(६)
स्वयंवरा भवितुमहमात्मानं प्रस्तौमि, यतोहि पाञ्चालदेशे राजकन्याया द्रौपद्या: स्वयंवरायोजनं प्रवर्त्तते स्म।
अर्जुनस्य वीरत्वं केन वा न विदितम्? पूर्वं पितृपादास्तेन पराजिता:। अत: सम्प्रति स स्ववीरत्वस्य चरमपराकाष्ठामप्रदर्श्य कन्यारत्नं द्रौपदीं किं लभेत?
एवम्भूताया अद्भुतस्वयंवरसभाया आयोजने प्रायेण तातपादानामुद्देश्यद्वयमासीत्। तत्र प्रथमम्—अर्जुनातिरिक्त: कोऽपि स्वयंवरप्रतिज्ञारक्षासमर्थो नैव यथा स्यात्। द्वितीयं च—पूर्वमर्जुनद्वारेण पराजयस्य ग्लानिकारणादद्य पाञ्चालानां पुरस्ताच्चरमपरीक्षया प्रायश्चित्तं कारयित्वा तातपादानां तद्ग्लानेरपमानस्य च प्रशमीकरणमिति।
नितम्बिनीमुखात् स्वयंवरप्रतिज्ञां निशम्याहं स्तम्भीभूता। परीक्षायामस्यां किमु कोऽपि कदाचिदप्युत्तीर्ण: स्यात्?
स्वयंवराय यच्छरासनं निर्मापितम्, तदेतावद्दृढमासीद्यत्तन्नमयित्वा तस्मिन् गुणसंयोगोऽत्यन्तं कष्टकर आसीत्। स्वयंवरार्थं निर्मापित एको मण्डप:। तदुपरि सुदीर्घो दण्ड:। तदग्रे स्थापनीयं लक्ष्यं वस्तु। तदध एकं घूर्णमानं चक्रं संयोजयिष्यते। क्षिप्रं घूर्णमानेन चक्रेण सह लक्ष्यवस्तुनश्चित्रं प्रतिविम्बितं भविष्यति अध:स्थितस्य जलकुण्डस्य काचस्वच्छे सलिले। तदर्थं मण्डपसन्निकटे एकस्य बृहज्जलभण्डारस्य निर्माणकार्यं समाप्तप्रायम्। चक्नोपरि स्थापनीयं लक्ष्यं वस्तु क्षुद्रमत्स्याकृत्या निर्मास्यते। दृशमधो निधाय धनुषि गुणमारोप्य सममेव पञ्च शरा निक्षेप्तव्या:। लक्ष्यस्थलस्थस्य मीनस्य नयनरन्ध्रमार्गेण ते पञ्च शरा लक्ष्यभेदं कुर्यु:, येन लक्ष्यं वस्तु अध: पतेत्। स्वयंवर उत्तीर्य द्रौपदीं लब्धुमियमेव प्रतिज्ञा।
पितृपादानामिमामभिनवां प्रतिज्ञां स्वयंवरस्य निशम्य मे मनसि संशय उदपद्यत यत् प्रायेण ते हृदयेनेच्छन्ति—अहं चिरकुमारी स्याम्, तेषां धर्मानुष्ठानेषु चात्मानमुपस्थाप्य तेषां धर्मरक्षां सम्पादयेयमिति। अन्यथा तेन किमर्थमेवं प्रतिज्ञोद्घोषिता, यां पूरयितुं भगवानपि समर्थो वा न वेति संशय:। किन्तु कृष्णसखस्यार्जुनस्य धनुर्विद्यायामव्यर्थशरसन्धानख्यातिर्मया श्रुतपूर्वा। पितृपादा: प्रायेण कामयन्ते यदर्जुनातिरिक्त: कोऽपि कृष्णां न प्राप्नुयादिति। तत: सैषा प्रतिज्ञा प्रसारिता, यत्पूरणे नान्य: समर्थो धनञ्जयं विना।
अर्जुनो न मया कदापि नयनातिथीकृत:। किन्तु स्वयंवराय पितृपादानां प्रतिज्ञामनुध्यायन्ती तस्य शौर्यं वीरत्वं चाहमनुमितवती, श्रीकृष्णाय च मनसा धन्यवादान् ज्ञापयित्वा तदानुगत्यं प्रकटितवती। अचिन्तयम्—तस्य सिद्धान्तेषु कदाचिदपि कोऽपि सन्देहं न कुर्यात्। यतोहि स सर्वमङ्गलमय:।
स्वयंवरमहोत्सवस्य सर्वाण्यायोजनानि समाप्तानि। पञ्चालदेशे पञ्चदशदिनेभ्य: पूर्वं समारोह: पाल्यते। पाञ्चालेषु राजते वसन्त:। दरिद्रधनाढ्यनिर्विशेषेण सर्वे महोत्सवं सानन्दमास्वादयन्ति। प्रत्येकं गृहदेहली प्रलेपिता, चित्रैश्च सुसज्जिता। प्रासादेषु नूतनरङ्गलेपनेन समग्नो देशो नवीनत्वेन भ्रममुत्पादयति। सर्वेषां द्वारि आम्रशाखानां तोरणम्, पूर्णकुम्भाश्च शुभसङ्केतरूपेण शोभन्ते। सर्वेभ्यो राज्यवासिभ्यो नववस्त्राणि राजकोषार्थव्ययेन वितरितानि। पुरनार्यो नूतनवस्त्रालङ्कारभूषिता राज्यशोभां वर्धयन्ति। समग्ना राजधानी दीप्तालोकमालाभि: सुसज्जिता रात्रावपि दिवसभ्रमं जनयति। नगरस्य स्थाने स्थाने नृत्यगीतवाद्यविस्फोटकादिव्यवस्था। रात्रिन्दिवं नृत्यगीतायोजनं प्रचलति।
स्वयंवरसभासज्जीकरणाय चित्रकरा: शिल्पिनश्च समागता नानादेशेभ्य:। यैरिन्द्रपुरी नावलोकिता तेऽद्य स्वयंवरसभाया अपूर्वसंयोजनाम्, आलोकमाला:, आडम्बरं वीक्ष्यात्मानं परमसौभाग्यवन्तं मन्यन्ते। सभास्थलेऽतिथीनामुपवेशनव्यवस्थाऽतीव रमणीया। सर्वे यथा स्वयंवरमण्डपस्य लक्ष्यवेधदृश्यं प्रत्यक्षीकर्त्तुं शक्ष्यन्ति, तथैव सुचिन्तितयोजनयाऽऽसनानि संस्थापितानि। उपरि रजतचन्द्रातप:, तद्देहे च खचिता: कनकचन्द्रतारा:। सुगन्धिपुष्पकुण्डानि सभामण्डपे, स्वयंवरमण्डपे, अतिथीनां च प्रवेशद्वारादुपवेशनस्थानं यावत् संस्थापितानि। सभास्थले सुसुरभिजलं सिच्यते। अतिथिदीनदरिद्राणां समेषां कृते प्रचुरं सुखाद्यं प्रस्तूयते। केचिद् वदन्ति स्म—''राजकुमार्या: स्वयंवरोत्सवो वर्षाणि यावद्यद्यायोज्येत, तर्हि जीवनमानन्दमुखरं सम्भवेत्।’’
दूरादागता अतिथय: पञ्चालरूपशोभां विलोक्याचिन्तयन् यत्ते प्रायश: स्वर्गलोकस्य कस्मिंश्चिद्राज्ये समागता:। स्वर्गच्युताया: कस्याश्चन शापग्रस्ताया अप्सरसो विवाहस्वयंवरे त उपस्थिता इति।
नानादेशेभ्यो राजान:, राजपुत्रा:, योद्धार:, वीरा:, पण्डिताश्च पाञ्चालनिमन्त्रणमासाद्य समागता:। पञ्चालराजधानी आनन्दमुखराऽतिथीनां यथोचितमनोरञ्जनसम्पादनाय।
अहं वृतपूर्वा। अहं वेद्मि—को मे पतिर्भविष्यति, को मे स्वयंवरस्याभूतपूर्वं पणं सम्पादयितुं समर्थ इति। अत: न मे कोऽप्युद्वेग:, न किमप्युदवेलनम्। यदि तथा स्यात्तर्हि पतिर्मम कल्पनाया राजकुमार एव भवेत्। अर्जुनो न मया दृष्टपूर्व:। परन्तु श्रुतो मया तद्रूपशौर्यवीरत्वव्यक्तिगरिमा। अत: मनो मे शान्तं सर इव प्रशान्तं, प्रफुल्लं, प्रसन्नं, परिपूर्णं च।
एकदा नितम्बिन्या सह भ्रमन्ती आसम्। साऽर्जुनस्य गुणान् गणयन्ती परिहासेन मां विचलितां सम्पादयितुमभ्यस्ता। अद्य किन्तु सोवाच—''सखि! कृष्णे मा कदापि विश्वसिहि। स मायावी। त्वां नारीमुक्तामवाप्य स नितान्तनिष्कपटतया प्रियसख्यायर्जुनाय समर्पयिष्यतीत्येतन्मे विश्वासयोग्यतां नाधिरोहति। इदं ज्ञायतां यदर्जुने कृष्णकला संनिहिताऽस्ति। अर्जुनलब्धायामपि त्वयि कृष्णस्य न्यायतोऽधिकार: स्यात्। स्वयंवरसभाया आयोजनमिदं विलोक्य न जाने, मनसि मे संशय उत्पद्यते।’’
अहं भीतेवापृच्छम्—''संशय: कुत:? पितृपादै: स्वयंवरे या प्रतिज्ञोद्घोषिता, तामवश्यमर्जुन एव जेष्यति। पितृप्रतिज्ञेयं कृष्णसम्मता च।’’
नितम्बिनी मन्दमब्रवीत्—''शृणोमि यत् पाण्डवा: पञ्च सहोदरा हस्तिनापुरे न सन्ति। तेषां विषये नाना कुसमाचारा: श्रूयन्ते। दिष्ट्या तत् सर्वं सत्यं माऽस्तु। यदि तत् सत्यं स्यात्तर्हि चिरकुमारीत्वव्रताय ते जन्म जीवनञ्चेति मन्तव्यम्।’’
मम दक्षिणं नयनं मुहुर्मुहुरस्फुरत्। हृदयं च भृशं चकम्पे। अहं नीचैरवोचम्—''पञ्च पाण्डवा वारुणावतनगरे उत्सवं पालयन्ति। स्वयंवरवार्तां कृष्णस्तेभ्य: प्रापयिष्यति, ते चागमिष्यन्तीत्यत्र पुन: क: संशय:?’’
नितम्बिनी किमपि वक्तुमिच्छन्ती प्रकाशयितुं न प्रभवति। तथापि किञ्चित् स्वरभङ्गेनाह—''न जाने, सा वार्तासत्यं मिथ्या वा।’’
''का वार्त्ता?’’—अहं सोत्कण्ठमपृच्छम्। अत्रान्तरे प्रासादान्तरालात् क्रन्दनध्वनिरुज्जगाम। दास्य: परिचारिकाश्चात्युच्चै: रुरुदु:। आवां स्तब्धे अचिन्तयाव—अस्मिन्नानन्दमहोत्सवे हृदयविदारकमिदं कारुण्यं किमर्थम्?
मम सहोदरो धृष्टद्युम्न उद्याने मत्पुरस्तादुपस्थित:। तस्य मुखं मलिनम्, नयने उदासीने। अहमचिन्तयम् प्रायेण पितृपादानां शरीरं हठादसुस्थतां गतम्। विचलिता सती अपृच्छम्—''किं कारणं क्रन्दनस्य भ्रातृ:!’’
