवेत्। न्यायाधिकारी स्वयमपि घटनाया एतस्या: परिशोधे दिनं रात्रिं चैकीचकार। घटना सेयमासीच्छासनकाले तस्य सर्वत: प्रथमा। स हि पानं भोजनं च सर्वं व्यस्मरत्, निद्रा नेत्राभ्यां निरगच्छत्। घातकस्यान्वेषणे न तेन काचिद्व्यधीयत न्यूनता, परं नाऽलभ्यत तस्यानुसंधानम्।
असफलताया: प्रत्येकं दिनमशोकस्य क्रोधाग्रे: समिन्धनाय समभवत्। समलपत्सक्रोधमसौ- 'त्वं कियताऽऽग्रहेण न्यायस्य विकत्थनमकार्षी:, किमिदानीं समभवत्?’ न्यायमन्त्री नमयामास मौलिं लज्जया। महाराज: प्रावदत्- 'घातक: कियत्पर्यन्तं निगृह्येद?’ न्यायाधिकारी प्रत्यभाषत- 'प्रकामं यत्नमातिष्ठामि, शीघ्रमेव नियन्त्रयेयमेनम्’। कतिचिद्दिनानि विश्रम्य पुन: पर्यप्राक्षीन्महाराज:- 'अपि गृहीतो हत्याकारी भवता?’ न्यायमन्त्री प्रत्यवादीत्- 'नैव’। महाराजस्य कोपाब्धिर्वेलामुल्लङ्घयितुं प्रासरत्। नेत्राभ्यां तस्य कोपाग्रेर्विस्फुलिङ्गा: प्रासर्पन्परित:। जीमूत इव गर्जन्नमर्षेण प्रजल्पति स्म महाराज:- 'अहमिदं नैव इति प्रत्युत्तरं शृण्वन् शृण्वन् विकलीभूतोऽस्म्’।
एवमेव व्यत्यगादेक: सप्ताह:। परं न प्राप्यत घातुकस्यानुसन्धानम्। अन्ते महाराजो धर्मपालमाहूयाऽवादीत्-'दीयते तुभ्यं त्रीणि दिनान्यवधि:। एतस्मिन्नन्तराले यदि न गृह्येतत घातुकस्तर्हि दीयेत तुभ्यं शूलारोपदण्ड:’। संवादेनानेन प्रासरन्निखिलेऽपि नगरे विचित्रैका व्याकुलता। एकेनैव मासेन धर्मपालोऽयं प्राभवत्प्रकामं प्रजाप्रिय:। तस्य न्यायस्य प्राचरच्चतसृष्वपि दिक्षु नितान्तं गौरवम्। घटनयाऽनया महाराजमक्रोशल्ँलोका:। यत्रैव चत्वारो मानवा: समवायन् तत्रैव घटनामिमां समालोचयन्नाक्रोशेन। लोका: सुदृढं निरचैषु: 'कामं किमपि भवेत्परं धर्मपालस्याणुमात्रमप्यनिष्टं न सम्भवेदस्मासु जीवितेषु’। धर्मपाल: स्वयमपि प्राणपणेन धातुकान्वेषणे निलीनोऽभूत्परं सर्वं विफलम्। अस्मिन्नेव वैकल्ये वैफल्ये च समागादवधेस्तृतीयमपि दिनम्। अवशिष्टा आसन् केवलं कतिपया घण्टा:!!
आसीद्रात्रे: समय:। किन्तु धर्मपालस्य नेत्रयोर्निद्रा कास्ति? स हि नगरस्य निबिडतमे प्रान्ते परित: परिबभ्राम। सहसा भवनस्यैकस्य वातायनमभूदुन्मुक्तम्, महिला चैका समपश्यद्वदनं बहिर्निस्सार्य। आसीत्परितोऽपि निस्तब्धता व्याप्ता। नारी सेयं निभृतमवोचत्- 'कोऽसि त्वम्, अपि प्राहरिक:?’
निराशाया निबिडेऽन्धकारे आशाया द्युतिरपि प्रकाशायिताऽभवत्। धर्मपाल: प्रत्यवदत्- 'अहमस्मि न्यायाधिकारी!’
'क्षणमत्रैव तिष्ठे:’
वनिता वातायनादपासरत्। दीपं गृह्णती च द्वारे समुपागात्। न्यायमन्त्रिणं सह नीत्वा सा निजनिवासनिकेतनं प्राविक्षत् प्रावदच्च- 'अद्याऽन्तिमा रजनी?’
न्यायमन्त्री मर्मभेदिन्या दृशा योषां पश्यन्नवादीत्- 'आम्, अन्तिमा!’
आसन् शब्दा: साधारणा: किन्त्वर्थोऽमीषां नासीत्साधारण:। महिला व्याकुला भूत्वा समभूदुत्थिता प्रत्यवादीच्च- 'अहमिमां घटनां तत्त्वत: परिजानामि’।
धर्मपालस्य मृतप्राये काये प्रत्यागमनप्राणा: धैर्यमाबध्य निरगादीदसौ- 'ब्रूहि’।
वामाऽवोचत्- 'रात्रेरासीत्समय:। घातको गृहस्यास्य द्वारं खटखटायामास। स हि समायाति प्रायो रोहेऽस्मिन्।’
'किन्तु किमर्थम्?’
'नेदमहं जानामि।’
'भवेत्, अग्रे ब्रूहि!’
''मया प्रत्युक्तम्- 'यस्य समीपे त्वमुपागा: नासौ साम्प्रतं गेहे। किन्तु नायं मे कथनं सत्यमबुद्ध। स हि द्वारं भङ्क्तुमुद्यतोऽभूत्। प्राहरिकस्तत्कार्ये प्रतिबन्धकोऽभूत्, अत एव निहतोऽभवत्।”
'किन्तु घातकोऽसौ कोऽस्ति?’
युवती तस्य कर्णे किमप्यवोचत्, किन्तु भीताकपोतीव परितो दीनां दृष्टिमक्षिपत्।
(६)
द्वितीयस्मिन्दिने महाराजाशोकस्य राजसभा समभासीज्जनसंघै: सङ्कुला नासीत्तिलार्थमपि तनीयानवकाश:। अद्य हि भावी भाग्यनिर्णयो न्यायाधिकारिण:। अशोक: सिंहासेन चरणमास्थापयन्नेव प्रावोचत्- 'न्यायमन्त्री!’
धर्मपाल: समागमत्सम्मुखे। नासीत्तस्य वदने चिन्ता वा किञ्चिदशान्तिर्वा प्रतिफलिता।
महाराज: पप्रच्छ- 'घातुकस्य लब्धमनुसन्धानम्?’
न्यायाधिकारी मौलिमानमय्य किञ्चिदचिन्तयत्। समयेऽस्मिन् तस्य हृदये द्वयोर्विरोधिन्यो: शक्त्यो: समाबध्यत संग्राम:। सोऽयं च भावस्तस्य मुखे सुस्पष्टं प्रत्यफलत्। सहसा सोऽयं सुदृढसङ्कल्पेन शिर: समुदतिष्ठिपत्, स्वाधिकृतमेकमुच्चाधिकारिणं च लक्ष्यीकृत्य समजल्पत्- 'रणवीर!’
'श्रीमन्!’
'पाशैर्बधान्, अहमाज्ञापयामि।’
राजसभायां भयस्य निस्तब्धतायाश्च समाक्राम्यत्सर्वत: साम्राज्यम्, यतो ह्यासीदिङ्गितं महाराजाधिराजं प्रति!
महाराजाऽशोकस्य मुखमासीदत्यधिकं ताम्रम्, मन्ये तद् भवेत् तापितं ताम्रम्। नेत्राभ्यां प्रासरन् सर्वताग्रिकरणा:। कोपेन कम्पमानो महाराजाधिराज: सहसा समुदतिष्ठत् प्रावदच्च- 'रे ब्राह्मण! तवैतावत्साहसम्?’
न्यायाधिकारी तथा प्रकटयामास यथा न तेन किञ्चित्कर्णेऽपि कृतम्। स हि पुन: स्वीयान् शब्दानाम्रेडयामास- 'अहमाज्ञापयामि, निबधान पाशै:!’ रणवीर: काष्ठपुत्तलिकेव प्रासरत्सम्मुखे। सभास्थितानां न्यरुष्यत निश्वासवायु:। महाराजाधिराज: सिंहासनान्नीचैरवातरत्। न्यायाधिकारी सक्रोधमाज्ञापयत्- 'अयं घातुक:, प्रवेशय तमेनं समाधिकरणे।’
रणवीरो न्यगडयदशोकं हस्तशृङ्खलाभ्याम्, समाकर्षच्च धर्मपालस्य न्यायाधिकरणं प्रति। तत्र ह्यासीत्समग्रमपि नगरं समुपस्थितम्। धर्मपालो निर्भीकमाज्ञापयत्- 'अपराधी राजकुलज:, अत एवायमेकाकी समानीयतामधिकरणम्।’
महाराजाधिराजो नेत्राभ्यामकरोदिङ्गितम्। सचिवगणा दूरमपासरन्। महाराजस्तस्मिन् काष्ठवाटके प्राविशद् यो ह्यासीन्नियतोऽभियुक्तानां कृते। छत्रपतेर्महाराजाधिराजस्य, स्वकीये तस्य साम्राज्ये, स्वयं तस्य भृत्यस्यैव हस्तेन, अयं सम्मानो भवितुमर्हतीति नासीत्कस्यचित्स्वप्रेऽपि सम्भावना। परं धर्मपाल: सुदृढसङ्कल्पेन समध्यासिष्ट न्यायसिंहासनम्। स हि प्राणमन्नेत्राभ्यां महाराजाधिराजम्। हस्तावास्तां न्यायरज्ज्वा दृढनिगडितौ। स हि मन्दस्वरमवोचन्महाराजम्-'भवदुपरि प्राहरिकहत्याया भीषणोऽभियोग:, किमेतस्योत्तरं दिशसि?’
