(५१)
दुर्योधनस्योरुभङ्ग: सम्पन्न:। आघातप्राप्त: स मृत्युं प्रतीक्षते। युद्धं समाप्तम्। पितु: स्वर्गवासात् परं पाञ्चालानां कातरत्वमनुभूयाहं पाञ्चालेषु गतैकदा। एतावत्तावदवश्यं पाञ्चालेभ्यो विज्ञापयिष्यामि यत्ते न सम्प्रत्यनाथा इति। मम महावीर: सहोदरो द्रोणहन्ता धृष्टद्युम्न: शत्रून् विजित्याधुना जीवितोऽस्ति। हस्तिनापुर्यां शान्ते: परं स पाञ्चालान् प्रत्यागत्य सुखेन प्रजा: पालयिष्यति। भ्रातृजायां धृष्टद्युम्नकुशलसमाचारै: सान्त्वयन्ती सन्तोषमाप्नुवम्। सा भ्रातृप्रतीक्षायां कालं यापयति स्म।
सर्वं दु:खं विस्मृत्यावाभ्यां भ्रातृजायाननान्दृभ्यां सम्पूर्णा रात्रिर्भाविसुखस्वप्नयोजनायां व्यतीता। अभिमन्युघटोत्कचवेलालसेनादय: पुत्रा: स्वर्गता अपि मम पञ्चपुत्रा ईश्वरकरुणया मङ्गलेन सन्ति। एतान् विलोक्यान्येषां पुत्राणामभावदु:खं विस्मर्तुं प्रयतिष्ये। आबाल्यादेते मातृस्नेहवञ्चिता दीना:। एषां जन्मन: परमहं वनचारिणीतस्ततोऽटामि। सम्प्रति तेषु स्वप्नाणवात्सल्यं सेक्ष्यामि। जीवनेऽस्मिन् का नाम मे सुखभोगाकाङ्क्षाऽवशिष्टा?
राज्यलाभाय युद्धं, शोणितपातं, मृत्युं, हाहाकारं च दर्शं दर्शं राज्यधनसम्पत्तिमोहो मनसोऽपसृत:। महाराज्ञीत्वानन्दो नावशिष्यते। पुत्रेषु राज्यभारं निवेश्य राजमातृत्वेन जीवनमवशिष्टमतिवाहयिष्यामि। पञ्चपतिकया मयाऽऽजीवनं दु:खमुपभुक्तम्। परन्तु पञ्चपुत्रजननीत्वेनान्तत: किञ्चित् सुखं भोक्ष्यामि। एषां सुखमयजीवनेषु प्रयतिष्येऽन्वेष्टुं मम हृदयस्याभिमन्युम्।
रात्रावर्धसुप्तावस्थायामद्राक्षम् पुत्राणां सहासानि मुखमण्डलानि, तेषां विवाहदृश्याणि, तानङ्के निधाय लालनदृश्याणि च। पुनरपि अपश्यमहं स्वर्गराज्यात् पञ्चाप्सरसो मत्र्येऽवतीर्य पुत्राणां गलेषु पुष्पमाल्यान्यर्पयन्ति। प्रायेण मे पुत्रवध्वोऽप्सर:समा: स्यु:। स्वप्नस्त्रुटित:। हृदयं चकम्पे। अचिन्तयम्, स्वप्नोऽयं शुभोऽशुभो वा? हृदयं किमर्थं कम्पते? कुतो ज्ञास्यामि स्वप्नफलम्?
कुतोऽपि ज्ञातुमावश्यकता नाभवत्। प्रभातात् पूर्वं समाचार आयातो यद् द्रोणपुत्रस्याश्वत्थाम्नो नैशाक्रमणेन मम भ्राता धृष्टद्युम्नो, निद्रिताश्च मे पञ्चपुत्रा: स्वर्गं गता:। भ्रातृजायाऽहं च युगपन्मूर्च्छिते। वस्तुत: क आवां सान्त्वयेत्?
विजयमुहूर्त्तेऽयं पराजयो भाग्यस्याट्टहास इव प्रतीयाय। शोकनद्या: पारं गन्तुं मार्गो नास्ति। अभिमन्युघटोत्कचादिपुत्राणां मृत्युशोकेन हृदयं भग्नपूर्वं स्वगर्भजातपुत्राणां हत्याशोकेन मृतवद् बभूव। अन्वभवम्—''पुत्रशोकात् परतर: शोको नास्ति—शोकस्यास्य सान्त्वना न विद्यते। मृत्युरेव हि शोकस्यास्य महौषधिरनन्य:।’’
रुधिरसमुद्रे छिन्नमस्तका निष्पापा: पद्मपुष्पसदृशा: कोमला: पञ्चसुता: प्रातर्विद्य-स्वत:-सोम:-श्रुतकर्म-शतानीक-श्रुतासनाख्या:। अधरोष्ठेभ्यो हासो न निर्वापित:। मृत्युना रात्रौ सुखस्वप्नो नयनेभ्यो न पूर्णतो मोचित:।
तनयानां शवान् वारं वारं निधायाङ्के व्यलपम्। कदाचित् कस्यचिन्मस्तकहीनं शरीरम्, कस्य वा च्छिन्नं मस्तकं वक्षस्याश्लिष्टा मुहुर्मुहुरमूर्च्छम्। युगपत् पञ्चपुत्राणां नाशशोकं सद्य: पुत्रहीनजननी सहिष्यत इति मनसि विश्वासो नोदेति।
मम पञ्च पतय: शोकाभिभूता:। को वा कं सान्त्वयेत्? अद्यादृष्टेन सर्व एते सुतरहिता: कारिता:। ते परस्परं नीरवव्याकुलितदृष्ट्या विलोक्य पुत्राणां रुधिरे स्वाश्रूणि पातयन्ति। एक एव गोविन्द सर्वान् सान्त्वयति।
क्षणात् परमहं राक्षसीवातिभयङ्कररूपा चीत्कृतवती—''पापात्माश्वत्थामसंहारपूर्वकं स्वपुत्रहत्याप्रतिशोधं विना मर्त्यलोकमपि शान्त्या न त्यक्ष्यामि। अश्वत्थामानं निग्रहीतुं भीमसेनमनुरुध्य, तं च स्वयं हन्तुं दृढसङ्कल्पेन शिविरद्वार्यन्नजलत्यागपूर्वकमहमुपविष्टा। अस्मिन्नवसरे समाचारो लब्धो यत् पाण्डवपञ्चपुत्राणां मृत्युसमाचारमाप्य दुर्योधनस्य प्राणवायुर्बहिर्गत:।’’
अनया वार्त्तया भीमसेन उत्साहितोऽश्वत्थात्मनिग्रहाय वात्यावायुवेगेन प्रधावित:। भीमसेनस्य भीममूर्तिंex विलोक्य पुनर्मनसि भीतिरुत्पन्ना। पृथिवी किं प्रलयद्वार्युपस्थिता? मृत्यो: किं समाप्तिर्नास्ति?
युधिष्ठिरार्जुनश्रीकृष्णादयोऽपि द्रोणपुत्रमन्वेष्टुं निर्गता:। अकस्मात् हृदयभावराज्ये तरङ्ग एक उदियाय। द्रोणपत्नी हरिताऽद्यापि जीविता। अश्वत्थामैव केवलं तज्जीवनधारणाधार:। द्रोणो मृत:। अस्य मृत्यौ हरिताया: पुत्रशोकेन दु:खं द्विगुणितं भवेत्। अश्वत्थामा पापात्मा। हरिता मादृशी जननी। या पुत्रशोकं न जानाति, सा प्रतिशोधपरायणाऽन्यस्या: पुत्रं हनिष्यति। परन्तु अहं तत् कथं कर्त्तुं प्रभविष्यामि? क्षणात् पूर्वं सोरस्ताडमरोदम्— ''हे भगवन्! शत्रवेऽपि पुत्रशोकं मा देहि। अधुना स्वयं कथमश्वत्थामानं निहत्य हरितायै सुतशोकं दास्यामि? अश्वत्थाममृत्युना मम पञ्चपुत्रा नैव प्रत्यागमिष्यन्ति। जीवतु पापात्माऽश्वत्थामा। नानाकष्टानि भुक्त्वा दीर्घजीवी भवतु। अन्ततो हस्तिनापुर्यां काऽप्येका नारी हरिता पुत्रशोकरहिता तिष्ठतु।’’ श्रीकृष्णमुदासीनकोमलकण्ठेनावदम्—''अश्वत्थामानमक्षमे। भीमसेनं निर्दिशतु—अनावश्यक: किलाश्वत्थामनिग्रह इति। स्वकृतकर्मफलं पापात्मा भुनक्तु। सर्वं पश्यत्येकस्मिन् विधातरि काऽहं कमपि दण्डयितुम्?’’
