(१)
समाप्ति:
इति तव ''प्रियसखी।
'इति लेखनात् परमन्वभवम् यत् किञ्चिदपि नालिखम्। महाजीवनस्याजस्रसुखदु:खसंवलिता सुदीर्घा गाथा महाकालवक्षसि शून्यपृष्ठपुस्तिकावदवशिष्टा, यथा मृत्युपथयात्रिक: संसारे सर्वं किमपि त्यक्तमिति चिन्तयन्नपि किमपि नैव त्यजति। नश्वरशरीरं त्यजति, तदपि न तस्य। आत्माप्युद्गच्छति, सोऽपि न तदीय:।
आकाशस्य यथाऽऽदिर्नास्ति, अन्तोऽपि नास्ति, समुद्रस्य यथा न वृद्धिर्न क्षय:, सूर्यस्य यथा नोदयो न चास्तमय:, मन:कामनाया यथा न पूर्णता, न च शून्यता, तथैवावयो: सम्बन्धस्य नास्ति संज्ञा न चोपसंहार:। अतोऽस्मिंल्लघीयसि पत्रे कथं वाऽन्तिमवार्तां कथयिष्यामि, सर्वस्मिन् प्राप्ते सति पूर्णताऽवशिष्यते, सर्वस्मिन् समुपसंहृतेऽपि समारम्भोऽवशिष्यते। कस्यारम्भ:, कस्य च समाप्ति:? य: सृष्टि:, स एव प्रलय:, य: प्रारम्भ:, स एव विलय:। स महाकाल:, सोऽनादि:, सोऽनन्त:।
यथा गन्धवाह: पुष्पगन्धमाहरति, तथैव कस्य मधुरं गन्धमनुसृत्य जीवो देहमिमं त्यजति? कुत्र गच्छति? कुतश्चायाति?
कामक्नोधलोभादयो नरकस्य द्वाराणि। हे ईश्वर! अन्ते किमु नरकवास:! किन्तु कथम्?
मृत्यो: शीतलहस्तकृताया जीवात्मनो जडतायाश्चरमक्षणं यावज्जीवनस्यावशिष्टां गाथां वक्तुं कृतेऽपि प्रयत्ने किमु संशयस्य समाप्ति: सम्भवेत्? हिमालयस्य मेरुगिरे: स्वर्णरेणव: शनै: शनैश्चरणतलादपसरन्ति। पदाभ्यां कोऽपि सम्प्रति न प्रतीयतेऽनुभव:। याननुसरन्तौ कोमलचरणाविमौ रुधिरं प्रवाहयत: स्म, व्यथेते स्म च, तेऽग्रेसरन्त: क्वाप्यदृश्यतां गता:। सकृदपि 'अहह’ इति वदन्त: परावृत्त्य नापश्यन्। 'अहह’ इति पदमात्रेण तेषां स्वर्गप्राप्ति: किमु बाधां प्राप्स्यत्? क ऐच्छत् स्वर्गम्? कस्याभीष्टमासीत् राज्यम्? कस्य बत काम्यमासीद् युद्धम्? सर्वेषां कारणानां कारणभूते कस्मिंश्चिदेकस्मिन् सत्यपि दोषान् समस्तान् मय्याविष्कृत्य ते सर्वे गता मृत्युद्वारि मामेकाकिनीं विहाय।
निर्बोधशिशवे क्रीडनकं प्रदाय परस्मिन् क्षणे तस्माद् बलादाकृष्य हरणस्येव सर्वं दत्त्वा सर्वापहरणस्य कथमिदं प्रहसनम्? यो हस्तौ प्रसार्य याचते, तं प्रतारयितुमुचितम्। परन्तु य: किमपि न याचते, तस्मै प्रतारणमिदं नैष्ठुर्यातिरिक्तं किमन्यत् स्यात्? य: क्षरात् पृथक्, अक्षरादपि श्रेष्ठ:, य: पुरुषोत्तम:, य: समस्तदेयपदार्थानां दाता, य: परमानन्दस्याधिकारी, स: कथमेवमन्यै: सह क्रीडति? स: कथं वा निष्ठुरो भवेत्? य: समस्तजडजीवात्मनामन्तस्तिष्ठति—स: कस्मै ददाति? कस्माच्चापहरति?
अनुक्रमेण पदाभ्यामारभ्य प्राणा: सन्त्यजन्ति माम्। ये सहैव मयाऽऽसन् ते स्वर्गमार्गेऽग्रे प्रस्थिता:। महाशून्यवक्षसि सर्वं शून्यमिवानुभूयते। तथापि घृतदुर्गवत् सम्पूर्णजीवनस्य सञ्चितोऽभिमानो मृत्युमार्गे निस्स्यन्दते। प्रश्नात् परं पुन: प्रश्नो हृदयतटे बलादिव समुद्भवति। तथाप्यन्तिमकथाऽवशिष्टा। पत्रं तु 'इति’ पदेन समाप्तं मया। विलयमार्गे मुहूर्त्तं मुहूर्तमग्रेसरन्ती पुनरेकवारं तत् पठितुं प्रक्रमे। अनन्ताऽव्यया जीवनजिज्ञासा प्रायेण सृष्टेरस्या रहस्यम्। अत: जीवने सत्यामपि विस्तृतायामनुभूतौ जीवनं सुखदु:खसम्पन्मिलनविरहजन्ममरणादीनां रहस्य एवावतिष्ठते। हृदयरुधिरेण स्वलिखितमिदं पत्रमद्य मे मृत्युमार्गसहचरम्। स्वलिखितमिदं पुनर्वाचयन्त्या मे यद्यात्मा शरीरं विहायापगच्छेत्, तदा ज्ञास्यसि यत् पत्रस्यास्य ग्राहकस्त्वमेव—
प्रियसख! गोविन्द! पुरुषश्रेष्ठ! मधुसूदन! तुभ्यं कृष्णाया: प्रणाम:।।
समग्रस्य व्यतीतजीवनस्य यावन्तोऽभिमाना:, यावन्तोऽभियोगाश्च, ताँस्ताँश्चाद्यान्तिममुहूर्त्ते वेदयामि। अन्यथा जीवने पश्चात्तापोऽवशिष्येत।
धर्मरक्षार्थमाजीवनं कियती यातना न मयाऽङ्गीकृता! मया चिन्तितमासीद्यन्मदीयपातिव्रत्यधर्माचरणकारणाभ्यां पतिभि: समं स्वर्गगामिनी स्यामिति। किन्तु गिरिराजहिमालयस्य पवित्रपाददेशे स्वर्णरेणुं पद्भ्यां स्पृशन्ती स्खलिताऽहमपतम्। मम पञ्चपतय: सकृदपि पृष्ठत: परावृत्य मां नापश्यन्।
अपितु युधिष्ठिरो धर्मराजो भीमसेनमादिशत्—''अलं पृष्ठतो विलोक्य। अन्वायाहि’’।
तस्यानेन वाक्येन मे हृदयं सहस्रधा दु:खेन मुहुर्विभक्तम्। अहमन्वभवम्—कियान् मिथ्यात्मकोऽयं पतिपत्नीसम्बन्ध:, परस्परं स्नेह:, प्रेमा, त्याग:, उत्सर्गश्च! यदि कोऽपि स्वीयं कर्मफलं स्वयं भुङ्क्ते, तर्हि पत्युर्युधिष्ठिरस्य धर्मरक्षार्थमहं सर्वस्वं पञ्चपतीनां पादेषु समर्प्य समग्रसंसारस्योपहासं, व्यङ्ग्यं, निन्दामपवादञ्च कथमुरीकृतवती?
द्वापरयुग: समाप्तप्राय:। अभिमन्युतनयस्य परीक्षितो हस्तिनाराज्याभिषेकात् परमयमारम्भ: कलियुगस्य। पञ्चपतिव्रतानां मध्येऽन्यतमं कच्चिन्मे स्थानं स्यात्। एतेन कलियुगजनता मामुपहसिष्यति। वक्ष्यति च—द्वापरे यदि पञ्चपतिका द्रौपदी पतिव्रता भवेत्, तत: एकपतिव्रतपालनं किमावश्यकम्? काऽपि कलियुगनायिका पञ्चपतिवरणेन पतिव्रता कथं न स्यात्? द्रौपदी यौनविकारग्रस्तानामुच्छृङ्खलानां नराणामामोदोपादानमुपहासमयमेव भवेत्। पञ्चपतिनायिका द्रौपदी स्वपातिव्रत्याय कथमात्मानं तिलशो दग्धीकृतवतीति न कोऽपि श्रोष्यति। तदानीं द्रौपदी सम्पत्स्यते निन्दितात्मा, काचित् कलङ्कितगाथा नायिका। हे कृष्ण वासुदेव! त्वमेवेच्छामय:। त्वदिच्छया द्रौपद्या जन्मन आरभ्य मृत्युं यावन्मार्गोऽतिक्रान्त:। त्वदिच्छयाऽपि द्रौपद्या नेत्रमुन्मिषितं निमिषितं च, प्रश्वासश्चासादित:। अतस्तदीयनिन्दाया: प्रशंसायाश्च किञ्चिदपि किं तुभ्यं न प्राप्यमस्ति?
अद्य हृदयस्य क्षतस्थानेभ्यो निस्सरता रुधिरेण पवित्रहिमालयस्य प्रस्तरहृदये द्रौपदी लिखति स्वीयजीवनगाथाम्। एकदा त्वं विपन्नपृथिव्या उद्धाराय पवित्रहिमालयमार्गेण धरायामवतरिष्यसि। तदाऽनिर्वापिताक्षरै: रचितां रक्तरञ्जितां द्रौपद्यात्मकथां पठिष्यसि। सकृद् भवतु नाम, कृपया 'अहह’ इति वक्तुमर्हसि। तदेव भविष्यति मे चरमोपलब्धि:।
त्वमन्तर्वित्। किं वा तवागोचरम्? तथापि मुखमुद्घाट्य कथनं विना तव कर्णरन्ध्रे आर्तस्वर: क्वचिन्न प्रविशेदिति सर्वमामूलात् तुभ्यं प्रस्तौमि। यत्त्वया ज्ञातं, यस्य त्वं कर्त्ता, तत् सर्वं तुभ्यं निजस्वरेण श्रावयामि।
कालो मां देवीद्रौपदीरूपेण परिणमयेत्। किन्तु, अहं नश्वरशरीरेण मर्त्यमानवीरूपेण धरापृष्ठे आगताऽऽसम्। मम पञ्चपतयोऽपि मर्त्यमानवा:। अस्माकं कर्त्ता कृष्णद्वैपायनेन व्यासदेवेनाहं देव्यासनमधिरोहिता। तस्य दृष्ट्याऽहं दिव्यर्शिनी। मम पञ्चपतिवरणस्य पृष्ठभूमौ मत्पूर्वजन्मनि शिववरदानस्य गाथा तेनाऽपि पूर्वं प्रकाशिता। किन्तु, नाहं देवी, न च जातिस्मरा। अत: मृत्युस्रोतसि प्रवहन्त्यद्य यत् कथयिष्यामि, सत्यमेव कथयिष्यामि। मम जीवनगाथा कस्याश्चिदपि मानव्या जीवनचरितातिरिक्ता नान्या काचित्। पत्रस्यास्यानिर्वाणाक्षराणि पठित्वा मज्जीवने व्यतीतां समस्तां रोमाञ्चकरीं घटनामनुध्यायन्त: कलियुगस्य मानवा अवश्यं विचारयिष्यन्ति यद्—द्रौपदीलाञ्छना कस्मिन्नपि युगे न कयाप्यन्यया नार्याऽऽसादिता, नापि सोढा। भाविनि चैतादृशी न कयापि सहिष्यते। दिष्ट्या न कोऽपि सहतामिति कामये।
हे सखे! कुरुसभायां लाञ्छिता पञ्चपतिषु विश्वासं विसृजन्ती सकलसाध्वसं विहाय हस्तयुगलमुत्तोल्याहं त्वामेवाकारितवती। तुभ्यं चात्मानं समर्पितवती। सम्प्रत्यपि मृत्युपथे मामसहायां विहाय गतेषु तेषु मम समस्तं दु:खं, निर्यातनां, लाञ्छनां, हाहाकारं च तुभ्यं निवेदयामि। यद्यहं न स्वयं मदीया, तर्हि कथं वा स्यान्मे दु:खं मामकम्?