महाराजोऽशोको निजाधरं दशन्प्रत्यवदत्-'आसीत्स उद्दण्ड:।’
'तर्हि त्वमपराधमङ्गीकरोषि?’
'आम्, मया स निहत:, किन्तु न ज्ञानपूर्वकम्।’
'नासीत्स उद्दण्ड:, चिरकालादहं परिचिनोमि।’
'स आसीदुद्दण्ड:’।
'त्वं मृषा भाषसे। अहं ते प्राणदण्डस्याज्ञां ददामि।’
अशोकस्य नयने माञ्जिष्ठे अभूताम्। सचिवा: करवालमाकर्षन्। बहवो जनो दुर्वाच्यैरक्रोशन्धर्मपालम्। बहवस्त्वेतावदवादिषु:- 'हन्त वराको न्यायाधिकारी वाताध्मातोऽभूत्।’ एकत: शब्द: समागच्छत्- 'त्वं निजस्य शिर: पूर्वं रक्ष!’ परितोऽप्यभूद्राजसभा संक्षुब्धा। कोलाहलैरपूर्यत सभाभवनम्। अशोक: करमुत्थाप्य नि:शब्दमवस्थातुमकरोदिङ्गितम्। चतुर्दिक्षु पुन: सैव निस्तब्धता व्याप्रोत्। न्यायाधिकारिणा सोत्तेजनमुक्तमुच्चस्वरे- 'भवतां क्रोधप्रकटनं सर्वथाऽप्यनुचितम्। अहमस्मि साम्प्रतं न्यायाधिकारिणो धर्मासनमधिष्ठित:। न्यायं च कर्तुमधिकरणे समासीन:। महाराजाधिराजस्याशोकस्य शासनमुद्रा मे हस्ते। यदि कश्चिदिदानीं विघ्रमाचरेत्तर्हि तमहं न्यायाधिकरणस्यापमानाऽपराधे निगडमेयम्।’
'अशोक! त्वया राजकर्मचारिणो वधोऽनुष्ठित:, अत एवाहं ते वधस्याज्ञां ददामि।’
महाराजो मौलिमवानमयत्। समयेऽस्मिन्नस्य हृदि ब्रह्मानन्दसागर:, समुद्वेलितोऽभूत्। व्यचारयदयं हृदि ''मनुष्योऽयं काञ्चनम्, यद्धि पावके निपत्य समसिध्यद्विशुद्धतमम्। अकथयदयं 'मम न्यायो जगति डिण्डिममाहन्यात्।’ नेदं वचनमस्य मिथ्या। निरूढाऽनेनात्मनो वचनस्य मर्यादा। एवंविधा एव ते मनुष्या भवन्ति येषामुपरि समाजस्याभिमानो भवतियेषां कृते समाजो निजस्य तनु-मनो-धनानि न किञ्चित्परिगणयति।” महाराजो विचित्रेण भावेन निजशिर: समुदतोलयत्प्रावदच्च- 'नाहमेतस्या आज्ञाया विरुद्धं किञ्चिदपि शक्नोमि वक्तुम्।’
न्यायाधिकारी समाज्ञापयदेकमधिकृतम्। स हि स्वर्णमूर्तिमेकामादाय समुपातिष्ठत्। न्यायाधिकारी समुत्थायऽभ्यभाषत- 'महाभागा:’। सत्यमिदं यदहमस्मि न्यायाधिकारी। तच्चेदमपि सत्यं यन्मे कर्तव्यं न्यायनिर्णय:। इदमपि च वज्रसत्यं यदेकस्य राजकर्मचारिणो हत्या निर्दयवृत्त्या समपद्यत। एतस्या: कृते पापकृते दण्डोऽप्यवश्यम्भावी। परं त्वस्मत्सभ्यतायां राजा ईश्वरस्य विभूति:। ईश्वर एव तस्य दण्डदाने समर्थ:। कर्तव्यमिदं न्यायाधिकारिण: शक्तेर्बहिर्भूतम्। अत एवाहमाज्ञापयामि- प्रबोधनं कृत्वा महाराजस्याऽव्याहति: कर्तव्या। तत्प्रतिमूर्तिश्चेयं शूलायामारोपयितव्या, येन लोकै: प्राप्येत समुचिता शिक्षा।
समघोष्यत परितो न्यायमन्त्रिणो जयजयकार:। लोका: समभवन्मुग्धा न्यायनिर्णयस्यास्योपरि। सोच्चैर्घोषमवदंस्ते- 'अयं न मनुष्य:, साक्षाद्देवता। यो न कस्माच्चिद्बिभेति, न च कस्याश्चिच्छक्ते: सम्मुखे नमयितुमिच्छत्यात्मनो मस्तकम्। शृणोत्यऽसौ निजान्त:करणस्य निगूढमाभाषितम्। अत एव निर्भयं तस्योपर्येवात्मनो गन्तव्यपथमयमन्विष्यति निर्भरम्। अन्यश्चेदिदानीमभविष्यत्तर्हि महाराजस्य सम्मुखे विनतमस्तकमस्थास्यत्। परमयं निर्भीकतया तमेनं 'त्वम्’ इति समबोधयत् यथा सर्वसाधारणेऽभियुक्त: स्यात्।’ समभवत्सकलानामपि जनानां रोमाञ्चितं वपु:। सहस्रसहस्रैर्नेत्रैरानन्दजं वाष्पमासीत्प्रवाहितम्। सहस्रसहस्रैर्जिह्वाभिर्घोररवमाघोषितम्- 'न्यायाधिकारिणो जय:, न्यायाधिकारिणो विजय:’।
रजनी समभवत्समुपस्थिता। न्यायाधिकारी राजहर्म्यमाविशत्। सम्मुखे चाऽशोकस्य अङ्गुलीयकं मुद्रां च विन्यस्य समभाषत- 'महाराज! स्वीक्रियतामिदं स्वीयं वस्तु। साम्प्रतमहं निजग्रामं परावर्तिताहे’।
अशोक: सम्मानसम्भृतया दृशा विनिरीक्ष्य तमेनमभाषत- 'अद्योन्मीलिते मे लोचने तत्रभवता। इत: परं कथमिदं सम्भवति?’
'परन्तु श्रीमन्!...........’
अशोको वाक्यं विच्छिद्यैव प्रावोचत्-भवत: साहसं धैर्यं च न कदाचिद्विस्मर्तास्मि। तामिमां न्यायधुरां समर्थो भवानेव वोढुम्। मद्दृष्टौ न दृश्यते द्वितीयो जन: पदस्यास्य समुचित:।’
निरुत्तरं न्यषीदन्न्यायमन्त्री।
द्वे स्पर्द्धे
(प्रथमा स्पर्धा">)
विजयपुरविद्यालये छात्राणां व्यायामस्पर्द्धामहोत्सवस्य (टूर्नामेण्ट) महान् समारोह:। सम्पूर्णमपि नगरं शोभया सुसज्जितमभूत्। वाष्पयानविश्रमस्थलमारभ्य विद्यालयपर्यन्तं सरणेरुभयपार्श्वे नानावर्णा ध्वजा: समारोप्यन्त। कार्यव्यग्राणि मरुत्तर (मोटर) शक्टान्यधावन्नितस्तत:। स्पर्द्धाकौतुकेऽस्मिन् पारितोषिकवितरणाय प्रान्तीय: प्रधानशासक: (कमिश्रर:) स्वयमागमिष्यति। अत एव नगरस्य सर्वेऽपि शासनाधिकारिण: सामन्ताश्चासन् व्यग्रा:। अद्य विद्यालयस्य विस्तृते प्राङ्गणे दर्शकानामासीन्महासमारोह:। नागरसज्जासमिते: (म्यूनीसिपलिटी) सदस्या:, मन्त्री, कार्याध्यक्षश्च सर्वेऽप्यासन्नुपस्थिता:। दर्शकेषु महमहतां व्यापारिणां धनकुवेराणां चापि नासीदभाव:। पाठशालाध्यक्ष: समागतसज्जनानां स्वागते समभूदेकान्ततो व्यस्त:। इतश्छात्राणामासीदन्यविध एवोल्लास:। यद्यपि छात्रा: प्रान्तमात्रस्य विद्यालयेभ्य: समभूवन्सम्मिलिता:, परं प्रधानस्पर्द्धा द्वयोरेव विद्यालययोरासीन्नियमिता जयदुर्गस्य विजयपुरस्य च। विजयलक्ष्मीरपि द्वयोरेवाऽनयोर्विद्यालयं प्रत्यलम्बत तर्हि कदाचिज्जयदुर्गं प्रत्यानुकूल्यमदर्शयत्। सर्वेषामेव छात्राणामासन् हृदयान्याकम्पितानि। सर्वेषामेव चान्त:करणान्यासन्नुत्सुकानि- 'दृश्यतां द्वयोर्मध्ये विजयस्रक्कस्य कण्ठगता भवति’।
प्रथमदिने शतगज्जधावनस्पर्द्धाऽऽसीत्। जयदुर्गस्य विद्यार्थी विजयपुरविद्यार्थिनं पराजेष्ट। परं द्वितीयदिने विजयपुरस्यैकश्छात्र: स्वीयविद्याक्षयस्य मानसम्भ्रममरक्षत्। एवं द्वयोरेव नागरविद्यालययोरासन् योग्यताङ्का: सम्प्रतिपर्यन्तं समाना एव। केवलमवशिष्टासीदर्द्धकोशस्य धावनस्पर्द्धा। विजयमाल्यं तस्यैव कण्ठगतं भवेद्योऽस्यां स्पर्द्धायां विजयी स्यात्। जयदुर्गाद्यो विद्यार्थी धावनाय समनह्यत तस्य वयो विंशतिवर्षात्मकम्। पलायने पर: पवन एव। विजयपुरपक्षादेक: सप्तदशवर्षवयस्को बालक: समुदतिष्टत्, नामासीज्जगदान्देति। शरीरे सोऽयं दुर्बलप्राय:, परं मुखे कान्तिशाली चक्षुषोस्तेजस्वी। अध्यापकस्तस्य पृष्ठमास्फाल्य सोत्साहमकथयत्- 'साम्प्रतं तवैव भरवश:’। परं स बालको नेत्रपर्यन्तमपि नोत्थापयामास। अध्यापक: किमकथयत्, किं वा तस्य वक्तव्यमेतस्योपरि नासीत्तस्यावधानम्। अधुनाऽव्यापकस्तस्य सहपाठिनमेकमाहूयाऽकथयत्- 'जगदानन्दो रुष्ट इवालोक्यते। बोध्यतामसौ, यदि प्रसन्नेन चेतसाऽसौ धावेत्तर्हि विजयस्य निश्चिता ममाऽऽशा। अन्यथा तु पराजय: सम्मुखस्य एव।’