श्रीकृष्ण: सस्मितमवादीत्—''देवि! क्षमाया इमां निरुपमकरुणामूर्त्तिं त्वामयमधीन: शतवारं प्रणमति।’’
भीमसेनस्वरोऽश्रूयत—''पाञ्चालि! नय, वर्वरमश्वत्थामानं निहत्य तस्य हृदयं विदार्य रुधिरं पिब, पुत्रशोकज्वालां च निर्वापय।’’
बद्धस्य पापात्मनस्तस्य कलुषितं मुखं नाहं दृष्टवती। स्वमुखं परावृत्य चीत्कृतवती—''मम नयनेऽपि तं प्रत्यक्षीकर्त्तुं जुगुप्सेते। तत्स्पर्शेण ममात्मा कलुषितो भवेत्। आर्यपुत्र! कृपयैनं मम सम्मुखादपसारय, राज्याद् बहिश्च विताडय। तस्यास्मिन् राज्ये स्थानं नास्ति।’’ जिह्वाया अग्निवर्षणं नयनाभ्यां स्ववर्षाजलेन निर्वापितम्। अहं वाक्शक्तिहीना भूमौ निपतिता।
पापमतिरश्वत्थामाऽक्षम्य:। मत्त: क्षमामाप्य स भयेनारण्ये प्रविवेश। अन्ते चोत्तरागर्भे जन्मप्रतीक्षायां दिनानि गणयन्तं पाण्डवानामेकमात्रमुत्तरदायादमभिमन्युसुतं गर्भ एव हन्तुं प्रयतमानो ब्रह्मास्त्रं सन्दधे। आपद्बान्धव: श्रीकृष्ण: स्वचक्रेण पाण्डववंशशिशुमुत्तरागर्भस्थं ररक्ष। श्मशानभूमौ हरिद्दूर्वादलमिव महाप्रलयेमध्ये पाण्डवानामन्तिममुच्छ्वसितं पाण्डवबान्धवकृष्णस्य करुणावारिणा परिपुष्टमुत्तरागर्भे व्यवर्धत।
(५२)
जीवनान्मृत्युरुदारतर:। जीवनान्मृत्यु: प्रशान्ततर:। ह्यो ये शत्रव आसन्, अद्य तेषां मृत्यु: हृदयं करुणकोमलभावनयाऽऽद्र्रीकुरुते। ह्यस्तावद् ये दुष्टा:, कामुका:, दुराचाराश्चासन्, तानद्य मृत्यु: प्रशान्तान्, स्थिरान्, निर्विकाराँश्च चकार।
युद्धभूमौ शत्रव इति ये हता:, अद्य सहोदरदृष्ट्या तेषां शवान् सत्कृत्य गङ्गास्नानं करणीयम्, तिलतर्पणमपि सम्पादनीयम्, प्रेतकर्मणा च तेषामात्मनां सद्गत्यर्थं प्रार्थनाऽपि करणीया।
किं वर्णयामि समरभूमौ द्वयोर्विच्छिन्नकुटुम्बकयो: गान्धारीकुन्त्यो: करुणमिलनदृश्यम्? शतपुत्रान्, तेषां चागणितपुत्रान्, भ्रातृन्, सहोदराँश्च धृतराष्ट्र:, गान्धारी, कौरववध्वश्च शवेषु स्वात्मीयानन्विषन्ति। ताभि: सहास्ति माता कुन्ती।
मातरौ गान्धारीकुन्त्यौ परस्परमालिङ्ग्य रुदत:। अहं पश्यामि कौरवरमणीनां नेत्रेषु पुत्रशोकं, पतिशोकं, बन्धुसहोदरशोकञ्च। हस्तिनापुरीरमण्य: शोकसंस्पर्शेण श्रीहीना:। वैधव्यवंशनाशशोकेन सर्वे दु:खग्रस्ता:। अनया दृष्ट्या मम शोकस्तासां तुलनया न्यूनतर:। मम पञ्च पतयो जीविता:, लब्धविजया:। परन्तु तं विजयं वयमाचराम: श्मशानचितासु, अग्निमहोत्सवेषु।
मातरं कुन्तीं विलोक्याहं रुदती भूमौ पतिता। अपृच्छम्—''मात:! मम पुत्रा:, ममाभिमन्युश्च क्व गता:? तान् किं न पुनर्द्रक्ष्यामि? किं मे राज्येन? यस्य सन्ततिर्नास्ति, तस्य राज्येन धनेन वा किम्?’’
माता मां सान्त्वयन्ती प्राह—''कृष्णे! दु:खं समानमावयो:। आचिरादवहेलितं साभिमानं पुत्रं कर्णमहमन्विषामि मत्पापात् स मृत्युं यावल्लाञ्छित:। युद्धभूमौ वीरोचितां गतिं प्राप्तोऽपि स भीष्मशल्यजयद्रथादिभिर्वारं वारं युद्धक्षेत्रे सूतपुत्ररूपेणापमानित:। ज्ञानवान् भीष्मोऽपि तमुपहासच्छलेन 'अर्धरथी’ इति सम्बुबोध। निरस्त्रो मे पुत्रोऽर्जुनस्य बाणेन मृत्युमलभत।’’
मातुरुक्तिं निशम्यामन्ये यत् कर्णो यथा तस्या एकल एव सुत:, अर्जुनस्तु अन्यपक्षस्य कोऽपि योद्धेति। शतपुत्रा जीविता अपि मृतपुत्राय मातृहृदयस्य सकला करुणा यन्निस्सरति!
स्तब्धा:, विमूढा:, शोकाभिभूताश्च वयं पश्याम: कुरुक्षेत्रयुद्धभूमिदृश्यम्। कियद् भयङ्करम्, हृदयविदारकं च तत्!
अनन्तमृतदेहा:, विखण्डितान्यङ्गानि, रुधिररञ्जिता: केशा: कपालानि च, निर्मस्तकशरीराणि, शरीरहीनमस्तकानि, विदीर्णानि वक्षांसि, उदराणि, दलितमथितानि मांसानि, अस्थिनि, आन्त्राणि चैकत्र पतितानि भयङ्करतां सृजन्ति। गजाश्वमानवरुधिरमेकाकारं सद् दिगन्तं यावद् व्याप्नोति। सर्वत्र रुधिरं, मांसखण्डा:, शवा:, आर्त्तनादा:, विलापाश्च। तत्रापि श्वशृगालगृध्रकाकादीनां भयङ्करपशूनां च विकटचीत्कारमांसभक्षणरुधिरपानादिभिर्हस्तिनापुरी नर्कपुरीयति।
विधवा: श्रीहीना नार्य: पूतिगन्धमयपूयशोणितबीभत्सतायां मृतान् स्वस्वपतीन्, पितृन्, पुत्रान्, भ्रातृन् निर्वर्ण्य तेषां दूषितान् शवानालिङ्ग्य विलपन्ति।
युद्धभूमिमध्यभागे मृत्योर्बीभत्सतामवज्ञायापरसूर्य इव निपतितो महावीर: कर्ण:। सूर्यसुत इति तच्छरीरं मृत्युना केवलं स्पृष्टम्, न तु मलिनीकृतम्। न च तस्मात् पूतिगन्धो निस्सरति।
मृतदेहस्य चरणान्तिके दण्डायमाना कुन्ती। तत्पश्चादहम्। मातुरश्रुधारा मृतशरीरस्य चरणौ पस्पर्श। मृत्युरेव नारीहृदयस्य सकलां कुण्ठां, लज्जां, सङ्कोचं, लोकापवादभयञ्च दूरीचकार। पुत्रशोकाधीरा जननी समस्तं सङ्कोचं विसस्मार। कुमारीकाले गर्भजातस्य सुतस्य कर्णस्य शवमालिङ्ग्य सा सर्वसमक्षं विललाप। विलापस्वर: पवनगगने भित्त्वाऽऽकाशसीमानं पस्पर्श—सूर्यदेवं करुणवेदनया लोहितं मलिनमस्तं च चक्रे।
स्तब्धो युधिष्ठिर: निरीक्षते यत् कुन्तीकर्णचरणा: पूर्णत: समाना:। सभागृहे द्रौपदीलाञ्छनाकाले कर्णस्य कटूक्त्योत्तेजितो युधिष्ठिर: कर्णस्य चरणौ वीक्ष्य वारं वारं शान्तिमशिश्रियत्। अद्य तु तावेव चरणौ कुन्तीचरणसमानौ पूर्णत:। अद्य माता कुन्ती मृतकर्णाय हतसुता जननीव रोदिति कथम्?