—''श्रीकृष्ण: समागत:।’’—नतमुख: स उवाच।
अहं साश्चर्यं जिज्ञासितवती—''श्रीकृष्णागमनेन प्रमोदत्सवमकृत्वा पुरनार्यो रुदन्ति कथम्?’’ सोऽविचलितकण्ठो जगाद—''धर्मरक्षणाय यज्ञकुण्डादावयोरुत्पत्ति:। अत: होमाग्निहविरिव ज्वालं ज्वालमावां जगत: पापनाशनाय धृतव्रतौ स्याव। भगिनि कृष्णे, त्वं जानासि यत् पाण्डवा हस्तिनापुराद् वारुणावतं गता आसन्। अहमवनतमुखी उत्तरितवती—''ओम्, ते शान्तिपूर्णसौन्दर्यमयप्रकृत्युत्सङ्गे महोत्सवमुखरे वारुणावतेऽवसरविनोदनार्थमवतिष्ठन्ते स्म। किन्तु स प्रसङ्गोऽद्य कुत:?’’
धृष्टद्युम्नो लताकुञ्जे मत्सन्निधावुपाविशत्। किञ्चिदुदासीनश्चाह—''पाण्डवा दुष्टबुद्धीनां क्रूरकौरवाणां हीनकूटनीत्या राजधानीहस्तिनापुराद् वारुणावतं विताडिता इति कथनं युज्यते। कौरवपाण्डवानां शिक्षासमाप्ते: पश्चात् प्रजानां युधिष्ठिरं प्रति श्रद्धामास्थां विश्वासं च विज्ञायान्धराजो धृतराष्ट्रो बाध्यतया युधिष्ठिरं युवराजपदेनाभिसिषेच। अन्यच्च, युधिष्ठिर: पुत्रेषु ज्येष्ठ:। अतस्तस्य युवराजत्वस्वीकारातिरिक्तं धृतराष्ट्रस्य गत्यन्तरमेव नासीत्। पाण्डवा वीरा:, पराक्रमवन्त:, विचारवन्त:, धार्मिका:, शान्तस्वभावाश्च। गुरुद्रोणाचार्यस्य, कुलगुरुकृपाचार्यस्य, पितामहभीष्मस्य, महामन्त्रिणो विदुरस्य चास्यां निष्पत्तौ दृढं समर्थनमासीत्। युधिष्ठिरस्य युवराजपदेनाभिषेकात् परं दुर्योधनदु:शासनादय: शतं भ्रातृर ईर्ष्यया जज्वलु:।’’
अहं सोत्कण्ठमपृच्छम्—''किं जातं तत:?’’
—यद् भवितव्यमासीत्’’—उत्तरितं धृष्टद्युम्नेन।
''अर्थात्?’’
धृष्टद्युम्नोऽवोचत्—''वारुणावते महोत्सवस्य सर्वा व्यवस्था: सम्पाद्य पाण्डवान् तत्र प्रेषयामासु:। शान्तिकाम: सरलो युधिष्ठिर एतावति कपटे नैव प्रवेष्टुं दक्ष:। कौरवभ्रातृणां मुखाद् वारुणावतस्य प्रशंसां निशम्य मनोरञ्जनार्थं सहोदरै: सह समातृको वारुणावतं जगाम। तत्र निवासाय पूर्वं नूतन: प्रासाद: सुसज्जित आसीत्। नूतनप्रासादस्य सौन्दर्येणाडम्बरेण च प्रीता: पाण्डवा: कौरवाणां कल्याणमीषु:। परन्त्वेतत् किं तैर्विदितं यत् स नूतन: प्रासादस्तेषां कृते यमराजपञ्जरमासीदिति?’’ अहं चीत्कृतवती। धृष्टद्युम्नो मे हस्तं स्पृशन् जगाद—''कृष्णे! स प्रासादो जतुनिर्मित आसीत्। पाण्डवानामवेक्षणार्थं कौरवैर्धृतराष्ट्रस्य धूर्त्तो मन्त्री पुरोचनो नियोजित:। तदेतदासीदेकं कुचक्रम्। एकदा रात्रौ जतुगृहेऽग्निसंयोगं कृत्वा पुरोचन: सह पाण्डवै: पाण्डवमात्रा चापमृत्युं गत:। कृष्णस्तमेव दु:खप्रदं समाचारमादायोपस्थित: सम्प्रति। कृष्णादेवं वार्तां निशम्य सर्वे मर्माहता:। अस्मादेव कारणात् पुरनार्यो विलपन्ति। वस्तुतो यदि पाण्डवानां परिणतिरेवम्, आवयोस्तर्हि जन्मोद्देश्यं कथं सफलीभूयात्? पाण्डवविहीनपृथिव्यां धर्मसंस्थापनाप्रयासो जलविहीनसरसि कमलविकास इव।’’
अहं निष्पन्दोपविष्टा। चिन्तयामि—काऽधुना मे दशा स्यात्? अहं तु मनसाऽर्जुनं पूर्वं वृतवती। यतोहि अहं जानामि—स्वयंवरपणमर्जुनातिरिक्तो न कोऽपि पूरयितुं समर्थ:। कृष्ण आस्थयैवं लोकहास्यता लभ्येतेति कथमहं पूर्वं जानीयाम्? स्वात्मने यावद्दु:खमनुभूतं ततोऽधिकतरमनुभूतं धर्मवतां पाण्डवानां दारुणपरिणतेर्मया। यद्येतत् सत्यं, तर्हि कृष्ण: कदापि नार्जुनस्य सखा, न च धर्मसंस्थापनार्थं कृष्णस्यावतार:। किन्तु सम्प्रत्यहं किं कुर्याम्? स्वयंवरार्थं निर्मितेषु नूतनेष्वतिथिभवनेषु नानादेशराजकुमारा: समागता:। स्वयंवरसभामहोत्सवप्रमोदमधिगन्तुं बन्धवो निमन्त्रिता:, अतिथयश्चागत्योपस्थिता:। स्वयंवरमात्रनिमित्तकेषु प्रासादभोजनालयपान्थशालारङ्गालयमार्गादिषु च लोकारण्यं वर्धते। मन्त्रपाठाय देशदेशान्तरेभ्य: प्रथितयशस: पण्डिता विद्वांसश्चोपस्थिता:। मामधिगन्तुं च राजकुमाराणां निद्राऽऽहारादीन् विस्मृत्यातिथिभवनाङ्गने पणानुरूपलक्ष्यभेदकौशलाभ्यासस्य हास्यकर: समाचार: सम्प्रति सर्वत्रालोच्यविषयो जात:। सम्प्रति तु स्वयंवरनिरासो नोचित:। किन्तु स्वयंवरसभाया: फलं मया ज्ञातमस्ति। संसारे मद्योग्य: पतिर्न कोऽप्यस्तीति मे गौरवं न वर्धिष्यते, अपि तु न्यूनीभविष्यति। योग्यवरानुपलब्धिर्मे स्यादलक्षणम्। यतोहि अहं नारी, स्वयंवरा। सर्वेषामसाफल्येनापि तातपादा मे वरलाभसुयोगार्थं स्वयंवरपणं कथमपि नैव शिथिलयिष्यन्ति। यदि वा ते तथा कुर्यु:, किमर्थं चाहं तथा निर्विवादं स्वीकरिष्यामि? आदौ त्वहं श्रीकृष्णाय समर्पिताऽऽसम्। स मामस्वीकृत्यार्जुनाय समर्पितवान्। अर्जुनायात्मन: समर्पणे न मे मनसि काऽपि कुण्ठा जजागार, यतोहि कृष्णकलयाऽर्जुनो जात:। अर्जुनशरीरे कृष्ण एवात्मा। मया त्वर्जुनशरीरायात्मा न समर्पित:, अपितु तदात्मने, तद्व्यक्त्यै च। अर्थात् कृष्णाय पुनर्नवत्वेन स्वत्वं समर्पितं मया। चिन्तितं मया यत्—अर्जुनप्राप्त्या कृष्णो लप्स्यते। परन्तु, अद्य यदि कोऽपि पितृपादानामर्जुनातिरिक्त: शिथिलीकृतं पणं पूरयितुं समर्थ: स्यात्तर्हि अहं तं पतित्वेन वृत्वाऽऽत्मानं दूषयिष्यामि कथम्? सुतरां चिरकुमारीव्रतावलम्बनं मे श्रेय:।
अहं शनैरवदम्—''भ्रातृ:! स्वयंवरो यदि केनाप्युपायेन स्थगयितुं शक्येत।’’
विस्मितो धृष्टद्युम्न उवाच—''तत् कथं सम्भवेत्? दुर्योधन:, तदेकोनशतसहोदरा:, कर्ण:, शकुनि:, अश्वत्थामा, जयद्रथ:, शल्य:, कृतवर्मा, सात्यकि:, शिशुपाल:, जरासन्ध: इत्यादय: प्रतियोगिनोऽतिथिशालायां समागता:। भीष्मद्रोणकृपाचार्यबलरामादय: सम्माननीया अतिथयोऽपि पाञ्चालदेशे सम्प्रविष्टा इत्यपि समाचार उपलब्ध:। अङ्गवङ्गकलिङ्गचोलपाण्ड्यमगधकोश्लहस्तिनामद्रकाम्बोदगान्धारादीनां भारतवर्षस्य सकलराज्यानां सम्राज:, पण्डिता:, विद्वांस: स्वयंवरसभाया: शोभावर्धनाय समुपस्थिता:। सम्प्रति स्वयंवरस्थगने तेषां घोरमपमानं भवेत्। ते सर्वे सहसैव पाञ्चालशत्रुत्वमाचरिष्यन्ति। तेषां सम्मिलितशक्त्या पाञ्चाला: पराजेष्यन्ते। पाञ्चाला: घोरविपर्ययसम्मुखीना: स्यु:। अत: देशस्य कल्याणाय सम्मानार्थं च स्वयंवरसभा निर्दिष्टतिथिवासरलग्नेषु चानुष्ठास्यते। अत्रोपायान्तरमेव नास्ति।’’
अहमचिन्तयम्—देशविपर्ययापेक्षया कृष्णाविपर्ययो न गरीयस्तर:। अत: कृष्णैव विपर्ययसम्मुखीना भवेत्। परन्तु स एव विपर्यय: कियान् भयङ्कर:, तन्मदन्य: कोऽधिकं ज्ञातुं शक्नोति?
अहं सदीर्घनि:श्वासमवोचम्—''उभौ समानौ। एकत: स्वयंवरस्थगनेन चिरकुमारी भविष्यामि, अपरत: स्वयंवरपणं न कोऽपि पूरयितुं समर्थ:। ततश्चिरकुमारी भविष्यामि। अपरेण त्वयं लाभो भवेत् यद् देशो विपर्ययान्मुक्त: स्यात्। पाञ्चाला: शत्रुशून्या: स्यु:।’’
धृष्टद्युम्नो निर्विकारमाह—''वरं तदेव। ते स्व स्व सामर्थ्यमाकलय्य निवर्तन्ताम्। वयं किमर्थं तेषां शक्ते: सीमानिर्धारणं कुर्म:?’’
अहं मौनेनोपविष्टा। स्वयंवरविषये मे मनस: सर्वा आवेग-स्वप्न-कल्पना-वासना-कामनोत्कण्ठा: समाप्ता:। अद्यारभ्य कठोरं साधनामयं ब्रह्मचारिणीजीवनमेव वरणीयम्। सुखे दु:खे च निर्विकारताऽवलम्बनीया। यत् सम्पन्नं यच्च सम्पत्स्यते, न मे तत्र किमपि व्याहर्तुमस्ति, अत: किमर्थमहं व्यथिता विचलिता च स्याम्?
किन्तु मनोऽभ्यन्तरे तस्य स्वप्नपुरुषस्यार्जुनस्याकालदारुणवियोगेन विलापस्य कश्चित् क्षीणो ध्वनिरहरहो गुञ्जति स्म। निर्विकारजीवनयापनं प्रायेण कल्पनाप्रसङ्गमात्रम्। कोऽपि कच्चित् कदाचित् निर्विकार: स्थातुं शक्नुयात्?