छात्रोऽसौ धावमान: समसरज्जगदानन्दस्य समीपे, सोत्तेजनमवादीच्च- 'एवमुदासीनतया किं सिध्येत्? सन्नह्यतामुत्साहेन’। जगाद जगदानन्द:- 'ममैव पृष्ठे किमितयारोहथ। काञ्चनं किमिति न कथयथ। स एवाध्यापकमहाभागस्य नासाकेश: साम्प्रतम्। स एव सर्वोपरि विद्यालये।’ विद्यार्थी प्रत्युवाच-विद्यालयस्य चिरायाऽपकीर्तिभवेत्। किन्तु जगदानन्दो न मुखमुद्घाटयामास। छात्रो बहुतरमबोधयत्परं न पदमप्यग्रे दधार जगदानन्द:। एतावति समये जयदुर्गस्य विद्यार्थी भुवनमोहनो धावनाय बहिरभूत्। स हि जगदानन्दं सम्मुखे विलोक्य प्रावोचत्- 'अहह! भवान् सन्नद्ध: स्पर्द्धायै?’ पुनर्निजसहपाठिनं मध्यस्थीकृत्य सव्यङ्ग्यमजल्पत्-'उत्तमानां सहवासो भाग्यलभ्य:’। जगदानन्दस्य चक्षुषी चमत्कृते अभूताम्। हृदि जज्वालाभिमान:। स हि सहचरमवोचत्- 'न सम्प्रति चिन्तये:। एषोऽहं धावनाय संनद्ध:।’
प्रारभ्यत स्पर्द्धाधावनम्। प्रथमचक्रे जगदानन्दो भुवनमोहनश्च सहैवाधावताम्, न कोऽप्यग्रे प्रासरत्। परमेतावता वेगेनाऽधावतां यथा सेयं शतगजधावनस्पर्द्धा भवेत्। अन्ये सर्वेऽपि धावमाना भूयस्तरां पृष्ठगा अभूवन्, न कोऽपि शशाक सहगामी भवितुम्। द्वितीये चक्रे जगदानन्द: समभूदग्रगामी, किन्तु भुवनमोहनोऽप्यासीत्पदद्वयपृष्ठग एव। इदानीं तृतीयं चक्रमासीदन्तिमम्। जगदानन्द: प्रथमं पञ्चाशत्पदान्यभूदग्रगामी परं तस्य शक्तिरक्षीयत शनै:, चक्षुषोस्तस्य तिमिरमिव व्याप्नोत्। भुवनमोहन: सरभसं प्रसृत्य समभूदग्रसर:। जगदानन्दस्तेन सहाग्रे वर्द्धितुम कार्षीद्यत्नम्, परं तस्य पादाभ्यामदीयतोत्तरम्। जयदुर्गस्य छात्रा: 'जयदुर्गम्’ जयदुर्गम्’ इति उच्चैर्नेदु:। प्रोत्साहितो भुवनमोहनो भृशमग्रे प्रासरत्। किन्तु साम्प्रतमपि गजानां शतद्वयमासील्लङ्घनीयम्। सहसा जगदानन्दो निजमस्तकमुदतिष्ठिपत्। अष्टसहस्रमक्षीणि युगपदपतंस्तस्योपरि। प्रारभताऽसौ त्वरितपलायनम्। निमेषमात्रेऽसौ समभूत्समीपगामी भुवनमोहनस्य। विजयपुरस्य छात्रा: प्रोन्नेदुरुच्चै:- 'विजयपुरम्, विजयपुर’मिति। जगदानन्दस्तेनैव त्वरितवेगेनाभूदग्रगामी। लोचने तस्य समभूतां लोहिते। स हि भुवनमोहनं बहुपश्चात्परित्यज्य समापयामास विजयधावनम्। छात्रा जयध्वनिमकुर्वन् दर्शकाश्च करतलध्वनिम्। मार्मिका: प्राशंसन्- 'बालकस्य नेदं पलायनम्, अपि तु स्पष्टमुड्डयनम्’।
अहो छात्रजीवनं कियन्मधुरम्। समयेऽस्मिन्नस्माकं मनोवृत्तिरेवाऽन्यादृशी भवति। येषामेकमात्रं लक्ष्यमुदरपूर्तिर्धनसञ्चय: कीर्तिलिप्सा वा तेषु स उत्साह: सा स्फूर्ति: शक्तिश्च सा किं सम्भवेत्?
(द्वितीया स्पर्द्धा)
बहव: किल छात्रजीवने विश्वविद्यालयानां परीक्षा: समुत्तीर्य सर्वेषां मानमुत्कर्षं च लभन्ते। परं जीवनयात्रानिकषे कषितास्तेषां कियन्त: सन्त: सिध्यन्ति? जीवनयात्रास्पर्द्धायां जगदानन्दस्य कियन्त एव सहपाठिनस्तदपेक्षयाऽग्रामिनोऽभूवन्, किन्तु न कोऽपि तस्य वार्तामप्यपृच्छत्, का कथा साहाय्यस्य? जीवननिर्वाहस्य चिन्तायां जगदानन्दो ग्रामं ग्राममाहिण्डत। ऋणभार एतावानवर्द्धत यत्तस्य गृहपर्यन्तमपि विक्रीतमभूत्। आसीत्तस्यैका माता लघीयांश्चैक: सहोदर:। तदनुरोधेन जगदानन्द: स्वीयमधमर्ण मोहमलं भूयस्तरामबोधयत्, दीनतया अनुनयविनयावप्यदर्शयतपरं मोहमलो नैकमपि कर्णेऽकार्षीत्। सर्वस्वं हुत्वा यथाकथञ्चिन्मुक्तोऽसौ यामान्तरमाश्रयितुं विवशोऽभूत्।
एकदा दूरवर्तिग्रामान्तरान्निजनिवासग्राममासीत्परावर्तमानो जगदानन्द:। अभूत्सन्ध्या, प्रासरत्परितस्तिमिरम्। घोटकमारूढ: स आसीच्छनै: शनैर्मार्गमुल्लङ्घयन्। रात्रावतिभयानकं जीर्णारण्यमेकमासीदुल्लङ्घनाय। तस्मिन्नासीद्वृकाणां महद् भयम्। तमसि प्रसृते न कोप्यरण्यमेतदुल्लङ्घयितुमदर्शयत्साहसम्। किन्तु जगदानन्दो निजचिन्ताचकेनितरां निमग्नो निरवधानमासीदतिक्रामन्मार्गम्। किञ्चिद्दरमतिक्रामत्येव पृष्ठत: कश्चिच्छब्दायञ्चक्रे- 'तिष्ठ तिष्ठ’। जगदानन्दास्तुरगमवारुधत् पृष्ठत: परावृत्त्य प्रेक्षाञ्चक्रे च यदेको वृद्ध: प्राणानपि पणीकृत्य पलायमान: प्रवर्द्धते तस्याभिमुखमेव। यदा च पार्श्ववर्ती प्रबभूव तदा परिचिकाय जगदानन्द:- स आसीन्मोहमल:। जगदानन्दो जिज्ञासाञ्चक्रे- 'किमस्ति?’ दैन्यभयगद्गदोऽयमगादीद्वृद्ध: 'प्राणान्मे रक्षत, वृका मे पृष्ठलग्रा: सन्ति। घोटके समारोप्य नयत माम्’।
क्षणाय समुदियाय मानसे जगदानन्दस्य - यत्तुरगं त्वरितमभिप्रधाव्य पलायेय सोऽहम्। दुष्टश्चायमत्रैव निजकृतपाप्मनां भुञ्जीत फलम्। परं हृदयाभ्यन्तरत: प्रतिषिषेध कोऽपि तदिदम्। जगदानन्दस्तमपि वाजिनि समारोपयामास प्रधावयामास च त्वरिततमं तुरगम्। परमासीत्सैन्धव: श्रान्त:, स हि द्वौ पुरुषौ पृष्ठे समारोप्य त्वरिततरं धावितुं नासीत्प्रभु:। इतो विचारणे विलम्बस्य नासीदवकाश:। जगदानन्दो निमेषमात्रे निश्चिकाय निजकर्तव्यम्। वृका वेगेन वर्द्धमाना आसन्। जगदानन्दस्त्वरितं तुरगाद्वातरत्। न्यूनीभूतभारतस्तुरगो मोहमलमात्रं वहन् क्षणादेव नेत्राभ्यां तिरोदधौ। वृका अपि समीपमुपासर्पन्। सम्प्रति जगदानन्दो धावनस्य विचारमानिनाय मानसे। स हि छात्रजीवनस्य सस्मार पुरातनीं धावनस्पर्धाम्। पुरातनं पलायनमासीत्परस्परस्पर्द्धायै, इदं च प्राणारक्षायै। जगदानन्दो धौतेन निबिडमबध्रात्परिकरम् प्रादाच्च वृकेभ्य: समानसूत्रे समागन्तुमवसरम्। स हि हसित्वा प्रावदत्- इदं मे जीवनस्यान्तिमं धावनम्। किन्त्वस्मिन् धावने न भवद्भय: कञ्चिदपि लाभमहं वाञ्छामि। पश्याम: कोऽद्य धावने विजयी भवेत्! गर्जन्तो वृकास्तावता निकटतरमुपासर्पन्।
इदानीं जगदानन्द: प्रारेभे पलायनम्। त्रीणि क्रोशार्द्धानि प्रवृत्तम्विरतं तदिदं पलायनम्। न कोऽपि जयध्वनिमकरोत् न चापि कोऽप्यकरोत्करतलध्वनिम्। केवलं मूका प्रकृतिस्तदिदं धावनं चकिततरमलोकयत्। जगदानन्दो विसस्मार सर्वम्। तस्य कृते समभूद्दृश्या वसुन्धरा। धावन्नेष केवलं प्रवृद्धोऽभूत्स कान्तारपथे।
द्वितीयस्मिन्दिने भगवत्पुरस्य कृषीवल एक: प्रेक्षाञ्चक्रे प्रत्यूषे-यद् गृहस्य सम्मुख एव जगदानन्दस्य मृतं शरीरमापतितमस्ति। नास्ति शरीरे क्षतादिचिह्नं किञ्चिदपि, किन्तु मुखे हास्यरेखा साम्प्रतमप्यवभासते। अपि तदिदं विजयहास्यम्!!