युधिष्ठिरस्य नेत्रेऽनायासेन सजले भवत:। युधिष्ठिरस्याश्रु विलोक्य सर्वे स्तब्धा, विस्मिता:। माता कुन्ती आवेगं संवृत्यावादीत्—''वत्स! कुन्तीज्येष्ठपुत्रत्वेन त्चयाऽनेकं कष्टमङ्गीकृतम्। परिवारमुख्यरूपेणानेके भारा: सम्पादिताश्च। किन्तु, वस्तुतस्त्वं न ज्येष्ठकौन्तेय:। आजीवनं य: कुन्तीपुत्रगौरवाद्वञ्चित:, स एव ज्येष्ठ: कुन्तीसुत:। सोऽद्य ते पुरस्ताच्चिराय सुप्त:। सोऽयं तेऽग्रज: सूर्यनन्दनो महावीरो महादाता कर्ण:। ऋष्याशिषा मम कौमार्ये समुत्पन्नोऽयमभिशप्तजीवनमतिवाह्य स्वानुजबाणेन प्राणानत्यजत्।’’
पुण्यमयी युद्धभूमि:, याऽद्य श्मशानभूमि:, या शत्रुमित्रधनाढ्यदरिद्रनीचोच्चकुलसम्भूताँश्च समान् कृतवती, तत्रैव स्थिता माता कुन्ती निजजीवनस्य परमां गोपनीयतां पुत्राणां समक्षं प्रकाश्य पुनरपि कर्णमृत्युकारणाद् विललाप।
अर्जुनोऽस्रनयनोऽस्तसूर्यमिव मलिनं सौम्यं महावीरं कर्णं निरीक्ष्यात्मानं धिगकार्षीत्। अहमपि सर्वं सङ्कोचं विस्मृत्य स्वाश्रुणा साभिमानस्य कर्णस्यात्मानं प्रति नीरवश्रद्धाञ्जलिं ज्ञापितवती।
असङ्ख्यचितानलै: सह कर्णमृतशरीरचितानलोऽपि ज्वलति। ज्वलन्ति च कर्णस्य गर्वोऽहङ्कार:, दैवीशक्तिमतिक्रम्य जिगीषाऽऽस्फालनं च। परन्तु तस्य पुरुषार्थस्य जयकारो मम हृदि श्रूयते।
साश्चर्यमपश्यम्—कर्णस्य प्रियपरिचारिका 'अस्मिता’ चितानले निपतिता ज्वलति, भस्मीभवति च। आजीवनमस्मिता कर्णजीवनमाक्रान्तवती। अद्य तु मृत्युना साऽऽक्रान्ता।
न जीवनमहङ्कारमतिक्रामति, किन्तु मृत्युरहङ्कारातिक्रमक्षम:। कर्णस्य प्राणहीनं मुखमण्डलमहङ्कारशून्यं सच्चिताग्निशिखायां पूर्वाकाशसूर्यतेज इवोज्ज्वलं निर्मलं कोमलं च प्रतीयते। प्रतीतं यत् देवदर्शनं चिताग्नो करोमीति। माता कुन्ती पाण्डवाश्चाश्रूणि मुमुचु:।
श्रीकृष्णो मन्निकटे स्थितो मातरं कुन्तीं पाण्डवाँश्च प्रबोधयामास—''दैवीशक्तिपौरुषयोरुभयोर्बन्धनेन मनुष्य आबद्ध:। अनयोरभावेन मनुष्य: कर्ण इव सत्स्वपि सद्गुणेषु जीवनेऽसफलो भवति। पौरुषस्यैकमाह्वानमस्ति। कर्णस्य तदासीत्। परन्तु पौरुषेण सह दैवीशक्ते: संयोगं विनाऽहङ्कारस्तं कवलीचकार। मनुष्यो यावज्जीवितोऽस्ति, अहङ्कारस्तावत्तस्मिन् तिष्ठति। अस्य नायमाशयो यत् मृत्युरेवाहङ्कारनाशस्य केवल: पन्था:। जीवितस्याहङ्कारनाशमार्गो नामात्मसमाप्तिरर्थादात्मन: सम्पूर्णं समर्पणम्। प्रयत्नप्रार्थनयोरुभयो: समन्वयेन सम्पूर्णमात्मसमर्पणं कुरु। तेन त्वं जीवन्नपि समाप्तिं यास्यसि। अहङ्कारशून्यं जीवनमसम्भवम्। किन्तु क्षुद्रमहङ्कारं त्यजन् महत्तरमहङ्कारं स्वीकुरु यथा—'हे प्रभो! अहं त्वदीय इति तस्मात् ममाहङ्कार:’ इति। कर्ण: क्षुद्राहङ्कारवानासीत्। अर्जुनोऽपि नाहङ्कारशून्य:। परन्तु अर्जुनस्य स महान्। ''त्वच्छक्त्यभिमानोऽ’’र्जुनस्य। 'अहं मया महानि’ति कर्णोक्ति:। परन्तु 'अहं त्वया महानि’ति अर्जुनसिद्धान्त:। अयमेव भेद: कर्णार्जुनयो:। अन्यथा, शौर्यवीरत्वपौरुषदृष्ट्योभौ समानौ। द्वयो: शरीरे भिन्ने, एका तु शक्ति:। अहङ्कारात् कर्णो नाशं गत:। अहङ्कारनाशादर्जुनो विजयी जीवितश्च। अतस्त्यजत कर्णदु:खम्। कोऽपि कमपि नैव नाशयति। मनुष्य: कालवश: स्वयं नश्यति।’’
पुत्रशोकाधीरा माता गान्धारी कृष्णस्य तत्त्ववाणीं निशम्य सक्नोधमाह—''हे कृष्ण! त्वं शास्त्रज्ञ:, अलौकिकशक्तेरधिकारी, पुरुवंशपरमप्रियश्च। त्वदिच्छयाऽवश्यं कौरवा नाशमुखाद्रक्षिता: स्यु:। शत्रून् हत्वा राज्यभोगेनानन्दो न लभ्यते। शत्रूँस्तु पराजित्य राज्यभोगेन परमगौरवमासाद्यते। पश्य, युधिष्ठिरो लब्धराज्योऽपि वियुक्तस्वजन: कथमात्मानमभिशपति। मत्पुत्राणां विनाशकारणं केवलस्त्वम्......।’’
प्रशान्त: श्रीकृष्ण: समुदैरिरत्—''देवि! परधनं प्रत्यासक्त्या, अन्यराज्यापहरणेन, परश्रीकातरतया, मातृजात्यपमानेन च भवत्या: पुत्रा नाशमभजन्। द्यूतक्रीडासक्त्या धर्मवान् राजा युधिष्ठिरोऽशेषं कष्टं लेभे। किमत्र मया कर्त्तव्यमासीत्? युद्धं यावन्मया शान्तिस्थापनप्रयास: कृत:। धनजनक्षय:, सभ्यताध्वंस:, मानवजातेरशेषाकल्याणं च युद्धस्य चरमफलानि। अनेन दुष्टनिर्दोषशान्तिप्रिययुद्धकामिनश्च क्षतिं लभन्ते। मम शान्तिसन्देशमवज्ञाय कौरवा रणे हता:।’’
पुत्राणां चितानलान्तिके स्थिता गान्धारी सक्षोभं जगाद—''हे कृष्ण! कियानपि परिष्कार: क्रियतां नाम, त्वमेव सर्वकारणकारणम्। मम सामान्यतममपि पुण्यबलमस्ति चेदहं त्वामभिशपामि—भरतवंशनाशवत्तवापि वंशनाशो भवतु। षड्त्रिंशद्वर्षेभ्य: परं तव कुटुम्बं परस्परं कलहेन समूलं नङ्क्ष्यति। कौरवरमण्य इव यादवरमण्योऽपि पतिहीना: पुत्रहीना: कुटुम्बहीनाञ्च रोदिष्यन्ति। द्वारकापुरी रसातलगामिनी भविष्यति।’’
अहं स्तम्भीभूताऽचिन्तयम्—''वंशनाशशोकं या जानाति, सा नारी तथैव कथमन्यमभ्यशपत्? मात्रा गान्धार्या यदुकुलप्रदीप: पूर्णपुरुष: कृष्णोऽभिशप्त:? किमिदं मातृहृदयौदार्यम्? शतपुत्रान् प्रसूय नारी जननी न भवति, अपितु जननी उदारतयाऽऽकाशहृदया, सहनेन धरित्रीकठोरा, ममतया सागरगभीरा च स्यात्।’’ अशृणोम्—माता कुन्ती धीरस्वरेण ब्रूते—''हे वासुदेव! त्वदिच्छां विना यदुकुलविनाश: कस्या अप्यभिशापेन नैव सम्भवेत्। हे मधुसूदन! शत्रवेऽपि वंशप्रजापुत्रादिनाशशोकं मा प्रयच्छ—इदं प्रार्थये।’’
श्रीकृष्णो हसन्नुवाच—''देवि गान्धारि! भवत्या: पुण्यबलेन तत्सुखमवश्यं भवत्या लप्स्यते। यतोहि मम कुटुम्बं सुरासक्तं कलहेन परस्परं हनिष्यति। धर्मसंस्थापनायाधर्मध्वंस आवश्यक:। अत: मम पुत्रा यदि धर्ममार्गं त्यक्ष्यन्ति, तर्हि ते कालकवलिता नाशं समूलं यास्यन्ति। साक्षात् षड्त्रिंशद्वर्षेभ्य: परं कालस्रोतसा युगपरिवर्तनं सम्भविष्यति, भवत्या अभिशापश्चावश्यं सफलीभविष्यति।’’
स्वयं भगवान् श्रीकृष्ण एकस्या नार्या: पुण्यबलं प्रतिपादयितुं तन्निर्ममाभिशापं स्वीचक्रे!
अगुरुचन्दनकुङ्कुमघृततैलादिसुगन्धिद्रव्यै: प्रज्ज्वलितस्य सामूहिकचितानलस्य शिखोर्ध्वं गच्छति स्म। मृत्युकामी शोकसन्तप्तहृदयेन चैतन्यजीवनभावजागरणं कुर्वन्नासीत्। ऊर्ध्वगामी चितानलो यथा स्मारयति स्म—''ऊर्ध्वगामी भव, उदारो भव, विशालो भव, परमात्मनोऽस्तित्वे निलीनो भव च। तेन त्वं शोकं दु:खं च जेष्यसि, जीवनसार्थकताञ्चोपलप्स्यसे।’’
(५३)
पुत्रमित्रादिहीनस्य युधिष्ठिरस्य षड्त्रिंशद्वर्षात्मकं राज्यशासनं, तस्य कृतकर्मणोऽभिशापमात्रमासीत्। प्रतिमुहूर्त्तं हस्तिनाया विधवानां पुत्रहीनानां रमणीनां दृष्टि: सविषादा साभियोगा च तं यथा तिरश्चकार—''सोऽयं धर्मवान् राजा युधिष्ठिर:, यो द्यूतक्रीडावशो राज्यं पत्नीं च हारयित्वा युद्धस्य भित्तिं रचयाञ्चकार, अन्त्ये च सर्वान् मारयित्वा राज्यं भुङ्क्ते। अगणितनिरीहप्रजादु:खकारणमयं युधिष्ठिर:।’’ इति।
युधिष्ठिरदु:खेनाहमपि दु:खिताऽऽसम्। पञ्चदशवर्षाणि धृतराष्ट्रगान्धारीकुन्तीनां सेवया नियोजितानि मया। तत: परं ते वनवासेन जीवनमवशिष्टं यापयितुं वनं प्रस्थिता:।
प्रस्थानकाले माता कुन्ती युधिष्ठिरं सानुनयमुवाच—''वत्स! मादृशी भाग्यहीना नान्याऽस्ति। राज्यलाभात् परमपि राजमातुरानन्दो मया सकृदपि नानुभूत:। यतोहि आजीवनं सुपुत्रं कर्णं प्रत्यविचारदु:खेन, तस्य मृत्युना च प्रतिपलं मे हृदयं विदीर्यते। अन्ते ममेयं कामना यत् तस्य मृत्युदिवसे प्रतिवर्षं भ्रातृश्राद्धं दास्यसि तदात्मशान्त्यै। कदापि तस्य जन्मतिथिर्मया न प्रकाशमायोजिता। परन्तु तस्य मृत्युतिथिपालनाय युष्मान् प्रेरयितुमद्य नाहं कुण्ठिता।’’
अश्रुमुखी कुन्ती प्रस्थिता। पञ्चपुत्रान् सन्त्यज्य वनं प्रयातेति न, अपि तु आजन्मनोऽलब्धवात्सल्यस्य कर्णस्य तिरोधानदिवसं स्मारं स्मारं पुन: सद्य: पुत्रशोकाप्लुता निर्गता।
सम्प्रति कार्यं मे किमपि नावशिष्टम्। सेवितुं गुरुजना न सन्ति। लालयितुं सुता अपि न। जीवनं भार इव प्रतीयते। कालो वा गच्छेत् कथम्?