ममाज्ञाततया द्वावबाध्याश्रुबिन्दू मम दीर्घनीलनयनकमलयोश्चलचपलावभवताम्। भ्राता धृष्टद्युम्नस्तद् वीक्ष्य प्रायेण व्यथितोऽभवत्। मम मनोभावपरिवर्तनायोवाच—''कृष्णे! अधुनाऽन्त:पुरं प्रत्यावर्तस्व। पिता प्रतीक्षते। कृष्णाय प्रणामज्ञापनं विस्मर्तुं नोचितम्। कृष्ण आर्यावर्त्तस्य श्रेष्ठो वीर:, श्रेष्ठश्च ज्ञानवान् पुरुष:। स न: सुखदु:खयोर्बन्धु:। स्वदु:खं विपुलीकृत्यातिथिसत्कारे त्रुटिर्न राजकन्याकर्त्तव्यम्।’’
अहमश्रुण्यवरुध्यन्ती अब्रवम्—मादृश्या नगण्यनार्या: प्रणामं विना महाव्यक्ते: कृष्णस्य समुचितेसम्मानने नैव व्याघात आपद्येत। ममेयमशुभा दृष्टिस्तदुपरि न पतेच्चेद्वरम्। मया सह विवाहप्रस्तावेनैव तस्य प्रियसखा विनष्ट:। एतस्मात् परं मम मुखमवलोकयितुमिच्छेन्न वेति सन्देह:।
हठात् काचिदमृतधारा कर्णपटे प्रवाहिताऽस्पृशदन्तरात्मानं मे। कस्यापि हास्यमियन्मधुरं स्यादिति पूर्वं न कदापि वेद्मि। मम पुरस्ताद् स्थित आसीत् परमकाम्यपुरुष: कृष्ण:। तस्य नीलं कलेवरं पीतवासस आभरणेन मनोरमतरं लक्ष्यते स्म। ललाटपटले तिलकम्, कर्णयो: कुण्डले, नीलकमलसदृशं नयनयुगलम्। प्रशस्तवक्षसि मणिमयो हार:, तदुपरि वनपुष्पाणां माला, अधरे मृदुमधुरा हास्यरेखा इत्येतत् सर्वं विलोक्य मम समस्तोऽभिमानो निमेषेणैव व्यपगत:। कृष्णो मोहनमन्त्रं जानाति। क्षणेनैव मन्त्रमुग्धेव तं प्राणमम्।
कृष्णो हसन्नाह—तव भक्तिभावमुद्रापेक्षया तव मुखस्याभिमानालेख्यं काम्यतरं कृष्णे!। त्वं न जानासि यत् निर्मलोऽभिमान: सुन्दरं मुखं कथं सुन्दरतरीकुरुत इति। पाण्डवानां दुर्घटनाजनितोऽयं समाचार: सत्यं मिथ्या वा स्यात्, यदि स: समाचारो मया नानीत: स्यात् तर्हि तव मुखाभिमानस्येदमनुपमसौन्दर्यलाभादवश्यमहं वञ्चितोऽभविष्यम्। तव मुखशोभादर्शनात्परं मया पाण्डवानां विच्छेददु:खं विस्मृतमेव।
बहुकालाच्चक्षुषो: सञ्चरन्तावश्रुबिन्दू सम्प्रति अध: पतितौ गण्डद्वारेण। अचिन्तयम्—ममानेन दु:खेनापि कृष्ण: प्रसन्न: कथम्? कृष्ण इयान् निष्ठुर:! कृष्णो निर्निमेषनयनाभ्यां मामवलोक्योवाच—''तव दर्शनात् परं न जाने, ममायं विचार उत्पद्यतेपाण्डवा अद्यापि जीविता: सन्तीति। तव येन सह परिणय: स्थिरीकृतपूर्व:, स कदापि भीरुरिव लोकलोचनान्तराले विनाशं नैव भजेत्। यदि पाण्डवास्तथा जतुगृहे दग्धा मृत्युमवृण्वन् तर्हि तत्तेषां मूर्खताया: परिणाम एव। कृष्णस्य सखा यद्येतादृशो मूर्खस्तर्हि कृष्णस्ततोऽधिको मूर्ख:। कृष्णे! किं त्वं चिन्तयसि यदहमेतावान् मूर्ख इति?’’
कृष्णविलोकनमात्रेणैव मे मनो मां कथयतीव यदर्जुन आयास्यति, पणं प्रपूर्य घोरापमानाद् विपत्तेश्च कृष्णामुद्धरिष्यतीति। अहं चक्षुषी पिधाय परमेश्वराय प्रणतिमुदसृजम्।
महोत्सवस्य षोडशदिवसे स्वयंवरस्य बहुप्रतीक्षित: स दिवस उपस्थित:।
ब्राह्ममुहूर्त्त उद्यानसरोवरे स्नानं समाप्य सुवर्णनिर्मिते पार्वतीमन्दिरे पूजां समर्पयितुं सखीभि: सह प्रस्थिता। तदानीं रूपं मे संन्यासिन्या इव। मम शरीरं निराभरणम्। उन्मुक्तसिक्तकेशराशि: सागरतरङ्ग इव पृष्ठदेशे शोभते। देवीपार्वत्या: पद्मपादयोर्मे केवलं ध्यानम्, नान्यत्र। दीपं प्रदाय प्राणमम्। मनसाऽयाचे—देवि! नारीसम्मानं रक्ष। एकदा पतिनिन्दामसहमाना त्वं यज्ञकुण्डे प्राणान् विससर्जिथ। अहं चाविर्भूता यज्ञकुण्डात्। अहं यं पतिरूपेण अवृण्वि, स यदि दग्धीभूय पञ्चत्वमाप्त:, तर्हि तत्किं न मेऽपमानाय? धनुर्विद्यायां वीरश्रेष्ठोऽर्जुन: कदाचिदेवं मृत्युं वृणुयात्? तस्मात् कोऽर्थो मे जीवनधारणस्य? यद्यर्जुनातिरिक्त: कोऽपि वीर: स्वयंवरस्य पणं पूरयितुं क्षम: स्यात्, तर्हि पिता तं जामातृरूपेणाङ्गीकुर्यात्। परन्तु, अहं पतिरूपेण कथं स्वीकरिष्ये? यदि वास्तवतो धर्मनाम्ना संसारे किमप्यस्ति, तर्हि मम सतीधर्मं रक्ष।
देव्या मस्तकात् पुष्पमपतत्। पूजको देवीमस्तकपुष्पं तन्मदर्थं प्रसारयन्नाह—''अभीष्टं पूर्णमवश्यं स्यात् कन्यके! अयं हि तस्य सङ्केत:। देवी प्रसन्नाऽस्ति। हार्दमावाहनं विना देवी नैव प्रसीदति। देव्या: प्रसादेन तु शुभफलं लभ्यते।’’
मनसि मेऽनुरणनमभूत्—अर्जुन आयास्यति, अवश्यमायास्यति।
देवीप्रसादपुष्पं मस्तके धारयन्त्युद्यानमार्गेणाहं प्रत्यावृत्ता। मनस्यागतैका पूर्वघटना। जनकनन्दिनी सीता स्वयंवरदिवसे पार्वतीमन्दिरे पूजां समाप्य प्रत्यावर्तमाना श्रीरामचन्द्रस्य साक्षात्कारं चकार। तत्रैव समजायत सीतारामयोश्चतुश्चक्षुषां मिथ: मिलनम्। अद्य यदि अर्जुनेन सहात्र देवीमन्दिरपरिसरे मिलनं सम्भवेत्, तर्हि अर्जुनोऽवश्यं मयोपलभ्येत। किन्तु, को वा जानाति अर्जुनो जीवितो वा न वा?
मन: पुनरुदासीनं बभूव। अर्जुनेन सह साक्षात्कारो नाभवत्। प्रतिमुहूर्त्तं चिन्तयामि स्म—अर्जुन आयास्यति, चत्वारि लोचनानि परस्परं मिलिष्यन्ति, जीवनं मे धन्यं भविष्यति। किन्तु, नागत: स:।
सती सीता ममादर्शभूता। तस्या जीवनगाथामधीत्य तस्यै मम भक्तिरर्पिता, तदश्रुणा स्वाश्रु मया च प्रवाहितम्। परन्त्वहं किमर्थं तया सहात्मानं तुलयामि? अहं तु न तद्वदन्यायदोषारोपमवनतशिरसा सोढुं समर्था। अहमपि तद्वन्नीरवयन्त्रणया दग्धुं नैव प्रभवाम्यात्मानम्। पत्या विताडिता नैव जीवनं धारयिष्यामि। सा महीयसी नारी—सा रघुकुलतिलकस्य रामचन्द्रस्य प्राणप्रिया जानकी। अहं तु पाञ्चालराजकन्या याज्ञसेनी। मम कोऽपि पतिरस्ति न वेत्यहं न जानामि। तस्या जीवनस्य प्रत्येकं घटना मम जीवने कथं वा घटेत! अहं निराशा मन्दिरात् प्रत्यावृत्ता आशान्वितनेत्रेण चतुर्दिशं पश्यामि। पाञ्चालानां पथि पथि आनन्दनिर्झरिणी प्रवहति। राजान:, विशिष्टातिथय: सर्वे पूर्वं समागता:। तेषु पञ्च पाण्डवास्तु न विद्यन्ते। न कोऽप्यतिथिरागन्तुमवशिष्ट:। पाण्डवानामवस्थानार्थं निर्मितं सुन्दरतममाडम्बरपूर्णं भवनमधुनाऽपि शून्यम्। पाण्डवा जीविता: स्युश्चेदवश्यमधुना यावत्ते आगता: स्यु:। पूर्वाह्णे स्वयंवरसभाऽनुष्ठास्यते। तेषामागमनस्य सम्भावनैव नास्ति।
राजमार्गमुभयतो नाना वृक्षा रोपिता:। नूतनपत्रै:, पुष्पै: फलभारैश्च वृक्षशाखा अलङ्कारयुक्ता अवगुण्ठिता: पुरनार्य इव परिपूर्णा रमणीयाश्च दृश्यन्ते। शुकसारिकाकोकिलादयोऽपि पक्षिण: स्वयंवरनिमित्तं सूचनां नगरेऽनुष्ठीयमानस्य महोत्सवस्य लब्धवन्त:। मधुरकाकलीभिर्जनमनांसि प्रसादयन्तो महोत्सवसङ्गीतैरात्मगीतं ध्वनयन्तस्तेऽपि स्वस्वकर्त्तव्यं सम्पादयन्ति।
अतिथिभवनानां पुरत: रचितेऽमलजलमये सुन्दरे सरोवरे राजहंसा विचित्रभङ्गीभि: सन्तरन्त: स्वापूर्वसौन्दर्येणातिथीनां मनांसि रञ्जयन्ति। आकाशो मेघशून्य:, मयूरास्तु नृत्यन्ति, तेषु तेषु स्थलेषु नृत्यगीतप्रवणाभिर्नर्तकीभि: सह प्रतिस्पर्धां कुर्वन्त इव।
सर्वं जानन्त्यपि सखीभि: सह पाण्डवानां निवासार्थं निर्मितस्य पञ्चविहाराख्यस्यातिथिभवनस्य सन्निकटोद्यानमार्गेण प्रत्यावर्ते स्म। उद्देश्यमस्य पाण्डवा आगता न वेति जिज्ञासा। तरुलतानामन्तरालेऽदूरे 'पञ्चविहार:’ मनोरमो दृश्यते। अतिथिभवनस्य रङ्गशालायां नर्तक्यो नृत्यरता:। विविधरङ्गैरालोकै: सुसज्जितस्य पञ्चविहारस्यालोका अधुनाऽपि अनिर्वापिता:। द्वारदेशे तोरणे नानावर्णपुष्पहाराणां मण्डनम्। सुन्दर्यो ललना अतिथीनां स्वागताय सुवर्णपात्रेषु पुष्पहारै: सह प्रतीक्षमाणा:। कस्मिंश्चिदपि समये पाण्डवा: समागच्छेयु:। परन्तु, पाण्डवा दग्धा निहताश्चेति पाञ्चालदेशस्य वृक्षलता अपि नैव विश्वसन्ति। सुसज्जितमतिथिभवनं विलोक्य मे मनसि काऽपि क्षीणाऽऽशा सञ्चरिता यत् पाण्डवा आयास्यन्ति, अवश्यमायास्यन्ति।
अतिथिभवनप्राङ्गणे कस्येयं मनोरमा मूर्त्तिः? नानावर्णपुष्पोद्याने कोऽयं नीलमेघवर्ण: सुन्दरो युवपुरुष:? स किम् अर्जुन:? अहं सम्यग् निरीक्षितुं नैव शक्नोमि। अज्ञातावेगेन हृदयं कम्पते। सख्या: कथनमशृण्वम्—''अहह:, श्रीकृष्णो ह्यो रात्रौ सखायमर्जुनं प्रतीक्ष्य पञ्चविहारेऽतन्द्रोऽवतिष्ठते! निराशया सद्योविकसितनीलेन्दीवरमुखं मलिनम्। किमु अर्जुन: पुन: परपुरात् प्रत्यावर्तिष्यते, यं व्याकुलित: कृष्ण: प्रतीक्षते?’’