जरीयान् ज्यौतिषी
भारतेऽस्मिन यथा ज्योतिषशास्त्रस्य प्रचुर: प्रचार: तस्मिन्नपरिमिता यथा जनानां श्रद्धा, सर्वाणि कार्याणि शुभमुहूर्त एव सम्पादयितुं यथा- ग्रहस्तथा एशियाप्रान्तीये-ष्वन्यान्यदेशेष्वपि तस्य शास्त्रस्य भूयानादर:। निदर्शनाय गृह्यतामयं 'पारस्य’देश एव। अत्रापि (ज्योतिषी, ज्योतिषम्।) 'नजूमी नजूमं’ च सर्वेषामादरभूमि:। अनयो राजसभायामपि प्रचुर: सम्मान:। पारस्यदेशस्य 'शाह अब्बास’ प्रकामं प्रसिद्धो नरेश:। ''शा-बाश” इति परितोषे समादरोक्ति: तस्यैव नाम्रोऽपभ्रंश:, यो हि मोगलशासकानां भाषाप्रचारपाटवं सूचयन् समुचितकार्यकारिणे लोकभाषायां साम्प्रतमपि प्रयुज्यते। शाहअब्बासस्य तज्ज्यौतिषिक य चैकाऽऽख्यायिका प्रसिद्धा तावदितिहासे-
अब्बास: स्वराजहर्म्यस्य पृष्ठदेशे विहारवाटिकामेकामारोपयितुमैच्छत्। उपवनाध्यक्ष-माहूय स तत्प्रबन्धार्थमाज्ञापयत्। राजमालाकारो निष्कुटार्थं भूमिं परिशोध्य निरचैषीदेकस्मिन्दिवसे यथास्थानमारोपयितुं महीरुहान्। तावता शाहअब्बासाय कश्चिदसूचयद् यद् वृक्षारोपणस्य शुभो मुहूर्तश्चेदशोधयिष्यत समुचितमभविष्यत्। अनुमुमुदे तदिदमब्बासोऽपि। आहूयत राजज्यौतिषी। स हि निजपुस्तकैर्गणितं कृत्वा निरणैषीद् यत् एकहोरामध्य एव चेदुपवनमारोप्यत तर्हि तत्प्रचुरं शुभोदर्कं स्यात्। एतन्मुहूर्तोल्लङ्घने भृयांसं समयं यावदन्यो मुहूर्तो नावलोक्यते। अद्यतने मुहूर्ते समारोपिता वृक्षास्त्वरितं प्रवृद्धा: शीघ्रमेव च पुष्पिता: फलिता: स्युर्न जातुचिदप्यनिष्टस्य सम्भावना। अस्मिन्नेव शुभमुहूर्ते समारोपयितुमेषीद् वृक्षानब्वास:, किन्तु नासीदस्मिन् समये समुपस्थितो राजमालिक:। किन्तु मुहूर्तोल्लङ्घनभयेन सम्राडब्वास: परिवारकाणामन्येषां साहाय्येन स्वयमारोपयत्स्वहस्तेन सर्वान्वृक्षान्, ये हि समारोपणार्थमासन्निचिता राजमालाकारेण। यथामुहूर्तं मध्याह्नस्यैकवादनपर्यन्तं परिसमाप्यत समारोपणविधि:।
राजमालाकारो यदा निरैक्षत सायं वृक्षवाटिकां तदा सर्वानेव वृक्षान्विक्रमविरोपितानवापत् यस्मिंश्चत्वरे चम्पा चयनीयां तत्र पाटलापटलमलोकयत्, यत्र नागरङ्गा निधेयास्तत्र रम्भास्तम्भानैक्षत। यत्र सेव्या:१(१. सेब।) समारोप्यास्तत्राक्षोटानैक्षत। एवमेव सर्वत्र कुकविकाव्य इव क्रमभङ्गमलोकयत्। परिश्रमात्समाहृतानां पादपानां दूरदुर्दशामालोक्य नितरामकुप्यत्पर्यतप्यत च मालाकार:। स हि सर्वानुत्पाट्य, तन्मूलान्याद्रमृत्तिकयाऽऽच्छाद्य निदधौ दूरे। संवादमिममाकर्ण्य ज्वलन इव प्राज्वलद्राजज्यौतिषिक:। तत्कालमेवाऽयमब्वासस्य समीपे समुपस्थाय मालाकारस्य मूर्खतामवर्णयत्सालङ्कारं च सविस्तरं च। अब्वासस्तत्क्षणमेव पाशैर्निबध्य मालाकारमिममानेतुमाज्ञापयामास। यदाऽयमब्वासस्य सम्मुखे समुपातिष्ठत्तदाप्यतिष्ठत्तत्समीपे ज्यौतिषिकोप्यम्।
सम्राडाक्तनेत्र: सन्नपश्यन्मालाकारमवादीच्च 'रे दुष्ट! स्वयं स्वहस्तेन ये वृक्षा मया मध्याह्ने समारोहितास्ते त्वया निर्विचारमुत्खाता:? ते ह्येतादृशे शुभमुहूर्ते समारोपिता यदेतादृशो मुहूर्तो न लभ्येत साम्प्रतं जीवनपर्यन्तमपि। न च कदाचिदेतस्मिन् स्थाने मनोज्ञमुपवनं सम्पद्येत नूनम्। हन्त न शोभनो मुहूर्तो मुहुरुपलभ्यते’ औपवनिक: सोऽयं मुद्रितमुख: सर्वमिदमशृणोत्। न च किञ्चिदवोचत्। किन्तु अब्बासस्य सेयं वक्तृता यदा परिसमाप्ता तदा तं प्रति किञ्चिदनुक्त्वा दैवज्ञमहोदयाभिमुखं मुखं विधाय साकूतमसौ प्राशंसीत्- ''अहह धन्यं भवदीयं ज्यौतिषज्ञानम्! न भवान् केवलं ज्यौतिषी, आप तु महामहाज्यौतिषी! परिमितयाऽनया वाचा किमहं प्रशंसेयम्? भवत्परिशोधिते मुहूर्ते समारोपितमुपवनं, वर्षाणां दिनानां वा का कथा, कतिचिद्घण्टानन्तरमेवोच्छिन्नमभूत्! साधु साधु, सत्यमयं महानेवोत्कृष्ट: शुभमुहूर्तोऽभूत्!” सम्राडब्बासस्य व्यङ्ग्येनानेन कोपावस्थायामपि निरगाद् बलवान् हास:। दैवज्ञमहोदयं प्रति पृष्ठं विधाय समयासीत्तत: स्थानात्।
जीविते ममता
(१)
हिमगिरेस्तुङ्गे तस्मिन् पुण्यप्रान्ते सूर्यकिरणैर्हीरकवच्चमत्कुर्वन्त्यो हिमशिलानेत्रयोश्चा-कचाक्यमुत्पादयन्ति स्म। शैत्यातिशयाच्चरणौ विशीर्णमाणाविवाभूताम्, शरीरे रक्तस्य गतिर्निरुद्धे-वाऽऽसीत्। वृक्षस्य का कथा, न तस्मिन् मार्गे तृणमप्यासीत्। उपरि स्वच्छं नीलगगनं परितश्चोच्चावचा: सहस्रं हिममण्डिता: पर्वतश्रेणय एव केवलमालोक्यन्त।
प्राणिमात्रशून्ये तस्मिन् प्रान्ते नि:सहाय: स यात्री महता कष्टेन मार्गमुदलङ्घयत्। क्षणे क्षणे दूरवीक्षणयन्त्रं नेत्रयोराधाय महताऽवधानेन इतस्ततो विलोकयति किन्तु न क्वचिदालम्ब-नमालोकयत। नैराश्येनाऽऽसीत् तस्य मुखं मलिनम्। स हि मार्गश्रमात् प्रकामं खिन्नोऽभूत्। तदुपर्यपि पृष्ठावलम्बिनि तज्झोलके यात्रोपयोगिवस्तुसम्भारो नासीन्न्यून:। इत: परिधानीय-वस्त्रभाराद् गात्रं भुग्रमिव आसीत् किन्तु यदि वस्त्राणीमानि नाऽभविष्यन् तर्हि क्षणमात्रमप्यत्र नायमस्थास्यत्।
किञ्चिद्दूरे एकं लघुस्रोत: समवलोक्यत, मध्याह्ने यात्री तत्रैव हिमकुट्टिमोपरि वस्त्रसम्भारं निपात्य स्तोकं व्यश्राम्यत। नासीत् तत्सविधेऽद्यमात्रमपि क्षुधानिवृत्युपयुक्तं भोजनम्। यदासीत् तेनैव किञ्चिदाधारमात्रमकार्षीत्। किन्तु कीदृशस्तत्र विश्रम:। महामहत्यो हिमशिलाश्चण्डराशेरुष्णकिरणानां स्पर्शेन प्रतिक्षणं विशीर्यमाणा न्ययतन्। हृदयकम्पी तासां घोर: शब्द: शून्येऽस्मिन् गह्वरे भीषणं प्रतिध्वनति स्म। कदापि कापि शिला पतेत्तदुपरि तर्हि न चिह्नमप्यवशिष्येत शरीरस्य। भयाद्वेपमानो यात्री ततोऽग्रे प्राचलत्।
(२)
नासीत्तस्य निश्चय: क्व मया गन्तव्यमिति। निरुद्देश्यं निरवधारणं चाऽवशीर्यमाणशरीर: स कथङ्कथमपि मार्गमुल्लङ्घन्नासीत्। यथा यथा दिनमक्षीयत, उपचीयत तथा तथा यात्रिणो व्याकुलता। हा हन्त! रात्रावस्मिन् प्रदेशे कथं शक्येत स्थातुम्? प्रस्थानात् पूर्वम् आसामापत्तीनामुपरि न किञ्चिदवधानमदीयत यात्रिणा। यात्रानिषेधकारिणस्तस्मिन् समये कातरा: प्रतीयन्ते स्म। ये किल दुर्गमस्याऽस्य प्रदेशस्य यात्राकाठिन्यमावर्ण्य प्रस्थाननिवारणमकामयन्त, तेषामुपरि स मनसि निभृतमुपाहसत्- 'अहो! एते निजदृष्टान्तेन मामपि भीतमेव भावयन्ति।’ तस्मिन् समये मृत्युर्न किञ्चिद् वस्त्वासीत्। प्राणानां नाभूत् किञ्चिदपि चिन्ता।
किन्तु प्राणानां सेयं ममता न जाने तस्मिन् समये हृदयस्य कस्मिन् कोणे निलीना आसीत्। येन हि अस्मिन् समये समस्तोऽप्युत्साहो व्यालुप्यत। सकलमपि साहसं निश्शेषं न्यलीयत। केवलमभावयत्स मानसे- 'यदि किञ्चित्सुरक्षितं स्थानं प्राप्येत तर्हि यथाकथञ्चिद् धारयेयमिमान् प्राणान्। हा हन्त! रात्रियापनाय क्षुद्रक्षुपस्य छायामात्रमपि किं मद्भाग्ये नास्ति?