हे सर्वज्ञेश्वर श्रीकृष्ण! किं वाऽगोचरं तव? त्वया ज्ञातपूर्वां मे जीवनगाथां पुनरप्येकवारं वर्णयामि। मुक्तहृदयतया प्रकाश्यमानं दु:खं लाघवं याति। सर्वाभिर्घटनाभि: सहोन्मुक्ततया मम दोषान्, दौर्बल्यानि, त्रुटी:, भ्रान्तीश्चोद्घाटयामि। तत्कारणाद् यदि संसारो मां सदोषां कुरुते, तर्हि अहं निरुपाया। अहं मानवी, न तु देवी। नाहं त्रुटिभ्रान्तिभ्यो बहि:। एतत्कारणात् स्वर्गमार्गोऽवरुद्धो मदर्थमिति मन्ये।
समय: समाप्तिं सरति। शरीरं विक्षतम्। हृदयं द्विधा भिन्नम्। रुधिरं वहति। तेन सह प्रवहन्ती निस्सरति ममोन्मुक्ता जीवनगाथा। मृत्युकाले मनुष्यो यद्यत् कुरुते, यद्यद्वा वदति, तत्सर्वं तन्नियन्त्रणाद् बहि:। अत एतावतां दिवसानां मनोवेदना: सञ्चिता अद्यानियन्त्रितास्त्वत्पदतलार्घ्यवत् संसारसम्मुखे परिवेषयामि। हे गोविन्द! आत्मकथाया: समाप्ते: पूर्वं मम भावनां कृपया न निस्स्पन्दीकुरु। माऽऽपादय व्याघातं मे स्मृतिशक्तौ। मा चार्पय मां मृत्यवे। कृपया ममात्मकथां समापयितुमवसरं प्रयच्छ। मृत्युद्वारोपस्थिताऽहमेतावन्मात्रं प्रार्थये।
कुत: श्रीगणेशं करोमि मे जीवनगाथाया:? किं मे जन्मन:? मम जन्माप्येको व्यतिक्रम:। युवतीकलेवरेणाहमुत्पन्ना। यज्ञवेदी हि मे जननी। याज्ञसेनश्च मे पिता। अतोऽहं याज्ञसेनी।
अहं पाञ्चालराजकन्या द्रुपदनन्दिनी द्रौपदी।
(२)
द्वापरयुगे कुरुपाञ्चालाधिकृता भूमिरार्यावर्तस्य प्राणकेन्द्रमासीत्। भरतवंशधराणां कुरूणां राजधानी हस्तिनापुरी गङ्गानदीतटदेशे गर्वगौरवयोश्चूडां चुचुम्ब। पाञ्चालराज्यस्य राजवंशधरा: केनापि गुणेन कुरुभ्यो न्यूनतरा नासन्। कुरुपाञ्चालानां मध्ये परस्परं प्रतिद्वन्द्वित्वमासीदिव।
मम पितुर्बाल्यसखा द्रोणाचार्य: कुरुपाण्डवानामस्त्रविद्यागुरु:। पूर्वं स एकदा कयाऽपि प्रार्थनया राज्ञो द्रुपदस्य द्वारस्थो बभूव। पिता मे तद्दिने तमुपहसन्निदमुवाच—भिक्षुको ब्राह्मण: कश्चित् कस्यचन राज्ञो मित्रं सम्भवेत् कच्चित्? सत्यां समतायां बन्धुत्वं सम्भवति।
अपमानितो द्रोणाचार्यस्तत: प्रत्यागत: हस्तिनापुर्यां कुरुपाण्डवानामस्त्रगुरुरूपेण न्ययोज्यत। तस्य हृदये तदपमानं हुताशनवद् ज्वलति स्म। पाण्डुपुत्राणामस्त्रशिक्षासमाप्ते: परं गुरुद्रोणाचार्यो दक्षिणारूपेण द्रुपदं बद्ध्वा स्वपदतले उपस्थापयितुमादिदेश।
तृतीयपाण्डवोऽर्जुनो द्रोणाचार्यस्य प्रियतम: शिष्य:। धनुर्विद्यायामर्जुन: पारदृश्वा। राधापुत्रकर्णातिरिक्तो न कोऽपि धनुर्विद्यायामार्यावर्ते तत्समकक्षो योद्धा। पाण्डवै: पाञ्चालराजद्रुपदनिग्रहो नैव कष्टकर आसीत्। द्रोणाचार्यस्य प्रियशिष्योऽर्जुनो मम पितरं महाराजं द्रुपदं निगृह्य तत्समक्षमुपास्थापयत्।
द्रोणाचार्य: पितुरपमानं तस्मै प्रत्यर्पयन् उपाहसत्—''राजैव राज्ञो मित्रं युज्यते। किन्तु, त्वमधुना हृतराज्यो नि:स्व:। अतोऽद्यारभ्य गङ्गाया उत्तरतटवर्ती पाञ्चालराज्यार्धभागो मदीय:। दक्षिणभागस्याधीश्वरस्त्वमेव। अस्ति किमु काप्यापत्तिर्बन्धुत्व आवयो: सम्प्रति?’’
निरुपायो राजा द्रुपदस्तद्दिने राज्यार्धं हित्वा द्रोणाचार्येण सह कपटमैत्र्या हस्तं मेलयित्वा स्वराज्यं प्रतिजगाम। पाञ्चालोत्तरभाग आसीदधिकर्द्धिसम्पन्न:। तस्याधीश्वरो बभूव द्रोणाचार्य:।
क्षत्रिय: किमु कदाचिदप्यपमानं विस्मरति? राज्यं विहाय भाग्यादरं कुरुते? यद्येवम्, तेन क्षात्रधर्मोल्लङ्घनम्।
द्रोणनिधनेन द्रुपदापमानं प्रशमं यास्यति। परन्तु द्रोणपक्षे महायोद्धारो भीष्मकर्णशल्यजयद्रथदुर्योधनदु:शासनादयोऽनेके। तै: सहापि हस्तिनाराज्यस्य शस्त्रास्त्राणि, सैन्यबलं च। द्रोणहन्ता वीर: पाञ्चालेषु को वा स्यात्?
द्रोणान्तकसुतप्राप्तये राजा द्रुपद: काश्यपौ ऋषी उपयाजयाजौ सेवया सन्तोषयाञ्चकार। पुत्रलाभाय याजेन यज्ञ: कारित:।
यज्ञकाले होमाग्नेरजायताग्निसमस्तेजोवान् पुत्रो धृष्टद्युम्नो मे सहोदर:। यज्ञवेदीमध्यात् समुत्पन्ना निन्दितेन्दीवरकान्तिरतीव सुन्दरी ललनाऽहं याज्ञसेनी।
मम सुन्दररूपं यथाऽहं वर्णयामि, तन्नैव मद्दृष्ट्या। अपि तु मां विलोक्य यदपरे वदन्ति, तदेव कथयामि।
अहं कृष्णा। नीलकमलकुड्मलनिभा मे देहकान्ति:। सागरलहरिकेव घननीलोर्मिला कवरी। नीलोत्पलोपमं चञ्चलोज्ज्वलं बुद्धिदीप्तमायतं मनोहारि च मे नयनयुगलम्। विश्वस्य श्रेष्ठतमाकृतिकारनिर्मितनिर्दोषप्रतिमाया इव मेऽनिन्द्या मुखशोभा। चारुसङ्घटनाऽङ्गलतिका। दीर्घो देह:, तुङ्गं सुवृत्तं वक्षोजयुगलम्, क्षामो मध्यभाग:, रम्भास्तम्भनिभ ऊरु:, चम्पककलिकोपमा: कराङ्गुलय:, रक्तकमलदलकोमलं करतलम्, पदयुगलञ्च। मुक्तामालेव दन्तपङ्क्ति:। विद्युदुद्दीप्ता हास्यरेखा। चन्द्रलेखाशोभा: करचरणनखा:। शरीरस्य पद्मगन्धेन मधुकरा मतिहीना: पुष्पोद्यानं विसृज्येव मे चतुर्दिशं भ्रमन्ति। मम कुञ्चितकवरीसौन्दर्येण बद्ध: पवन: स्थिरीभवतीव। कवयो वदन्ति—यतिमतिहारिणी मे शारीरशोभेति।
शुक्लवसनं परिधाय शुक्लमुकुटेन मस्तकमलङ्कृत्य शुक्लशतदलै: शरीरं मण्डयन्ती यदाऽहं प्रफुल्लसरोजिनीव यज्ञवेदीं भित्त्वाऽऽविर्भूता, तदा ममाङ्गानि यौवनभारनतानि। मामवलोक्य यज्ञवेदीं परित उपविष्टा जितेन्द्रिया मुनय: स्तम्भीभूता:। मन्त्रानुच्चारयन्तस्तेषामधरा: कम्पिता:, जडतां च लेभे कण्ठस्वर:। युवसन्न्यासिनोऽपि कतिपये हृतचेतना अभूवन्। स्थिरीभूता: क्षणाय लतापादपादय:। किं बहुना, यज्ञकुण्डाग्रिशिखाऽपि निष्कम्पाऽप्रसरा बभूव। मन्ये, महाकालोऽपि स्तब्धो मुहूर्ताय!