एतावताऽनायासेन मम नयनेऽश्रुपूर्णे संजाते। मम पार्वत्युपासना वैयर्थ्यं गतेति मे विचार आविर्भूत:। अस्माकं नूपुरध्वनिं निशम्य कृष्णो मार्गसन्निकटे त्वरयाऽऽगत:। मां विलोक्यावदत्—''कृष्णे! अस्यां पृथिव्यां मनुष्यो ह्यधिकतमं दु:खं लभते। यतोहि सुखसागरे निमज्जितोऽपि स दु:खमापदं चाशङ्कते। दु:खसागरे विलीयमाना: के वा सुखस्य कल्पनां कुर्वन्ति? परन्तु दु:खगर्भे सुखं गोपनीयत्वेन वर्तत इति ते नयनाश्रु तत् प्रमाणयति।’’ अहं साश्रुनेत्रा कृष्णं जिज्ञासयाऽपश्यम्। कृष्णो मृदु हसन् उवाच—''तव नयनयोरश्रुबिन्दुभिरुदितसूर्यस्य लोहिता रश्मय: प्रतिफलिता स्तव मुखसौन्दर्यं विवर्धयन्तोऽश्रुबिन्दूनामपि मूल्यं प्रगुणीकुर्वन्ति, निजमहिमानं च विशेषयन्ति। असत्यश्रुबिन्दौ तव गण्डस्थले, कथमहं ज्ञातुं प्रभवेयं यत्ते मुखशोभा एवमवर्णनीया:, सूर्यरश्मयश्चेयन्तो रमणीया इति? अत: जीवनेऽश्रूणामपि महत्तरं मूल्यमस्ति, अश्रुमोचनस्यापि किमपि सौन्दर्यं वर्त्तते। तथैव दु:खस्यापि मूल्यमस्ति—यतोहि तदन्तराले सुखं गोप्यमस्ति। यद् भवितुमस्ति, तदवश्यं घटिष्यते। अत: सुखाशयाऽऽनन्दमनुपभुज्य दु:खकल्पनया रोदनसमयात् पूर्वं किमर्थं क्रन्देम?’’
अहं कृष्णं प्राणमम्। प्रणतिच्छलेन मे समग्रदु:खं तस्मायर्घ्यरूपेण समर्पितवती। यतोहि तदानीं मम हृदये तदतिरिक्तं किमपि नासीत्। अन्वभवम्—मम हृदयं प्रशाम्यतीति।
हैममञ्चानामुपरि प्रतियोगिनो राजान: स्वस्वासनेषु विराजिता:। समग्रं सभास्थलं चन्द्रातपेन मण्डितम्। तदंशुकान्यपि रजतसुवर्णालङ्कारै: सुसज्जितानि। प्रतियोगिनो राजान: स्वस्वश्रेष्ठवस्त्राणि, भूषणानि च परिधाय शोभन्ते। सर्व आत्मानं कृष्णाया योग्यवररूपेण मन्यमाना आह्लादिता भवन्ति। पण्डिता विद्वांसश्च विशिष्टासनेषु निषीदन्ति। पुरोहितानां कृते पृथक् व्यवस्था। नगरस्य दर्शकाणां पुरनारीणां च कृतेऽप्युपवेष्टुं पृथक् स्थाननिर्धारणम्। नारीणामासनानि मञ्चाकारेण निर्मितानि, सुन्दरवस्त्रैश्चावृतानि, यथा ता: सभाया: प्रत्येकं घटनां विलोकितुं शक्नुवन्ति, परन्तु ता: कोऽपि द्रष्टुं न प्रभविष्यति।
मया तु सर्वेषां राज्ञां पुरस्ताद् गन्तव्यम्। यतोहि अहं स्वयंवरा। सर्वेषां सम्मुखेऽहमात्मानं प्रदर्शयिष्यामि। मम रूपशोभां विलोक्य प्रतियोगिन: स्वान्त:शक्तिं सञ्चारयिष्यन्ति।
सखीभिरहं नानाभूषणै: सुसज्जिता। शुभ्रवसनै:, शुभ्रपुष्पैश्च मम समग्रशरीरं मण्डितम्। दर्पणे स्वप्नतिविम्बं पश्यन्त्यहमचिन्तयम्—श्वेतवर्णानि पुष्पाणि उद्याने एवं रमणीयानि न प्रतीयन्ते कथम्? मम शरीरस्य पद्मगन्धेन सहागुरुचन्दनरसादीनां सम्मिलित: सुरभि: सभास्थलं सुगन्धितं कुरुते। शुभ्रवसनेषु, शुभ्रपुष्पेषु च मे भूयान् स्नेह:। अत: केवलैर्हीरकाभूषणैरलङ्कारितं मे शरीरं सखीभि:। मधुर: श्यामवर्ण इयान् कमनीय:, नम्रश्च, तमहमद्यात्मानं निरीक्ष्यावगच्छामि। परिचारिकाभि: सह पुष्पशोभितशिबिकायामुपविश्य धृष्टद्युम्नं पुरस्कृत्याहं सभास्थले प्राविशम्। भ्रातुर्नदेशादहं शिबिकाया अवतीर्णा। ममोपस्थितिमात्रेणैव सभास्थले मृदु गुञ्जितं व्याप्नोत्। युवकवृद्धब्राह्मणक्षत्रियपुरुषा: सर्वे स्तब्धा मम श्यामलसौन्दर्यं निरीक्षितुमारेभिरे। दृष्टिमवनम्याहं शनै: शनै: स्वासनाभिमुखं सरामि। एतावतां पुरुषाणां लोलुपा दृष्टयो मां विवृतां लज्जितां च कुर्वते। इच्छामि स्म यत्—अवगुण्ठनेन मुखमावृणुयामिति। जाने, मम मनोभावं विज्ञाय सभास्थले सज्जितान् पुष्पकुण्डान् विहाय भ्रमरा युगपन्मे मुखं परितो नीलोत्तरीयभ्रान्तिमुत्पादयन्त उदडयन्त। उपस्थितराजन्यवर्गा: भ्रमरततिकृतेनान्तरायेण ते दु:खेन हायहाय इत्यकुर्वन्। मम शरीरान्निर्गतं पद्मगन्धं भ्रमरा अकुण्ठमजिघ्रन्। तेषामाघ्राणशब्दा एकत्र मिलित्वा मनसि मृदुवातभ्रान्तिं जनयन्ति स्म।
नाहं वेद्मि यन्मे शरीरस्य पद्मगन्धेन, अथवा मम शरीरे मस्तके च संयोजितपुष्पाणां गन्धेन, उत मम शरीरे प्रलेपितानां सुवासितागुरुचन्दनकेशतैलादीनां गन्धेन भ्रमरा: सभास्थलस्य दुर्लभसुरभिपुष्पाणि परित्यज्य मां परितो नीलमेघावरणं जनयन्ति। तेषामौदार्येणानेनाहं कृतज्ञा। भ्रमराणामपि कियद् हृदयवत्त्वम्? सभास्थले स्वयंवराया रूपं कियद् व्रीडाजनकमिति ते जानन्ति अथ च पण्डितो विद्वानपि मानवो न तदनुभवति।
कथमप्यहं मदर्थं निर्मितस्य मञ्चस्य सन्निधौ समागता, आसने चोपविष्टा। अनन्तरं मम भ्राता धृष्टद्युम्न: सर्वेषां नमस्कारपूर्वकं स्वागतं व्याहृत्योद्घोषयामास—''अयि समवेता उच्चकुलसम्भूता राजान:! इयं मे प्रियभगिनी वरवर्णिनी कृष्णा। एतस्या: शरीरसौन्दर्यमवलोकितं भवद्भि:। न सेयं केवलमार्यावर्तस्य श्रेष्ठा सुन्दरी, अपितु सर्वगुणसम्पन्ना च। इयं स्वल्पभाषिण्यपि विद्यावती, विचारशीला, शास्त्रज्ञा, सङ्गीतनिपुणा, बुद्धिमती, दिव्यदर्शिनी च। पृथिव्यां सत्यप्रतिष्ठा, धर्मरक्षा चैतस्या जीवनस्य मूलमन्त्र:। सेयमद्य भवत्सु योग्यतमं पतिमङ्गीकर्त्तुमत्रोपस्थिता। स्वयंवरस्य पणं भवन्त: सर्वे जानन्त्येव। अयि समवेता: वीरगणा:! भवन्त: सर्वे द्रौपदीं परिणेतुमात्मानं प्रस्तुतीकृत्य समागता:। सम्प्रति भवतां सम्मुखे लक्ष्यं, धनुर्बाणाश्च संस्थिता:। क्रमश: पञ्चभिर्बाणैर्यश्चक्रस्थितस्य कनकमीनस्य चक्षुर्भेदयित्वा तं भूमिसात् करिष्यति, स एव मे भगिन्या: पाणिग्रहणयोग्य:। परन्तु, स वीर उच्चकुलसम्भूतोऽवश्यं स्यात्।’’ तत: परमेकैकश: प्रत्येकं प्रतियोगिन: परिचयो धृष्टद्युम्नेनाकारि। किन्तु, तस्मिन् परिचयपत्रे ममाभीष्टपुरुषस्याभिधानं नासीत्। अत: विवर्णविदनाहमदृष्टविषये सन्दिग्धा सती उपविष्टा केवलम्।
शङ्खनादवेदपाठहोमघण्टारवमङ्गलवाद्यादिभि: प्रचलत्यायोजने सभायामेकैकश: प्रतियोगिन: पणरक्षार्थमागता नितान्तं हास्यकरीं परिस्थितिं जनयन्त: प्रतिनिर्वृताश्च। केचन शरं संयोजयितुमसमर्था:, केचित्तु धनुरुत्तोलयितुं न शक्ता:। आहता:, असंयता:, विस्मिता:, व्यर्था:, विषीदन्तश्च ते क्रमश: परावृता:। नागरिका दर्शका: तदा अचिन्तयन्—धनुर्विद्यायां वीरश्रेष्ठोऽर्जुनो निहत इति विज्ञायापि राज्ञो द्रुपदस्य स्वयंवरे एवम्प्रकारकपणघोषणाया आशय:—राजकन्यायाश्चिरकुमारीव्रतावलम्बनबाध्यता। ममापि सख्यस्तदेव मनसीकृत्य खिद्यन्ते स्म। किन्तु, अहं विमृशामि—मात्रा पार्वत्या मे प्रार्थना सदयं स्वीकृता। यद्यपि अर्जुनोऽत्र न तया सम्प्रापितस्तथापि मादृश्या मन्दभाग्याया वृतपूर्वाया: नार्या: सम्मानरक्षार्थं नान्य: पुरुष: पणे जयं प्रापित:। यदि तथा अभविष्यत् तर्हि किमहमकरिष्यम्? अगत्या बलाच्च पितु: सत्यरक्षार्थमहं तमेव पुरुषमवरिष्यम्, ममापि सतीधर्मस्तेनानङ्क्ष्यत्। अहं मनसा सन्तोषमनुभवामि, अथ च सभास्थले पराजयस्य व्यर्थतायाश्च दीर्घश्वास: गभीरतरायते। व्यर्थमनोरथा: पुरुषा मामेव लब्धुं मनसि नाना कल्पना: कुर्वते। यद्यपि कोऽपि पणरक्षार्थं समर्थ: सम्भवेत्तर्हि ततो मां बलादाकृष्यापहृत्य च पलायनस्य योजनां मनसि चिन्तयन्तोऽपरेऽन्येषु प्रकाशयन्ति। तेषामालापं निशम्य मम सख्य: कौतुकमनुभवन्ति, अहं तु व्यथे। एषां कामातुराणां पुरुषाणां पापदृष्टीनां पुरस्तादेतावत्कालं यावदुपस्थायात्मानं धिक्करोमि, मम शरीरं च कण्टकिततरं प्रतीयते।