किन्त्वितो दिनं शनैरवसानोन्मुखमेवाऽभवत्। कस्य वा प्रतीक्षां कुरुते प्रकृतिरियम्? अस्तमुपगच्छत: किरणमालिनो रक्तिमा समस्तमपि हिमप्रान्तमिममरञ्जयन्नूनम्। प्रालेयशिलानां प्रतिकणाद्विकीर्यमाणो राग: समस्तमपि प्रदेशं रम्यतनमकार्षीत्। भाग्यवद्भिर्नेत्रैर्निरीक्षणीयमभूदिदं भव्यं दृश्यम्। चतुर्दिक् चमत्कुर्वतोऽरुणरागस्यैव सर्वत्र साम्राज्यमासीत्। किन्तु यात्री मनोरमादप्येतस्माद् दृश्यादतितमां भीतोऽभूत्। स किलैतावत् पीडितोऽभूद् यथा तस्य वपुषो रक्तमेवेदं सर्वासु दिक्षु परित: प्रकृत्या विकीर्यत इति। नासीत् पदयो: स्तोकाऽपि स्पन्दस्य शक्ति:। समग्रमपि शरीरं शिशिरेण जडीभूतमिवाऽऽसीत्। राग: शनैरक्षीयत कालिमा च प्रतिक्षणमुपाचीयत। अरुणा: प्रालेयशिला: शनैरन्धकारेणाऽऽशिलष्यन्त। पथिकोऽस्मिन् सन्तमसे मृत्योर्भीषणं कालिमानमुपसर्पन्तमपश्यत्। अभूदसौ नितान्तं व्याकुल:। धैर्यस्याऽऽसीत् सर्वथा समाप्ति:। भयाकुलो यात्री सहसैवाऽक्रन्दत् - भगवन्! त्रायस्य निरवलम्बं दीनमिमम्। तस्मिन् क्षण एव च चेतनाया विलोपान्नि:सहं न्यपतत् प्रालेयशिलानामुपरि।
मूर्छा वस्थायामेव अवलोकितं तेन यत्कस्यचित् कोमलाभ्यां कराभ्यां तस्य मस्तकं स्वात्मन उत्सङ्गोपरि निहितमस्तीति। पान्थो नितान्तमभूच्चकित:। नेत्रे नि:शेषमुदालसत्- दृष्टं तेन यदेकोऽरुणवर्णा: भिर्लम्बजटाभिर्मण्डितमस्तक: सुदीर्घकूर्च: कृष्णोज्ज्वलवर्णो महापुरुष शिरोभागेऽस्याऽवतिष्ठते। दयालुरयं शनै: शनैर्मस्तकमिदं मे निजहस्तेन परामृशतीति।
न जाने हस्तेऽस्मिन् कीदृशी शक्तिरासीत् येन हि मे शरीरे पुनरुष्णताया: सञ्चारोऽभवत्। अपरिचितस्याऽस्य महापुरुषस्य मुखमभितो विचित्रमेकं तेज: परित: प्रासरत्, नयनयोश्च प्रेम्ण: करुणायाश्च वृष्टिरिवाऽभवत्। यात्री नि:सम्भ्रममुदतिष्ठत्, दिव्यपुरुषस्य चरणयोश्च मस्तकमस्थापयत्। मुखान्न किञ्चिदुक्त्वा, निजानुसरणस्य सङ्केतं कुर्वन्नयं महापुरुष: सम्मुखदिशामभ्यसरत्। विवश: पान्थोऽप्यसौ केनापि नीयमान इव तमन्वसरत्। अभूदस्मिन् समये यात्रिणोऽस्याऽभूतपूर्वं साहसम्। प्रत्यावर्तत पुन: शरीरशक्ति:।
(३)
सिंहलद्वीपवासी सौगत: साङ्कृत्यायनो बहो: कालादेव योगिनामाश्चर्यजनकेषु वृत्तान्तेषु मनोयोगमदात्। आत्मभाषासाहित्ये यावदुपलब्धानि महामहतीराशाश्चेतसि सङ्ग्रह्य सोऽयं पोतिनपारावारमुदलङ्घयत्। परं भारतमागत्य तासामेकस्या अपि पूर्तेर्योगं नासावपश्यत्। अपरिचिते देशे तादृशानां महापुरुषाणामधिगम: किं सहज:? ये हि स्वत एव जनसमाजान्निलीनास्तिष्ठन्ति। इतस्ततो यत्र यत्र महात्मनां स्थानादिकं तीर्थपुरोहितेभ्य:, भारतीयेभ्यस्तेन परिचितेभ्य:, यात्राशीलसाधुभ्यश्च यथासाध्यमासीत् तत्र तत्रैव साभिलाषमगात्। नासीद् व्ययस्य चिन्ता, न चाभूत् शरीरकपरिश्रमे दृष्टि:। किन्तु वास्तविकयोगिनां दर्शनं किमु यस्य कस्यचिद् भाग्ये सहजं संघटते? आम्। भारतीयभाषाया यत्किञ्चिदभ्यासोऽवश्यमस्मिन्व्यतिकरे लाभरूपेण परिगणनीयो नाम।
प्राय: सर्वाण्येव तीर्थानि, प्रसिद्धप्रसिद्धाधिष्ठानानि चाऽवलोकितानि परं नाऽभवत् सन्तोष:। बहुभिर्महात्मभि: समगच्छताऽपि, परं स्वोपयुक्तो गुरुर्नाध्यगम्यत। पूर्वतोऽयमज्ञासीद्यत् हिमालयस्य हिमाच्छन्ने दुर्गमप्रदेशे महान्तो योगिनोऽधिवसन्तीति। भारतमुपेत्य ये ये जना: पृष्टास्तैरेवाऽस्य पुष्टि:। पठितानि हि तेन योगपुस्तकानि। अत्राऽऽगतानां योगिनां कृतोऽपि भूयान् सहवास:। श्रुताश्च प्रामाणिकेभ्य: पुरुषेभ्यो योगिवृत्तान्ता:। शनैरेतस्य रुचिर्योगाभिमुखं सुभृशं प्रावर्द्धत। भारतवर्षं हि योगमार्गगुरु:, अत एव य: कोऽपि सुप्रसिद्धो भारतीय: सिंहलमुपागात्तेनैव सह साङ्कृत्यायन: साभिलाषममिलत् अपृछच्च योगिनां निवासस्थानादिविषये। स्वयं चाऽप्यनेन बौद्धागमानुसारेण त्राटकमिच्छाशक्ते: साधनं चाक्रियत। परं नाऽनेन आसीदस्य सन्तोष:। स हि भारतीययोगिन: शिष्यतामङ्गीकृत्य पूर्णं योगसाधनमैच्छत्।
न खलु पुस्तकेभ्यो भारताद् आगन्तुकेभ्यश्च स्वेष्टसाधनस्य योगमपश्यत्। अत एवाऽन्ते स्वयमयं भारतयात्रां निश्चैषीत्। स्वयं तत्रोपगत्य योगपरिनिष्ठितस्य गुरुदेवस्य अन्वेषणं स हि सुदृढं मनसि निरधारयत्। कोऽत्रासीत् प्रतिरोध:? स्वयमयं प्रतिष्ठिते धनसम्पन्ने च कुलेऽभिजात:। तत एव शीघ्रमेव आवश्यकीं यात्रासामग्रीं संघटय्य भारतं प्रति प्रातिष्ठत।
महामहतीराशाश्चेतसि सङ्गृह्य सोऽयं पोतिनपारावारमुदलङ्घयत्। परं भारतमागत्य तासामेकस्या अपि पूर्तेर्योगं नासावपश्यत्। अपरिचिते देशे तादृशानां महापुरुषाणामधिगम: किं सहज:? ये हि स्वत एव जनसमाजान्निलीनास्तिष्ठन्ति। इतस्ततो यत्र यत्र महात्मनां स्थानादिकं तीर्थपुरोहितेभ्य:,भारतीयेभ्यस्तेन परिचितेभ्य:, यात्राशीलसाधुभ्यश्च यथासाध्यमासीत् तत्र तत्रैव साभिलाषमगात्। नासीद् व्ययस्य चिन्ता ,न चाभूत् शारीरकपरिश्रमे दृष्टि:। किन्तु वास्तविकयोगिनां दर्शनं किमु यस्य कस्यचिद् भाग्ये सहजं संघटते?