किं वा वर्णयेयं निजरूपम्! पितु: सभाकवयो वदन्ति—''अस्या वरनार्या रूपं यावद् वर्ण्यतां नाम, तावत् किमप्यवशिष्यते। यावज्जीवं काव्यरचनायामप्यलब्धोपमस्यास्या: सौन्दर्यस्योपमा केवलं कृष्णैवेयम्।’’
मम जन्मकाले शून्यवाणी आकाशादुदचरद्, या मुनिभिरश्रूयत। ऋषिर्याज: पितरमुवाच—''कन्येयं तवापमानप्रतिशोधाय समुत्पन्ना। तव प्रतिज्ञापूरणायेयमाविर्भूता। कन्ययाऽनया पृथिव्यां धर्मरक्षा सम्पत्स्यते, क्षत्रियाश्चानेके नङ्क्ष्यन्ति। इयं भविष्यति कौरवनाशिनी।’’
ईश्वरप्रदत्तमासीन्मेऽपूर्वलावण्यमयमेकं शरीरम्, प्रीतिपूर्णं विशालं हृदयञ्च। सुरम्ये नयन उन्मील्य प्रीत्या यावदहं सुरम्यां पृथिवीमवालोकयम्, तावत्तपस्विनो याजस्य वाणी कर्णगोचरीबभूव। पुन: पुन: प्रतिध्वन्यते स्म—''जन्म मे न पितुरौरसम्, अपितु तत्प्रतिज्ञापूरणायायोजितयज्ञवेदीत:। उत्पत्ते: पूर्वं पितुरपमानस्य प्रतिशोधायाहं प्रतिज्ञया बद्धेव। पृथिव्यामस्यां धर्मरक्षार्थं दुष्टनाशनाय चाहमस्त्ररूपेणाविर्भूता।’’ अचिन्तयम्—काले काले पृथिव्यां धर्मरक्षार्थं दुष्टनाशनार्थं च कस्या अपि मादृश्या नार्या माध्यमता किमपरिहार्या? नारी किमु सृष्टिलययो: कारणम्? एकदा लङ्काध्वंसाय रामराज्यप्रतिष्ठार्थं च सती सीता माध्यमीबभूव। तदर्थं जीवने सर्वसुखभोगान् विसृज्य साऽभवदरण्यवासिनी। दुष्टरावणस्य च पापाशा तामशोकवनेऽवरुद्ध्य भृशं लाञ्छनां दु:खञ्चादात्। अन्त्ये धरायां धर्मप्रतिष्ठा समजायत। रावणविनाशस्य लङ्काध्वंसस्य च सीतैवासीदेकमात्रं कारणम्। रामराज्यं प्रतिष्ठितम्। श्रीमद्रामचन्द्रस्य जन्मोद्देश्यं पूर्णतामाप। अन्त्ये तु सतीसीतया किमासादितम्? रामेण पुरस्कृतं निर्वासनम्! सर्वेषां च समक्षं सतीत्वपरीक्षार्थमग्निपरीक्षा! सीतालाञ्छनया धरित्री द्विधा विभक्ता। सीता च स्वदु:खं, त्रपामपमानं, लाञ्छनां च गोपयितुं धरित्रीगर्भे चिरं विवेश।
एवं चिन्तयन्त्या मे हृदयं चकम्पे। धर्मरक्षायै कौरवनाशनाय च मे जन्मेति सुखकल्पनयाऽऽत्मानं विस्मरन्त्या मे मनस्यज्ञातसंशयकालमेघ उदियाय सहसा। नेत्रे निमील्य साञ्जलि प्रार्थितवती—''हे ईश्वर! पृथिव्या धर्मसंस्थापनाय यदि मम समुत्पत्ति:, तर्हि तदर्थं यावद्दु:खमपमानं लाञ्छनां च दित्ससि, देहि, परं तानि सोढुं शक्तिमपि प्रयच्छ।’’
ध्यानरतां मे मूर्त्तिं विलोक्य पिता मुमुदे। मम शिरसि आशीर्वादकरं वितीर्यावोचत्—''याज्ञसेनि! त्वं हि पित्रपमानप्रतिशोधाय जाता। एतदर्थं धृष्टद्युम्नोऽपि। सम्पादिता यज्ञक्रिया मे सार्थकीभूता।’’
स्पर्शः पितु: पादौ स्पृशन्त्यहमुक्तवती—''तात! भवदिच्छापूरणाय स्यान्मे दुहितृधर्म:। आशीर्वदतु भवान्।’’
पिता न किमप्युच्चचार। तन्नेत्राभ्यामश्रुधारा निपतिता मम मस्तके। द्रोणापमानप्रतिशोधाग्निस्तदानीमपि तस्य हृदि जज्वाल। अहं प्रत्यजानि—सत्यामावश्यकतायां तमग्निमहं स्वजीवनाश्रुबिन्दुभिर्निर्वापयिष्यामीति।
आवयोर्नामकरणसंस्कारोत्सवोऽनुष्ठित:। मम भ्राता कवचेन कुण्डलाभ्यां च साकं जात:। अत्यन्ततेजस्वित्वगुणास्तस्मिन् स्पष्टं विद्योतन्ते स्म। याजर्षिरुवाच—''पुत्रोऽयमग्निगर्भादुत्पन्न:। अनेनैव यशस्करेण पुत्रेण द्रोणनिधनं भवेत्। अतोऽसौ धृष्टद्युम्नाभिध: स्यात्।’’
मां च सस्नेहं विलोक्य स आह—'द्रुपददुहितुरस्या: श्यामाङ्गिन्या: श्रद्धाभिधानं 'कृष्णा’ एव स्यात्।’
''कृष्णा, कृष्ण:—कृष्णा, क्रियद्रमणीयम्!!’’
मम पितैतावन्मात्रमुच्चार्य नीलाकाशे दृष्टिं निधाय भावाविष्टोऽभूत्। तन्मुखमण्डलेऽपूर्वानन्दस्याभा विद्योतिता। तदानन्दो मन्मुखमण्डलमनुसञ्चरित:। अचिन्तयम्—कोऽयं कृष्ण:, यस्याभिधानमियदमृतमयम्!
तातपादा अस्पष्टमाहु: — ''हे कृष्ण! कृष्णामहं तुभ्यं समर्पयिष्यामि। त्वमेवार्यावर्तस्य पुरुषश्रेष्ठ:, वीरश्च। धर्मसंस्थापनं हि तव जीवनस्य परमं लक्ष्यम्। त्वमेव गर्वगञ्जनो गोविन्द:। तुभ्यं कृष्णासमर्पणेन त्वमेव मे हृतसम्मानप्रत्यावर्तनसहायक: स्या:। तदर्थं तु कृष्णाया एवाविर्भाव:!’’
एकेनाप्रकाश्यरोमाञ्चेन शरीरं मे रोमाञ्चितमभूत्। प्रत्यङ्गमतुलं पुलकम्। समग्नार्यावर्तस्य श्रेष्ठ: पुरुष:, श्रेष्ठो योद्धा, धर्मसंस्थापकश्च न कया कन्यया बत काम्य:!
एतदतिरिक्ता न मे काऽपि पृथक्कामनाऽस्ति मनसि। पितुर्य: काम्य:, सोऽपि ममाभीष्ट एव। क्षणात् पूर्वमहं पितु: पुरस्तात् प्रतिज्ञाबद्धा। अतोऽहं कृष्णसमर्पिता अन्यथा याजर्षिरेवं नामकरणं किमर्थमकरिष्यत्?
कृष्ण:—कृष्णा! कयाचिन्निसर्गपवित्रमधुरप्रेमधारया हृदयं मे आप्लावितमभूत्। आनन्दाश्रुभिर्नेत्रे प्रपूरिते। अथ च नाहं जाने—कोऽयं परमपुरुष: कृष्ण इति!
(३)
नितम्बिनी मे प्रियसखी। एकदा सान्ध्यसमीरणं सेवमानाऽपृच्छमेकान्ते सखीमुद्याने—'क: कृष्ण:?’
सखी मां वक्रनयनाभ्यामैक्षत। वक्राधरे हास्यरेखां स्फुरयन्ती मां पप्रच्छ—''कृष्णेन किं प्रयोजनं कृष्णाया:?’’
अहं निर्मलं हसन्त्यवदम्—''पितु: सकाशाच्छ्रुतं मया—''न केवलं कृष्णाया:, कृष्णेन तु सर्वेषां प्रयोजनम्।’’
कृष्णाया: किमपि विशिष्टं प्रयोजनं स्यात्—अधरोष्ठमग्रदन्तैश्चर्वन्ती सस्मितमुक्तवती नितम्बिनी।
शान्तेनैव स्वरेणाहमवोचम्—श्रुतपूर्वं मयेदं यत्—धरित्रीमातुरेकदा प्रयोजनविशेषेण कृष्णो धराधाम्न्यवातरदिति।
गण्डस्थलं मे आकर्षन्ती नितम्बिनी गभीरया गिरोवाच—'सखि! विस्मर कृष्णं मद्वचनात्।’ अहं विचलितस्वरेणापृच्छम्—'कथमेतत्’?
''अवश्यमङ्गीकुरु मे वच:। इदमपि सत्यं यत् कृष्णे प्रज्ञाशौर्ययोरस्ति महामिलनम्। स च दूरदर्शी, कूटनीतिज्ञ:, भक्तिमान्, कर्मवीरश्च। सोऽपि विकचकमलदलसुन्दरो निर्मलश्च। स आर्ताभीष्टं पूरयति, स्नेहं च प्रतियच्छति। स एकस्माद्धस्ताद् गृह्णाति, प्रयच्छति तु सहस्रबाहुभि:। तस्य हृदयं सुमहत्। सोऽद्वितीयवीर:, परमपुरुषश्च। किन्तु—’’
''किन्तु—’’ अहं साश्चर्यमपृच्छम्।
''स लम्पट:। षोडशसहस्रगोपाङ्गनास्तस्य प्रेमिका:। नारीहृदयं जेतुं स इयान् पारङ्गतो यत् पतिं, पुत्रं, संसारं च विहाय गोपवध्वस्तन्मोहनवंशीस्वनं निशम्य यमुनातटेऽभिसरन्ति। अयं तु तस्य कैशोरप्रसङ्ग:। अधुना तु स प्रजापालक:, धर्मज्ञ:, द्वारकाधिपतिश्च।’’
अचिन्तयमहं मनसा—सर्वेषां श्रेष्ठगुणानां योऽधिकारी, तदर्थं पतिं संसारं च विहाय तन्मोहमूढता स्त्रीणां नितान्तं स्वाभाविकी। षोडशसहस्रमुत शतसहस्रं नार्यो यदि कृष्णप्रेममूढा: स्यु:, तर्हि तस्य को दोष:? मनसैच्छम् सकृत्तं परमपुरुषं कृष्णं नयनविषयीकर्तुम्। किम्भूतं तद्रूपम्?—इति जिज्ञासया नितम्बिनी परिहसिष्यति। जिज्ञासाबिन्दुमिमं पर्वतीकृत्य सखीनां पुरस्तात् प्रस्तोष्यति। मां कोपयन्त्यस्ता: पर्याकुलीकरिष्यन्ति मे प्राणान्। बिन्दुमिमं पारोक्ष्येणापृच्छम्—'कृष्णस्य वंशानुचरितं जानासि वा?’
अहसन्नितम्बिनी। अवदच्च—''वंशं कामयेते पितरौ। कन्या तु रूपं वरयते। कृष्णरूपवर्णनाकर्णनेन त्वं मूर्च्छां यास्यसि। तत: पुन: प्रकृतिस्था सती प्रलपिष्यसि—कृष्णं विना जीवनं वृथा। सद्य: कृष्णमादाय देहि, नोचेद् देहमिमं त्यक्ष्यामि। तत: किमहं कुर्याम्?’’
अहं स्वप्नाविष्टेव कृष्णरूपकल्पनायामात्मविस्मृता तदानीम्। कल्पना हि मे वयस: सहचरी। वयस्यस्मिन् क: कल्पनां नाश्रयते? कल्पनायां सुखमन्विषति जन:। सर्वेषां कल्पना नैव सर्वथा सत्यायते। कल्पना नैव सत्यायत इति को वा कल्पनां विहाय जीवति?