भ्राता धृष्टद्युम्न:, पिता द्रुपद:, गुरुजनाश्च मम विषये विचिन्त्य सविषादमुपविष्टा:। परन्तु अपश्यम्—बलरामादियादवै: सहोपविष्ट: कृष्ण: प्रफुल्लवदन: समस्तां घटनामुपभुङ्क्ते। यदि कृष्णाया: कृते कृष्णस्य न काऽपि चिन्ता, न चोद्वेग:, तर्हि कृष्णाया अदृष्टं स्वयमेव परिहसतीति नात्र संशय:। स्वयंवरसभायाश्चरमपरिणतय आत्मानं प्रस्तुतीकरोमि। कतिपये प्रार्थिन: केवलमवशिष्टा:।
सर्वासु निराशासु नवोदितसूर्यतेजा:, अस्तसूर्य इव कमनीयकान्तिमान्, सुवर्णकवचकुण्डलविभूषित: कोऽपि वीरपुरुषो लक्ष्यभेदमण्डपसन्निधावुपस्थित:। तस्य परमसौन्दर्यवतो वीरस्य रूपसौन्दर्येण सर्वे विमोहिता:। कतिपये तु मल्लब्धिप्रलोभनं विस्मृत्याकामयन्त—वीरोऽयं लक्ष्यभेदं करोतु, मां च लभताम्। अस्यापि शोभावतो यून: पराजयं स्मृत्वाऽपि केचन हतप्रभा अभूवन्। नितम्बिनी साह्लादकण्ठं मम कर्णेऽवोचत्—''सखि! सम्प्रति प्रस्तुता भव। कामदेवसदृशोऽयं वीरो युवा अवश्यं जेष्यति, त्वां लप्स्यते च।’’
मम हृत्स्पन्दनं द्रुततरमभूत्। अचिन्तयम्—यदि परमरूपवानयं युवको जययुक्तो भवेत्, तर्हि सोऽर्जुनातिरिक्तो न कोऽपि स्यात्। माता पार्वती अन्तिमक्षणे मम मनोऽभिलाषं पूरितवती। निश्चयेनायं कुन्तीपुत्र: स्यात्। कुन्तीपुत्रभिन्न: कोऽन्यो लक्ष्यभेदं कर्त्तुं समर्थ:? क्षणेनैव मे मनसि इच्छा जागृता—युवकोऽयं जयी भवतु।
वीरयुवक: सावलीलतया धनुर्धृतवान्। शरं संयोजयितुं प्रस्तुतीभवति, सभास्थलं हर्षध्वनिना करतालिकाभिश्च प्राकम्पत। युवोत्साहितोऽभवत्। शरसन्धानात् पूर्वमूर्ध्वं विलोक्य सूर्यदेवं नमश्चकार। सर्वे चिन्तितवन्त:—प्रायेण निमेषेणैवासौ वीरो जेष्यति, द्रुपदराजकन्यां लप्स्यते च।
सहसा दर्शकेषु कोऽप्यपृच्छत्—''क: परिचयोऽस्य वीरस्य? इदमपि स्वयंवरस्य पणान्तरं यत् प्रार्थी यदि नोच्चवंशजस्तर्हि लक्ष्यं भित्त्वाऽपि कृष्णाप्राप्त्यधिकारं नैव प्राप्नुयात्।’’
हठान्मे सहोदरो धृष्टद्युम्न उच्चैरुवाच—''इदं मया घोषितपूर्वं यत्—असत्कुलज: प्रतियोगी मम भगिनीं लब्धुं नार्ह:। राधाधिरथसारथ्यो: पुत्र: कर्णो महावीरोऽपि मम भगिनीं परिणेतुं नैव शक्नुयात्।’’
धृष्टद्युम्नोक्तिश्रवणमात्रेणैव वीर: कर्णो नीरव: शरासनं यथास्थानं प्रतिसंस्थापयामास। विषण्णवदनश्च सकृन्निरैक्षत ईषदवनतं मध्याह्नसूर्यम्। एकोऽकालमेघशकलस्तदैव सूर्यदेवमाच्छादयत्। जाने, अगणितराजन्यानां पुरस्ताद् वीरकर्णस्य नीरवजिज्ञासानां समाधानार्थं प्रायश: सूर्यदेवस्तदानीं प्रस्तुतो नासीत्। कर्ण: स्वासनप्रत्यावर्तनात् पूर्वं विषादेन तीर्यग्दृष्ट्या क्षणाय ममासनमञ्चाभिमुखमपश्यत्। परमसुन्दरपुरुषस्य कर्णस्य स खेदसिक्तो दृष्टिपात इयान्मार्मिक आसीद् यन्मम काश्चन सख्यो विह्वलिता मूर्च्छामुपाक्रामन्। अहं स्वयमपराधिनीममन्ये। अहञ्चापीदं मन्ये—महावीरस्य कर्णस्यापमानाय ममाप्यांशिको दोषो वर्त्तते। राज्ञां पराजय:, कर्णस्यापमानमित्युभयो: कृते स्वयंवरस्याद्भुतपणस्य यावान् दोषस्तावानपि मम। यदर्थमेतावन्तो युवानो दु:खिता:, विशेषत: महावीर: कर्णस्तस्य वंशपरिचयवशात् भूयान् अपमानित:, अतो मनसि मेऽधिकतराऽनुशोचना समुदपद्यत। वस्तुत: काऽऽवश्यकताऽऽसीदद्यतनस्वयंवरसभाया:?
अहं वृतपूर्वा। तथ्यमिदं जानन्ति मम पिता, मम भ्राता, श्रीकृष्णश्च। इदमपि सर्वे विदन्ति यत् स्वयंवरस्य तं पणं पूरयितुं कृष्णार्जुनोभयातिरिक्तो न कोऽपि क्षम:। अर्जुनो निहत:। कृष्णस्तु न स्वयंवरे प्रतियोगी। अत: परिणाम: पूर्वमेव निर्दृष्टप्राय:। यद्यपि कर्ण: पणं जेतुं समर्थ:, परन्तु न स प्रथितवंशज:। सर्वमेतद् विज्ञायापि सर्वेषां समक्षं मां प्रदर्श्य सर्वान् प्रलोभयितुं काऽऽवश्यकताऽऽसीत्?
प्रत्येकं मनुष्य: सुन्दरं द्रव्यं प्रति समाकृष्यते। तदपि द्रव्यं निजीकर्त्तुं स मनसेच्छति। उचितमार्गेण तस्य सत्यामप्राप्तावनुचितमार्गेण तदासादयितुं भृशं चेष्टते। लोभातुरो मनुष्यस्तदानीमिदमवगन्तुं नैव शक्नोति यत् तस्य तत्सुन्दरद्रव्यस्य लाभाय सामर्थ्यमस्ति न वेति। विफलेषु सर्वेषु प्रयासेषु मनुष्य: खिद्यते। ततोऽद्यागणितशासकानामहमेव दु:खकारणम्।
वीर: कर्णोऽधोमुखो धीरपदपातै: निवर्त्तते। मेघखण्डमपसार्य सूर्यदेव: पुनराकाशे दृष्टिपथमागत:। सभास्थले कर्णमधिकतरमपमानयितुं केचनाधुनापि कटु मन्तव्यमपि व्यावहरन्ति। एके कथयन्ति—''अयमङ्गराज: कौरवबान्धव: कर्ण:। वीरस्यार्जुनस्यैक एव समकक्षयोद्धा वीर: कर्ण:। किन्तु पितृपरिचयाभावादद्यैष लाञ्छित:। सारथिरधिरथ: कर्णस्य नैव वास्तविक: पिता। श्रूयते—कर्णोऽधिरथपालित: पुत्र इति।’’
''अर्थात् वीर: कर्णोऽज्ञातमातापितृक:!’’—कोऽप्याक्षिपत्। ''अथकिम्। यस्य पितृपरिचयोऽविदित:, स: कोऽन्य: स्यात् कर्णात्’’—अपर उपाहसत्।
कर्णस्तूष्णीं प्रतस्थे। सर्वा आलोचनास्तस्य कर्णगोचरा भवन्तीति नास्ति सन्देह:। परन्तु सर्वेषामाक्षेपान् श्रुत्वाऽपि निरुत्तर: स निर्विकार:।
आत्मनो लाभं विनाऽपि परेषां दु:खेन केचन मोदन्ते। अपमानितस्य कर्णस्य प्रस्थानदृश्यमनेकानानन्दयति। परन्तु, जन्ममरणे यदि विधिनिर्धारिते, तर्हि तत्कारणात् कस्यचन लाञ्छना कथम्? कर्णस्य सा विषण्णा प्रस्थानरता मूर्त्तिर्मम हृदयं सहानुभूतिकरुणाभ्यां सिक्तमकरोत्।
अहं मनसाऽकथयम्—''वीर कर्ण! तवापमाने लाञ्छनायां च भूमिका यदि काऽपि मम वर्त्तते, तर्हि क्षमस्व माम्। जानामि तेऽपमानज्वालाम्, यतोहि एतस्मादनन्तरं लाञ्छनापमानयो: क्रमो ममैवायाति। वरवर्णिनीकृष्णाया वर: पृथिव्यां नास्ति—लाञ्छनेयं न न्यूनतरा।’’
कर्णानन्तरं शिशुपालशल्यजरासन्धप्रभृतयो वीरा: पराजिता स्वभाग्यं निन्दितुमारेभिरे। कृष्णाया: कृते न कोऽपि क्षत्रिय: प्रार्थी अवशिष्ट:। सम्प्रति सभा समापनोद्यता। पिता धृष्टद्युम्नश्च चिन्तितौ विषण्णौ च। परन्तु श्रीकृष्णस्य मुखं सद्य:प्रस्फुटितकमलमिव सहास्यं सरसं च विलोक्यते। अचिन्तयम्—पृथिव्यामस्यां श्रीकृष्ण एव निष्ठुरतम: पुरुष:। यतोहि स्वयंवरसभाया दारुणपरिणतेर्निरीहराजकन्याया: भाग्यविपर्ययमालक्ष्य पितु: शत्रवोऽपि चिन्ताग्रस्ता:, परन्तु कृष्णो न किञ्चिदपि खिन्नमना:। किं कृष्ण: सर्वं ज्ञायं ज्ञायमेवं विदधाति? अर्जुनो यदि अल्पायुषा जातस्तर्हि किमर्थं स मत्कृते संयोजित:?