आम्। भारतीयभाषाया यत्किञ्चिदभ्यासोऽवश्यमिन्व्यतिकरे लाभरूपेण परिगणनीयो नाम।
प्राय: सर्वाण्येव तीर्थानि, प्रसिद्धप्रसिद्धाधिष्ठानानि चाऽवलोकितानि परं नाऽभवत् सन्तोष:। बहुभिर्महात्मभि: समगच्छताऽपि , परं स्वोपयुक्तो गुरुर्नाध्यगम्यत। पूर्वतोऽयमज्ञासीद्यत् हिमालयस्य हिमाच्छन्ने दुर्गमप्रदेशे महान्तो योगिनोऽधिवसन्तीति। भारतमुपेत्य ये ये जना: पृष्टास्तैरेवाऽस्य पुष्टि: कृता। किन्तु योगिनां तेषां दर्शनं दुर्लभम्, तत्प्रदेशे यात्रा च कथञ्चिदपि साध्येति सर्वैदेकमुखेन समीरितम्। किन्तु द्विधाऽपि हठयोगिन: सांकृत्यायनस्य नाऽभूदुत्साहभङ्गाय मार्गकाठिन्यवर्णनमिदम्। एष हि निजनिश्चये निसर्गत एव सुदृढोऽभूत्। अत एव अदम्यमुत्साहम्, अप्रतिरोध्यं च साहसमादाय स हि योगिगुरोरन्वेषणाय हिमालयमन्वसरत्। आसीदस्य हृदये सुदृढो विश्वासो यदवश्यमहं योगिनमधिगच्छेयमिति।
भारतस्य मानचित्रमपश्यत्, हिमालयस्य दुर्गमप्रदेशानां यात्रावर्णनमपठत्, तत्रत्य निवासिभ्य: परिस्थितिमविदत्। अन्ते च परिचितमार्गान् द्वित्रान् दृढपुरुषान् भृत्यरूपेण हृषीकेशादादाय केदारनाथस्य यात्रायै प्राचलत्। सानन्दमियं केदारयात्रा परिसमाप्यत, परं नायं तादृक् तीर्थयात्री योऽत्रैव निरस्तो भवेत्। एतस्य हि गन्तव्यमितोऽप्यतिदूरे, परं न कोऽपि भृत्यस्ततोऽग्रे गन्तुं स्वीचकार। तत्रत्यै: तीर्थपुरोहितै: अन्यान्यैश्च अयमग्रे गन्तुं साग्रहं विनिवारित:। परं 'क ईप्सितार्थस्थिरनिश्चयं मन: पयश्च निम्नाभिमुखं प्रतीपयेत्?” अन्ते स्वयमयमेकाकी हिमानीमुल्लङ्घयितुमग्रसरोऽभवत्।
तत्प्रदेशोपयुक्तं भोजनसामग्रीम् ऊर्णावस्त्राणि चास्थापयत् स्कन्धझोलके। शीतादात्म-रक्षायै पर्यधात् स्थूलस्थूलान्यूर्णावस्त्राणि। दूरवीक्षणयन्त्रं दण्डकाष्ठमन्यानि चाऽवश्यकवस्तून्यादाय विनैव मार्गं मार्गप्रदर्शकं वा स हि हिमप्रान्तरे प्रास्थित। नाऽत्राऽत्यन्तसम्मुखमार्ग:, केवलमनुमा-नेनैव स हिमानीमगाहत। लोकैरयमुन्मत्त: पर्यज्ञायत। हृदि निश्चितं सर्वैर्यदयमपुनरागमनाय इत: प्रस्थित:। नाऽस्य पुन: प्रत्यावर्तनं सम्भवि।
क्वासीत् तत्र मार्ग: हिमशिलानामुपरि उच्छलन्निव सोऽग्रेसरत्। अदृढीभूते हिमे कदाचिद् आजानु निलीनोऽभवत्, क्वचित् प्रालेयस्तूपे उत्प्लवमान इवाऽधावत्, क्वचन हिमशिखरमध्यारोहत्, क्वचन शिलासु रिङ्गन्नवातरत्। हिमोपरि क्वचित् क्वचित् तृणान्यासन् रूढानि। कियद्दूरं यावत् तरवोऽपि क्वचित् क्वचिदवाप्यन्त। भोज्यमासीन्निकटे। अत एव दिनं यावदलङ्घयद् दिनमार्गम्। रात्रेरारम्भे यावदवशादलभ्यत तरुरेक:, स एवाऽन्तिमो वृक्षोऽभून्मार्गेऽस्मिन्। अत एव तत्रैव रात्रियापनं निरधारयत्। निद्रा तु कथं व्यपदिश्येत्, स्थूलवस्त्रावृत: कथञ्चित् तत्र पर्यपतत्।
रात्रेर्भयङ्करेण शिशिरेण प्रथमदिनपरिश्रमेण च न पर्यवशिष्यत शरीरपरिस्थितिस्तादृशी ययाऽग्रे गन्तुं शक्येत। मुहु: प्रत्यावर्तनाय प्रेरयेद् व्याकुलं मन: किन्तु विफलप्रत्यावर्तने प्रतीयते स्म निकामं लज्जा। विचारद्वन्द्वनिपतित: स हि यथा कथञ्चिदग्रेऽभ्यसरत्। साम्प्रतमग्रे केवलं हिमप्रान्तरमेवाऽऽसीत्। हिमोपरि तत्तृणमपि नाऽवलोक्यत। भोज्यमपि स्वल्पमेवाऽशिष्यत। किन्तु प्राणान् पणीकृत्य सोऽग्रे पर्यचलत्। न पृष्ठतो मार्गस्य चिह्नमासीत्, नाग्रत:। दूरवीक्षणेन इतस्ततो बहु पर्यवैक्षत परं तत्र योगिनां निवासगुहा: क्व आसन् या दृष्ट्यामस्य निपतेयु:। केवलमाशाकुहकिनी तमिममग्रतोऽकर्षत्।
(४)
महापुरुषमिममनुसरन् साङ्कृत्यायन: स्वल्प एव काले स्थानमेकमवाप्तवान्। आसीदियं विपुला गुहा अस्या अभ्यन्तरे नाऽऽसीदंशतोऽपि हिम:। दृढपाषाणघटिता सेयं स्वच्छा दरी। एकतो जीर्णं मृगचर्म, अपरतश्चासीन्निहित: कमण्डलुरेक:। एतावत्येवासीत् सामग्री तत्र। महात्मना सह सोऽपि गुहामाविक्षत। अभूत् तत्र तावत् स्थानं यावता द्वौ मनुष्यौ सुखं संविशेताम्। समुदत् साहसं सम्प्रति साङ्कृत्यायनस्य। दृढं हृदि व्यश्वसत् यदयमवश्यं कश्चिन्महायोगी। समीहित-सिद्धयाऽनया प्रासीदन्मानसमेतस्य। मार्गक्षमशीतजनिता व्यथा च न जाने क्वान्तर्हितेऽभूताम्। नवीना स्फूर्तिर्नूतना विचारा: नवं च जीवनमुपालभ्यत।
तृणानुकारीणि कतिचित्पत्राणि महापुरुषोऽसौ निजकराभ्यां निष्पीडयामास। निजग्रन्थित: पात्रं निस्सारयितुं यात्रिणमिममादिश्य रसमेतं तत्र च्यावयामास। क्षुधानिवृत्तये पर्याप्तोऽयं भवत:। पीयतामसौ। तत्कालमनुपालितोऽभून्निदेश:। आश्चर्यम्, क्षुधा च परिश्रान्तिश्च सत्यं क्वाप्यलीयेताम्। पर्याप्तमद्यैतावत्। शेष्व साम्प्रतम्। श्वो भवत्प्रयोजनं विचार्येत। महापुरुषो मृगाजिनोपरि न्यषीदत्, यात्री च निजवस्त्रेषु सुखमस्वपत्।
प्रातरुन्मीलितनेत्रो यात्री व्यपश्यदात्मानमेकाकिनम्। किञ्चित् कालं तु प्रतीक्षाञ्चक्रे- नित्यकर्मतो निवृत्य गुरुदेव: शीघ्रमायास्यतीति। किन्तु चिरं निश्चेष्टो नाऽशक्नोदसौ स्थातुम्। कन्दरद्वारि समागत्य दृष्टम्, प्रबला हिमवात्या सम्प्रति बहि: प्रवहति। विवश: पुन: परावर्तत कन्दरामेव। महताऽवधानेन गुहामिमां परितो ददर्श। परं गुहायामासीदेव किम्? केवला: पाषाणशिला:। मृगाजिनं तत् तत्रैव आस्तीर्णम् आसीत्। अकस्मात् तत्र दृष्टिर्निपपात, यत्रासौ सुष्वाप। अहो! इयं लेखनी मे पत्रिका च केन नि:सारिता? पत्रिकामिमामुत्थाप्य ददर्शाऽसौ। आकुञ्चितमेकं पत्रं पत्रिकातो भूमौ न्यपतत्। खिन्न: विस्मित: पथिक: पपाठ -
'यावत् किल प्राणानां ममता, शरीरे स्नेह:, जीवनस्येच्छा चावशिष्यते, तावदियं पित्र्यभूमिर्मुमूर्षाणामगम्या निष्फल दु:साहसस्य परिणामो न कस्यचित्सुखावह:।
यदि किञ्चिदिष्यते तर्हि निकटगतं त्रिविष्टपमधिष्ठाय कुरु किञ्चित्साधनाम्। एकं मानचित्रमधो निर्दिश्यते। तद्द्वारा सारल्येन कैलासमुपगमिष्यसि। परावर्तस्वेत:’।