कृष्णकल्पनायामहमात्मानं व्यस्मरम्।
कृष्णतमाललताकुञ्जे उपविष्टे नितम्बिनी अहं च। नीलाकाशस्य रङ्गोऽस्तसूर्यस्पर्शरञ्जितो मम चरणयोर्लाक्षाधारायां प्रतिफलति। उद्यानसरस: स्वच्छसलिले खेलन्ती कुमुदिनी शनै: शनैॢवकशति। अभिसारिकाया भीरुपदपातनमिव निश्शब्दशङ्कितशैल्या चन्द्रिकामन्विषत् कुमुदिन्या एकैकं दलं मुकुलितं भवति। सन्ध्याकाशे कतिपयनीलमेघशकलानि चन्द्रिकाया: पन्थानमवरुध्येव कुमुदिन्या सह कौतुकं रचयन्ति। मयूरचन्द्रिकाभि: सहैव मम हृदयमपि न जाने, केनापि कारणेन नृत्यति स्म।
अहं चिन्तयन्त्यासम्—कृष्ण: कीदृश:? प्रायेण नीलतमालाभो नीलमेघवद्वा तद्देहवर्ण: स्यात्। नीलकुमुदनिभं निर्मलं कोमलं च तन्नयनयुगलं, दृष्टिचातुर्यञ्च। मयूरचन्द्रिकानीलोज्ज्वलास्तस्य केशा:। तस्याधर: पुन:? किमु अगस्तिपुष्पसम ईषद्वक्र: सुन्दरश्च? कमलकोरकाणीव तत्करपदानि। नीलमाकाशमिवोदारं प्रशस्तं वक्ष:स्थलम्, वासन्तकोकिलकूजनतुल्यो मन्दमधुरस्तस्य कण्ठस्वर:। चम्पकसुरभिस्तद्देह:, तद्वच्च श्यामल: कोमलो बलिष्ठो दीर्घश्च..................
सम्मोहितेवाहं शृणोमि स्म नितम्बिन्या वर्णनाचातुरीपरिपूर्णं कृष्णरूपशोभाप्रसङ्गम्।
नितम्बिनी मां कटाक्षेण तीर्यगवेक्ष्य निष्ठीवनं निगीर्याह—अपि च कृष्णबाहुबन्धनस्यानुभव:, कृष्णप्रेम्णो मादकता च मधुपानमिव।
मदग्रस्तेवाहं निपतामि नितम्बिन्याश्रये। समग्रं शरीरं मे कम्पते, विचित्रावेगच्छन्दसा च हृदयं स्पन्दते। नैवं कदापि पूर्वमनुभूतं मया। कोऽस्याशय:? कथमेवं सम्भवति?
अशृणोम्—नितम्बिनी कर्णे भाषते—''कृष्णप्रेमा..........इदं तस्यैव लक्षणम्। हे भगवन्! किमहं सम्प्रति कुर्याम्?’’
लताकुञ्जे सा मामस्वापयत्। पुष्करिण्यामवातरज्जलमानीय मां संज्ञापयितुम्। तदानीं तु नाहं हृतचेतना, अपि तु सर्वमवगन्तुं क्षमा कस्मिंश्चित् स्वप्नसंसारे विचरामि स्म। यत्र कुत्रापि पश्यामि केवलं नीलं—नीलं कृष्णनीलम्—समग्रं विश्वं कृष्णमयम्—प्रेममयम्—मधुमयम्। केवलं सर्वत्र विलोकयामि, विश्वमय: कृष्ण:—कृष्णमयं विश्वम्।
नितम्बिन्या मन्मुखे जलसेचनात् पूर्वं नीलमेघात् कतिपयबिन्दवो मेऽधरेऽपतन्। मम कम्पितशरीरे एकैकशो निपतन्ति कृष्णतमालपुष्पाणि, मां च रोमाञ्चिततरां सम्पादयन्ति। गृहमयूरो मे मुखं परित: पुच्छं विकीर्य वीजयति। अहं शनै: शनै: प्रकृतिस्थाऽपि लज्जया म्लायामि। अहह, नितम्बिनी किं चिन्तयेत्?
सख्या जलेन सह मत्सविधे समागमनात् पूर्वमहं लज्जया नयने पिधाय पूर्ववन्निषण्णा। किन्तु जलाञ्जलिना सह सा नीलकमलिनीयुगमपि आनीतवतीत्यहं जानामि। अहह, नितम्बिनी कथमवचितवती पुष्पद्वयमेतत्? चन्द्रिकाया मधु पिबन्त्यौ हसेतामारात्रं कुमुदिन्यौ। नितम्बिन्या निर्दयतयाऽहं क्षुण्णा। सा मन्मुखे जलं सेषेच। सम्प्रत्युत्थायोपवेष्टुं मे न काऽपि बाधा। तथाप्यहं नोत्थिता, नेत्रे च नोन्मीलितवती। तत्र प्रथमं कारणं त्रपा, द्वितीयं तु कुमुदिन्यवचयान्नितम्बिन्यै कोप:।
नितम्बिनी नीलकुमुदिनीदलानि शनैर्मे मुखमण्डलेऽस्पर्शयत्। अधरोष्ठं दन्तैश्चर्वन्ती कण्ठं मिष्टीकृत्य मम कर्णान्तिके मन्दमाह—''जाने, कृष्णस्य सञ्जीवनीस्पर्शं विना रोगस्योपशमो नास्ति ते। किन्तु सखि! द्वारकानिवासिनं गोविन्दं सद्य: कुतो लप्स्ये? अत: कृष्णनाम स्मरन्ती कुमुदिनीद्वयीं ते हृदि स्थापयामि। एतावता सम्प्रति त्वं चेदसुस्था, न चोत्तिष्ठसि, तर्हि पिता द्रुपदो राजवैद्येन सहोद्याने प्रवेक्ष्यति। नीलाञ्जना वार्तां हृत्वा राजभवनं गताऽस्ति। महाराजस्य पुरस्तात् किमहं रोगकारणं ब्रूयाम्?’’ एतावदुक्त्वा नितम्बिनी नीलकुमुदिन्यौ मे वक्षस्यस्थापयत्। अहं प्रसूनयुगलं गाढमाश्लिष्योक्तवती—''अहह, हला! कुसुमद्वयं किमर्थं त्रोटितम्?’’ तद्द्वयं कोमलकरबन्धेन धृत्वाऽहमुत्थिता। नितम्बिनी सहसोदतिष्ठत्। मन्दमाह च—''महाराज इत आयाति। तमनु कोऽयं द्वितीय:?’’
अहमवगतवती यदयं नीलाञ्जनाया एव प्रपञ्च:। ममास्वास्थ्यसमाचारस्तया पित्रे प्रदत्त:, पिता च राजवैद्येन सह सहसा समागत:। ममात्यल्पमपि कष्टं पिता न सहते। अधुना किं वक्तव्यं मया? कृष्णस्य रूपवर्णनां शृण्वन्त्यहं मूर्च्छितेति नितम्बिनी प्रकाशयेच्चेत् पितु: पुरस्तात् किं करवाणि?
लज्जाधोमुखी उपविष्टाऽहम्। मनसा च नीलाञ्जनायै कुप्यामि। तुच्छं चेमं समाचारं पित्रे निवेदयितुं काऽऽवश्यकताऽऽसीत्? मनसाऽहं क्षुब्धा। औषधिं प्रति मे भूयसी वितृष्णा, राजवैद्यं प्रति च। अत: रोगशय्यायां राजवैद्यं विलोक्याहमसन्तुष्टा भवामि बहुश:। बहुकष्टेन ते ग्राहयन्त्यौषधिम्।
अशृणोम्—पितृपादा: सस्नेहं ब्रूवन्ति, सर्वरोगनिदानभूत: श्रीकृष्णो यत्रोपस्थितस्तत्र राजवैद्येन किम्? मा किमपि चिन्तयितुमर्हसि वत्से!
चारुचम्पकसुगन्धेनोपवनं सौरभसमन्वितम्। आकस्मिक उन्मत्त: समीरण: कतिपयकृष्णतमालकुसुमानि मदुपरि पातयन् सहसाऽपसृत:। तत्समीरणप्रवाहितं मयूरपिच्छमेकं कुतश्चिदुड्डीय मदङ्के चापतत्। मम समग्रं शरीरं पुलकितम्। कुत आयात: शिखिबर्ह:? मयूरौ मे तु बहुकालाद् दूरीभूतौ।
पिता सस्नेहमवादीत्—''श्रीकृष्णस्याशीर्वाद: स्वीक्रियतां जाते! त्वं यत् परमसौभाग्यवतीत्वं गच्छसीति तस्यायं पूर्वाभास:।
केकिपुच्छं संस्पृश्य कदाचित् पुनर्मूर्च्छिता स्यामिति भयेनाहं तद् भूमिभागान्नोत्थापितवती। नितम्बिनी मे मनोऽन्तर्गतं जानाति। सा तत् पुच्छमतियत्नेनोत्थाप्योक्तवती—''एतत् किल तव कवितापुस्तके निधास्यामि।’’ धिक्, नितम्बिन्या विवेकज्ञानं किञ्चिदपि नास्ति। अहं कवितां लिखामीति कृष्णस्य पुरस्तात् किं नितान्तं ज्ञापनीयम्? यस्य चरणरजसा विश्वमिदं काव्यमयं सम्पद्यते, मम कवितारचनां निशम्य स किं चिन्तयेत्? अधिकञ्च, पिताऽपि किं मन्येत?
मयाऽऽकर्णितं यत् पिता मामुद्दिश्य निर्दिशति—''कृष्णस्य पदवन्दनां कुरु वत्से! सद्य एव द्वारकात: समागत:। त्वदीयां रुग्णतां विज्ञाय मया सहोद्यान उपस्थित:।’’
मम हस्ते रमणीया विकसिता नीलकमलिनीद्वयी, मम नयनयो: पुरतश्च पितु: पादयो: सविधे नीलकोमलं कोरकितं चरणकमलयुगलम्। किमहम्, विश्वस्य श्रेष्ठ: काव्यकारोऽपि तत् पदयुगं वर्णयितुमवश्यमक्षम: स्यात्। न जाने, तच्चरणयुगले का सम्मोहनशक्ति: सन्निहिताऽऽसीत्, तया यन्त्रचालितेवाहं कुमुदिनीयुगलं तत्पदयो: समप्र्याश्रुजलेन प्रक्षालितवती।
प्रथमदर्शने कृष्णस्य पदद्वन्द्वमात्रं वीक्षितुमहं शक्ता। पितृपादै: सह श्रीकृष्णो राजभवनं प्रत्यावर्त्तित:। तस्यादृश्यतां यावदहं ध्यानमग्रेव भूमौ निषण्णा। नेत्रे उन्नमय्य न किमप्यवलोकितं मया। नितम्बिनी मां हस्तेनाक्षिप्यावदत्—''सखि, किं कृतं भवत्या? वक्षसि स्थापिते कुमुदिन्यौ कृष्णस्य चरणाभ्यां समर्पिते? इदानीं किं कुर्या:?’’
तदुक्त्या विह्वलिताऽहमवोचम्—''वद नितम्बिनि, किमहं कुर्याम्?’’
तद्रजन्यां तौ चरणौ वर्णयन्ती कविता अनेका अहं विरचितवती। तथापि मनो मे न शान्तिं भेजे। अचिन्तयम्—''यस्य चरणवर्णनं मे सामर्थ्यात् परम्, तस्य मुखम्, नेत्रे, अधरम्, व्यक्तिं च वर्णयित्वा कां वा कवितामहं लिखानि? अथवा नैव रूपयितुं शक्ष्यामि चेत्, पुन: कवितारचनाया: किं मूल्यम्?’’