सखा श्रीकृष्ण: केवलोऽवलम्ब:। मध्ये मध्ये सखाऽऽयाति, वयं च द्वारकां गच्छाम इति कालोऽपनीयते। अर्जुनोऽहं च सख्युर्गुणान् गायं गायं लभावहेऽपारमानन्दम्। युद्धक्षेत्रे सख्या प्रतिपादितानि तत्त्वानि व्याख्यात्यर्जुन:। अनेका: स्मृतय: कलिका इव चित्तोपवने प्रस्फुटन्ति। स्मृत्या जीवितुमयं समय:।
मनस्यापतति—युद्धस्य नवमे दिवसे पितामहो भीष्म: प्रत्यज्ञासीत् परेद्यु: पाण्डवान् हनिष्यतीति। पाण्डवशिविरे चिन्ता प्रससार। जीवने विपन्ने निद्रा क्व?
निशार्धम्। सखा श्रीकृष्णो मन्निकटे समागत:। अवादीत्—'सज्जो रथ:। एहि, कुत्रचित् गच्छाव:।’ अहमपृच्छम्—''निशार्धे भवता सह क्व गमिष्यामि?’’
सखा सस्मितमाह—''त्वदभ्यर्थनायां तु पूर्वं तदकरिष्यम्। अद्य यावत् किं सखाऽयं न विदित:? अस्यां ज्योत्स्नारजन्यां त्वया सह रथमारुह्य विहर्त्तुं नायं कालस्तावत्।’’
अहं रथासीनाऽभूवम्। रथ: स्थिरीकृत: कौरवशिविरनिकटे। निशार्धे कौरवशिविरे मम किं कार्यम्? पाण्डवानां जीवनविनिमयेन सखा मां कोरवेभ्य उपहरिष्यति कच्चित्?
अन्धकारे श्रीकृष्णो मे हस्तं पस्पर्श। अवोचत्—''शनै: प्रविश यथा पदशब्दोऽपि न स्यात्, न च कस्यचिन्निद्राभङ्गो भवेत्। त्वं साक्षात् पितामहशिविरं प्रविश। पाण्डवनाशनं कुर्यान्न वेति द्वन्द्वमना: सोऽधुनापि नैव निद्राति। त्वमवगुण्ठनावृतमस्तका तत्र गत्वा केवलं तं प्रणम। परन्तु मा ब्रूहि किञ्चिदपि।’’
अहं शनैर्ब्रजामि। मत्पदयोर्नूपुराणि शब्दं कुर्वन्तीति विज्ञाय सखोवाद—''तानि पद्भ्यामपसारय। कौरवा जागर्ति चेत्कष्टम्।’’ नूपुराणि मया निस्सारितानि। भूमौ स्थापयितुमुद्यताया मे हस्तात्तानि नीत्वा सखाऽब्रवीत्—''अध: संस्थापने झणिति रणितमपि भवेत्। कदाचित् कोऽप्यकस्माद् भग्ननिद्रो महिलानूपुराणि पितामहस्य द्वारदेशे विलोक्य सन्देहं कुर्यात्। तेन सर्वो मेऽभिसन्धिर्विफलो भवेत्।’’ श्रीकृष्णो मे नूपुराणि हस्ताभ्यां जग्राहेति लज्जया सङ्कोचेन चाहं मनसा हीनतराऽभूवम्। एवम्भूते सङ्कटेऽपि सखा रसिकतामाचरन्नुवाच—''तव पदनूपुराणि किं हस्ताभ्याम्, वक्षसि मस्तके वा धारयितुं कोऽपि आर्यावर्त्ते शौर्यवान् राजकुमारस्तदीयं परमं सौभाग्यं मन्यते। तदेवाद्य ममोपस्थितम्। अभ्यन्तरे प्रविश तावत्।’’
अनुक्त्वा किमपि पितामहकक्षेऽहं प्राविशम्, तत्पदतले च प्राणमम्। क्षीणप्रदीपालोकेन मामनिर्वर्ण्य पितामहोऽचिन्तयत्—काऽपि कस्यचिद् वधू: स्यात्, केनाप्यभियोगेन निशायामुपस्थिता भवेदिति। अतस्तन्मुखात् स्वत उद्गतम्—''अखण्डसौभाग्यवती भूया:।’’
सम्प्रति सख्युरुद्देश्यमवगतवती। मुखादवगुण्ठनमपसार्य सानन्दमवोचम्—''पितामह! सत्यं भूयाद् भवद्वचनम् इति मे प्रार्थना।’’ मामवलोक्य पितामह: साश्चर्यं पप्रच्छ—''पौत्रवधु कृष्णे! केनोपदिष्टा तावदियं निशार्धे कौरवशिविरोपस्थानबुद्धिरेवं मन्मुखाद्वादयितुम्? कृष्णातिरिक्तस्य कस्य बतेदं कौशलं स्यात्?’’
सखा मम नूपुराणि धृत्वा कक्षाद् बहिस्तिष्ठति। लज्जाहताऽहं किं पितामहाय निवेदयेयम्?
कार्यं सिद्धमिति विज्ञाय सखाऽन्त: प्रविष्टो बव्रे—''सम्प्रति स्ववचनं पालयतु भवान्। पौत्रवध्वै सौभाग्यवतीत्वाशीर्वादं प्रदाय प्रभाते पाण्डवान्निहनिष्यति कया शास्त्रनीत्या?’’
पितामहो हसन्नवादीत्—''कृष्ण! लीला ते श्रुतपूर्वा मया, अद्य तु प्रत्यक्षीक्रियते। कदाचिद् गोपपुर्यां श्रीराधायाश्चरणौ धृतवान्, अद्य च हस्तिनापुर्यां कृष्णाया नूपुराणि हस्ताभ्यां वहसि। नारीपदसेवया भवता किम्भूत आनन्दो लभ्यत इत्याजीवनं ब्रह्मचारिणा भीष्मेणाज्ञातो विषय:। अस्तु, कष्टमियदर्जितं भवता यत् श्व: पाण्डवेभ्योऽस्मन्मृत्युभेदविज्ञापनं विनोपायान्तरं मम नास्ति। अत: पाण्डवानां जीवनाय निश्चिन्तो भव।’’
श्रीकृष्णोऽपि सस्मितमाह—''किमत्र कष्टम्! भवतां प्रतिज्ञाकारणाद् द्रौपदीनूपुरवहनसुयोगो मया लब्ध:। अनेन कार्यसम्पादनेन ममापार आनन्द:।’’
पितामहस्य पुरस्तादहं त्रपाहता चिन्तयामि—सख्याऽस्मभ्यं किं किं न कृतम्! ममोच्छिष्टं भुक्तवान्, मम नूपुराणि वहति, मम पतिरथे च सारथिकार्यं निर्वहति। संसारे वास्तविको बान्धवो भगवान्। अद्य जानामि—भक्तरक्षणाय भगवान् किं किं नाचरति!
यथा देवमस्तकपर्युषितपुष्पस्य गतसौरभस्याप्यगुरुचन्दनामोद: प्रसरति, तथैवातीतस्य दु:खशोकमय्यामनुभूतौ हृतानन्दायामपि कृष्णस्मृतिरगुरुमलयजसुरभिरिव मन: पवित्रानन्देन निमज्जयति। प्रतिदिनं चिन्तयामि—हे कृष्ण! त्वमसीति जीवाम्यहम्। कृष्णं शयने, स्वप्ने, जागरणे च प्रत्यक्षीकरोमि। एकत्र स्थितयोरावयोरस्मदर्जुनयोर्मध्ये कृष्णस्तिष्ठति। कर्णवधप्रतिज्ञापूरणात् परं पुनरावयो: पतिपत्नीसंसाराय सुयोग आजगाम, परन्तूत्साहो नासीत्। पुत्राणां कर्णस्य च वधशोकेनोभयोर्मनसोर्वैराग्यमजायत। अत: एकत्र स्थितयोरावयोर्मनसी शोक: पृथगकार्षीत्, परन्तु कृष्णस्मृतिरस्मदात्मैकत्वं सम्पादयति स्म जीवनस्य नवीनमेकमर्थं बोधयन्ती। मां शोकविह्वलां विलोक्यार्जुन: कृष्णकथां व्याख्याति, अहमपि तं विषण्णं गम्भीरं वीक्ष्य कृष्णस्मृतिमाश्रये। पञ्चपतीनां प्रसादाय मध्ये मध्येऽहं कृष्णं द्वारकात: प्रवर्त्तयामि स्म। युद्धोत्तरशोकमतिक्रम्य जीवितुं कृष्णं विनाऽस्माकं गत्यन्तरमेव नासीत्।
(५४)
वर्षात् परं वर्षं व्यतीयाय। यदुकुलं विनाशाद् रक्षितुं श्रीकृष्ण: स्वराज्ये सुरापानं निषिद्धं चकार। अहमचिन्तयम्—द्वारकापुर्या रसातलगमनात् परमपि यदि कृष्णोऽस्ति, तर्हि सर्वमस्माकमत्र सन्निहितमस्ति। य: स्वयम्भूस्तस्य विनाश: पुन: कुत:?
अनेकदिनेभ्य: सखाऽत्र नागत:। समाचार: प्रेषितो यत् कृष्णो द्वारकायामर्जुनं स्मरति। अर्जुनस्य द्वारकाप्रस्थानात् परं मनसि मेऽभिमानोऽजायत। अचिन्तयम्—सख्या सखा स्मृत:, न तु सखी?