कतिवारान् स पपाठ पत्रमिदम्। मुहुर्मुहुरालोचयामास मानचित्रम्। अन्ते च किञ्चिन्मनसि निश्चित्य, मृगाजिनमिदं सभक्ति सम्प्रणम्य गुहातो बहिरभवत्। मानचित्राधारेण तस्मिन्नेव दिने प्राप त्रिविष्टपम्।
(५)
त्रिविष्टपराजधानीत: किञ्चिदेव दूरे पर्वतोपत्यकायामासीदेकं कुटीरम्, यत्रैको बौद्धभिक्षुनिर्वसति स्म। लोकास्तमेनमुन्मत्तमविदु:। एष हि वस्त्रेणाऽऽबद्धमध्यदेशो निरावरणाऽखिलाङ्ग: स्वैरं पर्वतेष्वितस्तत: पर्यटति स्म। कदाचित्तु बहुभिरहोभि: पराववृते। प्रसिद्धास्त्रिविष्टपगुरवो (लामा) योगिनमिममाहु:। एष हि किमुपभुज्य जीवतीति न कश्चिद्वेत्ति।
यदा च कश्चिदेतत्सविधमाजगाम, बहुधाऽसौ तं पप्रच्छ- अपि अस्ति ते प्राणानां मोह:? यदि स 'आम् इत्युत्तरयति, तदासौ मुखं परावर्तयति। यदि तु 'नेति’ परिहासेनापि कश्चित् समलापत् तर्हि तत्पादावुपसङ्गृह्य साश्रुगद्गदमसौ प्रार्थयते - 'मम गुरुदेवसविधे गत्वा तमेनामिहागन्तुं प्रार्थयेथा:। स ह्यवदत् - 'गुरुचरणा: सुदूरे तस्मिन् पर्वतकन्दरे वसन्ति। तत्समीपे स एव गन्तुं शक्नोति, न यस्य प्राणानां मोह:।
एकदा ह्यकस्मात् स प्रभातप्रायायां रात्रौ प्रबुध्य प्रावदत् - 'अहो! गुरुचरणा मामाह्वयन्ति! तस्मिन्नेव कन्दरे, तेनैव पथा!! प्रातरेव स सर्वं परित्यज्य पर्वताभिमुखं प्रास्थित नासीत्तेन सह किञ्चिदपि। महाशीतेऽस्मिन् गात्रोपर्यपि प्रावरणं नाभूत्। न चात: परं स पश्चात् परावर्तिष्ट, नापि च कुत्रचित् केनचिदयं दृष्टोऽपि। एतस्य सम्बन्धी कश्चित् सिंहलाद् भारतवर्षं परिभ्रम्य तमेनमन्विष्यन् प्राप्त: किलैतत्पर्यन्तम्। परं शून्यमेतत्कुटीरमभिवन्द्य निराश: परावर्तत। त्रिविष्टपगुरव: सिद्धस्थानमिति कुटीरमिदं बहुधा श्रद्धया निर्दिशन्ति। करालक्रीडया पाषाणमात्रशेषेऽप्यस्मिन् स्थले ये किलावासमधिगच्छन्ति गुरुदेवस्याह्वानमद्यापि तेषां हृदयेऽङ्कुरितं भवति। अत एव अश्रुसलिलाञ्जलिभि: स्थानमिदमभिषिच्य पूतान्त:करणा: प्रतिनिवर्तन्ते।
वीरवाणी
(१)
'गृह्णीत, खण्डश: कुरुत, हिन्दूनां कूपे निपातयत’ इत्यादिघोरकलकलैर्गगनतल-माकुलयन्त: कियन्त: सशस्त्रा: पुरुषा येषु केषाञ्चन करे वंशयष्टय: केषाञ्चन करे लगुडा: केषाञ्चन छुरिका: केषाञ्चिच्च खड्गा आसन्नेकस्य साधोरुपरि पर्यापतन। सर्वेऽप्यासन्मोगला:। दीनस्यैकस्य विरागिणो निग्रहणं बलान्निबर्हणं च तैर्निजपुरुषार्थ एव किम् स्वधर्मनेतॄणामादेशानुसारं पुण्यकार्यं बत पर्यगण्यत। विवशो विरागी महता कौशलेन निजहस्तदण्डं परिभ्रमयन्नात्मरक्षायै पर्यचेष्टिष्ट।
सुरतनगरे राजरथ्यायां विपणीनां सम्मुख एव तदिदम ब्रह्मण्यमारभ्यत। तया रथ्यया गच्छन्नेको गौराङ्ग: कलकलमिममाकर्ण्य कौतुकवश: सहचराभ्यां सह जनसम्मर्दमिमं कठिनतया विच्छिद्याभ्यन्तरं प्राविशत्। दृष्टं तेन- दृढशरीरसन्धेर्भस्मावृतवपुष: साधोरेकस्योपरि सर्वेऽपि यवना युगपदाक्रमणमकार्षु:। स च केवलमेकेन लघुलगुडेन निजप्राणरक्षाया: प्रयत्नं यथाकथञ्चिदाचरतीति। चत्वारिंशत्पञ्चाशन्मुगला नि:शस्त्रमेकं पुरुषमाक्रमन्, निजयष्टीनां प्रहारै: प्रापीडयन्, कियद्वा कोऽपि वराको रक्षायै विचेष्टेत? कोऽपि पाषाणमक्षिपत् तर्हि कश्चिद् गोमयं वा मार्गस्थमवकरनिकरं वा प्रक्षिपन् प्रादर्शयन्निजतवीरताम्। अन्यो ह्यसभ्यैर्दुरुक्तैरेव निजमानसमतर्पयत्। विषमायामस्यां दशायां वराको विरागी कियन्तं कालं वा निजात्मानं गोपायेत्? अकस्मादेकस्य पाषाणप्रहारस्तस्य ललाटाल्लोहितं प्रावाहयत्। यथैव तन्निरोद्धं स हि द्वाभ्यां कराभ्यां मस्तकमगृह्णात्तथैवान्यमहावीरस्य यष्टिस्तस्य शिरस्यपतत्। प्राघूर्णत: साम्प्रतं साधो: शिर:। स हि विसंज्ञो भूत्वा भूमौ न्यपप्तत्।
निजपराक्रमेण प्रफुल्ला: सर्वे मृतमपि पुनर्मारयितुमधावन् वीरविक्रमेण। किन्तु साक्षात्तस्मिन्नेव समये गौराङ्ग एक: पर्यापतत्तस्मिन् स्थले। तस्य हृदयमनौचित्येन मानवोचितदयाभावेन चाद्रवत्। सरभसमेष निजसहचरयो: साहाय्येन विरागिणमिममनयत् स्थानान्तरम्। सक्रोधातिशयमाक्रमन्मोगलास्तमेनमपि, किन्तु गौराङ्गस्य तत्सहचरयोश्च हस्ते सज्जान्यासन् नलिकास्त्राणि। द्वित्राणां गुलिकानामुपायनेनैव सर्वेषां वीरता विजहार व्योममण्डले।
संज्ञामुपलभ्यैव साधुरयमुदतिष्ठत्। दृष्टं तेन- एकोऽपरिचितो गौराङ्गो निजसहचरयो: साहाय्येन क्षतस्थाने पटमाबध्य मे सेवां करोतीति। विरागी पूर्णया कृतज्ञतया तस्योपकारभारममन्यत समभाषत च सस्नेहम्- 'वीर किं तत्र भवतो नाम? अद्य यस्त्वं मे प्राणानरक्षीर्नेममुपकारमहं कदाचिदपि विस्मर्तास्मि। भारतीया मनस्विनो निजोपकारमपकारं वा चिराय हृत्पटलेऽङ्कयन्ति न विस्मरन्ति चादेहपातं तत्प्रतिशोधं नूनम्। सप्ताहाभ्यन्तर एवास्य प्रमाणं प्राप्ता भवान्’। एतावदुक्त्वा पुनरपृच्छत्तस्य फिरङ्गस्य नामधेयं साधु:। महता स्नेहेन च तद्धस्तं संस्पृश्य यथागतं गच्छन् नेत्रयोरन्तरितो बभूव।
जॉन रो महोदयो (गौराङ्ग:) विस्मयस्तिमित: स्थूणेव तस्थौ तथावस्थ एव। व्यचारयच्चेतसि- 'अहो कोऽयं पुरुष:? यस्याधिकारसूचिका वाणी सहसैवाऽऽनमयती-वाऽपरिचितस्यापि गौरवान्मस्तकम्। स्वरेऽस्य स्वामिता, नेत्रयोरसाधारणं तेज:, शरीरे च शार्दूलस्येव शक्तिवहं शौर्यम्। हस्तस्पर्श एव वज्र कठोरो घोषयतीवास्य महावीरताम्।’ एवमादि चेतस्यावर्तयन्नेवासौ परावर्तिष्ट निजनिवासस्थानम्।
(२)
द्विशतसार्द्धद्विशतवर्षेभ्य: प्राक्तनी सेयं कथा। अद्येव नासीद्भारते सर्वतन्त्रस्वतन्त्रमे-कच्छत्रं गौराङ्गणामाधिपत्यम्। अभून्मोगलानामन्तिमं शासनं यद्धि अस्तमुपयास्यतो भास्वतो लोहितायमान: प्रकाश इव स्वस्यासूचयत्पतनोन्मुखताम्। सुरतनगरे चतु:पञ्चा: फिरङ्गा व्यापाराय निजनिवासमकल्पयन्। अलक्ष्यत तदा तत्परिस्थितिर्नितरां निराशाजनिका। फिरङ्गीत्यङ्गीकृतख्यातयस्ते व्यवसायमालम्ब्य देशे शनै: प्रवृत्तिमलभन्त। व्यापारमन्तरा नासीत्तेषां कश्चिदन्यो नियोगो देशे। यदि कश्चिन्मोगलस्तान्पर्यपीडयत् हानिमापादयत्तदापि नासीत्कोऽपि तेषां विशिष्य संरक्षक:। अभियोगे समुपस्थापितेऽपि मोगलराजशासनान्नासीन् न्यायप्राप्ते: प्रत्याशा तेषाम्। अत एव निभृतं निजकार्ये निलीनास्ते शनै: शनैरितस्तत: प्रसृतेर्निजसमुन्नतेश्च मार्गमध्यारोहन्नात्मनैव।