सभा समाप्तप्राया। नृत्यगीतकोलाहलं सर्वं समाप्तम्। हठात् सर्वेऽपश्यन्—कृष्णो ब्राह्मणानां मञ्चाभिमुखं विलोक्य मृदु हसति, एकश्च तेजोदीप्तो ब्राह्मणयुवाऽऽत्मन: प्रार्थित्वाय सभासदामनुमिंत कामयते। राजानो दर्शकाश्च ब्राह्मणयुवकस्य स्थूलं स्कन्धं, दीर्घौ बाहू, प्रशान्तं वदनं, शौर्ययुक्तमङ्गसौष्ठवम्, उदितभास्करोज्ज्वलकमलनयने च विलोक्य तस्मिन् विजयित्वचिह्नं सुस्पष्टमित्यवाधारयन्। केचन तु असूयापरवशा: प्रतिवादं चक्रु:। सोपहासमूचु:—''यत्र समरकुशला: क्षत्रिया: पराजिता:, तत्र कश्चन भिक्षुको ब्राह्मण: कृतकार्यतामिच्छतीति वृथास्फालनातिरिक्तं किमन्यत् स्यादेतत्?’’ पुन: कतिपये क्नोधजर्जरितकण्ठा जगर्जु:—''भिक्षुकब्राह्मणस्यास्य प्रतियोगित्वेनाङ्गीकारेण क्षत्रियकुलस्य घोरमपमानं भवेत्। सोऽवश्यं पराजेष्यत इतीदं ध्रुवसत्यमपि तस्यैवमङ्गीकारस्य वयं दृढं प्रतिरोधं कुर्म:।’’ एवं प्रचलत्सु वादविसंवादेषु विद्वांस: पण्डिताश्च निर्णयमददु:—''क्षत्रिया युद्धेऽभ्यस्ता इति ते समरकुशला:। तथैव ब्राह्मणा मन्त्रपाठेऽभ्यस्तत्वात् शास्त्रज्ञा, उच्चारणशुद्धिसम्पन्नाश्च। परन्तु नेदं मन्तव्यं यत् क्षत्रिय: पुन: पुनरभ्यासेन शुद्धतया मन्त्रपाठं नैव कर्त्तुं शक्नोति अथवा ब्राह्मणो धनुर्विद्यायां पारदर्शित्वं न व्रजेत्। ब्राह्मण: परशुरामो यदि पृथिव्यां क्षत्रियान् पराजिग्ये, तर्हि युवकोऽयमद्य जयप्राप्तो न स्यादिति को वा वक्तुं शक्नुयात्? न जन्म, अपि तु कर्म, साधना च मनुष्यस्य व्यक्तिं निर्धारयत:। अत: अत्यन्तमुच्चाभिलाषोऽयमनुपमसौन्दर्यवान् ब्राह्मणयुवक: प्रतियोगितायां स्वयोग्यतां प्रदर्शयितुं शक्नोति।’’
पण्डितानामनुमते: पश्चाद् ब्राह्मणयुवक: लक्ष्यभेदमण्डपसन्निधावागत्योपस्थित:। तस्य रूपदर्शनमात्रेण मम नैराश्यमये हृदये काचित् क्षीणा तडिद्धारा प्रवाहिता। विचारो मनस्यजायत—इमं सौम्यपुरुषं पूर्वं जानामि। किन्तु, स्मरणे किमपि नैवागतम्।
स मण्डपनिकटे उपस्थित:। पृथिवीमात्रे धर्मदेवाय च भक्तिं विनिवेद्य मन्द्रमधुरस्वरेण व्याहरत्—कृष्णं कृष्णां च नमामि।
सर्वे विस्मिताश्चिन्तयामासु:—कृष्णो दिव्यद्रष्टा, आर्यावर्त्तस्य श्रेष्ठ: पुरुषश्चेति तस्मै ब्राह्मणस्यास्य नमस्कारो युक्तिसङ्गत:। किन्तु, या राजकन्या कृष्णा क्षणात् परमस्य सहधर्मिणी सम्भवेत्, तस्यै नमस्कारस्य किं याथार्थ्यम्? यस्य ब्राह्मणयुवकस्य साधारणमिदं ज्ञानं नास्ति, स: सूक्ष्मायां कौश्लपूर्णायां धनुर्विद्यायां पारङ्गत इत्यस्मिन् विषये मनसि प्रमादोद्रेक: स्वाभाविक:। केचिदप्यसहिष्णवो ब्राह्मणयुवानमुपाहसन्।
तदानीमेव कृष्ण: उच्चैरब्रवीत्—''प्रथमं कृष्णायै नमस्कारेणायं ब्राह्मणयुवक: स्वदिव्यज्ञानं परिचाययति। पणरक्षार्थं यावदयं न समर्थस्तावत् कृष्णा पञ्चालदेशकुमारी राजकन्या च। सम्प्रति त्वियं परनारी। काऽपि किम्भूताऽपि नारी जातिधर्मदेशवयोनिर्विशेषं पुरुषेण वन्दनीया। यतोहि नारी शक्त्यंशजा। शक्तिपूजनं विना वीरस्य विजयोऽसम्भव:। अत: ज्ञानवानयं युवा कृष्णानमस्कारद्वारेण शक्तिमातुर्वन्दनां विदधाति।’’
सर्वे कृष्णस्य व्याख्ययाऽनया सन्तुष्टा:। मम मनस्यपि ज्ञानवन्तं युवानं प्रति श्रद्धा स्वत उत्पन्ना। मनसा चाचिन्तयम्—एनं प्रति कृष्ण इयान् संवेदनशील: किमर्थम्?
सहसाऽऽनन्दकोलाहलकरतालिकाभि: सभास्थलं प्रकम्पितमभूत्। सर्वान् विस्मितान् स्तम्भीभूतान् मन्त्रमुग्धाँश्च कृत्वा विजयी वीरोऽज्ञातब्राह्मणयुवा स्वाभाविकरीत्या दण्डायमान: सर्वेभ्य: पुनर्नमस्कारानज्ञापयत्। पलकमात्रेणैव क्रमश: पञ्चभि: शरैश्चक्रस्थितस्य कनकमीनस्य नयनं भित्त्वा तं भूमिसात्कृतवान् वीरो युवक:स:।
पुनरेकवारमानन्दप्रवाह: समचरत्। सख्योऽर्घ्यपात्रेण सह प्रस्तुता:। शङ्खवेदमन्त्रवाद्यसङ्गीतादीनामेकतानेनाकाशपृथिव्यौ प्रकम्पिते।
वरणमालां धृत्वा मञ्चादवतरितुं मे निर्देश आगत:। किन्तु, अहं तु वृतपूर्वा। बहुदिनेभ्योऽर्जुनाय समर्पिता। अर्जुनभिन्नं वरं कथमहं वरिष्ये।
अनेन मे स्त्रीधर्मो नङ्क्ष्यति। कदाचिदपि न मया चिन्तितं यत्—अर्जुनातिरिक्त: कोऽपि विजयी भवेत्, अहं चास्यां विषमायां परिस्थितौ स्यामिति।
अहं शनैरवोचम्—''भ्रातृ:! अहं पूर्वमर्जुनाय समर्पिता। अद्याहमन्यं पुरुषं कथं वरिष्ये?’’ धृष्टद्युम्न: स्पष्टमाह—''न त्वमर्जुनाय, अपि तु धर्माय समर्पिता। धर्मरक्षार्थं तवाविर्भाव:। पितुर्धर्म एव पुत्र्या धर्म:। पितु: सत्यरक्षार्थं भगवान् श्रीरामचन्द्रो वनवासमङ्गीचक्रे। राजा द्रुपद आर्यावर्त्तस्य श्रेष्ठं वीरं जामातृत्वेन लब्धुमैच्छत्। अद्य एष वीर: पणं पूरयन् तव पुरस्तादुपस्थित:। अत: मा विलम्ब्य पितृसत्यपालनपूर्वकं स्वदुहितृधर्मं रक्ष।’’
अहं मन्ये—धृष्टद्युम्नस्तथ्यं भणति। पितु: सत्यरक्षार्थं यदि मम स्त्रीधर्म: प्रभावितो भवति, तर्हि भवतु। अतस्तदेव करणीयं येन मम स्त्रीधर्मो नश्यतु नाम, पितृधर्म: सुरक्षितोऽस्तु।
वरणमालां धृत्वाऽहमभ्यगच्छम्। तदानीमपश्यम्—कृष्ण: सहास्यवदन: किमपि बलराममिङ्गितेन सूचयन् ब्राह्मणयुवकस्यान्तिके दण्डायमानोऽस्ति। लज्जयाऽहं नतदृष्ट्याऽग्रेसरामि। तस्य विप्रयुवकस्य मुखं द्रष्टुमपि लज्जाऽनुभूयते। युवकस्य सुकोमलचरणयुगले दृष्टिं निधाय वरणमालां समर्पयितुमुद्यता भवामि—तदानीं सखी नितम्बिनी मां मृदु भर्त्सयन्ती मन्द्रस्वरेणोपादिशत्—''किमिदं कुरुषे सखि! कस्य गलायां वरणमालामवलम्बयसि? अयं तु कृष्ण:।’’
अहं लज्जया पश्चात्किञ्चिदपसृता। चकिता चापश्यम्—मत्सम्मुखे चरणचतुष्टयं सर्वत: समानं पद्ममिव चकास्ति। द्वयो: पृथक् जनयो: पदयुगलयोरेतावत् साम्यं कुत:? कौ चरणौ कृष्णस्य, कौ च ब्राह्मणयुवकस्येति मुखमनवलोक्य विज्ञातुं नैव शक्यते। अहं बाध्यतयेवागत्या दृष्टिमुन्नमय्य युवकस्य मुखमण्डलमपश्यम्। जाने, कृष्णस्य नीलकमलसदृशनयनयुगलं मुग्धतया मां पश्यतीव। द्वयोर्मुखमण्डलसङ्घटनायामेकस्यान्यतरात् स्वातन्त्र्यमनुभूतमपि नेत्रद्वन्द्वं पूर्णत: कृष्णस्येव प्रतिभाति युवकस्य। अचिन्तयम्—किमियं कृष्णमाया! मनोऽन्तराले कोऽपि समुपदिशन्निव वदति स्म—''हे कृष्ण! त्वं यदि सर्वेषां हृदि सन्निविष्टस्तर्हि त्वमपि त्वन्मित्रेऽर्जुने, यून्यस्मिँश्च विद्यमानोऽसि। अत: योऽर्जुन: सोऽप्ययं युवा। तयोरन्त:करणे त्वमेव सर्वं कुरुषे कारयसि च। अत:, अहमस्मिन् ब्राह्मणे स्थितमर्जुनं कायमनोवाक्यै: वृणे। अद्यारभ्यायं युवैव मेऽर्जुन:। यो लब्धकृष्णस्नेह:, स एवार्जुन:।’’ मनसा स्थिरीकृतं मया—पतिमनुरोत्स्ये, सोऽद्यारभ्य कृष्णं सखेति सम्बोधयिष्यति।
मम व्रीडावनतं मुखं विलोक्य कृष्णो मृदु हसति। अधुनाहं साधु अस्मरम् यत् कृष्णस्य स्वरूपेऽस्य वीरयुवकस्य किमपि स्वरूपसामञ्जस्यात् प्रथमदर्शनादयं मे परिचित इव लक्ष्यते, मां चाकर्षितवान्। वस्तुत: कृष्णस्य काऽप्यद्भुताकर्षणशक्तिर्विद्यते। तस्य शरीरस्य कस्याप्यंशस्य विलोकनेन संसारस्य समस्तदु:खसन्तापेभ्य: सद्यो मनो विमुच्यते। अत: कृष्णस्य दर्शनेनैवाहं सर्वान् सञ्चितानभिमानान् सहसा विस्मरामि।
मम भावनास्रोत: प्रतिहत्य सामोदमधुरकण्ठमाह श्रीकृष्ण:—''कृष्णे! मूलतोऽयं भ्रमो नोचित:। मुखं मेऽविलोक्य त्वं सम्प्रति मम गलायां वरणमालां समर्पयिष्यसि, अयं चापरिचितो वीरयुवको मुहूर्तेनैव मम प्राणान् निहत्य प्रतिशोधं पूरयिष्यति। कृष्णे! त्वं दूरदर्शिनी, अभितो विलोक्य मार्गातिक्रमस्ते धर्मश्च। तदधुनाऽग्रे पश्य, वीरयुवकं च वृणुष्व। बत, कियन्तञ्चित्कालमयं पुन: सधैर्यं प्रतीक्षताम्।’’
मध्येसभं कृष्णस्यैवं रसिकतयाऽहं किञ्चिद् विमनायमाना क्षणेन वीरयुवकस्य गलायां वरणमालां समर्पितवती। तेन सभास्थलं मन्त्रपाठवाद्यनादैरानन्दकोलाहलैश्च चकम्पे।
अहं चिन्तितवती—सर्वद्वन्द्वानां समाधानमेव सम्पन्नम्। दरिद्रब्राह्मणोऽपि कृष्णस्य श्रद्धाभागिति वीरपुरुषस्यास्य पाणिना स्वपाणिं संयोजयन्ती जीवनपथे निर्द्वन्द्वमग्रेसरिष्यामि। परन्तु, सङ्घर्षं विना जीवनं क्व? पुन:, अग्निकाष्ठयो: सङ्घर्षोत्पन्नात् स्फुलिङ्गात् यस्या जन्म, तस्या जीवनस्यान्यतमविशिष्टाया: घटनाया अस्या: सम्पूर्णता सङ्घर्षं विना कुत: सम्भवेत्?