परन्तु यया वार्त्तया सहार्जुन: प्रत्यागत:, तां घटनां प्रत्यक्षीकर्त्तुं कदापि नाहमशक्ष्यम्। मस्तके यथाऽऽकाशं निपतितम्। पद्भ्यां पृथिवी अपसृता। अत्यधिकं सुरापानेन परस्परं कलहेन यदुकुलं ध्वस्तम्। बलराम: स्वर्गारूढ:। शबरशराघातेन श्रीकृष्णोऽपि लौकिकशरीरं तत्याज। द्वयोर्मरणोत्तरसत्कारपूर्वकं कृष्णपौत्रेण वज्रेण सह प्रत्यागतोऽर्जुन:।
कृष्णस्य महाप्रयाणेन सहैकस्य महायुगस्यावसानमभूत्। अर्जुन: शक्तिहीनो बभूव, अहं च प्राणहीना। कालो हि बलीयान्, तस्मान्निस्तारशक्ति: कस्यापि नास्ति। घोर: कलिकाल: श्रीकृष्णमहाप्रयाणं प्रत्यैक्षतेव। कलियुगारम्भात् परमहिंसो धर्मवान् युधिष्ठिरोऽन्वभवदुपस्थितं महाप्रस्थानसमयम्। सम्प्रति स राजसिंहासनायायोग्योऽथवा कलियुगराजसिंहासनं न्यायपरायणाय युधिष्ठिरायानुपयुक्तमासीदित्ययं जटिल: प्रश्नो मत्पुरस्तात्।
राजसिंहासनमेकम्, राजा तु परिवर्त्तते। मनुष्य आयाति, याति, महाकालस्तु केवलं प्रवहति। न्यायं विना धर्मो यथा, कृष्णं विना पाण्डवास्तथैव। युधिष्ठिरराजसिंहासनत्यागस्यायं प्रकृष्ट: समय इति सर्वे वयमन्वभवाम।
हस्तिनापुर्या राजाऽभवदर्जुनपौत्रोऽभिमन्युपुत्र: परीक्षित्, इन्द्रप्रस्थस्य च कृष्णपौत्रो वज्रनाभ:। द्वयो: सख्यो: पौत्रयो: राज्यभारं संन्यस्य युधिष्ठिरो निश्चिन्तो बभूव। सुभद्रायै सर्वान् भारान् समर्प्य युधिष्ठिरेच्छया पञ्चपतिभि: सहाहं स्वदेहेन स्वर्गारोहणाय हिमालयं प्रस्थिता।
स्वदेहेन स्वर्गारोहणमपि न सामान्यं प्रलोभनम्। प्रलोभनं विना स्वर्गारोहणमपि न सम्भवम्। अहं राज्यधनसम्पदो विहायागता, किन्तु प्रलोभनमत्यजम् कुत:? प्रलोभनं विना जीवनं किं सम्भवति?
परावृत्यापश्यम्—पृष्ठतो मायाऽनुधावति। माया मे पृष्ठं न त्यजति। माया बन्धनमिव मां पृष्ठत आकर्षति किमर्थम्?
सत्वरजस्तम इति त्रिगुणरज्जुबद्धो जीवात्मा। तमोगुणो मोहोत्पादक:, रजस आसक्तितृष्णयोर्जन्म, सत्त्वगुणस्तु सात्त्विकतां जनयति। तथापि सत्त्वगुण एकं बन्धनम्। रजस्तमसी लौहबन्धने, सत्त्वं तु स्वर्णबन्धनम्। अत: हिमालयमार्गेण स्वर्गारोहणेच्छा सात्त्विक्यपि सा मत्पदयो: सुवर्णबन्धनमिव। यतोह्ययमेव मे मोह: कश्चित्। राज्यप्राप्तिमोहो लौहबन्धनं चेत् स्वर्गोपलब्धिमोह: किं न सुवर्णबन्धनम्!
को मोहान्मुक्त:? अहम्? मम पतय:? मोहग्रस्तमनुष्यस्य स्वदेहेन स्वर्गप्राप्ति: किं सम्भवति?
मोहो मनुष्यमन्धीकुरुते इति सत्यम्। तथापि मार्गातिक्रमणे कश्चिन्मोहो, काऽपि फलासक्तिश्च मनुष्यस्य निश्चयेन वर्त्तेते। अत: मनुष्योऽन्ध इवोचितमनुचितं चाविचार्य मार्गं चलति, यथा वयम्।
मार्गे चलन्ती चिन्तयामि—जन्मन्यस्मिन् किं मयोपलब्धम्, किं च त्यक्तम्? किमर्थमहमागता? कतमं कार्यं मया सम्पादितम्? किं च मे करणीयमासीत्, यन्न कृतम्?
राज्यभोगाहारनिद्रामैथुनादिनि सर्वाणि मया जीवने सम्प्राप्तानि, तथापि जीवनं सम्पूर्णं न प्रतीयते कथम्? कोऽभावोऽवशिष्ट:? किमर्थमेतावन्ति यन्त्रणाशोकदु:खान्यसहे? चिन्तयामि—काऽपि नारी युधिष्ठिरं पतिरूपेणाप्याहमिवाशेषं दु:खमवश्यमलप्स्यत। एवं चिन्तयन्ती हिमालयस्य स्वर्णरेणुषु स्खलितपदाऽहं प्रथमं निपतिता।
अन्त:करणे पञ्चदेवा इव ये पञ्चपतय: मया स्थापिता:, ये मे जन्मजन्मान्तरसम्बद्धास्ते पृष्ठत: पतितां मां सकृदप्यनवलोक्य स्वर्गमार्गेऽग्रेसृता:। मृत्योर्द्वारदेशेऽहमेकाकिनी।
अशृणोम्—भीमसेनो वदति—''अग्रजवर्या:! द्रौपदी स्खलन्ती पतिता।’’
युधिष्ठिर: स्थिरकण्ठेनोवाच—''सा स्वयमेव स्वपतनस्य कारणम्। साऽधिकतरमर्जुनानुरक्तेति तस्या इदं पापम्। भीमसेन! त्वमप्यत्रापि स्वगदां परित्यज। गदा हि तवाहङ्कार:। स्वर्गराज्येऽहङ्काराय स्थानं नास्ति। पृष्ठतो मा वीक्ष्यायाहि।’’
भीमसेन: भ्रात्राज्ञया स्वगदां तत्रैवाधो निक्षिप्य समचलत्। पाण्डवानां स्वर्गयात्राया: प्रमाणभूता 'भीमगदा’ (भीमगोडा) तत्र हिमालयहृदि समवस्थिता।
अत्रैव माता कुन्ती, माता गान्धारी, पिता धृतराष्ट्र:, पितृव्यो महात्मा विदुरश्च जीवनस्यान्तिमदिनानि यापयामासु:। तत्राहं निपतिता। अग्ने भरतमन्दिरं दृश्यते। पूर्वं रामचन्द्रपरमभक्त आज्ञाधीनो भ्राता भरतोऽनेन मार्गेण हिमालयस्य निभृतप्रदेशे तपश्चरितुं यात्रां चकार।
अरण्यनिवासकाले भरतमन्दिरं तत्र निर्मापितं युधिष्ठिरेण। अद्यापि भरतमन्दिरे प्रणमन्तश्चत्वार: पाण्डवा युधिष्ठिराज्ञया मां विहाय स्वर्गाय प्रस्थिता:।
अहङ्कार: स्वर्गद्वारपथं रुणद्धि। संसारेऽस्मिन् किं कोऽप्यहङ्कारशून्योऽवशिष्यते? ह्योऽहं हस्तिनाराज्ञी आसम्। पितरं, पुत्रान्, भ्रातृन्, बन्धूँश्च सर्वानुत्सृज्य हस्तिनामहिषीपदं मयाऽऽसादितम्। तथापि मनसि मेऽहङ्कारो नायातीति न। यस्मिन् जीवनेऽहङ्कारस्य पर्याप्तानि कारणान्यासन् तज्जीवनं कदापि पूर्वं सम्पूर्णं न प्रतीयाय। अद्य मृत्युपथे निपतिताया एकाकिन्या मेऽहङ्कारस्तु व्यपगत:, परन्त्वसहायता मां पूर्णतो ग्रसते। सैषा मयि हीनम्मन्यतामाविष्कुरुते। अद्याहमनुभवामि यज्जीवनं नाम नैव केवलमहङ्कार:, न चासहायता। अनयोर्मध्ये जीवनस्रोत: प्रवहति। जीवनेऽहङ्कारस्य असहायतायाश्च महत्तरी भूमिका वरीवर्त्तते। केवलोऽहङ्कारो मनुष्यमन्धीकुरुते। केवला चासहायता तु तं हीनम्मन्यं सम्पादयति। परन्तु, असहायताहङ्कारावेतौ महत्तरौ चेज्जीवनं सार्थकीभवति। मनुष्यो यदा चिन्तयति—''हे ईश्वर! अहं त्वत्सृष्ट इति ममायमहङ्कार:, त्वं हि मम शक्ति:, सहायकश्च—त्वां विनाहमकिञ्चनोऽसहायश्च’’—तदा तदात्मा भवत्यूर्ध्वगामी, स्वर्गस्तदर्थमुन्मुच्यते।
अद्याहमपि सकलमहङ्कारं मदीयं, सकलाञ्चासहायतां तुभ्यं समर्प्य महत्तरीकरोमि। सम्प्रत्यनुभवामि यत्त्वामन्तरेण मनुष्यस्याहङ्कारोऽसहायता चोभे विफलेऽर्थहीने च।
(५५)
कस्यायं वंशीस्वन:! शोणिताप्लुतं हृदयं पवित्रीकुरुते, भावनिर्झरिणीं च प्रवाहयति। कर्णपुटे क: कथयति—'जीवनं भावाय, न तु भोगाय!’ क: पन्थानं प्रदर्श्य मां भोगजीवनाद्भावजीवनमभित: प्रेरयति? आवाहयति—आयाहि, आयाहि, अहं प्रतीक्षमाणोऽस्मि। क: सोऽदृश्य: सहचर:? किमु माया?