सर्वेषामन्त:करणे कविता वर्त्तते। कोऽपि रचयति, कोऽपि तु नैव। अहं किन्तु रचयामि, यदा यापि भावना मनसि प्रविशति, तदा तामेव रूपयित्वा। मम समुचितशिक्षार्थं पितृपादै: सर्वा व्यवस्था: कृता:। अहं विदुषी, भूयसी मे ज्ञानपिपासेति मम शिक्षागुरव: पितृपादान् सूचयन्ति। स्वल्पेनैवावधिना मया शास्त्राण्यनेकान्यधिगतानि। गणितशास्त्रम्, गृहविज्ञानम्, चित्राङ्कनम्, पाक:, पुष्पसज्जा, अतिथिसत्कार इत्यादिविद्यासु निपुणाऽहमासम्। प्रत्येकं विभागे शिक्षादानाय पितृपादैर्नियोजिता: पृथक् पृथक् गुरव:। परन्तु कवितारचनाशिक्षादानाय न कोऽपि। कवितानिर्माणाय मे मन एव मत्प्रेरकमासीत्, मम कल्पना हि कवितारचनाशिक्षयित्री। अत इयं विद्या मे स्वीया कला। पितृपादास्तत् कथं वा जानीयु:?
अस्माकं राजभवने बहुश: शास्त्रचर्चा प्रवर्त्तते। काव्यकवितानां सङ्गोष्ठ्योऽपि समायोज्यन्ते। बहव: पण्डिता: कवयो विद्वांसश्च तातनिमन्त्रणेन चर्चाचक्रे उपविशन्ति। सर्वमेतदायोज्यते केवलं मदर्थम्। यतोहि तातपादा जानन्ति यन्नृत्यगीतामोदप्रमोदापेक्षया सर्वमेतन्मह्यं रोचतेतराम्। अहमपि प्रत्येकं सङ्गोष्ठ्यामुपाविशम्। विदुषां साहाय्येन ममानेकसन्देहान् दूरीकारयामि स्म। मम ज्ञानपिपासां समापयितुं चेच्छामि। परन्त्वनन्ता मे ज्ञानपिपासा। तस्या: समाप्तिरेव नास्ति।
एकदा कृष्णद्वैपायनात् शास्त्राण्यवगच्छन्त्यत्यन्तं भावप्रवणतयाऽपृच्छम्—''भगवन्त:! समग्रसंसारे यावन्ति शास्त्राणि, ग्रन्था:, ज्ञानानि च विद्यन्ते तान्यायत्तीकर्त्तुं मम सकलं जीवनं यदि पर्याप्तं न स्यात्, तर्हि किमहं करवाणि?’’
वेदव्यासो हसन् जगाद—''तवाभिधानं कृष्णाया: स्थाने 'तृष्णा’ इति समुचितमभविष्यत्। वत्से! तृष्णा दु:खदायिनी, किन्तु ज्ञानतृष्णा केवलानन्ददायिनी। ज्ञानतृष्णा सहस्रजन्मस्वपि न शाम्यति। जलपानेन तृष्णा दूरीभवति, किन्तु ज्ञानपानेन ज्ञानतृष्णा बलवत्तरा सम्पद्यते। शान्तायां च तृष्णायां ज्ञानस्य मार्गो रुद्धो भवति। अनन्तसमयस्य तटभूमौ ज्ञानस्य क्षुद्राश्चित्रविचित्राश्च शुक्तिका विप्रकीर्णा एकत्रीकुर्वद् जीवनं समाप्तिमाप्नोति चेत्तदेव जीवनं सार्थकम्।’’
अहमनेनाह्लादिताऽपृच्छम्—''यावन्तो ग्रन्था मे गुरुभि: प्रदत्तास्तान् पठित्वा तद्बोधश्चाहृतो मया। कतमं ग्रन्थविशेषान्तरं पुन: पठेयम्?’’ वेदव्यास: सम्मितमुवाच—''ज्ञानाहरणाय किं ग्रन्थाभावोऽस्ति? विशालमिदं विश्वं हि श्रेष्ठो ग्रन्थागार:। आकीटाणुभूताण्वादिभ्यो ग्रहनक्षत्राणि यावद् विश्वकर्तु: प्रत्येकं सर्जना तस्यैव ग्रन्थागारस्यैकैको महान् ग्रन्थ:। अस्या: पृथिव्या धूलिकणिकाभि: सह प्रत्येकं मुहूर्तस्यानुभव एव तेषां ग्रन्थानामेकैकं पत्त्रम्। अत: जीवनस्य प्रत्येकमनुभूतिरेवाध्ययनस्य वस्तु। पृथिव्यां शास्त्रकारा:, पण्डिता:, काव्यकारा:, ऋषय:, मुनय:, विद्वांसश्चाजीवनमधीत्यापि तस्या रहस्यमुन्मोचयितुं न शक्ता:। वत्से! तव सम्प्रति ग्रन्थपठनमनावश्यकम्। आरभ्यतां जीवनाध्ययनम्। जीवनस्य महत्त्वं प्रतिपाद्यताम्। पृथिव्यामस्यामीश्वरो यस्मिन् शरीरे स्पन्दनं संन्यसति, तत्पृष्ठभूमौ किमपि महदुद्देश्यं निहितमस्ति। साधारणजीवनयापनं ते न जन्मोद्देश्यम्। तव जीवनेऽनेका विचित्रा रोमाञ्चकराश्च घटना: समुचितं समयं प्रतीक्षमाणा इव सन्ति। तदानीं ते जीवनस्य चरमाध्ययनमावश्यकं स्यात्। तत्र साफल्यार्जनायात्मानं प्रस्तुहि।’’
महामुनिर्वेदव्यासो भविष्यद्रष्टा। मज्जीवनसम्बन्धिनी तद्भविष्यवाणी निस्सन्देहं फलिष्यति। जीवनविषये मम नानाकल्पना मनस्युपस्थिता:। ता: कल्पना: कवितासु रूपयन्ती स्वात्मतृप्तिमलभे।
किन्तु, अद्यतनानुभूतेर्भाषया कवितारूपायनं न मे शक्त्यधीनम्। याऽनुभूतिरजराक्षरैर्हृदये कवितायते, तां लेखन्या स्फुटीकृत्यान्यै: रचयितुमसम्भवम्। तत्रेदं कारणम् तस्या: कविताया: प्रत्येकं पङ्क्ते: स्पन्दनं निजस्वम्, एकान्तनिजस्वम्।
(४)
सूर्योदयो न जात:। परन्तु मे निद्राभङ्ग: जात: कस्यचन सुमधुरकण्ठस्य काकलीविशेषेण। कर्णपुटं तदभिमुखीकृत्याशृणोम्—मम शयनकक्षद्वारदेशे मधु वर्षति। कृष्णकृष्ण इति को जपति प्रत्युषात्? मन: स्थिरीकृत्यैकाग्रतया विज्ञातुं प्रायते, कस्येदं सुमधुरकृष्णनामभजनम् इति।
कृष्णकृष्णकृष्ण—मम हृदयद्वारि प्रतिध्वन्यते कृष्णनाम। स्वरोऽयं हृदयान्मे निस्सरति, अथवा कोऽपि कक्षाद् बहिरुच्चैर्जपति? उभयं प्रायेण सत्यम्। हृदयाभ्यन्तरे कृष्णनाम श्रूयते, बहि: पुन: कोऽपि कृष्णकृष्ण भजते। मया द्वारमुद्घाटितम्। मम भवनाद्बहिश्चत्वरे लोहितवर्णो विकीर्णो दृश्यते। अद्यतन: सूर्योदयस्तु स्वतन्त्र:। अस्मिन्नस्ति कोऽपि विशेष:। परन्तु को गायति कृष्णनाम?
कृष्णकृष्णकृष्ण इति सुमधुर: स्वर: प्रवहति रत्नपञ्जराभ्यन्तरात्। ममातिप्रियसारिका कृष्णनाम भजति। ह्यो रात्रौ सखी नितम्बिनी कृष्णस्य जन्मवृत्तान्तं, बाल्ये तस्यालौकिकार्यावलीं, कैशोरे तस्य गोपिकाप्रीर्तिं, राधामानभञ्जनम्, यौवने रुक्मिणीहरणञ्चेत्यादिविषयान् प्रास्तौत्। सा कृष्णस्य यावतो दुर्गुणान् व्याहरत् तावती मे श्रद्धा तस्मै व्यवर्धत। चिन्तितवती—द्वादशवर्षवयसि यो गोकुले सर्वेषां प्रियोऽभूत्, स गोपीरञ्जनश्चेत् का क्षति:? गोपिका: किमु गोकुलवासिभ्य: पृथक्? यद्यपि रुक्मिीणीसत्यभामातिरिक्ता: सहस्रं तस्य दारा द्वारकायां सन्ति, तथापि तासां स्वीकारो धर्मरक्षणाय, नारीमर्यादारक्षार्थं च।
य: कृष्णो नीलकान्तमणेरप्युज्ज्वलतर: स: कदापि कलुषितो नैव सम्भवेत्। य: कृष्णो विश्वरञ्जन: स चेन्मनोरञ्जनस्तत: का क्षति:?
सारिका नीलमणि: गतरात्रौ नितम्बिन्या सह मे कथोपकथनं निशम्य कृष्णनामभजनमारब्धवती। जाने, सा कृष्णाया अन्त:स्वरं स्वकाकल्या प्रतिध्वनयतीति।
रत्नपञ्जरमुद्घाट्य नीलमणिं प्रेम्णा हस्तादरं नीतवती। तत्कण्ठस्वरात् स्वस्वरं कोमलतरीकृत्यावदम्—''नीलमणे!’’ साऽभजत्—कृष्णकृष्णकृष्ण। अहं पुनर्मधुरस्वरेणावदम्—''नीलमणे!’’
—कृष्णकृष्ण।
—नीलमणे!
—कृष्णकृष्ण।
अहं तां यावदाकारयामि, सा कृष्णनाम्ना तावत् प्रत्युत्तरति। यथा नीलमणिं प्रति मम स्नेहस्य समुचितं प्रतिदानं हि तदीय: कृष्णनामजप:। यतोहि सम्प्रति कृष्णनाम मामधिकमानन्दयति। परन्तु, अद्य नीलमणिरवागच्छदिदं कुत:?
अहं कृत्रिमरोषं प्रकटयन्त्यवदम्—''नीलमणे! तूष्णीं भव। साऽपि मां परिहसन्तीवाब्रवीत्—''कृष्णकृष्ण’’।
—''तूष्णीमाचर नीलमणे!’’
—''कृष्णकृष्ण।’’
—''अहह, मां मतिभ्रष्टां सम्पादयसि किम्?’’