हठात् पराजिता: कामातुरा राजानो वीरयुवकमाक्रम्य मां बलाद्धर्तुमेकत्रिता उपाद्रावन्। परन्तु, मम पत्यु: दीर्घवपुरग्रजो विशालान् वृक्षानुत्पाद्य मुद्गरानिव तान् चक्राकारेण भ्रामितवान्। येन सर्वे प्राणभयात् पृष्ठभङ्गेनापसृता:। अश्वत्थामदुर्योधनकर्णजरासन्धप्रभृतय: पराजिता: प्रत्यावर्तनसमये मयि, मम शान्ते नम्रे च पत्यौ भीषणां क्रुद्धां च दृष्टिं निक्षिप्य दन्तान् चर्वन्तस्तर्जयन्ति स्म—''अपमानस्यास्य प्रतिशोधोऽवश्यमेकदा परावर्तयिष्यते। प्रतीक्षस्व तावत्।’’
कियत्क्षणात्परं सर्वं शान्तं बभूव। मम पति:, तस्य चत्वारो भ्रातृरश्च मां सहैव नीत्वा तेषां मातृसविधे प्रस्थातुमुद्यता:। तेषां माता एकचक्रिनगरेऽधुनैकाकिनी वर्त्तते। तस्या आशीर्वादोपलब्धे: परं विवाहकार्यं सम्पत्स्यते। अत: पञ्चब्राह्मणभ्रातृभि: सहाहमेकचक्रिनगराय प्रस्थिता। चतुर्णां भ्रातृणां कृते पित्रा पञ्चरथा: प्रस्तुता:। चतुर्षु रथेषु तेषां चतुर्णां, पृथक् अन्यस्मिन् त्वेकस्मिन् रथे मम पत्युर्मम च गमनव्यवस्थां कारयामास पिता सेवकै:।
परन्तु मम पति: प्रत्यवदत्—''वयं भिक्षुकविप्रा: भिक्षामटन्तो जीवनं यापयाम:। पदव्रजेन देशान् भ्रमाम:। अत: पदैरेव निवासस्थानगमनमस्माकमुचितम्। यत: कृष्णा मम सहधर्मिणी भवितुं गच्छति, अत: तस्या अप्यस्माभिरेव सह पद्भ्यां गमनमेव धर्म:। राजकन्या पथश्रान्ताऽवश्यं स्यात्। किन्तु, सत्स्वस्मासु पञ्चसु तस्या: काऽपि विपद् न सम्भविष्यति।’’ अरण्यमार्गे पद्भ्यां चलन्त्या ममावश्यं भूय: कष्टं भविष्यतीति विचार्य धृष्टद्युम्न: किमपि प्रतिवक्तुमिच्छति स्म। किन्तु, अहं सहसाऽवदम्—''भ्रातृ:, सम्प्रत्ययं मे धर्मपालनावसर:। प्रत्येकं नार्या यत्करणीयं, तदपि मया। जनकनन्दिनी सीताऽपि स्त्रीधर्मं पालयित्वा द्वादशवर्षाणि वनवासकष्टं सेहे। अयं तु न मे वनवास:, अपि तु कियत्क्षणात्परमरण्यमार्गेण पतिगृहं प्राप्स्यामि। नैतेन मे विशिष्टं कष्टं स्यात्। यज्ञानलाद् या जाता, साऽऽवश्यकतानुसारेण धर्मरक्षार्थमनलेऽपि प्रवेष्टुं शक्नुयात्। अतोऽनुज्ञायतां मे गमनम्।’’
ममानेन विचारेण सर्वे निरुत्तरा:। अपश्यम्—पितुर्नयनकोणयोर्द्वावश्रुबिन्दू बहुकष्टेनात्मगोपनप्रयासं कुरुत:। पिता प्रायेणेदं मनसि चिन्तयन् दु:खित आसीद् यत्—क्व तस्य कल्पितो जामाता हस्तिनाराजकुमारस्तृतीयपाण्डव: सव्यसाची, क्व च प्रकृतो जामाताऽयमज्ञातकुलशीलो भिक्षुकब्राह्मणयुवक:? मम मनस्यप्यनेन दु:खं नासीदिति न, परन्तु मम दु:खं प्रकाशयन्ती पितरं भ्रातृरं चाधिकतरदु:खितौ कारयितुं नेच्छामि स्म। प्रत्येकं पितराविच्छतो यत् तयो: कन्या सर्वान्त:करणेन सुखिनी स्यात्, श्रेष्ठं पुरुषं च वृणोतु। किन्तु, प्रत्येकं पित्रो: कन्या सुपुरुषं न वृणुते, यदि वा वृणुते, परिपूर्णं सुखमपि नाप्नोति। यस्य दु:खस्य किमपि समाधानं नास्ति, तच्च पित्राधीनं नास्ति, तस्य प्रकाशेन दु:खं दत्त्वा को लाभ:? यस्य दु:खस्य नान्योऽशभाग् भवितुं शक्नोति, भागभाज्यपि तस्मिन् न दु:खस्य लाघवम्, तस्यैव दु:खस्य नीरवसहनेन किमपि महत्त्वं वर्त्तते। अतस्तस्मिन् क्षणे न मया मे दु:खं विभक्तम्। सानन्दं पत्या सहैकचक्रिनगरं गन्तुं प्रवृत्ता। पितरं श्रावयन्ती अवदम्—आर्यावर्त्तस्य श्रेष्ठो वीरो भवतो जामाता स्यादिति भवतोऽभीष्टमासीत्। तदेव सम्पन्नम्। अनेन, सर्वे मुदिता:, अहमपि। सम्प्रति तु भवतामाशीर्वादो मे पाथेय:।
पिता प्रशान्तकण्ठोऽवोचत्—धैर्यपूर्वकं कर्त्तव्यपालनमेव मनुष्यस्य श्रेष्ठो धर्म:। यदा यस्यां भूमिकायामवतरिष्यसि, तदा कर्तव्याद्विमुखा मा स्या:। तदेव हि धर्मरक्षा। यशस्विनी भवेति मे आशिष:।
तदानीं न मया ज्ञातं यत् मम भूमिका मुहुर्मुहु: परिवर्त्तिष्यते, मया वारं वारं रूपान्तरितभूमिकायां विषमकर्तव्यं पालनीयं भवेदिति।
अग्नेऽग्रे ते। आदौ द्वावग्रजौ, ततो द्वावनुजौ, पश्चात् स:, अहं च।
स मम पद्भ्यां स्वपदे मेलयित्वा चलति, यथाऽहं न पतेयम्। अहं गच्छामि श्वश्रूं मिलितुम्। भिक्षुकब्राह्मणपुत्राणां जननी मम परमपूजनीया श्वश्रू:। तस्या: पुरतो राजराजेश्वरीवेषेण ममोपस्थितिरनुचिता स्यात्। तस्या: पुत्रस्य वेषेण सह मम वेषपरिपाट्या असमानतायां सा मां न पविारस्य सदस्यारूपेण, अपितु अतिथिं मन्येत। अत: प्रस्थानात् पूर्वं सर्वानलङ्कारान् निस्सारितवती। केवलं मम नासाग्रस्य हीरकनिर्मितं पुष्पं, हस्तयो: मुक्ताकङ्कणौ मम सधवाश्रियं प्रमाणयन्ति स्म। गलप्रदेशे, पादयो:, भुजयो:, कवरीभारे च शुभ्रपुष्पाणामलङ्कारा अत्यन्तं सुखदायका अन्वभूयन्त। परिहितं मया मेघवर्णकुम्भचित्रिततटशोभितं शुभ्रं वस्त्रम्। स्वाभाविकवेषेण मार्गसञ्चारोऽतिसुखप्रद:। मम पतिर्मां तीर्यगवेक्ष्य मनसा मम रूपं प्रशंसन् प्रतीयते। मल्लाभेन मनसा गर्वमप्यनुभवति। अहमपि तं तीर्यग् विलोक्य विमुग्धा भवामि।
स कामदेव इव सुन्दर:। कृष्ण इव निर्दोषशरीरसंरचन:। दीर्घं कृशं च शरीरम्। प्रशस्तं वक्ष:स्थलम्। निर्मलकमलरम्ये चक्षुषी। हस्तपादा:, करतले, पादयोर्नखा अपि निरवद्या:, स्वतन्त्रेण केनापि सौन्दर्येण मनोरमा:। तन्मुखदर्शनेन तन्मनो दृश्यत इव। प्रथमदर्शनेन प्रतीयते यत्—तस्य हृदयं स्वच्छं विशालं च। उदारतया सहिष्णुतया च स: पृथिव्यामुज्ज्वलदृष्टान्त: सम्भवेदिति तद्दर्शनमात्रेणानुमीयते। तं पतिरूपेण प्राप्याहमात्मानं धन्यं मन्ये। एकस्या नार्या: काम्यानि पुरुषस्य शौर्यसौन्दर्यवीरत्वज्ञानधनादीनि सर्वाणि मया लब्धानि, केवलमैश्वर्यं विहाय।
स्थूलदृष्ट्या प्रतीयते यत् स ऐश्वर्यस्य नैवाधिकारी। किन्तु, सूक्ष्मदृष्ट्या विचारेण ज्ञायते—स सकलैश्वर्यवानिति। पुरुषस्य यावत्सु गुणेषु सत्सु ऐश्वर्यं स्वत आपतति, तावन्त: सर्वे तस्मिन् सन्निहिता:। ईषदिच्छया स: समग्रपृथिव्या अधीश्वर: सम्भविष्यति। सर्वान् राज्ञ: पराजित्य समस्तैश्वर्यस्याधिकारी भवितुं शक्नोति। स्वयंवरस्याद्भुत: पण: येन प्रपूरितस्तस्यैश्वर्यप्राप्तिर्न महती। अथ च स सन्न्यासीव निराडम्बर:, ऋषिरिव ऐश्वर्यं प्रति उदासीन:। अत: स भिक्षुक:। वरं दारिद्र्यं तस्य महत्त्वं विवर्धयति। एतादृशो वीरपुरुषो दरिद्र इतीयं तस्य महानुभवता, नान्यत् किमपि।
अहं मार्गे चलामि, मम पति: पृथिव्या: श्रेष्ठ: पुरुष इति मनसा युक्तिमुद्घाट्य तां च प्रतिपादयामि। प्रायेण मम पत्यु: दारिद्र्यं मां दावयतीति तस्य महानुभवतां विचिन्त्य स्वहृदयं प्रबोधयामि।
अहं क्लान्तिमनुभवामि। अरण्यमार्गे मम कोमलचरणौ विषमीभवत:। चरणाभ्यां कण्टकाघातेन रुधिरं नि:सृत्य अलक्तकधारां स्पृशति। तत: मम पति: रुधिरनिर्गमं न ज्ञातुं प्रभवति। भूयसि कष्टे जायमानेऽपि अशब्दापयन्त्यहं तत् कथमपि सहे। अत: सोऽपि किमपि ज्ञातुं न शक्नोति। मम शरीरस्य स्वेदबिन्दुभि: सिक्तं शुभ्रवसनं विलोक्य पतिर्मृदुस्वरेणापृच्छत्—''अपि भूय: कष्टं शरीरेऽनुभूयते? वस्तुतोऽहं भृशं दु:खित:। भिक्षुकस्य राजकन्यावरणं सर्वथाऽनुचितम्। मत्पूर्वं कोऽप्यन्यो जितवान् स्याच्चेत्, किमर्थं मया लक्ष्यभेद: कृतो भवेत्? वयं तु समागता: राजकन्यास्वयंवरे दानभोजनादिलिप्सया। अथ च राजकन्या लप्स्यत इतीदं विधिविडम्बनातिरिक्तं किमन्यत् स्यात्?’’