नैव। माया तु पूर्वं स्खलितचरणा निपतिता, मृत्युं चालभत। हिमालयेऽस्य गङ्गाद्वारस्याभिधानं 'मायापुरी’। मायापुर्यां प्रविशन्ती माया भ्रष्टा। अहं सम्प्रति मायामुक्ता। एतावत्सु विगतदिनेषु माययैवाहं बन्धन आपादिता। सा शोकदु:खलाञ्छनाभि: क्लेशयति स्म। परन्तु मोहिनीं मायामविज्ञायाचिन्तयम्—सखे! कृष्ण! त्वमेव मे दु:खकारणम्। त्वामविदित्वा मया जीवने कियद् दु:खं नाङ्गीकृतम्! को मेऽत्र दोष:? यदा त्वय्यात्मानं समापयितुमैच्छम्, तदा माया मम पथरोधकारिणी जाता। मनो मेऽधोमुखं तयैव सम्पादितम्। जीवनादद्य मृत्यु: सुखकरोऽधिक: प्रतीयते। यतोहि जीवनं मायाग्रस्तमासीत्, मृत्युस्तु मायामुक्त:।
सखे! मम दोषहेतोर्मां सत्ताहीनां कुरु, समापय। आजीवनमहं याच्ञापरायणा—देहि, प्रयच्छ, सुखं वितर, ऐश्वर्यं देहि, संसारस्य समस्तानि भोग्यवस्तुनि च प्रदेहि। त्वं सर्वं दत्तवान्—संसारस्य सकलं दु:खमपि। परन्त्वद्याहं पृथक् किमपि याचे—मां नय, मामुपनय, हे परमपुरुष कृष्ण! मां समापय, चिह्नहीनां च कुरु, मां च त्वत्तोऽभिन्नां सम्पादय। यस्त्वत्तोऽविभक्त: स नु ते भक्त:! नाहं किं तव भक्ता? किमिदमस्वीकर्त्तुमर्हसि सखे!?
सखे! प्रियतम! नाहमात्मने किमपि प्रार्थयिष्ये। प्रार्थयिष्ये तु केवलं मम सुन्दरपृथिव्यै। इयं मेऽन्तिमा कामना। त्वं नु पूर्णपुरुष:! न त्वया किमप्यदेयमस्ति! यद् याचिष्ये, किं न दास्यसि?
प्रथमा प्रार्थना—हे कृष्ण वासुदेव! यद् यद् जीवने मम सङ्घटितं, तत्तत् कस्यचिदपि जीवने न स्यात्। कदापि कस्याश्चिन्नार्या एकाधिकपतिर्न विधीयताम्। आत्मविभाजनदु:खमहं सम्यग् जानामि।
द्वितीया प्रार्थना—दयामय कृष्ण! शत्रवेऽपि पुत्रशोकं मा प्रयच्छ। पुत्रशोकाद्गुरुतर: शोक: संसारे नान्योऽस्ति। को मदतिरिक्त इमं बत विशेषतो वेत्ति?
तृतीया प्रार्थना—निर्यातना या सभागृहे ममाभूत्, सा पृथिव्यां पुन: कस्या अपि नार्या जीवने न भवतु। नारीं रूपमयीं कुरु, परन्तु पुरुषं कामुकं नैव कदाचित्।
चतुर्थी प्रार्थना—इयं संसारकल्याणाय, कलियुगस्य भाविमानवसमाजाय। हे परमकल्याणकारिन् कृष्ण! एकं मया महासमरं प्रत्यक्षीकृतम्। गृहयुद्धं विश्वयुद्धरूपेण परिणतं कथं समग्रां पृथिवीमामूलान्नाशयति, तन्मया हृदयेनानुभूतम्। मम जननीहृदयमद्यापि धरित्रीमातुर्विलापं शृणोति। अतो ममायमनुरोधो यद् धर्मजातिवर्णभाषावैषम्यादिभिर्हस्तिनापुरीव धरणीयं मा विभज्यताम्। वैषम्यं हि तव सृष्टेर्वैचित्र्यम्। तदाधारेण राष्ट्रस्याखण्डत्वपवित्रत्वे न नश्येताम्। विश्वेस्मिन् सत्सु वैषम्येष्वगणितेष्वपि महासमरं न कदापि सम्भूयताम्। महासमरपरिणामं स्वयमहं जानामि। समरलिप्तावुभौ पक्षौ क्षतिमाप्रुत:। विजयिनो विजिताश्च बन्धुशून्या भवन्ति। सभ्यतासंस्कृतिधनजीवनानि लुप्यन्ति।
अवगतं मया व्यासदेवात्—पञ्चसहस्रवर्षेभ्य: परं कलियुगे सभ्या: संस्कृताश्च मानवा विज्ञानस्य चरममुत्कर्षं भजिष्यन्ति। विज्ञानबलेन मनुष्या ग्रहान्तरेष्वपि निवत्स्यन्ति। तदानीं यदि स्वार्थपिपासूनां मानवानामन्धत्वविचारात् महायुद्धमनुष्ठीयेत, तर्हि विज्ञानायुधैस्तस्य का भयावहा परिणति: स्यादित्यवगच्छसि आपद्बान्धव केशव? हे सृष्टिकारक! सृष्टे: समूलनाशेन पुनर्नवीनसंसारसर्जनाय त्वमेव चिन्तयिष्यसि। अत: द्वापरयुगे एकदा शान्तिस्थापनाय दूतरूपेण हस्तिनापुरीं प्रस्थितस्त्वं किं तदा सावधानो भवन् कलियुगे चिन्तोद्बुद्धमनुष्यकर्णे मोहनवंशीस्वनं न श्रावयिष्यसि—शान्ति: शान्ति: शान्ति:!
तव शान्तिसङ्गीतस्य विफलतायां पुनस्त्वं पृथिव्यामवतरिष्यसि। तव तु मार्गद्वयम्—शान्ति:, अन्यथा संहार:। संसारे मरणशीलशरीरेण लब्धजन्मनो दु:खं त्वं मर्मणा अनुभवसि। सखे! अत: शान्तिमार्गं न कथमाचरिष्यसि? अत: संसारकल्याणाय जातीयैक्यम्, विश्वमैत्री, समराकाङ्क्षामुक्ता पृथिवी च मे चतुर्थप्रार्थना।
पञ्चमप्रार्थना—सखे! पञ्चपतिनायिका पञ्चालदेशराजकन्या पञ्चतनयजननी अहं पाञ्चाली। पञ्चप्रार्थनाभि: समापयिष्यामि मे पञ्चभूतशरीरस्यान्तिमं पर्व। मम पञ्चम्यन्तिमा च प्रार्थना का स्यादिति चिन्तयसि? मोक्ष:? स्वर्गलाभ:? मुक्ति:? तत् तु जीवात्मन: परमं लक्ष्यम्। परन्तु प्रार्थना मे सर्वथैतद् विपरीतम्।
अहं मोक्षं न कामये, स्वदेहेन स्वर्गं नेच्छामि, न च मुक्तिं काङ्क्ष्ये। अहं तु प्रार्थये पुनर्जन्म। किं चकितो भवसि सखे! स्वर्गराज्यं मेऽनावश्यकम्। स्वर्गराज्यं तु देवानां वासस्थलम्। स्वदेहेन यदि कोऽपि स्वर्गमारोहेत्, तर्हि स केवलमेव युधिष्ठिर:। स धार्मिकोऽपि मनुष्येभ्यो निष्ठुर:। स मनुष्योऽपि देवाचार:। पृथिवीतो दूरीभूय स्वर्गप्राप्त्यै तस्याजीवनसाधना। ममान्ये पतय: साधारणमानवा:। ते निश्चयेनैकैकश: स्खलन्त: पतिष्यन्तीत्याशङ्के। स्वदेहेन स्वर्गलाभस्य क्लेशवरणात्, स्वजन्मस्थलस्य मर्त्यलोकस्य स्वर्गभुवनरूपेण परिणमनाय क्लेशाङ्गीकारो मद्दृष्ट्या श्रेयान्।
सखे! जन्मन्यस्मिन् मेऽनेकास्त्रुटय:। न्यायप्राप्त्यायस्तु नाम, मया युद्धं प्रतीक्षितम्, प्रतिहिंसाया: सुयोगोऽन्विष्ट:, युद्धाय पतयश्चोत्साहिता:। अद्य चिन्तयामि, यदि शान्तिस्थापनाय मूलादेव पणमकरिष्यम्, तर्हि महासमरादार्यावर्त्तस्य निरीहो मानवसमाज: कदाचिदजीविष्यत्!