पृष्ठे काऽपि कलकलं हसति। तया सह नीलमणिरपि। सखी नितम्बिनी पृष्ठत उपस्थिता। ममोन्मुक्तकवरीं सज्जयन्ती साऽऽह—''प्रात:कालात् कृष्णनामजपमारब्धवती! सम्पूर्णो दिवसो यदवशिष्ट:! अहमकस्मात्तां निरीक्ष्य सकोपमभाषे—''ममेयं प्राणप्रिया सारिका नीलमणि: प्रातरुत्थाय कृष्णकृष्ण इति भजन्ती जलमपि न स्पृशति। अहं तामेव निवारयन्त्यासम्।’’
नितम्बिनी नितम्बभागौ चालयन्ती मम पुरत आगता। गण्डस्थलं म आकुञ्च्योवाद—''उँ..........तव प्राणानां नीलमणिस्तु कृष्ण एव! य: कृष्ण: स एव नीलमणि:। कृष्णस्य नीलमणिरिति श्रद्धानामान्तरम्। त्वं तु शय्यात्यागमात्रेणैव नीलमणे नीलमणे इत्याक्रन्दसि।’’
अहमत्यन्तमाश्चर्याभिभूता लज्जया परिष्कृतवती, ''अहह, किमहमेतावज्जानामि? नीलमणिरिति तु नाम मे सारिकाया:। किमहं कुर्यां बत—’’
''सारिकाया नामकरणं भवत्यैव कृतमासीदराजकुमारि!’’—नितम्बिनी नेत्रे नर्त्तयन्त्युक्तवती। अहं पराजितेवाब्रवम्—''आम्, मयैव तत्कृतम्। किन्तु न जाने, अनेकेष्वभिधानेषु नीलमणिरित्यधिकं किमर्थं मह्यमरोचतेति। यदा मे सारिकाया नामकरणोत्सव आयोजितस्तदा राजकविर्बहूनां नाम्नां सूचीं प्रादर्शयत्। परन्तु तेषु कथमिदं मे कर्णयोरतिमधुरमश्रूयतेति न जाने।’’
''सखि, तथैव संयोगेन भवति। अन्यथा सत्स्वनेकेषु नामसु त्वदीयं नाम कृष्णा कथमभविष्यत्? परन्तु, तव कण्ठे नीलमणिरित्यावाहनमियन्मधुरं यत्—’’
नितम्बिनीसंलापं रुद्ध्वाऽहमवोचम्—''अद्यैवेदम्प्रथमतया श्रुतं किमु त्वया? प्रतिदिनं सारिकां नीलमणेनीलमणे इति कियद्वारं सादरमावाहयामि, किं तस्याकलनं त्वया न कृतम्?’’
नितम्बिनी मुखं म्लानं चक्रे। साऽप्युवाच—''तव कण्ठे 'नीलमणे’ इत्यावाहनं न मह्यं नवीनम्। किन्तु, य: परमातिथिरतिथिभवने सम्प्रति विश्राम्यति, तस्मै नवीनम्। किन्तु, सखि! अतिथिनिद्रायां व्याघातापादनं सर्वथाऽनुचितम्।’’
अहं किञ्चिद् विचलिता जिज्ञासितवती—''किं कथयसि? किमर्थमहं कस्यापि निद्रां व्याहन्मि?’’
नितम्बिनी चक्षुषोर्दुष्टकटाक्षपातेन न्यगदत्—''तवाह्लादप्लुतेन निलमणीत्यावाहनेन सह नीलमणेर्मधुरं कृष्णनामभजनमतिथिभवने एतावद् गुञ्जितं यद् दीनो वास्तविको नीलमणि: पुष्पसौरभेण पथभ्रष्टो मधुप इवास्थिरो भवति। स इदं नावगन्तुं शक्नोति यत् का हृदयस्थसमस्तममतारससिक्तकण्ठेन तं सादरमाकारयतीति। सखि! सत्यं यद् दूरात्तव नीलमणेश्च स्वरयोरन्तरं नैव कर्त्तुं शक्यते। अहमागच्छन्त्यासम्। कृष्ण: पप्रच्छ—''कस्या अयं स्वर:?’’
अहमकथयम्—''सख्या: स्वर इव श्रूयते। कृष्णोऽहसत्। बाढं सखि! तां हास्यरेखां विलोक्य का वा दाम्भिका नारी धैर्यं धारयिष्यति बत! इदं तु शोभनं यत्त्वया हास्यं तन्न प्रत्यक्षीकृतम्।’’
अहं लज्जया म्लानाऽभूवम्। कृष्णेन किं चिन्तितं स्यात्? तर्जयन्तीव तामहमवदम्—''अहं मे सारिकामावाहयामीति त्वया कथं न सोऽवगमित:?’’ नितम्बिनी मृदु हसन्त्याह—''यावत्तेन जिज्ञासितं, तावदेव मयोत्तरं दत्तम्। एतावन्महापुरुषाय बलादिवाधिकमप्रकृतं च वक्तुं क्व मे साहस:?’’
अहं मन्दस्वरेणापृच्छम्—''अन्यत् किं किं जिज्ञासितं श्रीकृष्णेन?’’
नितम्बिनी उवाच—''कृष्ण: पप्रच्छ—तव सखी रात्रावपि न निद्राति किमु? सूर्योदयादपि पूर्वं नीलमणेनीलमणे इति भजते! तत्कण्ठस्वरे आलस्यस्य चिह्नमपि न परिलक्ष्यते। अतिसुमधुर: स्वर:।’’ अहं व्याजेन नितम्बिन्यै कुपिताऽपि, मे मनोऽभ्यन्तरे स्वप्नमायैका निकटायते स्म, मां च विचित्रपुलकेनाच्छादयति स्म।
नितम्बिनी मां हस्तेनाकृष्याह—''प्रसङ्गो न समाप्त:। अधुना तु ते स्वात्मविस्मृतिस्तमुपलक्ष्य नोचिता।’’
अहं प्रकृतिस्था जाता। सा सस्मितमभणत्—''कृष्णोऽवदत् यत् तव सखी मां स्मरतीति विज्ञायाहं प्रसन्नतां गत:। तस्यै मे नु धन्यवादो ज्ञापनीय:।’’
अहं लज्जाहतेवाचिन्तयम्—''धिक्, सारिकेयं नीलमणिर्मामद्य प्रमाद आपातितवती। कृष्णाय स्वमुखं कथं दर्शयेयम्?’’
रोषेण रत्नपञ्जरद्वारमुद्घाटितं मया। निस्सारितवती नीलमणिं बहि:। अवदमपि—''याहि, बहिरपसर। त्वमिदानीं मुक्ता। अहमपि। नीलमणिरुड्डी्याभ्रमन्मे गृहाङ्गणे। असकृन्नीलमणिरेवं मयाऽपसारिता। सा तु तावद् भ्रमति मां परित आगत्य। स्वयं पुनरागत्य मण्डयति रत्नपञ्जरम्। अधुनाऽपि तथैव स्यादित्यचिन्तयम्। किन्तु नीलमणि: क्षणेन कृष्णकृष्ण उच्चार्य दूरमपससार। नीलाकाशेऽदृश्याऽभवत् क्रमश: सूक्ष्मबिन्दुरूपतामासाद्य। उपस्थिता मे मनसि भावना—किमु नीलमणिर्मम कृत्रिमरोषमनवगम्य मां वञ्चयित्वा वनं पलायिता? नीलमणिं विना दिनानि मे कथं गमिष्यन्ति? का पुनर्मे मनोभीष्टं वृत्तं श्रावयिष्यति?’’
नितम्बिनी मे द्वन्द्वमवगम्य मां प्राबोधयत्—''सखि, मा चिन्तयितुमर्हसि किमपि। नीलमणिरिति यस्याभिधानं स कदापि न प्रवञ्चयति। मन्ये, नीलमणिस्त्वां किञ्चिद् भाययितुं दूरं गता। नोचेत्, कुत्रचिदपि सन्धानं कृतं सहचरस्य। सहचरे लब्धे सति रत्नपञ्जरमोहस्तुच्छो जायते, यथा सहचरचिन्तया रत्नपल्यङ्केऽपि निद्रा नायाति। सखि, निशा त्वयाऽनिद्रया व्यतीतेति प्रतीयते। नयनयुगले ते तु गतरात्रिस्वप्ना अद्यापि भासन्ते। सुनिद्राऽभावेन किं मनुष्य: स्वप्नं पश्यति?’’—नितम्बिनी वस्त्राञ्चलं दन्तैश्चर्वन्ती चपलबालिकेव जहास।
चतुरा किल नितम्बिनी। प्रसङ्गं भङ्ग्या कुत: कुत्र प्रापयतीत्यहं सुष्ठु जानामि। अद्य तु तस्याश्चातुर्यकौतुकमङ्गीकर्त्तुं न शक्ता। नीलमणिचिन्तयाऽहं विषण्णा।
अत्रान्तरे नीलमणि: कुतश्चिदुड्डीय मम स्कन्ध उपविवेश। चञ्चुपुटे किमपि धारयन्त्ययासीत्। तन्मे कवर्यां संन्यवेशयत्। मम कर्णान्तिकेऽगायत्—कृष्णेकृष्णेकृष्णे—
नितम्बिनी मे कवरीं सविस्मयं निरैक्षत। परन्तु किमत्र विस्मयेन? अभिमानं मे चूर्णयितुं नेयं नीलमणे: काऽपि नवीना रचना। प्रतिवारं सा चञ्चुपुटेन पुष्पगुच्छं धृत्वाऽऽयाति। मम केशेषु निवेशयति। किन्तु कदापि 'कृष्णे’ इति नैव वदति। सा सर्वदा राजकुमारीति सम्बोधयति। प्रतिवारं कर्णे कथयति—''राजकुमारि! राजकुमारि!! राजकुमारि!!! कुप्यसि कच्चित्?’’ नितम्बिनी वारं वारमेवं पृच्छति। नीलमणिस्तत एवाधीतवती। परन्त्वद्य सा कृष्णे इत्यावाहनं कुतो ज्ञातवती?
अहं नीलमणिं धृतवती पाणिना। किमपि वक्तुमहमिच्छामि, तदानीं नितम्बिन्यब्रवीत्—''सखि! कृष्णस्य बुद्धिविलासोऽवगतो न वा?’’
—''किमकरोत् कृष्ण:?’’
—''नीलमण्यै कृष्णानामभजनमध्यापितवान्।’’
—''कथम्?’’
—''त्वमत्र कृष्णकृष्ण इति भजसि। सोऽपि कृष्णेकृष्णे इति जपति। नीलमणिस्तदन्तिकादागत्य कृष्णेकृष्णे इति मुहुर्मुहुर्भजति।’’
अहं नितम्बिन्यै तदालापाधिक्याद् बहुश: कुप्यामि। अद्याप्यहं कुपिता तर्जितवती ताम्—''नीलमणि: कृष्णान्तिके गतेति किं प्रमाणम्?’’
''इयं तव कवर्या अगुरुचन्दनसुरभितं शिखिपुच्छम्।’’—एतावता नितम्बिनी तदानीय मन्नासाग्रे सञ्चारयन्ती गण्डस्थल्यां मेऽस्पर्शयत्।
अहं सपुलकविस्मयं स्थिता। वस्तुत इदमस्मत्पालितमयूरेषु नैव कस्यचित्। इदं तु नीलवर्णं, सान्ध्याकाशघनसुन्दरं विस्तृतञ्च। अगुरुचन्दनगन्धसम्भव: कुतोऽस्य पुन:?