पूर्वसंघटिता घटना घोरमुदघाटयत्सङ्घर्षं यतस्तत: संघटमानेषु मुसलमानेषु। अङ्कोपगतस्यापि धर्मविद्रोहिणस्तदेवंप्रकारेण विमुक्तिं ते दैवदुर्भुक्तिमभावयन्। एवंविधेनापयश:पावकेन समधिकमदह्यत मोसलमानानामखिलानां हृदयम्। दोषभागिनो विरागिणो ह्यनुचितसाहाय्यप्रदानापराधे 'जॉनरो’ महोदय: समभूत्तेषां कोपभाजनं नूनम्।
व्यत्यगुश्चतु:पञ्चान्यहानि घटनाया: पूर्वोक्ताया:। आसीत्सन्ध्यासमय:। जॉनरोमहोदय: समस्तमपि दिवसं निजव्यवसाकार्यमापूर्य साम्प्रतं प्रयाति स्म विश्रमाय निजनिवासम्। एतस्मिन्नेव समये पत्रखण्डमेकं करे वहन् शिशुरेक: समाययौ सम्मुखे, पत्रञ्च तन्निभृतं निधाय निलीनोऽभूदितस्तत:। जॉनरो पत्रमिदमुदघाटयत्। आसील्लिखितम्- 'अद्य निशीथे भवेद्भवदुपर्याक्रमणम्। सर्वोऽपि च व्यवसायवस्तुसंघात: सन्दाह्येतं पावकेन। भाव्यमवहितेन भवता। कश्चिद् हितचिन्तक:’। रो महोदय: पर्यकम्पत भयेन। स ह्यापणानां द्वाराणि दृढार्गलैर्दृढीचकार। प्रचुरपुरस्कारेण निजभृत्यानन्यानपि सहायकानद्य रात्रावानेतुं न्ययुङ्क्त्व नैपुण्येन। सशस्त्रान् परिचारकान् परित: प्राहरिककार्यं कर्तुमादिशन्महताऽवधानेन। यावच्छक्यमेवमनुष्ठाय निजरक्षोपायान् स हि साशङ्कं प्रत्यैक्षिष्ठ परिपन्थिनां पन्थानमागमनस्य।
उपातिष्ठतार्द्धरात्र:। सहसैव परित: कोलाहल: प्रसृत:-समाययुर्वैरिण इति। 'दीन-दीन’ इति दारुणदुर्वार: समश्रूयत सर्वत: संराव:। अङ्गरेजा: शस्त्राण्युत्तोल्य समनह्यन्त सर्वथा। सत्यं सत्यमकुर्वन्नाक्रमणं पशुबलेन मोहम्मदा:। 'रो साहब:’ तत्सहचराश्च महता साहसेन समयुण्यन्ताततायिभि:। किन्तु पर्यन्ते पर्यलभन्त ते पराभवम्, आसन्नपरिमिता: परिपन्थिन:। विजयगर्वितैररातिभि: सानन्दं बन्दीकृता गौराङ्गा: परतन्त्रतया पर्यालोकन्त परिलुण्ठनं निजनेत्राभ्याम्। विजयकोलाहलमाचरन्तो द्विषन्तो विपणीनामग्रत एव शुष्ककाष्ठान्याहरन्नितस्तत: पर्यदीप्यत पावकस्तस्मिन् काष्ठकूटे। रोमहाशयो निगडितहस्तपदतया विवशीकृतो निजनयनाभ्यामभ्यालोकिष्ट निजसर्वस्वस्य लुण्ठनं पावके परिदहनं च। शोकामर्षाभ्यामभ्यामर्दित: स नैतद्विलोकयितुमपारयत्, पर्यमीलयल्लोचने विवशम्।
इतो वह्निं प्रदीप्य द्विगुणीभूतमदा मोहम्मदा: प्रकामं पर्यतुष्यन् यदिदानीं न केवलं फिरङ्गिणां धन भवनाद्येव, अपि तु गौराङ्गाणाममीषामङ्गान्यपि प्रज्वलज्ज्वलने समर्प्य सर्वदार्थमेतेषां नाम नि:शेषीकरिष्याम:। गृहपरिसरे पावकप्रदानस्य पर्यशिष्यन्त पला: कतिचिदेव। एतस्मिन्नेव समये समुदतिष्ठद् दूर एव गगनमण्डलमागुञ्जयन् भयङ्करकोलाहलो यत्र 'हर हर महादेव’ इति दुर्मदो ध्वनि: परित: प्रासरत्परिसरे तस्मिन्। समभूवन् सर्वेऽपि चकिता:। व्यलोक्यत तैर्यत् नगरप्रान्तान्महाभयानका: पावकज्वाला: संस्पृशन्तीवान्तरिक्षं सर्वत:। आसीत्सा तामसी रात्रि:, अत एव प्रकाशेनानेन प्रादीप्यत निखिलं नगरं सर्वत:।
हरहरमहादेवेति दुर्मदध्वनिना विद्रुतहृदया यवना: पलायन्त पलाभ्यन्तर एव सर्वत:। हस्तपतितस्य फिरङ्गिणोऽपि पर्यनुसन्धानं नैतैरक्रियत परावत्र्य मुखम्। किन्तु तत: सर्वमपि सूरतनगरं परित: पर्यवेष्ट्यत पर्यलुण्ठ्यत पर्यज्वाल्यत ज्वालाभि: प्रज्वलज्ज्वलनस्य। दह्यमानान् गृहापणानालोकयन्त: प्रशान्तीभूतमदा: प्रचक्रुर्माहम्मदा दीनार्तरवं यतस्तत: सर्वतोऽपि।
पलायितेषु परिपन्थिषु प्राप्तविमोक्षो रो महोदय: शीघ्रमेव प्रायतिष्ट पावकशमनाय निजसहचराणां साहाय्येन। आसीदधुनापि तस्य भयं यदिदानीमपि नावलुण्ठेयुर्धनभवनादिकं दस्यवोऽमी। अस्मिन् भयङ्करे व्यतिकरे धीरो गम्भीरश्चाश्रयत वीररव:- 'जॉनरो महोदय: क्वास्ति?’ इति। स्वरोऽयं पूर्वपरिचित इव प्रतीतोऽभूद् रोममहोदयस्य। वदनं परावर्त्य: विलोकितं तेन यन्महान्तं मेचकमश्वमारूढ: श्वेतोज्ज्वलदिव्यवसनो महाराष्ट्रवीर एक: स्थितोऽस्ति। मुखेऽस्य मधुरमन्दस्मितेन सह संविराजते राजतेजोऽप्यनुपमम्। अन्त:करणाद्धीरता गम्भीरता च, प्रत्येकमङ्गतश्च वज्रशरीरता वीरता चाऽनक्षरं समलक्ष्यत। विस्मयाविष्ट: साहव:- 'आम्, एष एवास्ति जनो जॉनरोनामा। किन्तु श्रीमन्तं केन परिचयेन समर्हयामि?’
मधुरमहसीदश्वारोह: प्रावदच्च- ''एकवारमभूदावयो: समागमो नगरेऽस्मिन्, किन्तु तदा सोऽहमासं संसारत्यागी विरागी, साम्प्रतं चास्मि कोङ्कणमण्डलस्यैको राजाऽध्यारूढवाजी शिवाजी। मन्येऽहं न विस्मरेन्मत्समीरितां वाणीं तत्र भवान् यद्भारतीया न विस्मरन्त्युपकारमपकारं वा स्वस्य कृतं केनचिद्, विशेषतश्च महाराष्ट्रीया इति। अत एव प्रत्यक्षमालोकतां भवानालोके यत्सर्वस्य नगरस्य सर्वत: प्रलुण्ठने प्रज्वलने चाऽपि भवान् सर्वथा सुरक्षितस्तिष्ठतीति। यैराततायिभि: पूर्वापरमनवेक्ष्य, योगयायोग्यमसमीक्ष्य साधुसज्जनै: साकमत्याचार: प्रारभ्यत तस्य प्रतिशोधो मध्येरथ्यमद्य मयाऽनुष्ठित: संघोषितश्च भारतीयवीराणामनादिप्रचलितोऽनुभाव:। एवमपकारस्य प्रतीकारमारचय्य उपकारस्य कृते यत्किञ्चिदुपहार: सोऽयं साम्प्रतं मे प्रदेयोऽस्ति। स्वीक्रियताम् कृपया।” इत्याभाष्य महामूल्यहीरकजटितमङ्गुलीयमेकं जानरोमहोदयाय सस्मितौदार्यं समार्पिपन्महासमरधीर: शिवराजवीर:।
विस्मयेन प्रमोदेन कार्तज्ञ्येन परितोषेण च प्रचुरं पुलकित: फिरङ्गपुङ्गव: सादरविनयमगृह्णादुपायनमिदम्, प्राणंसीच्च निजदेशपद्धत्या तमेनमत्यादरेण। सप्रमोदपुलकमयमभावयन्मनसि- अद्यावधि कर्णाभ्यामाकर्णित: सोऽयं महाराष्ट्रवीर: प्रत्यक्षमालक्षितोऽद्य नेत्राभ्यामिति सत्यमातृप्तोऽस्मि। शौर्ये यथायं वज्रपाणिस्तथा सुदृढाऽस्य नूनं 'वीरवाणी’ति सत्यं सत्यम्।