अहं स्वभावत: स्वल्पभाषिणी। पुन: स्वल्पपरिचितेन पत्या सह प्रगल्भेवालपितुं कुण्ठामनुभवामि। अहं केवलमेतावदुक्तवती—''यद् विधिनिर्दिष्टं तदेव सत्यम्। अत:, अनृतप्रसङ्गानुशोचनया को लाभ:? वरं यत् सम्पन्नं, तस्मिन्नानन्दस्य प्रासङ्गिकता वर्त्तते।’’
पति: परमस्नेहपूर्णकण्ठेनाब्रवीत्—''द्रुपदराजनन्दिनि! त्वामासाद्याहं धन्य:।’’ ससाध्वसमहमुदतरम्—''इदमपि त्वदर्थं मेऽव्याजप्रतिवचनम्।’’
मध्येमार्गमुपलशकलेन पदयोर्विषमतयाऽहं हठात् पतितुमुद्यता। तत्क्षणात् पति: स्वबाहू प्रसार्य मामरक्षत्। अहं च लज्जयाऽऽत्मानं मोचितवती। सोऽत्यन्तसौजन्यपूर्वकमवोचत्—''देवि! अधुनाऽपि विधिवत्तया न मया ते पाणिर्गृहीत:। मात्राशीर्वादप्राप्ते: परमावयोर्विवाह: सम्पत्स्यते। यदि तेऽनापत्तिस्तन्मे हस्तावलम्बेनेमं दुर्गमं वनमार्गमतिक्रमितुमर्हसि।’’ एतावदुक्त्वा स स्वबलिष्ठं कमनीयं च हस्तं ममाभिमुखं प्रासारयत्। अहं च मम हस्तं तत्करोपरि अस्थापयम्। न्यायतो येनाहं विजिता, तस्मै किमदेयम्?
आवां परस्परं हस्तावलम्बेन मार्गे अचलाव। इदानीमहं वस्तुतोऽनुभूतवती यत् देवी जानकी राजप्रासादस्य सकलं सुखं तृणाय मन्यमाना किमर्थं भगवता रामचन्द्रेण सह वनवासिनी बभूवेति। साऽऽसीद् जगज्जननी देवी। तत: सा निश्चयेन वेद यत् पत्यु: करं धृत्वा वनमार्गेऽपि सञ्चरणेन कियान् रोमाञ्च:, कियती परिपूर्णता, कियाँश्च परमानन्द: इति। तत्सर्वमहमद्य हृदयविषयीकरोमि।
मम हस्तं धृत्वा सञ्चलन् पतिर्जगाद—''श्रुतं मया यद्र्जुनं जामातृत्वेन लब्धुं राज्ञा द्रुपदेनाभिलषितम्। अस्मिन्नपि राजकन्याया: कृष्णाया: सम्मतिरासीत्। किन्तु दौर्भाग्यात् पाण्डवा: पञ्च मृत्युमभजन्त। अन्ततो दरिद्रब्राह्मणमेकं जामातृत्वेन स्वीकर्त्तुं राजा बाध्योऽभवत्। पाञ्चालवासिन: राजकुमारीकृष्णाया: कृते मर्माहता:। अत्र तवापि दु:खं नोदेति किम्?’’
अहमवगतवती—वीरो युवा मां परीक्षितुमिच्छति। मन्मनोऽन्तरालेऽद्यापि अर्जुनं प्रति वर्तमानाया दुर्बलताया: सङ्केत: किमनेनानुमित: कुतश्चित्? किमसावर्जुनायेर्ष्यति? यदि वेर्ष्यति तत: किमस्वाभाविकम्? कामपि सुन्दरामपि मूर्तिं प्रति आकर्षितां स्त्रियं तत्पतिर्नैव सहते। वीरपुरुषस्यास्य मनोगतमाकूतं सर्वमहमवगम्य नि:सङ्कोचमुत्तरितवती—''मन्मनसि दु:खं जायते न मदर्थम्, अपि तु तस्मै। तथाभूतो धर्मवान् वीरपुरुष एवमपमृत्युं भजिष्यत इतीदं सर्वथाऽविश्वस्तमपि घटितम्। तस्यैवं स्वर्गगतिर्नोचिता। मदर्थं कथमहं दोष्यामि? मया सुष्ठु विज्ञातं यदार्यावर्तस्य य: श्रेष्ठो वीर: पणरक्षायै समर्थ: स: अर्जुन एव। एतदपि वेद्मि यत् य: कृष्णस्य श्रद्धास्पद: सोऽर्जुन एव। अत: पतिरूपेण यो मया लब्ध: स मम दृष्ट्या अर्जुनभिन्नो नान्य: कोऽपि। अहं श्रेष्ठं वीरमार्यावर्तस्य प्राप्तवती, स च कृष्णस्य श्रद्धाभागिति किमिदं मिथ्या?’’
मम पतिर्गम्भीरमुखाकृतिरूचिवान्—''श्रूयते, पञ्च पाण्डवभ्रातृर: कृष्णस्य दूरदर्शितया जतुगृहान्मुक्ता जीविताश्च। यदि अर्जुनो जीवित:, स चेत् पुनस्ते द्वारस्थो भवेत्, त्वं किं कुर्या:?’’
अहं मनसाऽऽमुदिता सहजकण्ठेनाभाषे—''एकस्या गृहस्थनार्या यत् कर्तव्यं तदेव सम्पादयिष्यामि। यदि तथाभूत: कोऽपि सुपुरुषो मे द्वारस्थो भवति तर्हि तदातिथ्यमवश्यं सत्करिष्यामि। अतिथिर्नारायण एव। तथाऽकृते सति मे गार्हस्थ्यधर्मो नङ्क्ष्यति। न केवलमेतदपितु मम पत्या सह मित्रतास्थापनाय तमनुरोत्स्ये।’’
—''कथम्’’? स: सविस्मयमपृच्छत्।
अहं सविनयमवदम्—''मद्दृष्ट्या मम पतिरर्जुन एव। सोऽप्यन्य: कोऽप्यर्जुन:। द्वयोरर्जुनयोर्मित्रताप्रतिष्ठा स्वाभाविकी।’’
पतिर्मुदु अहसत्। कोमलतया मम हस्ते ममताया: स्पर्शं विकीर्याह—श्रुतं मया पूर्वं यद् राजनन्दिनी कृष्णा शास्त्रनिपुणा। तदानीं चिन्तितवान् यत् स्त्रीणां शास्त्रनिपुणता नाम शुकसारिकादिवच्छास्त्राणां कण्ठस्थीकरणमात्रम्। किन्तु सम्प्रत्यनुभवामि यत् न केवलं शास्त्राणि त्वया कण्ठस्थीकृतानि, अपि तु आत्मस्थीकृतान्येव। त्वं न केवलं विद्यावती, ज्ञानवत्यपि। अहं त्वत्त: पराजयं स्वीकरोमि।
आवां द्वौ समतालं चलाव:। अन्ये भ्रातृर: किञ्चिद् दूरं गता:। तान् पश्चाद्भागान्निरीक्ष्याहं चिन्तयामि—एतावन्तौ ज्येष्ठौ, कोमलस्वभावौ च देवराववाप्याहं धन्या। भ्रातृषु ज्येष्ठो देव इव सौम्य:, सुशान्त:, सुधीरश्च। दर्शनेन भक्तिर्जागिरिष्यति मनसि। तत्पश्चाद् यश्चलति स यथा रूपवाँस्तथा विशालश्च। तन्निकटे कोऽपि मनुष्य: खर्वो भविष्यति। तं विलोक्य मे मनसि भयमाशङ्का च जायेते। तदनु चलति मम ज्येष्ठो देवर:। सोऽपि रूपवान्। स सर्वदा चञ्चल: प्रसन्नमनाश्च। प्रथमदर्शन एव बन्धुत्वं स्थापयितुमालपितुं चेच्छा भवति। बहुकालादारभ्य समसुखदु:खो यथा कोऽपि मित्रमसौ! सर्वत: पश्चादनुगच्छति कनिष्ठो देवर:। कोमलसौन्दर्येणानुपमा तस्य व्यक्ति:। स्वभावतो लज्जाशील: स्वल्पभाषी च। अनावश्यकतायां मुखं नोद्घाटयति। तं प्रति वात्सल्यममतास्रावेनानन्दानुभूति: ध्रुवम्।
आवां पश्चाद् गच्छाव:, पुन: परस्परं हस्तावलम्बेन। अत: लज्जया सकृदपि स नानुपश्यति। त्वरया पदपातेन लोचनागोचरतां यातुं यथा स व्यग्र:। प्रथमदर्शनात् स मे श्रद्धाभाग् जात:। इच्छाम्यतिकोमलतया समस्तममताझरीभि: स्नेहादरवात्सल्यानि निवेदयितुम्।
ते दृष्टिपथाददृश्या जाता:। मया सह पदं मेलयित्वा चलनात् मम पतिस्तेभ्यो बहुदूरे वर्त्तते। तेन सह चाहम्। मम करो बद्धस्तस्य बलिष्ठहस्तमुष्टिना। निर्जनारण्यमध्ये आवां चलावो यथा कस्यचित् सुखस्य सन्धानाय यन्न कोऽप्यावयोर्जानाति। तथापि सहगमनेनानुभूतादानन्दाद् विरतौ कथं स्याव?
सहसा पति: कवित्वभाषयाऽभणत्—''राजकुमारि! अस्मिन् मुहूर्त्ते किम्प्रकारा इच्छा भवति, जानासि? इच्छामि—अरण्येऽस्मिन् कुत्रचिदावां गुप्तौ भविष्याव:—न कोऽप्यन्विष्यापि नौ प्राप्स्यति। निर्जनतायां सुखलाभस्यान्तरायो न कोऽपि भवेत्।’’
अहं मृदूक्तवती—''अज्ञातवासे रोमाञ्चोऽस्तीति सत्यम्, परन्तु पृथिव्यामात्मगोपनेन वीरस्य यश:क्षयो भवति। दुष्टसंहार एव वीरजीवनस्य धर्म:।’’ पती रसिकतयोवाच—''अरण्येऽज्ञातवासे प्रतिपदं दुष्टसंहार: कर्त्तुमपेक्ष्यते। हिंस्रजन्तूनां संहारं विना अरण्ये जीवनधारणमसम्भवम्।’’
अहं शान्त्यागदम्—''अरण्यस्य दुष्टपशूनामपेक्षया मनुष्याणां दुष्ट: स्वभावो भयङ्करतर:। जीवनधारणाय पशु: जीवहत्यां कुरुते। परन्तु अहङ्कारसंस्थापनार्थं मनुष्यो मनुष्यं हन्ति। अतोऽस्यां पृथिव्यां धर्मरक्षार्थं वीरस्य जन्म। आर्यपुत्र! भवतो वीरता पृथिवीमात्र एकैव सान्त्वना। यतोहि देशमातृका स्ववीरप्रसविनीत्वेन गर्वमनुभवति।’’ पतिर्मम हस्तं धृत्वा कण्टकितलताकुञ्जतले प्रवहन्त्या निर्झरिण्या धारामतिक्रामयन् धीरमुवाद—''जीवने यदि कदाचिद् वनवासो युज्यते, ततो न दु:खम्। यतोहि त्वं निकटे भविष्यसि, अरण्येऽपि धर्मरक्षार्थं प्रेरणां प्रदास्यसीति।’’