कृष्ण: कच्चिन्मे नाम सस्मार? काऽहं तस्य? द्वारकायां सन्ति तस्य प्राणप्रिया: धर्मदारा अष्टौ पटमहिष्य: सत्यभामारुक्मिणीप्रभृतय:। का नामाहं श्यामाङ्गिनी कृष्णा? स कथं मां मनसा स्मरतु? अहं तस्मायर्पितेति तमन्विषामि। स कथं मां स्मरेत्? भगवच्चरणारविन्दयो: प्रतिदिनं पुष्पाण्यगणितानि समर्प्यन्ते। भगवान् किमु तेषां सङ्ख्यां जानाति? कण्ठपुष्पं भगवत: शोभां वर्धयति। तत्सौरभं भगवान् जिघ्रति। चरणपुष्पं तु भूमौ लुठति।
अहमेवं चिन्तयामि—पितुर्निर्देश आयात:, कृष्णदर्शनाय प्रस्तुता भव। आशीर्वादेन सनाथीकुर्वन् कृष्णो द्वारकां प्रतिगमिष्यति।
अहं प्रस्तुताऽभवम्। उपवनस्य सुन्दरतमपुष्पाणां माला कृष्णाय मया ग्रथिता। पुष्पमालया तत्पदवन्दनाय पितुर्निर्देश:। अलमिह लज्जया। पिता कोपिष्यतीत्यहं जानामि। अत: सत्वरं प्रस्तुताऽहम्। किन्तु मम रूपाभरणादीनि तदुचितानि नैव प्रतीयन्ते। यस्य चरणयुगलमियन्मनोहरम्, तस्य नयने कियती कमनीये न स्याताम्! तत् कमनीयं नेत्रयुगं किं मे रूपं, भूषां च ग्रहिष्यति? दर्पणस्य पुरत: स्थिताऽहं पुन: पुन: पृथक् पृथक् शाटिकां परिधाय परिवर्तयामि, आभूषणान्यपि। किन्तु न किमपि मे मनोऽनुरूपतां याति। चिन्तितवती—अनयो: कमनीयचक्षुषो: सम्मुखीना भवितुं यदि मे जन्म, तर्हि रूपं मे विधाता रमणीयतमं न व्यधात् कुत:?
निजरूपाभरणादिभ्य: कुप्यन्ती अष्टालङ्कारान् शरीरान्निस्सारितवती। सुवर्णकौशेयवस्त्रं देहान्निस्सार्य प्रतिदिनं व्यवह्रियमाणं शुभ्रं वसनं पर्यधाम्। पराजितेवोपविष्टा पल्यङ्के। उक्तवती—''नितम्बिनि! केन रूपेण कृष्णं द्रक्ष्यामीति न जाने। ननूपायं ब्रूहि।’’
नितम्बिनी ममांसे पाणिं न्यधात्। सस्नेहमुवाच—''सखि! त्वं तावत् पृथिव्यां सुन्दरीललामभूता। श्रीकृष्ण: पृथिव्यां सुन्दरतम: पुरुषश्चेदलं चिन्तया। यदि कृष्णोऽनन्ताकाशनीलिमा तर्हि त्वं तस्य शोभां वर्धयित्री सान्ध्या मेघरेखा। स यदि नीलजलस्तडागस्तर्हि त्वं तस्य हृदये कुमुदिनी धवला। स च शस्यश्यामल: संसारश्चेत् त्वं तत्र तरङ्गिता नीलशैलश्रेणि:। सोऽपि शान्त: सुनीलो विशालश्च सागरश्चेत् त्वं तत्र कोमलगात्रा शैवालिनी। उभयोर्नास्ति परस्परं न्यूनाधिकता। एकोऽपरस्य शोभां वर्धयति।’’
अहमचिन्तयम्—नितम्बिन्याश्चाटुवाक्यं किमु सत्यम्?
अत्रान्तरे शङ्खनादोऽभूत्। नीलाञ्जना सत्वरं मत्कक्षे प्रविश्यावदत्—''महाराज: सम्मेलनप्रकोष्ठे प्रतीक्षते। श्रीकृष्णस्य द्वारकायात्रायै रथोऽपि सज्ज:। तद्दर्शनाय शीघ्रमुपस्थीयताम्’’ इति।
शरीरं सज्जीकर्त्तुं नासीदवसर:। अहं पूर्णतो निराभूषणा। रजतकौशेयमपि परिधातुं नावशिष्ट: काल:। तथैव तदवस्थायां निर्गता। सिक्तकवरीविन्यासायाप्यवसरो नास्ति। उन्मुक्तकेशा नितम्बौ स्पृशन्तस्तरङ्गं सृजन्ति। तान् प्रति न तदा मे लेशमात्रोऽपि भ्रूक्षेप:।
नितम्बिनी मां विलोक्याह—''यां विधाता सौन्दर्यशिल्पोत्कर्षेण विभूषयति, तस्या वसनभूषणै: किं प्रयोजनम्? सत्यं वदामि सखि, तवायं पूजिकावेषोऽत्यन्तं मनोहारी। गोपीवल्लभ: कृष्णो द्वारकां सधैर्यं प्रतिगमिष्यति नु?’’
अहं न किमप्युत्तरितवती। पितृपादा: कदाचित् प्रतीक्षमाणा: कुप्येयुरित्यहं चिन्तिता।
नितम्बिन्या सह सम्मेलनप्रकोष्ठेऽहमुपस्थिता। अहं स्वचरणावेव पश्याम्यनन्यदृष्टि:। नेत्रे उत्तोल्य कृष्णरूपदर्शनाय मे नोत्पद्यते साहस:। तस्य मनोहारिणीं रूपज्वालां न सोढुं शक्ष्यामि चेत् किं नाहमपमानहता भवेयम्!
मम कृष्णाय प्रणामनिवेदनात् पूर्वं स सुमधुरं समभाषत—''देवि कृष्णे! त्वत्कारणात् पृथिव्यामनेके दुष्टा नङ्क्ष्यन्ति, धर्मश्च स्थापयिष्यते। त्वं शक्तिमयी नारी, सर्वसुलक्षणसंयुक्ता च। धर्मस्थापनरक्षणे च मे जीवनपण:। तवापि जन्म तदर्थकम्। अत: मत्प्रणामं स्वीकुरु।’’
पिता सश्रद्धमाह—''तदर्थं तु मया कृष्णा कृष्णचरणारविन्दयो: समर्पितपूर्वा। नामकरणकालात् सैषा श्रीकृष्णायार्पिता। हे कृष्ण! कृष्णायै पादपद्मयो: शरणं दत्वा कृतार्थयतु माम्।’’
अहं नतमुखी कृष्णस्य नीलकमलनिभं चरणयुगलं विलोक्यात्मानं विस्मृतवती। जाने, कतिपयक्षणेष्वहं तत्रात्मानमपि समर्पयिष्यामीति। तदानीं कृष्णस्तच्चरणावपासारयत्। शान्तमधुरस्वरेण चाह—''राजन्! नैव कृष्णा साधारणनारी। तत्परिणयस्वयंवरमायोजयतु। आर्यावर्त्तस्य श्रेष्ठतमो वीरो हि कृष्णाया: योग्यतम: पुरुष:। कस्यापि पादतले उपयाचिकारूपेण तस्या: समर्पणकामनया भवान् तदपमानं कुरुते। तस्या योग्यतमपुरुषरूपेण य आत्मानं स्वयं प्रमाणयिष्यति, स केवलं तत्पाणिग्रहणायोपयुक्तो भवेत्।’’
व्याकुलिता: पितृपादा: पप्रच्छु:—''हे श्रीकृष्ण! आर्यावर्ते श्रेष्ठो वीरो भवदन्य: क: स्यात्? अभिमते पुरुषे कृष्णे सति स्वयंवरस्याकारणस्यायोजनं किमर्थम्? भवति सति स्वयंवरे कृष्णामङ्गीकर्त्तुं कस्यान्यस्य शक्तिर्बत वर्त्तते?’’
—वर्त्तते, सा शक्ति: कृष्णातिरिक्तस्य कस्यचिद् वर्त्तते। अत: विना स्वयंवरं कृष्णापाणिग्रहणाधिकारो न कस्याप्यस्ति। एतावता कृष्णो मृदुमधुरमहसत्। तस्य तत् स्मितं कस्या अपि तरुण्या हृदयं निर्मथ्य तत्र सञ्चितममृतमपहर्तुं यथाऽभिप्रेतमासीत्! सखी मामिङ्गितेन प्रेरयति स्म मम हस्तस्थितां वनमालां कृष्णकण्ठे समर्पयितुम्।
अहमपि तदेवेच्छामि। अथ च तत् कर्त्तुं न पारयामि। तदानीमहं कृष्णप्रेम्णा नोन्मत्ता, अपि तु वशीभूता। अत्रान्तरे तातपादा अपृच्छन्—''क: स:? कस्तस्य परिचय:? श्रीकृष्णातिरिक्तो यो मे प्राणाधिकाया: कन्याया: योग्यतम:?’’
कृष्ण: सस्नेहमाह—''हरिहरविधातृविडौजसां समूहशक्त्या पृथिव्यामेको महापुरुषोऽवतरितोऽस्ति। स मध्यमपाण्डवोऽर्जुन:, मत्पितृस्वसाया: पुत्र:, वयसा मत्त एकेन वर्षेण कनीयान्। न केवलमेतावत्, अपि तु आवयो: पितृवंश: समान:। स च मत्कलयोत्पन्न:। सोमवंशराजस्य ययाते:, शुक्राचार्यकन्याया देवयान्याश्च जातो राजा यदु:। स एव मे पितृपुरुष:। ययाते:, तद्द्वितीयपत्न्या दैत्यराजवृषपर्वकन्यायाश्च शर्मिष्ठाया गर्भाज्जात: पुरु:। स तु कौरवपाण्डवानां पितृपुरुष:। हे राजन्, अर्जुनस्य वीरत्वं न त्वयाऽविदितम्। सति तस्मिन्नाहं कृष्णायै योग्यतम: पुरुष:। अर्जुनो न केवलं ममानुज:, अपितु स मेऽन्तरङ्ग: मित्रं, प्रिय: सखा च। आवयो: शरीरे पृथक्, आत्मा त्वेक एव। त्रिभुवने वीरपुरुषमर्जुनं जामातृरूपेणासाद्य भवानवश्यं यशस्वी भविष्यति, भवतोऽपि प्रतिज्ञापूरणं सम्भविष्यतीति नात्र सन्देह:।’’
पितृपादा उत्फुल्लिता बभूवु:। यो वीरपुरुष एकदा द्रोणाचार्याज्ञया तान् युद्धे बबन्ध, स पुन: स्यात् तज्जामाता! तस्य बाहुबलेन द्रोणाहङ्कारश्चूर्णीभविष्यति। जामात्रा निजापमानस्य प्रतिशोधं करिष्यति महाराजो द्रुपद:। यं वीरपुरुषं शिष्यरूपेणाप्य द्रोणाचार्य इयान् गर्ववान्, तस्य द्रुपदजामातृत्वेन द्रुपदो द्रोणाचार्यस्य पुरस्ताद् गर्वेण मस्तकमुन्नमय्य तिष्ठन् वक्ष्यति—''द्रोण! अद्य यावन्मम जामातृत्वेनोपयोजयितुं त्वयाऽर्जुन: श्रेष्ठवीररूपेण निर्मित:। सर्वश्रेष्ठस्ते शिष्यो मम जामाता स्यादिति त्वया यदि पूर्वमज्ञास्यत तर्हि कदापि तस्मै सर्वमपि युद्धकौशलं नैव त्वयाऽदास्यत। सम्प्रति मे जामाता त्वां पराजेतुं समर्थ:। अतस्त्वं चिराय मे शरणापन्न एव स्या:।’’
तातपादानां भावना तन्मुखे दीप्तिं तनोति। कृष्णो वाऽर्जुनो वा, तेषां जामाता वीरश्रेष्ठ एव स्यात्। द्रोणापमानप्रतिशोधायार्जुनो यदि समर्थ: स्यात्, तर्हि तस्यात्र काऽऽपत्ति:?