जन्मनोऽस्य त्रुटिकारणान्मम पुनर्जन्म कारय अस्यां पवित्रभारतभूमौ, यत्र त्वं नश्वरशरीरेण जज्ञिषे। भारतस्यात्मा कृष्णमय:, आनन्दमय:, प्रेममयश्च। प्रेमपूर्णं हृदयं हि ऐशकृपाया: पात्रम्। मनुष्यं विनिन्द्येश्वरप्रेमोपलब्धिरसम्भवा। अत: हे प्रेमिकशिरोमणे कृष्ण! मां ते प्रेमिकां कुरु। कृष्णप्रेमिकारूपेण विश्वप्रेमिकारूपेण च मां पुन: पुनर्जनय।
अहं जानामि यदेकदा महाभारतस्य कृष्णचेतना, आध्यात्मिकता, धर्मभावना च समग्रविश्ववासिनां चेतनां स्प्रक्ष्यति। एकदा च समग्रं विश्वं कृष्णमयं सम्भविष्यति। कृष्णशब्दोऽन्धकारार्थक:। अन्धकारो ह्यालोकजन्मदाता। अत: आपतिष्यन्त्यां विपन्नतायामन्धकाराच्छन्नस्य विश्वस्योत्थानं केवलमाध्यात्मिकचेतनया सम्भविष्यति, एकदा च भारतभूमि: समग्रविश्वे शान्तिमैत्रीपथप्रदर्शिका स्यात्। हे विश्वमय कृष्ण! ममास्य जन्मनस्त्रुटिकारणान्मां वारं वारं भारतभूमौ समुत्पादय।
आजीवनं माऽस्तु नाम, मुहूर्तमात्राय मह्यं कर्महस्तेन, ज्ञानदृष्ट्या, भक्तिहृदयेन च सह त्वदर्थं जन्म प्रदेहि, त्वदर्थं मरणमपि। सखे! त्वं जगत्, त्वं विश्वब्रह्माण्डम्। त्वदर्थं जन्ममरणे नाम जगत्कारणाय तेऽपि। तादृशजन्मना कदाचिदस्य जन्मनस्त्रुटि: क्षालिता भवेत्। मनुष्यजन्म सार्थकीभूयात्। पृथिव्यामुत्पद्य पृथिव्यां स्थित्वा पृथिव्यां च मरणलाभेनात्मन: स्वर्गप्राप्ति: सम्भवा। स्वदेहेन स्वर्गप्राप्ते: स्वात्मना स्वर्गप्राप्तिरद्य मे काम्यतरा।
अद्य मरणेन मम दु:खं नास्ति, यतोहि पुन: पवित्रभारतभूमौ जन्मकामनया तदङ्गीकरोमि, मृत्युपथे च कृष्णनामस्थाने ममाधरस्तव वंशीस्वनभावमुच्चारयति—ॐ शान्ति:! शान्ति:! शान्ति:। कलियुगस्याशान्तविश्वमानवान्त:करणे मोहनवंशीस्वन एवं श्रावयन्नस्तु ॐ शान्ति: शान्ति: ॥ इति॥
सखे! पत्रलेखनमारब्धं मया स्वदु:खं निवेदयितुम्। परन्तु वर्णयामि जगज्जनदु:खशोकौ। तदेव नाटकं प्रस्तौमि, त्वं यस्य नायक: स्वयम्। स्वीया मे गाथाऽवशिष्टेति प्रतीयते। पत्रलेखनं समाप्य पठन्ती चिन्तयामि—किमु पुन: पत्रं लेखितुमारप्स्ये? समाप्तेरयमारम्भ:, अयमारम्भाच्च समाप्तिरिति किमिदं करोमि?
उक्तं त्वया—मृत्युर्न जीवनस्य समाप्ति:, अपितु आरम्भ:, नववासस:परिधानम्। अत: पत्रस्यारम्भात् समाप्ति: समाप्तेश्चारम्भ इति का क्षति:?
मम शरीरमिह, आत्मा तु पुष्पदलांश इव शून्यमार्गे प्रवहति, यत्र शबरशरबिद्धौ ते रुधिररञ्जितौ चरणौ कृष्णमयाकाशे सहस्रदलकनककमलरूपेण विद्योतेते। एकदा भवतैवं स्वर्णवर्णं विकचं सहस्रदलकमलमेव प्रक्षिप्तं ममोपरि, मम चोत्पादिता पद्मप्रीति:। मायाबद्धा किमहं तदा ज्ञातुं शक्ता यत्तन्नासीत्ि कमलम्, अपितु प्रेममयं भवतश्चरणकमलयुगलमिति!
अगणितानि कमलदलानि कुतश्चिदुड्डीय तै: सहस्रदलकमलदलै: सह संयुज्यन्ते। पुनश्च कुत्रापि तस्माद्वियुक्तानि गच्छन्ति, पुनर्मिलन्ति च। परन्तु कमलाकारस्य, तद्दलानां सङ्ख्यायाञ्च न क्षयो, न च वृद्धि: सञ्जायेते।
याँस्त्यक्त्वाऽरुदम्, तेषां मुखानि पश्यामि एकैकदलदर्पणेषु। तव पादपद्मे दलरूपेण संयुज्यन्ते मम पिता, भ्राता, पुत्रा:, माता कुन्ती, गान्धारी, बन्धव:, परिजना:, वीर: कर्णश्च! अहमपि तेन कमलेन सह मिलितुमभिसरामि। य एकदा दूरीभूतास्ते सर्वे लभ्यन्ते पुन:। अद्याहमवगच्छामि यत्ते चरणकमलं हि परमोपलब्धि:। परमप्राप्तौ शत्रुमित्रधर्मजातिवर्णविभेदो नास्ति। तेषु कमलदलेषु शत्रून् मित्राणि च सर्वान् प्रत्यक्षीकरोमि। संयोगमार्गे उड्डीयाहं शून्यताया: पूर्णतां गच्छामि, अनुभवामि च—या शून्यता सैव पूर्णता, य: प्रारम्भ: स एव विलय:, य: समारम्भ: सा च समाप्ति:—
अत: समाप्तित: श्रीगणेशं करोमि मे पत्रस्य। इदं न पत्रम्, अपि तु मे जीवनम्। जीवनस्य पुनरावृत्तिर्मम तु कामना!।
कुत्र स्थगितं मया लेखनं पत्रस्य? अस्तु—मोहनवंशीस्वनो विश्वमानवान्त:करणे गायेत्—ॐ शान्ति: शान्ति: शान्ति:।
॥ आरम्भ:॥
उपोद्घात:
'याज्ञसेनीति उपन्यासो द्रुपदनन्दिनीद्रौपद्यास्तदीयदृष्ट्याऽऽत्मगाथां प्रस्तौति। नारीमुखेन नारीजीवनसमस्या प्राचीनमहाभारतानुगत्येन औपन्यासिकया प्रो० (श्रीमती) प्रतिभारायमहाभागयाऽतिसूक्ष्मतया रुचिरसाहित्यिकशैल्या मनोवैज्ञानिकविचारेण चोपन्यस्ता। अथ च, समर्पणमन्तरा जीवनं नैव पूर्णतामश्रुते, न च जीवने सकलसमस्यासन्तापसंहारक: साहस: समुदेति, न वा पूर्णानन्द आस्वाद्यते इत्यत्रापि प्रतिपादितं चरमं विषयवस्तु ध्वन्यते। समर्पणं नाम देहात्ममनोबुद्ध्यादीनां निश्शेषेण स्वेष्टे तदाकाराकारितत्वम्, इष्टश्च 'यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति’ इति धिया सार्वत्रिक:। किञ्च, सामाजिक: सकलो विषयोऽन्त्ये शान्त्यामेव पर्यवस्यतीत्यत्रापि प्रतीयते।
जीवनं केवलं स्वार्थपूरणायोद्दिष्टं सर्वथा दर्शनहीनं समाजायाशिक्षणीयं च भवति। क्वचिज्जीवनमस्माकं दर्शनादर्शरहितं सत् मार्गान्तरं माऽभिसरतु इति सुसमृद्धसाहित्यानां काले काले सदुपदेश:। तथाभूतसाहित्यसमवाये उपन्यासोऽयं गणनार्ह इति मादृशा:।
नारी शिशु:, कन्या, भगिनी, पत्नी, जननी चेति तस्या जीवनम्। पुरुषस्यापि तथा। काऽपि नारी निर्विशेषेण जननीति न: संस्कृति:। किन्तु, वरनारीं परनारीं द्रौपदीं स्वोपभोग्यारूपेण बलादुपलब्धुकामानां दुर्योधनदु:शासनादीनां स्वाजेयतां मन्यमानानामकाले कालकवलता किंसम्प्रत्यपि नश्चेतो मुहुर्नान्दोलयति? कारणादस्मात् पुरातनगर्भादाधुनिकसमुन्मेष एवोपन्यासस्यास्योपक्रम: कश्चित्।
ज्ञानपीठमूर्त्तिदेवीपुरस्कारसारलापुरस्कारसभाजितस्यास्योपन्यासस्य दशाधिकभारतीयभाषासु अनुवाद: पूर्वं जात एव। अस्य च दूरदर्शने Sahara channel मध्ये १६ Episosde द्वारा दृश्यरूपमपि २००३ वर्षे आगतम्। २००२ वर्षेऽस्मद्गुरुपादानां प्रो० राधावल्लभत्रिपाठिमहोदयानां सागरविश्वविद्यालयसंस्कृतविभागाध्यक्षाणां सत्प्रेरणयाऽस्य संस्कृतानुवादं विधातुं युक्तोऽहमन्वभवम् यत् अनुवादो नैव कश्चित् सरलो व्यापार इति। कानिचन वाक्यानि संस्कृतेनानूद्य पुन: विषयदृष्ट्याऽर्थानुशीलनकाले मूलार्थादर्थान्तरं मया तत्र तत्र प्रत्यक्षीकृतम्। अनेक एवं शब्दास्तत्र तत्र समागता:, येषां संस्कृतानुवादस्तदर्थविरोधं ब्रूते। प्रान्तीयभाषाया अविकलानुवादेन मूलार्थागमेऽस्पष्टता प्रतीयतेऽनेकश:। तथापि मूलाभिव्यक्तिस्पष्टीकरणार्थं मया वरेण्यविदुषां सुपरामर्शेण यथाशक्ति प्रयास: कृत:। मूलभावोऽक्षत: स्यात्, भाषा च मूलभाषानुकारिणी भवेत् इति अनुवादेऽस्मिन् ध्येयं मम। संस्कृतेऽपि भाषान्तरसाहित्यग्रन्थानां ललितानुवादसम्भावना, विदुषां संस्कृतपाठकानां पुरस्ताल्लोकप्रियमूलग्नन्थविचारसमुपस्थापनम्, विविधभाषासाहित्यान्तर्निहिततत्त्वसंवाद: इत्यादिकारणेभ्य: कार्येऽस्मिन् मे प्रवृत्ति:।