परन्तु किं मया करणीयम्? यां वनमालां प्रातरुत्थाय पवित्रहृदयेन कृष्णाय ग्रथ्नामि स्म, साऽर्जुनायार्पणीया? पुन: कृष्णेच्छया?
मम स्वीया काऽपीच्छा नास्ति, न चाशा, नाप्याकाङ्क्षा। यतोहि यज्ञहोमसम्भूताऽहं याज्ञसेनी। मम जन्मजीवनमरणानि कस्याप्यन्यस्य निदेशेन परिचलन्ति। किमर्थमहं सम्भूता? किमर्थं जीविष्यामि? किं निमित्तं मृत्युं भजिष्यामीत्येषामुद्देश्यं न जानामि। अज्ञानं हि मे सम्प्रत्यालम्बनम्। मम विषण्णं चिन्तितं च मुखमण्डलमवलोक्य श्रीकृष्ण: सुमधुरमुवाच—''देवि! द्रौपदि! पितु: शत्रुनाशाय तवाविर्भाव:। न केवलमेतदर्थमपितु पृथिव्यां दुराचाराणां विनाशाय। बाह्यशत्रून् जेतुं स्वाभ्यन्तरशत्रून् स्वेन्द्रियाणि जय। निजकामनावासनाचित्तहृदयबौद्धिकविचारादीन् धर्मसंस्थापनायोत्सृज। महत्तरस्वार्थपूर्त्तियै क्षुद्रतरस्वार्थस्त्याज्य: किल। एतद्धि जीवनस्य महत्त्वं प्रतिपादयति।’’
अहं ज्ञातवती—कृष्णो हि धर्मप्रवर्तक:।
तस्मिन्नेव क्षणेऽहमात्मानं कृष्णाय समर्पितवती। मनसा च ज्ञापितवती—''हे कृष्ण! मत्कर्म मामकं न चेत्, मत्कर्मफलमपि न मदीयम्। नाहं वेद्मि किमपि। महत्तरस्वार्थाय यद् भवान्निर्देक्ष्यति, तदवश्यमहं पालयिष्यामि। अहं तु तुच्छा मर्त्तया मानवी। कामक्नोधलोभमोहादीन् जेतुं मे शक्ति: क्व? सा शक्तिर्यदि न त्वया प्रदीयेत, तर्हि कथमहं मानवीत्वाद् देवीपदं यास्यामि?’’
वनमालया सह नयनाश्रुमालां कृष्णस्य पादपद्मयो:, न तु कण्ठदेशे, अञ्जलीकृत्य समर्पितवती। अन्वभवञ्च, तारुण्यं मेऽन्तर्हितमिति। अहमज्ञानशिशुत्वेन परिवर्त्तिता। नासीन्मे शैशवानुभूति:। तरुणशरीरेणाहमुत्पन्ना। शैशवस्य कोमलं निष्पापञ्चाज्ञानं तावदियत्सुखकरमित्यहं नैव पूर्वं विदितवती। ज्ञानपारावारस्य कृष्णस्य पादपद्मयोरज्ञानसलिलबिन्दुरूपेण स्थितस्य जीवनस्य चरमपूर्णता निहितेति मनसाऽनुभूय कृष्णसखायमर्जुनं स्वहृदये विस्रब्धं स्थापितवती। को वा ममोपाय:? अहं तु अज्ञानशिशु:, यदा यत् क्रीडनकं मत्पाणौ मत्कर्ता प्रदास्यति, तदा तेनाहं क्रीडिष्यामि, प्रसत्स्यामि, जीविष्यामि च। किं मे क्रीडनकं स्यात्—कथं किमर्थं च स्यात्—इति काऽहं प्रष्टुम्?
प्रस्थानात् पूर्वमनुच्चस्वरेण कृष्णो मम हृदयसविधे शनै: प्राह—''कृष्णे! कृष्णश्चिरात् प्रेमोन्मत्त:, स्नेहकामी च। सखाऽर्जुनो मां यथा प्रेमपाशेन बध्नाति, तत्र कृपया न त्वं विभागं कर्तुमर्हसि। अधिकं तु, अर्जुनं प्रति तव प्रेम्णोऽहमंशभाक्। अर्जुनस्य समस्तप्राप्त्यप्राप्तिषु जयपराजयेषु च ममाप्यंशोऽस्ति। ग्रहणात् पूर्वं स भोजनं मह्यं समर्पयति। समर्पणं मे विना स जलमपि न स्पृशति। तदर्पणं नाहमश्नामि अपि तु जिघ्रामि तत्सुरभिमात्रम्। गृह्णामि च केवलं तत्सूक्ष्मातिसूक्ष्मतत्त्वम्। तथैव तवार्जुनदारत्वेऽपि त्वत्सूक्ष्मातिसूक्ष्मदेहातीतसत्त्वेन मम सम्बन्धोऽदृश्यश्चिरन्तन: सनातनश्च। इदं न विस्मार्यं कथमपि त्वया।’’
तस्मिन्नेव क्षणेऽहं द्विधा विभक्ता। मम सूक्ष्मातिसूक्ष्मं देहातीतं सत्त्वं सुनीलज्योतिर्मयशिखायामेकस्यां मुहुर्विलीनम्। ममापरश्च भाग: पार्थिवसुखसम्भोगादिषु आशाऽऽकाङ्क्षादिषु निबद्ध: स्वयंवराया द्रौपद्या देहत्वेनावशिष्ट: पाञ्चालराजप्रासादान्तरालेऽर्जुनप्रतीक्षायाम्।
हन्त, कियद्विचित्रं मनुष्यमन:! कियद् विस्मरति! कियच्चाप्रमृष्टाक्षरैर्धारयति स्वतनौ! पितृपादा मां कृष्णाय समर्पितवन्त इत्यहं विस्मृतवती। सम्प्रति वीरश्रेष्ठस्यार्जुनस्य कल्पनायामहं निमग्ना। स: किम्भूत:? साक्षात् कृष्ण इव? अथवा सोऽन्य: कोऽपि कृष्ण:? अन्यथा स कृष्णाया अभिप्रेत: पुरुष: कथं सम्भवेत्?
(५)
''ऋतुर्वसन्त:। फाल्गुनस्य रङ्गै: अर्जुनवनं रञ्जितम्। पुण्यतोयाया गङ्गायास्तीरे वज्रधर इन्द्र उपस्थित:। भोजराजदुहिता कुन्ती दुर्वाससो जपमालया मनसेन्द्रमस्मरत्। वसन्तस्यावाहनमिदमिन्द्र: किमु शक्नुयादपाकर्तुम्? देवराजस्य शौर्येण पूतहृदयकुन्तीगर्भात् पावनीगङ्गातीरार्जुनवने उत्तरफाल्गुननक्षत्रे यस्य देवशिशोराविर्भाव: सञ्जात:, स अर्जुन:, फाल्गुन:, जिष्णु:, किरीटी, श्वेतवाहन:, बीभत्सु:, विजय:, सव्यसाची, धनञ्जय:, पार्थ:।’’
अत्रैव नितम्बिनी क्षणं विरम्य हसन्ती पप्रच्छ—''सखि! प्रियतमस्यैतावन्ति नामानि स्मर्तुंवा शक्ष्यसि किम्? वस्तुत: कियती भाग्यवती न त्वम्! एतावतामभिधानानां योऽधिकारी, स यशोविद्याबुद्धीनां कियतीनामधिकारी न स्यात्! अद्यारभ्य कृष्णं विस्मृत्यार्जुनमेव स्मर तावत्।’’
अहमवोचम्—''सखि! यस्मिन् हृदये ममैकदा श्रीकृष्णेन स्थानमधिकृतमासीत्तत्र केवलमर्जुन एव स्थातुमर्हति। यतोहि स द्वितीय: कृष्ण:, कृष्णकलया च जात:। तस्मिन् कृष्णोपस्थितिमहमाप्स्यामि। कृष्णो मया सहार्जुनं योजयतीति अर्जुन एव विश्वस्मिन् श्रेष्ठो वीरोऽवश्यमिति मे विश्वास:।’’
नितम्बिनी सस्मितं प्रत्युवाच—''सखि! न किमु भवत्याऽर्जुनस्य वीरत्वगाथा श्रुता? आबाल्यादेव तस्य वीरत्वं प्रकटितम्। गुरोद्रोणाचार्यस्य स योग्यतम: शिष्य:। द्रोणाचार्यस्याद्भुतास्त्रपरीक्षायां स एव केवलं समुत्तीर्णतां गत:। अष्टाविंशत्यधिकाष्टशतोत्तराष्टसहस्रपदेभ्यो दूरे पर्वत: कश्चित्। तदुपरि दुर्गमेकम्। तदुपरि नारिकेलपत्रकाण्डम्। तदुपरि शृङ्गधान्यमेकम्। तदुपरि चातिक्षुद्रमेकं वैजयन्तीफलम्। तदुपरि चैक: सूक्ष्म: सर्षप:। गुरोर्निर्देशेन तीरवेधेन स सर्षपो द्विधा विभाज्य:।’’
अहमाश्चर्येण नितम्बिनीमपश्यम्। केयं गुरोरस्त्रपरीक्षाऽद्भुता! अस्यां किमु कोऽप्युत्तरेत्! नितम्बिनी मेऽत्याश्चर्यभावमनुमाय हसन्त्याह—योऽस्यामुत्तीर्ण: स स्वयं श्रीकृष्ण: अथवा तत्सखा तृतीयपाण्डवोऽर्जुन:। आभ्यामतिरिक्त: को बतेदमसाध्यं साधयितुं क्षम:?’’
अहं चकिता चिन्तितवती—''अस्त्रविद्यायामेतावत्यलौकिकता येन प्रदर्शिता, स कृष्णसखात् कोऽन्य: स्यात्?
नितम्बिनी मे कर्णान्तिके मृदुस्वरेणावादीत्—''द्रोणस्याज्ञयाऽर्जुनेन बद्धो महाराजो द्रुपद:। स पुन: श्रीकृष्णेङ्गितेन द्रुपदनन्दिनीं जेष्यति। साधु, कियान् सुन्दरोऽयं सङ्गम:।’’
अहं किञ्चिदुदासीनाऽभाषे—''को बत ममोपाय:? या श्रीकृष्णस्येच्छा, सैव पितृपादानाम्। तत्पालनमेव मे धर्म:। धर्ममपास्य किं मूल्यं ममोत्पत्ते:?’’
नितम्बिनी सस्मितमाह—''अलब्धकृष्णा कृष्णाऽभिमानवती किमु? अलब्धस्य कृष्णस्य प्राणानवश्यं प्राप्स्यसि सखि!’’
—''कया रीत्या?’’—अहमपृच्छम्।
जगाद नितम्बिनी—''अर्जुन एव कृष्णस्य प्राणा:। लब्धेऽर्जुने कृष्णस्यात्मा लप्स्यते, कृष्णश्च। अर्जुनवशीकरणेन कृष्णो वशीभूत: स्यात्। कृष्णो यस्यायत्ताधीनस्तस्य किं पुनर्दु:खम्?’’
अहं किमप्यविचार्यानायासमुक्तवती—''अदु:खं जीवनमस्ति किं नितम्बिनि! यद्यस्ति तर्हि तत्र कृष्णो न तिष्ठति। यत्र दु:खं तत्र कृष्ण:। श्रुतं मया पूर्वम्—स नु दु:खबन्धु:।’’
तदानीं कि मया विदितं यदहं मद्भाविजीवनं ब्रवीमीति!