येषां महतां सदुपदेशेन सदिच्छया शुभाशिषा च ममायं श्रम: कलेवरतामाप्त:, ते सम्प्रति सन्ततं मे ध्यानपथे परापतन्ति। तत्र, भाषाभावपदव्यवहारादिविषयेषु सदुपदेशै: प्रबोधितवताम्, अनेकशश्च साहित्यदृष्ट्या संशोधयतां श्रीमतां गुरुपादानां प्रो० राधावल्लभत्रिपाठिमहोदयानां नितरां शिष्यकल्याणनिरतानां चरणकमलाभ्यां हार्दं कार्तज्ञं सविनयं विनिवेदयामि। सारस्वतसपर्यासरणौ पुन: पुनर्मदुत्साहं सञ्चारयतां वागुपासकानां श्रीमतां गुरुवर्याणां प्रो० वाचस्पति उपाध्यायमहोदयानां श्रीलालबहादुरशास्त्रिराष्टि्रयसंस्कृतविद्यापीठकुलपतीनां पदाम्बुजाभ्यामवनतशिरसा स्वीयां कृतज्ञतां व्याहरामि। मम प्रार्थनां स्वीकृत्य ग्रन्थमेनं प्रकाशयितुमङ्गीकृतवताम्, अथ च कतिपयविशिष्टमार्गदर्शनै: समुत्साहितवतां नवदेहलीराष्टि्रयसंस्कृतसंस्थानकुलपतीनां परमपूज्यानां प्रो० वेम्पटि कुटुम्बशास्त्रिमहोदयानां चरणाम्बुजाभ्यामानतमस्तको नैजं कार्तज्ञं विज्ञापयामि। ये च परोक्षापरोक्षतया ममास्मिन् कर्मणि प्रो० (श्रीमती) प्रतिभाराय, प्रो०(श्रीमती) अमिताशर्मा, गुरुवर्या: प्रो० हरेकृष्णशतपथी, प्रो० गङ्गाधरपण्डा प्रो० रमेशकुमारपाण्डेय, प्रो० रा० देवनाथन् प्रो० अच्यतुतानन्ददाश प्रो० इच्छारामद्विवेदि डॉ० हरेकृष्णमहापात्रादय:, डॉ० अनिलमलिक: (बालरोगविशेषज्ञ:, पलवल, हरियाणा), इत्यादयश्च दुर्लभपरामर्शै: सदयमुपकारं कृतवन्त: तेषामेतेषामनुग्रहं सविनयप्रणामपुर:सरं सततं स्मरामि। सुहृन्मणि: डॉ० सुकान्तकुमारसेनापति:, डॉ० प्रकाशपाण्डेय: (सहायक प्रकाशननिदेशक:, रा. सं. संस्थानम्) समयेऽस्मिन् तयो: साहाय्यकारणाद् विशेषत: स्मर्येते। अनुजकल्पौ डॉ० सुधांशुभूषणपण्डाडॉ० विष्णुपदमहापात्रावविस्मरणीयसहायताप्रदानात् धन्यवादै: सभाजयामि। कृतेऽपि भूरिप्रयत्ने दोषोऽप्यवशिष्यत इति पठने तत्र तत्र समागतान् दोषान् स्वयं संशोध्य मर्षयिष्यन्ति मे दोषान् सुधिय इति।
वसन्तपञ्चमी
भवदीयो
२००६ भागीरथिनन्द:
आद्याभास:
याज्ञसेनी विलक्षणं नारीत्वावाहनमेकम्। कर्मज्ञानभक्तिशक्तीनां मूर्तिन्मती देवी याज्ञसेनी।
विश्वेऽस्मिन्नद्यापि तथाभूता नारी न लब्धजन्मा, या याज्ञसेनीव जीवने निर्यातनालाञ्छनामानसिकसङ्कटसङ्घर्षादीनां सम्मुखीना।
कामान्धपुरुषै: सुन्दरी नारी युगे युगे निर्यातिताऽपमानिता च। किन्तु भ्रातृविवादेर्ष्यासूयावशवर्तिभि: स्वकुलवध्वा अगणितज्ञानगुणमानवतां पुरुषाणां समक्षं विवसनताया:, तत्र सर्वेषां च निर्वसनयुवत्यङ्गशोभादर्शनाय तूष्णीमुपवेशनस्य कलङ्किताध्यायदृष्टान्तो विश्वस्य लिखितालिखितेतिहासे न वर्त्तते। किं बहुना, कविताकथानाटकादिष्वपि कस्या अपि महिलाया: एवं निर्यातनाया दृष्टान्तो न दृश्यते। अपि च, अज्ञानेन श्वश्रूमुखनिस्सृतेन वाक्येनैकेन राजनन्दिनी कृष्णा बलादिव पञ्चपतिवरणाय नियोजिता। पुराणेषु दृश्यमानेषु कतिपयेष्वेवम्भूतेषु दृष्टान्तेषु, सभ्यमानवसमाजेतिहासेऽयमेको विस्मयकरो विषय:। स्वसतीत्वपराकाष्ठया कृष्णाया नाम प्रात:स्मरणीयमपि, पञ्चपतिवरणकारणात् कौरवै: कर्णेन च बहुपुरुषभोग्यारूपेण वाराङ्गनाख्यया च पुन: पुन: निन्दिता सा। तथापि पञ्चपाण्डवानां चिरसहचर्या जीवने प्रतिपदमङ्गीकृतनानाकषणया कृष्णया स्वमनोबलं नैव हारितम्। अन्त्ये मेरुगिरे: हिमालयस्य स्वर्णरेणुषु आदौ स्खलितपदा स्वर्गलाभाद् वञ्चिता कृष्णाऽत्यन्तनिस्सहायतया स्वदेहं तत्याज।
कृष्णायास्त्यागस्य निष्ठायाश्चारित्रिकदृढतायाश्च विषये कियद् वा वयं विद्म:! मम कस्याश्चित् परिचिताया महिलाया: कनिष्ठा भगिनी कृष्णा मद्यपेन दुश्चरित्रेण पत्या परित्यक्ता पित्रालये निवसति स्म। कृष्णाया: पुनर्विवाह उचित इति तत्परिचिता: सहानुभूत्याऽभिप्रयन्ति स्म। परन्तु अस्माकं समाजे पतिपरित्यक्ताया: कृष्णाया: पुनर्विवाहो न सरल आसीत्। पश्चिमशर्मण्यदेशे स्थितस्य सहोदरस्य निकटे मनोभावपरिवर्त्तनाय उच्चशिक्षार्थं च गतवत्या: कृष्णाया: कतिपयदिनेषु तत्रस्थेन युवकेनैकेन सह विवाह: सुसम्पन्नोऽभूत्। सा सम्प्रति कन्यापुत्रयोर्जननी। मधुमयं तस्या वैवाहिकं जीवनम्। किन्तु, आश्चर्यमिदं यत्, एकदा ये कृष्णां प्रति संवेदनशीला आसन्, ते तस्या द्वितीयविवाहेन निन्दापरायणास्तच्चरित्रविषये नानाकुभाषणं कृतवन्त:। अन्यतमस्तेष्विदमपि अब्रवीत्—''अभिधानं यस्या: 'कृष्णा’ इति, सा पुनरेकेन पत्या सन्तुष्ट: कथं स्यात्? कृष्णा तु पञ्चपतिनायिकाऽपि पुनरतृप्ता कर्णं श्रीकृष्णं च प्रत्यनुरक्ताऽऽसीत्........’’
तदाऽहं भृशं व्यथिताऽनयोक्त्या। कलियुगे पतिपरित्यक्तां नारीं कृष्णां प्रति एवमुक्तिर्न मे व्यथाकारणम्। मानवाय मानवस्य कैतवरोदनमद्यात्यन्तं तु स्वाभाविकम्। किन्तु द्वापरयुगस्यासामान्यां विद्यावतीं, भक्तिमतीं, शक्तिमतीं च नारीं कृष्णां प्रति विचारशून्यैवमुक्तिर्मे दु:खस्य कारणम्। इयं कस्यचन स्वीयोक्ति: स्यान्नाम, वयं कृष्णाया विषये कियद् बत जानीम:? कियत् पुनर्विद्मो महाभारतस्य महासंस्कृते:? मूलं संस्कृतमहाभारतं, तद्भाषान्तरं वा, सारलादासादीनां महाभारतं वा अस्मासु कति आमूलात् पठितुं विनियुक्तकाला: सन्ति:? अन्धानां हस्तिदर्शनमिव महाभारतस्य महतीमाख्यायिकां स्वयं नाधीत्य, कर्णपरम्परया यत्किञ्चिद् ज्ञानमाप्य वयं स्वसङ्कीर्णविचारदृष्ट्या स्वसंस्कृतिं विकृतरूपामेव कुर्म:।
कृष्णां 'याज्ञसेनी’रूपेण प्रस्तूय मम देशस्य संस्कृतावादरवतां, पाठकानां विचारभूङ्क्षम समुत्पादयितुमुपर्युपस्थापितप्रसङ्गेनाहं सङ्कल्पबद्धा।
मुख्यतोऽत्र व्यासदेवकृतं मूलं संस्कृतमहाभारतं म आश्रय:। उत्कलीयसारलामहाभारतस्यापि प्रभाव: कतिचित् स्थलेषु वर्त्तते। अनेके काल्पनिका: प्रसङ्गा:, काल्पनिकचरित्राणि चात्र मूलघटनया सह संयोजितानि मया। कतिपयस्थलेषु चोपन्यासस्यावश्यकतादृष्ट्या मूलमहाभारतघटनाप्रवाहक्रमरक्षायां किञ्चिद् व्यतिक्रमोऽपि विद्यते। एकस्या: साधारणमरदेहधारिण्या महिलाया: कृष्णाया: विडम्बिते वैचित्र्यमये च जीवने मनस्तात्त्विकचित्रसंनिवेशाय मया प्रयासो विहित:।
महापुरुष: कृष्ण एव महाभारतस्य नायक:। 'कृष्ण:’ 'कृष्णा’—अभिधानद्वयस्यात्मिकं संयोगं समुपन्यस्यानयोर्देहातीतप्रेमसम्बन्ध: (Spiritual Love) मया संस्थापित:। कृष्णद्रौपद्योर्मध्ये 'सखा—सखी’ सम्बन्ध: (Spiritual Love) अनेकै: ग्रन्थकारै: पूर्वं प्रदर्शित:। तथापि कृष्णस्यालौकिकं चरित्रमनुध्याय कस्मिन्नपि युगे का वा नारी तं प्रति अनुरक्ता न स्यात्?
एतावती मे कामना—समरशङ्कितस्य विपन्नस्य विश्वस्यात्मनि झङ्करोतु याज्ञसेन्या अन्तिमप्रार्थनाया: स्वर: ॐ शान्ति:! शान्ति:! शान्ति:!
प्रतिभाराय